Table of Contents
Devanagari Version
श्रीमद्वाग्भटविरचितम्
अष्टाङ्गहृदयम्
श्रीमदरुणदत्तविरचितया 'सर्वाङ्गसुन्दराख्या' व्याख्यया हेमाद्रिप्रणीतया 'आयुर्वेदरसायनाह्वया' टीकया च समुल्लसितम्
सूत्रस्थानम् - १२. दोषभेदीयाध्यायः
Only Moolashloka
पूर्वस्मिन्नध्याये बहुवक्तव्यत्वाद्दोषभेदो नोक्त इत्याह – – – –
अथातो दोषभेदीयाध्यायं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः|
(गद्यसूत्रे||२||
स०-दोषाणां भेदो-दोषभेदः, स्थाननामविभागादिभिः| तस्मै हितो दोषभेदीयः| शेषं पूर्ववत्|
आ० र०- दोषभेदीयमध्यायं व्याख्यातुं प्रतिजानीतेअथेति| यतः पूर्वाध्याये दोषवैषम्यमुक्तम्| तच्च दोषभेदाद्बहुधा भिद्यते| दोषभेदज्ञानार्थमयमध्यायः| अत एवायं दोषभेदीयः | तद्भेदश्च स्थानकर्मावस्थाहेत्वाकृतिसाधनसंयोगभेदद्भवति| तत्र स्थानतो यथा-पक्वाशयस्थोऽगं वायुः कटिस्थोऽयम्| कर्मतो यथा,-श्वासोच्छ्वा सप्रवतकोऽयं विण्मूत्रप्रवर्तकोऽयम्|अवस्थातो यथा,-चितोऽयं प्रकुपितोऽयम्| हेतुतो यथा,-मिथ्यायोगप्रकुपितोऽयम्, अतियोगप्रकुपितोऽयम्| आकृतितो यथा,-स्त्रंसलक्षणोऽयं व्यासलक्षणोऽयम्| साधनतो यथा,-स्निग्धो पशयोऽयम्,उष्णोपशयोऽयम्| संयोगतो यथा,-पित्तयुक्तोऽयं श्लेष्मयुक्तोऽयमिति| एवं पित्तादिष्वपि|
पक्वाशयकटीसक्थिश्रोत्रास्थिस्पर्शनेन्द्रियम्|
स्थानं वातस्य, तत्रापि पक्वाधानं विशेषतः||१||
स०-पक्वाशयादि वातस्य स्थानम्| तत्रापि षड्विधे स्थाने विशेषेण पक्वाधानं स्यात्| अन्नं पक्वमाधीयते-स्थाप्यतेऽस्मिन्निति पक्वाधानं,-पक्वाशयः| अत एव वाते बस्तिरुपक्रमः प्रधान उक्तः, मूलापकर्षणात्| सकलशरीरव्यापित्वेऽप्येषामिदं विशेषेणोक्तम्| तथा च प्रागध्यगीष्ट (हृ. सू. अ. १|७) – “ते व्यापिनोऽपि हृन्नाभ्योः” इति| विचित्रगतित्वाच्चैषां वक्ष्यमाणप्राणादिभेदेन पृथक् स्थानकर्मनिर्देशः|
आ० र०- तत्रादौ स्थानतो भेदः| स्थानं द्विधा,-सामान्यं विशिष्टं च| तत्रादौ सामान्यम्| तत्र वायोः स्थानमाह-पक्वाशयेति| पक्वाशयो-नाभेरधः पक्वान्नस्थानम्| कटी-श्रोणिः| सक्थि-वङ्क्षणाद्यङ्गुष्ठान्तम्| श्रोत्रंकर्णः| स्पर्शनेन्द्रियं-त्वक्| तत्र-तेषु स्थानेषु मध्ये, पक्वाधानं-पक्वाशयो, विशेषतः स्थानम्|
नाभिरामाशयः स्वेदो लसीका रुधिरं रसः|
दृक् स्पर्शनं च पित्तस्य, नाभिरत्र विशेषतः||२||
स०-पित्तस्य नाभ्यादीनि स्थानानि| लसीका-जलसदृशी| दृक्-चक्षुः| स्पर्शनं-त्वक्| ननु, स्पर्शनेन्द्रियं वायोः स्थानमुद्दिष्टम्| तदेव कथं पित्तस्यापि स्यात्| ब्रूमः| वातसखित्वादग्नेः| वातसखो ह्यग्निः, पित्तं च वह्निरिति वचनात्| तस्मादुभयोरप्येतद्युक्तं स्थानम्| विशेषत इति| अत्र-एषु स्थानेषु मध्ये, पित्तस्य विशेषेण नाभिः स्थानम्|
आ० र०- पित्तस्याह-नाभिरिति| आमाशयो-नाभेरूर्ध्वपक्वान्नस्थानम्| “लसीका-स्याग्रसमलो जलप्रायस्त्वगाश्रयः”| द्दक्-चक्षुः| स्पर्शनं-त्वक्| अत्र-एषु स्थानेषुमध्ये, नाभिर्विशेषतः स्थानम्|
उरःकण्ठशिरःक्लोमपर्वाण्यामाशयो रसः|
मेदो घ्राणं च जिह्वा च कफस्य, सुत्रामुरः||३||
स०-कफस्योरः प्रभृतीनि जिह्वान्तानि स्थानानि| सुतरां-सुष्ठु स्थानमुरो-वक्षः|
आ० र०- कफस्याह-उर इति| उरो-वक्षः| क्लोमोदकवाहिस्त्रोतोमूल, हृद्दक्षिणतो मांसग्रन्थिः| पर्वाणिसन्धयः| घ्राणं-नासा| एषु मध्ये उरो विशेषतः स्थानम्|
अथ प्रत्येकमेतेषां दोषाणां विशिष्टस्थानाश्रयेण क्रियाभेदात् पञ्च पञ्च भेदानाह – – – –
प्राणादिभेदात्पञ्चात्मा वायुः——————|
———————————————|४|
स०-वायुरेक एव चलनस्वभावः सन् प्राणादिभिः-प्राणोदानव्यानसमानापानैः, भेदात्-विशेषात्, पञ्चात्मा-पञ्चस्वभावः| यथैकोऽपि देवदत्तो यां यां क्रियां करोति तदनुरूपामेव संज्ञां लावकपाचकादिकां लभते, तद्वद्वातादयः|
आ० र०- अथ विशिष्टस्थानं कर्म च, सामान्यकर्मण उत्साहादेः पूर्वाध्याये निर्दिष्टत्वात्| तत्र वायोर्विशेषमाहप्राणादिभेदादिति| प्राणादयः-प्राणोदानव्यानसमानापानाः| पञ्चात्मा-पञ्चविशेषः|
—————————प्राणोऽत्र मूर्धगः|
उरःकण्ठचरो बुद्धिहृदयेन्द्रियचित्तधृक्||४||
ष्ठीवनक्षवथूद्गारनिःश्वासान्नप्रवेशकृत्|
———————————————-|५|
स०-अत्र-एषु मध्ये, प्राणो वायुर्मूर्धगः-शिरसि स्थितः, उरः कण्ठं च चरति| तथा, बुद्ध्यादीनां धारकः| तथा, ष्ठीवनादिक्रियः| ष्ठीवनं- मुखस्रावोद्गारः| ष्ठीवनमिति “ष्ठीवेर्ल्युटि ष्ठीविसिव्योर्दीर्घश्च” इति पृषोदरादिपाठाद्दीर्घः|
आ० र०- प्राणस्य स्थानकर्माण्याह-प्राणोऽत्रेति| प्राणस्यमूर्धाऽवस्थितिस्थानम्| उरः कण्ठश्च विचरणस्थानम्| बुद्धयादिधारणं ष्ठीवनादिकरणं च कर्म| हृदयं-मनोऽधिष्ठानम्| चित्तं-मनः| इन्द्रियाणि-चक्षुरादीनि|
——————————————–|
उरः स्थानमुदानस्य नासानाभिगलांश्चरेत्||५||
वाक्प्रवृत्तिप्रयत्नोर्जाबलवर्णस्मृतिक्रियः|
—————————————–|६|
स०-उदानस्य प्रधानमुरः स्थानम्, नासादींश्च चरति| वाक्प्रवृत्त्यादिक्रियः| प्रयत्नः-कार्येषु पदार्थग्रहणादिषूद्यमः|
आ० र०- उदानस्य स्थानकर्माण्याह-उरः स्थानमिति| उदानस्योरोऽवस्थितिस्थानम्| नासादि विचरणस्थानम्| वाक्प्रवृत्त्यादिकं कर्म| प्रयत्नः-उत्साहः| ऊर्जा-प्राणनम्|
————————————————-|
व्यानो हृदि स्थितः कृत्स्नदेहचारी महाजवः||६||
गत्यपक्षेपणोत्क्षेपनिमेषोन्मेषणादिकाः|
प्रायः सर्वाः क्रियास्तस्मिन् प्रतिबद्धाः शरीरिणाम्||७||
स०-व्यानो हृदये स्थितः प्राधान्येन कृत्स्ने-सर्वस्मिन्, शरीरे चरति| तथा, महाजवः-शीघ्रगतिः, प्राणाद्यपेक्षया| तथा, गत्यादिकाः क्रियाः प्रायः सर्वदेहिनां तस्मिन्-व्याने, प्रतिबद्धाः-तदायत्ताः| गतिः-चङ्क्रमणम्| अपक्षेपणं-अङ्गस्याधोअनयनम्| उत्क्षेपः- अङ्गस्योर्ध्वनयनम्| निमेषः-अक्ष्णोर्निमीलनम्| उन्मेषः-तयोर्विकासः| आदिग्रहणेन जृम्भणान्नास्वादनविशोधनादिपरिग्रहः|
आ० र०- व्यानस्याह-व्यान इति| व्यानस्य हृदयमवस्थितिस्थानम्| सर्वशरीरं विचरणस्थानम्| गयादयः सकलाः क्रियाः कर्म| अपक्षेपणं-अङ्गस्याधोनयनम्| उत्क्षेपणं-ऊर्ध्वनयनम्| तस्मिन्प्रतिबद्धाः-तदेकनिष्पाद्याः| महाजवः-प्राणादिभ्यो वेगवान्|
समानोऽग्निसमीपस्थः कोष्ठो चरति सर्वतः|
अन्नं गृह्णाति पचति विवेचयति मुञ्चति||८||
स०-समानो वायुरग्निसमीपस्थः| सामान्योक्तावपि प्राधान्यात्पाचकोऽग्निर्गृह्यते| अत एवाह-कोष्ठे चरति सर्वत इत्यादि| सर्वस्मिन् कोष्ठे चरति| स चान्नं गृह्णाति-अपक्वमामाशये धारयतीत्यर्थः| पचति-अग्निसन्धुक्षणाद्भक्तकार इव| विवेचयति-संहतमन्नं पाकाय विभजते| मुञ्चति-शकृन्मूत्रादिरूपमधः|
आ० र०- समानस्याह-समान इति| समानस्याग्निसमीपमवस्थितिस्थानम्| सर्वकोष्ठो विचरणस्थानम्| अन्नस्य ग्रहणं, गृहीत्वा पाचनं, पक्त्वा सारकिट्टदिवेचनं, विविच्य किट्टावमोचनं च कर्म| अग्निसमीपं अग्निस्थानस्य ग्रहण्याख्यस्य अग्न्यनवरुद्धोऽवकाशः|
अपानोऽपानगः श्रोणिबस्तिमेढ्रोरुगोचरः|
शुक्रार्तवशकृन्मूत्रगर्भनिष्क्रमणक्रियः||९||
स०-अपानो वायुरपानं प्राधान्येनाश्रितः, श्रोण्यादिचरः, शुक्रादिनिष्क्रमणक्रियः| इति वातभेदाः पञ्च|
आ० र०- अपानस्याह-अपान इति| अपानस्यापानंगुदमवस्थितिस्थानम्| श्रोण्यादि विचरणस्थानम्| शुक्रादिनिष्क्रमणं कर्म| बस्तिः-मूत्राशयः| मेढ्रं-मूत्रमार्गः| गोचरो-विचरणविषयः|
पञ्च पित्तभेदानाह – – – –
पित्तं पञ्चात्मकम्—————————|
————————————————-|१०|
स०-पाचकरञ्जकसाधकालोचकभ्राजकभेदाः पञ्च पित्तस्य|
आ० र०- पित्ताविशेषानाह-पित्तमिति| पाचकरञ्जकसाधकालोचकभ्राजकभेदात् पञ्चधा पित्तम्|
——————–तत्र पक्वामाशयमध्यगम्|
पञ्चभूतात्मकत्वेऽपि यत्तैजसगुणोदयात्||१०||
त्यक्तद्रवत्वं पाकादिकर्मणाऽनलशब्दितम्|
पचत्यन्नं विभजते सारकिट्टौ पृथक् तथा||११||
तत्रस्थमेव पित्तानां शेषाणामप्यनुग्रहम्|
करोति बलदानेन पाचकं नाम तत्स्मृतम्||१२||
स०-तत्र-तेषु पञ्चसु मध्ये, पक्वामाशययोर्मध्यस्थं यत्पित्तं तथा पञ्चभूतात्मकत्वेऽपि सति यत्तैजसगुणोदयात्-आग्नेयगुणोत्कर्षात्, क्षपितसोमगुणत्वेन त्यक्तद्रवत्वं-सञ्जातकाठिन्यम्, तथा सहकारिकारणैः पाचनक्रियां प्रति सव्यापारैर्वाय्वादिभिरनुग्रहादुपकारात् यतः पाकदाहादिक्रिययाऽनलशब्दितं-अग्निशब्दवाच्यं यत्पित्तं तत्पाचकमुच्यते| तच्चान्नं पचति| सारकिट्टौ पृथग् विभजते-विभागीकरोति| किट्टशब्दस्य लोकाश्रयत्वाल्लिङ्गस्येति पुंस्त्वम्| तत्रस्थमेव-पक्वामाशयमध्यगमेव, शेषाणां-रञ्जकादीनां धातुस्थानां च, अनुग्रहं-उपकारं करोति| बलदानेन-सामर्थ्याधानेन, स्वस्थानस्थमेव तेषूपकुरुत इत्यर्थः|
आ० र०- पाचकस्य स्थानकर्माण्याह-तत्रेति| पाचकस्यपक्वामाशयमध्यं-ग्रहण्याख्यं स्थानम्| अन्नस्य पचनं, पक्त्वा सारकिट्टविभागो, रञ्जकादिचतुष्टयानुग्रहश्च कर्म| कीद्दशं तत् ? यत्पञ्चभूतात्मकत्वे सत्यापि तेजोभूतगुणाधिक्यात्यक्तद्रवत्वम्| तथा, पाकादीनामग्निकार्याणां करणादनलसंज्ञयोक्तम्| एतेन पाचकापेक्षया अग्निपित्तयोरभेदः, रजकाद्यपेक्षया भेद इति मतद्वयं व्यवस्थापितम्| तत्रस्थंस्वस्थानस्थम्|
आमाशयाश्रयं पित्तं रञ्जकं रसरञ्जनात्|
————————————————-|१३|
स०-यत्त्वामाशयस्थं पित्तं तद्रसाख्यधातो रञ्जनात्रागनिष्पादनात्, रञ्जकमुच्यते|
आ० र०- रञ्जकस्याह-आमाशयाश्रयमिति| रञ्चकत्यामाशयः स्थानम्| रसरञ्जनं कर्म|
————————————————-|
बुद्धिमेधाभिमानाद्यैरभिप्रेतार्थसाधनात्||१३||
साधकं हृद्गतं पित्तं—————————|
————————————————-|१४|
स०-यत्तु हृद्गतं-हृदयस्थं पित्तं तद्बुद्ध्यादिभिः करण्भूतैरभिप्रेतस्यार्थस्य बाह्यग्रहणस्मरणादिरूपेण साधनात् साधकमुच्यते| वर्तमानकाले या मनोर्थसंशयस्य निश्चयं कर्तुं तदर्थाध्यवसायोपारूढा सा-बुद्धिः| बुद्धिविशेषो-मेधा|
आ० र०- साधकस्याह-बुद्धीति| साधकस्य हृदयं स्थानम्| बुद्धयादिद्वारेणाभीष्टार्थसाधनं कर्म| अभिमानः-अहङ्कारः|
————————रूपालोचनतः स्मृतम्|
दृक्स्थमालोचकं—————————-|१४|
स०-दृष्टिस्थं पित्तं रूपालोचनात् (नतः)-अन्तस्तारकयोः स्थितं तदायत्तरूपग्रहणशक्तित्वात्, आलोचकमुच्यते|
आ० र०- आलोचकास्याह-रूपालोचनत इति| आलोचकस्य द्दक्-द्दष्टिः स्थानम्| रूपालोचनं कर्म|
————————————————-|
——————त्वक्स्थं भ्राजकं भ्राजनात्त्वचः||१४||
स०-त्वचो भ्राजनात्-दीपनात्, भ्राजकं नाम पित्तम्| एतच्च पित्तमभ्यङ्गलेपपरिषेकादीन् पाचयति|
आ० र०– भ्राजकस्याह-त्वक्स्थमिति| भ्राजकस्य त्वक्स्थानम्| त्वचो भ्राजनं-प्रकाशनं, कर्म| सङ्ग्रहे तु (सू. अ. २०) – ” तदभ्यङ्गपरिषेकालेपादीन् पाचयति ” इत्युक्तम्|
श्लेष्मा तु पञ्चधा———————–|
————————————————-|१५|
स०-श्लेष्मा तु पञ्चधा,-पञ्चप्रकारः|
आ० र०- श्लेष्मविशेषानाह-श्लेष्मेति| अवलम्बकल्के दकबोधकतर्पकश्लेषकभेदात् पञ्चाधा शेष्मा|
तदेव पञ्चप्रकारत्वमाह – – – –
—————उरःस्थः स त्रिकस्य स्ववीर्यतः|
हृदयस्यान्नवीर्याच्च तत्स्थ एवाम्बुकर्मणा||१५||
कफधाम्नां च शेषाणां यत्करोत्यबलम्बनम्|
अतोऽवलम्बकः श्लेष्मा———————|१६|
स०-सः-श्लेष्मा, उरसि तिष्ठतीत्युरःस्थः, त्रिकस्य-पृष्ठाधा(ध)राख्यस्य, स्ववीर्यतः-स्वप्रभावात्, यत्-यस्मात्, अवलम्बनं करोति-स्वकर्मणि तस्य सामर्थ्यमुत्पादयति| हृदयस्यान्नवीर्यात्-अन्नवीर्येणाभ्यवहृतादन्नाद्रसरूपतापरिणतात् तद्वीर्येण-तद्बलेनावलम्बनं करोति| चशब्दात् स्ववीर्येणापि हृदयस्यावलम्बनं करोति| किन्त्वन्नवीर्यादतिशयेन यथाऽवलम्बनं हृदयस्य करोति न तथा स्ववीर्यतः| यतोऽन्नरसः पूर्वं हृदि स्थितिं कृत्वा ततो व्यानविक्षिप्तः सर्वं शरीरं याति, तस्माद्विशेषेण हृदयस्यान्नवीर्यादवलम्बनं युक्तम्| आगमोऽपि-“हृदयं मनसः स्थानमोजसाश्चिन्तितस्य च| मांसपेशीचयो रक्तपद्माकारमधोमुखम्|| योगिनो यत्र पश्यन्ति सम्यग् ज्योतिः समाहिताः| रसो यः स्वच्छतां यातः स तत्रैवावतिष्ठते|| ततो व्यानेन विक्षिप्तः कृत्स्नं देहः प्रपद्यते|” इति| तथा, तत्स्थ एव-उरःस्थ एव, एष श्लेष्मा शेषाणां कफस्थानानामम्बुकर्मणा-क्लेदसंश्लेषादिलक्षणेन जलव्यापारेण, अवलम्बनं करोति| अतः-अस्माद्यथोक्ताद्धेतोः, अवलम्बकः श्लेष्मेत्युच्यते|
आ० र० अवलम्बकस्य स्थानकर्माण्याह-उरःस्थ इति| अवलम्बकस्य उरः स्थानम्| त्रिकाद्यवलम्बनं कर्म| त्रिकस्यपृष्ठाधारस्य, स्ववीर्यतः-आत्मप्रभावेण, अवलम्बनं करोति| हृदयस्यान्नवीर्यात्, चकारास्त्ववीर्याच्च| हृदयावलम्बनेऽन्नवीर्यं सहकारि, “आत्मवीर्येण अन्नरससहितेन” इति सुश्रुतवचनात् (सू. अ. २१/१४)| तत्स्थ एव शेषाणां-कण्ठादीनाम्, कफधाग्नां-कफस्थानानाम्, अम्बुकर्मणा-जलव्यापारेण क्लेदनतर्पणपूरणादिना, अवलम्बनं करोति| केचित्तु बाहुग्रीवास्थित्रयसङ्घातं त्रिकमाहुः| तदसत्| त्रिकशब्दस्य पृष्ठवंशाधर एव रूढत्वात्| रूढिस्तुयोगाद्वलीयसी| आसन्नत्वं चाप्रयोजकम्, दवीयसामपि कफाधाग्न्नामवलम्बनोक्तेः|
—————————यस्त्वामाशयसंस्थितः||१६||
क्लेदकः सोऽन्नसङ्घातक्लेदनात्———————|
————————————————-|१७|
स०-यः पुनः श्लेष्मा आमाशये स्थितः, स क्लेदक इत्युच्यते| कुतः ? अन्नसङ्घातक्लेदनात्कारणात्|
आ० र०- क्लेदकस्याह-यस्त्विति| क्लेदकस्यामाशयः स्थानम्| अन्नसङ्घातक्लेदनं कर्म|
——————————–रसबोधनात्|
बोधको रसनास्थायी————————|१७|
स०-रसनास्थायी-जिह्वास्थो, बोधक इत्युच्यते, रसबोधनात् कारणात्|
आ० र०- बोधकस्याह-रसबोधनादिति| बोधकस्य रसना-जिह्णेन्द्रियं स्थाणम्| रसबोधनं कर्म|
————————————————-|
———————शिरःसंस्थोऽक्षतर्पणात्||१७||
तर्पकः————————————–|
————————————————-|१८|
स०-शिरःस्थस्तर्पक इत्युच्यते, अक्षतर्पणाद्वेतोः|
आ० र०- तर्पकस्याह-शिरः संस्थ इति| तर्पकस्य शिरःस्थानम्| इन्द्रियतर्पणं कर्म|
————सन्धिसंश्लेषाच्छ्लेषकः सन्धिषु स्थितः|
————————————————-|१८|
स०-सन्धिषु स्थितः श्लेष्मा श्लेषक इत्युच्यते, सन्धिसंश्लेषात् कारणात्|
आ० र०- श्लेषकस्याह-सन्धिसंश्लेषादिति| श्लेषकस्यसन्धयः स्थानम्| सन्धिसंश्लेषणं कर्म|
एवं दोषाणां स्थानान्युक्त्वोपसंहरन्नाह – – – –
————————————————-|
इति प्रायेण दोषाणां स्थानान्यविकृतात्मनाम्||१८||
व्यापिनामपि जानीयात्कर्माणि च पृथक्पृथक्|
————————————————-|१९|
स०-प्रायेण-बाहुल्येन, दोषाणामविकृतात्मनां-अप्रच्युतस्वभावानाम्, इति-उक्तप्रकाराणि, स्थानानि व्यापिनामपि-सकलशरीरचराणामपि, जानीयात्| वैद्य इति शेषः| तथा, कर्माणि पृथक्पृथक्-प्रत्येकं कृत्वा, जानीयात्|
आ० र०- प्रकरणार्थमुपसंहरति-इति प्रायेणेति| प्रायेण-बाहुल्येन, यद्यपि सर्वशरीरव्यापिनस्तथाऽप्येषु स्थानेष्वतिशयेन तीष्ठन्तीत्यर्थः| अविकृतामनां-अप्रच्युतस्वभावानाम्, विकृतात्मनां तु न स्थाननियमः| इति स्थानकर्मप्रकरणम्|
विकृतिरेषां वृद्धिः क्षयश्च|
वृद्धिरपि द्विविधा,-चयप्रकोपभेदेन|
दोषादिविज्ञानीये सामान्येन वृद्धिक्षयलक्षणमुक्तम्|
सम्प्रति चयप्रकोपरूपं वृद्धिनिदानं सङ्क्षेपेण सूचयन्नाह – – – – –
————————————————–|
उष्णेन युक्ता रूक्षाद्या वायोः कुर्वन्ति सञ्चयम्||१९||
शीतेन कोपमुष्णेन शमं स्निग्धादयो गुणाः|
————————————————-|२०|
स०-उष्णेन गुणेन विरुद्धेनोपहिता रूक्षादयः-प्रथमाध्यायोक्ताः (श्लो. ११) षड्वातगुणाः, वायोश्चयं कुर्वन्ति, न कोपमुष्णस्य विरुद्धत्वात्| त एव च रूक्षादयः शीतगुणोपहितास्तत्सदृशत्वाद्वायोः कोपं कुर्वन्ति| उष्णेन युक्ताः स्निग्धादयो गुणा वायोः शमं कुर्वन्ति, विपरीतत्वात्|
आ० र०- अथावस्था| सा च द्वेधा,-साम्यं वैषम्यं च| वैषम्यं द्वेधा,क्षयो वृद्धिश्च| वृद्धिर्द्वेधा चयप्रकोपभेदेन| क्षयोवृद्धिर्द्वेधा,- चयप्रकोपभेदेन| चयप्रकोपक्षयसाम्यभेदाच्चतस्त्रोऽवस्थाः| तत्र क्षयसाम्येप्रशमश्ब्देनोत्पात्ते निष्पाद्यमानस्य प्रशमस्य क्षयरूपत्वात् निष्पन्नस्य साम्यरूपत्वात् प्रशमहेतूनां प्रमादातियोगे पुनः क्षयरूपत्वात् , क्षयहेतूनामपि प्रशमहेतूनां प्रमादातियोगे पुनः क्षयरूपत्वात्, क्षयहेतूनामपि प्रशमशब्दत्वाच्च| तत्र चयादिनिदानम्| तत्र वायोराह- उष्णेनेति| उष्णेन गुणेन युक्ता रुक्शादयो वायो: सञ्चयं कुर्वन्ति, त एव शीतेन युक्ताः कोपम्| उष्णेन युक्ताः स्निग्धाः शमं कुर्वते|
————————————————-|
शीतेन युक्तास्तीक्ष्णाद्याश्चयं पित्तस्य कुर्वते||२०||
उष्णेन कोपं, मन्दाद्याः शमं शीतोपसंहिताः|
————————————————-|२१|
स०-एवं पित्तस्य शीतेन गुणेन युक्तास्तीक्ष्णादयो गुणाश्चयं कुर्वन्ति| त एव तीक्ष्णादयो गुणा उष्णेन सहिताः कोपं कुर्वन्ति| मन्दादयो गुणाः शीतगुणयुक्ताः शमं कुर्वन्ति, विपरीतत्वात्|
आ० र०- पित्तस्याह-शीतेनेति गुणेन युक्तास्तीक्ष्णाद्याः पित्तस्य चयं कुर्वते, त एव उष्णेन युक्ताः कोपम्| शीतेन युक्ताः मन्दाद्याः शमं कुर्वते|
————————————————-|
शीतेन युक्ताः स्निग्धाद्याः कुर्वते श्लेष्मणश्चयम्||२१||
उष्णेन कोपं, तेनैव गुणा रूक्षादयः शमम्|
————————————————-|२२|
स०-शीतगुणोपहिताः स्निग्धादयः कफस्य चयं कुर्वते| उष्णेन युक्तास्त एव स्निग्धादयः कफस्य कोपं कुर्वते| तेनैव-उष्णेन, युक्ता रूक्षादयः कफस्य च शमं कुर्वन्ति| कफस्य हि शीतगुणेन सदृशेनापि स्निग्धादिगुणयुक्तेन स्त्यानत्वाच्चयः स्यात्| विपरीतेनोष्णेन विलयनात् कोपः| स एवोष्णो यदा रूक्षादियुक्तो भवति तदा विपरीतत्वात् शमो भवति|
आ० र०- कफस्याह-शीतेनेति| शीतेनयुक्ताः स्निग्धाद्याः कफस्य चयं कुर्वते, त एवोष्णेन युक्ताः कोपम्| तेन-उष्णेन सहिता रूक्षादयो गुणाः शमं कुर्वते|
इदानीं चयादीनां लक्षणान्याह – – – –
—————————————————–|
चयो वृद्धिः स्वधाम्न्येव प्रद्वेषो वृद्धिहेतुषु||२२||
विपरीतगुणेच्छा च——————————–|
————————————————-|२३|
स०-स्वधाम्नीये स्थाने दोषस्य या वृद्धिः स चय उच्यते| चितस्य दोषस्य लिङ्गमाह-प्रद्वेष इत्यादि| यदा हि वातश्चितो भवति तदा रूक्षादिषु तद्गुणसामान्येषु प्रद्वेषः स्यात्| तद्विपरीतगुणेषु स्निग्धादिष्वभिलाषः स्यात्| एवं कफपित्तयोश्चितयोर्व्याख्येयम्| ननु, “प्रद्वेषो वृद्धिहेतुषु” इत्येकमेव लक्षणं दोषचयसत्तानुमापकं कर्तुं न्याय्यम्| यदि वा “विपरीतगुणेच्छा च” इत्येतत्| किं द्वयोरूपादानेन ? अत्रोच्यते| कदाचिदचितोऽपि दोषो वाताख्यः स्वप्रमाणस्थः क्षीणो वा यस्य स वातवृद्धिहेतून् रूक्षादीन्न द्वेष्टि, अपि तु तानिच्छति, सात्म्यवशात्| यथा,-गर्भिणी स्त्री दोहदवशात्| तदेवं व्यभिचारदर्शनात्| प्रदोषो वृद्धिहेतुषु” “विपरीतगुणेच्छा च” इति द्वयमपि कर्तव्यम्| तेन यदा तुल्यकालं पुरुषस्य वातसमानगुणेषु तद्वृद्धिहेतुषु प्रद्वेषो जायते, वातगुणप्रतिपक्षेषु तत्क्षपणहेतुषु चाभिलाषः, तदा सम्यक् निश्चीयते वातस्योपचितिः, इति द्वयमप्येतदुक्तम्|
आ० र०- अथ चयादिलक्षणम्| तत्र चयं लक्षयतिचयो वृद्धिरिति| दोषस्य वृद्धिः-चयः| सा च प्रथमं स्वधान्न्येव भवति| यावानेवाशयः सञ्चारवता दोषेण व्यात्प्स्तावानेव निःसञ्चारेण व्याप्यते, स च संहतिरूपत्वात् सञ्चयाख्यः| यदा सर्व एवाशयो व्याप्यते तदा वृद्धिहेतुषु-समानगुणेषु प्रद्वेष उत्पद्यते, स प्रकोपप्रारम्भरूपत्त्वात् प्रकोपाख्यः| ततः परस्याशयम् उत्पाशयं प्रविशति तदा विपरीतगुणेच्छा, चकारात्समानगुणेषु द्वेषश्च| स प्रसररूपत्वात् प्रसराख्यः|
———————————-कोपस्तून्मार्गगामिता|
लिङ्गानां दर्शनं स्वेषामस्वास्थ्यं रोगसम्भवः||२३||
स्वस्थानस्थस्य समता विकारासम्भवः शमः|
————————————————-|२४|
स०-उन्मार्गगामिता-स्वस्थानं त्यक्त्वा दोषस्य यत् पुनर्मार्गान्तरगमनम्, स कोप इत्युच्यते| कोपस्य तु लिङ्गमाह-लिङ्गानां स्वेषां यथायथं दर्शनं-उद्भवः| वातादीनां कुपितानां यानि लिङ्गानि दोषादिविज्ञानीयेऽभिहितानि वातव्याधिनिदाने च वक्ष्यन्ते, तेषां लक्षणानामुपलब्धिः, [ वैद्येनातुरेण च| यत्तत् कोपस्य लिङ्गम्| तथा, अस्वास्थ्यं-उत्पित्सुरोगेच्छया सामान्येन देहमनोभिभूतत्वम्| तथा, रोगस्य-ज्वरादेः, सम्भवो-जन्म| ननु, “लिङ्गानां दर्शनं स्वेषाम्” “अस्वास्थ्यम्” “रोगसम्भवः” इति किं त्रितयमुद्दिष्टम् ? एकेनैव दोषकोपावगमादेकमेवोपदेष्टुं युक्तम्| नैवम्| व्यभिचारदर्शनात्| तथा हि वक्ष्यति पाण्डुरोगचिकित्सिते (श्लो. ४६)- “रूक्षशीतगुरुस्वादुव्यायामबलनिग्रहैः| कफसम्मूर्च्छितो वायुर्यदा पित्तं बहिः क्षिपेत्||” इत्यारभ्य यावत् “पित्ते शाखासमाश्रिते|” इति| तदेवमेषः कामलाख्यो रोगः पित्तलिङ्गदर्शनादपि न पित्तस्य कोपमनुपयाति| अत एव पित्तप्रकोपकरं भृशाम्लतीक्ष्णकटुकादि चिकित्सितमत्र निर्दिष्टम्| अस्वास्थ्यमित्येतदपि न दोषकोपस्य निश्चितं लिङ्गम्| तथा हि-मानसेनापि भयशोकादिनाऽस्वास्थ्यं दृश्यते| तथा, आगन्तवोऽपि रोगा दोषकोपमन्तरेणैवोत्पद्यमाना दृश्यन्ते| तस्माद्रोगसम्भवादपि दोषकोपोऽयमनिश्चितः| तदेवं लक्षणत्रितयेनैवानेन दोषकोपो निश्चेतुं शक्यत इति त्रितयमप्येतद्वक्तव्यम्|
स्वस्थानस्थस्येत्यादि| स्वस्थानं-यथोद्दिष्टं पक्वाशयादि| स्वस्थानावस्थितस्यैव वातादिदोषस्य या समता-स्वप्रमाणत्वम्, विकारस्य-रोगस्य, असम्भवः-अनुत्पत्तिः, स शम उच्यते|
आ० र०- कोपं लक्षयति- कोपस्त्विति| उन्मार्गगामिता-स्वमार्गादन्येन मार्गेण गमनम्,-कोपः| तत्र यदा प्रथमं स्थानिनमभिभूय अन्यस्थानव्याप्तिस्तदा स्वेषां लिङ्गानां-रौक्ष्यादीनां दर्शनम्, स समन्तादन्यस्थानाश्रयणात् स्थानसंश्रयाख्यः| ततो विकुर्वाणो ज्वरादिरूपेणाभिव्यज्यते तदा अस्वास्थ्यं-प्रकृत्यन्यथात्वम्, स रोगरूपेणाभिव्यक्तत्वात् व्यक्त्याख्यः| ततस्तमेव रोगमवस्थान्तराण्यनुभवन्ननुबन्धाति तदा रोगसम्भवः| सम्भवं-दीर्घकालानुवर्तनमिति यावत्| सोऽवस्थाभेदरूपत्वात् भेदाख्यः| एताश्च षडवस्थाः सुश्रुतेन स्पष्टमुक्ताः (सू. अ. २१/३६) – “सञ्चयं चप्रकोपं चप्रसरं स्थानसंश्रयम्| व्यक्तिं भेदं च यो वेत्ति दोषाणां स भवेद्भिषक्||” तत्प्रयोजनं च ” सञ्चयेऽपहृता दोषा लभन्ते नोत्तरा गतीः| ते तूत्तरासु गतिषु भवन्ति बलवत्तराः|” इति|
प्रशमं लक्षयति-स्वस्थानस्थस्येति| स्वस्थानस्थत्वं समत्वमविकृतत्वं चेति मिलितं प्रशमलक्षणम्| रसवर्णस्पर्शाद्यन्यत्वं-विकारः|
|इदानीं वातादीनां चयप्रकोपप्रशमा यस्मिन् काले जायन्ते तं दर्शयन्नाह -]
————————————————-|
चयप्रकोपप्रशमा वायोर्ग्रीष्मादिषु त्रिषु||२४||
वर्षादिषु तु पित्तस्य, श्लेष्मणः शिशिरादिषु|
————————————————-|२५|
स०-वातस्य ग्रीष्मादिषु त्रिषु यथासङ्ख्यं चयप्रकोपप्रशमा जायन्ते| ग्रीष्मे वायोश्चयः, वर्षासु प्रकोपः, शरदि प्रशम इति| एवमग्रेऽपि योज्यम्| वर्षादिष्वित्यादि| अत्रापि त्रिष्विति वर्तते| वर्शाशरद्धेमन्तेषु त्रिषु पित्तस्य चयप्रकोपप्रशमा भवन्ति| तथा, शिशिरादिषु त्रिषु-शिशिरवसन्तग्रीष्मेषु, श्लेष्मणश्चयप्रकोपप्रशमा भवन्ति|
आ० र०- चयादीनां कालमाह-चयप्रकोपप्रशमा इति| वायोर्ग्रीष्मे चयः, वर्षासु प्रकोपः, शरदि प्रशमः| पित्तस्य तु वर्षासु चयः, शरदि प्रशमः| पित्तस्य तु वर्षासु चयः, शरदि प्रकोपः हेमन्ते प्रशमः| श्लेष्मणः शिशिरे चयः, वसन्ते प्रकोपः, ग्रीष्मे प्रशमः|
ननु मरुतो ग्रीष्मे चयो न युक्तः, यतस्तस्मिन्काले लघुरूक्षा ओषधयो भवन्ति|
तथा, वर्षासु पित्तचयो न युक्तः, जलानामोषधीनां चाम्लपाकत्वात्|
तथा, श्लेष्मणः शिशिरे चयो न युक्तः, तदा ह्याप ओषधयश्च स्निग्धा भवन्ति कालश्च शीतः|
इति कोप एवोपपन्नः|
इत्यस्मिन् पर्यनुयोग इदमाह – – – –
———————————————————–|
चीयते लघुरूक्षाभिरोषधीभिः समीरणः||२५||
तद्विधस्तद्विधे देहे कालस्यौष्ण्यान्न कुप्यति|
अद्भिरम्लविपाकाभिरोषधीभिश्च तादृशम्||२६||
पित्तं याति चयं कोपं न तु कालस्य शैत्यतः|
चीयते स्निग्धशीताभिरुदकौषधिभिः कफः||२७||
तुल्येऽपि काले देहे च स्कन्नत्वान्न प्रकुप्यति|
———————————————————|२८|
स०-ग्रीष्मकाले वातो लघुरूक्षाभिरोषधीभिर्देहे चादानकालस्वाभाव्यात्तद्विधे-लघुरूक्षे, तद्विधो-लघुरूक्षः, समीरण इति समानगुणत्वात् पवनस्य कोपः प्राप्तः, स निषिध्यते “कालस्यौष्ण्यात्” इत्यनेन एवं पित्तस्य वर्षासु कोपः, “न तु कालस्य शैत्यः” इत्यनेन निषिध्यते |
आ० र०- कालनियमे युक्तिमाह-चीयत इति| ग्रीष्म आहारस्य देहस्य च लघुरूक्षत्वे करोति| ताभ्यांम्लघुरूक्षो वायुश्चीयते, न तु कुप्याति, उष्णेन प्रतिबद्धत्वात्| वर्षाकाल आहारस्याम्लविपाकत्वं करोति| तेनाम्लविपाकं पित्तं चीयते, न तु कुप्याति, शीतेन प्रतिबद्धत्वात्| शिशिर आहारस्य देहस्य च स्निग्धशीतत्वे करोति| ताभ्यां स्निग्धशीतः कफश्चीयते, न तु कुप्यति, शीतेन घृतवद्धनीभूतत्वात्|
———————————————————|
इति कालस्वभावोऽयमाहारादिवशात्पुनः||२८||
चयादीन् यान्ति सद्योऽपि दोषाः कालेऽपि वा न तु|
———————————————————|२९|
स०-इति-पूर्वोक्तः, अयं-वाय्वादिचयादिः, कालस्य स्वभावः| आहारादिवशात्-अन्नपानसामर्थ्यात्, पुनर्दोषाः सद्योऽपि-तत्क्षणादेव कालमनपेक्ष्यैव, चयादीन्-चयप्रकोपप्रशमान् यान्ति| तस्मादेव चाहारादिवशात् यथास्वं चयादिकालेऽपि वा दोषा न तु चयादीन् यान्ति| तस्मात् कालादाहारादीनां प्राधान्यमित्यर्थः|आहारादीत्यत्रादिशब्देन रसायनवाजीकरणवमनविरेचनादयो गृह्यन्ते|
आ० र०- कालादाहारादीनां बलवत्वमाह-इतीति| आदिशब्देन विहारो देशश्च| सद्योऽपि-स्वकालं विनाऽपि,यान्ति| स्वकालेऽपि न यान्ति|
एवं दोषाणां चयादीन् प्रदर्श्य, व्याप्तिनिवृत्तिवैचित्र्यं कोपजं दर्शयितुमाह – – – –
———————————————————|
व्याप्नोति सहसा देहमापादतलमस्तकम्||२९||
निवर्तते तु कुपितो मलोऽल्पाल्पं जलौघवत्|
———————————————————|३०|
स०-मलः कुपितः सहसा-शीघ्ह्रमेव, आपादतलमस्तकं व्याप्नोति,-पादतलादारभ्य यावन्मस्तकमित्यर्थः| आङ्मर्यादाभिविध्योर्बिभक्त्यर्थेऽव्ययीभावः| निवर्तते पुनरल्पाल्पं-स्तोकं स्तोकमिति| जलौघवत्-यथा गिरिनद्यादीनां जलपूरः समविषमं सहसैव व्याप्नोति, निवर्तते तु स्तोकं स्तोकमिति|
आ० र०- प्रकोपप्रशमयोः क्षिप्रचिरनिष्पाद्यत्वामाहव्यान्पोतीति| सहसा-वेगेन| मलो-दोषः| अल्पाल्पं चिरेण| जलौघवत्-नदीपूरवत्| स हि वेगेन वर्धते चिरेण हसते|
ननु, प्रतिरोगं निदानलक्षणचिकित्सितमानन्त्याद्वक्तुमशक्यम्|
तच्चाविदन्न कश्चिदत्र तथा यत्नं कुर्यादित्याशङ्क्याह – – – –
———————————————————|
नानारूपैरसङ्ख्येयैर्विकारैः कुपिता मलाः||३०||
तापयन्ति तनुं तस्मात्तद्धेत्वाकृतिसाधनम्|
शक्यं नैकैकशो वक्तुमतः सामान्यमुच्यते||३१||
स०-यत्तदोर्नित्यसम्बन्धात् यस्मादिति लभ्यते| यस्मान्नानारूपैः-अनेकप्रकारैः, असङ्ख्येयैः-गणनां समतीतैः, विकारैः-ज्वरादिभिः, मला-वातपित्तश्लेष्माणः, कुपितास्तनुं-देहं, तापयन्ति-दुःखयन्ति| तस्मात्तद्धेत्वाकृतिसाधनं शक्यं नैकैकशो वक्तुं-अयमस्य विकारस्य हेतुरियमाकृतिरिदं लक्षणमिदमस्य साधनं-चिकित्सितमिति| अतः सामान्यमुच्यते|
आ० र०- अथ हेतुः| तद्विशेषाणां निःशेषं निरूपथितुमशक्यत्वात्सामान्यं वाच्यम्| तदेवाह-नानारूपैरिति| विकाराणामसङ्खयत्वं प्रतिविकारं च रूपाणाम्| अतस्तधेत्वादि प्रकृतिविकारं वक्तुमशक्यम्, साधारणं तूच्यते|
अत्रैव हेत्वन्तरमाह – – – –
दोषा एव हि सर्वेषां रोगाणामेककारणम्|
यथा पक्षी परिपतन् सर्वतः सर्वमप्यहः||३२||
छायामत्येति नात्मीयां यथा वा कृत्स्नमप्यदः|
विकारजातं विविधं त्रीन् गुणान्नातिवर्तते||३३||
तथा स्वधातुवैषम्यनिमित्तमपि सर्वदा|
विकारजातं त्रीन्दोषाण्———————–|३४|
स०-सर्वेषां रोगाणां यस्माद्दोषा एवैककारणम्| एकं-प्रधानं च तत्कारणं-निमित्तमेककारणम्| यदि वा सर्वेषां रोगाणां दोषा एकं-तुल्यं कारणम्, समानं कारणमित्यर्थः| एवशब्दोऽवधारणार्थः| दोषा एव कारणम्, नापरं किञ्चिद्वस्तुजातम्| अत्र दृष्टान्तमाह-यथेत्यादि| पक्षी-प्राचिकादिः, यथा सर्वतः-समन्तात्, परिपतन्-भ्रमन्, सर्वमप्यहः-सकलमपि दिवसम्, आत्मीयां छायां नात्येति-नातिक्रामति, तया विना क्षणमप्यसौ नोपलभ्यत इत्यर्थः| तथा अन्यदपि निदर्शनमाह-यथा वेत्यादि| यथा वा कृत्स्नं-निरवशेषम्, एतद्विकारजातं-स्थावरजङ्गमादिभेदभिन्नं जरायुजाण्डजादिभेदभिन्नं वा, विविधं-नानाप्रकारं, त्रीन् गुणान्-सत्त्वरजस्तमःसंज्ञान्, नातिवर्तते-नात्येति, त्रिभिरेतैर्विरहितं न जातुचिद्भवतीत्यर्थः| तथा स्वधात्वित्यादि| धातवो-दोषधातुमलाः शरीरधारणसामान्यात्, तेषां वैषम्यं-स्वलक्षणतोऽन्यथात्वम्, स्वधातुवैषम्यं निमित्तं यस्य तद्विकारजातं त्रीन् दोषानातिक्रामति, त्रिदोषरहितं न सम्भवतीत्यर्थः| धातुवैषम्यं च प्रतिरोगमन्यादृशत्वान्नानाविधम्| यत्तु येन धातुवैषम्येण जन्यते, तत्तस्य स्वं-स्वीयं भवति| येषां तु रोगाणां देवग्रहादि निमित्तं न तेषु तथा दोषानुबन्धः, आगन्तुकत्वात्| आगन्तुकनिजयोर्ह्ययमेव भेदः,-यदागन्तुकेषु प्रथमं रोगोद्भूतिः पश्चाद्दोषानुबन्धः, निजेषु प्राग्दोषानुबन्ध इति| ये तु व्याचक्षते,-स्वे च ते धातवश्च तेषां वैषम्यमिति| तेषां नायमर्थः प्रतिपादितः स्यात्| स्वग्रहणं चातिरिच्यते| यतः शरीरान्तरावस्थायिनो दोषा वातादयः शरीरान्तरे रोगं जनयितुं नालम्| तस्मात्पूर्वमेव व्याख्यानं श्रेयः|
आ० र०- तत्र दोषहेतुरेव साधारणो रोगहेतुः| तत्र युक्तिमाह-दोषा एवेति| दोषा एव कारणम्, दोषाः कारणमेवेत्येवैकशब्दाभ्यामुच्यते| अत्रार्थे दृष्टान्रद्वयम्, यथा पक्षी देशभेदेऽपि छायासम्बन्धं न त्यजति, तथा विकारो दोषसम्बन्धम्| यथा च महदादिपृथिव्यन्तं कार्यं गुणसम्बन्धं न त्यजति|
किं दोषजमेव दोषसम्बन्धं न त्यजति ? नेत्याह-तथेति| स्वधातुर्वैषम्यनिमित्तमिति यो धातुर्यस्य रोगस्याधिष्ठानस्वेनोक्तः स तस्य स्वधातुः तस्य वैषम्यं-क्षयो वृद्धिर्विकृतत्वमुन्मार्गत्वं वा तन्निमित्तं यस्य तत्तथा| रसजादीनामपि दोषैर्विना नोत्पतिः|
———————————————————|
—————————-तेषां कोपे तु कारणम्||३४||
अर्थैरसात्म्यैः संयोगः कालः कर्म च दुष्कृतम्|
हीनातिमिथ्यायोगेन भिद्यते तत्पुनस्त्रिधा||३५||
स०-तेषां-वातादीनां, कोपे कारणम्,-असात्म्यैः-अनुचितैः, अर्थैः-शब्दस्पर्शरूपरसगन्धाख्यैः, श्रोत्रत्वक्चक्षूरसनघ्ह्राणाख्यानामिन्द्रियाणां यः संयोगः, तथा कालः-शीतोष्णवर्षालक्षणो दुष्टः, तथा कर्म-चैहिकमन्यजन्मजं च, यद् दुष्कृतं-अशुभम्, एतत्त्रयं तेषां दोषाणां कोपे हेतुः| तुशब्दः समुच्चये| न केवलं रूक्षादयो वातादीनां कोपे कारणम्, यावदसात्म्येन्द्रियार्थसंयोगादिरपि| एतच्च (तत्)- पूर्वोक्तं दोषकोपकारणमसात्म्येन्द्रियार्थसंयोगादिभेदेन त्रिधा भिन्नमपि, पुनः-भूयः, त्रिधा-त्रिप्रकारं, भिद्यते| कथम् ? हीनातिमिथ्यायोगभेदेन|
आ० र०- दोषकोपहेतुमाह-तेषामिति| स च त्रिविधः,-असात्म्याविषयसेवा दुष्कालो दुष्कर्म चेति| सोऽपि प्रत्येकं त्रिविधः,-हीनयोगोऽतियोगो मिथ्यायोगश्चेति|
तानेव हीनातिमिथ्यायोगान् दर्शयन्नाह – – – –
हीनोऽर्थेनेन्द्रियस्याल्पः संयोगः स्वेन नैव वा|
अतियोगोऽतिसंसर्गः, सूक्ष्मभासुरभैरवम्||३६||
अत्यासन्नातिदूरस्थं विप्रियं विकृतादि च|
यदक्ष्णा वीक्ष्यते रूपं मिथ्यायोगः स दारुणः||३७||
एवमत्युच्चपूत्यादीनिन्द्रियार्थान् यथायथम्|
विद्यात्——————————————–|३८|
स०-अर्थेन-शब्दादिना, स्वेनेन्द्रियस्य-श्रोत्रादेः, अल्पो यः संयोगः स हीनः-हीनयोगः| नैव वेति| अथवा सर्वसर्विकया तेनार्थेन न संयोगः, सोऽपि हीनयोगः| तस्यैवेन्द्रियस्य स्वेनार्थेन योऽतिसंसर्गः-अतिसेवालक्षणः, स तस्य स्वेनार्थेनातियोगः| तथा, सूक्ष्मभासुरभैरवमित्यादि यदक्ष्णा वीक्ष्यते-नयनेनालोक्यते, स तस्य चक्षुरिन्द्रियस्य स्वेनार्थेन मिथ्यायोगः| एवमनया दिशा सूक्ष्मभासुरभैरवम्, तथा अत्यासन्नातिदूरस्थं विप्रियं विकृतादि च यदक्ष्णा रूपं वीक्ष्यते, स दारुणो मिथ्यायोगः, तिमिरादिहेतुत्वात्| एवं-अनया चक्षुषो रीत्या, अन्यानपीन्द्रियार्थान् यथास्वमिन्द्रियाणामत्युच्चपूत्यादीन् मिथ्यायोगरूपान् विद्यात्| यदाऽत्युच्चपरुषेष्टविनाशभीषणाद्यनिष्टः शब्दः श्रोत्रेन्द्रियेण गृह्यते, तदा श्रोत्रेन्द्रियस्य स्वेनार्थेन शब्दाख्येन मिथ्यायोगः| यदा पूतिविष्ठाद्यनिष्टो गन्धो घ्राणेन्द्रियेण गृह्यते, तदा घ्राणेन्द्रियस्य स्वेनार्थेन गन्धाख्येन मिथ्यायोगः| यदा स्नानानुलेपनादीनां शीतोष्णादीनां च स्पृश्यानामक्रमसेवनेन स्पर्शः स्पर्शनेन्द्रियेण गृह्यते, तदा स्पर्शनेन्द्रियस्य स्वेनार्थेन स्पर्शाख्येन मिथ्यायोगः| तथा, रसनेन्द्रियेण यो रसोऽपरिपाट्या युज्यते, तथाऽपथ्यद्रव्यनिविष्टोऽपि यो रसो रसनेन्द्रियेण गृह्यते, स तस्य रसनेन्द्रियस्य स्वेन रसाख्येनार्थेन मिथ्यायोगः|
आ० र०- तत्रासात्म्यविषयसेवायास्त्रैविध्यं लक्षयतिहीनोऽर्थेनिति| इन्द्रियस्य-चक्षुरादेः, स्वेनार्थेन-रूपादिना, अल्पः संयोगो नैव वा योगो-हीनयोगः, विषयोत्कण्ठाया अनिवृत्तिर्हीनत्वमित्यर्थः| उत्कण्ठानिवृत्तावपि सेवनं-अतियोगः| सूक्ष्मादिरूपसेवा, अत्युच्चादिशब्दसेवा, पूत्यादिगन्धसेवा, अत्यम्लादिरससेवा, अतिशीतादिस्पर्शसेवा च, मिथ्यायोगः| भासुरं-अतिदीप्तम्| भैरवं-भयङ्करम्| विप्रियं-द्विष्टम्|
कालस्तु शीतोष्णवर्षाभेदात्त्रिधा मतः||३८||
स हीनो हीनशीतादिरतियोगोऽतिलक्षणः|
मिथ्यायोगस्तु निर्दिष्टो विपरीतस्वलक्षणः|
———————————————————||३९||
स०-कालः पुनः शीतोष्णवर्षाभेदेन त्रिधा-त्रिप्रकारो मतो मुनीनाम्| तत्र हेमन्तशिशिरलक्षणः-शीतः| उष्णो-वसन्तग्रीष्मलक्षणः| प्रावृट्शरल्लक्षणो-वर्षाख्यः| स च कालो हीनशीतादिर्हिनयोगलक्षणः| अतियोगोऽतिमात्रयोगलक्षणः| विपरीतं स्वं-शीतोष्णवर्षाख्यं, लक्षणं यस्य कालस्य, स विपरीतस्वलक्षणो मिथ्यायोगः| गुणगुणिनोरभेदोपचारात् काल एवमुच्यते| तत्र यथा,-हेमन्ते शीतस्याल्पत्वं हीनो योगः, तस्मिन्नेव हेमन्तेऽतिशैत्यमतियोगः, तस्मिन्नेव हेमन्त औष्ण्यं मिथ्यायोगः| उपलक्षणं चेदम्| एवं शरद्वसन्तयोरपि यन्मन्दवर्षोष्णत्वं स्वलक्षणं तद्यदा हीनतरं स्यात्, सोऽपि हीनयोगः| एवमतियोगा (गमिथ्या) योगयोरपि योज्यम्|
आ० र०- दुष्कालस्य त्रैविध्यं लक्ष्यति-कालस्तु शीतोष्णवर्षाभेदादिति| शीतोष्णवर्षाभेदान्त्रिविधस्य कालस्य शीतादीनामल्पत्वं-हीनयोगः, आधिक्यं-अतियोगः, वैपरीत्यंमिथ्यायोगः|
कायवाक्चित्तभेदेन कर्मापि विभजेत्त्रिधा|
कायादिकर्मणो हीना प्रवृत्तिर्हीनसंज्ञकः||४०||
अतियोगोऽतिवृत्तिस्तु, वेगोदीरणधारणम्|
विषमाङ्गक्रियारम्भपतनस्खलनादिकम्||४१||
भाषणं सामिभुक्तस्य रागद्वेषभयादि च|
कर्म प्राणातिपातादि दशधा यच्च निन्दितम्||४२||
मिथ्यायोगः समस्तोऽसाविह वाऽमुत्र वा कृतम्|
———————————————————|४३|
स०-यथा कालस्त्रिधा निरूपितः, तथा कर्मापि कायवाक्चित्तभेदेन त्रिप्रकारं विभजेत्| तत्र कायकर्मणस्तथा वाक्कर्मणस्तथा चित्तकर्मणो हीना या प्रवृत्तिः स हीनसंज्ञको योगः| अतिप्रवृत्तिस्त्वतियोगः| कायादिकर्मणो मिथ्यायोगमधिकृत्याह-वेगोदीरणेत्यादि| “वेगोदीरणधारणम्” इत्यारभ्य यावत् “पतनस्खलनादिकम्” यदेतत् कायिकं कर्म, तस्य कर्मण एवंरूपस्य या प्रवृत्तिः स कायकर्मणो मिथ्यायोगः| विषमाङ्गैः क्रिया-कर्म, विषम आरम्भः-उभयलोकविरुद्धः, तथा, विषमपतनम्, विषमस्खलनम्, आदिशब्देन विषमगमनादीनां ग्रहणम्| सामिभुक्तस्य-अर्धभुक्तस्य, यद्भाषणं-जल्पनम्, एवंरूपा या प्रवृत्तिः स वाक्कर्मणो मिथ्यायोगः| रागद्वेषभयादि यदेतन्मानसं कर्म, तस्य कर्मण एवंरूपा या प्रवृत्तिः स चित्तकर्मणो मिथ्यायोगः| तथा, दिनचर्याध्यायोक्तं यत्प्राणातिपातादि दशधा-दशप्रकारं, कर्म निन्दितं-अशुभं निर्दिष्टं “हिंसास्तेय” इत्यादिना ग्रन्थेन, तच्च यथायथं कायवाक्चित्तानां कर्मणां मिथ्यायोगः| समस्तोऽसाविह वाऽमुत्र वा कृतं-अस्मिन् लोके कृतमन्यत्र वा लोके कृतं-आचरितं सर्वमेवं मिथ्यायोगः|
आ० र०- दुष्कर्मणस्त्रैविध्यं लक्ष्यति-कायवाकचित्तभेदेनेति| कायिकवाचिकमानसभेदान्त्रिदिधस्य कर्मणः प्रवृ त्तेरल्पत्वं-हीनयोगः, आधिक्यं-अतियोगः, वेगोदीरणादि रूपत्वं-मिथ्यायोगः| धरणं-वेगधारणम्| विषमैः-दुस्थितैरङ्गैः, क्रियाः-चेष्टाया आरम्भः| सामिभुक्तस्य भाषणंअर्द्धभोजने मौनत्यागः| प्राणातिपातादि-हिंसादि,”हिंसास्तेयान्यथाकामम्” इत्यादिना दिनचर्यायामुक्तम् (श्लो. २१)| इह-अस्मिन् जन्मनि| अमुत्र-प्राग्जन्मनि| सङ्ग्रहे तु (सू. अ. २२) – “त एतेऽतियोगादयः सामान्यतोऽनुपशयलक्षणाः| सर्वो वा प्रज्ञापराध एवायं यदेषामक्विवर्जनम्| अथ कर्मकालाः पुनः सम्यग्योगेनोपशयाद्भूयिष्ठं स्वास्थ्यहेतवः| तत्रापि रसवर्ज्या विषया यथायथमिन्द्रियं बाधन्तेऽनुगृहन्ति च| शेषा रसकर्मकालस्तुसर्वं देहम्| अपि च| सर्वभावानां भावाभावौ नान्तरेण योगातियोगादीन् व्यवस्येत्| सर्वेषां पुनार्विकाराणां निदानदोषदूष्यनिविशेषेभ्यो भावाभावविशेषा भवन्ति| यदा ह्येते त्रयो निदानादिविशेषा नान्योन्यमनुबन्धन्तीषद्वाऽनुदन्धत्यबला वा न तदाऽभिनिर्वर्तन्ते वा| विपर्ययेण विपरीताः| तथाऽन्यः प्रधान एव रोगोऽन्यस्य प्रधानस्य हेतुर्भवति| यथा, ज्वरो रक्तपित्तस्य, रक्तपित्तं वा ज्वरस्य, तौ श्वासस्य प्लीहा जठरस्य, ते श्वयथोः, अर्शांसि गुल्मोदरतीसारग्रहणीनाम् प्रतिश्यायः कासज्वरयोः, तौ क्षयस्य, क्षयः शोषस्य| एकश्चापचारो निमित्तमेकस्यव्याधेः, बहूनां च तथा बहवः| तद्वदेकं लिङ्गम्| एवमेव प्रशमेऽभ्युपायः तथा स एवान्यस्य प्रकोपे| तस्मात्तानवहितः सम्यगागमादिभिः परीक्षेत| तत्रागमतो रोगमेकैकमेवंप्रकोपणमेवयोनिमेवमात्मानमेवमधिष्ठानमेवंवेदनमेवंशब्दरूपगन्धस्पर्शरसमेवपूर्वरूपमेवमुपद्रवमेवंवृद्धिस्थानक्षयान्वितमेवमुदकर्मेवंनामानमंनामानम्| तस्मिन्नियं प्रतीकारस्य प्रवृत्तिरथवा निवृत्तिः प्रत्यक्षतस्त्वातुरस्य यथास्वमिन्द्रियैर्वणेसंस्थानप्रमाणोपचयच्छायाविण्मूत्रच्छर्दितादिकमन्त्रकूजनमङ्गुल्फादिसादिस्फटनं देहे शकृह्रणादिगन्धं शीतोष्णस्तम्भस्पन्दन श्लक्ष्णखास्पर्शं च प्रकृतित्रिकृतियुक्तम्| आस्यरसं तु प्रश्नेन, तथा सुच्छर्ददु च्छर्दत्वं मृदुक्रूरकोष्ठतां स्वप्नदर्शनमभिप्रायं जन्मामयप्रवृत्तिनक्षत्रं द्विष्टेष्टसुखदुःखानि च| तथा वयः प्रत्यक्षेण च| अनुमाननस्तु यूकापसर्पणेन शरीरवैरस्यम्, मक्षिकोपसर्पणेन माधुर्यम्, तथाऽग्निं जरणशक्त्या, बलं व्यायामशक्त्या गूढलिङ्गं व्याधिमुपशयानुपशयतः, दोषप्रमाणमपचारविशेषेण, आयुषः क्षयं रिष्टैः, प्रकृतिसत्वासारसत्मवललान्युशीलनेनेति| भवन्ति चात्र| ज्ञानबुद्धि प्रदीपेन यो नाविशति योगवित्| आतुरस्यान्तरात्मानं न सरोगांश्चिकित्सति|| द्वाविमौ व्याधितौ व्याधिस्वरूपस्या प्रकाशकौ| तद्यथैको गुरुव्याधिः सत्त्वदेहबलाश्रयात्|| लघुव्याधिवदाभाति लघुव्याधिस्त्वतोऽन्यथा| बाह्यावय व मात्रेण तयोर्मुह्यति बालिशः|| ततोऽल्पवीर्यं वा विपरीतमतो~थवा| पथ्यं विपर्यये युञ्जन् प्राणान् मुष्णाति रोगिणां|| ज्ञानांशेन न हि ज्ञानं कृत्स्ने ज्ञेये प्रवर्तते| बुभुस्तेत भिषक् तस्मात्तत्वं तन्त्रानुशीलनात्|| अभियुक्तस्तु सततं सर्वमालोच्य सर्वथा| न जातु स्खलति प्राज्ञो विषमे अपिक्रियापथे|| आगन्तुरन्वेति निजं विकारं निजस्तयाऽऽगन्तुमतिप्रवृर्द्धः| तत्रानुबन्धं प्रकृतिं च सम्यक् ज्ञात्वा ततः कर्म समारभेत||” इति|
———————————————————|
निदानमेतद्दोषाणां, कुपितास्तेन नैकधा||४३||
कुर्वन्ति विविधान् व्याधीन् शाखाकोष्ठास्थिसन्धिषु|
———————————————————|४४|
स०-निदानमेतद्दोषाणां ‘कोपे’ इति वाक्यशेषः| कुपितास्तेन-निदानेन, नैकधा| किं तर्हि ? अनेकप्रकारेण, व्याधीन् विविधान्-नानाप्रकारान् कुर्वन्ति| कुपिता दोषा इति वचन (विभक्ति) विपरिणामेन सम्बन्धः| क्व व्याधीन् कुर्वन्ति ? इत्याह-शाखेत्यादि| शाखाश्च कोष्ठश्चास्थीनि च सन्धयश्च तेषु|
आ० र०- दोषहेतुमुपसंहरति-निदानमेतदिति|
दोषहेतो रोगहेतुत्वमाह-कुपितास्तेनेति| तेन-निदानेन| नैकया विविधानिति हेत्वानन्त्यात् कोपानन्त्यम्| तस्माद्रोगानत्यम्| दोषा एव कारणगित्युक्तम्| तन्निर्वाहार्थमाह-शाखाकोष्ठास्थिसन्धिष्विति| शाखादीनामाधारत्वम्, न कारणत्वम्|
शाखेति किमुच्यते|
इत्याह – – – –
———————————————————|
शाखा रक्तादयस्त्वक् च बाह्यरोगायनं हि तत्||४४||
तदाश्रया मषव्यङ्गगण्डालज्यर्बुदादयः|
बहिर्भागाश्च दुर्नामगुल्मशोफादयो गदाः||४५||
स०-शाखा रक्तादयः षड्धातवस्त्वक् च| तद्बाह्यरोगायनं,-बाह्यानां रोगाणामयनं-स्थानम्| हिशब्दो यस्मादर्थे| यस्माद्बाह्यानां रोगाणामयनम्, अतस्तदाश्रया मषव्यङ्गादयो रोगा बहिर्भागा उच्यते| आदिशब्देन विसर्पविद्रध्यादीनां परिग्रहः| दुर्नामेत्यादि| बहिर्भागाश्चेत्यत्र च शब्दो भिन्नक्रमः, शोफादय इत्यस्मादनन्तरं द्रष्टव्यः| दुर्नामगुल्मशोफादयश्च बहिर्भागा इत्यर्थः|
आ० र०- तत्र शाखां व्याचष्टे-शाखेति| रक्तादयोधातवस्त्वक् च-शाखा| सा च बाह्यरोगायनं,-बहिर्मार्गो रोगाणाम्| ते च रोगा मषादयः| मषव्यङ्गौ-क्षुद्ररोगेषु| गण्डालजी-मुखरोगेषु| बहिर्भागा इति दुर्नामादीनां विशेषणमन्तर्भागनिवृत्त्यर्थम्|
अन्तःकोष्ठो महास्रोत आमपक्वाशयाश्रयः|
तत्स्थानाः च्छर्द्यतीसारकासश्वासोदरज्वराः||४६||
अन्तर्भागं च शोफार्शोगुल्मवीसर्पविद्रधि|
———————————————————|४७|
स०-कोष्ठः कथ्यते अन्तः, तथा महास्रोतः, तथा आमपक्वाशयाश्रयः| तत्स्थानाः-अन्तर्भागाश्रयाः च्छर्द्यादयो रोगाः| न केवलमेते एव छर्द्यादयोऽन्तर्भागाश्रया यावच्छोफार्शोगुल्मवीसर्पविद्रध्यादीनां अन्तर्भागत्वं च| शोफादीनां विद्रध्यन्तानां समाहारद्वन्द्वनिर्देशेनैव सम्बन्धः|
आ० र०- कोष्ठं व्याचष्टे-अन्तःकोष्ठ इति| अन्तःअन्तर्मार्गो रोगाणाम्| महास्त्रोतो-महाविवरम्| आमाशयो-यत्राममन्नं तिष्ठति| पक्वाशयो-यत्र पक्वम्| तत्स्थानाः-कोष्ठाश्रिताः| अन्तर्भागमिति शोफादीनां विशेषणं बहिर्भागनिवृत्यर्थम्| समाहारद्वन्द्वदेकत्वनपुंसकत्वे|
इदानीं मध्यमं रोगमार्गं वक्ति – – – –
———————————————————|
शिरोहृदयबस्त्यादिमर्माण्यस्थ्नां च सन्धयः||४७||
तन्निबद्धाः शिरास्नायुकण्डराद्याश्च मध्यमः|
रोगमार्गः स्थितास्तत्र यक्ष्मपक्षवधार्दिताः||४८||
मूर्धादिरोगाः सन्ध्यस्थित्रिकशूलग्रहादयः|
———————————————————|४९|
स०-शिरोहृदयादीनि मध्यमो रोगमार्गः| अस्थ्नां च सन्धय इत्येवं निर्देशेनेदं बोधयति,-नात्र द्वयं विवक्षितमस्थीनि च सन्धयश्चेति, किं तर्हि ? अस्थ्नां सम्बन्धिनः सन्धय इति| सन्धयो ह्यन्येऽपि सन्ति| तथा च वक्ष्यति (हृ. शा. अ. ४|३८) – “मांसास्थिस्नायुधमनीसिरासन्धिसमागमः|” इति| तन्निबद्धाः,-तेषु-अस्थिसन्धिषु, निबद्धाः, संलग्ना इत्यर्थः| शिराः स्नायवः कण्डराश्च आदयो (आद्या) येषां धमनीकूर्चादीनां ते| च शब्दात् पूर्वोक्ताश्च| तत्र-मध्यमे रोगमार्गे, यक्ष्मादयो गदास्त्रिकशूलग्रहाद्यन्ताः| मूर्धादीत्यत्रादिशब्देन हृदयबस्त्यादिपरिग्रहः| सन्ध्यस्थित्रिके शूलानि, सन्ध्यस्थित्रिके ग्रहा इति योज्यम्| आदिशब्देन पक्षग्रहादयो वातविकारा गृह्यन्ते| यक्ष्मणोऽत्र मर्मास्थिसन्ध्यधिष्ठानत्वात्पूर्वं निर्देशः| वक्ष्यति हि (हृ. नि. अ. ५|५) – “तैरुदीर्णोऽनिलः पित्तं कफं चोदीर्य सर्वतः| शरीरसन्धीनाविश्य तान् शिराश्च प्रपीडयन्||” इत्यादि|
आ० र०- अस्थिसन्धीन् व्याचष्टे-शिरोहृदयेति| मर्माणि मर्मनिबद्धाः शिरादयश्च, अस्थिसन्धयः| ते च मध्यमोरोगमार्गः| तदाश्रिता यक्ष्मादयः| यक्ष्मा-राजयक्ष्मा| पक्षवधः-एकाङ्गरोगः| अर्दितः-एकायामः, ग्रहः-स्तब्धत्वम्, सन्ध्यस्थित्रिकेष्वेव|
इदानीं वायोः कर्माण्याह – – – –
———————————————————|
स्रंसव्यासव्यधस्वापसादरुक्तोदभेदनम्||४९||
सङ्गाङ्गभङ्गसङ्कोचवर्तहर्षणतर्षणम्|
कम्पपारुष्यसौषिर्यशोषस्पन्दनवेष्टनम्||५०||
स्तम्भः कषायरसता वर्णः श्यावोऽरुणोऽपि वा|
कर्माणि वायोः————————————–|५१|
स०-स्रंसो-हन्वादिसन्धेर्भ्रंशः| व्यसनं-व्यासो, विक्षेपणमङ्गप्रत्यङ्गादेर्यथाऽऽक्षेपकादिषु| व्यधः-ताडनमिव मुद्गरादिना| स्वापः-सुप्तिः कर्मण्यचैतन्यम्| सदनं-सादः, अङ्गानां क्रियास्वसामर्थ्यम्| रुक्-सततं शूलम्| तोदो-विच्छिन्नं शूलम्| भेदनं-भेदो, विदारणमिवाङ्गस्य| सङ्गो-मूत्रपुरीषादेः स्वाशयेभ्योऽनिःसारो वाक्सङ्गादयश्च| अङ्गानाम्-जङ्घोरुप्रभृतीनां, भङ्ग इव भङ्गः-चूर्णनमिव,-अङ्गभङ्गः| सङ्कोचनं-सङ्कोचः, शिरादीनाम्| वर्तनं-वर्तः, पुरीषादीनां पिण्डीकरणम्| हर्षणं-रोम्णामूर्ध्वीभावः| तर्षणं-तर्षः, तृट्| कम्पः-अतिवेपनम्| स्पन्दनं हि-किञ्चिच्चलनम्| पारुष्यं-परुषत्वम्| सौषिर्यं-अस्थ्नाम्| शोषः-शोषणम्| वेष्टनं-ग्रथनमिवाङ्गस्य| स्तम्भो-बाहूरुजङ्घादीनां सङ्कुञ्चनाद्यभावः| कषायरसता-कषायरसास्वादत्वम्| वर्णः श्यावोऽरुणोऽपि वा-श्यावारुणौ वर्णावित्यर्थः| एतानि वायोः कर्माणि|
आ० र०- अथाकृतिः| तत्र वातरोगाणां लक्षणमाहस्रंसव्यासेति| स्रंसः-शैथिल्यम्| व्यासः-असङ्कोचत्वम्| व्यधः सूचीविद्धस्येव व्यथा| स्वापः-स्पर्शाज्ञानम्| सादः-स्वकार्याक्षमत्वम्| रुक्-शूलम्| तोदः-तोत्रेणेव व्यथा| भेदनं-भिद्यमानस्येव व्यथा| सङ्गः-अवरोधः| अङ्गः-उन्मार्गगमनम्, अङ्गेर्गत्यर्थत्वात्| भङ्गोवक्रता| सङ्कोचः-अप्रसार्यत्वम्| वर्तः-पिण्डितत्वं हर्षणं-कण्टकितत्वम्| तर्षणं-पिपासा| कम्पः-चलनम्| पारुष्यं-रूक्षणम्| वेष्टनं-वलनम्| स्तम्भः-निष्क्रियत्वम्| अरुणः-ईषद्रक्तः| स्रंसादीनि कुपितवायोः कर्माणि|
अथ पित्तस्याह – – – –
———————————————————|
—————-पित्तस्य दाहरागोष्मपाकिताः||५१||
स्वेदः क्लेदः स्रुतिः कोथः सदनं मूर्च्छनं मदः|
कटुकाम्लौ रसौ वर्णः पाण्डुरारुणवर्जितः||५२||
स०-दाहादीनि पित्तस्य कर्माणि| सर्वाङ्गीणस्तापो-दाहः| रागो-लौहित्यम्| ऊष्मा-औष्ण्यम्| पाकिता-पाककर्तृत्वम्, अजीर्णेषु व्रणेष्वन्ने च| स्वेदनं-स्वेदः| क्लेदः-शोणितादिविकारः| स्रुतिः-स्रावः| कोथः-क्लेदस्यातिशयः, अविच्छिन्नत्वम्| सदनं-सादः| मूर्च्छनं-भ्रमः| मदो-वक्ष्यमाणो रोगविशेषः| रसौ-आस्वादौ, कटुकाम्लौ| वर्णः पाण्डुरारुणाभ्यामन्यः-शुक्ललोहितवर्णनिषेधेन तच्छेषनानावर्णसम्भवः सूच्यते|
आ० र०- पित्तरोगाणां लक्षणमाह-पित्तस्येति| दाहः-सन्तापः| रागो-रञ्जनम्, वर्णान्तरोपमर्देन स्वतणापादनम्| ऊष्मा-उष्णत्वम्| पाकिता-पाचक्त्त्वम् स्वेदोधर्मः| घर्मः| क्लेदो-मलार्द्रत्वम्| स्त्रुतिः-स्राव| सदनं-सादः| मूर्च्छनं-मोहः| कटुकः-तिक्तो रसः,”कषायतिक्तमधुरंवातादिषु मुखं क्रमात्|” इति वचनात्|
श्लेष्मकर्माण्याह – – – –
श्लेष्मणः स्नेहकाठिन्यकण्डूशीतत्वगौरवम्|
बन्धोपलेपस्तैमित्यशोफापक्त्यतिनिद्रताः||५३||
वर्णः श्वेतो रसौ स्वादुलवणौ चिरकारिता|
—————————————————|५४|
स०-कफस्य स्नेहादीनि कर्माणि| स्नेहः-स्नैग्ध्यम्| काठिन्यं-अमृदुत्वम्| कण्डूः-खर्जूः| शीतत्वं-शीतसद्भावः| गौरवं-गुरुत्वम्| बन्धः-स्रोतसाम्| अस्थ्यादीनामुपलेपः| स्तैमित्यं-गात्राणामपटुत्वम्| काये वर्णः शुक्लः| रसौ च मधुरपटू| चिरकारिता-कार्यादौ विश्रब्धत्वम्| ननु, वायोरमूर्तत्वाद्वर्णरसत्वोपलब्धिरनुपपन्ना| अमूर्तस्य हि वर्णरसौ दूरोत्सारितौ| नैतदस्ति| न हि सर्वाणि कार्याणि कारणसदृशान्येव भवन्ति| तथा चेन्द्रियेभ्यो जडेभ्यो बुद्धेरजडाया उत्पत्तिर्दृष्टा| तस्मात् कारणसदृशानि कार्याणीति प्रायिकमेतत्, अचिन्त्यत्वाच्च द्रव्यप्रभावस्य| वायोः सकाशात् कषायरसता श्यावारुणवर्णोत्पत्तिश्चान्वयव्यतिरेकसिद्धा कथमिव निवार्यताम्| इत्येवं दोषाणां कर्माण्युपदिष्टानि| तद्विकाराश्च सङ्ग्रह उक्ताः| तथा च तद्ग्रन्थः (?) (सू. अ. २०) -“अशीतिर्वातजा रोगाश्चत्वारिंशच्च पित्तजाः| विंशतिः श्लेष्मजाश्चैव स्थूला नानात्मजा मताः|| १|| नखभेदः पादशूलं सुप्तिर्भ्रंशो विपादिका| खुडो गुल्फग्रहो जानुविश्लेषो जानुकुञ्चनम्|| २|| पिण्डिकोद्वेष्टनं सादश्चोर्वोः स्तम्भश्च गृध्रसी| पाङ्गुल्यं भ्रंशशूलं च गुदे स्तम्भस्तु मेहने|| ३|| मुष्काक्षेपः श्रोणिभेदो वङ्क्षणानाह एव च| उदावर्तोऽथ विड्मेदः पार्श्वपृष्ठत्रिकग्रहाः|| ४|| खञ्जवामनकुब्जत्वं हृद्द्रवोदरवेष्टकौ| हृन्मोहो वक्षनिस्तोदः शोषोद्वातौ तथोरसः|| ५|| बाहुशोषो हनुग्रीवामन्यास्तम्भौष्ठभेदनम्| दन्तभेदोऽथ शैथिल्यं कण्ठोध्वंसोऽथ वाग्ग्रहः|| ६|| कषायास्यत्वमूकत्वे मुखशोषो रसाज्ञता| घ्राणानाहोऽज्ञता गन्धेऽशब्दोच्चैःश्रवणं तथा|| ७|| बाधिर्यं कर्णशूलं च वर्त्मस्तम्भनकुञ्चनम्| तिमिरं चाक्षिशूलं च भ्रूव्युदासोऽथ नेत्रयोः|| ८|| ललाटशङ्खभेदौ च केशभ्रूस्फुटनं तथा| शिरोरुजाऽर्दितं जृम्भा प्रलापो वेपथुर्भ्रमः|| ९|| एकाङ्गव्याधिरायामः पक्षाघातोऽपतन्त्रकः| दण्डकः स्वप्ननाशश्च ग्लानिः परुषरूक्षता|| १०|| विषादोऽथानवस्थानमरुणश्यामवर्णता| इत्यशीतिः समाख्याता रोगा वातसमुद्भवाः|| ११|| अन्तर्दाहो विदाहश्च प्लोषौषौ दवथुर्दवः| अत्यूष्मा चांसदाहश्च स्वेदोऽत्यम्लकधूमकौ|| १२|| रक्तक्लेदोऽङ्गगन्धश्च गात्रावयवशातनम्| त्वड्मांसदरणं मांसक्लेदश्चर्मदलं तथा|| १३|| रक्तविस्फोटकः कोठः पित्तासृग्रक्तमण्डले| नीलिका कामला कक्ष्या गात्रे हरितपीतता|| १४|| पूतितिक्तास्यता तृष्णा लोहगन्धास्यता तथा| जीवादानमतृप्तिश्च प्रवेशस्तमसस्तथा|| १५|| गलास्यगुदमेढ्राक्षिपाको हारिद्रताऽपि च| नखाक्षिमूत्रशकृतां, चत्वारिंशत्तु पित्तजाः|| १६|| स्तैमित्यं गौरवं तृप्तिरालस्यमतिनिद्रता| तन्द्राऽऽस्यस्रावमाधुर्ये प्रलोपो हृदयस्य च|| १७|| सादः कण्ठप्रलेपश्च श्लेष्मोद्गिरणमेव च| मलाधिक्यमतिस्थौल्यं धमनी प्रतिसञ्चयम्|| १८|| उदर्दो गलगण्डश्च शैत्यं श्वेतावभासता| विण्मूत्रनखनेत्राणां शुक्लता च कफामयाः|| १९|| यथास्थूलं विकाराणां चत्वारिंशमिदं शतम्| हृदादौ शूलवद्दाहो योऽन्तर्दाहः स कीर्तितः|| २०|| पाणिपादांसमूलेषु सन्तापो विविधस्तु यः| स विदाह इति प्रोक्तो, दाहः प्रादेशिकस्तु यः|| २१|| अग्न्यर्चिषेव निःस्वेदः स प्लोषः परिकीर्तितः| ओषः सर्वाङ्गिकस्तीव्रो दाहः स्वेदारतिप्रदः|| २२|| दवथुश्चक्षुरादिभ्यस्तीव्र ऊष्मा प्रवर्तते| मुखौष्ठतालुषु दवश्चाम्लोद्गिरणमम्लकः|| २३|| धूमायनं शिरोघ्ह्राणकण्ठतालुषु धूमकः| प्रमीलकस्तु स्तैमित्यं गुरुताऽङ्गस्य गौरवम्|| २४|| आहारानभिलाषस्तु तृप्तिः स्याद्विषयाग्रहः| निद्रार्तस्येव तन्द्रा स्याच्छेषाः प्रथितनामकाः|| २५||
आ० र०- श्लेष्मारोगाणां लक्षणमाह-श्लेष्मण इति| स्नेहः-स्निग्धत्वम्| बन्धः-संश्लेषः| उपलेपो-लित्प्तत्वम्| स्तैमित्यं-आलस्यम्| शोफः-श्वयथुः| अपक्तिः-अपाकः| चिरकारिता-चिरेण रोगवृद्धिः| सङ्ग्रहे तु (सू. अ. २०) – “अथ कुपिता वातादयो नानाविधौर्विकारैः शरीरमुपतापयन्ति| आविषकृततमास्तु वायोरशीतिर्विकाराः, चत्वारिंशत् पित्तस्य, विंशतिः श्लेष्मणः| तत्र वातविकाराः, तद्यथा,-नखभेदो|१| विपादिका|१| पादशूलम्|३| पादभ्रशः|४| सुप्तपादता| ५| वातखुडता| ६| गुल्फग्रहः|७| पिण्डिकोद्वेष्टनम्|८| गृध्रसी|९| जानुभेदो|१०| जानुविश्लेषः|११| ऊरुसादः|१२| पङ्गुत्वम्|१४| गुदभ्रंशो|१५| गुदार्तिः|१६| वृषणाक्षेपो|१७| मेढ्रस्तम्भो|१८| वङ्क्षणानाहः|१९| श्रोणिभेदो|२०| विड्भेदः |२१| उदावर्तः|२२| खञ्जत्वम्|२३| कुञत्वम्|२४| वामनत्वम्|२५| त्रिकग्रहः|२६| पृष्ठग्रहः| २७| पार्श्वावमर्दनम्|२८| उदरावेष्टो|२९| हृन्मोहो| ३०| हृद्द्रवो|३१| वक्षौद्धर्षो|३२| वक्षौपरोधः|३३|वक्षस्तोदो|३४| बाहुशोषो|३५| ग्रीवास्तम्भो|३६| मन्यास्तम्भः |३७|कण्ठोध्वंसो|३८|हनुस्तम्भः|३९| ताल्वोष्ठभेदो|४०| दन्तभेदो|४१|दन्तहर्षो|४२| दन्तशैथिल्यम्|४३| मूकत्वम्|४४| वाक्सङ्गः|४५| प्रलापः|४६| कषायास्यता|४७| मुखशोषो|४८| रसाज्ञत्वम्|४९| घ्ह्राणनाशः|५०|कर्णशूलम्|५१| अशब्दश्रुतिः|५२| उच्चैःश्रुतिः|५३| बाधिर्यम्|५४| वर्त्मस्तम्भो|५५| वर्त्मसङ्कोचः|५६| तिमिरम्|५७| अक्षिशूलम्|५८| अक्षिव्युदासो|५९| भ्रूव्युदासः|६०| शङ्खभेदो|६१| ललाटभेदः|६२| शिरोरुक्|६३|केशभूमिस्फुटनम्|६४| अर्दितम्|६५| एकाङ्गरोगः||६६| सर्वाङ्गरोगः|६७| आक्षेपको|६८| दण्डकः|६९| श्रमो|७०| भ्रमो|७१| वेपथुः|७२| जृम्भा|७३| ग्लानिः|७४|विषादो|७५| रौक्ष्यम्|७६| पारुष्यम्|७७|श्यावारुणावभासत्वम्|७८| स्वप्नः|अनवस्थितचित्तता च|८०| पित्तविकाराः पुनः-ओषः |१| प्लोषो|२| दवो|३| दवथुः|४| विदाहः|५| अंसदाहः|६| त्वग्दाहः|७| अन्तर्दाहः|८|धूमकः|९| अम्लकः|१०| ऊष्माधिक्यम्|११| अतिस्वेदः|१२| अङ्गगन्धः|१३| अङावयवसदनम्|१४| शोणितक्लेदो|१५| मांसक्लेदः|१६| त्वह्यांसदरणम्|१७| चर्मदरणम्|१८| रक्तकोठो|१९| रक्तविस्फोटो|२०|रक्तमण्डलानि|२१| रक्तपित्तम्|२२| हरितत्वम्|२३| हारिद्रत्वम्|२| नीलिका|२५| कक्ष्या|२६|कामला|२७| तिक्तास्यता|२८| लोहितगन्धास्यता|२९|पूतिमुखत्वम्|३०|तृषाधिक्यम्|३१| अतृप्तिः|३२|आस्यपाको|३३| गलपाकः|३४| अक्षिपाकः|३५| पायुपाको|३६| मेढ्रपाको|३७|जीवादानम्|३८| तमःप्रवेशो|३९| हरितहारिद्रनेत्रमूत्रशकृत्वं|४०| श्लेष्मविकारास्तु-तृत्प्तिः|१| तन्द्रा|२|निद्राधिक्यम्|३| स्तैमित्यम्|४|गुरुगात्रता|५|आलस्यम्|६|मुखमाधुर्यम्|७| प्रसेकः|८| श्लेष्मोद्गिरणम्|९| मलाधिक्यम्|१०| बलासो|११|हृदयोपलेपः|१३| कण्ठलेपो|१३| धमनीप्रतिचयो|१४| गलगण्डः|१५|अतिस्थौल्यम्|१६| शीताग्नित्वम्|१७| उदर्दः|१८| श्वेतावभसता|१९| श्वेतनेत्रमूत्रशकृत्वं च|२०| तत्र सर्वाङ्गीणस्तीव्रो-दाहः|स्वेदारतिमान्-ओषः| प्रादेशिकः स्वेदरहितोऽग्न्यर्चिषेव दाहः-प्लोषः| मुखौष्ठतालुषु दाहो-दवः| चक्षुरादीन्द्रियेषु दाहो-दवथुः| पाणिपादांसमूलेषु विविधः सन्तापो-विदाहः| कोष्ठदाहः-अन्तर्दाहः, कोष्ठस्यान्तर्मागसङ्ग्रहात्| शिरोग्रीवाघ्Fह्राणकण्ठतालुषु धूमायनं-धूमकः| सान्तर्दाहहृदयशूलोऽम्लोद्गारः-अम्लकः| शोणितस्य कृष्णतादौर्गन्ध्यतनुत्वानि-क्लेदः| मांसस्य तु कृष्णता दौर्गन्ध्यं च| बाह्यत्वक्संहतिः-चर्म| कोष्ठगौरवादाहारास्पृहातृप्तिः| अन्ये पुनराहुः,-अन्नानभिनन्दनात्तृत्पिरिव तृप्तिः-अरोचकः| निद्रार्तस्येव विषयाग्रहणं-तन्द्रा| स्तैमित्यं तुप्रमीलकः, इत्यन्यैः पठितम्| उपलेप इव-उपलेपः| तदतिशयः-प्रतिचयः,-अतिपूरणम्| अग्नेरतिमन्दता-शैत्यम्| उरोऽभिष्यन्दः-उदर्दः| केषांचिच्छीतवेपथुः-उदर्दः| अन्ये पुनराहुः-‘शीतपानीयसंस्पर्शाच्छीतकाले विशेषतः| सरागकण्डूः शोफः स्यादुदर्दः स कफोद्भवः||’ क्षुद्रविकाराः पुनर्यदेवाङ्गमाविशन्ति तदुपपदमेव नाम लभन्ते| यथा,नखशङ्खललाटभेदाः स्वान्तर्दाहकण्ठहृदयोपलेपादयः| तेषां हि तथैव स्वरूपमुपदिष्टं भवति|” इति|
दोषाणां कर्माण्युपदिश्य निर्देशप्रयोजनमाह – – – –
—————————————————–|
इत्यशेषमयव्यापि यदुक्तं दोषलक्षणम्||५४||
दर्शनाद्यैरवहितस्तत्सम्यगुपलक्षयेत्|
व्याध्यवस्थाविभागज्ञः पश्यन्नार्तान् प्रतिक्षणम्||५५||
स०-इति-प्रकारे| दोषाणां लक्षणं दोषलक्षणं,-यथायथं लिङ्गम्| इति-पूर्वोक्तेन प्रकारेण, यद्दोषलक्षणमुक्तम्, तद्दर्शनाद्यैः सम्यगुपलक्षयेत्-जानीयात्| वैद्य इति शेषः| दर्शनाद्यैरित्यादि(द्य)शब्देन स्पर्शनप्रश्नौ गृह्येते| किम्भूतं दोषलक्षणं तत् ? अशेषामयव्यापि,-अशेषाश्च त आमयाश्चाशेषामयास्तान्,-सर्वामयान्, साधु व्याप्नोतीति| किम्भूतो वैद्यः ? अवहितो,-दत्तावधानः| तथा, व्याध्यवस्थाविभागज्ञः,-व्याधेरवस्थाः-कालकृता दशाः, तासां विभागः-पृथक्त्वम्, यथा,-इयमस्य व्याधेरवस्थेयमन्यावस्थेति| अवस्थाभेदाच्चोपक्रमभेदः| तथा हि,-एकस्यैव ज्वरस्य नवस्यान्य उपक्रमो जीर्णस्यान्यः| तदेवं विभागं यो जानाति स व्याध्यवस्थाविभागज्ञः| तथा, आर्तान्-व्याधितान्, प्रतिक्षणं-मुहूर्ते मुहूर्ते, पश्यन्-आलोकयन्|
आ० र०- लक्षणज्ञाने सावधानेन भवितव्यमित्याह-इत्यशेषामयव्यापीति| दर्शनाद्यैः-दर्शनस्पर्शनप्रश्नैः| अवस्थाविभागो यथा,-आमज्वरो जीर्णज्वरः पच्यमानज्वर इति|
किमिति पुनः पुनर्व्याधितदर्शनं क्रियते ? इत्याह – – – –
अभ्यासात्प्राप्यते दृष्टिः कर्मसिद्धिप्रकाशिनी|
रत्नादिसदसज्ज्ञानं न शास्त्रादेव जायते||५६||
स०-अभ्यासात्-मुहुर्मुहुश्चिकित्सितकर्मणि प्रवर्तनात्, दृष्टिः-दर्शनं चिकित्साविज्ञानं जायते, न केवलं-केवलच्चिकित्साशास्त्रावगमात्| किम्भूता दृष्टिः ? कर्मणि सिद्धिस्तां प्रकाशयितुं शीलं यस्याः सा कर्मसिद्धिप्रकाशिनी| अत्र दृष्टान्तमाह-रत्नादीत्यादि| आदिशब्देन सुवर्णरूप्यादीनां ग्रहणम्| तेषां यत्सदसज्ज्ञानं-इदं शोभनमिदं न शोभनमित्यवगमः तन्न शास्त्रादेव जायते| किं तर्हि ? अभ्यासाच्च| एवकारोऽवधारणार्थः| न शास्त्रावबोधान्न च केवलादभ्यासादित्येवकारेण बोधयति| किल यथा रत्नपरीक्षा तच्छास्त्रावबोधदर्शनाभ्यासाभ्यां सम्यग्जायते, तथैव चिकित्सा शास्त्रावबोधान्नित्यमातुरदर्शनाच्चावगम्यत इत्यर्थः|
आ० र०- लक्षणदर्शनाभ्यासो लक्षणज्ञानसहकारीत्याह-अभ्यासादिति|
दृष्टापचारजः कश्चित्कश्चित्पूर्वापराधजः|
तत्सङ्कराद्भवत्यन्यो व्याधिरेवं त्रिधा स्मृतः||५७||
स०-दृष्टश्चासावपचारश्च, तस्माज्जातो दृष्टापचारजः| अपचारो-व्याधिहेतुः| ऐहिकलौकिकाद्व्याधिकारणाज्जातो दृष्टापचारजः| कश्चिदात्मकृतात्पूर्वापराधात्-अशुभकर्माख्याज्जातः पूर्वापराधजः| अपरः कश्चित्तत्सङ्कराद्भवति| तयोः सङ्करस्तत्सङ्करो-मिश्रत्वं, तस्मात्| न केवलात्पूर्वापराधान्न च केवलाद्दृष्टापराधात्, अपि तु द्वयोः संसर्गाज्जात इत्यर्थः| एवं-अनेन प्रकारेण, व्याधिस्त्रिधा-त्रिप्रकारः, स्मृतः|
आ० र०- व्याधेस्त्रैविध्यमाह-द्दष्टापचारज इति| अपचारो-निदानम्| द्दष्ठकर्मजः, अद्दष्टकर्मजः, द्दष्टकर्मजः इति त्रिविधो व्याधिः|
अथ त्रिप्रकारव्याधिलक्षणार्थमाह – – – –
यथानिदानं दोषोत्थः कर्मजो हेतुभिर्विना|
महारम्भोऽल्पके हेतावातङ्को दोषकर्मजः||५८||
स०-यथानिदानं दोषोत्थ इति| यद्यस्य दोषस्य वातादेर्लघुरूक्षादि निदानं, तेन कुपिताद्दोषात् य उत्थितो व्याधिः स दोषोत्थो ज्ञेयः| यो दृष्टापचारज उक्त इत्यर्थः| हेतुभिः-वातादिनिदानैर्लघुरूक्षादिभिर्विना यो भवति स कर्मजः| यस्त्वल्पे निदाने सेविते महारम्भः स्यात्, स दोषकर्मजो रोगो ज्ञेयः| महानारम्भो यस्य सः, पूर्वरूपरूपैर्बलवद्भिर्युक्त इत्यर्थः|
आ० र०- त्रयाणां लक्षणमाह-यथानिदानमिति| यथानिदानं-स्वहेत्वनतिक्रमेण, दोषोत्थो-द्दष्टजः| हेतुभिर्विना जातः कर्मजः-अद्दष्टजः, पूर्वापराधजः| अल्पे हेतौ महारम्भः-तीव्रसंरम्भो, दोषकर्मजः| दोषक्षोभपूर्वकत्वात् द्दष्टजस्य दोषजत्वम्| तद्विपरीतत्वादद्दष्टजस्य कर्मजत्वम्| वक्ष्यति हि (हृ. सू. अ. १/१७०) – “ते ज्वराः केवलाः पूर्वं व्याप्यन्तेऽनन्तरं मलैः|” इति|
अथ त्रिविधस्यापि व्याधेश्चिकित्सामाह – – – –
विपक्षशीलनात्पूर्वः कर्मजः कर्मसङ्क्षयात्|
गच्छत्युभयजन्मा तु दोषकर्मक्षयात्क्षयम्||५९||
स०-विपक्षशीलनात्पूर्व इति| पूर्वः-पूर्वमुक्तो यः केवलं दोषजो व्याधिः सः, विपक्षशीलनात्-यथोक्तविपक्षादिसेवनात्, क्षयं याति| कर्मजो रोगः कर्मसङ्क्षयात् क्षयं याति| उभयजन्मा-दोषकर्मोत्थो, दोषकर्मणोरुभयोरपि क्षयात् क्षयं याति|
आ० र०- विपक्षशीलनात्-हेतुविपरीतशीलनात्| पूर्वो-दोषत्थः| कर्मसङ्क्षयात्-भोगेन प्रायश्चित्तेन वा पापक्षयात्| विपक्षशीलनाद्युपशयाख्यं लक्षणम्|
व्याधीनां त्रैविध्यमुक्त्वा द्वैविध्यमाह – – – –
द्विधा स्वपरतन्त्रत्वाद्व्याधयोऽन्त्याः पुनर्द्विधा|
—————————————————-|६०|
स०-स्वतन्त्रश्च परतन्त्रश्च स्वतन्त्रपरतन्त्रौ, तयोर्भावः स्वतन्त्रपरतन्त्रत्वम्, तस्माद्धेतोर्द्विधा व्याधयः| एके स्वतन्त्रा अन्ये परतन्त्रा इत्यर्थः| अन्ते भवा अन्त्याः,–परतन्त्राः| ते पुनः-भूयो, द्विधा|
आ० र०- त्रयानां पृथक् द्वैविध्यमाह-द्विधा स्वपरतन्त्रत्वादिति| तत् स्वतन्त्रः परन्त्रश्चेति| अन्त्या इति परतन्त्रस्य द्वैविध्यम्| तच्च पूर्वरूपमुपद्रवाश्चेति|
तदेव द्वैविध्यं दर्शयितुमाह – – – –
—————————————————-|
पूर्वजाः पुर्वरूपाख्या, जाताः पश्चादुपद्रवाः||६०||
स०-पूर्वं जाताः पूर्वजाः| “अन्येष्वपि दृश्यते” इति डः| पूर्वजाः-पूर्वरूपसंज्ञा रोगाः| ये च पश्चाज्जातागदास्ते व्याधीनामुपद्रवाः| इत्यन्त्या द्विधा|
आ० र०- तौ च स्वतन्त्रात्पूर्वं पश्चात् क्रमेण जायेते|
अथ स्वतन्त्रान् लक्षयति – – – –
यथास्वजन्मोपशयाः स्वतन्त्राः स्पष्टलक्षणाः|
—————————————————-|६१|
स०-जन्म चोपशयश्च जन्मोपशयौ| जन्म- उत्पत्तिः| उपशयः-सुखानुबन्धः| यो यः स्वं स्वं-यथास्वम्| यस्य ज्वरादेर्यावात्मीयौ शास्त्रनिर्दिष्टौ तौ यथास्वशब्देन सूच्येते| यथास्वं जन्मोपशयौ येषां ते यथास्वजन्मोपशया व्याधयः स्वतन्त्रा उच्यन्ते| चिकित्सागुरुलाघवप्रतिपत्त्यर्थं च स्वतन्त्रादिसंज्ञाकरणम्| स्वग्रहणाद्येऽन्यजन्मनि जायन्तेऽन्यस्य च व्याधेर्यत उपशयः-सुखानुबन्धस्तत एतत्परिवारस्यापि, ते तु न स्वतन्त्राः| तथा चोक्तम्-“पूर्वरूपरूपादिक्रमेण ज्वरादावुत्पन्ने तत्परिवारा ये श्वासादय उत्पद्यन्ते तदुपशये चोपशेरते न ते स्वतन्त्राः| ज्वरादय एव तु मूलव्याधिरूपत्वात्स्वतन्त्रा उच्यते|” इति|
आ० र०- यस्य स्वेन हेतुना जन्म, स्वौषधेनोपशमः, स्पष्टं च लक्षणं, स स्वतन्त्रः|
—————————————————-|
विपरीतास्ततोऽन्ये तु————————-|६१|
स०-ततः-स्वतन्त्रेभ्यो रोगेभ्यो, येऽन्ये-परतन्त्राः, पूर्वरूपाख्यास्तथोपद्रवसंज्ञाश्च, ते विपरीताः,-विपरीतस्वरूपाः, न यथास्वजन्मोपशया न च स्पष्टलक्षणाः|
आ० र०- विपरीतः-परतन्त्रः|
एवं व्याधीनां स्वतन्त्रपरतन्त्रत्वं प्रतिपाद्य, दोषाणां प्रतिपादयन्नाह – – – –
—————————————————-|
———————————–विद्यादेवं मलानपि||६१||
स०-न केवलं रोगान् स्वतन्त्रपरतन्त्रभेदैर्विद्याद्वैद्यः, यावन्मलान्-दोषानपि वातादीन्, एवं-स्वतन्त्रपरतन्त्रभेदैर्जानीयात्|
आ० र०- व्याधिवद्दोषानपि स्वतन्त्रान्विद्यात्|
तांल्लक्षयेदवहितो विकुर्वाणान् प्रतिज्वरम्|
—————————————————-|६२|
स०-तान्-वातपित्तकफान् यथास्वजन्मोपशयलक्षणावच्छिन्नस्वरूपान्, प्रतिज्वरं-प्रतिविकारं, विकुर्वाणान्-विकृतिंकोपं गच्छतो, जानीयात्| वैद्य इति शेषः| कीदृक् ? अवहितो-दत्तचित्तः|
आ० र०- तांश्च प्रतिरोगं लक्षयेत्| कोऽत्र स्वतन्त्रः कः परतन्त्र इति|
एवं स्वतन्त्राणां व्याधीनां यथास्वोपशय एव भेषजमुक्तम्|
परतन्त्राणां तु व्याधीनां कः प्रशमोपायः ? इत्याह – – – –
—————————————————-|
तेषां प्रधानप्रशमे प्रशमोऽशाम्यतस्तथा||६२||
पश्चाच्चिकित्सेत्तूर्णं वा बलवन्तमुपद्रवम्|
—————————————————-|६३|
तेषां-परतन्त्राणां रोगाणामप्रधानानाम्, प्रधानप्रशमे-स्वतन्त्रव्याधिप्रशमे, प्रशमो भवति,-न तु तेषां पृथगुपक्रमो विधेय इत्यर्थः| अशाम्यतः-तथा शममगच्छतः परतन्त्रान् व्याधीन् दोषान् वा, तथा-तेन प्रकारेण प्रधान चिकित्सालक्षणेन, पश्चात्-प्रधानचिकित्सात उत्तरकालं, चिकित्सेत्| अचिकित्स्यमानो ह्यसाध्यतां यायात्| तूर्णं वेति| उपद्रवश्चेद्बलवान् स्यात्तदा तमेवोपद्रवं तूर्णमेव चिकित्सेत्-, न पश्चात्|
आ० र०- तेषां-परतन्त्राणां, स्वतन्त्रप्रशमे प्रशमः| तथास्वषौधेन, ये न शाम्यन्ति तान् पश्चार्स्वौषधेन चिकित्सेत्| यस्तु बलवानुपद्रवस्तं तूर्णं-प्रागेव, चिकित्सेत्|
ननु, कुतोऽप्रधानं शीघ्रं चिकित्सेत् ? इत्याह – – – –
—————————————————-|
व्याधिक्लिष्टशरीरस्य पीडाकरतरो हि सः||६३||
स०-हि-यस्मात्, व्याधिक्लिष्टशरीरस्य पुंसः सोऽतिशयेन पीडाकरः| प्रागुत्पन्नोऽपि रोगः पीडाकरः| उपद्रवस्तु पश्चाज्जायमानो व्याधिक्लिष्टशरीरोत्पन्नत्वात्पीडाकरतरः| तदयमत्रार्थः,-परतन्त्रो व्याधिर्हीनबलः प्रधानोपक्रमेणैवोपशाम्यति| यस्तु परतन्त्रः पश्चादुत्पद्यमानोऽपि स्वतन्त्रव्याध्युपक्रमेण शमं न याति तं पश्चादुपक्रमेत्| यस्तु बलवान् परतन्त्रस्तमादावेव चिकित्सेत्, अतिपीडाकरत्वात्|
आ० र०- स हि स्वतन्त्रेण पीडितस्य नरस्य स्वतन्त्रादतिपीडकः| सङ्ग्रहे तु (सू. अ. २२) – “सत्पविधाः खलु रोगा भवन्ति| सहगर्भजातपीडाकालप्रभावस्वभावजाः| ते तु पृथग्द्धिविधाः| तत्र सहजाः शुक्रार्तवदोषान्वयाः कुष्ठार्शोमेहादयः, पितृजा मातृजाश्च| गर्भजा जनन्यपचारात्कौब्ज्यपाङ्गुल्यपै!ग्गल्यकिलासादयो, अन्नरसजा मातृदौहृदविमानजाश्च| जातजाः स्वापचारात् सन्तर्पणजा अपतर्पणजाश्च| पीडाजाः क्षतभ!ग्गप्रहारक्रोधशोकभयादयः, शारीरामानसाश्च| कालजाः शीतादिकृता ज्वरादयो, व्यापन्नजा असंरक्षणजाश्च| प्रभावजा देवगुरुलङनशापाथर्वणादिकृताः, ज्वरादयः पिशाचादयश्च| स्वभावजाः क्षुत्पिपासाजरादयः, कालजा अकालजाश्च| तत्र कालजा रक्षणकृताः, अरक्षणजा अकालजाः त एते समासतः पुनर्द्विविधा भवन्ति,प्रत्युत्पन्नकर्मजाश्च| तत्र रोगोत्पत्तिं प्रत्युत्पन्नं कर्म यदनेनैव शरीरेण द्दष्टमद्दष्टं वोद्दिश्यात्पोपदिष्टप्रतिषिद्धानामननुष्ठानमनुष्ठानं वा| जन्मान्तरातीतेन तु पूर्वम्| तत्पुनर्दैवाख्यम्, उक्तं च नियतानियतभेदेन प्राक्| तस्मात् द्दष्टहेतवः प्रत्युत्पन्नकर्मजाः| विपरीता दैवजन्मानः| अल्प निदाना महारुजश्चोभयात्मकाः| तत्र यथास्वं प्रतिपक्षशीलनात् पूर्वेषां रोगाणामुपशमः| सत्येव विपक्षशीलने निर्दिष्टकर्मक्षयाद्द्वैविकानाम्| दोषकर्मक्षयादन्येषाम्| अन्ये पुनः प्रत्युत्पन्नं कर्म परकृतमपि वर्णयन्ति| तच्च पराभिसंस्कारमाचक्षते| एवं चाहः,-यदि स्वयं कृतादेव कर्मणः कार्यनिर्वृत्तिः स्यात्, न द्दष्टपुरुषान्तरकृतात्| किमिति विद्वानपि पराचरितयोरुपकारापकारयोः सुखदुःखानुरोधात्तोषरोषौ प्रैकर्तव्यविन्तां वा प्रतिपेद्यते| एवमेते व्याधयो द्विविधाः सन्तस्निविधा जायन्ते| ततश्च दोषवन्तो भूयः सप्तविधाः| सकलोऽपि चायं रोगसमूहः प्रतीकारवान् आयुर्वेदविहितमुपदेशमपेक्षते| यस्मान्नियतहेतुकोऽप्यामयः सम्यग्भिषगादेशानुष्ठानादुपात्तायुः संस्कारापरिक्षये सह्यवेदनतां प्रतिपद्यते| अनुप्रक्रम्यमाणस्तु सर्व एव प्रायशो भिनत्त्यकाण्डे| स्वयमपि च दैवान्निदानाल्पतया वा निवर्तमानः षोडशगुणसमुदितक्रियोपालम्भादाशुतरमपै परिक्लिष्टस्य वाऽपगच्छति| अनियतफलदायिनि तु दैवे हिताभ्यासरतस्यावकाशमेव न लभते व्याधिः| तस्मान्न कस्याञ्चिदवस्थायामात्मवान् हिताहितयोस्तुल्यदर्शी स्यात्| त्रिविधाश्च पुनर्व्याधयो मृदुमध्यातिमात्रभेदेन| तत्राल्पलक्षणा मृदवो, मध्यलक्षणा मध्याः, सम्पूर्णलक्षणास्त्वतिमाताः| ते पुनः सुखसाध्यादिविशेषेण चतुर्धा प्रागुपदिष्टाः| सुबहुशोऽपि च भिद्यमाना व्याध्ययो निजागन्तुतां न व्यभिचरन्ति| तत्र निजास्निदोषोत्थाः| तेषु पूर्वं वातादयो वैषम्यमापद्यन्ते ततो व्यथाभिनिवर्तते| बाह्यहेतुजास्त्वागन्तवः| तेषु व्यथा पूर्वमुपजायते, ततो दोषवैषम्यम्| दोषवैषम्येणैव च बहुरूपा रुदनुबध्यते, ततो दोषवैषम्यम्| दोषवैषम्येणैव च बहुरूपा रुगनुबध्ह्यते प्रवर्द्धते च| एवं च कृत्वा न दोषव्यतिरेकेण रोगानुबन्द्धः, केवलं पौर्वापर्यविशेषः| तस्मादेकाकारा एव रोगाः, तथारुकसामान्यात्| असङ्ख्यभेदा वा प्रत्येकं समुत्थानस्थानसंस्थानवर्णनामवेदनाप्रभावोपक्रमविशेषात्| ते यथास्थूलं यथास्वमेवोपदेक्ष्यन्ते| असङ्खयेयत्वाच्च दोषलिङ्गैरेव रोगानुपक्रमं च विभजेत्||” इति|
ननु, येषां विकाराणां नामग्राहं चिकित्सा |च] नोक्ता|
तेषां नामाकुशलो वैद्यः किं चिकित्सेन्न ? इत्याशङ्क्याह – – – –
विकारनामाकुशलो न जिह्रीयात् कदाचन|
न हि सर्वविकाराणां नामतोऽस्ति ध्रुवा स्थितिः||६४||
स०-विकाराः-रोगाः, तेषां नामानि, तेष्वकुशलो वैद्यो न जातुचिज्जिह्रीयात्-रोगसंज्ञानभिज्ञोऽहमिति लज्जां न कुर्यात्, चिकित्सामेव विदध्यादित्यर्थः| कुतो हेतोः ? इत्याह-न हीत्यादि| यस्मात्सर्वविकाराणां नामतः-संज्ञातो, ध्रुवा-निश्चिता, स्थितिः-अवस्थानं, नास्ति|
आ० र०- शास्त्रेऽनुक्तं स्वयमूहनीयमित्याह-विकारनामेति| यो विकारस्यवातजादित्वं जानाति, नाम न जानाति, शास्त्रेऽनुक्तत्वात्सङ्कीर्णत्वाद्वा, स न जिह्नीयात्-लज्जां न कुर्यात्| न हि नामाधीना सर्वत्र चिकित्सा| वातजादिज्ञानं हि चिकित्सायां प्रधानं कारणम्|
ननु, कुतोऽशेषरोगाणां नामतो नास्ति स्थितिः ? इत्याशङ्क्याह – – – –
स एव कुपितो दोषः समुत्थानविशेषतः|
स्थानान्तराणि च प्राप्य विकारान् कुरुते बहून्||६५||
तस्माद्विकारप्रकृतीरधिष्ठानान्तराणि च|
बुद्ध्वा हेतुविशेषांश्च शीघ्ह्रं कुर्यादुपक्रमम्||६६||
स०-यस्मात्सः-एक एव, दोषो-वाताद्यन्यतमः, समुत्थानविशेषतो-हेतुभेदात्, तथा स्थानान्तराणि-स्वस्थानं हित्वा पराणि स्थानानि, प्राप्य-गत्वा, बहून्-अनन्तान्, विकारान् कुरुते| तथा चोक्तं तन्त्रान्तरे-“यो दोषः शरीरसन्धीनाविशति, तेन जृम्भा ज्वरश्चोपजायते| यस्त्वामाशयमभ्युपैति, तेन रोगा भवन्त्युरसि, अरोचकश्च| यः कण्ठमभिप्रपद्यते कण्ठस्ततो ध्वंसते स्वरश्चावसीदति| यः प्राणवहानि स्रोतांस्यास्यादीनि उपैति, श्वासः प्रतिश्यायश्च तेनोपजायते|” इति| विकारस्य-ज्वरादेः, प्रकृतयः-उपादानकारणानि वातादिदोषाः, ता विकारप्रकृती:-रोगहेतुविशेषान्, बुद्ध्वा,- ज्ञात्वा, तथाऽधिष्ठानान्तराणि स्थानविशेषांश्च, बुद्ध्वा,तथा हेतुविशेषान्-निदानभेदांश्च, बुद्ध्वा-यथा किमयं कुपितः पवनो रूक्षेण हेतुना लघुना शीतेन वेत्यादि ज्ञात्वा, शीघ्ह्रमेवोपक्रमेत्-चिकित्सेत्| न तु विकारानभिज्ञ इति न चिकित्सेत्|
आ० र०- अथ साधनम्| साधनज्ञानं च लक्षणज्ञानाधीनम्| तत्र लक्षणस्य दुर्बोधत्वमाह-स एवेति| स एव योऽन्यत्र लक्षितो, बहून् विकारान् कुरुते,-येऽन्यत्र न द्दष्टाः| तत्र द्वौ हेतू-समुत्तानविशेषात्कुपितत्वं स्थानान्तरप्राप्तिश्च समुत्थानविशेषः-अन्यत्राद्दष्टं समुत्थानम्|तस्माद्विकारादित्रित्यज्ञानपूर्वक उपक्रमः कार्यः| स च शीघ्रम्, अवस्थान्तरो| प्रकृतिः-स्वभावोऽसाधारणं चिन्हम्|
ननु, बुद्ध्वाऽपि विकारप्रकृत्यादिकमुपक्रमं कुर्वन्तः कदाचित्सिद्धिमाप्नुवन्तो दृश्यन्ते भिषजः कदाचिन्नेति|
तदत्र संशयस्खलिते कर्मणि कथं नियुज्यते वैद्य इति कथमुक्तम् ? “शीघ्रं कुर्यादुपक्रमम्” इत्याशङ्क्याह – – – –
दूष्यं देशं बलं कालमनलं प्रकृतिं वयः|
सत्त्वं सात्म्यं तथाऽऽहारमवस्थाश्च पृथग्विधाः||६७||
सूक्ष्मसूक्ष्माः समीक्ष्यैषां दोषौषधनिरूपणे|
यो वर्तते चिकित्सायां न स स्खलति जातुचित्||६८||
स०-दोषौषधनिरूपणे सति दूष्यादीन् दश समीक्ष्य सम्यग्विलोक्य, यश्चिकित्सायां वर्तते-यत्नं करोति, सः-वैद्यो, न कदाचित् स्खलति-नापराधी स्यात्| दोषो-वातादिः, औषधं-हरीतक्यादि, तयोर्निरूपणं-पर्यालोचनम्, तस्मिन् दोषौषधनिरूपणे| दूष्यादीनां समस्तानामुपादानं सर्वेषामेवावगमे चिकित्साकरणं प्रति यत्नातिशयद्योतनार्थम्, न पुनरेषां द्वौ वा त्रीन् वा चतुरो वा पञ्च वा समीक्ष्य| किं तार्हि ? सर्वानेतान् समीक्ष्य,-सम्यगवबुध्येति| अथ दूष्यादीनेव समीक्ष्य ? नेत्याह- अवस्थाश्च पृथग्विधाः| एषामेव दूष्यादीनामवस्थाः सूक्ष्मसूक्ष्माः-अतिशयेन सूक्ष्माः, ताश्च समीक्ष्य-यथावद्बुद्ध्वेति|
आ० र०- दूष्याद्येकादशज्ञाने सत्यव्यभिचार्युपक्रम इत्याह-दूष्यति| दूष्यो-धातुर्मलश्च| देशो-भूमिर्देहश्च| बलं-सामर्थ्थम्| देशो- भूमिर्देहश्च| बलं-सामर्थ्थम् | कालः-पूर्वाह्णदिः| अनलो-विषमादिः| प्रकृतिः-वातप्रकृत्यादिः|वयो-बल्यादि| सत्वं-मनः| सात्म्यं-देशसात्म्यादि|आहारो-मधुरादिः| अवस्थाः-रूपेष्ववान्तरं रूपम्| सूक्ष्मसूक्ष्माः-अतिसूक्ष्माः| एषां-रोगाणाम्| दोषौषधनिरूपणे-दोषस्यौषधस्य च विचारणे|
न च दूष्याद्येव परीक्ष्यम्|
किं तार्हि ? व्याधिरपि गुरुलघुत्वेन एवं परीक्ष्य एवेत्याह – – – –
गुर्वल्पव्याधिसंस्थानं सत्त्वदेहबलाबलात्|
दृश्यतेऽप्यन्यथाकारं तस्मिन्नवहितो भवेत्||६९||
स०-गुरुश्चाल्पश्च गुर्वल्पौ, गुर्वल्पौ च तौ व्याधी च गुर्वल्पव्याधी, तयोः संस्थानं-आकृतिः| अपिशब्दो भिन्नक्रमे| तद्गुर्वल्पव्याधिसंस्थानमन्यथाकारमपि दृश्यते-विपरीतमिति लक्ष्यते| अपिशब्दात्क्वचित् गुर्वल्पव्याधिसंस्थानं यथातत्त्वं दृश्यते क्वचिन्नेति व्याधिलक्षणस्य गमकत्वाभावः प्रसज्येत| ततश्च “रोगं निदानप्राग्रूपलक्षणोपशयाप्तिभिः|” (हृ. सू. अ. १|२२) इति दूष्येत| तस्मादपिशब्दोऽत्र गुर्वल्पसंस्थानस्य यथातत्त्व दर्शनं क्वचिद्भवत्येवेति सूचनार्थः कृतः| कुतो हेतोः ? इत्याह-सत्त्वेत्यादि| सत्त्वं-धैर्यम्| देहो-महदल्पस्थूलकृशादिः| सत्त्वं च देहश्च सत्त्वदेहौ| बलं चाबलं च बलाबले| तस्मात्सत्त्वदेहबलाबलाद्धेतोर्गुर्वल्पव्याधिसंस्थानेऽवहितो भवेत्| अधिकसत्त्वे तथोत्कृष्टदेहबले च गुरुः-महानपि व्याधिरुत्पन्नोऽल्पसंस्थानो-हीनबल इव लक्ष्यते, सत्त्वदेहबलयोरुत्कृष्टत्वात्| तथा, हीनसत्वे हीनदेहबले चोत्पन्नो लघुरपि महानिव लक्ष्यते, हीनसत्त्वदेहबलत्वात्| तस्माद(त्त)स्मिन्-व्याधिसंस्थानेऽर्थे, दत्तावधानेन भाव्यम्|
आ० र०- तत्रापि सत्वदेहयोर्बलं तात्पर्येण परीक्ष्यमित्याह-गुर्वल्पव्याधिसंस्थानमिति| संस्थानं-लक्षणम्|अन्यथाकारं-गुरोरल्पत्वम्, अल्पस्यापि गुरुत्वम्|
गुरुं लघुमिति व्याधिं कल्पयंस्तु भिषग्ब्रुवः|
अल्पदोषाकलनया पथ्ये विप्रतिपद्यते||७०||
स०-गुरुं लघुमित्यादि| यश्च भिषग्ब्रुवः-कुत्सितो वैद्यः, स व्याधिसंस्थानमात्रावलोकनात् गुरुं व्याधिं लघुमिति कल्पयन्-निश्चिन्वन्, अल्पदोषाकलनया-हीनमात्रदोषनिश्चयेन, पथ्ये विप्रतिपद्यते-चिकित्सिते मोहं गच्छति, गुरुव्याधावल्पव्याधियोग्यं भेषजं ददाति| एवं लघुव्याधिं गुरुमिति कल्पयन् बहुदोषाकलनया पथ्ये विप्रतिपद्यते, भिषग्ब्रुवत्त्वात्| अन्यत्रापि ब्रुवान्तस्य कुत्सितत्वमेव प्रसिद्धम्| यथाऽऽह मनुः (अ. ८|२०) -“जातिमात्रोपजीवी वा कामं स्याद्ब्राह्मणब्रुवः| धर्मप्रवक्ता नृपतेर्न तु शूद्रः कथञ्चन||” इति| केचित् “भिषग्ध्रुवम्” इति पेठुः| भिषक्-वैद्यो, गुरुं लघुमिति व्याधिं कल्पयन् ध्रुवं-निश्चितं पथ्ये विप्रतिपद्यत इति च व्याचक्षते|
आ० र०- अनवहितत्वे दोषमाह-गुरुं लघुमिति|अल्पोऽयं दोष इत्यगणनया विप्रतिपद्यते-विपरीतं जानाति|
यस्माच्चैवम् – – – –
ततोऽऽल्पमल्पवीर्यं वा गुरुव्याधौ प्रयोजितम्|
उदीरयेत्तरां रोगान् संशोधनमयोगतः||७१||
शोधनं त्वतियोगेन विपरीतं विपर्यये|
क्षिणुयान्न मलानेव केवलं वपुरस्यति||७२||
स०-ततोऽल्पं-अल्पमात्रम्, अल्पवीर्यं वा-अनुत्कृष्टशक्तिकं वा, भेषजं गुरुव्याधौ प्रयोजितं-दत्तं, संशोधनं रोगानुदीरयेत्तरां-अतिशयेनोत्क्लेशयेत्| कुतः ? अयोगतः,,-हीनयोगात्| अयोगो हि हीनयोग उच्यते| यथा,-पुत्रकार्याकरणादपुत्र इत्युच्यते| विपर्यये च-लघुव्याधौ, विपरीतं शोधनं तु प्रयोजितम्, कस्माद्विपरीतम् ? अल्पवीर्यात्संशोधनात्, अतिमात्रमुत्कृष्टवीर्यं च बहुदोषाकलनया, अतियोगेन प्रयोजितं न केवलं मलान् क्षिणुयात्-क्षपयेत्, यावद्वपुरस्यति-शरीरमपि हिंस्यात्| अत्र च संशोधनं यत् दृष्टान्तत्वेनोपन्यस्तं तदयोगातियोगाभ्यां रोगोत्क्लेशं शरीरक्षपणं [च] झटिति निर्वर्तयतीति| खरनादेनाप्युक्तं च-“अल्पमुत्क्लेशयेद्दोषं बहु प्राणान्निहन्ति च| तस्मान्निरूप्य भिषजा देयं युक्तं विरेचनम्||” इति| तथा, ज्वरगुल्मादीनां च तत्प्रतीकारार्थं यद्दीयते भेषजं तत्रापि महारम्भेऽल्पमल्पवीर्यं चौषधं न देयम्, इत्यस्मादेव दृष्टान्तीभूतादर्थादवगन्तव्यम्|
आ० र०- विपर्ययज्ञाने दोषमाह-ततोऽल्पमिति| अयोगतः-हीनयोगेन| विपरीतं-अतिमात्रमतिवीर्यं वा|विपर्यये-लघुव्याधौ| वपुरप्यतिशयेन क्षयं नयेत्, न दोषानेव|
अतोऽभियुक्तः सततं सर्वमालोच्य सर्वथा|
तथा युञ्जीत भैषज्यमारोग्याय यथा ध्रुवम्||७३||
स०-यस्माच्चैवं रोगाणां दुर्विज्ञेया गतिः, अतः-अस्माद्धेतोः, सततमभियुक्तः-सदाऽऽयुर्वेदपाठावबोधानुष्ठानपरो वैद्यः, सर्वं-दूष्यादिवस्तुजातम्, आलोच्य सर्वथा-सर्वेण प्रकारेणाऽऽयुर्वेदानुसारिण्या स्वबुद्ध्या तद्विद्यसम्भाषासम्भवया च तथा कर्माभ्यासतोऽपि निपुणं निरूप्य, तथा-तेन प्रकारेण दोषदूष्यदेशाद्यनुगुणेन, भैषज्यं युञ्जीत-भेषजं युञ्ज्यात्| यथाऽऽरोग्याय ध्रुवं-येन प्रकारेणाऽऽरोग्यार्थमवश्यं स्यात्|
आ० र०- अशेषविशेषेशपरीक्षायामत्यादरः कार्य इत्याहातोऽभियुक्त इति|
पूर्वमुक्तम् (श्लो. ३२) – “दोषा एव हि सर्वेषां रोगाणामेककारणम्|
” अतस्तानेव दोषान् वृद्धिक्षयविभेदेनाह – – – –
वक्ष्यन्तेऽतःपरं दोषा वृद्धिक्षयविभेदतः|
पृथक् त्रीन् विद्धि
संसर्गभेदानधुना वक्ति – – – –
संसर्गस्त्रिधा, तत्र तु तान्नव||७४||
कथं नव भेदान् ? इत्याह – – – –
त्रीनेव समया वृद्ध्या, षडेकस्यातिशायने|
त्रयोदश समस्तेषु
कथम् ? इत्याह – – – –
षड् द्व्येकातिशयेन तु||७५||
एकं तुल्याधिकैः
षट् च तारतम्यविकल्पनात्|
पञ्चविंशतिमित्येवं वृद्धैः
क्षीणैश्च तावतः||७६||
एकैकवृद्धिसमताक्षयैः षट् ते
पुनश्च षट्|
एकक्षयद्वन्द्ववृद्ध्या सविपर्यययाऽपि ते||७७||
भेदा द्विषष्टिर्निर्दिष्टाः
त्रिषष्टः स्वास्थ्यकारणम्|
—————————————————-|७८|
स०-वृद्धिश्च क्षयश्च वृद्धिक्षयौ, वृद्धिक्षययोर्विभेदो वृद्धिक्षयविभेदः, विविधो विशिष्टो भेदो-विभेदः, तस्माद्वृद्धिक्षयविभेदतः| अतःपरं-अतोऽनन्तरम्, दोषाः-वातादयो, वक्ष्यन्ते-भणिष्यन्ते|
स०-पृथक्-व्यस्तान् स्वप्रमाणाधिकान्, त्रीन् दोषान् रोगहेतून्, विद्धि-अवेहि| वातो वृद्धः| १| पित्तं वृद्धम्| २| श्लेष्मा वृद्धः| ३| एवं त्रयो दोषाः|
स०-संसर्गस्त्रिधा-त्रिप्रकारः| तत्र-संसर्गे, नव दोषभेदान् स्वप्रमाणाधिकान्, “विद्धि” इत्येतदनुवृत्तिकृतेन सम्बन्धेन सर्वत्र योज्यम्|
स०-समया वृद्ध्या-तुल्यया वृध्द्या, त्रीनेव-अन्यूनाधिकान्, संसर्गदोषभेदान् विद्धि|
एको वातपित्ताभ्यामधिकाभ्याम्, द्वितीयो वातकफाभ्यामधिकाभ्याम्, तृतीयः पित्तश्लेष्मभ्यामधिकाभ्याम्, इति|
संसर्गस्थयोर्दोषयोरेकस्य दोषस्यातिशायने-अधिकतरया वृद्ध्या, षट् संसर्गदोषभेदान् विद्धि|
अतिशयो-अतिशायनम्|
अतिशायने “तमबिष्ठनौ” इति निपातनाद्दीर्घः|
दोषद्वयवृद्धेश्चिन्त्यमानत्वादपरदोषचिन्तानास्त्यत्र|
वातो वृद्धः पित्तं वृद्धतरम्||१||
पित्तं वृद्धं वातो वृद्धतरः||२||
कफो वृद्धः पित्तं वृद्धतरम्||३||
पित्तं वृद्धं कफो वृद्धतरः||४||
कफो वृद्धो, वातो वृद्धतरः||५||
वातो वृद्धः कफो वृद्धतरः||६||
एवं षट् संसर्गदोषभेदान् विद्धि|
स०-समस्तेषु-सन्निपतितेषु त्रिष्वपि दोषेषु वृद्धेषु, त्रयोदश दोषभेदान् विद्धि|
स०-द्वौ चैकश्च द्व्येके, तेषां द्व्येकेषामतिशयो-अधिकत्वम्, तेन द्व्येकातिशयेन| ततो द्वयातिशयेन त्रयो भेदाः, तथा दोषैकस्यातिशयेन त्रयः, इति षट् भेदाः| यथा,-कफो वृद्धो वातपित्तेऽधिकं वृद्धे| १| पित्तं वृद्धं वातकफावतिवृद्धौ| २| वातो वृद्धः पित्तकफावतिवृद्धौ| ३| पित्तकफौ वृद्धौ वातोऽतिवृद्धः| ४| वातकफौ वृद्धौ पित्तमतिवृद्धम्| ५| वातपित्ते वृद्धे कफोऽतिवृद्धः| ६| इति षड्भेदान् द्व्येकातिशयेन सन्निपाते विद्धि|
स०-तुल्यं कृत्वा-समं कृत्वा, वृद्धैर्दोषैरेकं सन्निपातदोषभेदं विद्धि|
स०-तरतमयोर्भावस्तारतम्यम्| कस्य तारतम्यम् ? प्रकृतत्वात्सन्निपातस्थदोषाणाम्| तारतम्यस्य विकल्पनं-भेदः, तारतम्यविकल्पनम्, तस्मात्| सन्निपातस्थदोषाणां वृद्धिरूपाणां षड्भेदान् विद्धि| यथा,-वातो वृद्धः पित्तं वृद्धतरं कफो वृद्धतमः| १| वातो वृद्धः कफो वृद्धतरः पित्तं वृद्धतमम्| २| पित्तं वृद्धं कफो वृद्धतरो वातो वृद्धतमः| ३| पित्तं वृद्धं वातो वृद्धतरः कफो वृद्धतमः| ४| कफो वृद्धो वातो वृद्धतरः पित्तं वृद्धतमम्| ५| कफो वृद्धः पित्तं वृद्धतरं वातो वृद्धतमः| ६| एतेषां च लक्षणं मुनिरध्यगीष्ट| तथा च तद्ग्रन्थः (च. चि. अ. ३|८८)- “सन्निपातज्वरस्योर्ध्वं त्रयोदशविधस्य हि| प्राक् सूत्रितस्य वक्ष्यामि लक्षणं वै पृथक् पृथक्|| भ्रमः पिपासा दाहश्च गौरवं शिरसोऽतिरुक्| वातपित्तोल्बणे विद्याल्लिङ्गं मन्दकफे ज्वरे|| शैत्यं कासोऽरुचिस्तन्द्रा पिपासा दाहरुग्व्यथाः| वातश्लेष्मोल्बणे व्याधौ लिङ्गं पित्तावरे विदुः|| छर्दिः शैत्यं मुहुर्दाहस्तृष्णा मोहोऽस्थिवेदना| मन्दवाते व्यवस्यन्ति लिङ्गं पित्तकफोल्बणे|| सन्ध्यस्थिशिरसः शूलं प्रलापो गौरवं भ्रमः| वातोल्बणे स्याद् ह्यनुगे तृष्णा कण्ठास्यशुष्कता|| रक्तविण्मूत्रता दाहः स्वेदस्तृड्बलसङ्क्षयः| मूर्च्छा चेति त्रिदोषे स्याल्लिङ्गं पित्तगरीयसि|| आलस्यारुचिहृल्लासदाहवम्यरतिभ्रमैः| कफोल्बणं सन्निपातं तन्द्राकासेन चादिशेत्|| समं दोषैस्त्रिभिर्वृद्धैः सन्निपातस्य लक्षणम्| मुहुर्दाहो मुहुः शीतं कर्णक्ष्वेडनपार्श्वरुक्|| मोहः च्छर्दिर्दिवा निद्रा रात्रौ जागरणं तथा| प्रतिश्या छर्दिरालस्यां तन्द्रारुच्यग्निमार्दवम्|| हीनवाते पित्तमध्ये चिह्नं श्लेष्माधिके मतम्| हारिद्रमूत्रनेत्रत्वग्दाहस्तृष्णा भ्रमोऽरुचिः|| हीनवाते मध्यकफे लिङ्गं पित्ताधिके मतम्| शिरोरुग्वेपथुः श्वासः प्रलापः च्छर्द्यरोचकौ|| हीनपित्ते मध्यकफे लिङ्गं वाताधिके मतम्| शीतकं गौरवं तन्द्रा प्रलापोऽस्थिशिरोतिरुक्|| हीनपित्ते वातमध्ये लिङ्गं श्लेष्माधिके विदुः| वर्चोभेदोऽग्निदौर्बल्यं तृष्णा दाहोऽरुचिर्भ्रमः|| कफहीने वातमध्ये लिङ्गं पित्ताधिके मतम्| श्वासः कासः प्रतिश्यायो मुखशोषोऽतिपार्श्वरुक्|| कफहीने पित्तमध्ये लिङ्गं वाताधिके स्मृतम्|” इति|
स०-एवं-पूर्वोक्तेन प्रकारेण, पञ्चविंशतिसङ्ख्यापरिमाणान् वृद्धान् दोषभेदान् वृद्धैर्दोषैर्विद्धि|
स०-क्षीणैः-क्षयावस्थैर्दोषैः, तावतः-तत्परिमाणान् पञ्चविंशतिसङ्ख्याकान् दोषभेदान् विद्धि| यथा,-वृद्धैः पृथक् त्रीन् दोषभेदान्, तथा क्षीणैः| “पृथक् त्रीन्” इत्यादिग्रन्थे वृद्धिशब्दस्थाने क्षीणशब्दे निपात्यः| तद्यथा,-वातः क्षीणः| १| पित्तं क्षीणम्| २| कफः क्षीणः| ३| तदेवं संसर्गे नवदोषभेदान् विद्धि| कथम् ? त्रीनेव समक्षीणत्वेन,-क्षीणवातपित्तसंसर्गः| १| क्षीणपित्तकफसंसर्गः| २| क्षीणवातकफसंसर्गः| ३| षडेकस्यातिशायने| अतिशायने-अन्यदोषापेक्षया क्षीणत्वातिरेके,-वातः क्षीणः पित्तं क्षीणतरम्| १| पित्तं क्षीणं वातः क्षीणतरः| २| वातः क्षीणः कफः क्षीणतरः| ३| कफः क्षीणो वातः क्षीणतरः| ४| कफः क्षीणः पित्तं क्षीणतरम्| ५| पित्तं क्षीणं कफः क्षीणतरः| ६| एवं षट् दोषभेदान् विद्धि| त्रयोदश समस्तेषु-सन्निपतितेषु क्षीणेषु दोषेषु दोषभेदांस्त्रयोदश विद्धि| कथम् ? षड् द्व्येकातिशयेन तु| दोषद्वयस्यातिशयेन-अतिक्षीणत्वेन, तथा दोषैकशयेन तु| तथा दोषैकस्यातिक्षीणत्वेन, पर्यायतः षट् क्षीणसन्निपातदोषभेदान् विद्धि| यथा,-वातः क्षीणः पित्तकफावतिक्षीणौ| १| पित्तं क्षीणं वातकफावतिक्षीणौ| २| कफः क्षीणः पित्तवातावतिक्षीणौ| ३| वातपित्ते क्षीणे कफोऽतिक्षीणः| ४| पित्तकफौ क्षीणौ वातोऽतिक्षीणः| ५| वातकफौ क्षीणौ पित्तमतिक्षीणम्| ६| एकं तुल्यक्षीणैर्भेदं विद्धि| १| षट् च तारतम्यविकल्पनात्,-कफः क्षीणः पित्तं क्षीणतरं वातः क्षीणतमः| १| वातः क्षीणः कफः क्षीणतरः पित्तं क्षीणतमम्| २| पित्तं क्षीणं कफः क्षीणतरो वातः क्षीणतमः| ३| कफः क्षीणो वातः क्षीणतरः पित्तं क्षीणतमम्| ४| वातः क्षीणः पित्तं क्षीणतरं कफः क्षीणतमः| ५| पित्तं क्षीणं वातः क्षीणतरः कफः क्षीणतमः| ६| एवं पञ्चविंशतिदोषभेदान् क्षीणैर्दोषैर्विद्धि|
स०-ते-सन्निपातस्थदोषास्त्रयः, षोढा भवन्ति| कथम् ? इत्याह-एकैकेत्यादि| वृद्धिश्च समता च क्षयश्च वृद्धिसमताक्षयाः| एकैकस्य-वाताद्यन्यतमस्य, वृद्धिसमताक्षया एकैकवृद्धिसमताक्षयाः, तैरेकैकवृद्धिसमताक्षयैः षट्| यथा,-वातो वृद्धः पित्तं समं कफः क्षीणः| १| पित्तं वृद्धं वातः समः कफः क्षीणः| २| कफो वृद्धः पित्तं समं वातः क्षीणः| ३| कफो वृद्धो वातः समः पित्तं क्षीणम्| ४| वातो वृद्धः कफः समः पित्तं क्षीणम्| ५| पित्तं वृद्धं कफः समो वातः क्षीणः| ६| एवमेकैकवृद्धिसमताक्षयैः षट्|
स०-एकस्य क्षय एकक्षयः, द्वन्द्वस्य वृद्धिर्द्वन्द्ववृद्धिः, एकक्षयसहिता द्वन्द्ववृद्धिरेकक्षयद्वन्द्ववृद्धिः, तया| किम्भूतया ? सविपर्ययया,-सह विपर्ययेण-वैपरीत्येन वर्तते या सैवम्, तया| एकक्षयद्वन्द्ववृद्ध्या पुनरेव षट् दोषभेदाः| वातः क्षीणः पित्तकफौ वृद्धौ| १| पित्तं क्षीणं वातकफौ वृद्धौ| २| कफः क्षीणो वातपित्ते वृद्धे| ३| एवमेकक्षयद्वन्द्ववृद्ध्या त्रयो भेदाः| सविपर्ययया च वृद्ध्या त्रयो दोषभेदाः| द्वन्द्वक्षयैकदोषवृद्ध्या-द्वन्द्वक्षयसहितैकदोषवृद्धिः, तया| यथा,-वातपित्तक्षीणे श्लेष्मा वृद्धः| १| वातकफौ क्षीणौ पित्तं वृद्धम्| २| पित्तकफौ क्षीणौ वातो वृद्धः| ३| इति सविपर्ययया वृद्ध्या त्रयो दोषभेदाः| एवं सन्निपातभेदा द्विरूपया वृद्ध्या षडेते ज्ञेयाः|
स०-एवं भेदगणनया दोषाणां भेदा द्विषष्टिर्निर्दिष्टाः-उक्ताः|
स०-त्रिषष्टीनां पूरणो यो दोषभेदः, स स्वास्थ्यकारणं-आरोग्यहेतुः, धातुसाम्यात्| अत्र हि स्वप्रमाणस्था वातपित्तकफाः| ये च दोषभेदा द्विषष्टिः, ते च रोगकारणमित्यर्थादुक्तं भवति| अत्र च रोगहेतुत्वे दोषवैषम्यं कारणम्| त्रिषष्ट इति ” तस्य पूरणे डट्” इति डट्|
आ० र०- अथ संयोगः| तस्य त्रिषष्टिभेदाः| तानाहवक्ष्यन्तेऽतःपरमिति| दोषाः-दोषभेदाः| विमेदः-तारतम्यम्, तत्साम्ये नास्ति वृद्धौ क्षये चास्ति, वृद्धिक्षयवत्तारतम्यं चभेदे कारणम्|
आ० र०- तत्र वृद्धिसाम्याभ्यां द्वादश| तत्र पृथक् त्रीन् विद्धि| पृथक्-प्रत्येकं वृद्धया, “पञ्चविंशतिरित्येवं वृद्धैः” इत्युपसंहारात्| पारिशेष्यात् द्विशः साम्येन| यथा,- वायुर्वृद्धः पित्तकफौ समौ|१| पित्तं वृद्धं वायुकफौ समौ|२| कफो वृद्धो वायुपित्ते समे|३|
आ० र०- संसर्गं त्रिधा विद्धि, वायुपित्ते वायुकफौ पित्तकफौ इति| तत्र तान्-संयोगान्, नव विद्धि|
आ० र०- तत्र त्रीन् समया वृद्ध्या| यथा,- वायुपित्ते वृद्धे कफः समः|१| वायुकफौ वृद्धौ पित्तं समम्|२|पित्तकफौ वृद्धौ वायुः समः |३| एकस्यातिशयने षट्| यथा,-वायोः पित्तं वृद्धं कफः समः|१| पित्ताद्वायुर्वृद्धः कफः समः|२| कफाद्वायुर्वृद्धः पित्तं समम्|३| वायोः कफो वृद्धः पित्तं समम्|४| पित्तात्कफो वृद्धो वायुः समः|५| कफात्पित्तं वृद्धं वायुः समः|६| एवं द्वादश|
आ० र०- वृद्धेष्वेव समस्तेषु त्रयोदश संयोयोगान् विद्धि|
आ० र०- तत्रैकस्मात् द्वयोर्वृद्धयोस्त्रीन्| यथा,-वायोः पित्तकफौ वृद्धौ|१| पित्तात्कफवायू|२| कफाद्वायुपित्ते|३| द्वाभ्यामेकस्मिन् वृद्धे त्रीन्| यथा,- वायुपित्ताभ्यां कफो वृद्धः|१| वायुकफाभ्यां पित्तं वृद्धम्|२| पित्तकफाभ्यां वायुर्वृद्धः|३|
आ० र०- तुल्याधिकैरेकम्|यथा,-वायुपित्तकफा वृद्धाः|१|
आ० र०-तारतम्यविकल्पनात् षट्| यथा,-वायुपित्तकफा वृद्धा वृद्धतरा वृद्ध्तमाः||१|| एवं वायुकफपित्तानि|२| पित्तकफवायवः|३| पित्तवायुकफाः|४| कफवायुपित्तानि|५| कफपित्तवायवः|६| एवं त्रयोदश|
आ० र०- एवं वृद्धौ पञ्चविंशतिं विद्धि|
आ० र०- क्षीणैश्च तावतो विद्धि| वृद्धशब्दस्थाने क्षीणशब्दपयोगात्ते ज्ञेयाः|
आ० र०- वृद्धिक्षयसाम्यैः (वृद्धिसाम्यक्षयैः) षट्| वृद्धवृद्धतरवृद्धतमस्थाने वृद्धक्षीणसम(वृद्धसमक्षीण) प्रयोगात्ते ज्ञेयाः| तेषां लक्षण्मुक्तं सङ्ग्रहे (सू. अ. २०)-“रोगावस्थासु युगद्वृद्धिसाम्यक्षयनुगम्| षट्कं हि दुर्बोधतरं विकारैरिति द्दश्यते|| प्रकृतिस्थं यदा पित्तं वृद्धो वायुः कफक्षये| स्थानादादाय गात्रेषु यत्र विसर्पति|| तदाभेदस्च दाहश्च तत्र तत्रानवस्थितौ| गात्रदेशे तथा स्यातां बलहानि परिश्रमौ|| प्रकृतिस्थं कफं क्षीणे पित्ते वायुर्यदा बली| कर्षेत् कुर्यात्तद शूलं सशैत्यस्तम्भगौरवम्|| प्रकृतिस्थं यदा वातं पित्तं वृद्धं कफक्षये| सरुणद्धि तदा दाहः शूलं चाषोपजात्यते|| प्रकृतिस्थं कफं वृधं पित्तं वायुक्षये यदा| सन्निरुध्यात्तदा कुर्यात्सतन्द्रागौरवं ज्वरम्|| प्रकृतिस्थं यदा वायुं क्षीणे पित्ते कफोऽधिकः| सन्निरुध्यात्तदा कुर्याच्छीतकं गौरवं रुजम्|| शीतकं-शीतपूर्वज्वरम्| प्रकृतिस्थं यदापित्तवृद्धः श्लेष्माऽनिलक्षये| सन्निरुध्यात्तदा कुर्यान्मन्दाग्नित्वं शिरोग्रहम्|| निद्रातन्द्रोपलेपांश्च हृद्रोगं गात्रगौरवं| ष्ठीवनं पित्तकफयोर्नखादीनां च पीतताम्|| ये दोषवृद्धिक्षययोर्विकारः कीर्तिताः पृथक्| शेषेष्वपि तु तानेव कल्पयेत्तद्यथायथम्||” इति|
आ० र०- एकक्षयद्वन्द्ववृद्धिभ्यां त्रयः|यथा,-वायुः क्षीणः पित्तकफौ वृद्धौ|१| पित्तं क्षीणं कफवायू वृद्धौ|२| कफः क्षीणो वायुपित्ते वृद्धे|३| द्विक्षयैकवृद्धिभ्यां त्रयः| यथा,-वायुपित्ते क्षीणे कफो वृद्धः|१| पित्तकफौ क्षीणौ वायुर्वुद्धः|२| कफवायू क्षीणौ पित्तं वृद्धम्|३|
आ० र०- एवं द्विषष्टिर्भेदाः|
आ० र०- वायुपित्तकफाः समा इतित्रिषष्टो भेदःस्वास्थ्यकारणम्|
अधुना रसादिभेदादानन्त्यं दोषभेदानां दर्शयन्नाह – – – –
————————————————|
संसर्गाद्रसरुधिरादिभिस्तथैषां
दोषांस्तु क्षयसमताविवृद्धिभेदैः|७८|
आनन्त्यं तरतमयोगतश्च यातान्
जानीयादवहितमानसो यथास्वम्|
७८ -१/२|
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां सूत्रस्थाने दोषभेदीयो नाम द्वादशोऽध्यायः|१२|
स०-न केवलं द्विषष्टिभेदभिन्नान् दोषान् जानीयात्| आनन्त्यं च गतान् विद्यात्| कथमानन्त्यम् ? इत्याह-एषां दोषभेदानां, यथास्वं-रसरक्तादिभिर्धातुभिः संयोगात्, तथैषामेव क्षयादिभेदैस्तरतमयोगाच्चानन्त्यं गतान् विद्यात्| तत्र दिङ्मात्रं शिष्यव्युत्पत्तये प्रदर्शयते| तत्र रसे वातपित्तकफानां पृथक् त्रयो भेदा भवन्ति, “पृथक् त्रीन् विद्धि” इत्यनुसारेण| संसर्गस्त्रिधा| “तत्र तु तान्” रसमेवाधिकृत्य नव विद्धि| कथम् ? पूर्ववत् “त्रीनेव समया वृद्ध्या षडेकस्यातिशायेने|” एवं पूर्वोक्तन्यायेन रसमधिकृत्य संसर्गं योजयित्वा सन्निपातो योजनीयः| यथा,-त्रयोदश समस्तेषु| कथम् ? “षड्द्व्येकातिशयेन तु| एकं तुल्याधिकैः षट् च तारतम्यविकल्पनात्||” इति समानं पूर्वेण, रसाख्यं स्थानं केवलमधिकम्| “पञ्चविंशतिमित्येवं वृद्धैः क्षीणैश्च तावतः|” रसमधिकृत्य भेदान् विद्धि| इत्येवं रुधिरमांसादिभिर्योज्यम्| एकैकोपक्रमेणेत्येवं द्विषष्टिभेदभिन्नानां दोषाणां रसादिभिः सप्तभिः संयोगात् चत्वारि शतान्येकचत्वारिंशदधिकानि स्युः| शकृदादिसंसर्गात् क्षीणतरक्षीणतमादिभेदैर्वृद्धतरवृद्धतमादिभेदैश्च चिन्त्यमाना दोषा आनन्त्यं यान्तीति| रसभेदे दोषभेदे चावगते वैद्यस्य हेतुलक्षणोपक्रमेषु मोहो न भवति| तथा च मुनिः (च. सू. अ. २६|२५)- “यः स्याद्रसविकल्पज्ञः स्याच्च दोषविकल्पवित्| न स मुह्येद्विकाराणां हेतुलिङ्गोपपत्तिषु||” इति| म्नौज्रौगस्त्रिदशभवाप्रहर्षिणी स्यात्|
इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटीकायां सर्वाङ्गसुन्दराख्यायां सूत्रस्थाने दोषभेदीयाध्यायो द्वादशः समाप्तः|| १२||
आ० र०- एते भेदा रसादिभिर्दूष्यैः प्रत्येकं संसर्गाद्वहवो भवन्ति| तथा, एषां-दूष्याणां क्षयादिभेदैः संसर्गात्ततोऽपि बहवः| एवमानन्त्यं यातान् दोषानवहितमानसो जानीयात्| यथास्वं-स्वेन लक्ष्णेन|
इति हेमाद्रिटीकायामायुर्वेदरसायने|
दोषभेदप्रकरणं सामस्त्येन निरूपितम्|| १२||
Moolashloka with Arunadutta & Hemadri Commentary

Diacritic Version
śrīmadvāgbhaṭaviracitam
Aṣṭāṅgahr̥dayam
śrīmadaruṇadattaviracitayā 'sarvāṅgasundarākhyā' vyākhyayā hēmādripraṇītayā 'āyurvēdarasāyanāhvayā' ṭīkayā ca samullasitam
sūtrasthānam - 12. dōṣabhēdīyādhyāyaḥ
dōṣādivijñānīyādanantaraṁ dōṣabhēdīyādhyāyārambhaḥ| yatō dōṣabhēdamantarēṇa dōṣavijñānaṁ samyaṅnōktaṁ syāt|
0
pūrvasminnadhyāyē bahuvaktavyatvāddōṣabhēdō nōkta ityāha – – – –
athātō dōṣabhēdīyādhyāyaṁ vyākhyāsyāmaḥ|
iti ha smāhurātrēyādayō maharṣayaḥ|
(gadyasūtrē||2||
sa0-dōṣāṇāṁ bhēdō-dōṣabhēdaḥ, sthānanāmavibhāgādibhiḥ| tasmai hitō dōṣabhēdīyaḥ| śēṣaṁ pūrvavat|
ā0 ra0- dōṣabhēdīyamadhyāyaṁ vyākhyātuṁ pratijānītēathēti| yataḥ pūrvādhyāyē dōṣavaiṣamyamuktam| tacca dōṣabhēdādbahudhā bhidyatē| dōṣabhēdajñānārthamayamadhyāyaḥ| ata ēvāyaṁ dōṣabhēdīyaḥ | tadbhēdaśca sthānakarmāvasthāhētvākr̥tisādhanasaṁyōgabhēdadbhavati| tatra sthānatō yathā-pakvāśayasthō’gaṁ vāyuḥ kaṭisthō’yam| karmatō yathā,-śvāsōcchvā sapravatakō’yaṁ viṇmūtrapravartakō’yam|avasthātō yathā,-citō’yaṁ prakupitō’yam| hētutō yathā,-mithyāyōgaprakupitō’yam, atiyōgaprakupitō’yam| ākr̥titō yathā,-straṁsalakṣaṇō’yaṁ vyāsalakṣaṇō’yam| sādhanatō yathā,-snigdhō paśayō’yam,uṣṇōpaśayō’yam| saṁyōgatō yathā,-pittayuktō’yaṁ ślēṣmayuktō’yamiti| ēvaṁ pittādiṣvapi|
pakvāśayakaṭīsakthiśrōtrāsthisparśanēndriyam|
sthānaṁ vātasya, tatrāpi pakvādhānaṁ viśēṣataḥ||1||
sa0-pakvāśayādi vātasya sthānam| tatrāpi ṣaḍvidhē sthānē viśēṣēṇa pakvādhānaṁ syāt| annaṁ pakvamādhīyatē-sthāpyatē’sminniti pakvādhānaṁ,-pakvāśayaḥ| ata ēva vātē bastirupakramaḥ pradhāna uktaḥ, mūlāpakarṣaṇāt| sakalaśarīravyāpitvē’pyēṣāmidaṁ viśēṣēṇōktam| tathā ca prāgadhyagīṣṭa (hr̥. sū. a. 1|7) – “tē vyāpinō’pi hr̥nnābhyōḥ” iti| vicitragatitvāccaiṣāṁ vakṣyamāṇaprāṇādibhēdēna pr̥thak sthānakarmanirdēśaḥ|
ā0 ra0- tatrādau sthānatō bhēdaḥ| sthānaṁ dvidhā,-sāmānyaṁ viśiṣṭaṁ ca| tatrādau sāmānyam| tatra vāyōḥ sthānamāha-pakvāśayēti| pakvāśayō-nābhēradhaḥ pakvānnasthānam| kaṭī-śrōṇiḥ| sakthi-vaṅkṣaṇādyaṅguṣṭhāntam| śrōtraṁkarṇaḥ| sparśanēndriyaṁ-tvak| tatra-tēṣu sthānēṣu madhyē, pakvādhānaṁ-pakvāśayō, viśēṣataḥ sthānam|
nābhirāmāśayaḥ svēdō lasīkā rudhiraṁ rasaḥ|
dr̥k sparśanaṁ ca pittasya, nābhiratra viśēṣataḥ||2||
sa0-pittasya nābhyādīni sthānāni| lasīkā-jalasadr̥śī| dr̥k-cakṣuḥ| sparśanaṁ-tvak| nanu, sparśanēndriyaṁ vāyōḥ sthānamuddiṣṭam| tadēva kathaṁ pittasyāpi syāt| brūmaḥ| vātasakhitvādagnēḥ| vātasakhō hyagniḥ, pittaṁ ca vahniriti vacanāt| tasmādubhayōrapyētadyuktaṁ sthānam| viśēṣata iti| atra-ēṣu sthānēṣu madhyē, pittasya viśēṣēṇa nābhiḥ sthānam|
ā0 ra0- pittasyāha-nābhiriti| āmāśayō-nābhērūrdhvapakvānnasthānam| “lasīkā-syāgrasamalō jalaprāyastvagāśrayaḥ”| ddak-cakṣuḥ| sparśanaṁ-tvak| atra-ēṣu sthānēṣumadhyē, nābhirviśēṣataḥ sthānam|
uraḥkaṇṭhaśiraḥklōmaparvāṇyāmāśayō rasaḥ|
mēdō ghrāṇaṁ ca jihvā ca kaphasya, sutrāmuraḥ||3||
sa0-kaphasyōraḥ prabhr̥tīni jihvāntāni sthānāni| sutarāṁ-suṣṭhu sthānamurō-vakṣaḥ|
ā0 ra0- kaphasyāha-ura iti| urō-vakṣaḥ| klōmōdakavāhistrōtōmūla, hr̥ddakṣiṇatō māṁsagranthiḥ| parvāṇisandhayaḥ| ghrāṇaṁ-nāsā| ēṣu madhyē urō viśēṣataḥ sthānam|
atha pratyēkamētēṣāṁ dōṣāṇāṁ viśiṣṭasthānāśrayēṇa kriyābhēdāt pañca pañca bhēdānāha – – – –
prāṇādibhēdātpañcātmā vāyuḥ——————|
———————————————|4|
sa0-vāyurēka ēva calanasvabhāvaḥ san prāṇādibhiḥ-prāṇōdānavyānasamānāpānaiḥ, bhēdāt-viśēṣāt, pañcātmā-pañcasvabhāvaḥ| yathaikō’pi dēvadattō yāṁ yāṁ kriyāṁ karōti tadanurūpāmēva saṁjñāṁ lāvakapācakādikāṁ labhatē, tadvadvātādayaḥ|
ā0 ra0- atha viśiṣṭasthānaṁ karma ca, sāmānyakarmaṇa utsāhādēḥ pūrvādhyāyē nirdiṣṭatvāt| tatra vāyōrviśēṣamāhaprāṇādibhēdāditi| prāṇādayaḥ-prāṇōdānavyānasamānāpānāḥ| pañcātmā-pañcaviśēṣaḥ|
—————————prāṇō’tra mūrdhagaḥ|
uraḥkaṇṭhacarō buddhihr̥dayēndriyacittadhr̥k||4||
ṣṭhīvanakṣavathūdgāraniḥśvāsānnapravēśakr̥t|
———————————————-|5|
sa0-atra-ēṣu madhyē, prāṇō vāyurmūrdhagaḥ-śirasi sthitaḥ, uraḥ kaṇṭhaṁ ca carati| tathā, buddhyādīnāṁ dhārakaḥ| tathā, ṣṭhīvanādikriyaḥ| ṣṭhīvanaṁ- mukhasrāvōdgāraḥ| ṣṭhīvanamiti “ṣṭhīvērlyuṭi ṣṭhīvisivyōrdīrghaśca” iti pr̥ṣōdarādipāṭhāddīrghaḥ|
ā0 ra0- prāṇasya sthānakarmāṇyāha-prāṇō’trēti| prāṇasyamūrdhā’vasthitisthānam| uraḥ kaṇṭhaśca vicaraṇasthānam| buddhayādidhāraṇaṁ ṣṭhīvanādikaraṇaṁ ca karma| hr̥dayaṁ-manō’dhiṣṭhānam| cittaṁ-manaḥ| indriyāṇi-cakṣurādīni|
——————————————–|
uraḥ sthānamudānasya nāsānābhigalāṁścarēt||5||
vākpravr̥ttiprayatnōrjābalavarṇasmr̥tikriyaḥ|
—————————————–|6|
sa0-udānasya pradhānamuraḥ sthānam, nāsādīṁśca carati| vākpravr̥ttyādikriyaḥ| prayatnaḥ-kāryēṣu padārthagrahaṇādiṣūdyamaḥ|
ā0 ra0- udānasya sthānakarmāṇyāha-uraḥ sthānamiti| udānasyōrō’vasthitisthānam| nāsādi vicaraṇasthānam| vākpravr̥ttyādikaṁ karma| prayatnaḥ-utsāhaḥ| ūrjā-prāṇanam|
————————————————-|
vyānō hr̥di sthitaḥ kr̥tsnadēhacārī mahājavaḥ||6||
gatyapakṣēpaṇōtkṣēpanimēṣōnmēṣaṇādikāḥ|
prāyaḥ sarvāḥ kriyāstasmin pratibaddhāḥ śarīriṇām||7||
sa0-vyānō hr̥dayē sthitaḥ prādhānyēna kr̥tsnē-sarvasmin, śarīrē carati| tathā, mahājavaḥ-śīghragatiḥ, prāṇādyapēkṣayā| tathā, gatyādikāḥ kriyāḥ prāyaḥ sarvadēhināṁ tasmin-vyānē, pratibaddhāḥ-tadāyattāḥ| gatiḥ-caṅkramaṇam| apakṣēpaṇaṁ-aṅgasyādhōanayanam| utkṣēpaḥ- aṅgasyōrdhvanayanam| nimēṣaḥ-akṣṇōrnimīlanam| unmēṣaḥ-tayōrvikāsaḥ| ādigrahaṇēna jr̥mbhaṇānnāsvādanaviśōdhanādiparigrahaḥ|
ā0 ra0- vyānasyāha-vyāna iti| vyānasya hr̥dayamavasthitisthānam| sarvaśarīraṁ vicaraṇasthānam| gayādayaḥ sakalāḥ kriyāḥ karma| apakṣēpaṇaṁ-aṅgasyādhōnayanam| utkṣēpaṇaṁ-ūrdhvanayanam| tasminpratibaddhāḥ-tadēkaniṣpādyāḥ| mahājavaḥ-prāṇādibhyō vēgavān|
samānō’gnisamīpasthaḥ kōṣṭhō carati sarvataḥ|
annaṁ gr̥hṇāti pacati vivēcayati muñcati||8||
sa0-samānō vāyuragnisamīpasthaḥ| sāmānyōktāvapi prādhānyātpācakō’gnirgr̥hyatē| ata ēvāha-kōṣṭhē carati sarvata ityādi| sarvasmin kōṣṭhē carati| sa cānnaṁ gr̥hṇāti-apakvamāmāśayē dhārayatītyarthaḥ| pacati-agnisandhukṣaṇādbhaktakāra iva| vivēcayati-saṁhatamannaṁ pākāya vibhajatē| muñcati-śakr̥nmūtrādirūpamadhaḥ|
ā0 ra0- samānasyāha-samāna iti| samānasyāgnisamīpamavasthitisthānam| sarvakōṣṭhō vicaraṇasthānam| annasya grahaṇaṁ, gr̥hītvā pācanaṁ, paktvā sārakiṭṭadivēcanaṁ, vivicya kiṭṭāvamōcanaṁ ca karma| agnisamīpaṁ agnisthānasya grahaṇyākhyasya agnyanavaruddhō’vakāśaḥ|
apānō’pānagaḥ śrōṇibastimēḍhrōrugōcaraḥ|
śukrārtavaśakr̥nmūtragarbhaniṣkramaṇakriyaḥ||9||
sa0-apānō vāyurapānaṁ prādhānyēnāśritaḥ, śrōṇyādicaraḥ, śukrādiniṣkramaṇakriyaḥ| iti vātabhēdāḥ pañca|
ā0 ra0- apānasyāha-apāna iti| apānasyāpānaṁgudamavasthitisthānam| śrōṇyādi vicaraṇasthānam| śukrādiniṣkramaṇaṁ karma| bastiḥ-mūtrāśayaḥ| mēḍhraṁ-mūtramārgaḥ| gōcarō-vicaraṇaviṣayaḥ|
pañca pittabhēdānāha – – – –
pittaṁ pañcātmakam—————————|
————————————————-|10|
sa0-pācakarañjakasādhakālōcakabhrājakabhēdāḥ pañca pittasya|
ā0 ra0- pittāviśēṣānāha-pittamiti| pācakarañjakasādhakālōcakabhrājakabhēdāt pañcadhā pittam|
——————–tatra pakvāmāśayamadhyagam|
pañcabhūtātmakatvē’pi yattaijasaguṇōdayāt||10||
tyaktadravatvaṁ pākādikarmaṇā’nalaśabditam|
pacatyannaṁ vibhajatē sārakiṭṭau pr̥thak tathā||11||
tatrasthamēva pittānāṁ śēṣāṇāmapyanugraham|
karōti baladānēna pācakaṁ nāma tatsmr̥tam||12||
sa0-tatra-tēṣu pañcasu madhyē, pakvāmāśayayōrmadhyasthaṁ yatpittaṁ tathā pañcabhūtātmakatvē’pi sati yattaijasaguṇōdayāt-āgnēyaguṇōtkarṣāt, kṣapitasōmaguṇatvēna tyaktadravatvaṁ-sañjātakāṭhinyam, tathā sahakārikāraṇaiḥ pācanakriyāṁ prati savyāpārairvāyvādibhiranugrahādupakārāt yataḥ pākadāhādikriyayā’nalaśabditaṁ-agniśabdavācyaṁ yatpittaṁ tatpācakamucyatē| taccānnaṁ pacati| sārakiṭṭau pr̥thag vibhajatē-vibhāgīkarōti| kiṭṭaśabdasya lōkāśrayatvālliṅgasyēti puṁstvam| tatrasthamēva-pakvāmāśayamadhyagamēva, śēṣāṇāṁ-rañjakādīnāṁ dhātusthānāṁ ca, anugrahaṁ-upakāraṁ karōti| baladānēna-sāmarthyādhānēna, svasthānasthamēva tēṣūpakuruta ityarthaḥ|
ā0 ra0- pācakasya sthānakarmāṇyāha-tatrēti| pācakasyapakvāmāśayamadhyaṁ-grahaṇyākhyaṁ sthānam| annasya pacanaṁ, paktvā sārakiṭṭavibhāgō, rañjakādicatuṣṭayānugrahaśca karma| kīddaśaṁ tat ? yatpañcabhūtātmakatvē satyāpi tējōbhūtaguṇādhikyātyaktadravatvam| tathā, pākādīnāmagnikāryāṇāṁ karaṇādanalasaṁjñayōktam| ētēna pācakāpēkṣayā agnipittayōrabhēdaḥ, rajakādyapēkṣayā bhēda iti matadvayaṁ vyavasthāpitam| tatrasthaṁsvasthānastham|
āmāśayāśrayaṁ pittaṁ rañjakaṁ rasarañjanāt|
————————————————-|13|
sa0-yattvāmāśayasthaṁ pittaṁ tadrasākhyadhātō rañjanātrāganiṣpādanāt, rañjakamucyatē|
ā0 ra0- rañjakasyāha-āmāśayāśrayamiti| rañcakatyāmāśayaḥ sthānam| rasarañjanaṁ karma|
————————————————-|
buddhimēdhābhimānādyairabhiprētārthasādhanāt||13||
sādhakaṁ hr̥dgataṁ pittaṁ—————————|
————————————————-|14|
sa0-yattu hr̥dgataṁ-hr̥dayasthaṁ pittaṁ tadbuddhyādibhiḥ karaṇbhūtairabhiprētasyārthasya bāhyagrahaṇasmaraṇādirūpēṇa sādhanāt sādhakamucyatē| vartamānakālē yā manōrthasaṁśayasya niścayaṁ kartuṁ tadarthādhyavasāyōpārūḍhā sā-buddhiḥ| buddhiviśēṣō-mēdhā|
ā0 ra0- sādhakasyāha-buddhīti| sādhakasya hr̥dayaṁ sthānam| buddhayādidvārēṇābhīṣṭārthasādhanaṁ karma| abhimānaḥ-ahaṅkāraḥ|
————————rūpālōcanataḥ smr̥tam|
dr̥ksthamālōcakaṁ—————————-|14|
sa0-dr̥ṣṭisthaṁ pittaṁ rūpālōcanāt (nataḥ)-antastārakayōḥ sthitaṁ tadāyattarūpagrahaṇaśaktitvāt, ālōcakamucyatē|
ā0 ra0- ālōcakāsyāha-rūpālōcanata iti| ālōcakasya ddak-ddaṣṭiḥ sthānam| rūpālōcanaṁ karma|
————————————————-|
——————tvaksthaṁ bhrājakaṁ bhrājanāttvacaḥ||14||
sa0-tvacō bhrājanāt-dīpanāt, bhrājakaṁ nāma pittam| ētacca pittamabhyaṅgalēpapariṣēkādīn pācayati|
ā0 ra0– bhrājakasyāha-tvaksthamiti| bhrājakasya tvaksthānam| tvacō bhrājanaṁ-prakāśanaṁ, karma| saṅgrahē tu (sū. a. 20) – ” tadabhyaṅgapariṣēkālēpādīn pācayati ” ityuktam|
ślēṣmā tu pañcadhā———————–|
————————————————-|15|
sa0-ślēṣmā tu pañcadhā,-pañcaprakāraḥ|
ā0 ra0- ślēṣmaviśēṣānāha-ślēṣmēti| avalambakalkē dakabōdhakatarpakaślēṣakabhēdāt pañcādhā śēṣmā|
tadēva pañcaprakāratvamāha – – – –
—————uraḥsthaḥ sa trikasya svavīryataḥ|
hr̥dayasyānnavīryācca tatstha ēvāmbukarmaṇā||15||
kaphadhāmnāṁ ca śēṣāṇāṁ yatkarōtyabalambanam|
atō’valambakaḥ ślēṣmā———————|16|
sa0-saḥ-ślēṣmā, urasi tiṣṭhatītyuraḥsthaḥ, trikasya-pr̥ṣṭhādhā(dha)rākhyasya, svavīryataḥ-svaprabhāvāt, yat-yasmāt, avalambanaṁ karōti-svakarmaṇi tasya sāmarthyamutpādayati| hr̥dayasyānnavīryāt-annavīryēṇābhyavahr̥tādannādrasarūpatāpariṇatāt tadvīryēṇa-tadbalēnāvalambanaṁ karōti| caśabdāt svavīryēṇāpi hr̥dayasyāvalambanaṁ karōti| kintvannavīryādatiśayēna yathā’valambanaṁ hr̥dayasya karōti na tathā svavīryataḥ| yatō’nnarasaḥ pūrvaṁ hr̥di sthitiṁ kr̥tvā tatō vyānavikṣiptaḥ sarvaṁ śarīraṁ yāti, tasmādviśēṣēṇa hr̥dayasyānnavīryādavalambanaṁ yuktam| āgamō’pi-“hr̥dayaṁ manasaḥ sthānamōjasāścintitasya ca| māṁsapēśīcayō raktapadmākāramadhōmukham|| yōginō yatra paśyanti samyag jyōtiḥ samāhitāḥ| rasō yaḥ svacchatāṁ yātaḥ sa tatraivāvatiṣṭhatē|| tatō vyānēna vikṣiptaḥ kr̥tsnaṁ dēhaḥ prapadyatē|” iti| tathā, tatstha ēva-uraḥstha ēva, ēṣa ślēṣmā śēṣāṇāṁ kaphasthānānāmambukarmaṇā-klēdasaṁślēṣādilakṣaṇēna jalavyāpārēṇa, avalambanaṁ karōti| ataḥ-asmādyathōktāddhētōḥ, avalambakaḥ ślēṣmētyucyatē|
ā0 ra0 avalambakasya sthānakarmāṇyāha-uraḥstha iti| avalambakasya uraḥ sthānam| trikādyavalambanaṁ karma| trikasyapr̥ṣṭhādhārasya, svavīryataḥ-ātmaprabhāvēṇa, avalambanaṁ karōti| hr̥dayasyānnavīryāt, cakārāstvavīryācca| hr̥dayāvalambanē’nnavīryaṁ sahakāri, “ātmavīryēṇa annarasasahitēna” iti suśrutavacanāt (sū. a. 21/14)| tatstha ēva śēṣāṇāṁ-kaṇṭhādīnām, kaphadhāgnāṁ-kaphasthānānām, ambukarmaṇā-jalavyāpārēṇa klēdanatarpaṇapūraṇādinā, avalambanaṁ karōti| kēcittu bāhugrīvāsthitrayasaṅghātaṁ trikamāhuḥ| tadasat| trikaśabdasya pr̥ṣṭhavaṁśādhara ēva rūḍhatvāt| rūḍhistuyōgādvalīyasī| āsannatvaṁ cāprayōjakam, davīyasāmapi kaphādhāgnnāmavalambanōktēḥ|
—————————yastvāmāśayasaṁsthitaḥ||16||
klēdakaḥ sō’nnasaṅghātaklēdanāt———————|
————————————————-|17|
sa0-yaḥ punaḥ ślēṣmā āmāśayē sthitaḥ, sa klēdaka ityucyatē| kutaḥ ? annasaṅghātaklēdanātkāraṇāt|
ā0 ra0- klēdakasyāha-yastviti| klēdakasyāmāśayaḥ sthānam| annasaṅghātaklēdanaṁ karma|
——————————–rasabōdhanāt|
bōdhakō rasanāsthāyī————————|17|
sa0-rasanāsthāyī-jihvāsthō, bōdhaka ityucyatē, rasabōdhanāt kāraṇāt|
ā0 ra0- bōdhakasyāha-rasabōdhanāditi| bōdhakasya rasanā-jihṇēndriyaṁ sthāṇam| rasabōdhanaṁ karma|
————————————————-|
———————śiraḥsaṁsthō’kṣatarpaṇāt||17||
tarpakaḥ————————————–|
————————————————-|18|
sa0-śiraḥsthastarpaka ityucyatē, akṣatarpaṇādvētōḥ|
ā0 ra0- tarpakasyāha-śiraḥ saṁstha iti| tarpakasya śiraḥsthānam| indriyatarpaṇaṁ karma|
————sandhisaṁślēṣācchlēṣakaḥ sandhiṣu sthitaḥ|
————————————————-|18|
sa0-sandhiṣu sthitaḥ ślēṣmā ślēṣaka ityucyatē, sandhisaṁślēṣāt kāraṇāt|
ā0 ra0- ślēṣakasyāha-sandhisaṁślēṣāditi| ślēṣakasyasandhayaḥ sthānam| sandhisaṁślēṣaṇaṁ karma|
ēvaṁ dōṣāṇāṁ sthānānyuktvōpasaṁharannāha – – – –
————————————————-|
iti prāyēṇa dōṣāṇāṁ sthānānyavikr̥tātmanām||18||
vyāpināmapi jānīyātkarmāṇi ca pr̥thakpr̥thak|
————————————————-|19|
sa0-prāyēṇa-bāhulyēna, dōṣāṇāmavikr̥tātmanāṁ-apracyutasvabhāvānām, iti-uktaprakārāṇi, sthānāni vyāpināmapi-sakalaśarīracarāṇāmapi, jānīyāt| vaidya iti śēṣaḥ| tathā, karmāṇi pr̥thakpr̥thak-pratyēkaṁ kr̥tvā, jānīyāt|
ā0 ra0- prakaraṇārthamupasaṁharati-iti prāyēṇēti| prāyēṇa-bāhulyēna, yadyapi sarvaśarīravyāpinastathā’pyēṣu sthānēṣvatiśayēna tīṣṭhantītyarthaḥ| avikr̥tāmanāṁ-apracyutasvabhāvānām, vikr̥tātmanāṁ tu na sthānaniyamaḥ| iti sthānakarmaprakaraṇam|
vikr̥tirēṣāṁ vr̥ddhiḥ kṣayaśca|
vr̥ddhirapi dvividhā,-cayaprakōpabhēdēna|
dōṣādivijñānīyē sāmānyēna vr̥ddhikṣayalakṣaṇamuktam|
samprati cayaprakōparūpaṁ vr̥ddhinidānaṁ saṅkṣēpēṇa sūcayannāha – – – – –
————————————————–|
uṣṇēna yuktā rūkṣādyā vāyōḥ kurvanti sañcayam||19||
śītēna kōpamuṣṇēna śamaṁ snigdhādayō guṇāḥ|
————————————————-|20|
sa0-uṣṇēna guṇēna viruddhēnōpahitā rūkṣādayaḥ-prathamādhyāyōktāḥ (ślō. 11) ṣaḍvātaguṇāḥ, vāyōścayaṁ kurvanti, na kōpamuṣṇasya viruddhatvāt| ta ēva ca rūkṣādayaḥ śītaguṇōpahitāstatsadr̥śatvādvāyōḥ kōpaṁ kurvanti| uṣṇēna yuktāḥ snigdhādayō guṇā vāyōḥ śamaṁ kurvanti, viparītatvāt|
ā0 ra0- athāvasthā| sā ca dvēdhā,-sāmyaṁ vaiṣamyaṁ ca| vaiṣamyaṁ dvēdhā,kṣayō vr̥ddhiśca| vr̥ddhirdvēdhā cayaprakōpabhēdēna| kṣayōvr̥ddhirdvēdhā,- cayaprakōpabhēdēna| cayaprakōpakṣayasāmyabhēdāccatastrō’vasthāḥ| tatra kṣayasāmyēpraśamaśbdēnōtpāttē niṣpādyamānasya praśamasya kṣayarūpatvāt niṣpannasya sāmyarūpatvāt praśamahētūnāṁ pramādātiyōgē punaḥ kṣayarūpatvāt , kṣayahētūnāmapi praśamahētūnāṁ pramādātiyōgē punaḥ kṣayarūpatvāt, kṣayahētūnāmapi praśamaśabdatvācca| tatra cayādinidānam| tatra vāyōrāha- uṣṇēnēti| uṣṇēna guṇēna yuktā rukśādayō vāyō: sañcayaṁ kurvanti, ta ēva śītēna yuktāḥ kōpam| uṣṇēna yuktāḥ snigdhāḥ śamaṁ kurvatē|
————————————————-|
śītēna yuktāstīkṣṇādyāścayaṁ pittasya kurvatē||20||
uṣṇēna kōpaṁ, mandādyāḥ śamaṁ śītōpasaṁhitāḥ|
————————————————-|21|
sa0-ēvaṁ pittasya śītēna guṇēna yuktāstīkṣṇādayō guṇāścayaṁ kurvanti| ta ēva tīkṣṇādayō guṇā uṣṇēna sahitāḥ kōpaṁ kurvanti| mandādayō guṇāḥ śītaguṇayuktāḥ śamaṁ kurvanti, viparītatvāt|
ā0 ra0- pittasyāha-śītēnēti guṇēna yuktāstīkṣṇādyāḥ pittasya cayaṁ kurvatē, ta ēva uṣṇēna yuktāḥ kōpam| śītēna yuktāḥ mandādyāḥ śamaṁ kurvatē|
————————————————-|
śītēna yuktāḥ snigdhādyāḥ kurvatē ślēṣmaṇaścayam||21||
uṣṇēna kōpaṁ, tēnaiva guṇā rūkṣādayaḥ śamam|
————————————————-|22|
sa0-śītaguṇōpahitāḥ snigdhādayaḥ kaphasya cayaṁ kurvatē| uṣṇēna yuktāsta ēva snigdhādayaḥ kaphasya kōpaṁ kurvatē| tēnaiva-uṣṇēna, yuktā rūkṣādayaḥ kaphasya ca śamaṁ kurvanti| kaphasya hi śītaguṇēna sadr̥śēnāpi snigdhādiguṇayuktēna styānatvāccayaḥ syāt| viparītēnōṣṇēna vilayanāt kōpaḥ| sa ēvōṣṇō yadā rūkṣādiyuktō bhavati tadā viparītatvāt śamō bhavati|
ā0 ra0- kaphasyāha-śītēnēti| śītēnayuktāḥ snigdhādyāḥ kaphasya cayaṁ kurvatē, ta ēvōṣṇēna yuktāḥ kōpam| tēna-uṣṇēna sahitā rūkṣādayō guṇāḥ śamaṁ kurvatē|
idānīṁ cayādīnāṁ lakṣaṇānyāha – – – –
—————————————————–|
cayō vr̥ddhiḥ svadhāmnyēva pradvēṣō vr̥ddhihētuṣu||22||
viparītaguṇēcchā ca——————————–|
————————————————-|23|
sa0-svadhāmnīyē sthānē dōṣasya yā vr̥ddhiḥ sa caya ucyatē| citasya dōṣasya liṅgamāha-pradvēṣa ityādi| yadā hi vātaścitō bhavati tadā rūkṣādiṣu tadguṇasāmānyēṣu pradvēṣaḥ syāt| tadviparītaguṇēṣu snigdhādiṣvabhilāṣaḥ syāt| ēvaṁ kaphapittayōścitayōrvyākhyēyam| nanu, “pradvēṣō vr̥ddhihētuṣu” ityēkamēva lakṣaṇaṁ dōṣacayasattānumāpakaṁ kartuṁ nyāyyam| yadi vā “viparītaguṇēcchā ca” ityētat| kiṁ dvayōrūpādānēna ? atrōcyatē| kadācidacitō’pi dōṣō vātākhyaḥ svapramāṇasthaḥ kṣīṇō vā yasya sa vātavr̥ddhihētūn rūkṣādīnna dvēṣṭi, api tu tānicchati, sātmyavaśāt| yathā,-garbhiṇī strī dōhadavaśāt| tadēvaṁ vyabhicāradarśanāt| pradōṣō vr̥ddhihētuṣu” “viparītaguṇēcchā ca” iti dvayamapi kartavyam| tēna yadā tulyakālaṁ puruṣasya vātasamānaguṇēṣu tadvr̥ddhihētuṣu pradvēṣō jāyatē, vātaguṇapratipakṣēṣu tatkṣapaṇahētuṣu cābhilāṣaḥ, tadā samyak niścīyatē vātasyōpacitiḥ, iti dvayamapyētaduktam|
ā0 ra0- atha cayādilakṣaṇam| tatra cayaṁ lakṣayaticayō vr̥ddhiriti| dōṣasya vr̥ddhiḥ-cayaḥ| sā ca prathamaṁ svadhānnyēva bhavati| yāvānēvāśayaḥ sañcāravatā dōṣēṇa vyātpstāvānēva niḥsañcārēṇa vyāpyatē, sa ca saṁhatirūpatvāt sañcayākhyaḥ| yadā sarva ēvāśayō vyāpyatē tadā vr̥ddhihētuṣu-samānaguṇēṣu pradvēṣa utpadyatē, sa prakōpaprārambharūpattvāt prakōpākhyaḥ| tataḥ parasyāśayam utpāśayaṁ praviśati tadā viparītaguṇēcchā, cakārātsamānaguṇēṣu dvēṣaśca| sa prasararūpatvāt prasarākhyaḥ|
———————————-kōpastūnmārgagāmitā|
liṅgānāṁ darśanaṁ svēṣāmasvāsthyaṁ rōgasambhavaḥ||23||
svasthānasthasya samatā vikārāsambhavaḥ śamaḥ|
————————————————-|24|
sa0-unmārgagāmitā-svasthānaṁ tyaktvā dōṣasya yat punarmārgāntaragamanam, sa kōpa ityucyatē| kōpasya tu liṅgamāha-liṅgānāṁ svēṣāṁ yathāyathaṁ darśanaṁ-udbhavaḥ| vātādīnāṁ kupitānāṁ yāni liṅgāni dōṣādivijñānīyē’bhihitāni vātavyādhinidānē ca vakṣyantē, tēṣāṁ lakṣaṇānāmupalabdhiḥ, [ vaidyēnāturēṇa ca| yattat kōpasya liṅgam| tathā, asvāsthyaṁ-utpitsurōgēcchayā sāmānyēna dēhamanōbhibhūtatvam| tathā, rōgasya-jvarādēḥ, sambhavō-janma| nanu, “liṅgānāṁ darśanaṁ svēṣām” “asvāsthyam” “rōgasambhavaḥ” iti kiṁ tritayamuddiṣṭam ? ēkēnaiva dōṣakōpāvagamādēkamēvōpadēṣṭuṁ yuktam| naivam| vyabhicāradarśanāt| tathā hi vakṣyati pāṇḍurōgacikitsitē (ślō. 46)- “rūkṣaśītagurusvāduvyāyāmabalanigrahaiḥ| kaphasammūrcchitō vāyuryadā pittaṁ bahiḥ kṣipēt||” ityārabhya yāvat “pittē śākhāsamāśritē|” iti| tadēvamēṣaḥ kāmalākhyō rōgaḥ pittaliṅgadarśanādapi na pittasya kōpamanupayāti| ata ēva pittaprakōpakaraṁ bhr̥śāmlatīkṣṇakaṭukādi cikitsitamatra nirdiṣṭam| asvāsthyamityētadapi na dōṣakōpasya niścitaṁ liṅgam| tathā hi-mānasēnāpi bhayaśōkādinā’svāsthyaṁ dr̥śyatē| tathā, āgantavō’pi rōgā dōṣakōpamantarēṇaivōtpadyamānā dr̥śyantē| tasmādrōgasambhavādapi dōṣakōpō’yamaniścitaḥ| tadēvaṁ lakṣaṇatritayēnaivānēna dōṣakōpō niścētuṁ śakyata iti tritayamapyētadvaktavyam|
svasthānasthasyētyādi| svasthānaṁ-yathōddiṣṭaṁ pakvāśayādi| svasthānāvasthitasyaiva vātādidōṣasya yā samatā-svapramāṇatvam, vikārasya-rōgasya, asambhavaḥ-anutpattiḥ, sa śama ucyatē|
ā0 ra0- kōpaṁ lakṣayati- kōpastviti| unmārgagāmitā-svamārgādanyēna mārgēṇa gamanam,-kōpaḥ| tatra yadā prathamaṁ sthāninamabhibhūya anyasthānavyāptistadā svēṣāṁ liṅgānāṁ-raukṣyādīnāṁ darśanam, sa samantādanyasthānāśrayaṇāt sthānasaṁśrayākhyaḥ| tatō vikurvāṇō jvarādirūpēṇābhivyajyatē tadā asvāsthyaṁ-prakr̥tyanyathātvam, sa rōgarūpēṇābhivyaktatvāt vyaktyākhyaḥ| tatastamēva rōgamavasthāntarāṇyanubhavannanubandhāti tadā rōgasambhavaḥ| sambhavaṁ-dīrghakālānuvartanamiti yāvat| sō’vasthābhēdarūpatvāt bhēdākhyaḥ| ētāśca ṣaḍavasthāḥ suśrutēna spaṣṭamuktāḥ (sū. a. 21/36) – “sañcayaṁ caprakōpaṁ caprasaraṁ sthānasaṁśrayam| vyaktiṁ bhēdaṁ ca yō vētti dōṣāṇāṁ sa bhavēdbhiṣak||” tatprayōjanaṁ ca ” sañcayē’pahr̥tā dōṣā labhantē nōttarā gatīḥ| tē tūttarāsu gatiṣu bhavanti balavattarāḥ|” iti|
praśamaṁ lakṣayati-svasthānasthasyēti| svasthānasthatvaṁ samatvamavikr̥tatvaṁ cēti militaṁ praśamalakṣaṇam| rasavarṇasparśādyanyatvaṁ-vikāraḥ|
|idānīṁ vātādīnāṁ cayaprakōpapraśamā yasmin kālē jāyantē taṁ darśayannāha -]
————————————————-|
cayaprakōpapraśamā vāyōrgrīṣmādiṣu triṣu||24||
varṣādiṣu tu pittasya, ślēṣmaṇaḥ śiśirādiṣu|
————————————————-|25|
sa0-vātasya grīṣmādiṣu triṣu yathāsaṅkhyaṁ cayaprakōpapraśamā jāyantē| grīṣmē vāyōścayaḥ, varṣāsu prakōpaḥ, śaradi praśama iti| ēvamagrē’pi yōjyam| varṣādiṣvityādi| atrāpi triṣviti vartatē| varśāśaraddhēmantēṣu triṣu pittasya cayaprakōpapraśamā bhavanti| tathā, śiśirādiṣu triṣu-śiśiravasantagrīṣmēṣu, ślēṣmaṇaścayaprakōpapraśamā bhavanti|
ā0 ra0- cayādīnāṁ kālamāha-cayaprakōpapraśamā iti| vāyōrgrīṣmē cayaḥ, varṣāsu prakōpaḥ, śaradi praśamaḥ| pittasya tu varṣāsu cayaḥ, śaradi praśamaḥ| pittasya tu varṣāsu cayaḥ, śaradi prakōpaḥ hēmantē praśamaḥ| ślēṣmaṇaḥ śiśirē cayaḥ, vasantē prakōpaḥ, grīṣmē praśamaḥ|
nanu marutō grīṣmē cayō na yuktaḥ, yatastasminkālē laghurūkṣā ōṣadhayō bhavanti|
tathā, varṣāsu pittacayō na yuktaḥ, jalānāmōṣadhīnāṁ cāmlapākatvāt|
tathā, ślēṣmaṇaḥ śiśirē cayō na yuktaḥ, tadā hyāpa ōṣadhayaśca snigdhā bhavanti kālaśca śītaḥ|
iti kōpa ēvōpapannaḥ|
ityasmin paryanuyōga idamāha – – – –
———————————————————–|
cīyatē laghurūkṣābhirōṣadhībhiḥ samīraṇaḥ||25||
tadvidhastadvidhē dēhē kālasyauṣṇyānna kupyati|
adbhiramlavipākābhirōṣadhībhiśca tādr̥śam||26||
pittaṁ yāti cayaṁ kōpaṁ na tu kālasya śaityataḥ|
cīyatē snigdhaśītābhirudakauṣadhibhiḥ kaphaḥ||27||
tulyē’pi kālē dēhē ca skannatvānna prakupyati|
———————————————————|28|
sa0-grīṣmakālē vātō laghurūkṣābhirōṣadhībhirdēhē cādānakālasvābhāvyāttadvidhē-laghurūkṣē, tadvidhō-laghurūkṣaḥ, samīraṇa iti samānaguṇatvāt pavanasya kōpaḥ prāptaḥ, sa niṣidhyatē “kālasyauṣṇyāt” ityanēna ēvaṁ pittasya varṣāsu kōpaḥ, “na tu kālasya śaityaḥ” ityanēna niṣidhyatē |
ā0 ra0- kālaniyamē yuktimāha-cīyata iti| grīṣma āhārasya dēhasya ca laghurūkṣatvē karōti| tābhyāṁmlaghurūkṣō vāyuścīyatē, na tu kupyāti, uṣṇēna pratibaddhatvāt| varṣākāla āhārasyāmlavipākatvaṁ karōti| tēnāmlavipākaṁ pittaṁ cīyatē, na tu kupyāti, śītēna pratibaddhatvāt| śiśira āhārasya dēhasya ca snigdhaśītatvē karōti| tābhyāṁ snigdhaśītaḥ kaphaścīyatē, na tu kupyati, śītēna ghr̥tavaddhanībhūtatvāt|
———————————————————|
iti kālasvabhāvō’yamāhārādivaśātpunaḥ||28||
cayādīn yānti sadyō’pi dōṣāḥ kālē’pi vā na tu|
———————————————————|29|
sa0-iti-pūrvōktaḥ, ayaṁ-vāyvādicayādiḥ, kālasya svabhāvaḥ| āhārādivaśāt-annapānasāmarthyāt, punardōṣāḥ sadyō’pi-tatkṣaṇādēva kālamanapēkṣyaiva, cayādīn-cayaprakōpapraśamān yānti| tasmādēva cāhārādivaśāt yathāsvaṁ cayādikālē’pi vā dōṣā na tu cayādīn yānti| tasmāt kālādāhārādīnāṁ prādhānyamityarthaḥ|āhārādītyatrādiśabdēna rasāyanavājīkaraṇavamanavirēcanādayō gr̥hyantē|
ā0 ra0- kālādāhārādīnāṁ balavatvamāha-itīti| ādiśabdēna vihārō dēśaśca| sadyō’pi-svakālaṁ vinā’pi,yānti| svakālē’pi na yānti|
ēvaṁ dōṣāṇāṁ cayādīn pradarśya, vyāptinivr̥ttivaicitryaṁ kōpajaṁ darśayitumāha – – – –
———————————————————|
vyāpnōti sahasā dēhamāpādatalamastakam||29||
nivartatē tu kupitō malō’lpālpaṁ jalaughavat|
———————————————————|30|
sa0-malaḥ kupitaḥ sahasā-śīghhramēva, āpādatalamastakaṁ vyāpnōti,-pādatalādārabhya yāvanmastakamityarthaḥ| āṅmaryādābhividhyōrbibhaktyarthē’vyayībhāvaḥ| nivartatē punaralpālpaṁ-stōkaṁ stōkamiti| jalaughavat-yathā girinadyādīnāṁ jalapūraḥ samaviṣamaṁ sahasaiva vyāpnōti, nivartatē tu stōkaṁ stōkamiti|
ā0 ra0- prakōpapraśamayōḥ kṣipraciraniṣpādyatvāmāhavyānpōtīti| sahasā-vēgēna| malō-dōṣaḥ| alpālpaṁ cirēṇa| jalaughavat-nadīpūravat| sa hi vēgēna vardhatē cirēṇa hasatē|
nanu, pratirōgaṁ nidānalakṣaṇacikitsitamānantyādvaktumaśakyam|
taccāvidanna kaścidatra tathā yatnaṁ kuryādityāśaṅkyāha – – – –
———————————————————|
nānārūpairasaṅkhyēyairvikāraiḥ kupitā malāḥ||30||
tāpayanti tanuṁ tasmāttaddhētvākr̥tisādhanam|
śakyaṁ naikaikaśō vaktumataḥ sāmānyamucyatē||31||
sa0-yattadōrnityasambandhāt yasmāditi labhyatē| yasmānnānārūpaiḥ-anēkaprakāraiḥ, asaṅkhyēyaiḥ-gaṇanāṁ samatītaiḥ, vikāraiḥ-jvarādibhiḥ, malā-vātapittaślēṣmāṇaḥ, kupitāstanuṁ-dēhaṁ, tāpayanti-duḥkhayanti| tasmāttaddhētvākr̥tisādhanaṁ śakyaṁ naikaikaśō vaktuṁ-ayamasya vikārasya hēturiyamākr̥tiridaṁ lakṣaṇamidamasya sādhanaṁ-cikitsitamiti| ataḥ sāmānyamucyatē|
ā0 ra0- atha hētuḥ| tadviśēṣāṇāṁ niḥśēṣaṁ nirūpathitumaśakyatvātsāmānyaṁ vācyam| tadēvāha-nānārūpairiti| vikārāṇāmasaṅkhayatvaṁ prativikāraṁ ca rūpāṇām| atastadhētvādi prakr̥tivikāraṁ vaktumaśakyam, sādhāraṇaṁ tūcyatē|
atraiva hētvantaramāha – – – –
dōṣā ēva hi sarvēṣāṁ rōgāṇāmēkakāraṇam|
yathā pakṣī paripatan sarvataḥ sarvamapyahaḥ||32||
chāyāmatyēti nātmīyāṁ yathā vā kr̥tsnamapyadaḥ|
vikārajātaṁ vividhaṁ trīn guṇānnātivartatē||33||
tathā svadhātuvaiṣamyanimittamapi sarvadā|
vikārajātaṁ trīndōṣāṇ———————–|34|
sa0-sarvēṣāṁ rōgāṇāṁ yasmāddōṣā ēvaikakāraṇam| ēkaṁ-pradhānaṁ ca tatkāraṇaṁ-nimittamēkakāraṇam| yadi vā sarvēṣāṁ rōgāṇāṁ dōṣā ēkaṁ-tulyaṁ kāraṇam, samānaṁ kāraṇamityarthaḥ| ēvaśabdō’vadhāraṇārthaḥ| dōṣā ēva kāraṇam, nāparaṁ kiñcidvastujātam| atra dr̥ṣṭāntamāha-yathētyādi| pakṣī-prācikādiḥ, yathā sarvataḥ-samantāt, paripatan-bhraman, sarvamapyahaḥ-sakalamapi divasam, ātmīyāṁ chāyāṁ nātyēti-nātikrāmati, tayā vinā kṣaṇamapyasau nōpalabhyata ityarthaḥ| tathā anyadapi nidarśanamāha-yathā vētyādi| yathā vā kr̥tsnaṁ-niravaśēṣam, ētadvikārajātaṁ-sthāvarajaṅgamādibhēdabhinnaṁ jarāyujāṇḍajādibhēdabhinnaṁ vā, vividhaṁ-nānāprakāraṁ, trīn guṇān-sattvarajastamaḥsaṁjñān, nātivartatē-nātyēti, tribhirētairvirahitaṁ na jātucidbhavatītyarthaḥ| tathā svadhātvityādi| dhātavō-dōṣadhātumalāḥ śarīradhāraṇasāmānyāt, tēṣāṁ vaiṣamyaṁ-svalakṣaṇatō’nyathātvam, svadhātuvaiṣamyaṁ nimittaṁ yasya tadvikārajātaṁ trīn dōṣānātikrāmati, tridōṣarahitaṁ na sambhavatītyarthaḥ| dhātuvaiṣamyaṁ ca pratirōgamanyādr̥śatvānnānāvidham| yattu yēna dhātuvaiṣamyēṇa janyatē, tattasya svaṁ-svīyaṁ bhavati| yēṣāṁ tu rōgāṇāṁ dēvagrahādi nimittaṁ na tēṣu tathā dōṣānubandhaḥ, āgantukatvāt| āgantukanijayōrhyayamēva bhēdaḥ,-yadāgantukēṣu prathamaṁ rōgōdbhūtiḥ paścāddōṣānubandhaḥ, nijēṣu prāgdōṣānubandha iti| yē tu vyācakṣatē,-svē ca tē dhātavaśca tēṣāṁ vaiṣamyamiti| tēṣāṁ nāyamarthaḥ pratipāditaḥ syāt| svagrahaṇaṁ cātiricyatē| yataḥ śarīrāntarāvasthāyinō dōṣā vātādayaḥ śarīrāntarē rōgaṁ janayituṁ nālam| tasmātpūrvamēva vyākhyānaṁ śrēyaḥ|
ā0 ra0- tatra dōṣahēturēva sādhāraṇō rōgahētuḥ| tatra yuktimāha-dōṣā ēvēti| dōṣā ēva kāraṇam, dōṣāḥ kāraṇamēvētyēvaikaśabdābhyāmucyatē| atrārthē dr̥ṣṭānradvayam, yathā pakṣī dēśabhēdē’pi chāyāsambandhaṁ na tyajati, tathā vikārō dōṣasambandham| yathā ca mahadādipr̥thivyantaṁ kāryaṁ guṇasambandhaṁ na tyajati|
kiṁ dōṣajamēva dōṣasambandhaṁ na tyajati ? nētyāha-tathēti| svadhāturvaiṣamyanimittamiti yō dhāturyasya rōgasyādhiṣṭhānasvēnōktaḥ sa tasya svadhātuḥ tasya vaiṣamyaṁ-kṣayō vr̥ddhirvikr̥tatvamunmārgatvaṁ vā tannimittaṁ yasya tattathā| rasajādīnāmapi dōṣairvinā nōtpatiḥ|
———————————————————|
—————————-tēṣāṁ kōpē tu kāraṇam||34||
arthairasātmyaiḥ saṁyōgaḥ kālaḥ karma ca duṣkr̥tam|
hīnātimithyāyōgēna bhidyatē tatpunastridhā||35||
sa0-tēṣāṁ-vātādīnāṁ, kōpē kāraṇam,-asātmyaiḥ-anucitaiḥ, arthaiḥ-śabdasparśarūparasagandhākhyaiḥ, śrōtratvakcakṣūrasanaghhrāṇākhyānāmindriyāṇāṁ yaḥ saṁyōgaḥ, tathā kālaḥ-śītōṣṇavarṣālakṣaṇō duṣṭaḥ, tathā karma-caihikamanyajanmajaṁ ca, yad duṣkr̥taṁ-aśubham, ētattrayaṁ tēṣāṁ dōṣāṇāṁ kōpē hētuḥ| tuśabdaḥ samuccayē| na kēvalaṁ rūkṣādayō vātādīnāṁ kōpē kāraṇam, yāvadasātmyēndriyārthasaṁyōgādirapi| ētacca (tat)- pūrvōktaṁ dōṣakōpakāraṇamasātmyēndriyārthasaṁyōgādibhēdēna tridhā bhinnamapi, punaḥ-bhūyaḥ, tridhā-triprakāraṁ, bhidyatē| katham ? hīnātimithyāyōgabhēdēna|
ā0 ra0- dōṣakōpahētumāha-tēṣāmiti| sa ca trividhaḥ,-asātmyāviṣayasēvā duṣkālō duṣkarma cēti| sō’pi pratyēkaṁ trividhaḥ,-hīnayōgō’tiyōgō mithyāyōgaścēti|
tānēva hīnātimithyāyōgān darśayannāha – – – –
hīnō’rthēnēndriyasyālpaḥ saṁyōgaḥ svēna naiva vā|
atiyōgō’tisaṁsargaḥ, sūkṣmabhāsurabhairavam||36||
atyāsannātidūrasthaṁ vipriyaṁ vikr̥tādi ca|
yadakṣṇā vīkṣyatē rūpaṁ mithyāyōgaḥ sa dāruṇaḥ||37||
ēvamatyuccapūtyādīnindriyārthān yathāyatham|
vidyāt——————————————–|38|
sa0-arthēna-śabdādinā, svēnēndriyasya-śrōtrādēḥ, alpō yaḥ saṁyōgaḥ sa hīnaḥ-hīnayōgaḥ| naiva vēti| athavā sarvasarvikayā tēnārthēna na saṁyōgaḥ, sō’pi hīnayōgaḥ| tasyaivēndriyasya svēnārthēna yō’tisaṁsargaḥ-atisēvālakṣaṇaḥ, sa tasya svēnārthēnātiyōgaḥ| tathā, sūkṣmabhāsurabhairavamityādi yadakṣṇā vīkṣyatē-nayanēnālōkyatē, sa tasya cakṣurindriyasya svēnārthēna mithyāyōgaḥ| ēvamanayā diśā sūkṣmabhāsurabhairavam, tathā atyāsannātidūrasthaṁ vipriyaṁ vikr̥tādi ca yadakṣṇā rūpaṁ vīkṣyatē, sa dāruṇō mithyāyōgaḥ, timirādihētutvāt| ēvaṁ-anayā cakṣuṣō rītyā, anyānapīndriyārthān yathāsvamindriyāṇāmatyuccapūtyādīn mithyāyōgarūpān vidyāt| yadā’tyuccaparuṣēṣṭavināśabhīṣaṇādyaniṣṭaḥ śabdaḥ śrōtrēndriyēṇa gr̥hyatē, tadā śrōtrēndriyasya svēnārthēna śabdākhyēna mithyāyōgaḥ| yadā pūtiviṣṭhādyaniṣṭō gandhō ghrāṇēndriyēṇa gr̥hyatē, tadā ghrāṇēndriyasya svēnārthēna gandhākhyēna mithyāyōgaḥ| yadā snānānulēpanādīnāṁ śītōṣṇādīnāṁ ca spr̥śyānāmakramasēvanēna sparśaḥ sparśanēndriyēṇa gr̥hyatē, tadā sparśanēndriyasya svēnārthēna sparśākhyēna mithyāyōgaḥ| tathā, rasanēndriyēṇa yō rasō’paripāṭyā yujyatē, tathā’pathyadravyaniviṣṭō’pi yō rasō rasanēndriyēṇa gr̥hyatē, sa tasya rasanēndriyasya svēna rasākhyēnārthēna mithyāyōgaḥ|
ā0 ra0- tatrāsātmyaviṣayasēvāyāstraividhyaṁ lakṣayatihīnō’rthēniti| indriyasya-cakṣurādēḥ, svēnārthēna-rūpādinā, alpaḥ saṁyōgō naiva vā yōgō-hīnayōgaḥ, viṣayōtkaṇṭhāyā anivr̥ttirhīnatvamityarthaḥ| utkaṇṭhānivr̥ttāvapi sēvanaṁ-atiyōgaḥ| sūkṣmādirūpasēvā, atyuccādiśabdasēvā, pūtyādigandhasēvā, atyamlādirasasēvā, atiśītādisparśasēvā ca, mithyāyōgaḥ| bhāsuraṁ-atidīptam| bhairavaṁ-bhayaṅkaram| vipriyaṁ-dviṣṭam|
kālastu śītōṣṇavarṣābhēdāttridhā mataḥ||38||
sa hīnō hīnaśītādiratiyōgō’tilakṣaṇaḥ|
mithyāyōgastu nirdiṣṭō viparītasvalakṣaṇaḥ|
———————————————————||39||
sa0-kālaḥ punaḥ śītōṣṇavarṣābhēdēna tridhā-triprakārō matō munīnām| tatra hēmantaśiśiralakṣaṇaḥ-śītaḥ| uṣṇō-vasantagrīṣmalakṣaṇaḥ| prāvr̥ṭśarallakṣaṇō-varṣākhyaḥ| sa ca kālō hīnaśītādirhinayōgalakṣaṇaḥ| atiyōgō’timātrayōgalakṣaṇaḥ| viparītaṁ svaṁ-śītōṣṇavarṣākhyaṁ, lakṣaṇaṁ yasya kālasya, sa viparītasvalakṣaṇō mithyāyōgaḥ| guṇaguṇinōrabhēdōpacārāt kāla ēvamucyatē| tatra yathā,-hēmantē śītasyālpatvaṁ hīnō yōgaḥ, tasminnēva hēmantē’tiśaityamatiyōgaḥ, tasminnēva hēmanta auṣṇyaṁ mithyāyōgaḥ| upalakṣaṇaṁ cēdam| ēvaṁ śaradvasantayōrapi yanmandavarṣōṣṇatvaṁ svalakṣaṇaṁ tadyadā hīnataraṁ syāt, sō’pi hīnayōgaḥ| ēvamatiyōgā (gamithyā) yōgayōrapi yōjyam|
ā0 ra0- duṣkālasya traividhyaṁ lakṣyati-kālastu śītōṣṇavarṣābhēdāditi| śītōṣṇavarṣābhēdāntrividhasya kālasya śītādīnāmalpatvaṁ-hīnayōgaḥ, ādhikyaṁ-atiyōgaḥ, vaiparītyaṁmithyāyōgaḥ|
kāyavākcittabhēdēna karmāpi vibhajēttridhā|
kāyādikarmaṇō hīnā pravr̥ttirhīnasaṁjñakaḥ||40||
atiyōgō’tivr̥ttistu, vēgōdīraṇadhāraṇam|
viṣamāṅgakriyārambhapatanaskhalanādikam||41||
bhāṣaṇaṁ sāmibhuktasya rāgadvēṣabhayādi ca|
karma prāṇātipātādi daśadhā yacca ninditam||42||
mithyāyōgaḥ samastō’sāviha vā’mutra vā kr̥tam|
———————————————————|43|
sa0-yathā kālastridhā nirūpitaḥ, tathā karmāpi kāyavākcittabhēdēna triprakāraṁ vibhajēt| tatra kāyakarmaṇastathā vākkarmaṇastathā cittakarmaṇō hīnā yā pravr̥ttiḥ sa hīnasaṁjñakō yōgaḥ| atipravr̥ttistvatiyōgaḥ| kāyādikarmaṇō mithyāyōgamadhikr̥tyāha-vēgōdīraṇētyādi| “vēgōdīraṇadhāraṇam” ityārabhya yāvat “patanaskhalanādikam” yadētat kāyikaṁ karma, tasya karmaṇa ēvaṁrūpasya yā pravr̥ttiḥ sa kāyakarmaṇō mithyāyōgaḥ| viṣamāṅgaiḥ kriyā-karma, viṣama ārambhaḥ-ubhayalōkaviruddhaḥ, tathā, viṣamapatanam, viṣamaskhalanam, ādiśabdēna viṣamagamanādīnāṁ grahaṇam| sāmibhuktasya-ardhabhuktasya, yadbhāṣaṇaṁ-jalpanam, ēvaṁrūpā yā pravr̥ttiḥ sa vākkarmaṇō mithyāyōgaḥ| rāgadvēṣabhayādi yadētanmānasaṁ karma, tasya karmaṇa ēvaṁrūpā yā pravr̥ttiḥ sa cittakarmaṇō mithyāyōgaḥ| tathā, dinacaryādhyāyōktaṁ yatprāṇātipātādi daśadhā-daśaprakāraṁ, karma ninditaṁ-aśubhaṁ nirdiṣṭaṁ “hiṁsāstēya” ityādinā granthēna, tacca yathāyathaṁ kāyavākcittānāṁ karmaṇāṁ mithyāyōgaḥ| samastō’sāviha vā’mutra vā kr̥taṁ-asmin lōkē kr̥tamanyatra vā lōkē kr̥taṁ-ācaritaṁ sarvamēvaṁ mithyāyōgaḥ|
ā0 ra0- duṣkarmaṇastraividhyaṁ lakṣyati-kāyavākacittabhēdēnēti| kāyikavācikamānasabhēdāntrididhasya karmaṇaḥ pravr̥ ttēralpatvaṁ-hīnayōgaḥ, ādhikyaṁ-atiyōgaḥ, vēgōdīraṇādi rūpatvaṁ-mithyāyōgaḥ| dharaṇaṁ-vēgadhāraṇam| viṣamaiḥ-dusthitairaṅgaiḥ, kriyāḥ-cēṣṭāyā ārambhaḥ| sāmibhuktasya bhāṣaṇaṁarddhabhōjanē maunatyāgaḥ| prāṇātipātādi-hiṁsādi,”hiṁsāstēyānyathākāmam” ityādinā dinacaryāyāmuktam (ślō. 21)| iha-asmin janmani| amutra-prāgjanmani| saṅgrahē tu (sū. a. 22) – “ta ētē’tiyōgādayaḥ sāmānyatō’nupaśayalakṣaṇāḥ| sarvō vā prajñāparādha ēvāyaṁ yadēṣāmakvivarjanam| atha karmakālāḥ punaḥ samyagyōgēnōpaśayādbhūyiṣṭhaṁ svāsthyahētavaḥ| tatrāpi rasavarjyā viṣayā yathāyathamindriyaṁ bādhantē’nugr̥hanti ca| śēṣā rasakarmakālastusarvaṁ dēham| api ca| sarvabhāvānāṁ bhāvābhāvau nāntarēṇa yōgātiyōgādīn vyavasyēt| sarvēṣāṁ punārvikārāṇāṁ nidānadōṣadūṣyaniviśēṣēbhyō bhāvābhāvaviśēṣā bhavanti| yadā hyētē trayō nidānādiviśēṣā nānyōnyamanubandhantīṣadvā’nudandhatyabalā vā na tadā’bhinirvartantē vā| viparyayēṇa viparītāḥ| tathā’nyaḥ pradhāna ēva rōgō’nyasya pradhānasya hēturbhavati| yathā, jvarō raktapittasya, raktapittaṁ vā jvarasya, tau śvāsasya plīhā jaṭharasya, tē śvayathōḥ, arśāṁsi gulmōdaratīsāragrahaṇīnām pratiśyāyaḥ kāsajvarayōḥ, tau kṣayasya, kṣayaḥ śōṣasya| ēkaścāpacārō nimittamēkasyavyādhēḥ, bahūnāṁ ca tathā bahavaḥ| tadvadēkaṁ liṅgam| ēvamēva praśamē’bhyupāyaḥ tathā sa ēvānyasya prakōpē| tasmāttānavahitaḥ samyagāgamādibhiḥ parīkṣēta| tatrāgamatō rōgamēkaikamēvaṁprakōpaṇamēvayōnimēvamātmānamēvamadhiṣṭhānamēvaṁvēdanamēvaṁśabdarūpagandhasparśarasamēvapūrvarūpamēvamupadravamēvaṁvr̥ddhisthānakṣayānvitamēvamudakarmēvaṁnāmānamṁnāmānam| tasminniyaṁ pratīkārasya pravr̥ttirathavā nivr̥ttiḥ pratyakṣatastvāturasya yathāsvamindriyairvaṇēsaṁsthānapramāṇōpacayacchāyāviṇmūtraccharditādikamantrakūjanamaṅgulphādisādisphaṭanaṁ dēhē śakr̥hraṇādigandhaṁ śītōṣṇastambhaspandana ślakṣṇakhāsparśaṁ ca prakr̥titrikr̥tiyuktam| āsyarasaṁ tu praśnēna, tathā succhardadu cchardatvaṁ mr̥dukrūrakōṣṭhatāṁ svapnadarśanamabhiprāyaṁ janmāmayapravr̥ttinakṣatraṁ dviṣṭēṣṭasukhaduḥkhāni ca| tathā vayaḥ pratyakṣēṇa ca| anumānanastu yūkāpasarpaṇēna śarīravairasyam, makṣikōpasarpaṇēna mādhuryam, tathā’gniṁ jaraṇaśaktyā, balaṁ vyāyāmaśaktyā gūḍhaliṅgaṁ vyādhimupaśayānupaśayataḥ, dōṣapramāṇamapacāraviśēṣēṇa, āyuṣaḥ kṣayaṁ riṣṭaiḥ, prakr̥tisatvāsārasatmavalalānyuśīlanēnēti| bhavanti cātra| jñānabuddhi pradīpēna yō nāviśati yōgavit| āturasyāntarātmānaṁ na sarōgāṁścikitsati|| dvāvimau vyādhitau vyādhisvarūpasyā prakāśakau| tadyathaikō guruvyādhiḥ sattvadēhabalāśrayāt|| laghuvyādhivadābhāti laghuvyādhistvatō’nyathā| bāhyāvaya va mātrēṇa tayōrmuhyati bāliśaḥ|| tatō’lpavīryaṁ vā viparītamatō~thavā| pathyaṁ viparyayē yuñjan prāṇān muṣṇāti rōgiṇāṁ|| jñānāṁśēna na hi jñānaṁ kr̥tsnē jñēyē pravartatē| bubhustēta bhiṣak tasmāttatvaṁ tantrānuśīlanāt|| abhiyuktastu satataṁ sarvamālōcya sarvathā| na jātu skhalati prājñō viṣamē apikriyāpathē|| āganturanvēti nijaṁ vikāraṁ nijastayā”gantumatipravr̥rddhaḥ| tatrānubandhaṁ prakr̥tiṁ ca samyak jñātvā tataḥ karma samārabhēta||” iti|
———————————————————|
nidānamētaddōṣāṇāṁ, kupitāstēna naikadhā||43||
kurvanti vividhān vyādhīn śākhākōṣṭhāsthisandhiṣu|
———————————————————|44|
sa0-nidānamētaddōṣāṇāṁ ‘kōpē’ iti vākyaśēṣaḥ| kupitāstēna-nidānēna, naikadhā| kiṁ tarhi ? anēkaprakārēṇa, vyādhīn vividhān-nānāprakārān kurvanti| kupitā dōṣā iti vacana (vibhakti) vipariṇāmēna sambandhaḥ| kva vyādhīn kurvanti ? ityāha-śākhētyādi| śākhāśca kōṣṭhaścāsthīni ca sandhayaśca tēṣu|
ā0 ra0- dōṣahētumupasaṁharati-nidānamētaditi|
dōṣahētō rōgahētutvamāha-kupitāstēnēti| tēna-nidānēna| naikayā vividhāniti hētvānantyāt kōpānantyam| tasmādrōgānatyam| dōṣā ēva kāraṇagityuktam| tannirvāhārthamāha-śākhākōṣṭhāsthisandhiṣviti| śākhādīnāmādhāratvam, na kāraṇatvam|
śākhēti kimucyatē|
ityāha – – – –
———————————————————|
śākhā raktādayastvak ca bāhyarōgāyanaṁ hi tat||44||
tadāśrayā maṣavyaṅgagaṇḍālajyarbudādayaḥ|
bahirbhāgāśca durnāmagulmaśōphādayō gadāḥ||45||
sa0-śākhā raktādayaḥ ṣaḍdhātavastvak ca| tadbāhyarōgāyanaṁ,-bāhyānāṁ rōgāṇāmayanaṁ-sthānam| hiśabdō yasmādarthē| yasmādbāhyānāṁ rōgāṇāmayanam, atastadāśrayā maṣavyaṅgādayō rōgā bahirbhāgā ucyatē| ādiśabdēna visarpavidradhyādīnāṁ parigrahaḥ| durnāmētyādi| bahirbhāgāścētyatra ca śabdō bhinnakramaḥ, śōphādaya ityasmādanantaraṁ draṣṭavyaḥ| durnāmagulmaśōphādayaśca bahirbhāgā ityarthaḥ|
ā0 ra0- tatra śākhāṁ vyācaṣṭē-śākhēti| raktādayōdhātavastvak ca-śākhā| sā ca bāhyarōgāyanaṁ,-bahirmārgō rōgāṇām| tē ca rōgā maṣādayaḥ| maṣavyaṅgau-kṣudrarōgēṣu| gaṇḍālajī-mukharōgēṣu| bahirbhāgā iti durnāmādīnāṁ viśēṣaṇamantarbhāganivr̥ttyartham|
antaḥkōṣṭhō mahāsrōta āmapakvāśayāśrayaḥ|
tatsthānāḥ cchardyatīsārakāsaśvāsōdarajvarāḥ||46||
antarbhāgaṁ ca śōphārśōgulmavīsarpavidradhi|
———————————————————|47|
sa0-kōṣṭhaḥ kathyatē antaḥ, tathā mahāsrōtaḥ, tathā āmapakvāśayāśrayaḥ| tatsthānāḥ-antarbhāgāśrayāḥ cchardyādayō rōgāḥ| na kēvalamētē ēva chardyādayō’ntarbhāgāśrayā yāvacchōphārśōgulmavīsarpavidradhyādīnāṁ antarbhāgatvaṁ ca| śōphādīnāṁ vidradhyantānāṁ samāhāradvandvanirdēśēnaiva sambandhaḥ|
ā0 ra0- kōṣṭhaṁ vyācaṣṭē-antaḥkōṣṭha iti| antaḥantarmārgō rōgāṇām| mahāstrōtō-mahāvivaram| āmāśayō-yatrāmamannaṁ tiṣṭhati| pakvāśayō-yatra pakvam| tatsthānāḥ-kōṣṭhāśritāḥ| antarbhāgamiti śōphādīnāṁ viśēṣaṇaṁ bahirbhāganivr̥tyartham| samāhāradvandvadēkatvanapuṁsakatvē|
idānīṁ madhyamaṁ rōgamārgaṁ vakti – – – –
———————————————————|
śirōhr̥dayabastyādimarmāṇyasthnāṁ ca sandhayaḥ||47||
tannibaddhāḥ śirāsnāyukaṇḍarādyāśca madhyamaḥ|
rōgamārgaḥ sthitāstatra yakṣmapakṣavadhārditāḥ||48||
mūrdhādirōgāḥ sandhyasthitrikaśūlagrahādayaḥ|
———————————————————|49|
sa0-śirōhr̥dayādīni madhyamō rōgamārgaḥ| asthnāṁ ca sandhaya ityēvaṁ nirdēśēnēdaṁ bōdhayati,-nātra dvayaṁ vivakṣitamasthīni ca sandhayaścēti, kiṁ tarhi ? asthnāṁ sambandhinaḥ sandhaya iti| sandhayō hyanyē’pi santi| tathā ca vakṣyati (hr̥. śā. a. 4|38) – “māṁsāsthisnāyudhamanīsirāsandhisamāgamaḥ|” iti| tannibaddhāḥ,-tēṣu-asthisandhiṣu, nibaddhāḥ, saṁlagnā ityarthaḥ| śirāḥ snāyavaḥ kaṇḍarāśca ādayō (ādyā) yēṣāṁ dhamanīkūrcādīnāṁ tē| ca śabdāt pūrvōktāśca| tatra-madhyamē rōgamārgē, yakṣmādayō gadāstrikaśūlagrahādyantāḥ| mūrdhādītyatrādiśabdēna hr̥dayabastyādiparigrahaḥ| sandhyasthitrikē śūlāni, sandhyasthitrikē grahā iti yōjyam| ādiśabdēna pakṣagrahādayō vātavikārā gr̥hyantē| yakṣmaṇō’tra marmāsthisandhyadhiṣṭhānatvātpūrvaṁ nirdēśaḥ| vakṣyati hi (hr̥. ni. a. 5|5) – “tairudīrṇō’nilaḥ pittaṁ kaphaṁ cōdīrya sarvataḥ| śarīrasandhīnāviśya tān śirāśca prapīḍayan||” ityādi|
ā0 ra0- asthisandhīn vyācaṣṭē-śirōhr̥dayēti| marmāṇi marmanibaddhāḥ śirādayaśca, asthisandhayaḥ| tē ca madhyamōrōgamārgaḥ| tadāśritā yakṣmādayaḥ| yakṣmā-rājayakṣmā| pakṣavadhaḥ-ēkāṅgarōgaḥ| arditaḥ-ēkāyāmaḥ, grahaḥ-stabdhatvam, sandhyasthitrikēṣvēva|
idānīṁ vāyōḥ karmāṇyāha – – – –
———————————————————|
sraṁsavyāsavyadhasvāpasādaruktōdabhēdanam||49||
saṅgāṅgabhaṅgasaṅkōcavartaharṣaṇatarṣaṇam|
kampapāruṣyasauṣiryaśōṣaspandanavēṣṭanam||50||
stambhaḥ kaṣāyarasatā varṇaḥ śyāvō’ruṇō’pi vā|
karmāṇi vāyōḥ————————————–|51|
sa0-sraṁsō-hanvādisandhērbhraṁśaḥ| vyasanaṁ-vyāsō, vikṣēpaṇamaṅgapratyaṅgādēryathā”kṣēpakādiṣu| vyadhaḥ-tāḍanamiva mudgarādinā| svāpaḥ-suptiḥ karmaṇyacaitanyam| sadanaṁ-sādaḥ, aṅgānāṁ kriyāsvasāmarthyam| ruk-satataṁ śūlam| tōdō-vicchinnaṁ śūlam| bhēdanaṁ-bhēdō, vidāraṇamivāṅgasya| saṅgō-mūtrapurīṣādēḥ svāśayēbhyō’niḥsārō vāksaṅgādayaśca| aṅgānām-jaṅghōruprabhr̥tīnāṁ, bhaṅga iva bhaṅgaḥ-cūrṇanamiva,-aṅgabhaṅgaḥ| saṅkōcanaṁ-saṅkōcaḥ, śirādīnām| vartanaṁ-vartaḥ, purīṣādīnāṁ piṇḍīkaraṇam| harṣaṇaṁ-rōmṇāmūrdhvībhāvaḥ| tarṣaṇaṁ-tarṣaḥ, tr̥ṭ| kampaḥ-ativēpanam| spandanaṁ hi-kiñciccalanam| pāruṣyaṁ-paruṣatvam| sauṣiryaṁ-asthnām| śōṣaḥ-śōṣaṇam| vēṣṭanaṁ-grathanamivāṅgasya| stambhō-bāhūrujaṅghādīnāṁ saṅkuñcanādyabhāvaḥ| kaṣāyarasatā-kaṣāyarasāsvādatvam| varṇaḥ śyāvō’ruṇō’pi vā-śyāvāruṇau varṇāvityarthaḥ| ētāni vāyōḥ karmāṇi|
ā0 ra0- athākr̥tiḥ| tatra vātarōgāṇāṁ lakṣaṇamāhasraṁsavyāsēti| sraṁsaḥ-śaithilyam| vyāsaḥ-asaṅkōcatvam| vyadhaḥ sūcīviddhasyēva vyathā| svāpaḥ-sparśājñānam| sādaḥ-svakāryākṣamatvam| ruk-śūlam| tōdaḥ-tōtrēṇēva vyathā| bhēdanaṁ-bhidyamānasyēva vyathā| saṅgaḥ-avarōdhaḥ| aṅgaḥ-unmārgagamanam, aṅgērgatyarthatvāt| bhaṅgōvakratā| saṅkōcaḥ-aprasāryatvam| vartaḥ-piṇḍitatvaṁ harṣaṇaṁ-kaṇṭakitatvam| tarṣaṇaṁ-pipāsā| kampaḥ-calanam| pāruṣyaṁ-rūkṣaṇam| vēṣṭanaṁ-valanam| stambhaḥ-niṣkriyatvam| aruṇaḥ-īṣadraktaḥ| sraṁsādīni kupitavāyōḥ karmāṇi|
atha pittasyāha – – – –
———————————————————|
—————-pittasya dāharāgōṣmapākitāḥ||51||
svēdaḥ klēdaḥ srutiḥ kōthaḥ sadanaṁ mūrcchanaṁ madaḥ|
kaṭukāmlau rasau varṇaḥ pāṇḍurāruṇavarjitaḥ||52||
sa0-dāhādīni pittasya karmāṇi| sarvāṅgīṇastāpō-dāhaḥ| rāgō-lauhityam| ūṣmā-auṣṇyam| pākitā-pākakartr̥tvam, ajīrṇēṣu vraṇēṣvannē ca| svēdanaṁ-svēdaḥ| klēdaḥ-śōṇitādivikāraḥ| srutiḥ-srāvaḥ| kōthaḥ-klēdasyātiśayaḥ, avicchinnatvam| sadanaṁ-sādaḥ| mūrcchanaṁ-bhramaḥ| madō-vakṣyamāṇō rōgaviśēṣaḥ| rasau-āsvādau, kaṭukāmlau| varṇaḥ pāṇḍurāruṇābhyāmanyaḥ-śuklalōhitavarṇaniṣēdhēna tacchēṣanānāvarṇasambhavaḥ sūcyatē|
ā0 ra0- pittarōgāṇāṁ lakṣaṇamāha-pittasyēti| dāhaḥ-santāpaḥ| rāgō-rañjanam, varṇāntarōpamardēna svataṇāpādanam| ūṣmā-uṣṇatvam| pākitā-pācakttvam svēdōdharmaḥ| gharmaḥ| klēdō-malārdratvam| strutiḥ-srāva| sadanaṁ-sādaḥ| mūrcchanaṁ-mōhaḥ| kaṭukaḥ-tiktō rasaḥ,”kaṣāyatiktamadhuraṁvātādiṣu mukhaṁ kramāt|” iti vacanāt|
ślēṣmakarmāṇyāha – – – –
ślēṣmaṇaḥ snēhakāṭhinyakaṇḍūśītatvagauravam|
bandhōpalēpastaimityaśōphāpaktyatinidratāḥ||53||
varṇaḥ śvētō rasau svādulavaṇau cirakāritā|
—————————————————|54|
sa0-kaphasya snēhādīni karmāṇi| snēhaḥ-snaigdhyam| kāṭhinyaṁ-amr̥dutvam| kaṇḍūḥ-kharjūḥ| śītatvaṁ-śītasadbhāvaḥ| gauravaṁ-gurutvam| bandhaḥ-srōtasām| asthyādīnāmupalēpaḥ| staimityaṁ-gātrāṇāmapaṭutvam| kāyē varṇaḥ śuklaḥ| rasau ca madhurapaṭū| cirakāritā-kāryādau viśrabdhatvam| nanu, vāyōramūrtatvādvarṇarasatvōpalabdhiranupapannā| amūrtasya hi varṇarasau dūrōtsāritau| naitadasti| na hi sarvāṇi kāryāṇi kāraṇasadr̥śānyēva bhavanti| tathā cēndriyēbhyō jaḍēbhyō buddhērajaḍāyā utpattirdr̥ṣṭā| tasmāt kāraṇasadr̥śāni kāryāṇīti prāyikamētat, acintyatvācca dravyaprabhāvasya| vāyōḥ sakāśāt kaṣāyarasatā śyāvāruṇavarṇōtpattiścānvayavyatirēkasiddhā kathamiva nivāryatām| ityēvaṁ dōṣāṇāṁ karmāṇyupadiṣṭāni| tadvikārāśca saṅgraha uktāḥ| tathā ca tadgranthaḥ (?) (sū. a. 20) -“aśītirvātajā rōgāścatvāriṁśacca pittajāḥ| viṁśatiḥ ślēṣmajāścaiva sthūlā nānātmajā matāḥ|| 1|| nakhabhēdaḥ pādaśūlaṁ suptirbhraṁśō vipādikā| khuḍō gulphagrahō jānuviślēṣō jānukuñcanam|| 2|| piṇḍikōdvēṣṭanaṁ sādaścōrvōḥ stambhaśca gr̥dhrasī| pāṅgulyaṁ bhraṁśaśūlaṁ ca gudē stambhastu mēhanē|| 3|| muṣkākṣēpaḥ śrōṇibhēdō vaṅkṣaṇānāha ēva ca| udāvartō’tha viḍmēdaḥ pārśvapr̥ṣṭhatrikagrahāḥ|| 4|| khañjavāmanakubjatvaṁ hr̥ddravōdaravēṣṭakau| hr̥nmōhō vakṣanistōdaḥ śōṣōdvātau tathōrasaḥ|| 5|| bāhuśōṣō hanugrīvāmanyāstambhauṣṭhabhēdanam| dantabhēdō’tha śaithilyaṁ kaṇṭhōdhvaṁsō’tha vāggrahaḥ|| 6|| kaṣāyāsyatvamūkatvē mukhaśōṣō rasājñatā| ghrāṇānāhō’jñatā gandhē’śabdōccaiḥśravaṇaṁ tathā|| 7|| bādhiryaṁ karṇaśūlaṁ ca vartmastambhanakuñcanam| timiraṁ cākṣiśūlaṁ ca bhrūvyudāsō’tha nētrayōḥ|| 8|| lalāṭaśaṅkhabhēdau ca kēśabhrūsphuṭanaṁ tathā| śirōrujā’rditaṁ jr̥mbhā pralāpō vēpathurbhramaḥ|| 9|| ēkāṅgavyādhirāyāmaḥ pakṣāghātō’patantrakaḥ| daṇḍakaḥ svapnanāśaśca glāniḥ paruṣarūkṣatā|| 10|| viṣādō’thānavasthānamaruṇaśyāmavarṇatā| ityaśītiḥ samākhyātā rōgā vātasamudbhavāḥ|| 11|| antardāhō vidāhaśca plōṣauṣau davathurdavaḥ| atyūṣmā cāṁsadāhaśca svēdō’tyamlakadhūmakau|| 12|| raktaklēdō’ṅgagandhaśca gātrāvayavaśātanam| tvaḍmāṁsadaraṇaṁ māṁsaklēdaścarmadalaṁ tathā|| 13|| raktavisphōṭakaḥ kōṭhaḥ pittāsr̥graktamaṇḍalē| nīlikā kāmalā kakṣyā gātrē haritapītatā|| 14|| pūtitiktāsyatā tr̥ṣṇā lōhagandhāsyatā tathā| jīvādānamatr̥ptiśca pravēśastamasastathā|| 15|| galāsyagudamēḍhrākṣipākō hāridratā’pi ca| nakhākṣimūtraśakr̥tāṁ, catvāriṁśattu pittajāḥ|| 16|| staimityaṁ gauravaṁ tr̥ptirālasyamatinidratā| tandrā”syasrāvamādhuryē pralōpō hr̥dayasya ca|| 17|| sādaḥ kaṇṭhapralēpaśca ślēṣmōdgiraṇamēva ca| malādhikyamatisthaulyaṁ dhamanī pratisañcayam|| 18|| udardō galagaṇḍaśca śaityaṁ śvētāvabhāsatā| viṇmūtranakhanētrāṇāṁ śuklatā ca kaphāmayāḥ|| 19|| yathāsthūlaṁ vikārāṇāṁ catvāriṁśamidaṁ śatam| hr̥dādau śūlavaddāhō yō’ntardāhaḥ sa kīrtitaḥ|| 20|| pāṇipādāṁsamūlēṣu santāpō vividhastu yaḥ| sa vidāha iti prōktō, dāhaḥ prādēśikastu yaḥ|| 21|| agnyarciṣēva niḥsvēdaḥ sa plōṣaḥ parikīrtitaḥ| ōṣaḥ sarvāṅgikastīvrō dāhaḥ svēdāratipradaḥ|| 22|| davathuścakṣurādibhyastīvra ūṣmā pravartatē| mukhauṣṭhatāluṣu davaścāmlōdgiraṇamamlakaḥ|| 23|| dhūmāyanaṁ śirōghhrāṇakaṇṭhatāluṣu dhūmakaḥ| pramīlakastu staimityaṁ gurutā’ṅgasya gauravam|| 24|| āhārānabhilāṣastu tr̥ptiḥ syādviṣayāgrahaḥ| nidrārtasyēva tandrā syācchēṣāḥ prathitanāmakāḥ|| 25||
ā0 ra0- ślēṣmārōgāṇāṁ lakṣaṇamāha-ślēṣmaṇa iti| snēhaḥ-snigdhatvam| bandhaḥ-saṁślēṣaḥ| upalēpō-litptatvam| staimityaṁ-ālasyam| śōphaḥ-śvayathuḥ| apaktiḥ-apākaḥ| cirakāritā-cirēṇa rōgavr̥ddhiḥ| saṅgrahē tu (sū. a. 20) – “atha kupitā vātādayō nānāvidhaurvikāraiḥ śarīramupatāpayanti| āviṣakr̥tatamāstu vāyōraśītirvikārāḥ, catvāriṁśat pittasya, viṁśatiḥ ślēṣmaṇaḥ| tatra vātavikārāḥ, tadyathā,-nakhabhēdō|1| vipādikā|1| pādaśūlam|3| pādabhraśaḥ|4| suptapādatā| 5| vātakhuḍatā| 6| gulphagrahaḥ|7| piṇḍikōdvēṣṭanam|8| gr̥dhrasī|9| jānubhēdō|10| jānuviślēṣaḥ|11| ūrusādaḥ|12| paṅgutvam|14| gudabhraṁśō|15| gudārtiḥ|16| vr̥ṣaṇākṣēpō|17| mēḍhrastambhō|18| vaṅkṣaṇānāhaḥ|19| śrōṇibhēdō|20| viḍbhēdaḥ |21| udāvartaḥ|22| khañjatvam|23| kuñatvam|24| vāmanatvam|25| trikagrahaḥ|26| pr̥ṣṭhagrahaḥ| 27| pārśvāvamardanam|28| udarāvēṣṭō|29| hr̥nmōhō| 30| hr̥ddravō|31| vakṣauddharṣō|32| vakṣauparōdhaḥ|33|vakṣastōdō|34| bāhuśōṣō|35| grīvāstambhō|36| manyāstambhaḥ |37|kaṇṭhōdhvaṁsō|38|hanustambhaḥ|39| tālvōṣṭhabhēdō|40| dantabhēdō|41|dantaharṣō|42| dantaśaithilyam|43| mūkatvam|44| vāksaṅgaḥ|45| pralāpaḥ|46| kaṣāyāsyatā|47| mukhaśōṣō|48| rasājñatvam|49| ghhrāṇanāśaḥ|50|karṇaśūlam|51| aśabdaśrutiḥ|52| uccaiḥśrutiḥ|53| bādhiryam|54| vartmastambhō|55| vartmasaṅkōcaḥ|56| timiram|57| akṣiśūlam|58| akṣivyudāsō|59| bhrūvyudāsaḥ|60| śaṅkhabhēdō|61| lalāṭabhēdaḥ|62| śirōruk|63|kēśabhūmisphuṭanam|64| arditam|65| ēkāṅgarōgaḥ||66| sarvāṅgarōgaḥ|67| ākṣēpakō|68| daṇḍakaḥ|69| śramō|70| bhramō|71| vēpathuḥ|72| jr̥mbhā|73| glāniḥ|74|viṣādō|75| raukṣyam|76| pāruṣyam|77|śyāvāruṇāvabhāsatvam|78| svapnaḥ|anavasthitacittatā ca|80| pittavikārāḥ punaḥ-ōṣaḥ |1| plōṣō|2| davō|3| davathuḥ|4| vidāhaḥ|5| aṁsadāhaḥ|6| tvagdāhaḥ|7| antardāhaḥ|8|dhūmakaḥ|9| amlakaḥ|10| ūṣmādhikyam|11| atisvēdaḥ|12| aṅgagandhaḥ|13| aṅāvayavasadanam|14| śōṇitaklēdō|15| māṁsaklēdaḥ|16| tvahyāṁsadaraṇam|17| carmadaraṇam|18| raktakōṭhō|19| raktavisphōṭō|20|raktamaṇḍalāni|21| raktapittam|22| haritatvam|23| hāridratvam|2| nīlikā|25| kakṣyā|26|kāmalā|27| tiktāsyatā|28| lōhitagandhāsyatā|29|pūtimukhatvam|30|tr̥ṣādhikyam|31| atr̥ptiḥ|32|āsyapākō|33| galapākaḥ|34| akṣipākaḥ|35| pāyupākō|36| mēḍhrapākō|37|jīvādānam|38| tamaḥpravēśō|39| haritahāridranētramūtraśakr̥tvaṁ|40| ślēṣmavikārāstu-tr̥tptiḥ|1| tandrā|2|nidrādhikyam|3| staimityam|4|gurugātratā|5|ālasyam|6|mukhamādhuryam|7| prasēkaḥ|8| ślēṣmōdgiraṇam|9| malādhikyam|10| balāsō|11|hr̥dayōpalēpaḥ|13| kaṇṭhalēpō|13| dhamanīpraticayō|14| galagaṇḍaḥ|15|atisthaulyam|16| śītāgnitvam|17| udardaḥ|18| śvētāvabhasatā|19| śvētanētramūtraśakr̥tvaṁ ca|20| tatra sarvāṅgīṇastīvrō-dāhaḥ|svēdāratimān-ōṣaḥ| prādēśikaḥ svēdarahitō’gnyarciṣēva dāhaḥ-plōṣaḥ| mukhauṣṭhatāluṣu dāhō-davaḥ| cakṣurādīndriyēṣu dāhō-davathuḥ| pāṇipādāṁsamūlēṣu vividhaḥ santāpō-vidāhaḥ| kōṣṭhadāhaḥ-antardāhaḥ, kōṣṭhasyāntarmāgasaṅgrahāt| śirōgrīvāghFhrāṇakaṇṭhatāluṣu dhūmāyanaṁ-dhūmakaḥ| sāntardāhahr̥dayaśūlō’mlōdgāraḥ-amlakaḥ| śōṇitasya kr̥ṣṇatādaurgandhyatanutvāni-klēdaḥ| māṁsasya tu kr̥ṣṇatā daurgandhyaṁ ca| bāhyatvaksaṁhatiḥ-carma| kōṣṭhagauravādāhārāspr̥hātr̥ptiḥ| anyē punarāhuḥ,-annānabhinandanāttr̥tpiriva tr̥ptiḥ-arōcakaḥ| nidrārtasyēva viṣayāgrahaṇaṁ-tandrā| staimityaṁ tupramīlakaḥ, ityanyaiḥ paṭhitam| upalēpa iva-upalēpaḥ| tadatiśayaḥ-praticayaḥ,-atipūraṇam| agnēratimandatā-śaityam| urō’bhiṣyandaḥ-udardaḥ| kēṣāṁcicchītavēpathuḥ-udardaḥ| anyē punarāhuḥ-‘śītapānīyasaṁsparśācchītakālē viśēṣataḥ| sarāgakaṇḍūḥ śōphaḥ syādudardaḥ sa kaphōdbhavaḥ||’ kṣudravikārāḥ punaryadēvāṅgamāviśanti tadupapadamēva nāma labhantē| yathā,nakhaśaṅkhalalāṭabhēdāḥ svāntardāhakaṇṭhahr̥dayōpalēpādayaḥ| tēṣāṁ hi tathaiva svarūpamupadiṣṭaṁ bhavati|” iti|
dōṣāṇāṁ karmāṇyupadiśya nirdēśaprayōjanamāha – – – –
—————————————————–|
ityaśēṣamayavyāpi yaduktaṁ dōṣalakṣaṇam||54||
darśanādyairavahitastatsamyagupalakṣayēt|
vyādhyavasthāvibhāgajñaḥ paśyannārtān pratikṣaṇam||55||
sa0-iti-prakārē| dōṣāṇāṁ lakṣaṇaṁ dōṣalakṣaṇaṁ,-yathāyathaṁ liṅgam| iti-pūrvōktēna prakārēṇa, yaddōṣalakṣaṇamuktam, taddarśanādyaiḥ samyagupalakṣayēt-jānīyāt| vaidya iti śēṣaḥ| darśanādyairityādi(dya)śabdēna sparśanapraśnau gr̥hyētē| kimbhūtaṁ dōṣalakṣaṇaṁ tat ? aśēṣāmayavyāpi,-aśēṣāśca ta āmayāścāśēṣāmayāstān,-sarvāmayān, sādhu vyāpnōtīti| kimbhūtō vaidyaḥ ? avahitō,-dattāvadhānaḥ| tathā, vyādhyavasthāvibhāgajñaḥ,-vyādhēravasthāḥ-kālakr̥tā daśāḥ, tāsāṁ vibhāgaḥ-pr̥thaktvam, yathā,-iyamasya vyādhēravasthēyamanyāvasthēti| avasthābhēdāccōpakramabhēdaḥ| tathā hi,-ēkasyaiva jvarasya navasyānya upakramō jīrṇasyānyaḥ| tadēvaṁ vibhāgaṁ yō jānāti sa vyādhyavasthāvibhāgajñaḥ| tathā, ārtān-vyādhitān, pratikṣaṇaṁ-muhūrtē muhūrtē, paśyan-ālōkayan|
ā0 ra0- lakṣaṇajñānē sāvadhānēna bhavitavyamityāha-ityaśēṣāmayavyāpīti| darśanādyaiḥ-darśanasparśanapraśnaiḥ| avasthāvibhāgō yathā,-āmajvarō jīrṇajvaraḥ pacyamānajvara iti|
kimiti punaḥ punarvyādhitadarśanaṁ kriyatē ? ityāha – – – –
abhyāsātprāpyatē dr̥ṣṭiḥ karmasiddhiprakāśinī|
ratnādisadasajjñānaṁ na śāstrādēva jāyatē||56||
sa0-abhyāsāt-muhurmuhuścikitsitakarmaṇi pravartanāt, dr̥ṣṭiḥ-darśanaṁ cikitsāvijñānaṁ jāyatē, na kēvalaṁ-kēvalaccikitsāśāstrāvagamāt| kimbhūtā dr̥ṣṭiḥ ? karmaṇi siddhistāṁ prakāśayituṁ śīlaṁ yasyāḥ sā karmasiddhiprakāśinī| atra dr̥ṣṭāntamāha-ratnādītyādi| ādiśabdēna suvarṇarūpyādīnāṁ grahaṇam| tēṣāṁ yatsadasajjñānaṁ-idaṁ śōbhanamidaṁ na śōbhanamityavagamaḥ tanna śāstrādēva jāyatē| kiṁ tarhi ? abhyāsācca| ēvakārō’vadhāraṇārthaḥ| na śāstrāvabōdhānna ca kēvalādabhyāsādityēvakārēṇa bōdhayati| kila yathā ratnaparīkṣā tacchāstrāvabōdhadarśanābhyāsābhyāṁ samyagjāyatē, tathaiva cikitsā śāstrāvabōdhānnityamāturadarśanāccāvagamyata ityarthaḥ|
ā0 ra0- lakṣaṇadarśanābhyāsō lakṣaṇajñānasahakārītyāha-abhyāsāditi|
dr̥ṣṭāpacārajaḥ kaścitkaścitpūrvāparādhajaḥ|
tatsaṅkarādbhavatyanyō vyādhirēvaṁ tridhā smr̥taḥ||57||
sa0-dr̥ṣṭaścāsāvapacāraśca, tasmājjātō dr̥ṣṭāpacārajaḥ| apacārō-vyādhihētuḥ| aihikalaukikādvyādhikāraṇājjātō dr̥ṣṭāpacārajaḥ| kaścidātmakr̥tātpūrvāparādhāt-aśubhakarmākhyājjātaḥ pūrvāparādhajaḥ| aparaḥ kaścittatsaṅkarādbhavati| tayōḥ saṅkarastatsaṅkarō-miśratvaṁ, tasmāt| na kēvalātpūrvāparādhānna ca kēvalāddr̥ṣṭāparādhāt, api tu dvayōḥ saṁsargājjāta ityarthaḥ| ēvaṁ-anēna prakārēṇa, vyādhistridhā-triprakāraḥ, smr̥taḥ|
ā0 ra0- vyādhēstraividhyamāha-ddaṣṭāpacāraja iti| apacārō-nidānam| ddaṣṭhakarmajaḥ, addaṣṭakarmajaḥ, ddaṣṭakarmajaḥ iti trividhō vyādhiḥ|
atha triprakāravyādhilakṣaṇārthamāha – – – –
yathānidānaṁ dōṣōtthaḥ karmajō hētubhirvinā|
mahārambhō’lpakē hētāvātaṅkō dōṣakarmajaḥ||58||
sa0-yathānidānaṁ dōṣōttha iti| yadyasya dōṣasya vātādērlaghurūkṣādi nidānaṁ, tēna kupitāddōṣāt ya utthitō vyādhiḥ sa dōṣōtthō jñēyaḥ| yō dr̥ṣṭāpacāraja ukta ityarthaḥ| hētubhiḥ-vātādinidānairlaghurūkṣādibhirvinā yō bhavati sa karmajaḥ| yastvalpē nidānē sēvitē mahārambhaḥ syāt, sa dōṣakarmajō rōgō jñēyaḥ| mahānārambhō yasya saḥ, pūrvarūparūpairbalavadbhiryukta ityarthaḥ|
ā0 ra0- trayāṇāṁ lakṣaṇamāha-yathānidānamiti| yathānidānaṁ-svahētvanatikramēṇa, dōṣōtthō-ddaṣṭajaḥ| hētubhirvinā jātaḥ karmajaḥ-addaṣṭajaḥ, pūrvāparādhajaḥ| alpē hētau mahārambhaḥ-tīvrasaṁrambhō, dōṣakarmajaḥ| dōṣakṣōbhapūrvakatvāt ddaṣṭajasya dōṣajatvam| tadviparītatvādaddaṣṭajasya karmajatvam| vakṣyati hi (hr̥. sū. a. 1/170) – “tē jvarāḥ kēvalāḥ pūrvaṁ vyāpyantē’nantaraṁ malaiḥ|” iti|
atha trividhasyāpi vyādhēścikitsāmāha – – – –
vipakṣaśīlanātpūrvaḥ karmajaḥ karmasaṅkṣayāt|
gacchatyubhayajanmā tu dōṣakarmakṣayātkṣayam||59||
sa0-vipakṣaśīlanātpūrva iti| pūrvaḥ-pūrvamuktō yaḥ kēvalaṁ dōṣajō vyādhiḥ saḥ, vipakṣaśīlanāt-yathōktavipakṣādisēvanāt, kṣayaṁ yāti| karmajō rōgaḥ karmasaṅkṣayāt kṣayaṁ yāti| ubhayajanmā-dōṣakarmōtthō, dōṣakarmaṇōrubhayōrapi kṣayāt kṣayaṁ yāti|
ā0 ra0- vipakṣaśīlanāt-hētuviparītaśīlanāt| pūrvō-dōṣatthaḥ| karmasaṅkṣayāt-bhōgēna prāyaścittēna vā pāpakṣayāt| vipakṣaśīlanādyupaśayākhyaṁ lakṣaṇam|
vyādhīnāṁ traividhyamuktvā dvaividhyamāha – – – –
dvidhā svaparatantratvādvyādhayō’ntyāḥ punardvidhā|
—————————————————-|60|
sa0-svatantraśca paratantraśca svatantraparatantrau, tayōrbhāvaḥ svatantraparatantratvam, tasmāddhētōrdvidhā vyādhayaḥ| ēkē svatantrā anyē paratantrā ityarthaḥ| antē bhavā antyāḥ,–paratantrāḥ| tē punaḥ-bhūyō, dvidhā|
ā0 ra0- trayānāṁ pr̥thak dvaividhyamāha-dvidhā svaparatantratvāditi| tat svatantraḥ parantraścēti| antyā iti paratantrasya dvaividhyam| tacca pūrvarūpamupadravāścēti|
tadēva dvaividhyaṁ darśayitumāha – – – –
—————————————————-|
pūrvajāḥ purvarūpākhyā, jātāḥ paścādupadravāḥ||60||
sa0-pūrvaṁ jātāḥ pūrvajāḥ| “anyēṣvapi dr̥śyatē” iti ḍaḥ| pūrvajāḥ-pūrvarūpasaṁjñā rōgāḥ| yē ca paścājjātāgadāstē vyādhīnāmupadravāḥ| ityantyā dvidhā|
ā0 ra0- tau ca svatantrātpūrvaṁ paścāt kramēṇa jāyētē|
atha svatantrān lakṣayati – – – –
yathāsvajanmōpaśayāḥ svatantrāḥ spaṣṭalakṣaṇāḥ|
—————————————————-|61|
sa0-janma cōpaśayaśca janmōpaśayau| janma- utpattiḥ| upaśayaḥ-sukhānubandhaḥ| yō yaḥ svaṁ svaṁ-yathāsvam| yasya jvarādēryāvātmīyau śāstranirdiṣṭau tau yathāsvaśabdēna sūcyētē| yathāsvaṁ janmōpaśayau yēṣāṁ tē yathāsvajanmōpaśayā vyādhayaḥ svatantrā ucyantē| cikitsāgurulāghavapratipattyarthaṁ ca svatantrādisaṁjñākaraṇam| svagrahaṇādyē’nyajanmani jāyantē’nyasya ca vyādhēryata upaśayaḥ-sukhānubandhastata ētatparivārasyāpi, tē tu na svatantrāḥ| tathā cōktam-“pūrvarūparūpādikramēṇa jvarādāvutpannē tatparivārā yē śvāsādaya utpadyantē tadupaśayē cōpaśēratē na tē svatantrāḥ| jvarādaya ēva tu mūlavyādhirūpatvātsvatantrā ucyatē|” iti|
ā0 ra0- yasya svēna hētunā janma, svauṣadhēnōpaśamaḥ, spaṣṭaṁ ca lakṣaṇaṁ, sa svatantraḥ|
—————————————————-|
viparītāstatō’nyē tu————————-|61|
sa0-tataḥ-svatantrēbhyō rōgēbhyō, yē’nyē-paratantrāḥ, pūrvarūpākhyāstathōpadravasaṁjñāśca, tē viparītāḥ,-viparītasvarūpāḥ, na yathāsvajanmōpaśayā na ca spaṣṭalakṣaṇāḥ|
ā0 ra0- viparītaḥ-paratantraḥ|
ēvaṁ vyādhīnāṁ svatantraparatantratvaṁ pratipādya, dōṣāṇāṁ pratipādayannāha – – – –
—————————————————-|
———————————–vidyādēvaṁ malānapi||61||
sa0-na kēvalaṁ rōgān svatantraparatantrabhēdairvidyādvaidyaḥ, yāvanmalān-dōṣānapi vātādīn, ēvaṁ-svatantraparatantrabhēdairjānīyāt|
ā0 ra0- vyādhivaddōṣānapi svatantrānvidyāt|
tāṁllakṣayēdavahitō vikurvāṇān pratijvaram|
—————————————————-|62|
sa0-tān-vātapittakaphān yathāsvajanmōpaśayalakṣaṇāvacchinnasvarūpān, pratijvaraṁ-prativikāraṁ, vikurvāṇān-vikr̥tiṁkōpaṁ gacchatō, jānīyāt| vaidya iti śēṣaḥ| kīdr̥k ? avahitō-dattacittaḥ|
ā0 ra0- tāṁśca pratirōgaṁ lakṣayēt| kō’tra svatantraḥ kaḥ paratantra iti|
ēvaṁ svatantrāṇāṁ vyādhīnāṁ yathāsvōpaśaya ēva bhēṣajamuktam|
paratantrāṇāṁ tu vyādhīnāṁ kaḥ praśamōpāyaḥ ? ityāha – – – –
—————————————————-|
tēṣāṁ pradhānapraśamē praśamō’śāmyatastathā||62||
paścāccikitsēttūrṇaṁ vā balavantamupadravam|
—————————————————-|63|
tēṣāṁ-paratantrāṇāṁ rōgāṇāmapradhānānām, pradhānapraśamē-svatantravyādhipraśamē, praśamō bhavati,-na tu tēṣāṁ pr̥thagupakramō vidhēya ityarthaḥ| aśāmyataḥ-tathā śamamagacchataḥ paratantrān vyādhīn dōṣān vā, tathā-tēna prakārēṇa pradhāna cikitsālakṣaṇēna, paścāt-pradhānacikitsāta uttarakālaṁ, cikitsēt| acikitsyamānō hyasādhyatāṁ yāyāt| tūrṇaṁ vēti| upadravaścēdbalavān syāttadā tamēvōpadravaṁ tūrṇamēva cikitsēt-, na paścāt|
ā0 ra0- tēṣāṁ-paratantrāṇāṁ, svatantrapraśamē praśamaḥ| tathāsvaṣaudhēna, yē na śāmyanti tān paścārsvauṣadhēna cikitsēt| yastu balavānupadravastaṁ tūrṇaṁ-prāgēva, cikitsēt|
nanu, kutō’pradhānaṁ śīghraṁ cikitsēt ? ityāha – – – –
—————————————————-|
vyādhikliṣṭaśarīrasya pīḍākaratarō hi saḥ||63||
sa0-hi-yasmāt, vyādhikliṣṭaśarīrasya puṁsaḥ sō’tiśayēna pīḍākaraḥ| prāgutpannō’pi rōgaḥ pīḍākaraḥ| upadravastu paścājjāyamānō vyādhikliṣṭaśarīrōtpannatvātpīḍākarataraḥ| tadayamatrārthaḥ,-paratantrō vyādhirhīnabalaḥ pradhānōpakramēṇaivōpaśāmyati| yastu paratantraḥ paścādutpadyamānō’pi svatantravyādhyupakramēṇa śamaṁ na yāti taṁ paścādupakramēt| yastu balavān paratantrastamādāvēva cikitsēt, atipīḍākaratvāt|
ā0 ra0- sa hi svatantrēṇa pīḍitasya narasya svatantrādatipīḍakaḥ| saṅgrahē tu (sū. a. 22) – “satpavidhāḥ khalu rōgā bhavanti| sahagarbhajātapīḍākālaprabhāvasvabhāvajāḥ| tē tu pr̥thagddhividhāḥ| tatra sahajāḥ śukrārtavadōṣānvayāḥ kuṣṭhārśōmēhādayaḥ, pitr̥jā mātr̥jāśca| garbhajā jananyapacārātkaubjyapāṅgulyapai!ggalyakilāsādayō, annarasajā mātr̥dauhr̥davimānajāśca| jātajāḥ svāpacārāt santarpaṇajā apatarpaṇajāśca| pīḍājāḥ kṣatabha!ggaprahārakrōdhaśōkabhayādayaḥ, śārīrāmānasāśca| kālajāḥ śītādikr̥tā jvarādayō, vyāpannajā asaṁrakṣaṇajāśca| prabhāvajā dēvagurulaṅanaśāpātharvaṇādikr̥tāḥ, jvarādayaḥ piśācādayaśca| svabhāvajāḥ kṣutpipāsājarādayaḥ, kālajā akālajāśca| tatra kālajā rakṣaṇakr̥tāḥ, arakṣaṇajā akālajāḥ ta ētē samāsataḥ punardvividhā bhavanti,pratyutpannakarmajāśca| tatra rōgōtpattiṁ pratyutpannaṁ karma yadanēnaiva śarīrēṇa ddaṣṭamaddaṣṭaṁ vōddiśyātpōpadiṣṭapratiṣiddhānāmananuṣṭhānamanuṣṭhānaṁ vā| janmāntarātītēna tu pūrvam| tatpunardaivākhyam, uktaṁ ca niyatāniyatabhēdēna prāk| tasmāt ddaṣṭahētavaḥ pratyutpannakarmajāḥ| viparītā daivajanmānaḥ| alpa nidānā mahārujaścōbhayātmakāḥ| tatra yathāsvaṁ pratipakṣaśīlanāt pūrvēṣāṁ rōgāṇāmupaśamaḥ| satyēva vipakṣaśīlanē nirdiṣṭakarmakṣayāddvaivikānām| dōṣakarmakṣayādanyēṣām| anyē punaḥ pratyutpannaṁ karma parakr̥tamapi varṇayanti| tacca parābhisaṁskāramācakṣatē| ēvaṁ cāhaḥ,-yadi svayaṁ kr̥tādēva karmaṇaḥ kāryanirvr̥ttiḥ syāt, na ddaṣṭapuruṣāntarakr̥tāt| kimiti vidvānapi parācaritayōrupakārāpakārayōḥ sukhaduḥkhānurōdhāttōṣarōṣau praikartavyavintāṁ vā pratipēdyatē| ēvamētē vyādhayō dvividhāḥ santasnividhā jāyantē| tataśca dōṣavantō bhūyaḥ saptavidhāḥ| sakalō’pi cāyaṁ rōgasamūhaḥ pratīkāravān āyurvēdavihitamupadēśamapēkṣatē| yasmānniyatahētukō’pyāmayaḥ samyagbhiṣagādēśānuṣṭhānādupāttāyuḥ saṁskārāparikṣayē sahyavēdanatāṁ pratipadyatē| anuprakramyamāṇastu sarva ēva prāyaśō bhinattyakāṇḍē| svayamapi ca daivānnidānālpatayā vā nivartamānaḥ ṣōḍaśaguṇasamuditakriyōpālambhādāśutaramapai parikliṣṭasya vā’pagacchati| aniyataphaladāyini tu daivē hitābhyāsaratasyāvakāśamēva na labhatē vyādhiḥ| tasmānna kasyāñcidavasthāyāmātmavān hitāhitayōstulyadarśī syāt| trividhāśca punarvyādhayō mr̥dumadhyātimātrabhēdēna| tatrālpalakṣaṇā mr̥davō, madhyalakṣaṇā madhyāḥ, sampūrṇalakṣaṇāstvatimātāḥ| tē punaḥ sukhasādhyādiviśēṣēṇa caturdhā prāgupadiṣṭāḥ| subahuśō’pi ca bhidyamānā vyādhyayō nijāgantutāṁ na vyabhicaranti| tatra nijāsnidōṣōtthāḥ| tēṣu pūrvaṁ vātādayō vaiṣamyamāpadyantē tatō vyathābhinivartatē| bāhyahētujāstvāgantavaḥ| tēṣu vyathā pūrvamupajāyatē, tatō dōṣavaiṣamyam| dōṣavaiṣamyēṇaiva ca bahurūpā rudanubadhyatē, tatō dōṣavaiṣamyam| dōṣavaiṣamyēṇaiva ca bahurūpā ruganubadhhyatē pravarddhatē ca| ēvaṁ ca kr̥tvā na dōṣavyatirēkēṇa rōgānubanddhaḥ, kēvalaṁ paurvāparyaviśēṣaḥ| tasmādēkākārā ēva rōgāḥ, tathārukasāmānyāt| asaṅkhyabhēdā vā pratyēkaṁ samutthānasthānasaṁsthānavarṇanāmavēdanāprabhāvōpakramaviśēṣāt| tē yathāsthūlaṁ yathāsvamēvōpadēkṣyantē| asaṅkhayēyatvācca dōṣaliṅgairēva rōgānupakramaṁ ca vibhajēt||” iti|
nanu, yēṣāṁ vikārāṇāṁ nāmagrāhaṁ cikitsā |ca] nōktā|
tēṣāṁ nāmākuśalō vaidyaḥ kiṁ cikitsēnna ? ityāśaṅkyāha – – – –
vikāranāmākuśalō na jihrīyāt kadācana|
na hi sarvavikārāṇāṁ nāmatō’sti dhruvā sthitiḥ||64||
sa0-vikārāḥ-rōgāḥ, tēṣāṁ nāmāni, tēṣvakuśalō vaidyō na jātucijjihrīyāt-rōgasaṁjñānabhijñō’hamiti lajjāṁ na kuryāt, cikitsāmēva vidadhyādityarthaḥ| kutō hētōḥ ? ityāha-na hītyādi| yasmātsarvavikārāṇāṁ nāmataḥ-saṁjñātō, dhruvā-niścitā, sthitiḥ-avasthānaṁ, nāsti|
ā0 ra0- śāstrē’nuktaṁ svayamūhanīyamityāha-vikāranāmēti| yō vikārasyavātajāditvaṁ jānāti, nāma na jānāti, śāstrē’nuktatvātsaṅkīrṇatvādvā, sa na jihnīyāt-lajjāṁ na kuryāt| na hi nāmādhīnā sarvatra cikitsā| vātajādijñānaṁ hi cikitsāyāṁ pradhānaṁ kāraṇam|
nanu, kutō’śēṣarōgāṇāṁ nāmatō nāsti sthitiḥ ? ityāśaṅkyāha – – – –
sa ēva kupitō dōṣaḥ samutthānaviśēṣataḥ|
sthānāntarāṇi ca prāpya vikārān kurutē bahūn||65||
tasmādvikāraprakr̥tīradhiṣṭhānāntarāṇi ca|
buddhvā hētuviśēṣāṁśca śīghhraṁ kuryādupakramam||66||
sa0-yasmātsaḥ-ēka ēva, dōṣō-vātādyanyatamaḥ, samutthānaviśēṣatō-hētubhēdāt, tathā sthānāntarāṇi-svasthānaṁ hitvā parāṇi sthānāni, prāpya-gatvā, bahūn-anantān, vikārān kurutē| tathā cōktaṁ tantrāntarē-“yō dōṣaḥ śarīrasandhīnāviśati, tēna jr̥mbhā jvaraścōpajāyatē| yastvāmāśayamabhyupaiti, tēna rōgā bhavantyurasi, arōcakaśca| yaḥ kaṇṭhamabhiprapadyatē kaṇṭhastatō dhvaṁsatē svaraścāvasīdati| yaḥ prāṇavahāni srōtāṁsyāsyādīni upaiti, śvāsaḥ pratiśyāyaśca tēnōpajāyatē|” iti| vikārasya-jvarādēḥ, prakr̥tayaḥ-upādānakāraṇāni vātādidōṣāḥ, tā vikāraprakr̥tī:-rōgahētuviśēṣān, buddhvā,- jñātvā, tathā’dhiṣṭhānāntarāṇi sthānaviśēṣāṁśca, buddhvā,tathā hētuviśēṣān-nidānabhēdāṁśca, buddhvā-yathā kimayaṁ kupitaḥ pavanō rūkṣēṇa hētunā laghunā śītēna vētyādi jñātvā, śīghhramēvōpakramēt-cikitsēt| na tu vikārānabhijña iti na cikitsēt|
ā0 ra0- atha sādhanam| sādhanajñānaṁ ca lakṣaṇajñānādhīnam| tatra lakṣaṇasya durbōdhatvamāha-sa ēvēti| sa ēva yō’nyatra lakṣitō, bahūn vikārān kurutē,-yē’nyatra na ddaṣṭāḥ| tatra dvau hētū-samuttānaviśēṣātkupitatvaṁ sthānāntaraprāptiśca samutthānaviśēṣaḥ-anyatrāddaṣṭaṁ samutthānam|tasmādvikārāditrityajñānapūrvaka upakramaḥ kāryaḥ| sa ca śīghram, avasthāntarō| prakr̥tiḥ-svabhāvō’sādhāraṇaṁ cinham|
nanu, buddhvā’pi vikāraprakr̥tyādikamupakramaṁ kurvantaḥ kadācitsiddhimāpnuvantō dr̥śyantē bhiṣajaḥ kadācinnēti|
tadatra saṁśayaskhalitē karmaṇi kathaṁ niyujyatē vaidya iti kathamuktam ? “śīghraṁ kuryādupakramam” ityāśaṅkyāha – – – –
dūṣyaṁ dēśaṁ balaṁ kālamanalaṁ prakr̥tiṁ vayaḥ|
sattvaṁ sātmyaṁ tathā”hāramavasthāśca pr̥thagvidhāḥ||67||
sūkṣmasūkṣmāḥ samīkṣyaiṣāṁ dōṣauṣadhanirūpaṇē|
yō vartatē cikitsāyāṁ na sa skhalati jātucit||68||
sa0-dōṣauṣadhanirūpaṇē sati dūṣyādīn daśa samīkṣya samyagvilōkya, yaścikitsāyāṁ vartatē-yatnaṁ karōti, saḥ-vaidyō, na kadācit skhalati-nāparādhī syāt| dōṣō-vātādiḥ, auṣadhaṁ-harītakyādi, tayōrnirūpaṇaṁ-paryālōcanam, tasmin dōṣauṣadhanirūpaṇē| dūṣyādīnāṁ samastānāmupādānaṁ sarvēṣāmēvāvagamē cikitsākaraṇaṁ prati yatnātiśayadyōtanārtham, na punarēṣāṁ dvau vā trīn vā caturō vā pañca vā samīkṣya| kiṁ tārhi ? sarvānētān samīkṣya,-samyagavabudhyēti| atha dūṣyādīnēva samīkṣya ? nētyāha- avasthāśca pr̥thagvidhāḥ| ēṣāmēva dūṣyādīnāmavasthāḥ sūkṣmasūkṣmāḥ-atiśayēna sūkṣmāḥ, tāśca samīkṣya-yathāvadbuddhvēti|
ā0 ra0- dūṣyādyēkādaśajñānē satyavyabhicāryupakrama ityāha-dūṣyati| dūṣyō-dhāturmalaśca| dēśō-bhūmirdēhaśca| balaṁ-sāmarththam| dēśō- bhūmirdēhaśca| balaṁ-sāmarththam | kālaḥ-pūrvāhṇadiḥ| analō-viṣamādiḥ| prakr̥tiḥ-vātaprakr̥tyādiḥ|vayō-balyādi| satvaṁ-manaḥ| sātmyaṁ-dēśasātmyādi|āhārō-madhurādiḥ| avasthāḥ-rūpēṣvavāntaraṁ rūpam| sūkṣmasūkṣmāḥ-atisūkṣmāḥ| ēṣāṁ-rōgāṇām| dōṣauṣadhanirūpaṇē-dōṣasyauṣadhasya ca vicāraṇē|
na ca dūṣyādyēva parīkṣyam|
kiṁ tārhi ? vyādhirapi gurulaghutvēna ēvaṁ parīkṣya ēvētyāha – – – –
gurvalpavyādhisaṁsthānaṁ sattvadēhabalābalāt|
dr̥śyatē’pyanyathākāraṁ tasminnavahitō bhavēt||69||
sa0-guruścālpaśca gurvalpau, gurvalpau ca tau vyādhī ca gurvalpavyādhī, tayōḥ saṁsthānaṁ-ākr̥tiḥ| apiśabdō bhinnakramē| tadgurvalpavyādhisaṁsthānamanyathākāramapi dr̥śyatē-viparītamiti lakṣyatē| apiśabdātkvacit gurvalpavyādhisaṁsthānaṁ yathātattvaṁ dr̥śyatē kvacinnēti vyādhilakṣaṇasya gamakatvābhāvaḥ prasajyēta| tataśca “rōgaṁ nidānaprāgrūpalakṣaṇōpaśayāptibhiḥ|” (hr̥. sū. a. 1|22) iti dūṣyēta| tasmādapiśabdō’tra gurvalpasaṁsthānasya yathātattva darśanaṁ kvacidbhavatyēvēti sūcanārthaḥ kr̥taḥ| kutō hētōḥ ? ityāha-sattvētyādi| sattvaṁ-dhairyam| dēhō-mahadalpasthūlakr̥śādiḥ| sattvaṁ ca dēhaśca sattvadēhau| balaṁ cābalaṁ ca balābalē| tasmātsattvadēhabalābalāddhētōrgurvalpavyādhisaṁsthānē’vahitō bhavēt| adhikasattvē tathōtkr̥ṣṭadēhabalē ca guruḥ-mahānapi vyādhirutpannō’lpasaṁsthānō-hīnabala iva lakṣyatē, sattvadēhabalayōrutkr̥ṣṭatvāt| tathā, hīnasatvē hīnadēhabalē cōtpannō laghurapi mahāniva lakṣyatē, hīnasattvadēhabalatvāt| tasmāda(tta)smin-vyādhisaṁsthānē’rthē, dattāvadhānēna bhāvyam|
ā0 ra0- tatrāpi satvadēhayōrbalaṁ tātparyēṇa parīkṣyamityāha-gurvalpavyādhisaṁsthānamiti| saṁsthānaṁ-lakṣaṇam|anyathākāraṁ-gurōralpatvam, alpasyāpi gurutvam|
guruṁ laghumiti vyādhiṁ kalpayaṁstu bhiṣagbruvaḥ|
alpadōṣākalanayā pathyē vipratipadyatē||70||
sa0-guruṁ laghumityādi| yaśca bhiṣagbruvaḥ-kutsitō vaidyaḥ, sa vyādhisaṁsthānamātrāvalōkanāt guruṁ vyādhiṁ laghumiti kalpayan-niścinvan, alpadōṣākalanayā-hīnamātradōṣaniścayēna, pathyē vipratipadyatē-cikitsitē mōhaṁ gacchati, guruvyādhāvalpavyādhiyōgyaṁ bhēṣajaṁ dadāti| ēvaṁ laghuvyādhiṁ gurumiti kalpayan bahudōṣākalanayā pathyē vipratipadyatē, bhiṣagbruvattvāt| anyatrāpi bruvāntasya kutsitatvamēva prasiddham| yathā”ha manuḥ (a. 8|20) -“jātimātrōpajīvī vā kāmaṁ syādbrāhmaṇabruvaḥ| dharmapravaktā nr̥patērna tu śūdraḥ kathañcana||” iti| kēcit “bhiṣagdhruvam” iti pēṭhuḥ| bhiṣak-vaidyō, guruṁ laghumiti vyādhiṁ kalpayan dhruvaṁ-niścitaṁ pathyē vipratipadyata iti ca vyācakṣatē|
ā0 ra0- anavahitatvē dōṣamāha-guruṁ laghumiti|alpō’yaṁ dōṣa ityagaṇanayā vipratipadyatē-viparītaṁ jānāti|
yasmāccaivam – – – –
tatō”lpamalpavīryaṁ vā guruvyādhau prayōjitam|
udīrayēttarāṁ rōgān saṁśōdhanamayōgataḥ||71||
śōdhanaṁ tvatiyōgēna viparītaṁ viparyayē|
kṣiṇuyānna malānēva kēvalaṁ vapurasyati||72||
sa0-tatō’lpaṁ-alpamātram, alpavīryaṁ vā-anutkr̥ṣṭaśaktikaṁ vā, bhēṣajaṁ guruvyādhau prayōjitaṁ-dattaṁ, saṁśōdhanaṁ rōgānudīrayēttarāṁ-atiśayēnōtklēśayēt| kutaḥ ? ayōgataḥ,,-hīnayōgāt| ayōgō hi hīnayōga ucyatē| yathā,-putrakāryākaraṇādaputra ityucyatē| viparyayē ca-laghuvyādhau, viparītaṁ śōdhanaṁ tu prayōjitam, kasmādviparītam ? alpavīryātsaṁśōdhanāt, atimātramutkr̥ṣṭavīryaṁ ca bahudōṣākalanayā, atiyōgēna prayōjitaṁ na kēvalaṁ malān kṣiṇuyāt-kṣapayēt, yāvadvapurasyati-śarīramapi hiṁsyāt| atra ca saṁśōdhanaṁ yat dr̥ṣṭāntatvēnōpanyastaṁ tadayōgātiyōgābhyāṁ rōgōtklēśaṁ śarīrakṣapaṇaṁ [ca] jhaṭiti nirvartayatīti| kharanādēnāpyuktaṁ ca-“alpamutklēśayēddōṣaṁ bahu prāṇānnihanti ca| tasmānnirūpya bhiṣajā dēyaṁ yuktaṁ virēcanam||” iti| tathā, jvaragulmādīnāṁ ca tatpratīkārārthaṁ yaddīyatē bhēṣajaṁ tatrāpi mahārambhē’lpamalpavīryaṁ cauṣadhaṁ na dēyam, ityasmādēva dr̥ṣṭāntībhūtādarthādavagantavyam|
ā0 ra0- viparyayajñānē dōṣamāha-tatō’lpamiti| ayōgataḥ-hīnayōgēna| viparītaṁ-atimātramativīryaṁ vā|viparyayē-laghuvyādhau| vapurapyatiśayēna kṣayaṁ nayēt, na dōṣānēva|
atō’bhiyuktaḥ satataṁ sarvamālōcya sarvathā|
tathā yuñjīta bhaiṣajyamārōgyāya yathā dhruvam||73||
sa0-yasmāccaivaṁ rōgāṇāṁ durvijñēyā gatiḥ, ataḥ-asmāddhētōḥ, satatamabhiyuktaḥ-sadā”yurvēdapāṭhāvabōdhānuṣṭhānaparō vaidyaḥ, sarvaṁ-dūṣyādivastujātam, ālōcya sarvathā-sarvēṇa prakārēṇā”yurvēdānusāriṇyā svabuddhyā tadvidyasambhāṣāsambhavayā ca tathā karmābhyāsatō’pi nipuṇaṁ nirūpya, tathā-tēna prakārēṇa dōṣadūṣyadēśādyanuguṇēna, bhaiṣajyaṁ yuñjīta-bhēṣajaṁ yuñjyāt| yathā”rōgyāya dhruvaṁ-yēna prakārēṇā”rōgyārthamavaśyaṁ syāt|
ā0 ra0- aśēṣaviśēṣēśaparīkṣāyāmatyādaraḥ kārya ityāhātō’bhiyukta iti|
pūrvamuktam (ślō. 32) – “dōṣā ēva hi sarvēṣāṁ rōgāṇāmēkakāraṇam|
” atastānēva dōṣān vr̥ddhikṣayavibhēdēnāha – – – –
vakṣyantē’taḥparaṁ dōṣā vr̥ddhikṣayavibhēdataḥ|
pr̥thak trīn viddhi
saṁsargabhēdānadhunā vakti – – – –
saṁsargastridhā, tatra tu tānnava||74||
kathaṁ nava bhēdān ? ityāha – – – –
trīnēva samayā vr̥ddhyā, ṣaḍēkasyātiśāyanē|
trayōdaśa samastēṣu
katham ? ityāha – – – –
ṣaḍ dvyēkātiśayēna tu||75||
ēkaṁ tulyādhikaiḥ
ṣaṭ ca tāratamyavikalpanāt|
pañcaviṁśatimityēvaṁ vr̥ddhaiḥ
kṣīṇaiśca tāvataḥ||76||
ēkaikavr̥ddhisamatākṣayaiḥ ṣaṭ tē
punaśca ṣaṭ|
ēkakṣayadvandvavr̥ddhyā saviparyayayā’pi tē||77||
bhēdā dviṣaṣṭirnirdiṣṭāḥ
triṣaṣṭaḥ svāsthyakāraṇam|
—————————————————-|78|
sa0-vr̥ddhiśca kṣayaśca vr̥ddhikṣayau, vr̥ddhikṣayayōrvibhēdō vr̥ddhikṣayavibhēdaḥ, vividhō viśiṣṭō bhēdō-vibhēdaḥ, tasmādvr̥ddhikṣayavibhēdataḥ| ataḥparaṁ-atō’nantaram, dōṣāḥ-vātādayō, vakṣyantē-bhaṇiṣyantē|
sa0-pr̥thak-vyastān svapramāṇādhikān, trīn dōṣān rōgahētūn, viddhi-avēhi| vātō vr̥ddhaḥ| 1| pittaṁ vr̥ddham| 2| ślēṣmā vr̥ddhaḥ| 3| ēvaṁ trayō dōṣāḥ|
sa0-saṁsargastridhā-triprakāraḥ| tatra-saṁsargē, nava dōṣabhēdān svapramāṇādhikān, “viddhi” ityētadanuvr̥ttikr̥tēna sambandhēna sarvatra yōjyam|
sa0-samayā vr̥ddhyā-tulyayā vr̥dhdyā, trīnēva-anyūnādhikān, saṁsargadōṣabhēdān viddhi|
ēkō vātapittābhyāmadhikābhyām, dvitīyō vātakaphābhyāmadhikābhyām, tr̥tīyaḥ pittaślēṣmabhyāmadhikābhyām, iti|
saṁsargasthayōrdōṣayōrēkasya dōṣasyātiśāyanē-adhikatarayā vr̥ddhyā, ṣaṭ saṁsargadōṣabhēdān viddhi|
atiśayō-atiśāyanam|
atiśāyanē “tamabiṣṭhanau” iti nipātanāddīrghaḥ|
dōṣadvayavr̥ddhēścintyamānatvādaparadōṣacintānāstyatra|
vātō vr̥ddhaḥ pittaṁ vr̥ddhataram||1||
pittaṁ vr̥ddhaṁ vātō vr̥ddhataraḥ||2||
kaphō vr̥ddhaḥ pittaṁ vr̥ddhataram||3||
pittaṁ vr̥ddhaṁ kaphō vr̥ddhataraḥ||4||
kaphō vr̥ddhō, vātō vr̥ddhataraḥ||5||
vātō vr̥ddhaḥ kaphō vr̥ddhataraḥ||6||
ēvaṁ ṣaṭ saṁsargadōṣabhēdān viddhi|
sa0-samastēṣu-sannipatitēṣu triṣvapi dōṣēṣu vr̥ddhēṣu, trayōdaśa dōṣabhēdān viddhi|
sa0-dvau caikaśca dvyēkē, tēṣāṁ dvyēkēṣāmatiśayō-adhikatvam, tēna dvyēkātiśayēna| tatō dvayātiśayēna trayō bhēdāḥ, tathā dōṣaikasyātiśayēna trayaḥ, iti ṣaṭ bhēdāḥ| yathā,-kaphō vr̥ddhō vātapittē’dhikaṁ vr̥ddhē| 1| pittaṁ vr̥ddhaṁ vātakaphāvativr̥ddhau| 2| vātō vr̥ddhaḥ pittakaphāvativr̥ddhau| 3| pittakaphau vr̥ddhau vātō’tivr̥ddhaḥ| 4| vātakaphau vr̥ddhau pittamativr̥ddham| 5| vātapittē vr̥ddhē kaphō’tivr̥ddhaḥ| 6| iti ṣaḍbhēdān dvyēkātiśayēna sannipātē viddhi|
sa0-tulyaṁ kr̥tvā-samaṁ kr̥tvā, vr̥ddhairdōṣairēkaṁ sannipātadōṣabhēdaṁ viddhi|
sa0-taratamayōrbhāvastāratamyam| kasya tāratamyam ? prakr̥tatvātsannipātasthadōṣāṇām| tāratamyasya vikalpanaṁ-bhēdaḥ, tāratamyavikalpanam, tasmāt| sannipātasthadōṣāṇāṁ vr̥ddhirūpāṇāṁ ṣaḍbhēdān viddhi| yathā,-vātō vr̥ddhaḥ pittaṁ vr̥ddhataraṁ kaphō vr̥ddhatamaḥ| 1| vātō vr̥ddhaḥ kaphō vr̥ddhataraḥ pittaṁ vr̥ddhatamam| 2| pittaṁ vr̥ddhaṁ kaphō vr̥ddhatarō vātō vr̥ddhatamaḥ| 3| pittaṁ vr̥ddhaṁ vātō vr̥ddhataraḥ kaphō vr̥ddhatamaḥ| 4| kaphō vr̥ddhō vātō vr̥ddhataraḥ pittaṁ vr̥ddhatamam| 5| kaphō vr̥ddhaḥ pittaṁ vr̥ddhataraṁ vātō vr̥ddhatamaḥ| 6| ētēṣāṁ ca lakṣaṇaṁ muniradhyagīṣṭa| tathā ca tadgranthaḥ (ca. ci. a. 3|88)- “sannipātajvarasyōrdhvaṁ trayōdaśavidhasya hi| prāk sūtritasya vakṣyāmi lakṣaṇaṁ vai pr̥thak pr̥thak|| bhramaḥ pipāsā dāhaśca gauravaṁ śirasō’tiruk| vātapittōlbaṇē vidyālliṅgaṁ mandakaphē jvarē|| śaityaṁ kāsō’rucistandrā pipāsā dāharugvyathāḥ| vātaślēṣmōlbaṇē vyādhau liṅgaṁ pittāvarē viduḥ|| chardiḥ śaityaṁ muhurdāhastr̥ṣṇā mōhō’sthivēdanā| mandavātē vyavasyanti liṅgaṁ pittakaphōlbaṇē|| sandhyasthiśirasaḥ śūlaṁ pralāpō gauravaṁ bhramaḥ| vātōlbaṇē syād hyanugē tr̥ṣṇā kaṇṭhāsyaśuṣkatā|| raktaviṇmūtratā dāhaḥ svēdastr̥ḍbalasaṅkṣayaḥ| mūrcchā cēti tridōṣē syālliṅgaṁ pittagarīyasi|| ālasyārucihr̥llāsadāhavamyaratibhramaiḥ| kaphōlbaṇaṁ sannipātaṁ tandrākāsēna cādiśēt|| samaṁ dōṣaistribhirvr̥ddhaiḥ sannipātasya lakṣaṇam| muhurdāhō muhuḥ śītaṁ karṇakṣvēḍanapārśvaruk|| mōhaḥ cchardirdivā nidrā rātrau jāgaraṇaṁ tathā| pratiśyā chardirālasyāṁ tandrārucyagnimārdavam|| hīnavātē pittamadhyē cihnaṁ ślēṣmādhikē matam| hāridramūtranētratvagdāhastr̥ṣṇā bhramō’ruciḥ|| hīnavātē madhyakaphē liṅgaṁ pittādhikē matam| śirōrugvēpathuḥ śvāsaḥ pralāpaḥ cchardyarōcakau|| hīnapittē madhyakaphē liṅgaṁ vātādhikē matam| śītakaṁ gauravaṁ tandrā pralāpō’sthiśirōtiruk|| hīnapittē vātamadhyē liṅgaṁ ślēṣmādhikē viduḥ| varcōbhēdō’gnidaurbalyaṁ tr̥ṣṇā dāhō’rucirbhramaḥ|| kaphahīnē vātamadhyē liṅgaṁ pittādhikē matam| śvāsaḥ kāsaḥ pratiśyāyō mukhaśōṣō’tipārśvaruk|| kaphahīnē pittamadhyē liṅgaṁ vātādhikē smr̥tam|” iti|
sa0-ēvaṁ-pūrvōktēna prakārēṇa, pañcaviṁśatisaṅkhyāparimāṇān vr̥ddhān dōṣabhēdān vr̥ddhairdōṣairviddhi|
sa0-kṣīṇaiḥ-kṣayāvasthairdōṣaiḥ, tāvataḥ-tatparimāṇān pañcaviṁśatisaṅkhyākān dōṣabhēdān viddhi| yathā,-vr̥ddhaiḥ pr̥thak trīn dōṣabhēdān, tathā kṣīṇaiḥ| “pr̥thak trīn” ityādigranthē vr̥ddhiśabdasthānē kṣīṇaśabdē nipātyaḥ| tadyathā,-vātaḥ kṣīṇaḥ| 1| pittaṁ kṣīṇam| 2| kaphaḥ kṣīṇaḥ| 3| tadēvaṁ saṁsargē navadōṣabhēdān viddhi| katham ? trīnēva samakṣīṇatvēna,-kṣīṇavātapittasaṁsargaḥ| 1| kṣīṇapittakaphasaṁsargaḥ| 2| kṣīṇavātakaphasaṁsargaḥ| 3| ṣaḍēkasyātiśāyanē| atiśāyanē-anyadōṣāpēkṣayā kṣīṇatvātirēkē,-vātaḥ kṣīṇaḥ pittaṁ kṣīṇataram| 1| pittaṁ kṣīṇaṁ vātaḥ kṣīṇataraḥ| 2| vātaḥ kṣīṇaḥ kaphaḥ kṣīṇataraḥ| 3| kaphaḥ kṣīṇō vātaḥ kṣīṇataraḥ| 4| kaphaḥ kṣīṇaḥ pittaṁ kṣīṇataram| 5| pittaṁ kṣīṇaṁ kaphaḥ kṣīṇataraḥ| 6| ēvaṁ ṣaṭ dōṣabhēdān viddhi| trayōdaśa samastēṣu-sannipatitēṣu kṣīṇēṣu dōṣēṣu dōṣabhēdāṁstrayōdaśa viddhi| katham ? ṣaḍ dvyēkātiśayēna tu| dōṣadvayasyātiśayēna-atikṣīṇatvēna, tathā dōṣaikaśayēna tu| tathā dōṣaikasyātikṣīṇatvēna, paryāyataḥ ṣaṭ kṣīṇasannipātadōṣabhēdān viddhi| yathā,-vātaḥ kṣīṇaḥ pittakaphāvatikṣīṇau| 1| pittaṁ kṣīṇaṁ vātakaphāvatikṣīṇau| 2| kaphaḥ kṣīṇaḥ pittavātāvatikṣīṇau| 3| vātapittē kṣīṇē kaphō’tikṣīṇaḥ| 4| pittakaphau kṣīṇau vātō’tikṣīṇaḥ| 5| vātakaphau kṣīṇau pittamatikṣīṇam| 6| ēkaṁ tulyakṣīṇairbhēdaṁ viddhi| 1| ṣaṭ ca tāratamyavikalpanāt,-kaphaḥ kṣīṇaḥ pittaṁ kṣīṇataraṁ vātaḥ kṣīṇatamaḥ| 1| vātaḥ kṣīṇaḥ kaphaḥ kṣīṇataraḥ pittaṁ kṣīṇatamam| 2| pittaṁ kṣīṇaṁ kaphaḥ kṣīṇatarō vātaḥ kṣīṇatamaḥ| 3| kaphaḥ kṣīṇō vātaḥ kṣīṇataraḥ pittaṁ kṣīṇatamam| 4| vātaḥ kṣīṇaḥ pittaṁ kṣīṇataraṁ kaphaḥ kṣīṇatamaḥ| 5| pittaṁ kṣīṇaṁ vātaḥ kṣīṇataraḥ kaphaḥ kṣīṇatamaḥ| 6| ēvaṁ pañcaviṁśatidōṣabhēdān kṣīṇairdōṣairviddhi|
sa0-tē-sannipātasthadōṣāstrayaḥ, ṣōḍhā bhavanti| katham ? ityāha-ēkaikētyādi| vr̥ddhiśca samatā ca kṣayaśca vr̥ddhisamatākṣayāḥ| ēkaikasya-vātādyanyatamasya, vr̥ddhisamatākṣayā ēkaikavr̥ddhisamatākṣayāḥ, tairēkaikavr̥ddhisamatākṣayaiḥ ṣaṭ| yathā,-vātō vr̥ddhaḥ pittaṁ samaṁ kaphaḥ kṣīṇaḥ| 1| pittaṁ vr̥ddhaṁ vātaḥ samaḥ kaphaḥ kṣīṇaḥ| 2| kaphō vr̥ddhaḥ pittaṁ samaṁ vātaḥ kṣīṇaḥ| 3| kaphō vr̥ddhō vātaḥ samaḥ pittaṁ kṣīṇam| 4| vātō vr̥ddhaḥ kaphaḥ samaḥ pittaṁ kṣīṇam| 5| pittaṁ vr̥ddhaṁ kaphaḥ samō vātaḥ kṣīṇaḥ| 6| ēvamēkaikavr̥ddhisamatākṣayaiḥ ṣaṭ|
sa0-ēkasya kṣaya ēkakṣayaḥ, dvandvasya vr̥ddhirdvandvavr̥ddhiḥ, ēkakṣayasahitā dvandvavr̥ddhirēkakṣayadvandvavr̥ddhiḥ, tayā| kimbhūtayā ? saviparyayayā,-saha viparyayēṇa-vaiparītyēna vartatē yā saivam, tayā| ēkakṣayadvandvavr̥ddhyā punarēva ṣaṭ dōṣabhēdāḥ| vātaḥ kṣīṇaḥ pittakaphau vr̥ddhau| 1| pittaṁ kṣīṇaṁ vātakaphau vr̥ddhau| 2| kaphaḥ kṣīṇō vātapittē vr̥ddhē| 3| ēvamēkakṣayadvandvavr̥ddhyā trayō bhēdāḥ| saviparyayayā ca vr̥ddhyā trayō dōṣabhēdāḥ| dvandvakṣayaikadōṣavr̥ddhyā-dvandvakṣayasahitaikadōṣavr̥ddhiḥ, tayā| yathā,-vātapittakṣīṇē ślēṣmā vr̥ddhaḥ| 1| vātakaphau kṣīṇau pittaṁ vr̥ddham| 2| pittakaphau kṣīṇau vātō vr̥ddhaḥ| 3| iti saviparyayayā vr̥ddhyā trayō dōṣabhēdāḥ| ēvaṁ sannipātabhēdā dvirūpayā vr̥ddhyā ṣaḍētē jñēyāḥ|
sa0-ēvaṁ bhēdagaṇanayā dōṣāṇāṁ bhēdā dviṣaṣṭirnirdiṣṭāḥ-uktāḥ|
sa0-triṣaṣṭīnāṁ pūraṇō yō dōṣabhēdaḥ, sa svāsthyakāraṇaṁ-ārōgyahētuḥ, dhātusāmyāt| atra hi svapramāṇasthā vātapittakaphāḥ| yē ca dōṣabhēdā dviṣaṣṭiḥ, tē ca rōgakāraṇamityarthāduktaṁ bhavati| atra ca rōgahētutvē dōṣavaiṣamyaṁ kāraṇam| triṣaṣṭa iti ” tasya pūraṇē ḍaṭ” iti ḍaṭ|
ā0 ra0- atha saṁyōgaḥ| tasya triṣaṣṭibhēdāḥ| tānāhavakṣyantē’taḥparamiti| dōṣāḥ-dōṣabhēdāḥ| vimēdaḥ-tāratamyam, tatsāmyē nāsti vr̥ddhau kṣayē cāsti, vr̥ddhikṣayavattāratamyaṁ cabhēdē kāraṇam|
ā0 ra0- tatra vr̥ddhisāmyābhyāṁ dvādaśa| tatra pr̥thak trīn viddhi| pr̥thak-pratyēkaṁ vr̥ddhayā, “pañcaviṁśatirityēvaṁ vr̥ddhaiḥ” ityupasaṁhārāt| pāriśēṣyāt dviśaḥ sāmyēna| yathā,- vāyurvr̥ddhaḥ pittakaphau samau|1| pittaṁ vr̥ddhaṁ vāyukaphau samau|2| kaphō vr̥ddhō vāyupittē samē|3|
ā0 ra0- saṁsargaṁ tridhā viddhi, vāyupittē vāyukaphau pittakaphau iti| tatra tān-saṁyōgān, nava viddhi|
ā0 ra0- tatra trīn samayā vr̥ddhyā| yathā,- vāyupittē vr̥ddhē kaphaḥ samaḥ|1| vāyukaphau vr̥ddhau pittaṁ samam|2|pittakaphau vr̥ddhau vāyuḥ samaḥ |3| ēkasyātiśayanē ṣaṭ| yathā,-vāyōḥ pittaṁ vr̥ddhaṁ kaphaḥ samaḥ|1| pittādvāyurvr̥ddhaḥ kaphaḥ samaḥ|2| kaphādvāyurvr̥ddhaḥ pittaṁ samam|3| vāyōḥ kaphō vr̥ddhaḥ pittaṁ samam|4| pittātkaphō vr̥ddhō vāyuḥ samaḥ|5| kaphātpittaṁ vr̥ddhaṁ vāyuḥ samaḥ|6| ēvaṁ dvādaśa|
ā0 ra0- vr̥ddhēṣvēva samastēṣu trayōdaśa saṁyōyōgān viddhi|
ā0 ra0- tatraikasmāt dvayōrvr̥ddhayōstrīn| yathā,-vāyōḥ pittakaphau vr̥ddhau|1| pittātkaphavāyū|2| kaphādvāyupittē|3| dvābhyāmēkasmin vr̥ddhē trīn| yathā,- vāyupittābhyāṁ kaphō vr̥ddhaḥ|1| vāyukaphābhyāṁ pittaṁ vr̥ddham|2| pittakaphābhyāṁ vāyurvr̥ddhaḥ|3|
ā0 ra0- tulyādhikairēkam|yathā,-vāyupittakaphā vr̥ddhāḥ|1|
ā0 ra0-tāratamyavikalpanāt ṣaṭ| yathā,-vāyupittakaphā vr̥ddhā vr̥ddhatarā vr̥ddhtamāḥ||1|| ēvaṁ vāyukaphapittāni|2| pittakaphavāyavaḥ|3| pittavāyukaphāḥ|4| kaphavāyupittāni|5| kaphapittavāyavaḥ|6| ēvaṁ trayōdaśa|
ā0 ra0- ēvaṁ vr̥ddhau pañcaviṁśatiṁ viddhi|
ā0 ra0- kṣīṇaiśca tāvatō viddhi| vr̥ddhaśabdasthānē kṣīṇaśabdapayōgāttē jñēyāḥ|
ā0 ra0- vr̥ddhikṣayasāmyaiḥ (vr̥ddhisāmyakṣayaiḥ) ṣaṭ| vr̥ddhavr̥ddhataravr̥ddhatamasthānē vr̥ddhakṣīṇasama(vr̥ddhasamakṣīṇa) prayōgāttē jñēyāḥ| tēṣāṁ lakṣaṇmuktaṁ saṅgrahē (sū. a. 20)-“rōgāvasthāsu yugadvr̥ddhisāmyakṣayanugam| ṣaṭkaṁ hi durbōdhataraṁ vikārairiti ddaśyatē|| prakr̥tisthaṁ yadā pittaṁ vr̥ddhō vāyuḥ kaphakṣayē| sthānādādāya gātrēṣu yatra visarpati|| tadābhēdasca dāhaśca tatra tatrānavasthitau| gātradēśē tathā syātāṁ balahāni pariśramau|| prakr̥tisthaṁ kaphaṁ kṣīṇē pittē vāyuryadā balī| karṣēt kuryāttada śūlaṁ saśaityastambhagauravam|| prakr̥tisthaṁ yadā vātaṁ pittaṁ vr̥ddhaṁ kaphakṣayē| saruṇaddhi tadā dāhaḥ śūlaṁ cāṣōpajātyatē|| prakr̥tisthaṁ kaphaṁ vr̥dhaṁ pittaṁ vāyukṣayē yadā| sannirudhyāttadā kuryātsatandrāgauravaṁ jvaram|| prakr̥tisthaṁ yadā vāyuṁ kṣīṇē pittē kaphō’dhikaḥ| sannirudhyāttadā kuryācchītakaṁ gauravaṁ rujam|| śītakaṁ-śītapūrvajvaram| prakr̥tisthaṁ yadāpittavr̥ddhaḥ ślēṣmā’nilakṣayē| sannirudhyāttadā kuryānmandāgnitvaṁ śirōgraham|| nidrātandrōpalēpāṁśca hr̥drōgaṁ gātragauravaṁ| ṣṭhīvanaṁ pittakaphayōrnakhādīnāṁ ca pītatām|| yē dōṣavr̥ddhikṣayayōrvikāraḥ kīrtitāḥ pr̥thak| śēṣēṣvapi tu tānēva kalpayēttadyathāyatham||” iti|
ā0 ra0- ēkakṣayadvandvavr̥ddhibhyāṁ trayaḥ|yathā,-vāyuḥ kṣīṇaḥ pittakaphau vr̥ddhau|1| pittaṁ kṣīṇaṁ kaphavāyū vr̥ddhau|2| kaphaḥ kṣīṇō vāyupittē vr̥ddhē|3| dvikṣayaikavr̥ddhibhyāṁ trayaḥ| yathā,-vāyupittē kṣīṇē kaphō vr̥ddhaḥ|1| pittakaphau kṣīṇau vāyurvuddhaḥ|2| kaphavāyū kṣīṇau pittaṁ vr̥ddham|3|
ā0 ra0- ēvaṁ dviṣaṣṭirbhēdāḥ|
ā0 ra0- vāyupittakaphāḥ samā ititriṣaṣṭō bhēdaḥsvāsthyakāraṇam|
adhunā rasādibhēdādānantyaṁ dōṣabhēdānāṁ darśayannāha – – – –
————————————————|
saṁsargādrasarudhirādibhistathaiṣāṁ
dōṣāṁstu kṣayasamatāvivr̥ddhibhēdaiḥ|78|
ānantyaṁ taratamayōgataśca yātān
jānīyādavahitamānasō yathāsvam|
78 -1/2|
iti śrīvaidyapatisiṁhaguptasūnuśrīmadvāgbhaṭaviracitāyāmaṣṭāṅgahr̥dayasaṁhitāyāṁ sūtrasthānē dōṣabhēdīyō nāma dvādaśō’dhyāyaḥ|12|
sa0-na kēvalaṁ dviṣaṣṭibhēdabhinnān dōṣān jānīyāt| ānantyaṁ ca gatān vidyāt| kathamānantyam ? ityāha-ēṣāṁ dōṣabhēdānāṁ, yathāsvaṁ-rasaraktādibhirdhātubhiḥ saṁyōgāt, tathaiṣāmēva kṣayādibhēdaistaratamayōgāccānantyaṁ gatān vidyāt| tatra diṅmātraṁ śiṣyavyutpattayē pradarśayatē| tatra rasē vātapittakaphānāṁ pr̥thak trayō bhēdā bhavanti, “pr̥thak trīn viddhi” ityanusārēṇa| saṁsargastridhā| “tatra tu tān” rasamēvādhikr̥tya nava viddhi| katham ? pūrvavat “trīnēva samayā vr̥ddhyā ṣaḍēkasyātiśāyēnē|” ēvaṁ pūrvōktanyāyēna rasamadhikr̥tya saṁsargaṁ yōjayitvā sannipātō yōjanīyaḥ| yathā,-trayōdaśa samastēṣu| katham ? “ṣaḍdvyēkātiśayēna tu| ēkaṁ tulyādhikaiḥ ṣaṭ ca tāratamyavikalpanāt||” iti samānaṁ pūrvēṇa, rasākhyaṁ sthānaṁ kēvalamadhikam| “pañcaviṁśatimityēvaṁ vr̥ddhaiḥ kṣīṇaiśca tāvataḥ|” rasamadhikr̥tya bhēdān viddhi| ityēvaṁ rudhiramāṁsādibhiryōjyam| ēkaikōpakramēṇētyēvaṁ dviṣaṣṭibhēdabhinnānāṁ dōṣāṇāṁ rasādibhiḥ saptabhiḥ saṁyōgāt catvāri śatānyēkacatvāriṁśadadhikāni syuḥ| śakr̥dādisaṁsargāt kṣīṇatarakṣīṇatamādibhēdairvr̥ddhataravr̥ddhatamādibhēdaiśca cintyamānā dōṣā ānantyaṁ yāntīti| rasabhēdē dōṣabhēdē cāvagatē vaidyasya hētulakṣaṇōpakramēṣu mōhō na bhavati| tathā ca muniḥ (ca. sū. a. 26|25)- “yaḥ syādrasavikalpajñaḥ syācca dōṣavikalpavit| na sa muhyēdvikārāṇāṁ hētuliṅgōpapattiṣu||” iti| mnaujraugastridaśabhavāpraharṣiṇī syāt|
iti śrīmr̥gāṅkadattaputraśrīmadaruṇadattaviracitāyāmaṣṭāṅgahr̥dayaṭīkāyāṁ sarvāṅgasundarākhyāyāṁ sūtrasthānē dōṣabhēdīyādhyāyō dvādaśaḥ samāptaḥ|| 12||
ā0 ra0- ētē bhēdā rasādibhirdūṣyaiḥ pratyēkaṁ saṁsargādvahavō bhavanti| tathā, ēṣāṁ-dūṣyāṇāṁ kṣayādibhēdaiḥ saṁsargāttatō’pi bahavaḥ| ēvamānantyaṁ yātān dōṣānavahitamānasō jānīyāt| yathāsvaṁ-svēna lakṣṇēna|
iti hēmādriṭīkāyāmāyurvēdarasāyanē|
dōṣabhēdaprakaraṇaṁ sāmastyēna nirūpitam|| 12||