Table of Contents
Devanagari Version
महर्षिणा पुनर्वसुनोपदिष्टा, तच्छिष्येणाग्निवेशेन प्रणीता, चरकदृढबलाभ्यां प्रतिसंस्कृता
चरकसंहिता
श्रीचक्रपाणिदत्तविरचितया आयुर्वेददीपिकाव्याख्यया सहिता
चिकित्सास्थानम् - १७. हिक्काश्वासचिकित्सितम्
Only Moolashloka
अथातो हिक्काश्वासचिकित्सितं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
पाण्डुरोगकारणत्वाद्धिक्काश्वासयोः पाण्डुरोगानन्तरमभिधानम्| वक्ष्यति हि- “पाण्डुरोगाद्विषाच्चैव प्रवर्तेते गदाविमौ” इति| हिक्काश्वासौ च समानकारणचिकित्सितत्वादेकाध्याये एवोक्तौ||१-२||
वेदलोकार्थतत्त्वज्ञमात्रेयमृषिमुत्तमम्|
अपृच्छत् संशयं धीमानग्निवेशः कृताञ्जलिः||३||
य इमे द्विविधाः प्रोक्तास्त्रिदोषास्त्रिप्रकोपणाः|
रोगा नानात्मकास्तेषां कस्को भवति दुर्जयः||४||
अग्निवेशस्य तद्वाक्यं श्रुत्वा मतिमतां वरः|
उवाच परमप्रीतः परमार्थविनिश्चयम्||५||
कामं प्राणहरा रोगा बहवो न तु ते तथा|
यथा श्वासश्च हिक्का च प्राणानाशु निकृन्ततः||६||
अन्यैरप्युपसृष्टस्य रोगैर्जन्तोः पृथग्विधैः|
अन्ते सञ्जायते हिक्का श्वासो वा तीव्रवेदनः||७||
वैदिकं लौकिकं च अर्थतत्त्वं जानातीति वेदलोकार्थतत्त्वज्ञः| द्विविधा इति सामान्यासामान्यभेदेन; किंवा मृदुदारुणभेदेन, निजानिजभेदेन च| त्रिदोषा इति वातादिभिः पृथङ्मिलितैर्वा| त्रिप्रकोपणा इति असात्म्येन्द्रियार्थसंयोगपरिणामप्रज्ञापराधकारणकाः| काममिति अनुमतौ| बहव इति ज्वर-शङ्खक-रोहिण्यादयः| यथा श्वासश्च हिक्का चेत्यनेन शीघ्रं प्राणहारित्वं हिक्काश्वासयोर्दर्शयति| अन्ते इति मरणसमये| सञ्जायते इति अवश्यं हिक्काश्वासयोरन्यतरो जायते||३-७||
कफवातात्मकावेतौ पित्तस्थानसमुद्भवौ|
हृदयस्य रसादीनां धातूनां चोपशोषणौ||८||
तस्मात् साधारणावेतौ मतौ परमदुर्जयौ|
मिथ्योपचरितौ क्रुद्धौ हत आशीविषाविव||९||
पित्तस्थानसमुद्भवावित्यनेन पित्तस्योर्ध्वस्थानसम्बन्ध एव, नतु वातकफवदारम्भकत्वमिति दर्शयति; पित्तस्थानशब्देनामाशयोऽभिप्रेतः| साधारणाविति प्रायस्तुल्यचिकित्स्यत्वात्| आशीविषाविव दृष्टिनिःश्वासविषसर्पाविव| मिथ्योपरितोऽन्योऽपि रोगो हन्ति, तदिहाशीविषदृष्टान्तेन मिथ्योपचारे सति शीघ्रहन्तृत्वमाह||८-९||
पृथक् पञ्चविधावेतौ निर्दिष्टौ रोगसङ्ग्रहे|
तयोः शृणु समुत्थानं लिङ्गं च सभिषग्जितम्||१०||
रजसा धूमवाताभ्यां शीतस्थानाम्बुसेवनात्|
व्यायामाद्ग्राम्यधर्माध्वरूक्षान्नविषमाशनात्||११||
आमप्रदोषादानाहाद्रौक्ष्यादत्यपतर्पणात्|
दौर्बल्यान्मर्मणो घाताद्द्वन्द्वाच्छुद्ध्यतियोगतः||१२||
अतीसारज्वरच्छर्दिप्रतिश्यायक्षतक्षयात्|
रक्तपित्तादुदावर्ताद्विसूच्यलसकादपि||१३||
पाण्डुरोगाद्विषाच्चैव प्रवर्तेते गदाविमौ|
निष्पावमाषपिण्याकतिलतैलनिषेवणात्||१४||
पिष्टशालूकविष्टम्भिविदाहिगुरुभोजनात्|
जलजानूपपिशितदध्यामक्षीरसेवनात्||१५||
अभिष्यन्द्युपचाराच्च श्लेष्मलानां च सेवनात्|
कण्ठोरसः प्रतीघाताद्विबन्धैश्च पृथग्विधैः||१६||
पृथगिति प्रत्येकं पञ्चविधौ| रोगसङ्ग्रहे इति अष्टोदरीये| अत्र च रजसेत्यादिना प्रायो वातप्रकोपकगणो विच्छिद्योक्तः प्रवर्तेति गदाविमावित्यन्तेन, निष्पावेत्यादिना कफकारणतया हिक्काश्वासयोः कफप्रकोपकहेतुगणोऽभिहितः; तदनेन वातजनककफजनकहेतुवर्गद्वयविच्छेदपाठेन वातकफयोरत्र स्वहेतुकुपितत्वेन स्वातन्त्र्यं दर्शयति, नानुबन्धरूपत्वम्||१०-१६||
मारुतः प्राणवाहीनि स्रोतांस्याविश्य कुप्यति|
उरःस्थः कफमुद्धूय हिक्काश्वासान् करोति सः||१७||
घोरान् प्राणोपरोधाय प्राणिनां पञ्च पञ्च च|१८|
मारुतः प्राणवाहीनित्यादिना सम्प्ताप्तिमाह| इयं हिक्काश्वासयोः साधारणी सम्प्राप्तिः, वैशेषिकीं चाग्रे वक्ष्यति| प्राणोपरोधायेति प्रायः प्राणहरणायेति प्रायः प्राणहरणायेत्यर्थः| पञ्च पञ्च चेति हिक्काः पश्च, श्वासाः पञ्च, इत्यर्थः||१७||-
उभयोः पूर्वरूपाणि शृणु वक्ष्याम्यतः परम्||१८||
कण्ठोरसोर्गुरुत्वं च वदनस्य कषायता|
हिक्कानां पूर्वरूपाणि कुक्षेराटोप एव च||१९||
आनाहः पार्श्वशूलं च पीडनं हृदयस्य च|
प्राणस्य च विलोमत्वं श्वासानां पूर्वलक्षणम्||२०||
लक्षणग्रहणगृहीतं पूर्वरूपं हिक्कानां ‘कण्ठोरसोः’ इत्यादिना, श्वासानाम् ‘आनाहः’ इत्यादिनाऽऽह| विलोमत्वमिति पर्याकुलत्वम्||१८-२०||
प्राणोदकान्नवाहीनि स्रोतांसि सकफोऽनिलः|
हिक्काः करोति संरुध्य तासां लिङ्गं पृथक् शृणु||२१||
क्षीणमांसबलप्राणतेजसः सकफोऽनिलः|
गृहीत्वा सहसा कण्ठमुच्चैर्घोषवतीं भृशम्||२२||
करोति सततं हिक्कामेकद्वित्रिगुणं तथा|
प्राणः स्रोतांसि मर्माणि संरुध्योष्माणमेव च||२३||
सञ्ज्ञां मुष्णाति गात्राणां स्तम्भं सञ्जनयत्यपि|
मार्गं चैवान्नपानानां रुणद्ध्युपहतस्मृतेः||२४||
साश्रुविप्लुतनेत्रस्य स्तब्धशङ्खच्युतभ्रुवः|
सक्तजल्पप्रलापस्य निर्वृतिं नाधिगच्छतः||२५||
महामूला महावेगा महाशब्दा महाबला|
महाहिक्केति सा नॄणां सद्यः प्राणहरा मता||२६||
इति महाहिक्का|
प्राणोदकेत्यादिना विशिष्टहिक्कासम्प्राप्तिमाह| क्षीणमांसबलप्राणतेजस इति अत्र प्राणो वायुः, उत्साहो वा; तेजोऽग्निः| उच्चैर्गृहीत्वा घोषवतीमिति योज्यम्| द्विसन्ततां त्रिसन्ततामनेकगुणां वा करोति; तत्र द्विसन्तता एकोपक्रमे वारद्वयं भवति| संरुध्योष्माणमिति देहोष्माणम्| संसक्तवचनतया [१] प्रलापो यस्य स सक्तजल्पप्रलापः| महामूलेति गम्भीराश्रयदोषमूला| महाशब्दत्वं च उच्चैर्घोषवतीमित्यनेनैवोक्तमपि महाहिक्कासञ्ज्ञोपादानार्थमिह पुनरुक्तं, तेन ‘महाहिक्का’ इति सञ्ज्ञा||२१-२६||
हिक्कते यः प्रवृद्धस्तु कृशो दीनमना नरः|
जर्जरेणोरसा कृच्छ्रं गम्भीरमनुनादयन्||२७||
सञ्जृम्भन् सङ्क्षिपंश्चैव तथाऽङ्गानि प्रसारयन्|
पार्श्वे चोभे समायम्य कूजन् स्तम्भरुगर्दितः||२८||
नाभेः पक्वाशयाद्वाऽपि हिक्का चास्योपजायते|
क्षोभयन्ती भृशं देहं नामयन्तीव ताम्यतः||२९||
रुणद्ध्युच्छ्वासमार्गं तु प्रनष्टबलचेतसः|
गम्भीरा नाम सा तस्य हिक्का प्राणान्तिकी मता||३०||
इति गम्भीरा हिक्का|
तत्र हिगिति कायति शब्दं करोतीति हिक्का| गम्भीरमनुनादयन्निति हिक्काया अनु गम्भीरं शब्दं कुर्वन्| सङ्क्षिपन्नङ्गानीति योज्यम्| गम्भीरदेशभवत्वाद् ‘गम्भीरा’ इति सञ्ज्ञा||२७-३०||
व्यपेता जायते हिक्का याऽन्नपाने चतुर्विधे|
आहारपरिणामान्ते भूयश्च लभते बलम्||३१||
प्रलापवम्यतीसारतृष्णार्तस्य विचेतसः|
जृम्भिणो विप्लुताक्षस्य शुष्कास्यस्य विनामिनः||३२||
पर्याध्मातस्य हिक्का या जत्रुमूलादसन्तता|
सा व्यपेतेति विज्ञेया हिक्का प्राणोपरोधिनी||३३||
इति व्यपेता हिक्का|
व्यपेता परिणतेत्यर्थः| आहारपरिणामान्ते इति आहारपरिणामे वृत्ते; एतेनाहारेऽपि उत्पद्यते, अन्ते बलवती भवति तां ‘व्यपेता’ इति सञ्ज्ञया दर्शयति| विनामिन इति शरीरविनामकस्य| असन्ततेति अनतिदीर्घा||३१-३३||
क्षुद्रवातो यदा कोष्ठाद्व्यायामपरिघट्टितः|
कण्ठे प्रपद्यते हिक्कां तदा क्षुद्रां करोति सः||३४||
अतिदुःखा न सा चोरःशिरोमर्मप्रबाधिनी|
न चोच्छ्वासान्नपानानां मार्गमावृत्य तिष्ठति||३५||
वृद्धिमायस्यतो याति भुक्तमात्रे च मार्दवम्|
यतः प्रवर्तते पूर्वं तत एव निवर्तते||३६||
हृदयं क्लोम कण्ठं च तालुकं च समाश्रिता|
मृद्वी सा क्षुद्रहिक्केति नृणां साध्या प्रकीर्तिता||३७||
इति क्षुद्रहिक्का|
क्षुद्रेत्यादिना क्षुद्रहिक्कामाह| क्षुद्रवातः अल्पवातः; केचित् क्षुद्रवातमुदानमाहुः| आयस्यत इति आयासं कुर्वतः मार्दवं यातीति सम्बन्धः| यतः प्रवर्तते पूर्वं तत एव निवर्तत इति उत्पद्यमानैव निवर्तमानवेगा भवति; महाहिक्कादिवदनुबद्धा न भवति; उत्पादकहेतोर्व्यायामादेरेव निवर्तते, व्यायामादिना हिक्काजनकवातस्य क्षुद्रस्य विक्षेपात् सम्प्राप्तिभङ्गेनेति भावः| क्षुद्रवातजनितात्वात् क्षुद्रा हिक्का||३४-३७||
सहसाऽत्यभ्यवहृतैः पानान्नैः पीडितोऽनिलः|
ऊर्ध्वं प्रपद्यते कोष्ठान्मद्यैर्वाऽतिमदप्रदैः||३८||
तथाऽतिरोषभाष्याध्वहास्यभारातिवर्तनैः|
वायुः कोष्ठगतो धावन् पानभोज्यप्रपीडितः||३९||
उरःस्रोतः समाविश्य कुर्याद्धिक्कां ततोऽन्नजाम्|
तथा शनैरसम्बन्धं क्षुवंश्चापि स हिक्कते||४०||
न मर्मबाधाजननी नेन्द्रियाणां प्रबाधिनी|
हिक्का पीते तथा भुक्ते शमं याति च साऽन्नजा||४१||
इत्यन्नजा हिक्का|
सहसेत्यादिनाऽन्नजामाह| इयं च यद्यपि अन्नजा उक्ता, तथाऽपि दोषादिजनितैव| पानभोज्यप्रपीडित इत्यनेनान्नस्य कारणत्वेनोक्तत्वादियम् ‘अन्नजा’ इतिसञ्ज्ञा||३८-४१||
अतिसञ्चितदोषस्य भक्तच्छेदकृशस्य च|
व्याधिभिः क्षीणदेहस्य वृद्धस्यातिव्यवायिनः||४२||
आसां या सा समुत्पन्ना हिक्का हन्त्याशु जीवितम्|
यमिका च प्रलापार्तितृष्णामोहसमन्विता||४३||
अक्षीणश्चाप्यदीनश्च स्थिरधात्विन्द्रियश्च यः|
तस्य साधयितुं शक्या यमिका हन्त्यतोऽन्यथा||४४||
अतीत्यादिना साध्यासाध्यविभागमाह| अतिशयेन सञ्चिता दोषा यस्य स तथा| भक्तच्छेदकृशस्येति अभोजनदुर्बलस्य| आसां पञ्चानां या हिक्का अतीत्यादिना प्रोक्तलक्षणस्य पुरुषस्य भवति सा जीवितं हन्ति| यमिका चेत्यनेन क्षुद्रा अन्नजा च या साध्यत्वेनोक्ता सा यमलवेगेन जायमाना यमिका ज्ञेया; पूर्वोक्तानुवेगेन या जायमाना सा महाहिक्का, सा स्वरूपेणैवासाध्या, तस्या अतीत्यादियोगेनासाध्यताविधानमनर्थकम्| तथा महत्यादिहिक्कानां तिसॄणामसम्पूर्णलक्षणानां साध्यत्वं, क्षुद्रान्नजयोस्तु सम्पूर्णलक्षणयोरपि साध्यत्वं, महाहिक्कादित्रयं निसर्गत एवासाध्यम्| अन्ये तु ब्रुवते- महाहिक्कादयोऽपि कदाचित् साध्या भवन्त्येव, तत्र प्राणान्तिकेति वचनं प्रायः प्राणहरा इत्यभिप्रायेणोक्तम्| तथाहि जतूकर्णे- “आद्या दुःसाध्या, यमिका तृष्णामोहवतां सद्यःप्राणहृत्, गम्भीरा व्यपेते च” इत्युक्तम्| अक्षीण इति अक्षीणमांसः||४२-४४||
यदा स्रोतांसि संरुध्य मारुतः कफपूर्वकः|
विष्वग्व्रजति संरुद्धस्तदा श्वासान्करोति सः||४५||
यदेत्यादिना श्वाससम्प्राप्तिमाह| स्रोतांसीति प्रकृतत्वात् प्राणोदकवाहीनि स्रोतांसि| कफपूर्वक इति कफप्रधानः| विष्वग्व्रजति सर्वतो गच्छति||४५||
उद्धूयमानवातो यः शब्दवहुःखितो नरः|
उच्चैः श्वसिति संरुद्धो मत्तर्षभ इवानिशम्||४६||
प्रनष्टज्ञानविज्ञानस्तथा विभ्रान्तलोचनः|
विकृताक्ष्याननो बद्धमूत्रवर्चा विशीर्णवाक्||४७||
दीनः प्रश्वसितं चास्य दूराद्विज्ञायते भृशम्|
महाश्वासोपसृष्टः स क्षिप्रमेव विपद्यते||४८||
इति महाश्वासः|
उद्धूयमानेत्यादिना महाश्वासलक्षणमाह| उद्धूयमान इति ऊर्ध्वं धूयमानवातः| उच्चैरिति दीर्घम्| मत्तर्षभः मत्तबलीवर्दः| दीन इति दीनवत्| ‘दीनं प्रश्वसितं’ इति वा पाठः; तदा हि प्रश्वसितस्य दीनत्वे ‘दूराद्विज्ञायते’ इति यद्वक्ष्यति तदनुपपन्नं स्यात्||४६-४८||
दीर्घं श्वसिति यस्तूर्ध्वं न च प्रत्याहरत्यधः|
श्लेष्मावृतमुखस्रोताः क्रुद्धगन्धवहार्दितः||४९||
ऊर्ध्वदृष्टिर्विपश्यंश्च विभ्रान्ताक्ष इतस्ततः|
प्रमुह्यन् वेदनार्तश्च शुष्कास्योऽरतिपीडितः||५०||
ऊर्ध्वश्वासे प्रकुपिते [२] ह्यधःश्वासो निरुध्यते|
मुह्यतस्ताम्यतश्चोर्ध्वं श्वासस्तस्यैव हन्त्यसून्||५१||
इत्यूर्ध्वश्वासः|
दीर्घमित्यादिनोर्ध्वश्वासमाह| दीर्घं श्वसिति श्वासस्य बहिर्निर्गमनं दीर्घकालं करोति| न च प्रत्याहरत्यध इति श्वासमधो न नयति| क्रुद्धगन्धवहः दुष्टवायुः| श्वासस्य दीर्घकालमुद्धूयने अधोऽनयने चोक्ते हेतुमाह- ऊर्ध्वश्वासे इत्यादिना||४९-५१||
यस्तु श्वसिति विच्छिन्नं सर्वप्राणेन पीडितः|
न वा श्वसिति दुःखार्तो मर्मच्छेदरुगर्दितः||५२||
आनाहस्वेदमूर्च्छार्तो दह्यमानेन बस्तिना|
विप्लुताक्षः परिक्षीणः श्वसन् रक्तैकलोचनः||५३||
विचेताः परिशुष्कास्यो विवर्णः प्रलपन्नरः|
छिन्नश्वासेन विच्छिन्नः स शीघ्रं प्रजहात्यसून्||५४||
इति छिन्नश्वासः|
यस्त्वित्यादिना छिन्नश्वासलक्षणमाह| श्वसिति विच्छिन्नमिति निःश्वस्य पुनः क्षणान्तेन श्वसिति| न वा श्वसिति न श्वासं लभते| मर्मच्छेदरूपा रुक्| बस्तिनिरोधः मूत्रनिरोध इत्यर्थः| रक्तैकलोचनत्वमिह व्याधिप्रभावात्| विच्छिन्नः विमुक्तसन्धिबन्धः| एते त्रयः श्वासा निसर्गतोऽसाध्याः||५२-५४||
प्रतिलोमं यदा वायुः स्रोतांसि प्रतिपद्यते|
ग्रीवां शिरश्च सङ्गृह्य श्लेष्माणं समुदीर्य च||५५||
करोति पीनसं तेन रुद्धो घुर्घुरुकं तथा|
अतीव तीव्रवेगं च श्वासं प्राणप्रपीडकम्||५६||
प्रताम्यत्यतिवेगाच्च कासते सन्निरुध्यते|
प्रमोहं कासमानश्च स गच्छति मुहुर्मुहुः||५७||
श्लेष्मण्यमुच्यमाने तु भृशं भवति दुःखितः|
तस्यैव च विमोक्षान्ते मुहूर्तं लभते सुखम्||५८||
अथास्योद्ध्वंसते कण्ठः कृच्छ्राच्छक्नोति भाषितुम्|
न चापि निद्रां लभते शयानः श्वासपीडितः||५९||
पार्श्वे तस्यावगृह्णाति शयानस्य समीरणः|
आसीनो लभते सौख्यमुष्णं चैवाभिनन्दति||६०||
उच्छ्रिताक्षो ललाटेन स्विद्यता भृशमर्तिमान्|
विशुष्कास्यो मुहुः श्वासो मुहुश्चैवावधम्यते||६१||
मेघाम्बुशीतप्राग्वातैः श्लेष्मलैश्चाभिवर्धते|
स याप्यस्तमकश्वासः साध्यो वा स्यान्नवोत्थितः||६२||
इति तमकश्वासः|
प्रतिलोममित्यादिना तमकश्वासमाह| श्लेष्माणं समुदीर्य चेत्यनेन सामान्यसम्प्राप्त्युक्तस्यापि श्लेष्मणः पुनरभिधानादिह विशेषेण कारणत्वं दर्शयति| घुर्घुरुकमिति कण्ठे घुर्घुरुकशब्दम्| सन्निरुध्यते इति निश्चेष्टो भवति| तस्यैव चेति ‘श्लेष्मणः’ इति शेषः| आसीन उपविष्टः| उच्छ्रिताक्ष इति उच्छूनाक्षः| मुहुश्चैवावधम्यते इति क्षणं [३] क्षणं श्वसनेन वायुनाऽवधम्यते||५५-६२||
ज्वरमूर्च्छापरीतस्य विद्यात् प्रतमकं तु तम्|
उदावर्तरजोऽजीर्णक्लिन्नकायनिरोधजः||६३||
तमसा वर्धतेऽत्यर्थं शीतैश्चाशु प्रशाम्यति|
मज्जतस्तमसीवाऽस्य विद्यात् सन्तमकं तु तम्||६४||
इति प्रतमकसन्तमकश्वासौ|
पित्तसम्बन्धाज्ज्वरादियोगेन तमकस्यैव प्रतमकसञ्ज्ञां दर्शयन्नाह- ज्वरेत्यादि| उदावर्तेत्यादिना प्रतमकहेतुलक्षणे प्राह| प्रतमक एव सन्तमकः| रजो धूलिः, कायनिरोधो वेगानां निरोधः; किंवा क्लिन्नकायो वृद्धः, निरोधः वेगनिरोधः| तमसेति अन्धकारेण, किंवा तमसा तमोगुणेन| यद्यपि तमकस्य शीतेन वृद्धिरुक्ता, तथाऽपि प्रतमकस्य पित्तसम्बन्धत्वात् ‘शीतैश्चाशु प्रशाम्यति’ इति यदुक्तं तदुपपन्नं भवति; किंवा यथा मद्योत्थविकारस्य मद्यं प्रशमनं भवति, तथा शीतसमुत्थस्यापि तदात्वमात्रे शीतैः प्रशमनं ज्ञेयम्| प्रतमकस्तमकभेद एवेति कृत्वा श्वासानां पञ्चसङ्ख्यासिद्धिः||६३-६४||
रूक्षायासोद्भवः कोष्ठे क्षुद्रो वात उदीरयन्|
क्षुद्रश्वासो न सोऽत्यर्थं दुःखेनाङ्गप्रबाधकः||६५||
हिनस्ति न स गात्राणि न च दुःखो यथेतरे|
न च भोजनपानानां निरुणद्ध्युचितां गतिम्||६६||
नेन्द्रियाणां व्यथां नापि काञ्चिदापादयेद्रुजम्|
स साध्य उक्तो बलिनः सर्वे चाव्यक्तलक्षणाः||६७||
इति श्वासाः समुद्दिष्टा हिक्काश्चैव स्वलक्षणैः|६८|
रूक्षेत्यादिना क्षुद्रश्वासमाह| रूक्षादायासाच्च उद्भवो यस्य स रूक्षायासोद्भवः| क्षुद्रवात इति स्वल्पवातः| न सोऽत्यर्थमिति नात्यर्थं दुःखकरः| न दुःख इति न दुःखसाध्यः| सर्वे चाव्यक्तलक्षणा इत्यनेन साध्यत्वेनोक्तानां महाश्वासादीनां व्यक्तसर्वलक्षणताव्यतिरिक्तायामेवावस्थायां साध्यतां प्रतिपादयति||६५-६७||-
एषां प्राणहरा वर्ज्या घोरास्ते ह्याशुकारिणः||६८||
भेषजैः साध्ययाप्यांस्तु क्षिप्रं भिषगुपाचरेत्|
उपेक्षिता दहेयुर्हि शुष्कं कक्षमिवानलः||६९||
प्राणहरा महाश्वासादयः सम्पूर्णलक्षणा वर्ज्याः| साध्ययाप्यानिति बहुवचनं साध्ययाप्यभेदबहुत्वाज्ज्ञेयम्||६८-६९||
कारणस्थानमूलैक्यादेकमेव चिकित्सितम्|
द्वयोरपि यथादृष्टमृषिभिस्तन्निबोधत||७०||
हिक्काश्वासार्दितं स्निग्धैरादौ स्वेदैरुपाचरेत्|
आक्तं लवणतैलेन नाडीप्रस्तरसङ्करैः||७१||
तैरस्य ग्रथितः श्लेष्मा स्रोतःस्वभिविलीयते|
खानि मार्दवमायान्ति ततो वातानुलोमता||७२||
यथाऽद्रिकुञ्जेष्वर्कांशुतप्तं विष्यन्दते हिमम्|
श्लेष्मा तप्तः स्थिरो देहे स्वेदैर्विष्यन्दते तथा||७३||
स्विन्नं ज्ञात्वा ततस्तूर्णं भोजयेत् स्निग्धमोदनम्|
मत्स्यानां शूकराणां वा रसैर्दध्युत्तरेण वा||७४||
ततः श्लेष्मणि संवृद्धे वमनं पाययेत्तु तम्|
पिप्पलीसैन्धवक्षौद्रैर्युक्तं वाताविरोधि यत्||७५||
निर्हृते सुखमाप्नोति स कफे दुष्टविग्रहे|
स्रोतःसु च विशुद्धेषु चरत्यविहतोऽनिलः||७६||
सम्प्रति भिन्नयोरपि हिक्काश्वासयोर्यथा समानं चिकित्सितं भवति तथा दर्शयन् समानं चिकित्सितमाह- कारणेत्यादि| कारणं बाह्यकारणं, स्थानं नाभ्यादि, मूलं दोषः| स्निग्धैरिति स्वेदैरित्यस्य विशेषणम्; अन्ये तु स्निग्धमिति पठन्ति| लवणवत्तैलं लवणतैलम्| कुञ्जेष्विति विटपेषु [४] | मत्स्यादीनामित्यादौ मत्स्यादीनामपि रसः स्वरसः कल्केन कर्तव्यः| दध्युत्तरं दधिसरः| ईदृशं च भोजनं वमनानुगुणकफवृद्ध्यर्थम्| उक्तं हि- “श्लेष्मोत्तरश्छर्दयति ह्यदुःखम्” (सि.अ.१) इति| वाताविरोधीत्यनेन अन्नं रूक्षं, तीक्ष्णं च वमनं, निषेधयति| दुष्टः विग्रहो यस्य स दुष्टविग्रहः||७०-७६||
लीनश्चेद्दोषशेषः स्याद्धूमैस्तं निर्हरेद्बुधः|
हरिद्रां पत्रमेरण्डमूलं लाक्षां मनःशिलाम्||७७||
सदेवदार्वलं मांसीं पिष्ट्वा वर्तिं प्रकल्पयेत्|
तां घृताक्तां पिबेद्धूमं यवैर्वा घृतसंयुतैः||८७||
मधूच्छिष्टं सर्जरसं घृतं मल्लकसम्पुटे|
कृत्वा धूमं पिबेच्छृङ्गं बालं वा स्नायु वा गवाम्||७९||
स्योनाकवर्धमानानां नाडीं शुष्कां कुशस्य वा|
पद्मकं गुग्गुलुं लोहं शल्लकीं वा घृताप्लुतम्||८०||
वमनशेषदोषहरणार्थं धूममाह- लीन इत्यादिना| एतेन धूमो वमनं विनाऽपि स्वल्पदोषे कर्तव्य एव, तत्रापि धूमविषयदोषस्य विद्यमानत्वात्| अलं हरितालम्| धूमवर्तिस्तु तस्याशीतीयोक्तधूमवर्तिविधानेन कर्तव्या| अत्र च धूमपाननलिकामानं वक्ष्यमाणकासहरधूमनलिकामानसमानमिच्छन्ति, हिक्काश्वासयोरपि काससमानत्वात्| मधूच्छिष्टं सिक्थकम्| मल्लकसम्पुटे चात्रानुक्तमपि पातव्यधूमनिर्गमार्थमूर्ध्वं च्छिद्रं कर्तव्यम्| पद्मकादिष्वपि मल्लकेत्याद्यनुवर्तते| वर्धमान एरण्डः| लोहः अगरुः| शल्लकी स्वनामख्याता||७७-८०||
स्वरक्षीणातिसारासृक्पित्तदाहानुबन्धजान्|
मधुरस्निग्धशीताद्यैर्हिक्काश्वासानुपाचरेत्||८१||
शीताद्यैरित्यादिशब्देन पित्तहरपिच्छिलादिग्रहणम्||८१||
न स्वेद्याः पित्तदाहार्ता रक्तस्वेदातिवर्तिनः|
क्षीणधातुबला रूक्षा गर्भिण्यश्चापि पित्तलाः||८२||
कोष्णैः काममुरःकण्ठं स्नेहसेकैः सशर्करैः|
उत्कारिकोपनाहैश्च स्वेदयेन् मृदुभिः क्षणम्||८३||
तिलोमामाषगोधूमचूर्णैर्वातहरैः सह|
स्नेहैश्चोत्कारिका साम्लैः सक्षीरैर्वा कृता हिता||८४||
नवज्वरामदोषेषु रूक्षस्वेदं विलङ्घनम्|
समीक्ष्योल्लेखनं वाऽपि कारयेल्लवणाम्बुना||८५||
अतियोगोद्धतं वातं दृष्ट्वा वातहरैर्भिषक्|
रसाद्यैर्नातिशीतोष्णैरभ्यङ्गैश्च शमं नयेत्||८६||
उदावर्ते तथाऽऽध्माने मातुलुङ्गाम्लवेतसैः|
हिङ्गुपीलुबिडैश्चान्नं युक्तं स्यादनुलोमनम्||८७||
पित्तदाहार्ता इति पित्तार्ता दाहार्ताश्च| रक्तं स्वेदश्चातिवर्तमानौ येषां ते रक्तस्वेदातिवर्तिनः| पित्तलाः पित्तप्रकृतयः| कोष्णैरित्यादिना स्वेद्यानां स्थानविशिष्टं स्वेदमाह| काममिति इच्छायां सत्याम्, उत्कारिकोपनाहैः स्वेदयेत्| उल्लेखनं वमनम्| अतियोगोद्धतमिति वमनाद्यतियोगवृद्धं; किंवा अतियोगेन अतिमात्रोद्धतम्||८२-८७||
हिक्काश्वासामयी ह्येको बलवान् दुर्बलोऽपरः|
कफाधिकस्तथैवैको रूक्षो बह्वनिलोऽपरः||८८||
ककाधिके बलस्थे च वमनं सविरेचनम्|
कुर्यात् पथ्याशिने धूमलेहादिशमनं ततः||८९||
वातिकान् दुर्बलान् बालान् वृद्धांश्चानिलसूदनैः|
तर्पयेदेव शमनैः स्नेहयूषरसादिभिः||९०||
चिकित्साभेदार्थं हिक्काश्वासिनोऽवस्थाभेदमाह- हिक्केत्यादि| एताश्चतस्रोऽवस्थाः साक्षादुक्ताः- बलवान्, दुर्बलः, वाताधिकः, कफाधिकश्चेति; रूक्षबह्वनिलविशेषणेनापि रूक्षस्निग्धावस्थाद्वयम्| तत्र बहुकफे बलरूपसूचिते चावस्थाद्वये क्रियां ब्रूते- कफाधिके इत्यादि| तत इति वमनविरेचनानन्तरम्| तथा चापरेऽवस्थाद्वये समानचिकित्सितमाह- वातिकानित्यादि| बालवृद्धयोश्चात्रासम्पूर्णक्षीणधातुत्वेन दुर्बलयोर्दुर्बलोदाहरणार्थमेवोपादानम्| एतच्च सङ्क्षेपेण चिकित्सासूत्रमुक्तम्| तेन बलवान् वाताधिक इत्याद्यवस्थायां मिश्रितायामुक्तचिकित्साया अपि मिश्रणं कल्पनीयं; यथा- प्रत्येकदोषोक्तचिकित्सा दोषसंसर्गे विकल्प्यते||८८-९०||
अनुत्क्लिष्टकफास्विन्नदुर्बलानां विशोधनात्|
वायुर्लब्धास्पदो मर्म संशोष्याशु हरेदसून्||९१||
दृढान् बहुकफांस्तस्माद्रसैरानूपवारिजैः|
तृप्तान्विशोधयेत्स्विन्नान् बृंहयेदितरान् भिषक्||९२||
बर्हितित्तिरिदक्षाश्च जाङ्गलाश्च मृगद्विजाः|
दशमूलीरसे सिद्धाः कौलत्थे वा रसे हिताः||९३||
अविषयप्रविष्टशोधने दोषमाह- अनुत्क्लिष्टेत्यादिना| मर्म इति हृदयादीनि| दृढानिति बलवतः| रसैरानूपवारिजैस्तृप्तानित्यनेन कफोत्क्लेशकरणे तृप्तिं दर्शयति| स्विन्नानिति स्वेदितान्| इतरानिति दुर्बलान् बहुवातांश्च| कफाधिकायामवस्थायां तर्पणरूपविपरीतक्रियाकरणेऽनुक्तेऽपि कफवृद्ध्या दोषोत्क्लेश एव ज्ञेयः| इह दशमूलरसादौ बर्हितित्तिरादीनां सिद्धिः रसविधानेनैव ज्ञेया||९१-९३||
निदिग्धिकां बिल्वमध्यं कर्कटाख्यां दुरालभाम्|
त्रिकण्टकं गुडूचीं च कुलत्थांश्च सचित्रकान्||९४||
जले पक्त्वा रसः पूतः पिप्पलीघृतभर्जितः|
सनागरः सलवणः स्याद्यूषो भोजने हितः||९५||
रास्नां बलां पञ्चमूलं ह्रस्वं मुद्गान् सचित्रकान्|
पक्त्वाऽम्भसि रसे तस्मिन् यूषः साध्यश्च पूर्ववत्||९६||
पल्लवान्मातुलुङ्गस्य निम्बस्य कुलकस्य च|
पक्त्वा मुद्गांश्च सव्योषान् क्षारयूषं विपाचयेत्||९७||
दत्त्वा सलवणं क्षारं शिग्रूणि मरिचानि च|
युक्त्या संसाधितो यूषो हिक्काश्वासविकारनुत्||९८||
कासमर्दकपत्राणां यूषः शोभाञ्जनस्य च|
शुष्कमूलकयूषश्च हिक्काश्वासनिवारणः||९९||
सदधिव्योषसर्पिष्को यूषो वार्ताकजो हितः|
शालिषष्टिकगोधूमयवान्नान्यनवानि च||१००||
हिङ्गुसौवर्चलाजाजीबिडपौष्करचित्रकैः|
सिद्धा कर्कटशृङ्ग्या च यवागूः श्वासहिक्किनाम्||१०१||
दशमूलीशटीरास्नापिप्पलीमूलपौष्करैः|
शृङ्गीतामलकीभार्गीगुडूचीनागराम्बुभिः||१०२||
यवागूं विधिना सिद्धां कषायं वा पिबेन्नरः|
कासहृद्ग्रहपार्श्वार्तिहिक्काश्वासप्रशान्तये||१०३||
पुष्कराह्वशटीव्योषमातुलुङ्गाम्लवेतसैः|
योजयेदन्नपानानि ससर्पिर्बिडहिङ्गुभिः||१०४||
निदिग्धिकामित्यादि| यूषविधानसामान्यपठितस्यापि कुलत्थस्य यूषप्रकृतित्वाद्यूषसाधनोपयौगिकं मानं गृह्यते; शेषद्रव्यं तु यूषसाधनमानेन गृह्यते| पिप्पलीसाधिते घृते पिप्पलीयुक्ते घृते वा भर्जित इति पिप्पलीघृतभर्जितः| एवं रास्नामित्यादौ रसस्य प्राधान्यम्| पूर्ववदित्यनेन पिप्पलीघृतभर्जनादिकमतिदिशति| क्षारेण युक्तो यूषः क्षारयूषः, क्षारः अपामार्गादिः| कासमर्दादीनां यथायोग्यतया प्रक्षेपः| जलमानादिना संस्कार उन्नेयः| दशमूलीत्यादौ कषायशब्दः पानीयस्थानविहितत्वादर्धशृते जले एव वर्तते||९४-१०४||
दशमूलस्य वा क्वाथमथवा देवदारुणः|
तृषितो मदिरां वाऽपि हिक्काश्वासी पिबेन्नरः||१०५||
पाठां मधुरसां रास्नां सरलं देवदारु च|
प्रक्षाल्य जर्जरीकृत्य सुरामण्डे निधापयेत्||१०६||
तं मन्दलवणं कृत्वा भिषक् प्रसृतसम्मितम्|
पाययेत्तु ततो हिक्का श्वासश्चैवोपशाम्यति||१०७||
हिङ्गु सौवर्चलं कोलं समङ्गां पिप्पलीं बलाम्|
मातुलुङ्गरसे पिष्टमारनालेन वा पिबेत्||१०८||
सौवर्चलं नागरं च भार्गीं द्विशर्करायुतम्|
उष्णाम्बुना पिबेदेतद्धिक्काश्वासविकारनुत्||१०९||
भार्गीनागरयोः कल्कं मरिचक्षारयोस्तथा|
पीतद्रुचित्रकास्फोतामूर्वाणां चाम्बुना पिबेत्||११०||
मधूलिका तुगाक्षीरी नागरं पिप्पली तथा|
उत्कारिका घृते सिद्धा श्वासे पित्तानुबन्धजे||१११||
श्वाविधं शशमांसं च शल्लकस्य च शोणितम्|
पिप्पलीघृतसिद्धानि श्वासे वातानुबन्धजे||११२||
सुवर्चलारसो दुग्धं घृतं त्रिकटुकान्वितम्|
शाल्योदनस्यानुपानं वातपित्तानुगे हितम्||११३||
शिरीषपुष्पस्वरसः सप्तपर्णस्य वा पुनः|
पिप्पलीमधुसंयुक्तः कफपित्तानुगे मतः||११४||
मधुकं पिप्पलीमूलं गुडो गोश्वशकृद्रसः [५] |
घृतं क्षौद्रं कासश्वासहिक्काभिष्यन्दिनां शुभम्||११५||
खराश्वोष्ट्रवराहाणां मेषस्य च गजस्य च|
शकृद्रसं बहुकफे चैकैकं मधुना पिबेत्||११६||
क्षारं चाप्यश्वगन्धाया लिह्यान्ना क्षौद्रसर्पिषा|
मयूरपादनालं वा शकलं शल्लकस्य वा||११७||
श्वाविज्जाण्डकचाषाणां [६] रोमाणि कुररस्य वा|
शृङ्ग्येकद्विशफानां [७] वा चर्मास्थीनि खुरांस्तथा||११८||
सर्वाण्येकैकशो वाऽपि दग्ध्वा क्षौद्रघृतान्वितम्|
चूर्णं लीढ्वा जयेत् कासं हिक्कां श्वासं च दारुणम्||११९||
एते हि कफसंरुद्धगतिप्राणप्रकोपजाः [८] |
तस्मात्तन्मार्गशुद्ध्यर्थं देया लेहा न निष्कफे||१२०||
आस्फोता अपरमल्लिकेति ख्याता| मधूलिका अल्पगोधूमाः| श्वाविधमिति शल्लकस्य मांसम्| मयूरपादनालमिति नालं मयूरपिच्छस्यैव नालम्| घृतमत्र प्रस्थमानम्| शकलमिति मत्स्यशकलाकारम्| जाण्डकः मरुदेशोद्भवः प्राणी पृष्ठमात्रे सङ्कोचमुपयाति| एकोऽद्विविधाभिन्नः शफो येषां ते एकशफा अश्वादयः, द्विशफा हरिणादयः| तन्मार्गशुद्ध्यर्थमिति प्राणमार्गशुद्ध्यर्थम्||१०५-१२०||
कासिने च्छर्दनं दद्यात् स्वरभङ्गे च बुद्धिमान्|
वातश्लेष्महरैर्युक्तं तमके तु विरेचनम्||१२१||
उदीर्यते भृशतरं मार्गरोधाद्वहज्जलम्|
यथा तथाऽनिलस्तस्य मार्गं नित्यं विशोधयेत्||१२२||
कासिन इति हिक्काश्वासयुक्त एव कासी| उदीर्यत इत्यादौ अनिलः कफमार्गनिरोधादुदीर्यत इति दर्शयति||१२१-१२२||
शटीचोरकजीवन्तीत्वङ्मुस्तं पुष्कराह्वयम्|
सुरसं तामलक्येला पिप्पल्यगुरु नागरम्||१२३||
वालकं च समं चूर्णं कृत्वाऽष्टगुणशर्करम्|
सर्वथा तमके श्वासे हिक्कायां च प्रयोजयेत्||१२४||
शटीत्यादिके समं चूर्णमिति वालकान्तं द्रव्यं समम्| अष्टगुणशर्करमिति एकभागापेक्षयाऽष्टगुणशर्करम्| सर्वथेति पानभोजनलेहादिषु||१२३-१२४||
मुक्ताप्रवालवैदूर्यशङ्खस्फटिकमञ्जनम्|
ससारगन्धकाचार्कसूक्ष्मैलालवणद्वयम् [९] ||१२५||
ताम्रायोरजसी रूप्यं ससौगन्धिकसीसकम् [१०] |
जातीफलं शणाद्बीजमपामार्गस्य तण्डुलाः||१२६||
एषां पाणितलं चूर्णं तुल्यानां क्षौद्रसर्पिषा|
हिक्कां श्वासं च कासं च लीढमाशु नियच्छति||१२७||
अञ्जनात्तिमिरं काचं नीलिकां पुष्पकं तमः|
मल्यं [११] कण्डूमभिष्यन्दमर्म चैव प्रणाशयेत्||१२८||
इति मुक्ताद्यं चूर्णम्|
मुक्तेत्यादौ ससारः स्फटिक एव| लवणद्वयं सौवर्चलं सैन्धवं च| सौगन्ध्यं माणिक्यभेदः| सीसकं सौवीराञ्जनं, केचित् कसेरुकमिषन्नीलपीतमणिमाहुः| पाणितलं कर्षः| मल्यमिति मलदिग्धाक्षिताम्||१२५-१२८||
शटीपुष्करमूलानां चूर्णमामलकस्य च|
मधुना संयुतं लेह्यं चूर्णं वा काललोहजम्||१२९||
सशर्करां तामलकीं द्राक्षां गोश्वशकृद्रसम्|
तुल्यं गुडं नागरं च प्राशयेन्नावयेत्तथा||१३०||
लशुनस्य पलाण्डोर्वा मूलं गृञ्जनकस्य वा|
नावयेच्चन्दनं वाऽपि नारीक्षीरेण संयुतम्||१३१||
सुखोष्णं घृतमण्डं वा सैन्धवेनावचूर्णितम्|
नावयेन्माक्षिकीं विष्ठामलक्तकरसेन वा||१३२||
नारीक्षीरेण सिद्धं वा सर्पिर्मधुरकैरपि|
पीतं नस्तो निषिक्तं वा सद्यो हिक्कां नियच्छति||१३३||
सकृदुष्णं सकृच्छीतं व्यत्यासाद्धिक्किनां पयः|
पाने नस्तःक्रियायां वा शर्करामधुसंयुतम्||१३४||
काललोहो लोह एव, केचित्तीक्ष्णं लोहं वर्णयन्ति| गृञ्जनकं लोहितपलाण्डुः| माक्षिकीमिति मक्षिकाभवाम्| मधुरकैरिति जीवनीयैः| सकृदिति कदाचित्| व्यत्यासादिति विपर्यासात्; उष्णं पयः कृत्वा शीतं कर्तव्यम्| मधुसंयोगश्चात्र विरुद्धत्वादुष्णे न कर्तव्यः||१२९-१३४||
अधोभागैर्घृतं सिद्धं सद्यो हिक्कां नियच्छति|
पिप्पलीमधुयुक्तौ वा रसौ धात्रीकपित्थयोः||१३५||
लाजालाक्षामधुद्राक्षापिप्पल्यश्वशकृद्रसान्|
लिह्यात् कोलमधुद्राक्षापिप्पलीनागराणि वा||१३६||
शीताम्बुसेकः सहसा त्रासो विस्मापनं भयम्|
क्रोधहर्षप्रियोद्वेगा हिक्काप्रच्यावना मताः||१३७||
हिक्काश्वासविकाराणां निदानं यत् प्रकीर्तितम्|
वर्ज्यमारोग्यकामैस्तद्धिक्काश्वासविकारिभिः||१३८||
हिक्काश्वासानुबन्धा [१२] ये शुष्कोरःकण्ठतालुकाः|
प्रकृत्या रूक्षदेहाश्च सर्पिर्भिस्तानुपाचरेत्||१३९||
दशमूलरसे सर्पिर्दधिमण्डे च साधयेत्|
कृष्णासौवर्चलक्षारवयःस्थाहिङ्गुचोरकैः||१४०||
कायस्थया च तत् पानाद्धिक्काश्वासौ प्रणाशयेत्|१४१|
अधोभागैरिति विरेचनद्रव्यैः| दशमूलीत्यादौ दधिमण्डः मस्तुः| दशमूलक्वाथदधिमण्डानां च मिलित्वा चातुर्गुण्यम्| वयस्था ब्राह्मी| कायस्था सुरसा||१३५-१४०||-
तेजोवत्यभया कुष्ठं पिप्पली कटुरोहिणी||१४१||
भूतीकं पौष्करं मूलं पलाशश्चित्रकः शटी|
सौवर्चलं तामलकी सैन्धवं बिल्वपेशिका||१४२||
तालीसपत्रं जीवन्ती वचा तैरक्षसम्मितैः|
हिङ्गुपादैर्घृतप्रस्थं पचेत्तोये चतुर्गुणे||१४३||
एतद्यथाबलं पीत्वा हिक्काश्वासौ जयेन्नरः|
शोथानिलार्शोग्रहणीहृत्पार्श्वरुज [१३] एव च||१४४||
इति तेजोवत्यादिघृतम्|
तेजोवत्यादौ तेजोवती चविका| हिङ्गुपादैरित्यत्र हिङ्गुपादशब्देन हिङ्गु एककर्षापेक्षया शाणमानं गृह्यते| तथाहि अयमेव योगो हारीतेन “तेजोवती” इत्यादिना पठित्वा उक्तः- “कल्कैस्तैरक्षसम्मितैः| हिङ्गुशाणेन संयुक्तैर्घृतप्रस्थं विपाचयेत्” इत्यादि||१४१-१४४||
मनःशिलासर्जरसलाक्षारजनिपद्मकैः|
मञ्जिष्ठैलैश्च कर्षांशैः प्रस्थः सिद्धो घृताद्धितः||१४५||
जीवनीयोपसिद्धं वा सक्षौद्रं लेहयेद्धृतम्|
त्र्यूषणं दाधिकं वाऽपि पिबेद्वासाघृतं तथा||१४६||
इति मनःशिलादिघृतम्|
वासाघृतमिति गुल्मोक्तम्| त्र्यूषणमिति “त्र्यूषणं त्रिफलां” (चि.अ.१८) इत्यादिना त्र्यूषणसञ्ज्ञयैव कासचिकित्सिते वक्ष्यमाणम्||१४५-१४६||
यत्किञ्चित् कफवातघ्नमुष्णं वातानुलोमनम्|
भेषजं पानमत्रं वा तद्धितं श्वासहिक्किने||१४७||
वातकृद्वा कफहरं कफकृद्वाऽनिलापहम्|
कार्यं नैकान्तिकं ताभ्यां प्रायः श्रेयोऽनिलापहम्||१४८||
सर्वेषां बृंहणे ह्यल्पः शक्यश्च प्रायशो भवेत्|
नात्यर्थं [१४] शमनेऽपायो भृशोऽशक्यश्च कर्शने||१४९||
तस्माच्छुद्धानशुद्धांश्च शमनैर्बृंहणैरपि|
हिक्काश्वासार्दिताञ्जन्तून् प्रायशः समुपाचरेत्||१५०||
अनुक्तचिकित्सापक्षग्रहणार्थमाह- यत्किञ्चिदित्यादि| अनैकान्तिकं कर्तव्यविधिमाह- वातकृदित्यादि| अत्र हिक्काश्वासयोश्चिकित्सिते विधित्रयं- तत्र तावत् कफवातहरं प्रधानमेवोक्तं, यत्तु अवशिष्टं तत्र दोषस्य विद्यमानतया अनैकान्तेन करणं ज्ञेयम्, एवमुक्तेऽपि अनैकान्तेन चिकित्साद्वयकरणे वातहरस्यैव प्राधान्यं ज्ञेयम्| ताभ्यामित्यादि| अनिलापहं च बृंहणं समानं भवति| तत्रोपपत्तिमाह- सर्वेषामित्यादिना| गदान्तरानपि ज्वरादीन् हिक्काश्वासवद्बृंहणार्हानाह- बृंहणे क्रियमाणे ह्यल्पोऽपायो भवति; शक्यः प्रतीकारो भवति, बृंहणजनितबलानां सुखजयव्यापत्तिकत्वादिति भावः| शमने तु नात्यर्थमपायो भवति| कर्शने तु क्रियमाणेऽशक्योऽपायो भवति भृशश्च भवति| अशक्य इति असाध्यः| एतदपि कर्शनेन अल्पबले पुरुषे भेषजादिना रोगजयस्य दुःशकत्वादिति ज्ञेयम्| अत एव शमनैर्बृहणैरिति उपसंहारं करिष्यति| किंवा बृंहणरूपे शमने क्रियमाणे नावश्यमपायो भवति, भवन्नपि अल्पः शक्यश्च भवति, कर्शने तु क्रियमाणे अपायो भवतीति योज्यम्| न्यायोपपादितं बृंहणशमनं बृंहणं वा प्रायः कर्तव्यतयोपसंहरन्नाह- तस्मादित्यादि| अत्र शमनमशुद्धविषयं, बृंहणं च शुद्धविषयं केचिदाहुः; शमनस्यैव तु बृंहणत्वं केचिदुदाहरन्ति||१४७-१५०||
तत्र श्लोकः-
दुर्जयत्वे समुत्पत्तौ क्रियैकत्वे च कारणम्|
लिङ्गं पथ्यं च हिक्कानां श्वासानां चेह दर्शितम्||१५१||
दुर्जय इत्यादिकोऽध्यायार्थसङ्ग्रहो व्यक्तः||१५१||
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरिते चिकित्सास्थाने हिक्काश्वासचिकित्सितं नाम सप्तदशोऽध्यायः||१७||
इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां चिकित्सास्थाने हिक्काश्वासचिकित्सितं नाम सप्तदशोऽध्यायः||१७||
१. ‘अव्यक्तजल्पस्य अव्यक्तानर्थकप्रलापस्य’ इति गङ्गाधरः|
२. ‘प्रवृत्ते तु यश्चाधः श्वासरोधभाक्’ इति पा.|
३. ‘मुहुश्चावधम्यते गजारूढ इव शरीरचालनवान् भवति’ इति गङ्गाधरः|
४. ‘विटपः सम्मताल्लतादिभिराच्छादिते मध्यशून्ये पर्वतादेः स्थानभेदे’ इति शब्दस्तोममहानिधौ|
५. ‘गोशकृतो रसः’ इति पा.|
६. ‘श्वाविद्रोहकचाषाणां’ इति, ‘श्वाविज्जाहकचाषाणां’ इति च पा.|
७. ‘एकद्विशफशृग्गाणि’ इति पा.|
८. ‘…प्राणप्रकोपहाः’ इति पा.|
९. ‘सक्षारगन्धकाचार्क…’ इति, ‘सक्षारगन्धकाचानि’ इति च पा.|
१०. ‘सौगन्धिककसेरुकम्’ इति पा.|
११. ‘पिल्लं’ इति पा.|
१२. ‘शुष्कक्षीणकफोरस्काहिक्काश्वासानुबन्धिनः’ इति पा.|
१३. ‘…शाखानिलार्शो’ इति पा.|
१४. ‘नावश्यं’ इति पा.|
Moolashloka with Chakrapani Commentary

Pathantara/Pathabheda

Diacritic Version
||maharṣiṇā punarvasunōpadiṣṭā, tacchiṣyēṇāgnivēśēna praṇītā, carakadr̥ḍhabalābhyāṁ pratisaṁskr̥tā||
||śrīcakrapāṇidattaviracitayā āyurvēdadīpikāvyākhyayā sahitā||
cikitsāsthānam - 17. hikkāśvāsacikitsitam
athātō hikkāśvāsacikitsitaṁ vyākhyāsyāmaḥ||1||
iti ha smāha bhagavānātrēyaḥ||2||
pāṇḍurōgakāraṇatvāddhikkāśvāsayōḥ pāṇḍurōgānantaramabhidhānam| vakṣyati hi- “pāṇḍurōgādviṣāccaiva pravartētē gadāvimau” iti| hikkāśvāsau ca samānakāraṇacikitsitatvādēkādhyāyē ēvōktau||1-2||
vēdalōkārthatattvajñamātrēyamr̥ṣimuttamam|
apr̥cchat saṁśayaṁ dhīmānagnivēśaḥ kr̥tāñjaliḥ||3||
ya imē dvividhāḥ prōktāstridōṣāstriprakōpaṇāḥ|
rōgā nānātmakāstēṣāṁ kaskō bhavati durjayaḥ||4||
agnivēśasya tadvākyaṁ śrutvā matimatāṁ varaḥ|
uvāca paramaprītaḥ paramārthaviniścayam||5||
kāmaṁ prāṇaharā rōgā bahavō na tu tē tathā|
yathā śvāsaśca hikkā ca prāṇānāśu nikr̥ntataḥ||6||
anyairapyupasr̥ṣṭasya rōgairjantōḥ pr̥thagvidhaiḥ|
antē sañjāyatē hikkā śvāsō vā tīvravēdanaḥ||7||
vaidikaṁ laukikaṁ ca arthatattvaṁ jānātīti vēdalōkārthatattvajñaḥ| dvividhā iti sāmānyāsāmānyabhēdēna; kiṁvā mr̥dudāruṇabhēdēna, nijānijabhēdēna ca| tridōṣā iti vātādibhiḥ pr̥thaṅmilitairvā| triprakōpaṇā iti asātmyēndriyārthasaṁyōgapariṇāmaprajñāparādhakāraṇakāḥ| kāmamiti anumatau| bahava iti jvara-śaṅkhaka-rōhiṇyādayaḥ| yathā śvāsaśca hikkā cētyanēna śīghraṁ prāṇahāritvaṁ hikkāśvāsayōrdarśayati| antē iti maraṇasamayē| sañjāyatē iti avaśyaṁ hikkāśvāsayōranyatarō jāyatē||3-7||
kaphavātātmakāvētau pittasthānasamudbhavau|
hr̥dayasya rasādīnāṁ dhātūnāṁ cōpaśōṣaṇau||8||
tasmāt sādhāraṇāvētau matau paramadurjayau|
mithyōpacaritau kruddhau hata āśīviṣāviva||9||
pittasthānasamudbhavāvityanēna pittasyōrdhvasthānasambandha ēva, natu vātakaphavadārambhakatvamiti darśayati; pittasthānaśabdēnāmāśayō’bhiprētaḥ| sādhāraṇāviti prāyastulyacikitsyatvāt| āśīviṣāviva dr̥ṣṭiniḥśvāsaviṣasarpāviva| mithyōparitō’nyō’pi rōgō hanti, tadihāśīviṣadr̥ṣṭāntēna mithyōpacārē sati śīghrahantr̥tvamāha||8-9||
pr̥thak pañcavidhāvētau nirdiṣṭau rōgasaṅgrahē|
tayōḥ śr̥ṇu samutthānaṁ liṅgaṁ ca sabhiṣagjitam||10||
rajasā dhūmavātābhyāṁ śītasthānāmbusēvanāt|
vyāyāmādgrāmyadharmādhvarūkṣānnaviṣamāśanāt||11||
āmapradōṣādānāhādraukṣyādatyapatarpaṇāt|
daurbalyānmarmaṇō ghātāddvandvācchuddhyatiyōgataḥ||12||
atīsārajvaracchardipratiśyāyakṣatakṣayāt|
raktapittādudāvartādvisūcyalasakādapi||13||
pāṇḍurōgādviṣāccaiva pravartētē gadāvimau|
niṣpāvamāṣapiṇyākatilatailaniṣēvaṇāt||14||
piṣṭaśālūkaviṣṭambhividāhigurubhōjanāt|
jalajānūpapiśitadadhyāmakṣīrasēvanāt||15||
abhiṣyandyupacārācca ślēṣmalānāṁ ca sēvanāt|
kaṇṭhōrasaḥ pratīghātādvibandhaiśca pr̥thagvidhaiḥ||16||
pr̥thagiti pratyēkaṁ pañcavidhau| rōgasaṅgrahē iti aṣṭōdarīyē| atra ca rajasētyādinā prāyō vātaprakōpakagaṇō vicchidyōktaḥ pravartēti gadāvimāvityantēna, niṣpāvētyādinā kaphakāraṇatayā hikkāśvāsayōḥ kaphaprakōpakahētugaṇō’bhihitaḥ; tadanēna vātajanakakaphajanakahētuvargadvayavicchēdapāṭhēna vātakaphayōratra svahētukupitatvēna svātantryaṁ darśayati, nānubandharūpatvam||10-16||
mārutaḥ prāṇavāhīni srōtāṁsyāviśya kupyati|
uraḥsthaḥ kaphamuddhūya hikkāśvāsān karōti saḥ||17||
ghōrān prāṇōparōdhāya prāṇināṁ pañca pañca ca|18|
mārutaḥ prāṇavāhīnityādinā samptāptimāha| iyaṁ hikkāśvāsayōḥ sādhāraṇī samprāptiḥ, vaiśēṣikīṁ cāgrē vakṣyati| prāṇōparōdhāyēti prāyaḥ prāṇaharaṇāyēti prāyaḥ prāṇaharaṇāyētyarthaḥ| pañca pañca cēti hikkāḥ paśca, śvāsāḥ pañca, ityarthaḥ||17||-
ubhayōḥ pūrvarūpāṇi śr̥ṇu vakṣyāmyataḥ param||18||
kaṇṭhōrasōrgurutvaṁ ca vadanasya kaṣāyatā|
hikkānāṁ pūrvarūpāṇi kukṣērāṭōpa ēva ca||19||
ānāhaḥ pārśvaśūlaṁ ca pīḍanaṁ hr̥dayasya ca|
prāṇasya ca vilōmatvaṁ śvāsānāṁ pūrvalakṣaṇam||20||
lakṣaṇagrahaṇagr̥hītaṁ pūrvarūpaṁ hikkānāṁ ‘kaṇṭhōrasōḥ’ ityādinā, śvāsānām ‘ānāhaḥ’ ityādinā”ha| vilōmatvamiti paryākulatvam||18-20||
prāṇōdakānnavāhīni srōtāṁsi sakaphō’nilaḥ|
hikkāḥ karōti saṁrudhya tāsāṁ liṅgaṁ pr̥thak śr̥ṇu||21||
kṣīṇamāṁsabalaprāṇatējasaḥ sakaphō’nilaḥ|
gr̥hītvā sahasā kaṇṭhamuccairghōṣavatīṁ bhr̥śam||22||
karōti satataṁ hikkāmēkadvitriguṇaṁ tathā|
prāṇaḥ srōtāṁsi marmāṇi saṁrudhyōṣmāṇamēva ca||23||
sañjñāṁ muṣṇāti gātrāṇāṁ stambhaṁ sañjanayatyapi|
mārgaṁ caivānnapānānāṁ ruṇaddhyupahatasmr̥tēḥ||24||
sāśruviplutanētrasya stabdhaśaṅkhacyutabhruvaḥ|
saktajalpapralāpasya nirvr̥tiṁ nādhigacchataḥ||25||
mahāmūlā mahāvēgā mahāśabdā mahābalā|
mahāhikkēti sā nr̥̄ṇāṁ sadyaḥ prāṇaharā matā||26||
iti mahāhikkā|
prāṇōdakētyādinā viśiṣṭahikkāsamprāptimāha| kṣīṇamāṁsabalaprāṇatējasa iti atra prāṇō vāyuḥ, utsāhō vā; tējō’gniḥ| uccairgr̥hītvā ghōṣavatīmiti yōjyam| dvisantatāṁ trisantatāmanēkaguṇāṁ vā karōti; tatra dvisantatā ēkōpakramē vāradvayaṁ bhavati| saṁrudhyōṣmāṇamiti dēhōṣmāṇam| saṁsaktavacanatayā [1] pralāpō yasya sa saktajalpapralāpaḥ| mahāmūlēti gambhīrāśrayadōṣamūlā| mahāśabdatvaṁ ca uccairghōṣavatīmityanēnaivōktamapi mahāhikkāsañjñōpādānārthamiha punaruktaṁ, tēna ‘mahāhikkā’ iti sañjñā||21-26||
hikkatē yaḥ pravr̥ddhastu kr̥śō dīnamanā naraḥ|
jarjarēṇōrasā kr̥cchraṁ gambhīramanunādayan||27||
sañjr̥mbhan saṅkṣipaṁścaiva tathā’ṅgāni prasārayan|
pārśvē cōbhē samāyamya kūjan stambharugarditaḥ||28||
nābhēḥ pakvāśayādvā’pi hikkā cāsyōpajāyatē|
kṣōbhayantī bhr̥śaṁ dēhaṁ nāmayantīva tāmyataḥ||29||
ruṇaddhyucchvāsamārgaṁ tu pranaṣṭabalacētasaḥ|
gambhīrā nāma sā tasya hikkā prāṇāntikī matā||30||
iti gambhīrā hikkā|
tatra higiti kāyati śabdaṁ karōtīti hikkā| gambhīramanunādayanniti hikkāyā anu gambhīraṁ śabdaṁ kurvan| saṅkṣipannaṅgānīti yōjyam| gambhīradēśabhavatvād ‘gambhīrā’ iti sañjñā||27-30||
vyapētā jāyatē hikkā yā’nnapānē caturvidhē|
āhārapariṇāmāntē bhūyaśca labhatē balam||31||
pralāpavamyatīsāratr̥ṣṇārtasya vicētasaḥ|
jr̥mbhiṇō viplutākṣasya śuṣkāsyasya vināminaḥ||32||
paryādhmātasya hikkā yā jatrumūlādasantatā|
sā vyapētēti vijñēyā hikkā prāṇōparōdhinī||33||
iti vyapētā hikkā|
vyapētā pariṇatētyarthaḥ| āhārapariṇāmāntē iti āhārapariṇāmē vr̥ttē; ētēnāhārē’pi utpadyatē, antē balavatī bhavati tāṁ ‘vyapētā’ iti sañjñayā darśayati| vināmina iti śarīravināmakasya| asantatēti anatidīrghā||31-33||
kṣudravātō yadā kōṣṭhādvyāyāmaparighaṭṭitaḥ|
kaṇṭhē prapadyatē hikkāṁ tadā kṣudrāṁ karōti saḥ||34||
atiduḥkhā na sā cōraḥśirōmarmaprabādhinī|
na cōcchvāsānnapānānāṁ mārgamāvr̥tya tiṣṭhati||35||
vr̥ddhimāyasyatō yāti bhuktamātrē ca mārdavam|
yataḥ pravartatē pūrvaṁ tata ēva nivartatē||36||
hr̥dayaṁ klōma kaṇṭhaṁ ca tālukaṁ ca samāśritā|
mr̥dvī sā kṣudrahikkēti nr̥ṇāṁ sādhyā prakīrtitā||37||
iti kṣudrahikkā|
kṣudrētyādinā kṣudrahikkāmāha| kṣudravātaḥ alpavātaḥ; kēcit kṣudravātamudānamāhuḥ| āyasyata iti āyāsaṁ kurvataḥ mārdavaṁ yātīti sambandhaḥ| yataḥ pravartatē pūrvaṁ tata ēva nivartata iti utpadyamānaiva nivartamānavēgā bhavati; mahāhikkādivadanubaddhā na bhavati; utpādakahētōrvyāyāmādērēva nivartatē, vyāyāmādinā hikkājanakavātasya kṣudrasya vikṣēpāt samprāptibhaṅgēnēti bhāvaḥ| kṣudravātajanitātvāt kṣudrā hikkā||34-37||
sahasā’tyabhyavahr̥taiḥ pānānnaiḥ pīḍitō’nilaḥ|
ūrdhvaṁ prapadyatē kōṣṭhānmadyairvā’timadapradaiḥ||38||
tathā’tirōṣabhāṣyādhvahāsyabhārātivartanaiḥ|
vāyuḥ kōṣṭhagatō dhāvan pānabhōjyaprapīḍitaḥ||39||
uraḥsrōtaḥ samāviśya kuryāddhikkāṁ tatō’nnajām|
tathā śanairasambandhaṁ kṣuvaṁścāpi sa hikkatē||40||
na marmabādhājananī nēndriyāṇāṁ prabādhinī|
hikkā pītē tathā bhuktē śamaṁ yāti ca sā’nnajā||41||
ityannajā hikkā|
sahasētyādinā’nnajāmāha| iyaṁ ca yadyapi annajā uktā, tathā’pi dōṣādijanitaiva| pānabhōjyaprapīḍita ityanēnānnasya kāraṇatvēnōktatvādiyam ‘annajā’ itisañjñā||38-41||
atisañcitadōṣasya bhaktacchēdakr̥śasya ca|
vyādhibhiḥ kṣīṇadēhasya vr̥ddhasyātivyavāyinaḥ||42||
āsāṁ yā sā samutpannā hikkā hantyāśu jīvitam|
yamikā ca pralāpārtitr̥ṣṇāmōhasamanvitā||43||
akṣīṇaścāpyadīnaśca sthiradhātvindriyaśca yaḥ|
tasya sādhayituṁ śakyā yamikā hantyatō’nyathā||44||
atītyādinā sādhyāsādhyavibhāgamāha| atiśayēna sañcitā dōṣā yasya sa tathā| bhaktacchēdakr̥śasyēti abhōjanadurbalasya| āsāṁ pañcānāṁ yā hikkā atītyādinā prōktalakṣaṇasya puruṣasya bhavati sā jīvitaṁ hanti| yamikā cētyanēna kṣudrā annajā ca yā sādhyatvēnōktā sā yamalavēgēna jāyamānā yamikā jñēyā; pūrvōktānuvēgēna yā jāyamānā sā mahāhikkā, sā svarūpēṇaivāsādhyā, tasyā atītyādiyōgēnāsādhyatāvidhānamanarthakam| tathā mahatyādihikkānāṁ tisr̥̄ṇāmasampūrṇalakṣaṇānāṁ sādhyatvaṁ, kṣudrānnajayōstu sampūrṇalakṣaṇayōrapi sādhyatvaṁ, mahāhikkāditrayaṁ nisargata ēvāsādhyam| anyē tu bruvatē- mahāhikkādayō’pi kadācit sādhyā bhavantyēva, tatra prāṇāntikēti vacanaṁ prāyaḥ prāṇaharā ityabhiprāyēṇōktam| tathāhi jatūkarṇē- “ādyā duḥsādhyā, yamikā tr̥ṣṇāmōhavatāṁ sadyaḥprāṇahr̥t, gambhīrā vyapētē ca” ityuktam| akṣīṇa iti akṣīṇamāṁsaḥ||42-44||
yadā srōtāṁsi saṁrudhya mārutaḥ kaphapūrvakaḥ|
viṣvagvrajati saṁruddhastadā śvāsānkarōti saḥ||45||
yadētyādinā śvāsasamprāptimāha| srōtāṁsīti prakr̥tatvāt prāṇōdakavāhīni srōtāṁsi| kaphapūrvaka iti kaphapradhānaḥ| viṣvagvrajati sarvatō gacchati||45||
uddhūyamānavātō yaḥ śabdavahuḥkhitō naraḥ|
uccaiḥ śvasiti saṁruddhō mattarṣabha ivāniśam||46||
pranaṣṭajñānavijñānastathā vibhrāntalōcanaḥ|
vikr̥tākṣyānanō baddhamūtravarcā viśīrṇavāk||47||
dīnaḥ praśvasitaṁ cāsya dūrādvijñāyatē bhr̥śam|
mahāśvāsōpasr̥ṣṭaḥ sa kṣipramēva vipadyatē||48||
iti mahāśvāsaḥ|
uddhūyamānētyādinā mahāśvāsalakṣaṇamāha| uddhūyamāna iti ūrdhvaṁ dhūyamānavātaḥ| uccairiti dīrgham| mattarṣabhaḥ mattabalīvardaḥ| dīna iti dīnavat| ‘dīnaṁ praśvasitaṁ’ iti vā pāṭhaḥ; tadā hi praśvasitasya dīnatvē ‘dūrādvijñāyatē’ iti yadvakṣyati tadanupapannaṁ syāt||46-48||
dīrghaṁ śvasiti yastūrdhvaṁ na ca pratyāharatyadhaḥ|
ślēṣmāvr̥tamukhasrōtāḥ kruddhagandhavahārditaḥ||49||
ūrdhvadr̥ṣṭirvipaśyaṁśca vibhrāntākṣa itastataḥ|
pramuhyan vēdanārtaśca śuṣkāsyō’ratipīḍitaḥ||50||
ūrdhvaśvāsē prakupitē [2] hyadhaḥśvāsō nirudhyatē|
muhyatastāmyataścōrdhvaṁ śvāsastasyaiva hantyasūn||51||
ityūrdhvaśvāsaḥ|
dīrghamityādinōrdhvaśvāsamāha| dīrghaṁ śvasiti śvāsasya bahirnirgamanaṁ dīrghakālaṁ karōti| na ca pratyāharatyadha iti śvāsamadhō na nayati| kruddhagandhavahaḥ duṣṭavāyuḥ| śvāsasya dīrghakālamuddhūyanē adhō’nayanē cōktē hētumāha- ūrdhvaśvāsē ityādinā||49-51||
yastu śvasiti vicchinnaṁ sarvaprāṇēna pīḍitaḥ|
na vā śvasiti duḥkhārtō marmacchēdarugarditaḥ||52||
ānāhasvēdamūrcchārtō dahyamānēna bastinā|
viplutākṣaḥ parikṣīṇaḥ śvasan raktaikalōcanaḥ||53||
vicētāḥ pariśuṣkāsyō vivarṇaḥ pralapannaraḥ|
chinnaśvāsēna vicchinnaḥ sa śīghraṁ prajahātyasūn||54||
iti chinnaśvāsaḥ|
yastvityādinā chinnaśvāsalakṣaṇamāha| śvasiti vicchinnamiti niḥśvasya punaḥ kṣaṇāntēna śvasiti| na vā śvasiti na śvāsaṁ labhatē| marmacchēdarūpā ruk| bastinirōdhaḥ mūtranirōdha ityarthaḥ| raktaikalōcanatvamiha vyādhiprabhāvāt| vicchinnaḥ vimuktasandhibandhaḥ| ētē trayaḥ śvāsā nisargatō’sādhyāḥ||52-54||
pratilōmaṁ yadā vāyuḥ srōtāṁsi pratipadyatē|
grīvāṁ śiraśca saṅgr̥hya ślēṣmāṇaṁ samudīrya ca||55||
karōti pīnasaṁ tēna ruddhō ghurghurukaṁ tathā|
atīva tīvravēgaṁ ca śvāsaṁ prāṇaprapīḍakam||56||
pratāmyatyativēgācca kāsatē sannirudhyatē|
pramōhaṁ kāsamānaśca sa gacchati muhurmuhuḥ||57||
ślēṣmaṇyamucyamānē tu bhr̥śaṁ bhavati duḥkhitaḥ|
tasyaiva ca vimōkṣāntē muhūrtaṁ labhatē sukham||58||
athāsyōddhvaṁsatē kaṇṭhaḥ kr̥cchrācchaknōti bhāṣitum|
na cāpi nidrāṁ labhatē śayānaḥ śvāsapīḍitaḥ||59||
pārśvē tasyāvagr̥hṇāti śayānasya samīraṇaḥ|
āsīnō labhatē saukhyamuṣṇaṁ caivābhinandati||60||
ucchritākṣō lalāṭēna svidyatā bhr̥śamartimān|
viśuṣkāsyō muhuḥ śvāsō muhuścaivāvadhamyatē||61||
mēghāmbuśītaprāgvātaiḥ ślēṣmalaiścābhivardhatē|
sa yāpyastamakaśvāsaḥ sādhyō vā syānnavōtthitaḥ||62||
iti tamakaśvāsaḥ|
pratilōmamityādinā tamakaśvāsamāha| ślēṣmāṇaṁ samudīrya cētyanēna sāmānyasamprāptyuktasyāpi ślēṣmaṇaḥ punarabhidhānādiha viśēṣēṇa kāraṇatvaṁ darśayati| ghurghurukamiti kaṇṭhē ghurghurukaśabdam| sannirudhyatē iti niścēṣṭō bhavati| tasyaiva cēti ‘ślēṣmaṇaḥ’ iti śēṣaḥ| āsīna upaviṣṭaḥ| ucchritākṣa iti ucchūnākṣaḥ| muhuścaivāvadhamyatē iti kṣaṇaṁ [3] kṣaṇaṁ śvasanēna vāyunā’vadhamyatē||55-62||
jvaramūrcchāparītasya vidyāt pratamakaṁ tu tam|
udāvartarajō’jīrṇaklinnakāyanirōdhajaḥ||63||
tamasā vardhatē’tyarthaṁ śītaiścāśu praśāmyati|
majjatastamasīvā’sya vidyāt santamakaṁ tu tam||64||
iti pratamakasantamakaśvāsau|
pittasambandhājjvarādiyōgēna tamakasyaiva pratamakasañjñāṁ darśayannāha- jvarētyādi| udāvartētyādinā pratamakahētulakṣaṇē prāha| pratamaka ēva santamakaḥ| rajō dhūliḥ, kāyanirōdhō vēgānāṁ nirōdhaḥ; kiṁvā klinnakāyō vr̥ddhaḥ, nirōdhaḥ vēganirōdhaḥ| tamasēti andhakārēṇa, kiṁvā tamasā tamōguṇēna| yadyapi tamakasya śītēna vr̥ddhiruktā, tathā’pi pratamakasya pittasambandhatvāt ‘śītaiścāśu praśāmyati’ iti yaduktaṁ tadupapannaṁ bhavati; kiṁvā yathā madyōtthavikārasya madyaṁ praśamanaṁ bhavati, tathā śītasamutthasyāpi tadātvamātrē śītaiḥ praśamanaṁ jñēyam| pratamakastamakabhēda ēvēti kr̥tvā śvāsānāṁ pañcasaṅkhyāsiddhiḥ||63-64||
rūkṣāyāsōdbhavaḥ kōṣṭhē kṣudrō vāta udīrayan|
kṣudraśvāsō na sō’tyarthaṁ duḥkhēnāṅgaprabādhakaḥ||65||
hinasti na sa gātrāṇi na ca duḥkhō yathētarē|
na ca bhōjanapānānāṁ niruṇaddhyucitāṁ gatim||66||
nēndriyāṇāṁ vyathāṁ nāpi kāñcidāpādayēdrujam|
sa sādhya uktō balinaḥ sarvē cāvyaktalakṣaṇāḥ||67||
iti śvāsāḥ samuddiṣṭā hikkāścaiva svalakṣaṇaiḥ|68|
rūkṣētyādinā kṣudraśvāsamāha| rūkṣādāyāsācca udbhavō yasya sa rūkṣāyāsōdbhavaḥ| kṣudravāta iti svalpavātaḥ| na sō’tyarthamiti nātyarthaṁ duḥkhakaraḥ| na duḥkha iti na duḥkhasādhyaḥ| sarvē cāvyaktalakṣaṇā ityanēna sādhyatvēnōktānāṁ mahāśvāsādīnāṁ vyaktasarvalakṣaṇatāvyatiriktāyāmēvāvasthāyāṁ sādhyatāṁ pratipādayati||65-67||-
ēṣāṁ prāṇaharā varjyā ghōrāstē hyāśukāriṇaḥ||68||
bhēṣajaiḥ sādhyayāpyāṁstu kṣipraṁ bhiṣagupācarēt|
upēkṣitā dahēyurhi śuṣkaṁ kakṣamivānalaḥ||69||
prāṇaharā mahāśvāsādayaḥ sampūrṇalakṣaṇā varjyāḥ| sādhyayāpyāniti bahuvacanaṁ sādhyayāpyabhēdabahutvājjñēyam||68-69||
kāraṇasthānamūlaikyādēkamēva cikitsitam|
dvayōrapi yathādr̥ṣṭamr̥ṣibhistannibōdhata||70||
hikkāśvāsārditaṁ snigdhairādau svēdairupācarēt|
āktaṁ lavaṇatailēna nāḍīprastarasaṅkaraiḥ||71||
tairasya grathitaḥ ślēṣmā srōtaḥsvabhivilīyatē|
khāni mārdavamāyānti tatō vātānulōmatā||72||
yathā’drikuñjēṣvarkāṁśutaptaṁ viṣyandatē himam|
ślēṣmā taptaḥ sthirō dēhē svēdairviṣyandatē tathā||73||
svinnaṁ jñātvā tatastūrṇaṁ bhōjayēt snigdhamōdanam|
matsyānāṁ śūkarāṇāṁ vā rasairdadhyuttarēṇa vā||74||
tataḥ ślēṣmaṇi saṁvr̥ddhē vamanaṁ pāyayēttu tam|
pippalīsaindhavakṣaudrairyuktaṁ vātāvirōdhi yat||75||
nirhr̥tē sukhamāpnōti sa kaphē duṣṭavigrahē|
srōtaḥsu ca viśuddhēṣu caratyavihatō’nilaḥ||76||
samprati bhinnayōrapi hikkāśvāsayōryathā samānaṁ cikitsitaṁ bhavati tathā darśayan samānaṁ cikitsitamāha- kāraṇētyādi| kāraṇaṁ bāhyakāraṇaṁ, sthānaṁ nābhyādi, mūlaṁ dōṣaḥ| snigdhairiti svēdairityasya viśēṣaṇam; anyē tu snigdhamiti paṭhanti| lavaṇavattailaṁ lavaṇatailam| kuñjēṣviti viṭapēṣu [4] | matsyādīnāmityādau matsyādīnāmapi rasaḥ svarasaḥ kalkēna kartavyaḥ| dadhyuttaraṁ dadhisaraḥ| īdr̥śaṁ ca bhōjanaṁ vamanānuguṇakaphavr̥ddhyartham| uktaṁ hi- “ślēṣmōttaraśchardayati hyaduḥkham” (si.a.1) iti| vātāvirōdhītyanēna annaṁ rūkṣaṁ, tīkṣṇaṁ ca vamanaṁ, niṣēdhayati| duṣṭaḥ vigrahō yasya sa duṣṭavigrahaḥ||70-76||
līnaścēddōṣaśēṣaḥ syāddhūmaistaṁ nirharēdbudhaḥ|
haridrāṁ patramēraṇḍamūlaṁ lākṣāṁ manaḥśilām||77||
sadēvadārvalaṁ māṁsīṁ piṣṭvā vartiṁ prakalpayēt|
tāṁ ghr̥tāktāṁ pibēddhūmaṁ yavairvā ghr̥tasaṁyutaiḥ||87||
madhūcchiṣṭaṁ sarjarasaṁ ghr̥taṁ mallakasampuṭē|
kr̥tvā dhūmaṁ pibēcchr̥ṅgaṁ bālaṁ vā snāyu vā gavām||79||
syōnākavardhamānānāṁ nāḍīṁ śuṣkāṁ kuśasya vā|
padmakaṁ gugguluṁ lōhaṁ śallakīṁ vā ghr̥tāplutam||80||
vamanaśēṣadōṣaharaṇārthaṁ dhūmamāha- līna ityādinā| ētēna dhūmō vamanaṁ vinā’pi svalpadōṣē kartavya ēva, tatrāpi dhūmaviṣayadōṣasya vidyamānatvāt| alaṁ haritālam| dhūmavartistu tasyāśītīyōktadhūmavartividhānēna kartavyā| atra ca dhūmapānanalikāmānaṁ vakṣyamāṇakāsaharadhūmanalikāmānasamānamicchanti, hikkāśvāsayōrapi kāsasamānatvāt| madhūcchiṣṭaṁ sikthakam| mallakasampuṭē cātrānuktamapi pātavyadhūmanirgamārthamūrdhvaṁ cchidraṁ kartavyam| padmakādiṣvapi mallakētyādyanuvartatē| vardhamāna ēraṇḍaḥ| lōhaḥ agaruḥ| śallakī svanāmakhyātā||77-80||
svarakṣīṇātisārāsr̥kpittadāhānubandhajān|
madhurasnigdhaśītādyairhikkāśvāsānupācarēt||81||
śītādyairityādiśabdēna pittaharapicchilādigrahaṇam||81||
na svēdyāḥ pittadāhārtā raktasvēdātivartinaḥ|
kṣīṇadhātubalā rūkṣā garbhiṇyaścāpi pittalāḥ||82||
kōṣṇaiḥ kāmamuraḥkaṇṭhaṁ snēhasēkaiḥ saśarkaraiḥ|
utkārikōpanāhaiśca svēdayēn mr̥dubhiḥ kṣaṇam||83||
tilōmāmāṣagōdhūmacūrṇairvātaharaiḥ saha|
snēhaiścōtkārikā sāmlaiḥ sakṣīrairvā kr̥tā hitā||84||
navajvarāmadōṣēṣu rūkṣasvēdaṁ vilaṅghanam|
samīkṣyōllēkhanaṁ vā’pi kārayēllavaṇāmbunā||85||
atiyōgōddhataṁ vātaṁ dr̥ṣṭvā vātaharairbhiṣak|
rasādyairnātiśītōṣṇairabhyaṅgaiśca śamaṁ nayēt||86||
udāvartē tathā”dhmānē mātuluṅgāmlavētasaiḥ|
hiṅgupīlubiḍaiścānnaṁ yuktaṁ syādanulōmanam||87||
pittadāhārtā iti pittārtā dāhārtāśca| raktaṁ svēdaścātivartamānau yēṣāṁ tē raktasvēdātivartinaḥ| pittalāḥ pittaprakr̥tayaḥ| kōṣṇairityādinā svēdyānāṁ sthānaviśiṣṭaṁ svēdamāha| kāmamiti icchāyāṁ satyām, utkārikōpanāhaiḥ svēdayēt| ullēkhanaṁ vamanam| atiyōgōddhatamiti vamanādyatiyōgavr̥ddhaṁ; kiṁvā atiyōgēna atimātrōddhatam||82-87||
hikkāśvāsāmayī hyēkō balavān durbalō’paraḥ|
kaphādhikastathaivaikō rūkṣō bahvanilō’paraḥ||88||
kakādhikē balasthē ca vamanaṁ savirēcanam|
kuryāt pathyāśinē dhūmalēhādiśamanaṁ tataḥ||89||
vātikān durbalān bālān vr̥ddhāṁścānilasūdanaiḥ|
tarpayēdēva śamanaiḥ snēhayūṣarasādibhiḥ||90||
cikitsābhēdārthaṁ hikkāśvāsinō’vasthābhēdamāha- hikkētyādi| ētāścatasrō’vasthāḥ sākṣāduktāḥ- balavān, durbalaḥ, vātādhikaḥ, kaphādhikaścēti; rūkṣabahvanilaviśēṣaṇēnāpi rūkṣasnigdhāvasthādvayam| tatra bahukaphē balarūpasūcitē cāvasthādvayē kriyāṁ brūtē- kaphādhikē ityādi| tata iti vamanavirēcanānantaram| tathā cāparē’vasthādvayē samānacikitsitamāha- vātikānityādi| bālavr̥ddhayōścātrāsampūrṇakṣīṇadhātutvēna durbalayōrdurbalōdāharaṇārthamēvōpādānam| ētacca saṅkṣēpēṇa cikitsāsūtramuktam| tēna balavān vātādhika ityādyavasthāyāṁ miśritāyāmuktacikitsāyā api miśraṇaṁ kalpanīyaṁ; yathā- pratyēkadōṣōktacikitsā dōṣasaṁsargē vikalpyatē||88-90||
anutkliṣṭakaphāsvinnadurbalānāṁ viśōdhanāt|
vāyurlabdhāspadō marma saṁśōṣyāśu harēdasūn||91||
dr̥ḍhān bahukaphāṁstasmādrasairānūpavārijaiḥ|
tr̥ptānviśōdhayētsvinnān br̥ṁhayēditarān bhiṣak||92||
barhitittiridakṣāśca jāṅgalāśca mr̥gadvijāḥ|
daśamūlīrasē siddhāḥ kaulatthē vā rasē hitāḥ||93||
aviṣayapraviṣṭaśōdhanē dōṣamāha- anutkliṣṭētyādinā| marma iti hr̥dayādīni| dr̥ḍhāniti balavataḥ| rasairānūpavārijaistr̥ptānityanēna kaphōtklēśakaraṇē tr̥ptiṁ darśayati| svinnāniti svēditān| itarāniti durbalān bahuvātāṁśca| kaphādhikāyāmavasthāyāṁ tarpaṇarūpaviparītakriyākaraṇē’nuktē’pi kaphavr̥ddhyā dōṣōtklēśa ēva jñēyaḥ| iha daśamūlarasādau barhitittirādīnāṁ siddhiḥ rasavidhānēnaiva jñēyā||91-93||
nidigdhikāṁ bilvamadhyaṁ karkaṭākhyāṁ durālabhām|
trikaṇṭakaṁ guḍūcīṁ ca kulatthāṁśca sacitrakān||94||
jalē paktvā rasaḥ pūtaḥ pippalīghr̥tabharjitaḥ|
sanāgaraḥ salavaṇaḥ syādyūṣō bhōjanē hitaḥ||95||
rāsnāṁ balāṁ pañcamūlaṁ hrasvaṁ mudgān sacitrakān|
paktvā’mbhasi rasē tasmin yūṣaḥ sādhyaśca pūrvavat||96||
pallavānmātuluṅgasya nimbasya kulakasya ca|
paktvā mudgāṁśca savyōṣān kṣārayūṣaṁ vipācayēt||97||
dattvā salavaṇaṁ kṣāraṁ śigrūṇi maricāni ca|
yuktyā saṁsādhitō yūṣō hikkāśvāsavikāranut||98||
kāsamardakapatrāṇāṁ yūṣaḥ śōbhāñjanasya ca|
śuṣkamūlakayūṣaśca hikkāśvāsanivāraṇaḥ||99||
sadadhivyōṣasarpiṣkō yūṣō vārtākajō hitaḥ|
śāliṣaṣṭikagōdhūmayavānnānyanavāni ca||100||
hiṅgusauvarcalājājībiḍapauṣkaracitrakaiḥ|
siddhā karkaṭaśr̥ṅgyā ca yavāgūḥ śvāsahikkinām||101||
daśamūlīśaṭīrāsnāpippalīmūlapauṣkaraiḥ|
śr̥ṅgītāmalakībhārgīguḍūcīnāgarāmbubhiḥ||102||
yavāgūṁ vidhinā siddhāṁ kaṣāyaṁ vā pibēnnaraḥ|
kāsahr̥dgrahapārśvārtihikkāśvāsapraśāntayē||103||
puṣkarāhvaśaṭīvyōṣamātuluṅgāmlavētasaiḥ|
yōjayēdannapānāni sasarpirbiḍahiṅgubhiḥ||104||
nidigdhikāmityādi| yūṣavidhānasāmānyapaṭhitasyāpi kulatthasya yūṣaprakr̥titvādyūṣasādhanōpayaugikaṁ mānaṁ gr̥hyatē; śēṣadravyaṁ tu yūṣasādhanamānēna gr̥hyatē| pippalīsādhitē ghr̥tē pippalīyuktē ghr̥tē vā bharjita iti pippalīghr̥tabharjitaḥ| ēvaṁ rāsnāmityādau rasasya prādhānyam| pūrvavadityanēna pippalīghr̥tabharjanādikamatidiśati| kṣārēṇa yuktō yūṣaḥ kṣārayūṣaḥ, kṣāraḥ apāmārgādiḥ| kāsamardādīnāṁ yathāyōgyatayā prakṣēpaḥ| jalamānādinā saṁskāra unnēyaḥ| daśamūlītyādau kaṣāyaśabdaḥ pānīyasthānavihitatvādardhaśr̥tē jalē ēva vartatē||94-104||
daśamūlasya vā kvāthamathavā dēvadāruṇaḥ|
tr̥ṣitō madirāṁ vā’pi hikkāśvāsī pibēnnaraḥ||105||
pāṭhāṁ madhurasāṁ rāsnāṁ saralaṁ dēvadāru ca|
prakṣālya jarjarīkr̥tya surāmaṇḍē nidhāpayēt||106||
taṁ mandalavaṇaṁ kr̥tvā bhiṣak prasr̥tasammitam|
pāyayēttu tatō hikkā śvāsaścaivōpaśāmyati||107||
hiṅgu sauvarcalaṁ kōlaṁ samaṅgāṁ pippalīṁ balām|
mātuluṅgarasē piṣṭamāranālēna vā pibēt||108||
sauvarcalaṁ nāgaraṁ ca bhārgīṁ dviśarkarāyutam|
uṣṇāmbunā pibēdētaddhikkāśvāsavikāranut||109||
bhārgīnāgarayōḥ kalkaṁ maricakṣārayōstathā|
pītadrucitrakāsphōtāmūrvāṇāṁ cāmbunā pibēt||110||
madhūlikā tugākṣīrī nāgaraṁ pippalī tathā|
utkārikā ghr̥tē siddhā śvāsē pittānubandhajē||111||
śvāvidhaṁ śaśamāṁsaṁ ca śallakasya ca śōṇitam|
pippalīghr̥tasiddhāni śvāsē vātānubandhajē||112||
suvarcalārasō dugdhaṁ ghr̥taṁ trikaṭukānvitam|
śālyōdanasyānupānaṁ vātapittānugē hitam||113||
śirīṣapuṣpasvarasaḥ saptaparṇasya vā punaḥ|
pippalīmadhusaṁyuktaḥ kaphapittānugē mataḥ||114||
madhukaṁ pippalīmūlaṁ guḍō gōśvaśakr̥drasaḥ [5] |
ghr̥taṁ kṣaudraṁ kāsaśvāsahikkābhiṣyandināṁ śubham||115||
kharāśvōṣṭravarāhāṇāṁ mēṣasya ca gajasya ca|
śakr̥drasaṁ bahukaphē caikaikaṁ madhunā pibēt||116||
kṣāraṁ cāpyaśvagandhāyā lihyānnā kṣaudrasarpiṣā|
mayūrapādanālaṁ vā śakalaṁ śallakasya vā||117||
śvāvijjāṇḍakacāṣāṇāṁ [6] rōmāṇi kurarasya vā|
śr̥ṅgyēkadviśaphānāṁ [7] vā carmāsthīni khurāṁstathā||118||
sarvāṇyēkaikaśō vā’pi dagdhvā kṣaudraghr̥tānvitam|
cūrṇaṁ līḍhvā jayēt kāsaṁ hikkāṁ śvāsaṁ ca dāruṇam||119||
ētē hi kaphasaṁruddhagatiprāṇaprakōpajāḥ [8] |
tasmāttanmārgaśuddhyarthaṁ dēyā lēhā na niṣkaphē||120||
āsphōtā aparamallikēti khyātā| madhūlikā alpagōdhūmāḥ| śvāvidhamiti śallakasya māṁsam| mayūrapādanālamiti nālaṁ mayūrapicchasyaiva nālam| ghr̥tamatra prasthamānam| śakalamiti matsyaśakalākāram| jāṇḍakaḥ marudēśōdbhavaḥ prāṇī pr̥ṣṭhamātrē saṅkōcamupayāti| ēkō’dvividhābhinnaḥ śaphō yēṣāṁ tē ēkaśaphā aśvādayaḥ, dviśaphā hariṇādayaḥ| tanmārgaśuddhyarthamiti prāṇamārgaśuddhyartham||105-120||
kāsinē cchardanaṁ dadyāt svarabhaṅgē ca buddhimān|
vātaślēṣmaharairyuktaṁ tamakē tu virēcanam||121||
udīryatē bhr̥śataraṁ mārgarōdhādvahajjalam|
yathā tathā’nilastasya mārgaṁ nityaṁ viśōdhayēt||122||
kāsina iti hikkāśvāsayukta ēva kāsī| udīryata ityādau anilaḥ kaphamārganirōdhādudīryata iti darśayati||121-122||
śaṭīcōrakajīvantītvaṅmustaṁ puṣkarāhvayam|
surasaṁ tāmalakyēlā pippalyaguru nāgaram||123||
vālakaṁ ca samaṁ cūrṇaṁ kr̥tvā’ṣṭaguṇaśarkaram|
sarvathā tamakē śvāsē hikkāyāṁ ca prayōjayēt||124||
śaṭītyādikē samaṁ cūrṇamiti vālakāntaṁ dravyaṁ samam| aṣṭaguṇaśarkaramiti ēkabhāgāpēkṣayā’ṣṭaguṇaśarkaram| sarvathēti pānabhōjanalēhādiṣu||123-124||
muktāpravālavaidūryaśaṅkhasphaṭikamañjanam|
sasāragandhakācārkasūkṣmailālavaṇadvayam [9] ||125||
tāmrāyōrajasī rūpyaṁ sasaugandhikasīsakam [10] |
jātīphalaṁ śaṇādbījamapāmārgasya taṇḍulāḥ||126||
ēṣāṁ pāṇitalaṁ cūrṇaṁ tulyānāṁ kṣaudrasarpiṣā|
hikkāṁ śvāsaṁ ca kāsaṁ ca līḍhamāśu niyacchati||127||
añjanāttimiraṁ kācaṁ nīlikāṁ puṣpakaṁ tamaḥ|
malyaṁ [11] kaṇḍūmabhiṣyandamarma caiva praṇāśayēt||128||
iti muktādyaṁ cūrṇam|
muktētyādau sasāraḥ sphaṭika ēva| lavaṇadvayaṁ sauvarcalaṁ saindhavaṁ ca| saugandhyaṁ māṇikyabhēdaḥ| sīsakaṁ sauvīrāñjanaṁ, kēcit kasērukamiṣannīlapītamaṇimāhuḥ| pāṇitalaṁ karṣaḥ| malyamiti maladigdhākṣitām||125-128||
śaṭīpuṣkaramūlānāṁ cūrṇamāmalakasya ca|
madhunā saṁyutaṁ lēhyaṁ cūrṇaṁ vā kālalōhajam||129||
saśarkarāṁ tāmalakīṁ drākṣāṁ gōśvaśakr̥drasam|
tulyaṁ guḍaṁ nāgaraṁ ca prāśayēnnāvayēttathā||130||
laśunasya palāṇḍōrvā mūlaṁ gr̥ñjanakasya vā|
nāvayēccandanaṁ vā’pi nārīkṣīrēṇa saṁyutam||131||
sukhōṣṇaṁ ghr̥tamaṇḍaṁ vā saindhavēnāvacūrṇitam|
nāvayēnmākṣikīṁ viṣṭhāmalaktakarasēna vā||132||
nārīkṣīrēṇa siddhaṁ vā sarpirmadhurakairapi|
pītaṁ nastō niṣiktaṁ vā sadyō hikkāṁ niyacchati||133||
sakr̥duṣṇaṁ sakr̥cchītaṁ vyatyāsāddhikkināṁ payaḥ|
pānē nastaḥkriyāyāṁ vā śarkarāmadhusaṁyutam||134||
kālalōhō lōha ēva, kēcittīkṣṇaṁ lōhaṁ varṇayanti| gr̥ñjanakaṁ lōhitapalāṇḍuḥ| mākṣikīmiti makṣikābhavām| madhurakairiti jīvanīyaiḥ| sakr̥diti kadācit| vyatyāsāditi viparyāsāt; uṣṇaṁ payaḥ kr̥tvā śītaṁ kartavyam| madhusaṁyōgaścātra viruddhatvāduṣṇē na kartavyaḥ||129-134||
adhōbhāgairghr̥taṁ siddhaṁ sadyō hikkāṁ niyacchati|
pippalīmadhuyuktau vā rasau dhātrīkapitthayōḥ||135||
lājālākṣāmadhudrākṣāpippalyaśvaśakr̥drasān|
lihyāt kōlamadhudrākṣāpippalīnāgarāṇi vā||136||
śītāmbusēkaḥ sahasā trāsō vismāpanaṁ bhayam|
krōdhaharṣapriyōdvēgā hikkāpracyāvanā matāḥ||137||
hikkāśvāsavikārāṇāṁ nidānaṁ yat prakīrtitam|
varjyamārōgyakāmaistaddhikkāśvāsavikāribhiḥ||138||
hikkāśvāsānubandhā [12] yē śuṣkōraḥkaṇṭhatālukāḥ|
prakr̥tyā rūkṣadēhāśca sarpirbhistānupācarēt||139||
daśamūlarasē sarpirdadhimaṇḍē ca sādhayēt|
kr̥ṣṇāsauvarcalakṣāravayaḥsthāhiṅgucōrakaiḥ||140||
kāyasthayā ca tat pānāddhikkāśvāsau praṇāśayēt|141|
adhōbhāgairiti virēcanadravyaiḥ| daśamūlītyādau dadhimaṇḍaḥ mastuḥ| daśamūlakvāthadadhimaṇḍānāṁ ca militvā cāturguṇyam| vayasthā brāhmī| kāyasthā surasā||135-140||-
tējōvatyabhayā kuṣṭhaṁ pippalī kaṭurōhiṇī||141||
bhūtīkaṁ pauṣkaraṁ mūlaṁ palāśaścitrakaḥ śaṭī|
sauvarcalaṁ tāmalakī saindhavaṁ bilvapēśikā||142||
tālīsapatraṁ jīvantī vacā tairakṣasammitaiḥ|
hiṅgupādairghr̥taprasthaṁ pacēttōyē caturguṇē||143||
ētadyathābalaṁ pītvā hikkāśvāsau jayēnnaraḥ|
śōthānilārśōgrahaṇīhr̥tpārśvaruja [13] ēva ca||144||
iti tējōvatyādighr̥tam|
tējōvatyādau tējōvatī cavikā| hiṅgupādairityatra hiṅgupādaśabdēna hiṅgu ēkakarṣāpēkṣayā śāṇamānaṁ gr̥hyatē| tathāhi ayamēva yōgō hārītēna “tējōvatī” ityādinā paṭhitvā uktaḥ- “kalkaistairakṣasammitaiḥ| hiṅguśāṇēna saṁyuktairghr̥taprasthaṁ vipācayēt” ityādi||141-144||
manaḥśilāsarjarasalākṣārajanipadmakaiḥ|
mañjiṣṭhailaiśca karṣāṁśaiḥ prasthaḥ siddhō ghr̥tāddhitaḥ||145||
jīvanīyōpasiddhaṁ vā sakṣaudraṁ lēhayēddhr̥tam|
tryūṣaṇaṁ dādhikaṁ vā’pi pibēdvāsāghr̥taṁ tathā||146||
iti manaḥśilādighr̥tam|
vāsāghr̥tamiti gulmōktam| tryūṣaṇamiti “tryūṣaṇaṁ triphalāṁ” (ci.a.18) ityādinā tryūṣaṇasañjñayaiva kāsacikitsitē vakṣyamāṇam||145-146||
yatkiñcit kaphavātaghnamuṣṇaṁ vātānulōmanam|
bhēṣajaṁ pānamatraṁ vā taddhitaṁ śvāsahikkinē||147||
vātakr̥dvā kaphaharaṁ kaphakr̥dvā’nilāpaham|
kāryaṁ naikāntikaṁ tābhyāṁ prāyaḥ śrēyō’nilāpaham||148||
sarvēṣāṁ br̥ṁhaṇē hyalpaḥ śakyaśca prāyaśō bhavēt|
nātyarthaṁ [14] śamanē’pāyō bhr̥śō’śakyaśca karśanē||149||
tasmācchuddhānaśuddhāṁśca śamanairbr̥ṁhaṇairapi|
hikkāśvāsārditāñjantūn prāyaśaḥ samupācarēt||150||
anuktacikitsāpakṣagrahaṇārthamāha- yatkiñcidityādi| anaikāntikaṁ kartavyavidhimāha- vātakr̥dityādi| atra hikkāśvāsayōścikitsitē vidhitrayaṁ- tatra tāvat kaphavātaharaṁ pradhānamēvōktaṁ, yattu avaśiṣṭaṁ tatra dōṣasya vidyamānatayā anaikāntēna karaṇaṁ jñēyam, ēvamuktē’pi anaikāntēna cikitsādvayakaraṇē vātaharasyaiva prādhānyaṁ jñēyam| tābhyāmityādi| anilāpahaṁ ca br̥ṁhaṇaṁ samānaṁ bhavati| tatrōpapattimāha- sarvēṣāmityādinā| gadāntarānapi jvarādīn hikkāśvāsavadbr̥ṁhaṇārhānāha- br̥ṁhaṇē kriyamāṇē hyalpō’pāyō bhavati; śakyaḥ pratīkārō bhavati, br̥ṁhaṇajanitabalānāṁ sukhajayavyāpattikatvāditi bhāvaḥ| śamanē tu nātyarthamapāyō bhavati| karśanē tu kriyamāṇē’śakyō’pāyō bhavati bhr̥śaśca bhavati| aśakya iti asādhyaḥ| ētadapi karśanēna alpabalē puruṣē bhēṣajādinā rōgajayasya duḥśakatvāditi jñēyam| ata ēva śamanairbr̥haṇairiti upasaṁhāraṁ kariṣyati| kiṁvā br̥ṁhaṇarūpē śamanē kriyamāṇē nāvaśyamapāyō bhavati, bhavannapi alpaḥ śakyaśca bhavati, karśanē tu kriyamāṇē apāyō bhavatīti yōjyam| nyāyōpapāditaṁ br̥ṁhaṇaśamanaṁ br̥ṁhaṇaṁ vā prāyaḥ kartavyatayōpasaṁharannāha- tasmādityādi| atra śamanamaśuddhaviṣayaṁ, br̥ṁhaṇaṁ ca śuddhaviṣayaṁ kēcidāhuḥ; śamanasyaiva tu br̥ṁhaṇatvaṁ kēcidudāharanti||147-150||
tatra ślōkaḥ-
durjayatvē samutpattau kriyaikatvē ca kāraṇam|
liṅgaṁ pathyaṁ ca hikkānāṁ śvāsānāṁ cēha darśitam||151||
durjaya ityādikō’dhyāyārthasaṅgrahō vyaktaḥ||151||
ityagnivēśakr̥tē tantrē carakapratisaṁskr̥tē’prāptē dr̥ḍhabalasampūritē cikitsāsthānē hikkāśvāsacikitsitaṁ nāma saptadaśō’dhyāyaḥ||17||
iti śrīcakrapāṇidattaviracitāyāṁ carakatātparyaṭīkāyāmāyurvēdadīpikāyāṁ cikitsāsthānē hikkāśvāsacikitsitaṁ nāma saptadaśō’dhyāyaḥ||17||
1. ‘avyaktajalpasya avyaktānarthakapralāpasya’ iti gaṅgādharaḥ|
2. ‘pravr̥ttē tu yaścādhaḥ śvāsarōdhabhāk’ iti pā.|
3. ‘muhuścāvadhamyatē gajārūḍha iva śarīracālanavān bhavati’ iti gaṅgādharaḥ|
4. ‘viṭapaḥ sammatāllatādibhirācchāditē madhyaśūnyē parvatādēḥ sthānabhēdē’ iti śabdastōmamahānidhau|
5. ‘gōśakr̥tō rasaḥ’ iti pā.|
6. ‘śvāvidrōhakacāṣāṇāṁ’ iti, ‘śvāvijjāhakacāṣāṇāṁ’ iti ca pā.|
7. ‘ēkadviśaphaśr̥ggāṇi’ iti pā.|
8. ‘…prāṇaprakōpahāḥ’ iti pā.|
9. ‘sakṣāragandhakācārka…’ iti, ‘sakṣāragandhakācāni’ iti ca pā.|
10. ‘saugandhikakasērukam’ iti pā.|
11. ‘pillaṁ’ iti pā.|
12. ‘śuṣkakṣīṇakaphōraskāhikkāśvāsānubandhinaḥ’ iti pā.|
13. ‘…śākhānilārśō’ iti pā.|
14. ‘nāvaśyaṁ’ iti pā.|