Carakasaṃhitā Vimānasthāna Adhyāya 06 – Roganika

eSamhita: A Scholarly Digital Initiative of Ayurveda360

Table of Contents

Devanagari Version

महर्षिणा पुनर्वसुनोपदिष्टा, तच्छिष्येणाग्निवेशेन प्रणीता, चरकदृढबलाभ्यां प्रतिसंस्कृता

चरकसंहिता

श्रीचक्रपाणिदत्तविरचितया आयुर्वेददीपिकाव्याख्यया सहिता

विमानस्थानम् - ६. रोगानीकविमानम्

Only Moolashloka

अथातो रोगानीकं विमानं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||

पूर्वाध्याये स्रोतोरूपाधिष्ठानभेदेन रोगानभिधाय प्रभावादिभेदेन रोगानभिधातुं रोगानीकं विमानमुच्यते| रोगानीकमिति रोगसमूहः||१-२||

द्वे रोगानीके भवतः प्रभावभेदेन- साध्यम्, असाध्यं च; द्वे रोगानीके बलभेदेन- मृदु, दारुणं च; द्वे रोगानीके अधिष्ठानभेदेन- मनोऽधिष्ठानं, शरीराधिष्ठानं च; द्वे रोगानीके निमित्तभेदेन- स्वधातुवैषम्यनिमित्तम्, आगन्तुनिमित्तं च; द्वे रोगानीके आशयभेदेन- आमाशयसमुत्थं, पक्वाशयसमुत्थं चेति|
एवमेतत् प्रभावबलाधिष्ठाननिमित्ताशयभेदाद्द्वैधं सद्भेदप्रकृत्यन्तरेण भिद्यमानमथवाऽपि सन्धीयमानं स्यादेकत्वं बहुत्वं वा|
एकत्वं तावदेकमेव रोगानीकं, दुःखसामान्यात् [१] ; बहुत्वं तु दश रोगानीकानि प्रभावभेदादिना भवन्ति; बहुत्वमपि सङ्ख्येयं स्यादसङ्ख्येयं वा|
तत्र सङ्ख्येयं तावद्यथोक्तमष्टोदरीये, अपरिसङ्ख्येयं पुनर्यथा- महारोगाध्याये रुग्वर्णसमुत्थानादीनामसङ्ख्येयत्वात्||३||

बलभेदेनेत्यत्र मृदु अल्पबलं, दारुणं तु महाबलं ज्ञेयम्| दारुणं किञ्चित्कालातिपातादेव बलवत्त्वान्मारयति| यदुक्तं- “सन्ति ह्येवंविधा रोगाः साध्या दारुणसम्मताः| ये हन्युरनुपक्रान्ता मिथ्यारम्भेण वा पुनः” (सू.अ.१८) इति| आमाशयसमुत्थत्वेन आमाशयाश्रयाः कफपित्तजाः सर्वे गदा गृह्यन्ते, पक्वाशयसमुत्थग्रहणेन सर्वे वातजाः; एवं सर्वविकारावरोधः| द्वैधं सदिति द्वैविध्यं सत्| भेदप्रकृत्यन्तरेणेति भेदकारणान्तरेण| अथवाऽपि सन्धीयमानमिति एकीक्रियमाणम्, एकबुद्धिकारकानुगतधर्मान्तरेणेति बोद्धव्यम्| दुःखसामान्यादिति दुःखकर्तृत्वेन सर्वरोगानुगतेन साधारणेन रूपेण सर्व एव रोगा एकरूपा भवन्ति| बहुत्वमपीति उक्तप्रभावभेदादिकृतत्वादपि बहुत्वमित्यर्थः| सङ्ख्येयत्वमष्टोदरीये “अष्टचत्वारिंशद्रोगाधिकरणान्यस्मिन् सङ्ग्रहे” (सू.अ.१९) इत्यादिनोक्तम्| असङ्ख्येयत्वं महारोगाध्याये तथा त्रिशोफीये च “त एवापरिसङ्ख्येया भिद्यमाना भवन्ति हि| रुजावर्णसमुत्थानस्थानसंस्थाननामभिः” (सू.अ.१८) इत्यनेनोक्तम्||३||

न च सङ्ख्येयाग्रेषु भेदप्रकृत्यन्तरीयेषु विगीतिरित्यतो दोषवती स्यादत्र काचित् प्रतिज्ञा, न चाविगीतिरित्यतः स्याददोषवती|
भेत्ता हि भेद्यमन्यथाभिनत्ति, अन्यथा पुरस्ताद्भिन्नं भेदप्रकृत्यन्तरेण भिन्दन् भेदसङ्ख्याविशेषमापादयत्यनेकधा, न च पूर्वं भेदाग्रमुपहन्ति|
समानायामपि खलु भेदप्रकृतौ प्रकृतानुप्रयोगान्तरमपेक्ष्यम् [२] |
सन्ति ह्यर्थान्तराणि समानशब्दाभिहितानि, सन्ति चानर्थान्तराणि पर्यायशब्दाभिहितानि|
समानो हि रोगशब्दो दोषेषु च व्याधिषु च; दोषा ह्यपि रोगशब्दमातङ्कशब्दं यक्ष्मशब्दं दोषप्रकृतिशब्दं विकारशब्दं च लभन्ते, व्याधयश्च रोगशब्दमातङ्कशब्दं यक्ष्मशब्दं दोषप्रकृतिशब्दं विकारशब्दं च लभन्ते|
तत्र दोषेषु चैव व्याधिषु च रोगशब्दः समानः, शेषेषु तु विशेषवान्||४||

ननु सङ्ख्येयत्वमसङ्ख्येयत्वं च विरुद्धावेतौ धर्मौ, तथैकत्वमनेकत्वं चेति विरुद्धौ, तत् कथं विरुद्धत्वेन ख्यातौ धर्मावेकस्मिन् रोगे घटेतामित्याह- न चेत्यादि| सङ्ख्येयाग्रेष्विति सङ्ख्येयरोगपरिमाणेषु, अग्रशब्दः परिमाणे वर्तते; यथा- एकैकस्य भेदाग्रमपरिसङ्ख्येयं भवति, भेदसङ्ख्यारूपं परिमाणमित्यर्थः| भेदप्रकृत्यन्तरीयेष्विति भेदकारणान्तरभवेषु| विरुद्धा गीतिः विगीतिः कथनं [३] ; यथा- ‘एकं चानेकं च तत्’ इत्यादिका [४] विरुद्धा गीतिः| अत इति यथोक्तविगीतियोगात्, न दोषवती काचित् प्रतिज्ञा; यथा- एकानेकरूपान्तरगमनरूपा अत्रोक्ता स्यादिति योजना| विगीतौ दोषाभावं दर्शयित्वा भेदकारणान्तरकृतायामविगीतावपि दोषो भवतीति दर्शयन्नाह- न चाविगीतिरित्यादि| यदि हि ‘एकं रोगानीकं रुजासामान्यात्’ इत्यभिधाय पुनः ‘एकं रोगानीकं प्रभावभेदात्’ इत्यविरुद्धा एकताख्यायिकाऽविगीतिः क्रियते, सा विरुद्धैव स्यात्; यतो न प्रभावभेदेन रोगाणामेकत्वमुपपन्नं, किन्तु द्वैधमेवेति भावः| विगीतौ दोषाभावे हेतुमाह- भेत्ता हीत्यादि|- भेत्ता पुरुषः, भेद्यं रोगम्, अन्यथा द्वित्वादिना भिनत्ति, अन्यथा एकत्वेन पुरस्ताद्भेदितं चान्यथा भिनत्तीति| अस्यार्थं व्याकरोति- भेदप्रकृत्यन्तरेणेत्यादिना| अनेकधेति द्वे रोगानीके, तथा दश रोगानीकानीत्यादि| न च पूर्वं भेदाग्रं भेदप्रमाणमुपहन्ति| एवं मन्यते- यद्धर्मयोगविवक्षयैकत्वमुक्तं, तद्धर्मयोगविवक्षयैव यदि बहुत्वमप्युच्यते रोगाणां ततो विरोधो भवति, न हि तदेवैकं चानेकं चेत्युपपन्नं; यदा तु धर्मान्तरयोगविवक्षया बहुत्वमुच्यते, न तदा विरोधः; बहुत्वाभिधानकाले बहूनामेव रोगधर्माणां विवक्षितत्वात्; तेन रोगाणामेकत्वमेकधर्मविषयं, बहुत्वं च बहुधर्मविषयमिति नास्ति विरोधः| ननु यत्रासमानं भेदकारणं तत्र कारणान्तरकृतत्वादुक्तन्यायेन विगीतिः साध्वी भवतु, यत्र तु दश रोगानीकानि प्रभावादिद्वैविध्यादुच्यन्ते, तत्र कथं द्वे रोगानीके इति द्वित्वकृतं द्वैविध्यमभिधाय पुनर्द्वित्वादिभेदेनैव दशत्वमुच्यते? समानो [५] ह्ययं द्विशब्दो द्वित्वे दशत्वे च रोगाणां हेतुरित्याह- समानायामपीति; समानशब्दाभिधेयत्वेनापाततः समानत्वेन प्रतिभासमानायामित्यर्थः| प्रकृतानुप्रयोगान्तरमपेक्ष्यमिति प्रकृतस्य समानशब्देनाभिहितस्य यद्भेदख्यापकं पश्चात्प्रयोगान्तरं, तदपेक्षणीयं विगीतिसमाधानार्थमित्यर्थः| एतेनैतद्दर्शयति- यद्यपि द्विशब्दो रोगप्रभावे तथा रोगबलादौ च समानः, तथाऽप्येकत्र [६] ‘प्रभावभेदात्’ इत्यनुप्रयोगान्तरमपेक्ष्य प्रभावद्वैविध्ये वर्तते, तथा ‘बलभेदात्’ इत्यनुप्रयोगान्तरमपेक्ष्य च द्विशब्दो बलद्वैविध्ये वर्तत इत्यादि| तेनार्थान्तराभिधायिभिर्द्विशब्दैर्भिद्यमानस्य दशत्वमप्युपपन्नं तथा द्वित्वं चेति भावः| दृष्टान्तार्थमेकेन [७] शब्देनानेकार्थाभिधानमाह- सन्ति हीत्यादि| अर्थान्तराणि पर्यायशब्दानभिहिता अर्थाः| तत्रोदाहरणमाह- समानो हीत्यादि|- दोषेषु [८] व्याधिषु च समान उभयवाचकत्वेन तुल्यो रोगशब्दः; तेन रोगदोषसमानत्वेनाभिधेयसमानानां [९] रोगातङ्कयक्ष्मादिशब्दानां सर्वेषामेव वक्ष्यमाणानां ग्रहणम्| शेषेष्विति हेत्वादिषु| विशेषवानिति अभिधानरूपविशेषवानित्यर्थः||४||

तत्र व्याधयोऽपरिसङ्ख्येया भवन्ति, अतिबहुत्वात्|
दोषास्तु खलु परिसङ्ख्येया भवन्ति, अनतिबहुत्वात्|
तस्माद्यथाचित्रं विकारानुदाहरणार्थम्, अनवशेषेण च दोषान् व्याख्यास्यामः|
रजस्तमश्च मानसौ दोषौ|
तयोर्विकाराः कामक्रोधलोभमोहेर्ष्यामानमदशोकचित्तो(न्तो)द्वेगभयहर्षादयः|
वातपित्तश्लेष्माणस्तु खलु शारीरा दोषाः|
तेषामपि च विकारा ज्वरातीसारशोफशोषश्वासमेहकुष्ठादयः|
इति दोषाः केवला व्याख्याता विकारैकदेशश्च||५||
तत्र खल्वेषां द्वयानामपि दोषाणां त्रिविधं प्रकोपणं; तद्यथा- असात्म्येन्द्रियार्थसंयोगः, प्रज्ञापराधः, परिणामश्चेति||६||

तत्रापि रोगशब्दाभिधेयतया समानेऽपि दोषे तथा विकारे च परिसङ्ख्येयापरिसङ्ख्येय(त्व)रूपा विगीतिरस्त्यथ चादोष इत्यभिप्रायेणाह- तत्रेत्यादि| एकैकस्मिन् दोषे बहवो विकारा भवन्तीत्यभिप्रायेण विकारापेक्षया दोषाणामनतिबहुत्वं ज्ञेयम्| यथाचित्रमिति यथाविन्यासं, तेन यानेव पूर्वाचार्या विकारानधिकतमत्वेनोक्तवन्तस्तानेव [१०] व्याख्यास्यामः; नतु सर्वान्, अशक्यत्वात्| किंवा, ‘यथोचितम् [११] ’ इति पाठः| अनवशेषेण च दोषानित्यनेन दोषा अनतिबहुत्वेनानवशेषेणाप्यभिधातुं शक्यन्त इति प्रकाशयति| तत्र मानसदोषविकारयोरनल्पवक्तव्यत्वेनाग्रेऽभिधानम्||५-६||

प्रकुपितास्तु खलु ते प्रकोपणविशेषाद्दूष्यविशेषाच्च विकारविशेषानभिनिर्वर्तयन्त्यपरिसङ्ख्येयान्||७||

ननु परिमिताद्दोषरूपात् कारणात् कथमपरिमिता विकारा भवन्तीत्याह- प्रकुपितास्त्वित्यादि| हेतुविशेषदुष्टो हि स एव दोषो दूष्यान्तरगतश्च विभिन्नशक्तियोगाद्बहून् विकारान् करोतीति युक्तमेव| उक्तं च- “स एव कुपितो दोषः समुत्थानविशेषतः| स्थानान्तरगतश्चैव विकारान् कुरुते बहून्” (सू.अ.१८) इति||७||

ते च विकाराः परस्परमनुवर्तमानाः कदाचिदनुबध्नन्ति कामादयो ज्वरादयश्च||८||

विकाराणां शारीरमानसानां परस्परं संसर्गमाह- ते च विकारा इत्यादि| अनुवर्तमाना इत्यनेन यदैव ज्वरादयः कामादयो वा बलवत्त्वेन [१२] चिरकालमनुवर्तन्ते, तदैवानुबध्नन्ति प्रायः; यदा तु स्तोककालावस्थायिनो भवन्ति, न तदा प्रायोऽनुबध्नन्तीत्यर्थः| किंवा, अनुवर्तमानाः परस्परबलमभिवर्धयन्तः| अत्र च परस्परशब्देन शारीराणां शारीरेण, मानसानां मानसेन, शारीराणां मानसेन, मानसानां शारीरेण चानुबन्धो ज्ञेयः||८||

नियतस्त्वनुबन्धो रजस्तमसोः परस्परं, न ह्यरजस्कं तमः प्रवर्तते [१३] ||९||

विकारानुबन्धं दर्शयित्वा दोषानुबन्धमाह- नियतस्त्वित्यादि||९||

(प्रायः) शारीरदोषाणामेकाधिष्ठानीयानां सन्निपातः संसर्गो वा समानगुणत्वात्; दोषा हि दूषणैः समानाः||१०||

शारीरदोषानुबन्धमाह- शारीरेत्यादि| एकाधिष्ठानीयानामित्यनेनैकशरीराधिष्ठानप्रत्यासत्त्या च संसर्गा दोषाणां भवन्तीति दर्शयति| समानगुणत्वादिति हेतुं विवृणोति- दोषा हीत्यादि| दूषणैरिति हेतुभिः; प्रायो हि शारीराणां वातादीनां समान एव हेतुर्भवति; यथा- ह्यम्लं लवणं कटु च पित्तकरं [१४] ; तत्राम्लं सकफं पित्तं करोति, लवणं च सपित्तं कफं करोति, कटु तु सवातं पित्तं करोति| तथा वसन्तः श्लेष्मकारकोऽप्यादानत्वेन वातपित्ते च करोति, तथा वर्षास्वपि पित्तं चीयमानं शरदि प्रकुप्य कफानुगतमेव कुप्यति, तथा ग्रीष्मो वातचयं रूक्षत्वेन कुर्वन् उष्णत्वेन मनाक् पित्तचयमपि करोतीत्यनुसरणीयम्||१०||

तत्रानुबन्ध्यानुबन्धकृतो विशेषः- स्वतन्त्रो व्यक्तलिङ्गो यथोक्तसमुत्थानप्रशमो भवत्यनुबन्ध्यः, तद्विपरीतलक्षणस्त्वनुबन्धः|
अनुबन्ध्यलक्षणसमन्वितास्तत्र [१५] यदि दोषा भवन्ति तत्त्रिकं सन्निपातमाचक्षते, द्वयं वा संसर्गम्|
अनुबन्ध्यानुबन्धविशेषकृतस्तु बहुविधो दोषभेदः|
एवमेष सञ्ज्ञाप्रकृतो भिषजां दोषेषु व्याधिषु च नानाप्रकृतिविशेषव्यूहः [१६] ||११||

एनमेव दोषानुबन्धमनुबन्ध्यानुबन्धभेदेन दर्शयितुमनुबन्ध्यानुबन्धलक्षणमेवाह- तत्रेत्यादि| अनुबन्ध्यस्य अनुबन्धस्य च विशेषोऽनुबन्ध्यानुबन्धविशेषः ‘स्वतन्त्र’ इत्यादिग्रन्थलक्षणीयः| स्वतन्त्र इत्यस्यैव विवरणं- व्यक्तलिङ्ग इत्यादि| यथोक्तसमुत्थानप्रशम इति स्वहेतुसमुत्थितः स्वचिकित्सयैव प्रशमनीयः| किंवा, स्वतन्त्र इत्येनापि स्वविकारकरणे प्राधान्यमुच्यते [१७] ; स्वतन्त्रो हि दोषः प्रकोपकाले विकारान् करोति, अस्वतन्त्रस्तु स्वतन्त्रप्रकोपकाल एव विकारं प्रधानदोषेरितः [१८] सन् करोति| तद्विपरीतलक्षण इति अनेनाव्यक्तलिङ्गोऽस्वहेतुप्रकुपितः परचिकित्साप्रशमनीयश्चानुबन्ध इति लभ्यते; अनुबन्धो ह्यबलवत्त्वेन न लिङ्गं व्यक्तं करोति, तथा परहेतुना किञ्चिदनुगुणेन कृतः [१९] परचिकित्सयैव किञ्चिदनुगुणया शाम्यति| यथा- शरदि श्लेष्मा पित्तहेतुना जलाद्यम्लविपाकेन जन्यते, स च पित्तचिकित्सयैव तिक्तसर्पिरादिकया कफेऽप्यनुगुणया शाम्यति| द्वयं वाऽनुबन्ध्यलक्षणं प्राप्तं संसर्गमाचक्षत इति योजना| अनुबन्ध्यशब्दश्चायं व्यक्तलिङ्गतादिधर्मयुक्ते दोषे वर्तते| तेनाप्रधानानुगमनीये सन्निपाते अनुबन्धाभावेऽप्यनुबन्ध इति व्यपदेशो भवत्येव अनुबन्ध्यानुबन्धरूपसंसर्गविशेषेण कृतः| सञ्ज्ञाप्रकृत इति अनुबन्ध्यानुबन्धसन्निपातसंसर्गज्वरातिसारादिसञ्ज्ञाकृत इत्यर्थः| नानाप्रकृतिविशेषव्यूह इति यथोक्तनानाकारणविशेषकृतो ज्वरातिसारादिरूपो व्यधीनां दोषाणां च समूह इत्यर्थः| भिषजामितिपदेन च वैद्यानामेवेयं समयसिद्धाऽनुबन्ध्यादिसञ्ज्ञेति दर्शयति||११||

अग्निषु तु शारीरेषु चतुर्विधो विशेषो बलभेदेन भवति|
तद्यथा- तीक्ष्णो, मन्दः, समो, विषमश्चेति|
तत्र तीक्ष्णोऽग्निः सर्वापचारसहः, तद्विपरीतलक्षणस्तु मन्दः, समस्तु खल्वपचारतो विकृतिमापद्यतेऽनपचारतस्तु प्रकृताववतिष्ठते, समलक्षणविपरीतलक्षणस्तु विषम इति|
एते चतुर्विधा भवन्त्यग्नयश्चतुर्विधानामेव पुरुषाणाम्|
तत्र समवातपित्तश्लेष्मणां प्रकृतिस्थानां समा भवन्त्यग्नयः, वातलानां तु वाताभिभूतेऽग्न्यधिष्ठाने विषमा भवन्त्यग्नयः, पित्तलानां तु पित्ताभिभूते ह्यग्न्यधिष्ठाने तीक्ष्णा भवन्त्यग्नयः, श्लेष्मलानां तु श्लेष्माभिभूतेऽग्न्यधिष्ठाने मन्दा भवन्त्यग्नयः||१२||

दोषभेदविकारभेदमभिधाय शरीरस्थितेः प्रधानकारणस्याग्नेर्भेदमाह- अग्निष्वित्यादि| शारीरेष्विति सामान्यवचनेन सर्वशरीरगतानग्नीन् ग्राहयति, विवरणे तु जठराग्नेरेव ‘तीक्ष्णोऽग्निः सर्वापचारसहः’ इत्यादिना यच्चातुर्विध्यमुक्तं, तज्जठराग्नितीक्ष्णतादिमूलकमेव त्वगग्न्यादितीक्ष्णत्वादिकमिति ज्ञापयति| वचनं हि- “तन्मूलास्ते हि तद्वृद्धिक्षयवृद्धिक्षयात्मकाः” (चि.अ.१५) इति| यद्यपि समोऽग्निः शस्तत्वेनाग्रेऽभिधातुं युज्यते, तथाऽपि समतश्च तीक्ष्णस्यैव प्राधान्योपदर्शनार्थमिहाग्रेऽभिधानं; समस्य हि प्राधान्यं निर्विकारत्वेनैव सुस्थितं, तीक्ष्णस्य तु सर्वापचारसहत्वेन प्राधान्यम्| तद्विपरीतलक्षण इति स्वल्पापचारमपि यो न सहते, स मन्द इत्यर्थः| समलक्षणविपरीतलक्षण इति कदाचिद्विषमोऽपचारादपि न विक्रियते, कदाचिद्विक्रियते| समवातपित्तश्लेष्मणामित्युक्तेऽपि प्रकृतिस्थानामिति पदं वृद्धानां समवातपित्तश्लेष्मणां प्रतिषेधार्थम्| प्रकृतिशब्दस्य कारणाद्यनेकार्थताव्युदासार्थं समवातपित्तश्लेष्मणामिति कृतम्| वाताभिभूतेऽग्न्यधिष्ठाने इति वचनेन वातलानामपि यदैवाग्न्यधिष्ठानोपघातो वातेन क्रियते, तदैव वैषम्यं भवति| एवं पित्ताभिभूत इत्यादावपि व्याख्येयम्||१२||

तत्र केचिदाहुः- न समवातपित्तश्लेष्माणो जन्तवः सन्ति, विषमाहारोपयोगित्वान्मनुष्याणां; तस्माच्च वातप्रकृतयः केचित्, केचित् पित्तप्रकृतयः, केचित् पुनः श्लेष्मप्रकृतयो भवन्तीति|
तच्चानुपपन्नं, कस्मात् कारणात्? समवातपित्तश्लेष्माणं ह्यरोगमिच्छन्ति भिषजः, यतः [२०] प्रकृतिश्चारोग्यम्, आरोग्यार्था च भेषजप्रवृत्तिः, सा चेष्टरूपा, तस्मात् सन्ति समवातपित्तश्लेष्माणः; न खलु सन्ति वातप्रकृतयः पित्तप्रकृतयः श्लेष्मप्रकृतयो वा|
तस्य तस्य किल [२१] दोषस्याधिक्यात् सा सा दोषप्रकृतिरुच्यते मनुष्याणां, न च विकृतेषु दोषेषु प्रकृतिस्थत्वमुपपद्यते, तस्मान्नैताः प्रकृतयः सन्ति; सन्ति तु खलु वातलाः पित्तलाः श्लेष्मलाश्च, अप्रकृतिस्थास्तु ते ज्ञेयाः||१३||

विषमाहारोपयोगित्वादिति नायं पुरुषस्तुलाधारधृतमिवाहारमुपयुङ्क्ते, तेनावश्यमत्र वातादिष्वन्यतमोऽपि दोषो विकृतो भवतीति भावः| समवातपित्तश्लेष्माणमित्यादिना अस्ति तावदारोग्यं पुरुषेषु वैद्यव्यवहारसिद्धमिति दर्शयति| तेन, यादृगिदं दोषाणां कलाकाष्ठादिवैषम्यं परित्यज्याविर्भूतविकाराकारित्वेनादूरान्तरं साम्यमिष्यते, तादृगेव प्रकृतावपि साम्यमस्त्येवेति भावः| अन्ये तु वैषम्यं नाद्रियन्त एव, व्यपदेश्यरोगाजनकत्वात्| दोषप्रकृतिरिति दुष्टदोषभाविता प्रकृतिरित्यर्थः||१३||

तेषां तु खलु चतुर्विधानां पुरुषाणां चत्वार्यनुप्रणिधानानि [२२] श्रेयस्कराणि भवन्ति|
तत्र समसर्वधातूनां सर्वाकारसमम्, अधिकदोषाणां तु त्रयाणां यथास्वं दोषाधिक्यमभिसमीक्ष्य दोषप्रतिकूलयोगीनि त्रीण्यनु(न्न)प्रणिधानानि श्रेयस्कराणि भवन्ति यावदग्नेः समीभावात्, समे तु सममेव कार्यम्; एवं चेष्टा भेषजप्रयोगाश्चापरे|
तान् [२३] विस्तरेणानुव्याख्यास्यामः||१४||

दोषे प्रवृद्धे प्रतिकूलतया योगीनि दोषप्रतिकूलयोगीनि| त्रीणि वातपित्तश्लेष्मप्रतिकूलानि| समे त्विति समतां गते वह्नौ, यथोचितविधानेन (वातप्रकृत्यादीनां [२४] ) सममेवानुप्रणिधानं कर्तव्यम्| एवमित्यनेन प्रकारेण चेष्टाभेषजयोरपि प्रयोगा वातादीनां भवन्ति; ये तु, एवमित्यनेन चतुर्विधेनोक्तेन प्रकारेणेति वदन्ति, ते समप्रकृतीनां च समव्यायामादिचेष्टा भेषजं च ऋतुचर्याविधेयं वमनादिकारकं सूच्यतेऽनेनेति व्याख्यानयन्ति||१४||

त्रयस्तु पुरुषा भवन्त्यातुराः, ते त्वनातुरास्तन्त्रान्तरीयाणां भिषजाम्|
तद्यथा- वातलः, पित्तलः, श्लेष्मलश्चेति|
तेषामिदं विशेषविज्ञानं- वातलस्य वातनिमित्ताः, पित्तलस्य पित्तनिमित्ताः, श्लेष्मलस्य श्लेष्मनिमित्ता व्याधयः प्रायेण बलवन्तश्च भवन्ति||१५||
तत्र वातलस्य वातप्रकोपणान्यासेवमानस्य [२५] क्षिप्रं वातः प्रकोपमापद्यते, न तथेतरौ दोषौ; स तस्य प्रकोपमापन्नो यथोक्तैर्विकारैः शरीरमुपतपति बलवर्णसुखायुषामुपघाताय|
तस्यावजयनं- स्नेहस्वेदौ विधियुक्तौ, मृदूनि च संशोधनानि स्नेहोष्णमधुराम्ललवणयुक्तानि, तद्वदभ्यवहार्याणि, अभ्यङ्गोपनाहनोद्वेष्टनोन्मर्दनपरिषेकावगाहनसंवाहनावपीडनवित्रासनविस्मापनविस्मारणानि, सुरासवविधानं, स्नेहाश्चानेकयोनयो दीपनीयपाचनीयवातहरविरेचनीयोपहितास्तथा शतपाकाः सहस्रपाकाः सर्वशश्च प्रयोगार्थाः, बस्तयः, बस्तिनियमः सुखशीलता चेति||१६||

न तथेतरौ दोषाविति सत्याऽपि हेतुसेवयेत्यर्थः; अन्यथा वातप्रकोपणसेवया पित्तश्लेष्मणोर्वृद्धिरेव नास्ति| वित्रासनादयो यद्यपि वातकारकास्तथाऽपि वातजनितोन्मादविनाशकत्वेन चोक्ता इति ज्ञेयम्| उन्मादे हि वित्रासनादि भेषजमभिधायोक्तं- “तेन याति शमं तस्य सर्वतो विप्लुतं मनः” (चि.अ.९) इति| सर्वशः प्रयोगार्था इति पानाभ्यङ्गबस्त्यादिभिः प्रयोजनीया इत्यर्थः| बस्तिनियम इति बस्तौ यथोक्तनियमसेवेत्यर्थः; किंवा बस्तिनियमशब्देन सिद्धौ वक्ष्यमाणकर्म-काल-योगरूपं बस्तिसङ्ख्यानियमं कर्तव्यतया दर्शयति| वक्ष्यति हि- “त्रिंशन्मताः कर्मसु बस्तियोगाः कालस्ततोऽर्धेन ततश्च योगः” (सि.अ.१) इति| सुखशीलता सततसुखसेवित्वम्||१५-१६||

पित्तलस्यापि पित्तप्रकोपणान्यासेवमानस्य [२६] क्षिप्रं पित्तं प्रकोपमापद्यते, न तथेतरौ दोषौ; तदस्य प्रकोपमापन्नं यथोक्तैर्विकारैः शरीरमुपतपति बलवर्णसुखायुषामुपघाताय|
तस्यावजयनं- सर्पिष्पानं, सर्पिषा च स्नेहनम्, अधश्च दोषहरणं, मधुरतिक्तकषायशीतानां चौषधाभ्यवहार्याणामुपयोगः, मृदुमधुरसुरभिशीतहृद्यानां गन्धानां चोपसेवा, मुक्तामणिहारावलीनां च परमशिशिरवारिसंस्थितानां धारणमुरसा, क्षणे क्षणेऽग्र्यचन्दनप्रियङ्गुकालीयमृणालशीतवातवारिभिरुत्पलकुमुदकोकनदसौगन्धिकपद्मानुगतैश्च वारिभिरभिप्रोक्षणं, श्रुतिसुखमृदुमधुरमनोऽनुगानां च गीतवादित्राणां श्रवणं, श्रवणं चाभ्युदयानां, सुहृद्भिः संयोगः, संयोगश्चेष्टाभिः स्त्रीभिः शीतोपहितांशुकस्रग्धारिणीभिः, निशाकरांशुशीतलप्रवातहर्म्यवासः, शैलान्तरपुलिनशिशिरसदनवसनव्यजनपवनसेवनं, रम्याणां चोपवनानां सुखशिशिरसुरभिमारुतोपहितानामुपसेवनं, सेवनं च पद्मोत्पलनलिनकुमुदसौगन्धिकपुण्डरीकशतपत्रहस्तानां [२७] , सौम्यानां च सर्वभावानामिति||१७||

यथोक्तैरिति महारोगाध्यायोक्तैः| अधश्च दोषहरणमिति विरेचनादित्यर्थः| अग्र्यचन्दनं धवलचन्दम्| हस्तानामिति कलापानाम्||१७||

श्लेष्मलस्यापि श्लेष्मप्रकोपणान्यासेवमानस्य [२८] क्षिप्रं श्लेष्मा प्रकोपमापद्यते, न तथेतरौ दोषौ; स तस्य प्रकोपमापन्नो यथोक्तैर्विकारैः शरीरमुपतपति बलवर्णसुखायुषामुपघाताय|
तस्यावजयनं- विधियुक्तानि तीक्ष्णोष्णानि संशोधनानि, रूक्षप्रायाणि चाभ्यवहार्याणि कटुकतिक्तकषायोपहितानि, तथैव धावनलङ्घनप्लवनपरिसरणजागरणनियुद्धव्यवायव्यायामोन्मर्दनस्नानोत्सादनानि, विशेषतस्तीक्ष्णानां दीर्घकालस्थितानां च मद्यानामुपयोगः, सधूमपानः सर्वशश्चोपवासः, तथोष्णं वासः, सुखप्रतिषेधश्च सुखार्थमेवेति||१८||

श्लेष्मविजयार्थं रूक्षस्यैव हितत्वेन रूक्षाणीति वक्तव्ये यद्रूक्षप्रायाणीति करोति, तेनात्यर्थरूक्षान्नस्य वातानुगुणत्वेन तथा धात्वपोषकत्वेन चासेव्यत्वं दर्शयति; उक्तं हि रसविमाने- “स्निग्धमश्नीयात्; स्निग्धं हि भुक्तं स्वदते, भुक्तमौदर्यमग्निमुदीरयति” (वि.अ.१) इत्यादि| लङ्घनम् उत्प्लुत्य गमनं, परिसरणं कुण्डलरूपभ्रमणम्| सर्वशश्चोपवास इति सर्वलङ्घनानि| यदुक्तं- “चतुष्प्रकारा संशुद्धिः पिपासा मारुतातपौ| पाचनान्युपवासश्च व्यायामश्चेति लङ्घनम्” (सू.अ.२२) इति| उपवासशब्दो ह्यत्र लङ्घने वर्तते| सुखार्थमिति आयतिसुखार्थं; सुखप्रतिषेधाद्धि श्लेष्मक्षये भूते श्लेष्मविकाराभावलक्षणं सुखं भवति||१८||

भवति चात्र-
सर्वरोगविशेषज्ञः सर्वकार्यविशेषवित्|
सर्वभेषजतत्त्वज्ञो राज्ञः प्राणपतिर्भवेदिति||१९||

यथोक्ताध्यायज्ञानादेव सर्वरोगाभिज्ञं स्तौति- सर्वेत्यादिना| प्राणान् पाति रक्षतीति प्राणपतिः||१९||

तत्र श्लोकाः-
प्रकृत्यन्तरभेदेन रोगानीकविकल्पनम्|
परस्पराविरोधश्च सामान्यं रोगदोषयोः||२०||
दोषसङ्ख्या विकाराणामेकदेशः प्रकोपणम्|
जरणं प्रति चिन्ता च कायाग्नेर्धुक्षणानि [२९] च||२१||
नराणां वातलादीनां प्रकृतिस्थापनानि च|
रोगानीके विमानेऽस्मिन् व्याहृतानि महर्षिणा||२२||

सङ्ग्रहे जरयतीति जरणो वह्निः, तं प्रति चिन्ता ‘अग्निषु’ इत्यादिना कृता| प्रकृतिस्थापनानीति भेषजानि||२०-२२||

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते विमानस्थाने रोगानीकविमानं नाम षष्ठोऽध्यायः||६||

इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां विमानस्थाने रोगानीकविमानं नाम षष्ठोऽध्यायः||६||

१. ‘रुक्सामान्यात्’ इति पा.|
२. ‘प्रकृत्यनुप्रयोगान्तरं’ इति गङ्गाधरसम्मतः पाठः|
३. विगीतिः विरुद्धभाषणमित्यर्थः|
४. ‘एकं तदनेकं च तदित्यादिका’ इति पा.|
५. ‘सामान्यो ह्ययं’ इति पा.|
६. ‘तथाऽप्येका’ इति पा.|
७. ‘तदेवोपपादयति- सन्तीत्यादि’ इति पा.|
८. ‘रोगस्य शब्दो रोगशब्दः’ इति पा.|
९. ‘रोगदोषसमानत्वेनाभिधेयानां’ इति पा.|
१०. ‘विकारानाविष्कृतवन्तस्तानेव’ इति पा.|
११. ‘यथोपचितं’ इति पा.|
१२. ‘वाऽबलवत्त्वेन’ इति पा.|
१३. ‘प्रायः’ इति पा.
१४. ‘पित्तं कफं वातं च करोति’ इति पा.|
१५. ‘अनुबन्ध्यानुबन्धलक्षणसमन्विताः’ इति पा.|
१६. ‘नानाप्रकृतिविशेषाद् व्यूहः’ इति गङ्गाधरः|
१७. ‘अपारतन्त्र्यमुच्यते’ इति पा.|
१८. ‘विकारं ज्वरातिसारादिरूपं तथाऽनुबन्ध्यानुबन्धरूपं प्रधानदोषेरितः’ इति पा.|
१९. ‘प्रकुपितः’ इति पा.|
२०. ‘यतः’ इति ह. पु. न पठ्यते|
२१. ‘हि’ इति पा.|
२२. ‘चत्वार्यन्नप्रणिधानानि’ इति पा.|
२३. ‘तानि’ इति पा.|
२४. अयं पाठः क्वचित्पुस्तके नोपलभ्यते|
२५. ‘वातप्रकोपणोक्तानि’ इति पा.|
२६. ‘पित्तप्रकोपणोक्तानि’ इति पा.|
२७. ‘शतपत्रहृदानां’ इति पा.|
२८. ‘श्लेष्मप्रकोपणोक्तान्यासेवमानस्य’ इति पा.|
२९. ‘देहाग्ने रक्षणानि च’ इति पा.|

Moolashloka with Chakrapani Commentary

Pathantara/Pathabheda

Diacritic Version

||maharṣiṇā punarvasunōpadiṣṭā, tacchiṣyēṇāgnivēśēna praṇītā, carakadr̥ḍhabalābhyāṁ pratisaṁskr̥tā||

||śrīcakrapāṇidattaviracitayā āyurvēdadīpikāvyākhyayā sahitā||

vimānasthānam - 6. rōgānīkavimānam

athātō rōgānīkaṁ vimānaṁ vyākhyāsyāmaḥ||1||
iti ha smāha bhagavānātrēyaḥ||2||

pūrvādhyāyē srōtōrūpādhiṣṭhānabhēdēna rōgānabhidhāya prabhāvādibhēdēna rōgānabhidhātuṁ rōgānīkaṁ vimānamucyatē| rōgānīkamiti rōgasamūhaḥ||1-2||

dvē rōgānīkē bhavataḥ prabhāvabhēdēna- sādhyam, asādhyaṁ ca; dvē rōgānīkē balabhēdēna- mr̥du, dāruṇaṁ ca; dvē rōgānīkē adhiṣṭhānabhēdēna- manō’dhiṣṭhānaṁ, śarīrādhiṣṭhānaṁ ca; dvē rōgānīkē nimittabhēdēna- svadhātuvaiṣamyanimittam, āgantunimittaṁ ca; dvē rōgānīkē āśayabhēdēna- āmāśayasamutthaṁ, pakvāśayasamutthaṁ cēti|
ēvamētat prabhāvabalādhiṣṭhānanimittāśayabhēdāddvaidhaṁ sadbhēdaprakr̥tyantarēṇa bhidyamānamathavā’pi sandhīyamānaṁ syādēkatvaṁ bahutvaṁ vā|
ēkatvaṁ tāvadēkamēva rōgānīkaṁ, duḥkhasāmānyāt [1] ; bahutvaṁ tu daśa rōgānīkāni prabhāvabhēdādinā bhavanti; bahutvamapi saṅkhyēyaṁ syādasaṅkhyēyaṁ vā|
tatra saṅkhyēyaṁ tāvadyathōktamaṣṭōdarīyē, aparisaṅkhyēyaṁ punaryathā- mahārōgādhyāyē rugvarṇasamutthānādīnāmasaṅkhyēyatvāt||3||

balabhēdēnētyatra mr̥du alpabalaṁ, dāruṇaṁ tu mahābalaṁ jñēyam| dāruṇaṁ kiñcitkālātipātādēva balavattvānmārayati| yaduktaṁ- “santi hyēvaṁvidhā rōgāḥ sādhyā dāruṇasammatāḥ| yē hanyuranupakrāntā mithyārambhēṇa vā punaḥ” (sū.a.18) iti| āmāśayasamutthatvēna āmāśayāśrayāḥ kaphapittajāḥ sarvē gadā gr̥hyantē, pakvāśayasamutthagrahaṇēna sarvē vātajāḥ; ēvaṁ sarvavikārāvarōdhaḥ| dvaidhaṁ saditi dvaividhyaṁ sat| bhēdaprakr̥tyantarēṇēti bhēdakāraṇāntarēṇa| athavā’pi sandhīyamānamiti ēkīkriyamāṇam, ēkabuddhikārakānugatadharmāntarēṇēti bōddhavyam| duḥkhasāmānyāditi duḥkhakartr̥tvēna sarvarōgānugatēna sādhāraṇēna rūpēṇa sarva ēva rōgā ēkarūpā bhavanti| bahutvamapīti uktaprabhāvabhēdādikr̥tatvādapi bahutvamityarthaḥ| saṅkhyēyatvamaṣṭōdarīyē “aṣṭacatvāriṁśadrōgādhikaraṇānyasmin saṅgrahē” (sū.a.19) ityādinōktam| asaṅkhyēyatvaṁ mahārōgādhyāyē tathā triśōphīyē ca “ta ēvāparisaṅkhyēyā bhidyamānā bhavanti hi| rujāvarṇasamutthānasthānasaṁsthānanāmabhiḥ” (sū.a.18) ityanēnōktam||3||

na ca saṅkhyēyāgrēṣu bhēdaprakr̥tyantarīyēṣu vigītirityatō dōṣavatī syādatra kācit pratijñā, na cāvigītirityataḥ syādadōṣavatī|
bhēttā hi bhēdyamanyathābhinatti, anyathā purastādbhinnaṁ bhēdaprakr̥tyantarēṇa bhindan bhēdasaṅkhyāviśēṣamāpādayatyanēkadhā, na ca pūrvaṁ bhēdāgramupahanti|
samānāyāmapi khalu bhēdaprakr̥tau prakr̥tānuprayōgāntaramapēkṣyam [2] |
santi hyarthāntarāṇi samānaśabdābhihitāni, santi cānarthāntarāṇi paryāyaśabdābhihitāni|
samānō hi rōgaśabdō dōṣēṣu ca vyādhiṣu ca; dōṣā hyapi rōgaśabdamātaṅkaśabdaṁ yakṣmaśabdaṁ dōṣaprakr̥tiśabdaṁ vikāraśabdaṁ ca labhantē, vyādhayaśca rōgaśabdamātaṅkaśabdaṁ yakṣmaśabdaṁ dōṣaprakr̥tiśabdaṁ vikāraśabdaṁ ca labhantē|
tatra dōṣēṣu caiva vyādhiṣu ca rōgaśabdaḥ samānaḥ, śēṣēṣu tu viśēṣavān||4||

nanu saṅkhyēyatvamasaṅkhyēyatvaṁ ca viruddhāvētau dharmau, tathaikatvamanēkatvaṁ cēti viruddhau, tat kathaṁ viruddhatvēna khyātau dharmāvēkasmin rōgē ghaṭētāmityāha- na cētyādi| saṅkhyēyāgrēṣviti saṅkhyēyarōgaparimāṇēṣu, agraśabdaḥ parimāṇē vartatē; yathā- ēkaikasya bhēdāgramaparisaṅkhyēyaṁ bhavati, bhēdasaṅkhyārūpaṁ parimāṇamityarthaḥ| bhēdaprakr̥tyantarīyēṣviti bhēdakāraṇāntarabhavēṣu| viruddhā gītiḥ vigītiḥ kathanaṁ [3] ; yathā- ‘ēkaṁ cānēkaṁ ca tat’ ityādikā [4] viruddhā gītiḥ| ata iti yathōktavigītiyōgāt, na dōṣavatī kācit pratijñā; yathā- ēkānēkarūpāntaragamanarūpā atrōktā syāditi yōjanā| vigītau dōṣābhāvaṁ darśayitvā bhēdakāraṇāntarakr̥tāyāmavigītāvapi dōṣō bhavatīti darśayannāha- na cāvigītirityādi| yadi hi ‘ēkaṁ rōgānīkaṁ rujāsāmānyāt’ ityabhidhāya punaḥ ‘ēkaṁ rōgānīkaṁ prabhāvabhēdāt’ ityaviruddhā ēkatākhyāyikā’vigītiḥ kriyatē, sā viruddhaiva syāt; yatō na prabhāvabhēdēna rōgāṇāmēkatvamupapannaṁ, kintu dvaidhamēvēti bhāvaḥ| vigītau dōṣābhāvē hētumāha- bhēttā hītyādi|- bhēttā puruṣaḥ, bhēdyaṁ rōgam, anyathā dvitvādinā bhinatti, anyathā ēkatvēna purastādbhēditaṁ cānyathā bhinattīti| asyārthaṁ vyākarōti- bhēdaprakr̥tyantarēṇētyādinā| anēkadhēti dvē rōgānīkē, tathā daśa rōgānīkānītyādi| na ca pūrvaṁ bhēdāgraṁ bhēdapramāṇamupahanti| ēvaṁ manyatē- yaddharmayōgavivakṣayaikatvamuktaṁ, taddharmayōgavivakṣayaiva yadi bahutvamapyucyatē rōgāṇāṁ tatō virōdhō bhavati, na hi tadēvaikaṁ cānēkaṁ cētyupapannaṁ; yadā tu dharmāntarayōgavivakṣayā bahutvamucyatē, na tadā virōdhaḥ; bahutvābhidhānakālē bahūnāmēva rōgadharmāṇāṁ vivakṣitatvāt; tēna rōgāṇāmēkatvamēkadharmaviṣayaṁ, bahutvaṁ ca bahudharmaviṣayamiti nāsti virōdhaḥ| nanu yatrāsamānaṁ bhēdakāraṇaṁ tatra kāraṇāntarakr̥tatvāduktanyāyēna vigītiḥ sādhvī bhavatu, yatra tu daśa rōgānīkāni prabhāvādidvaividhyāducyantē, tatra kathaṁ dvē rōgānīkē iti dvitvakr̥taṁ dvaividhyamabhidhāya punardvitvādibhēdēnaiva daśatvamucyatē? samānō [5] hyayaṁ dviśabdō dvitvē daśatvē ca rōgāṇāṁ hēturityāha- samānāyāmapīti; samānaśabdābhidhēyatvēnāpātataḥ samānatvēna pratibhāsamānāyāmityarthaḥ| prakr̥tānuprayōgāntaramapēkṣyamiti prakr̥tasya samānaśabdēnābhihitasya yadbhēdakhyāpakaṁ paścātprayōgāntaraṁ, tadapēkṣaṇīyaṁ vigītisamādhānārthamityarthaḥ| ētēnaitaddarśayati- yadyapi dviśabdō rōgaprabhāvē tathā rōgabalādau ca samānaḥ, tathā’pyēkatra [6] ‘prabhāvabhēdāt’ ityanuprayōgāntaramapēkṣya prabhāvadvaividhyē vartatē, tathā ‘balabhēdāt’ ityanuprayōgāntaramapēkṣya ca dviśabdō baladvaividhyē vartata ityādi| tēnārthāntarābhidhāyibhirdviśabdairbhidyamānasya daśatvamapyupapannaṁ tathā dvitvaṁ cēti bhāvaḥ| dr̥ṣṭāntārthamēkēna [7] śabdēnānēkārthābhidhānamāha- santi hītyādi| arthāntarāṇi paryāyaśabdānabhihitā arthāḥ| tatrōdāharaṇamāha- samānō hītyādi|- dōṣēṣu [8] vyādhiṣu ca samāna ubhayavācakatvēna tulyō rōgaśabdaḥ; tēna rōgadōṣasamānatvēnābhidhēyasamānānāṁ [9] rōgātaṅkayakṣmādiśabdānāṁ sarvēṣāmēva vakṣyamāṇānāṁ grahaṇam| śēṣēṣviti hētvādiṣu| viśēṣavāniti abhidhānarūpaviśēṣavānityarthaḥ||4||

tatra vyādhayō’parisaṅkhyēyā bhavanti, atibahutvāt|
dōṣāstu khalu parisaṅkhyēyā bhavanti, anatibahutvāt|
tasmādyathācitraṁ vikārānudāharaṇārtham, anavaśēṣēṇa ca dōṣān vyākhyāsyāmaḥ|
rajastamaśca mānasau dōṣau|
tayōrvikārāḥ kāmakrōdhalōbhamōhērṣyāmānamadaśōkacittō(ntō)dvēgabhayaharṣādayaḥ|
vātapittaślēṣmāṇastu khalu śārīrā dōṣāḥ|
tēṣāmapi ca vikārā jvarātīsāraśōphaśōṣaśvāsamēhakuṣṭhādayaḥ|
iti dōṣāḥ kēvalā vyākhyātā vikāraikadēśaśca||5||
tatra khalvēṣāṁ dvayānāmapi dōṣāṇāṁ trividhaṁ prakōpaṇaṁ; tadyathā- asātmyēndriyārthasaṁyōgaḥ, prajñāparādhaḥ, pariṇāmaścēti||6||

tatrāpi rōgaśabdābhidhēyatayā samānē’pi dōṣē tathā vikārē ca parisaṅkhyēyāparisaṅkhyēya(tva)rūpā vigītirastyatha cādōṣa ityabhiprāyēṇāha- tatrētyādi| ēkaikasmin dōṣē bahavō vikārā bhavantītyabhiprāyēṇa vikārāpēkṣayā dōṣāṇāmanatibahutvaṁ jñēyam| yathācitramiti yathāvinyāsaṁ, tēna yānēva pūrvācāryā vikārānadhikatamatvēnōktavantastānēva [10] vyākhyāsyāmaḥ; natu sarvān, aśakyatvāt| kiṁvā, ‘yathōcitam [11] ’ iti pāṭhaḥ| anavaśēṣēṇa ca dōṣānityanēna dōṣā anatibahutvēnānavaśēṣēṇāpyabhidhātuṁ śakyanta iti prakāśayati| tatra mānasadōṣavikārayōranalpavaktavyatvēnāgrē’bhidhānam||5-6||

prakupitāstu khalu tē prakōpaṇaviśēṣāddūṣyaviśēṣācca vikāraviśēṣānabhinirvartayantyaparisaṅkhyēyān||7||

nanu parimitāddōṣarūpāt kāraṇāt kathamaparimitā vikārā bhavantītyāha- prakupitāstvityādi| hētuviśēṣaduṣṭō hi sa ēva dōṣō dūṣyāntaragataśca vibhinnaśaktiyōgādbahūn vikārān karōtīti yuktamēva| uktaṁ ca- “sa ēva kupitō dōṣaḥ samutthānaviśēṣataḥ| sthānāntaragataścaiva vikārān kurutē bahūn” (sū.a.18) iti||7||

tē ca vikārāḥ parasparamanuvartamānāḥ kadācidanubadhnanti kāmādayō jvarādayaśca||8||

vikārāṇāṁ śārīramānasānāṁ parasparaṁ saṁsargamāha- tē ca vikārā ityādi| anuvartamānā ityanēna yadaiva jvarādayaḥ kāmādayō vā balavattvēna [12] cirakālamanuvartantē, tadaivānubadhnanti prāyaḥ; yadā tu stōkakālāvasthāyinō bhavanti, na tadā prāyō’nubadhnantītyarthaḥ| kiṁvā, anuvartamānāḥ parasparabalamabhivardhayantaḥ| atra ca parasparaśabdēna śārīrāṇāṁ śārīrēṇa, mānasānāṁ mānasēna, śārīrāṇāṁ mānasēna, mānasānāṁ śārīrēṇa cānubandhō jñēyaḥ||8||

niyatastvanubandhō rajastamasōḥ parasparaṁ, na hyarajaskaṁ tamaḥ pravartatē [13] ||9||

vikārānubandhaṁ darśayitvā dōṣānubandhamāha- niyatastvityādi||9||

(prāyaḥ) śārīradōṣāṇāmēkādhiṣṭhānīyānāṁ sannipātaḥ saṁsargō vā samānaguṇatvāt; dōṣā hi dūṣaṇaiḥ samānāḥ||10||

śārīradōṣānubandhamāha- śārīrētyādi| ēkādhiṣṭhānīyānāmityanēnaikaśarīrādhiṣṭhānapratyāsattyā ca saṁsargā dōṣāṇāṁ bhavantīti darśayati| samānaguṇatvāditi hētuṁ vivr̥ṇōti- dōṣā hītyādi| dūṣaṇairiti hētubhiḥ; prāyō hi śārīrāṇāṁ vātādīnāṁ samāna ēva hēturbhavati; yathā- hyamlaṁ lavaṇaṁ kaṭu ca pittakaraṁ [14] ; tatrāmlaṁ sakaphaṁ pittaṁ karōti, lavaṇaṁ ca sapittaṁ kaphaṁ karōti, kaṭu tu savātaṁ pittaṁ karōti| tathā vasantaḥ ślēṣmakārakō’pyādānatvēna vātapittē ca karōti, tathā varṣāsvapi pittaṁ cīyamānaṁ śaradi prakupya kaphānugatamēva kupyati, tathā grīṣmō vātacayaṁ rūkṣatvēna kurvan uṣṇatvēna manāk pittacayamapi karōtītyanusaraṇīyam||10||

tatrānubandhyānubandhakr̥tō viśēṣaḥ- svatantrō vyaktaliṅgō yathōktasamutthānapraśamō bhavatyanubandhyaḥ, tadviparītalakṣaṇastvanubandhaḥ|
anubandhyalakṣaṇasamanvitāstatra [15] yadi dōṣā bhavanti tattrikaṁ sannipātamācakṣatē, dvayaṁ vā saṁsargam|
anubandhyānubandhaviśēṣakr̥tastu bahuvidhō dōṣabhēdaḥ|
ēvamēṣa sañjñāprakr̥tō bhiṣajāṁ dōṣēṣu vyādhiṣu ca nānāprakr̥tiviśēṣavyūhaḥ [16] ||11||

ēnamēva dōṣānubandhamanubandhyānubandhabhēdēna darśayitumanubandhyānubandhalakṣaṇamēvāha- tatrētyādi| anubandhyasya anubandhasya ca viśēṣō’nubandhyānubandhaviśēṣaḥ ‘svatantra’ ityādigranthalakṣaṇīyaḥ| svatantra ityasyaiva vivaraṇaṁ- vyaktaliṅga ityādi| yathōktasamutthānapraśama iti svahētusamutthitaḥ svacikitsayaiva praśamanīyaḥ| kiṁvā, svatantra ityēnāpi svavikārakaraṇē prādhānyamucyatē [17] ; svatantrō hi dōṣaḥ prakōpakālē vikārān karōti, asvatantrastu svatantraprakōpakāla ēva vikāraṁ pradhānadōṣēritaḥ [18] san karōti| tadviparītalakṣaṇa iti anēnāvyaktaliṅgō’svahētuprakupitaḥ paracikitsāpraśamanīyaścānubandha iti labhyatē; anubandhō hyabalavattvēna na liṅgaṁ vyaktaṁ karōti, tathā parahētunā kiñcidanuguṇēna kr̥taḥ [19] paracikitsayaiva kiñcidanuguṇayā śāmyati| yathā- śaradi ślēṣmā pittahētunā jalādyamlavipākēna janyatē, sa ca pittacikitsayaiva tiktasarpirādikayā kaphē’pyanuguṇayā śāmyati| dvayaṁ vā’nubandhyalakṣaṇaṁ prāptaṁ saṁsargamācakṣata iti yōjanā| anubandhyaśabdaścāyaṁ vyaktaliṅgatādidharmayuktē dōṣē vartatē| tēnāpradhānānugamanīyē sannipātē anubandhābhāvē’pyanubandha iti vyapadēśō bhavatyēva anubandhyānubandharūpasaṁsargaviśēṣēṇa kr̥taḥ| sañjñāprakr̥ta iti anubandhyānubandhasannipātasaṁsargajvarātisārādisañjñākr̥ta ityarthaḥ| nānāprakr̥tiviśēṣavyūha iti yathōktanānākāraṇaviśēṣakr̥tō jvarātisārādirūpō vyadhīnāṁ dōṣāṇāṁ ca samūha ityarthaḥ| bhiṣajāmitipadēna ca vaidyānāmēvēyaṁ samayasiddhā’nubandhyādisañjñēti darśayati||11||

agniṣu tu śārīrēṣu caturvidhō viśēṣō balabhēdēna bhavati|
tadyathā- tīkṣṇō, mandaḥ, samō, viṣamaścēti|
tatra tīkṣṇō’gniḥ sarvāpacārasahaḥ, tadviparītalakṣaṇastu mandaḥ, samastu khalvapacāratō vikr̥timāpadyatē’napacāratastu prakr̥tāvavatiṣṭhatē, samalakṣaṇaviparītalakṣaṇastu viṣama iti|
ētē caturvidhā bhavantyagnayaścaturvidhānāmēva puruṣāṇām|
tatra samavātapittaślēṣmaṇāṁ prakr̥tisthānāṁ samā bhavantyagnayaḥ, vātalānāṁ tu vātābhibhūtē’gnyadhiṣṭhānē viṣamā bhavantyagnayaḥ, pittalānāṁ tu pittābhibhūtē hyagnyadhiṣṭhānē tīkṣṇā bhavantyagnayaḥ, ślēṣmalānāṁ tu ślēṣmābhibhūtē’gnyadhiṣṭhānē mandā bhavantyagnayaḥ||12||

dōṣabhēdavikārabhēdamabhidhāya śarīrasthitēḥ pradhānakāraṇasyāgnērbhēdamāha- agniṣvityādi| śārīrēṣviti sāmānyavacanēna sarvaśarīragatānagnīn grāhayati, vivaraṇē tu jaṭharāgnērēva ‘tīkṣṇō’gniḥ sarvāpacārasahaḥ’ ityādinā yaccāturvidhyamuktaṁ, tajjaṭharāgnitīkṣṇatādimūlakamēva tvagagnyāditīkṣṇatvādikamiti jñāpayati| vacanaṁ hi- “tanmūlāstē hi tadvr̥ddhikṣayavr̥ddhikṣayātmakāḥ” (ci.a.15) iti| yadyapi samō’gniḥ śastatvēnāgrē’bhidhātuṁ yujyatē, tathā’pi samataśca tīkṣṇasyaiva prādhānyōpadarśanārthamihāgrē’bhidhānaṁ; samasya hi prādhānyaṁ nirvikāratvēnaiva susthitaṁ, tīkṣṇasya tu sarvāpacārasahatvēna prādhānyam| tadviparītalakṣaṇa iti svalpāpacāramapi yō na sahatē, sa manda ityarthaḥ| samalakṣaṇaviparītalakṣaṇa iti kadācidviṣamō’pacārādapi na vikriyatē, kadācidvikriyatē| samavātapittaślēṣmaṇāmityuktē’pi prakr̥tisthānāmiti padaṁ vr̥ddhānāṁ samavātapittaślēṣmaṇāṁ pratiṣēdhārtham| prakr̥tiśabdasya kāraṇādyanēkārthatāvyudāsārthaṁ samavātapittaślēṣmaṇāmiti kr̥tam| vātābhibhūtē’gnyadhiṣṭhānē iti vacanēna vātalānāmapi yadaivāgnyadhiṣṭhānōpaghātō vātēna kriyatē, tadaiva vaiṣamyaṁ bhavati| ēvaṁ pittābhibhūta ityādāvapi vyākhyēyam||12||

tatra kēcidāhuḥ- na samavātapittaślēṣmāṇō jantavaḥ santi, viṣamāhārōpayōgitvānmanuṣyāṇāṁ; tasmācca vātaprakr̥tayaḥ kēcit, kēcit pittaprakr̥tayaḥ, kēcit punaḥ ślēṣmaprakr̥tayō bhavantīti|
taccānupapannaṁ, kasmāt kāraṇāt? samavātapittaślēṣmāṇaṁ hyarōgamicchanti bhiṣajaḥ, yataḥ [20] prakr̥tiścārōgyam, ārōgyārthā ca bhēṣajapravr̥ttiḥ, sā cēṣṭarūpā, tasmāt santi samavātapittaślēṣmāṇaḥ; na khalu santi vātaprakr̥tayaḥ pittaprakr̥tayaḥ ślēṣmaprakr̥tayō vā|
tasya tasya kila [21] dōṣasyādhikyāt sā sā dōṣaprakr̥tirucyatē manuṣyāṇāṁ, na ca vikr̥tēṣu dōṣēṣu prakr̥tisthatvamupapadyatē, tasmānnaitāḥ prakr̥tayaḥ santi; santi tu khalu vātalāḥ pittalāḥ ślēṣmalāśca, aprakr̥tisthāstu tē jñēyāḥ||13||

viṣamāhārōpayōgitvāditi nāyaṁ puruṣastulādhāradhr̥tamivāhāramupayuṅktē, tēnāvaśyamatra vātādiṣvanyatamō’pi dōṣō vikr̥tō bhavatīti bhāvaḥ| samavātapittaślēṣmāṇamityādinā asti tāvadārōgyaṁ puruṣēṣu vaidyavyavahārasiddhamiti darśayati| tēna, yādr̥gidaṁ dōṣāṇāṁ kalākāṣṭhādivaiṣamyaṁ parityajyāvirbhūtavikārākāritvēnādūrāntaraṁ sāmyamiṣyatē, tādr̥gēva prakr̥tāvapi sāmyamastyēvēti bhāvaḥ| anyē tu vaiṣamyaṁ nādriyanta ēva, vyapadēśyarōgājanakatvāt| dōṣaprakr̥tiriti duṣṭadōṣabhāvitā prakr̥tirityarthaḥ||13||

tēṣāṁ tu khalu caturvidhānāṁ puruṣāṇāṁ catvāryanupraṇidhānāni [22] śrēyaskarāṇi bhavanti|
tatra samasarvadhātūnāṁ sarvākārasamam, adhikadōṣāṇāṁ tu trayāṇāṁ yathāsvaṁ dōṣādhikyamabhisamīkṣya dōṣapratikūlayōgīni trīṇyanu(nna)praṇidhānāni śrēyaskarāṇi bhavanti yāvadagnēḥ samībhāvāt, samē tu samamēva kāryam; ēvaṁ cēṣṭā bhēṣajaprayōgāścāparē|
tān [23] vistarēṇānuvyākhyāsyāmaḥ||14||

dōṣē pravr̥ddhē pratikūlatayā yōgīni dōṣapratikūlayōgīni| trīṇi vātapittaślēṣmapratikūlāni| samē tviti samatāṁ gatē vahnau, yathōcitavidhānēna (vātaprakr̥tyādīnāṁ [24] ) samamēvānupraṇidhānaṁ kartavyam| ēvamityanēna prakārēṇa cēṣṭābhēṣajayōrapi prayōgā vātādīnāṁ bhavanti; yē tu, ēvamityanēna caturvidhēnōktēna prakārēṇēti vadanti, tē samaprakr̥tīnāṁ ca samavyāyāmādicēṣṭā bhēṣajaṁ ca r̥tucaryāvidhēyaṁ vamanādikārakaṁ sūcyatē’nēnēti vyākhyānayanti||14||

trayastu puruṣā bhavantyāturāḥ, tē tvanāturāstantrāntarīyāṇāṁ bhiṣajām|
tadyathā- vātalaḥ, pittalaḥ, ślēṣmalaścēti|
tēṣāmidaṁ viśēṣavijñānaṁ- vātalasya vātanimittāḥ, pittalasya pittanimittāḥ, ślēṣmalasya ślēṣmanimittā vyādhayaḥ prāyēṇa balavantaśca bhavanti||15||
tatra vātalasya vātaprakōpaṇānyāsēvamānasya [25] kṣipraṁ vātaḥ prakōpamāpadyatē, na tathētarau dōṣau; sa tasya prakōpamāpannō yathōktairvikāraiḥ śarīramupatapati balavarṇasukhāyuṣāmupaghātāya|
tasyāvajayanaṁ- snēhasvēdau vidhiyuktau, mr̥dūni ca saṁśōdhanāni snēhōṣṇamadhurāmlalavaṇayuktāni, tadvadabhyavahāryāṇi, abhyaṅgōpanāhanōdvēṣṭanōnmardanapariṣēkāvagāhanasaṁvāhanāvapīḍanavitrāsanavismāpanavismāraṇāni, surāsavavidhānaṁ, snēhāścānēkayōnayō dīpanīyapācanīyavātaharavirēcanīyōpahitāstathā śatapākāḥ sahasrapākāḥ sarvaśaśca prayōgārthāḥ, bastayaḥ, bastiniyamaḥ sukhaśīlatā cēti||16||

na tathētarau dōṣāviti satyā’pi hētusēvayētyarthaḥ; anyathā vātaprakōpaṇasēvayā pittaślēṣmaṇōrvr̥ddhirēva nāsti| vitrāsanādayō yadyapi vātakārakāstathā’pi vātajanitōnmādavināśakatvēna cōktā iti jñēyam| unmādē hi vitrāsanādi bhēṣajamabhidhāyōktaṁ- “tēna yāti śamaṁ tasya sarvatō viplutaṁ manaḥ” (ci.a.9) iti| sarvaśaḥ prayōgārthā iti pānābhyaṅgabastyādibhiḥ prayōjanīyā ityarthaḥ| bastiniyama iti bastau yathōktaniyamasēvētyarthaḥ; kiṁvā bastiniyamaśabdēna siddhau vakṣyamāṇakarma-kāla-yōgarūpaṁ bastisaṅkhyāniyamaṁ kartavyatayā darśayati| vakṣyati hi- “triṁśanmatāḥ karmasu bastiyōgāḥ kālastatō’rdhēna tataśca yōgaḥ” (si.a.1) iti| sukhaśīlatā satatasukhasēvitvam||15-16||

pittalasyāpi pittaprakōpaṇānyāsēvamānasya [26] kṣipraṁ pittaṁ prakōpamāpadyatē, na tathētarau dōṣau; tadasya prakōpamāpannaṁ yathōktairvikāraiḥ śarīramupatapati balavarṇasukhāyuṣāmupaghātāya|
tasyāvajayanaṁ- sarpiṣpānaṁ, sarpiṣā ca snēhanam, adhaśca dōṣaharaṇaṁ, madhuratiktakaṣāyaśītānāṁ cauṣadhābhyavahāryāṇāmupayōgaḥ, mr̥dumadhurasurabhiśītahr̥dyānāṁ gandhānāṁ cōpasēvā, muktāmaṇihārāvalīnāṁ ca paramaśiśiravārisaṁsthitānāṁ dhāraṇamurasā, kṣaṇē kṣaṇē’gryacandanapriyaṅgukālīyamr̥ṇālaśītavātavāribhirutpalakumudakōkanadasaugandhikapadmānugataiśca vāribhirabhiprōkṣaṇaṁ, śrutisukhamr̥dumadhuramanō’nugānāṁ ca gītavāditrāṇāṁ śravaṇaṁ, śravaṇaṁ cābhyudayānāṁ, suhr̥dbhiḥ saṁyōgaḥ, saṁyōgaścēṣṭābhiḥ strībhiḥ śītōpahitāṁśukasragdhāriṇībhiḥ, niśākarāṁśuśītalapravātaharmyavāsaḥ, śailāntarapulinaśiśirasadanavasanavyajanapavanasēvanaṁ, ramyāṇāṁ cōpavanānāṁ sukhaśiśirasurabhimārutōpahitānāmupasēvanaṁ, sēvanaṁ ca padmōtpalanalinakumudasaugandhikapuṇḍarīkaśatapatrahastānāṁ [27] , saumyānāṁ ca sarvabhāvānāmiti||17||

yathōktairiti mahārōgādhyāyōktaiḥ| adhaśca dōṣaharaṇamiti virēcanādityarthaḥ| agryacandanaṁ dhavalacandam| hastānāmiti kalāpānām||17||

ślēṣmalasyāpi ślēṣmaprakōpaṇānyāsēvamānasya [28] kṣipraṁ ślēṣmā prakōpamāpadyatē, na tathētarau dōṣau; sa tasya prakōpamāpannō yathōktairvikāraiḥ śarīramupatapati balavarṇasukhāyuṣāmupaghātāya|
tasyāvajayanaṁ- vidhiyuktāni tīkṣṇōṣṇāni saṁśōdhanāni, rūkṣaprāyāṇi cābhyavahāryāṇi kaṭukatiktakaṣāyōpahitāni, tathaiva dhāvanalaṅghanaplavanaparisaraṇajāgaraṇaniyuddhavyavāyavyāyāmōnmardanasnānōtsādanāni, viśēṣatastīkṣṇānāṁ dīrghakālasthitānāṁ ca madyānāmupayōgaḥ, sadhūmapānaḥ sarvaśaścōpavāsaḥ, tathōṣṇaṁ vāsaḥ, sukhapratiṣēdhaśca sukhārthamēvēti||18||

ślēṣmavijayārthaṁ rūkṣasyaiva hitatvēna rūkṣāṇīti vaktavyē yadrūkṣaprāyāṇīti karōti, tēnātyartharūkṣānnasya vātānuguṇatvēna tathā dhātvapōṣakatvēna cāsēvyatvaṁ darśayati; uktaṁ hi rasavimānē- “snigdhamaśnīyāt; snigdhaṁ hi bhuktaṁ svadatē, bhuktamaudaryamagnimudīrayati” (vi.a.1) ityādi| laṅghanam utplutya gamanaṁ, parisaraṇaṁ kuṇḍalarūpabhramaṇam| sarvaśaścōpavāsa iti sarvalaṅghanāni| yaduktaṁ- “catuṣprakārā saṁśuddhiḥ pipāsā mārutātapau| pācanānyupavāsaśca vyāyāmaścēti laṅghanam” (sū.a.22) iti| upavāsaśabdō hyatra laṅghanē vartatē| sukhārthamiti āyatisukhārthaṁ; sukhapratiṣēdhāddhi ślēṣmakṣayē bhūtē ślēṣmavikārābhāvalakṣaṇaṁ sukhaṁ bhavati||18||

bhavati cātra-
sarvarōgaviśēṣajñaḥ sarvakāryaviśēṣavit|
sarvabhēṣajatattvajñō rājñaḥ prāṇapatirbhavēditi||19||

yathōktādhyāyajñānādēva sarvarōgābhijñaṁ stauti- sarvētyādinā| prāṇān pāti rakṣatīti prāṇapatiḥ||19||

tatra ślōkāḥ-
prakr̥tyantarabhēdēna rōgānīkavikalpanam|
parasparāvirōdhaśca sāmānyaṁ rōgadōṣayōḥ||20||
dōṣasaṅkhyā vikārāṇāmēkadēśaḥ prakōpaṇam|
jaraṇaṁ prati cintā ca kāyāgnērdhukṣaṇāni [29] ca||21||
narāṇāṁ vātalādīnāṁ prakr̥tisthāpanāni ca|
rōgānīkē vimānē’smin vyāhr̥tāni maharṣiṇā||22||

saṅgrahē jarayatīti jaraṇō vahniḥ, taṁ prati cintā ‘agniṣu’ ityādinā kr̥tā| prakr̥tisthāpanānīti bhēṣajāni||20-22||

ityagnivēśakr̥tē tantrē carakapratisaṁskr̥tē vimānasthānē rōgānīkavimānaṁ nāma ṣaṣṭhō’dhyāyaḥ||6||

iti śrīcakrapāṇidattaviracitāyāṁ carakatātparyaṭīkāyāmāyurvēdadīpikāyāṁ vimānasthānē rōgānīkavimānaṁ nāma ṣaṣṭhō’dhyāyaḥ||6||

1. ‘ruksāmānyāt’ iti pā.|
2. ‘prakr̥tyanuprayōgāntaraṁ’ iti gaṅgādharasammataḥ pāṭhaḥ|
3. vigītiḥ viruddhabhāṣaṇamityarthaḥ|
4. ‘ēkaṁ tadanēkaṁ ca tadityādikā’ iti pā.|
5. ‘sāmānyō hyayaṁ’ iti pā.|
6. ‘tathā’pyēkā’ iti pā.|
7. ‘tadēvōpapādayati- santītyādi’ iti pā.|
8. ‘rōgasya śabdō rōgaśabdaḥ’ iti pā.|
9. ‘rōgadōṣasamānatvēnābhidhēyānāṁ’ iti pā.|
10. ‘vikārānāviṣkr̥tavantastānēva’ iti pā.|
11. ‘yathōpacitaṁ’ iti pā.|
12. ‘vā’balavattvēna’ iti pā.|
13. ‘prāyaḥ’ iti pā.
14. ‘pittaṁ kaphaṁ vātaṁ ca karōti’ iti pā.|
15. ‘anubandhyānubandhalakṣaṇasamanvitāḥ’ iti pā.|
16. ‘nānāprakr̥tiviśēṣād vyūhaḥ’ iti gaṅgādharaḥ|
17. ‘apāratantryamucyatē’ iti pā.|
18. ‘vikāraṁ jvarātisārādirūpaṁ tathā’nubandhyānubandharūpaṁ pradhānadōṣēritaḥ’ iti pā.|
19. ‘prakupitaḥ’ iti pā.|
20. ‘yataḥ’ iti ha. pu. na paṭhyatē|
21. ‘hi’ iti pā.|
22. ‘catvāryannapraṇidhānāni’ iti pā.|
23. ‘tāni’ iti pā.|
24. ayaṁ pāṭhaḥ kvacitpustakē nōpalabhyatē|
25. ‘vātaprakōpaṇōktāni’ iti pā.|
26. ‘pittaprakōpaṇōktāni’ iti pā.|
27. ‘śatapatrahr̥dānāṁ’ iti pā.|
28. ‘ślēṣmaprakōpaṇōktānyāsēvamānasya’ iti pā.|
29. ‘dēhāgnē rakṣaṇāni ca’ iti pā.|

Scroll to Top