Table of Contents
Devanagari Version
महर्षिणा पुनर्वसुनोपदिष्टा, तच्छिष्येणाग्निवेशेन प्रणीता, चरकदृढबलाभ्यां प्रतिसंस्कृता
चरकसंहिता
श्रीचक्रपाणिदत्तविरचितया आयुर्वेददीपिकाव्याख्यया सहिता
सिद्धिस्थानम् - ९. त्रिमर्मीया सिद्धिः
Only Moolashloka
अथातस्त्रिमर्मीयां सिद्धिं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
प्रासृतयोगीयानन्तरं त्रिमर्मीया सिद्धिरुच्यते, त्रिमर्मजरोगाश्रयिव्यापदां बस्तिरूपचिकित्सोपदर्शनार्थं; व्यापत्प्रतीकारानन्तरं बस्तिप्रयोगाधिकारश्च पूर्वाध्यायादनुवर्तते [१] ; किंवा, बस्तिव्यापच्चिकित्सा पूर्वाध्यायादिकृता, बस्तिव्यापादाच्च त्रिमर्मजा अपि रोगा भवन्ति, तेन तेषां ज्ञानपूर्वकचिकित्सोपदर्शनार्थं त्रिमर्मीयसिद्धिरुच्यते| एतदध्यायवक्तव्याश्च गदास्त्रिमर्मीयचिकित्सितेऽध्यायविस्तरभयान्नोक्ताः, त इह प्रतिपाद्यन्ते| अत्रापि मर्मशब्देन मर्मगता गदा उच्यन्ते, तानधिकृता [२] सिद्धिस्त्रिमर्मीयसिद्धिः||१-२||
सप्तोत्तरं मर्मशतमस्मिञ्छरीरे स्कन्धशाखासमाश्रितमग्निवेश!|
तेषामन्यतमपीडायां समधिका पीडा भवति, चेतनानिबन्धवैशेष्यात्|
तत्र शाखाश्रितेभ्यो मर्मभ्यः स्कन्धाश्रितानि गरीयांसि, शाखानां तदाश्रितत्वात्; स्कन्धाश्रितेभ्योऽपि हृद्वस्तिशिरांसि, तन्मूलत्वाच्छरीरस्य||३||
सप्तोत्तरं मर्मशतमिति शरीरसङ्ख्याभिहितं; तच्च मांससिरास्नाय्वस्थिसन्धिषु निविष्टम्| स्कन्धशब्देनानन्तराधिरुच्यते; शाखाशब्देन चेह शाखेव शाखेति कृत्वा बाहुद्वयं जङ्घाद्वयं चोच्यते; नेह शाखाशब्देन रक्तादिधातूनां ग्रहणं, रक्तादिधातूनां स्कन्धेऽपि, विद्यमानत्वात्| तत्र शाखाश्रितानि चतुश्चत्वारिंशन्मर्माणि, शेषं स्कन्धाश्रितम्| यदुक्तं सुश्रुते- “तेषामेकादशैकस्मिन् सक्थि भवन्ति, एतेनेतरसक्थि बाहू च व्याख्यातौ; उदरोरसोर्द्वादश, चतुर्दश पृष्ठे, ग्रीवां प्रत्यूर्ध्वं सप्तत्रिंशत्” (सु.शा.अ.६) इति; एतेषां च मर्मणां प्रत्येकं विभाग उक्तः सुश्रुते एव “तलहृदय” (सु.शा.अ.६) इत्यादिना प्रपञ्चतोऽनुसरणीयः| सप्तोत्तरशतमर्मणाममर्मशरीरदेशविलक्षणं धर्ममाह- तेषामित्यादि| चेतनानिबन्धवैशेष्यादिति यस्मान्मर्मसु चेतनाधातुर्विशेषेण निबद्ध इत्यर्थः; चेतनानिबन्धश्च मर्मस्वदृष्टकृत एव मर्मपीडया विशेषपीडादर्शनादुन्नीयते| शाखानां तदाश्रितत्वादिति यस्माच्छाखा अपि स्कन्धाश्रिताः, तेन स्कन्धाश्रितशाखाश्रितेभ्यः साक्षात् स्कन्धाश्रितं मर्म गरीयो भवतीत्यर्थः; स्कन्धाश्रितत्वं च शाखानां स्कन्धोपघातेन तदुपघातात्, तथा स्कन्धनिष्पन्नेनैव रसादिना तत्पोषणात्; किञ्च स्कन्धाश्रितान्येव मर्माणि सद्यःप्राणहराणि, न शाखाश्रयाणि; तेन च स्कन्धस्य प्राधान्यम्| यदुक्तं सुश्रुते- “शृङ्गाटकान्यधिपतिः शङ्खौ कण्ठशिरोगुदम्| हृदयं बस्तिनाभी च घ्नन्ति सद्यो हतानि वै” (सु.शा.अ.६) इति| हृद्बस्तिशिरांसि गरीयांसीति सम्बन्धः| एतद्गरीयस्त्वे हेतुमाह- तन्मूलत्वाच्छरीरस्येति| तन्मूलत्वादिति तदाश्रितत्वात्, तथा च हृदयाश्रितत्वं शरीरस्य ‘तत्र हृदये दश धमन्यः’ इत्यादिना ‘नाभ्यामरा इव’ इत्यन्तेन दर्शयिष्यति| यद्यपि च मर्मान्तराण्यपि विशेषेण प्राणाश्रयाण्युक्तानि; यथा ‘दशैवायतनान्याहुः प्राणा येषु प्रतिष्ठिताः| शङ्खौ मर्मत्रयं कण्ठो रक्तं शुक्रौजसी गुदम्’ (सू.अ.२९) इत्यनेन, तथाऽपि शङ्खादीनि न शरीराश्रयभूतानि यथा हृदयादीनि; तेन प्राणायतनत्वे समानेऽप्युक्तशरीराश्रयत्वविशेषादिह हृदयादीनामेव प्राधान्यमुच्यते; किञ्च, प्राणाश्रयत्वमपि यथा हृदयादीनां न तथा शङ्खादीनाम्; उक्तं हि “सप्तोत्तरं मर्मशतं यदुक्तं शरीरसङ्ख्यामधिकृत्य तेषु| मर्माणि बस्तिं हृदयं शिरश्च प्रधानभूतान्यृषयो वदन्ति|| प्राणाश्रयान् तानपि पीडयन्तो वातादयोऽसूनपि पीडयन्ति” (सु.शा.अ.६) इति| अन्ये तु शङ्खादिप्राणाश्रयाणां हृदयादिष्वेव सामीप्यादन्तर्भावं दर्शयन्ति, तच्चामूलत्वादुपेक्षितम्||३||
तत्र हृदये [३] दश धमन्यः प्राणापानौ [४] मनो बुद्धिश्चेतना महाभूतानि च नाभ्यामरा इव प्रतिष्ठितानि, शिरसि इन्द्रियाणि इन्द्रियप्राणवहानि च स्रोतांसि सूर्यमिव गभस्तयः संश्रितानि, बस्तिस्तु स्थूलगुदमुष्कसेवनीशुक्रमूत्रवाहिनीनां [५] नाडी(ली)नां मध्ये मूत्रधारोऽम्बुवहानां सर्वस्रोतसामुदधिरिवापगानां प्रतिष्ठा [६] , बहुभिश्च तन्मूलैर्मर्मसञ्ज्ञकैः स्रोतोभिर्गगनमिव दिनकरकरैर्व्याप्तमिदं शरीरम्||४||
तेषां त्रयाणामन्यतमस्यापि भेदादाश्वेव शरीरभेदः स्यात्, आश्रयनाशादाश्रितस्यापि विनाशः; तदुपघातात्तु [७] घोरतरव्याधिप्रादुर्भावः; तस्मादेतानि विशेषेण रक्ष्याणि बाह्याभिघाद्वातादिभ्यश्च||५||
दश धमन्य इति ओजोवहा दश धमन्यः, “अर्थे दश महामूलाः समासक्ताः” (सू.अ.३०) इत्यादिना अर्थेदशमहामूलीये प्रतिपादिताः| प्राणापानाविति उच्छ्वासनिश्वासौ, केचित्तु प्राणापानौ यथोक्तावेव वातौ प्राहुः; तत्रापानो यद्यपि मेढ्रश्रोण्याद्याश्रय एवेत्याहुः, तथाऽपि हृदयाव्यतिरिक्तानुविधायित्वाद्धृदयाश्रित [८] इत्युच्यते| मनः अन्तःकरणम्| बुद्धिः महच्छब्दाभिलप्या| चेतना बुद्धिवृत्तिभेदः| महाभूतानीति आत्मसम्बद्धानि सूक्ष्ममहाभूतानि| एतत् सर्वं साङ्ख्यदर्शने व्यवस्थापितं शारीरे च व्युत्पादितमनुसरणीयम्| प्रदेशान्तरे चोक्तं- “षडङ्गमङ्गं विज्ञानमिन्द्रियाण्यर्थपञ्चकम्| आत्मा च सगुणश्चेतश्चिन्त्यं च हृदि संस्थितम्” (सू.अ.३०) इति; तेऽर्था एतच्छ्लोकोक्ताः, अधिकार्थानां च प्रोक्तेष्वेवावरोधो व्याख्येयः; किंवा इह शास्त्रोद्धारेणाभिधानम्| यथा हृदये दश धमन्यादीन्याश्रितानि, तद्दृष्टान्तेन दर्शयति- नाभ्यामरा इव प्रतिष्ठितानीति; नाभिः चक्रनाभिः, अराः चक्रनेमिमध्यस्थकाष्ठानि, यथा- चक्रनाभ्यां सम्बद्धा, अरास्तदुपघातादुपहन्यन्ते, तन्मूलत्वेन [९] तत्सम्बन्धा भवन्ति, एवं धमन्यादयोऽपीत्यर्थः| ‘नाभ्यामपरा’ इति वा पाठः, तेन गर्भनाभ्यामपरा इवेत्यर्थः (अरा [१०] इव अपरेति व्याख्यानयन्ति)| एतेन प्रदेशान्तरवर्तिनामपि धमन्यादीनां हृदयाश्रितत्वं सिद्धमिति भावः| शिरस आश्रयत्वमाह- शिरसीत्यादि| इन्द्रियप्राणवहानि स्रोतांसि यद्यपि प्रदेशान्तरेऽपि भवन्ति [११] , तथाऽपि शिरसि विशेषेणैवैतानि प्रबद्धानीति सूर्यमिव गभस्तय इति दृष्टान्तेन दर्शयति| शिरआश्रयत्वं च यथोक्तस्रोतसां तदुपघातेन विशिष्टोपघातदर्शनादुन्नीयते| बस्तेः शरीराश्रयत्वमाहु- बस्तिस्त्वित्यादि| स्थूलगुदादिमध्यस्थितत्वप्रतिपादनेनास्य स्थूलगुदादीनां बस्त्याश्रयत्वं दर्शयति| अम्बुवहानां स्रोतसां प्रतिष्ठेति स्थानमित्यर्थः, उदधिर्यथाऽऽपगानां पूरणीयस्थानं, तथा बस्तिरप्यम्बुवहस्रोतसां विश्रामस्थानम्| तन्मूलैरिति तत्सम्बद्धैर्मर्मसञ्ज्ञकैः; नहि स्रोतसां मर्मत्वमस्ति; किंवा स्रोतोमर्मशब्देन सिरामर्मणां ग्रहणं; किंवा मर्मसम्बद्धानि मर्मपोषकाणि वा स्रोतांसि मर्मसञ्ज्ञकानि स्रोतांसि| आश्रयनाशादाश्रितस्य नाश इति आश्रयनाशादाश्रितस्य नाशो यस्माद्भवति, तस्माद्धृदयादीनामन्यतमस्य नाशाच्छरीरनाशो भवतीति युक्तम्| शरीरस्य हृदयाश्रितत्वं [१२] शरीरारम्भकप्रधानदशधमन्याद्याश्रयत्वेनैव ज्ञेयम्| उपघातादिति किञ्चिद्वैकृतात्||४-५||
तत्र हृद्यभिहते कासश्वासबलक्षयकण्ठशोषक्लोमाकर्षणजिह्वानिर्गममुखतालुशोषापस्मारोन्मादप्रलापचित्तनाशादयः स्युः; शिरस्यभिहते मन्यास्तम्भार्दितचक्षुर्विभ्रममोहोद्वेष्टनचेष्टानाशकासश्वासहनुग्रहमूकगद्गदत्वाक्षिनिमीलन- गण्डस्पन्दनजृम्भणलालास्रावस्वरहानिवदनजिह्मत्वादीनि, बस्तौ तु वातमूत्रवर्चोनिग्रहवङ्क्षणमेहनबस्तिशूलकुण्डलोदावर्तगुल्मानिलाष्ठीलोपस्तम्भनाभिकुक्षिगुदश्रोणिग्रहादयः [१३] ; वाताद्युपसृष्टानां त्वेषां लिङ्गानि चिकित्सिते सक्रियाविधीन्युक्तानि||६||
हृदयाद्यभिघातभवान् व्याधीन् क्रमेणाह- तत्रेत्यादि| क्लोमापकर्षणं क्लोमापकर्षणाकारा वेदना| वेष्टनं शिरसि वेष्टनाकारा वेदना| कुण्डलं बस्तौ कुण्डलरूपा वेदना| उपस्तम्भः बस्तेरेव| चिकित्सिते इति त्रिमर्मीयचिकित्सिते| सक्रियाविधिनीति सचिकित्सितविधानानि||६||
किन्त्वेतानि विशेषतोऽनिलाद्रक्ष्याणि, अनिलो हि पित्तकफसमुदीरणे हेतुः प्राणमूलं च, स बस्तिकर्मसाध्यतमः, तस्मान्न बस्तिसमं किञ्चित् कर्म मर्मपरिपालनमस्ति|
तत्र षडास्थापनस्कन्धान् विमाने द्वौ चानुवासनस्कन्धाविह च विहितान् बस्तीन् बुद्ध्या विचार्य महामर्मपरिपालनार्थं प्रयोजयेद्वातव्याधिचिकित्सां च||७||
मर्मपरिपालने बस्तेः प्राधान्यं सोपपत्तिकमाह- किन्त्वेतानीत्यादि| यस्मात् पित्तकफयोर्द्वयोरक्रिययोरीरणेऽनिल एव हेतुः, तेन कफपित्तजेऽपि विकारे वायुर्निमित्तं, वातजविकारेऽपि वायुः स्वतन्त्र एव कारणम्, अतः सर्वविकारेषु मर्माणि रक्षयता तत्कारणादनिलादेव मर्माणि रक्षणीयानि| तथा प्राणमूलं चेति जीवितहेतुश्चाविकृतो वायुः, विकृतश्च प्राणोपघातकः; तेन मर्माण्यपि प्राणरक्षार्थं वाताद्रक्ष्याणि| बस्तिसाध्यतम इति इतरचिकित्सापेक्षया बस्तिना साध्यतमः; उक्तं हि- “बस्तिर्वातहराणाम्” (सू.अ.२५) इति| द्वौ चानुवासनस्कन्धाविति रोगभिषग्जितीये “अनुवासनं तु स्नेह एव, स द्विविधः- स्थावरो जङ्गमश्च” (वि.अ.८) इत्यनेनोक्तौ द्वावनुवासनस्कन्धौ ज्ञेयौ| इहेति सिद्धिस्थाने| बुद्ध्या विचार्येति दोषौषधादीनि दश बुद्ध्या विचार्य, वातव्याधिचिकित्सां च बुद्ध्या विचार्य प्रयोजयेदित्यर्थः||७||
भूयश्च [१४] हृद्युपसृष्टे हिङ्गुचूर्णं लवणानामन्यतमचूर्णसंयुक्तं मातुलुङ्गस्य [१५] रसेनान्येन वाऽम्लेन हृद्येन वा पाययेत्, स्थिरादिपञ्चमूलीरसः सशर्करः पानार्थं, बिल्वादिपञ्चमूलरससिद्धा च यवागूः, हृद्रोगविहितं च कर्म; मूर्ध्नि तु वातोपसृष्टेऽभ्यङ्गस्वेदनोपनाहस्नेहपाननस्तःकर्मावपीडनधूमादीनि; बस्तौ तु कुम्भीस्वेदः, वर्तयः, श्यामादिभिर्गोमूत्रसिद्धो निरूहः, बिल्वादिभिश्च सुरासिद्धः, शरकाशेक्षुदर्भगोक्षुरकमूलशृतक्षीरैश्च [१६] त्रपुसैर्वारुखराश्वाबीजयवर्षभकवृद्धिकल्कितो निरूहः, पीतदारुसिद्धतैलेनानुवासनं, तैल्वकं च सर्पिर्विरेकार्थं, शतावरीगोक्षुरकबृहतीकण्टकारिकागुडूचीपुनर्नवोशीरमधुकद्विसारिवालोध्रश्रेयसीकुशकाशमूलकषायक्षीरचतुर्गुणं बलावृषर्षभकखराश्वोपकुञ्चिकावत्सकत्रपुसैर्वारुबीजशितिवारकमधुकवचाशतपुष्पाश्मभेदकवर्षाभूमदनफलकल्कसिद्धं तैलमुत्तरबस्तिर्निरूहो वा शुद्धस्निग्धस्विन्नस्य बस्तिशूलमूत्रविकारहर इति||८||
विशेषेण मर्मभेदचिकित्सितमाह [१७] – भूयश्चेत्यादि| हृद्युपसृष्टे ‘वातेन” इति शेषः| लवणानामिति निर्धारणे षष्ठी| अन्य एव अन्यतमः, यथा- श्रेष्ठतम इति| हृद्येनेति मनोऽनुकूलेन; यद् द्वेष्यरसस्य हृदहिततयाऽहृद्यत्वं, तन्मनोऽननुकूलत्वमेव| हृद्रोगविहितं च कर्मेति त्रिमर्मीयचिकित्सिते| धूमादीनीति आदिशब्देन परिषेकोपनाहादिग्रहणम्| बस्तौ त्विति ‘प्रदुष्टे वातेन’ इति प्रकरणाज्ज्ञेयं; पित्तकफदुष्टौ च वायुरेव प्रधानमिति प्रागेव प्रतिपादितं; तेन कफपित्तदुष्टिरपि लभ्यते| वर्तय इति फलवर्तयः| श्यामादिभिरिति “श्यामात्रिवृच्चतुरङ्गुलतिल्वकमहावृक्षसप्तलाशङ्खिनीदन्तीद्रवन्तीनाम्” (वि.अ.८) इत्यादिना प्रागुक्तः श्यामादिः| बिल्वादिरिति बृहत्पञ्चमूलं; किंवा “बिल्वमूलत्रिवृद्दारुयवकोलकुलत्थवान्” (सि.अ.७) इत्यनेनोक्तो बिल्वादिर्ज्ञेयः| शरादिमूलशृतक्षीरहपुषादिकल्कोऽपरः| खराश्वा अजमोदा| पीतदारुसिद्धतैलेन साधितमनुवासनं यस्मिन्निरूहे स तथा| केचित्तु सरलसाराकृष्टतैलं पीतदारुसिद्धतैलमाहुः| तैल्वकसर्पिः तिल्वककल्पोक्तम्| शतावरीत्यादौ द्विसारिवेति अनन्तमूलश्यामे| श्रेयसी रास्ना| उपकुञ्चिका कृष्णजीरकम्| शितिवारकः शालिञ्चः| अश्मभेदकः पाषाणभेदकः| उत्तरबस्तिरिति वक्ष्यमाणोत्तरबस्तिविधानाद्देय [१८] इत्यर्थः| निरूहः निरूहस्थाने देय इत्यर्थः||८||
भवन्ति चात्र श्लोकाः-
हृदये मूर्ध्नि बस्तौ च नृणां प्राणाः प्रतिष्ठिताः|
तस्मात्तेषां सदा यत्नं [१९] कुर्वीत परिपालने||९||
आबाधवर्जनं नित्यं स्वस्थवृत्तानुवर्तनम्|
उत्पन्नार्तिविघातश्च मर्मणां परिपालनम्||१०||
गद्योक्तमर्थं श्लोकेन दर्शयन्नधिकमप्याह- किञ्चित् हृदये इत्यादिना| आबाधवर्जनमिति मर्मोपघातकहेतुवर्जनम्| स्वस्थवृत्तानुवर्तनं च हृदयादिपोषकतयैव पालकं भवति| उत्पन्नार्तिविघात इति उत्पन्नमर्मरोगप्रतीकारः||९-१०||
अत उर्ध्वं विकारा ये त्रिमर्मीये चिकित्सिते|
न प्रोक्ता मर्मजास्तेषां कांश्चिद्वक्ष्यामि सौषधान्||११||
मर्मपरिपालकबस्तिकथनप्रसङ्गादनुक्तमर्मगतरोगान् सचिकित्सितान् दर्शयन्नाह- अत ऊर्ध्वमित्यादि||११||
क्रुद्धः स्वैः कोपनैर्वायुः स्थानादूर्ध्वं प्रपद्यते|
पीडयन् हृदयं गत्वा शिरः शङ्खौ च पीडयन्||१२||
धनुर्वन्नमयेद्गात्राण्याक्षिपेन्मोहयेत्तथा|
(नमयेच्चाक्षिपेच्चाङ्गान्युच्छ्वासं [२०] निरुणद्धि च)|
कृच्छ्रेण चाप्युच्छ्वसिति स्तब्धाक्षोऽथ निमीलकः [२१] ||१३||
कपोत इव कूजेच्च निःसञ्ज्ञः सोऽपतन्त्रकः|
दृष्टिं संस्तम्भ्य सञ्ज्ञां च हत्वा कण्ठेन कूजति||१४||
हृदि मुक्ते नरः स्वास्थ्यं याति मोहं वृते पुनः|
वायुना दारुणं प्राहुरेके तमपतानकम्||१५||
हृद्रोगमपतन्त्रकमाह- क्रुद्ध इत्यादि| स्थानादूर्ध्वमिति वातस्थानापेक्षया यदूर्ध्वम्| स्तब्धाक्षोऽथ निमीलन इति स्तब्धाक्षो वा भवति निमीलिताक्षो वा भवति| निःसञ्ज्ञ इति व्याधिवेगकाले दृष्टिं संस्तभ्य सञ्ज्ञां च हत्वा कण्ठेन कूजति, निःसञ्ज्ञश्च भवति| मोहं वृते पुनरिति हृदये वृते पुनर्वायुना मोहं याति; वायुनेति कफयुक्तेन; एके तमपतानकमेवापतन्त्रकमाहुः| अत्र जतूकर्णः- “वातकफाभ्यां हृच्छिरःशङ्खपीडनानमनाङ्गाक्षेपप्रमोहाक्षिस्तम्भानिमीलनकृच्छ्रोच्छ्वासकूजनान्यपतन्त्रके”इति| किंवा अपतन्त्रकं द्विविधं वर्णयन्ति- वातात्, कफाच्च [२२] ; तत्र ‘निःसञ्ज्ञः सोऽपतन्त्रकः’ इत्यनेन कफज [२३] उच्यते; ‘वायुना दारुणं प्राहुः’ इत्यनेन वायुना जनितमपतन्त्रकमेवापतानकमाहुः| तस्य दारुणत्वं दारुणवातारब्धत्वादिति व्याख्येयम्| तथैव सुश्रुते वातव्याधावतन्त्रकः पठितः||१२-१५||
श्वसनं कफवाताभ्यां रुद्धं तस्य [२४] विमोक्षयेत्|
तीक्ष्णैः प्रधमनैः सञ्ज्ञां तासु मुक्तासु विन्दति||१६||
मरिचं शिग्रुबीजानि विडङ्गं च फणिज्झकम्|
एतानि सूक्ष्मचूर्णानि दद्याच्छीर्षविरेचनम्||१७||
तुम्बुरूण्यभया [२५] हिङ्गु पौष्करं लवणत्रयम्|
यवक्वाथाम्बुना पेयं हृद्ग्रहे चापतन्त्रके [२६] ||१८||
हिङ्ग्वम्लवेतसं शुण्ठीं ससौवर्चलदाडिमम्|
पिबेद्वातकफघ्नं च कर्म हृद्रोगनुद्धितम्||१९||
शोधना [२७] बस्तयस्तीक्ष्णा न हितास्तस्य कृत्स्नशः|
सौवर्चलाभयाव्योषैः सिद्धं तस्मै घृतं हितम्||२०||
तास्विति चेतनावहासु धमनीषु| यवक्वाथाम्बुनेति यवैः षडङ्गविधिना शृतपानीयेन| हृद्रोगनुद् वातकफघ्नं यत् कर्म तद्धितमपतन्त्रके| शोधना इत्यादौ “कृत्स्नशः शोधना न हिताः’ इति वचनेन शोधनार्थस्तोकनिरूहदानं, भूरिशोधननिरूहदाने तु वातक्षोभः स्यादिति भावः||१६-२०||
मधुरस्निग्धगुर्वन्नसेवनाच्चिन्तनाच्छ्रमात् [२८] [२९] |
शोकाद्व्याध्यनुषङ्गाच्च वायुनोदीरितः कफः||२१||
यदाऽसौ समवस्कन्द्य हृदयं हृदयाश्रयान्|
समावृणोति ज्ञानादींस्तदा तन्द्रोपजायते||२२||
हृदये व्याकुलीभावो वाक्चेष्टेन्द्रियगौरवम्|
मनोबुद्ध्यप्रसादश्च तन्द्राया लक्षणं मतम्||२३||
कफघ्नं तत्र कर्तव्यं शोधनं शमनानि च|
व्यायामो रक्तमोक्षश्च भोज्यं च कटुतिक्तकम्||२४||
मधुरस्निग्धेत्यादिना तन्द्रालक्षणं चिकित्सितं च केचित् पठन्ति||२१-२४||
मूत्रौकसादो [३०] जठरं कृच्छ्रमुत्सङ्गसङ्क्षयौ|
मूत्रातीतोऽनिलाष्ठीला वातबस्त्युष्णमारुतौ||२५||
वातकुण्डलिका ग्रन्थिर्विड्घातो बस्तिकुण्डलम्|
त्रयोदशैते मूत्रस्य दोषास्ताँल्लिङ्गतः शृणु||२६||
हृद्रोगमभिधाय बस्तिरोगानाह- मूत्रौकसाद इत्यादि| एते च मूत्रदोषा मूत्रकृच्छ्राद्भिन्ना एवेति त्रिमर्मीय एव प्रतिपादितम्||२५-२६||
पित्तं कफो द्वावपि [३१] वा बस्तौ संहन्यते यदा|
मारुतेन तदा मूत्रं रक्तं पीतं घनं सृजेत्||२७||
सदाहं श्वेतसान्द्रं वा सर्वैर्वा लक्षणैर्युतम्|
मूत्रौकसादं [३२] तं विद्यात् पित्तश्लेष्महरैर्जयेत्||२८||
पित्तं कफ इत्यादिना मूत्रौकसादमाह| अयं च वातकफ-पित्तवात-त्रिदोषैर्जन्यत इत्युक्तं भवति| संहन्यते इति संहते रक्तपीतवर्णता पित्तेन, श्वेतवर्णता कफेन, कफपित्तलक्षणता कफपित्ताभ्यां, वायुस्तु सर्वानुगत एव| अत्र वायोरावरणकृत एव कोपः; तेन पित्तकफयोरेव चिकित्सोक्ता ‘पित्तश्लेष्महरैर्जयेत्’ इत्यनेन, वायोस्त्वावरणजयादेव जयो भवतीति भावः||२७-२८||
विधारणात् प्रतिहतं वातोदावर्तितं यदा|
पूरयत्युदरं मूत्रं तदा तदनिमित्तरुक्||२९||
अपक्तिमूत्रविट्सङ्गैस्तन्मूत्रजठरं वदेत्|
मूत्रवैरेचनीं तत्र चिकित्सां सम्प्रयोजयेत्||३०||
हिङ्गुद्विरुत्तरं चूर्णं त्रिमर्मीये प्रकीर्तितम्|
हन्यान्मूत्रोदरानाहमाध्मानं [३३] गुदमेढ्रयोः||३१||
अनिमित्तरुगिति अलक्ष्यमाणनिमित्तरुक्| मूत्रवैरेचनीमिति मूत्रविरेचनीयदशकप्रयोगरूपाम्| हिङ्गुद्विरुत्तरं तु ‘द्विरुत्तरं हिङ्गुवचा’ (चि.अ.२६) इत्यादिनोक्तं, हिङ्गु द्विरुत्तरं यस्मिन् तद्धिङ्गुद्विरुत्तरम्||२९-३१||
मूत्रितस्य व्यवायात्तु रेतो वातोद्धतं च्युतम्|
पूर्वं मूत्रस्य पश्चाद्वा स्रवेत् कृच्छ्रं तदुच्यते||३२||
खवैगुण्यानिलाक्षेपैः किञ्चिन्मूत्रं च तिष्ठति|
मणिसन्धौ स्रवेत् पश्चात्तदरुग्वाऽथ चातिरुक्||३३||
मूत्रोत्सङ्गः स विच्छिन्नमुच्छेषगुरुशेफसः [३४] |
वाताकृतिर्भवेद्वातान्मूत्रे शुष्यति सङ्क्षयः||३४||
चिरं धारयतो मूत्रं त्वरया न प्रवर्तते|
मेहमानस्य मन्दं वा मूत्रातीतः स उच्यते||३५||
आध्मापयन् बस्तिगुदं रुद्ध्वा वायुश्चलोन्नताम्|
कुर्यात्तीव्रार्तिमष्ठीलां मूत्रविण्मार्गरोधिनीम्||३६||
मूत्रं [३५] धारयतो बस्तौ वायुः क्रुद्धो विधारणात्|
मूत्ररोधार्तिकण्डूभिर्वातबस्तिः स उच्यते||३७||
उष्मणा सोष्मकं मूत्रं शोषयन् रक्तपीतकम्|
उष्णवातः सृजेत् कृच्छ्राद्बस्त्युपस्थार्तिदाहवान्||३८||
गतिसङ्गादुदावृत्तः स मूत्रस्थानमार्गयोः|
मूत्रस्य विगुणो वायुर्भग्नव्याविद्धकुण्डली||३९||
मूत्रं विहन्ति संस्तम्भभङ्गगौरववेष्टनैः|
तीव्ररुङ्मूत्रविट्सङ्गैर्वातकुण्डलिकेति सा||४०||
रक्तं वातकफाद्दुष्टं बस्तिद्वारे सुदारुणम्|
ग्रन्थिं कुर्यात् स कृच्छ्रेण सृजेन्मूत्रं तदावृतम्||४१||
अश्मरीसमशूलं तं रक्तग्रन्थिं प्रचक्षते|
रूक्षदुर्बलयोर्वातेनोदावृत्तं शकृद्यदा||४२||
मूत्रस्रोतः प्रपद्येत विट्संसृष्टं तदा नरः|
विड्गन्धं मूत्रयेत् कृच्छ्राद्विड्विघातं विनिर्दिशेत्||४३||
द्रुताध्वलङ्घनायासादभिघातात् प्रपीडनात्|
स्वस्थानाद्वस्तिरुद्वृत्तः स्थूलस्तिष्ठति गर्भवत्||४४||
शूलस्पन्दनदाहार्तो बिन्दुं बिन्दुं स्रवत्यपि|
पीडितस्तु सृजेद्धारां संस्तम्भोद्वेष्टनार्तिमान्||४५||
बस्तिकुण्डलमाहुस्तं घोरं शस्त्रविषोपमम्|
पवनप्रबलं प्रायो दुर्निवारमबुद्धिभिः||४६||
तस्मिन् पित्तान्विते दाहः शूलं मूत्रविवर्णता|
श्लेष्मणा गौरवं [३६] शोफः स्निग्धं मूत्रं घनं सितम्||४७||
श्लेष्मरुद्धबिलो बस्तिः पित्तोदीर्णो न सिध्यति|
अविभ्रान्तबिलः साध्यो न तु यः कुण्डलीकृतः||४८||
स्याद्वस्तौ कुण्डलीभूते हृन्मोहः [३७] श्वास एव च|४९|
मूत्रितस्येति मूत्रवेगगतस्य, मूत्रवेगयुक्तस्येति यावत्| च्युतमिति स्वस्थानाच्च्युतम्| वातोद्धतमिति वातविक्षिप्तम्| एतल्लक्षणान्तरयुक्तमेव कृच्छ्रं; मूत्रकृच्छ्रमितोऽन्यदेव, भिन्नक्षणत्वात्| किञ्चिदिति स्तोकम्| उच्छेषगुरुशेफस इति प्रवृद्धमूत्रावशेषेण स्थितेन गुरुशेफस इति| वाताकृतिरित्यादि सङ्क्षयलक्षणम् [३८] | वाताकृतिरिति वातलक्षणयुक्तः| विधारणादिति मूत्रवेगरोधात्| ऊष्मणेति पित्तोष्मणा| शोषयन्निति ऊष्मणा सहितो वात एव मूत्रं शोषयन्| गतिसङ्गादित्यादिना वातकुण्डलिकामाह| मूत्रस्य गतिसङ्गादुदावृत्तो वायुर्मूत्रस्थानमार्गयोर्भग्नव्याविद्धकुण्डली मूत्रयति; भग्नः प्रतिहतः, व्याविद्धः वक्री, कुण्डलीति आवर्तमानतया स्थितः; ईदृशं वायोरुपस्थानं मूत्रमार्ग एव भवति| वातकुण्डलिकालक्षणमाह- संस्तम्भेत्यादि| भङ्गः भङ्गाकारवेदना| रक्तं ग्रन्थिं कुर्यात् वातकफाभ्यां दुष्टमिति योज्यम्| विड्युक्तो विघातो विड्विघातः| द्रुताध्वेत्यादिना बस्तिकुण्डलमाह| उद्वृत्त इति परावृत्तमुखः| पीडित इति हस्तादिभिः| श्लेष्मरुद्धबिलो बस्तिर्न सिध्यति, तथा पित्तोदीर्णश्च न सिध्यति| अविभ्रान्तबिल इति अरुद्धद्वारः| कुण्डलीकृत इति वर्तुलीकृतः| वर्तुलीकृतस्यैव लक्षणान्याह- स्याद्बस्तावित्यादि||३२-४८||-
दोषाधिक्यमवेक्ष्यैतान् मूत्रकृच्छ्रहरैर्जयेत्||४९||
बस्तिमुत्तरबस्तिं च सर्वेषामेव दापयेत्|५०|
चिकित्सामाह- दोषाधिक्यमित्यादि| मूत्रकृच्छ्रहरैः प्रयोगैर्दोषाधिक्यमवेक्ष्य प्रयुक्तैर्जयेदित्यर्थः||४९||-
पुष्पनेत्रं तु हैमं स्याच्छ्लक्ष्णमौत्तरबस्तिकम्||५०||
जात्यश्वहनवृन्तेन [३९] समं गोपुच्छसंस्थितम्|
रौप्यं वा सर्षपच्छिद्रं द्विकर्णं द्वादशाङ्गुलम्||५१||
तेनाजबस्तियुक्तेन स्नेहस्यार्धपलं नयेत्|
यथावयोविशेषेण स्नेहमात्रां विकल्प्य वा||५२||
स्नातस्य भुक्तभक्तस्य रसेन पयसाऽपि वा|
सृष्टविण्मूत्रवेगस्य [४०] पीठे जानुसमे मृदौ||५३||
ऋजोः सुखोपविष्टस्य हृष्टे मेढ्रे घृताक्तया|
शलाकयाऽन्विष्य गतिं यद्यप्रतिहता व्रजेत्||५४||
ततः शेफःप्रमाणेन पुष्पनेत्रं प्रवेशयेत्|
गुदवन्मूत्रमार्गेण प्रणयेदनु सेवनीम्||५५||
हिंस्यादतिगतं [४१] बस्तिमूने स्नेहो न गच्छति|
सुखं प्रपीड्य निष्कम्पं निष्कर्षेन्नेत्रमेव च||५६||
प्रत्यागते द्वितीयं च तृतीयं च प्रदापयेत्|
अनागच्छन्नुपेक्ष्यस्तु रजनीव्युषितस्य च||५७||
उत्तरबस्तिं दापयेदित्युक्तं, तत उत्तरबस्तिविधिमाह- पुष्पनेत्रमित्यादि| पुष्पनेत्रमित्युत्तरबस्तिनेत्रस्य सञ्ज्ञा; उत्तरबस्तिसञ्ज्ञा उत्तरमार्गदीयमानतया, किंवा श्रेष्ठगुणतया उत्तरबस्तिः| जात्यश्वहनवृन्तेन सममिति जातेरश्वहनस्य च पुष्पयोर्वृन्तेनाग्रसमम्; उक्तं हि हारीते “कुन्दस्य वृन्तप्रतिमं तथाऽग्रे” इति; अश्वहनः करवीरः| सर्षपच्छिद्रमिति सर्षपवाहिच्छिद्रम्| द्विकर्णिकमिति नेत्रे [४२] बस्तिबन्धनार्थमेकतः कर्णिका, अपराऽग्रे शेफःप्रमाणषडङ्गुलादौ कर्णिका कर्तव्या| त्रिकर्णिकम्’ इति वा पाठः| यथावयोविशेषेण स्नेहमात्रां विकल्प्य चेति यथोक्तस्नेहः पञ्चविंशतिवर्षस्य, ततस्त्वर्वाग्वयोभेदविकल्पेनापकर्षः कर्तव्यः; उक्तं हि सुश्रुते “स्नेहप्रमाणं परमं प्रकुञ्चश्चात्र कीर्तितः| पञ्चविंशतिवर्षाणामर्वाग्बुद्धिविकल्पितम्” (सु.चि.अ.३७) इति| हृष्टे इति स्तब्धे, यद्यप्रतिहता व्रजेच्छलाका, तत्र पुष्पनेत्रं शेफःप्रमाणसमं प्रवेशनीयम्| शलाकया प्रथममन्वेषणं मार्गविज्ञानार्थम्| गुदवदिति गुदे यथा नेत्राकम्पनादिगुणयुक्तं प्रवेश्यते तथा मेढ्रेऽपि| अतिगतं लिङ्गप्रमाणातिरेकप्रविष्टं नेत्रं बस्तिं हिंस्यात्| ऊने इति लिङ्गमानस्तोकप्रविष्टे||५०-५७||
पिप्पलीलवणागारधूमापामार्गसर्षपैः|
वार्ताकुरसनिर्गुण्डीशम्पाकैः ससहाचरैः||५८||
मूत्राम्लपिष्टैः सगुडैर्वर्तिं कृत्वा प्रवेशयेत्|
अग्रे तु सर्षपाकारां पश्चार्धे माषसम्मिताम्||५९||
नेत्रदीर्घां घृताभ्यक्तां सुकुमारामभङ्गुराम्|
नेत्रवन्मूत्रनाड्यां तु पायौ चाङ्गुष्ठसम्मिताम्||६०||
स्नेहे प्रत्यागते ताभ्यामानुवासनिको विधिः|
परिहारश्च सव्यापत् ससम्यग्दत्तलक्षणः||६१||
पिप्पलीत्यादिना व्युषितेऽप्यनागच्छतः स्नेहस्य प्रवर्तिकां वर्तिमाह| इयं च वर्तिर्गुडपाकेन कठिना कर्तव्या यथा श्लक्ष्णा भवति| पश्चार्धे इति मूले; अङ्गुष्ठसन्निभामिति पायौ स्नेहप्रवृत्त्यर्थं दीयमानाऽङ्गुष्ठसमाना कर्तव्या| ताभ्यामिति मेढ्रगुदाभ्यां दत्तवर्तिभ्याम्| उत्तरबस्तेरनुवासनवत् सेव्यपरिहारव्यापत्सम्यग्दत्तलक्षणान्यतिदिशन्नाह- आनुवासनिको विधिरित्यादि||५८-६१||
स्त्रीणामार्तवकाले तु प्रतिकर्म तदाचरेत्|
गर्भासना सुखं स्नेहं तदाऽऽदत्ते ह्यपावृता||६२||
गर्भं [४३] योनिस्तदा शीघ्रं जिते गृह्णाति मारुते|
बस्तिजेषु विकारेषु योनिविभ्रंशजेषु च||६३||
योनिशूलेषु तीव्रेषु योनिव्यापत्स्वसृग्दरे|
अप्रस्रवति मूत्रे च बिन्दुं बिन्दुं स्रवत्यपि||६४||
विदध्यादुत्तरं बस्तिं यथास्वौषधसंस्कृतम् [४४] |६५|
आर्तवकाले त्वौत्सर्गिकतयोक्तं [४५] स्त्रीणामुत्तरबस्तिदानमार्तवकाले विधत्ते| आर्तवकालदाने हेतुमाह- गर्भासनेत्यादि| गर्भासना गर्भशय्या, गर्भाशय इत्यर्थः; अन्ये तु योनिमाहुः| आदत्त इति सम्यग् गृह्णाति| अपावृतेति अपगतसञ्चितरजोरूपावरणा||६२-६४||-
पुष्पनेत्रप्रमाणं तु प्रमदानां दशाङ्गुलम्||६५||
मूत्रस्रोतःपरीणाहं मुद्गस्रोतोऽनुवाहि [४६] च|
अपत्यमार्गे नारीणां विधेयं चतुरङ्गुलम्||६६||
द्व्यङ्गुलं मूत्रमार्गे तु बालायास्त्वेकमङ्गुलम्|
उत्तानायाः शयानायाः सम्यक् सङ्कोच्य सक्थिनी||६७||
अथास्याः प्रणयेन्नेत्रमनुवंशगतं सुखम्|
द्विस्त्रिश्चतुरिति स्नेहानहोरात्रेण योजयेत्||६८||
बस्तौ [४७] , बस्तौ प्रणीते च वर्तिः पीनतरा भवेत्|
त्रिरात्रं कर्म कुर्वीत स्नेहमात्रां विवर्धयेत्||६९||
अनेनैव विधानेन कर्म कुर्यात् पुनस्त्र्यहात्|७०|
पुष्पनेत्रप्रमाणं त्वित्यादि| मुद्गस्रोतोऽनुवाहीति मूद्गवाहिच्छिद्रम्| अपत्यमार्गे विधेयं चतुरङ्गुलमिति अपत्यमार्गे स्नेहयितव्ये चतुरङ्गुलप्रवेशनं [४८] प्राप्तयौवनानामेव नारीणां कर्तव्यं, मूत्रमार्गे तु स्नेहयितव्ये द्व्यङ्गुलप्रवेशनं प्राप्तयौवनानामेव नारीणां कर्तव्यम्| बालायाः स्वल्पप्रमाणतया एकाङ्गुलप्रवेशनमेव मूत्रमार्गप्रयोगार्थं कर्तव्यं; बालानां त्वपत्यमार्गे न दीयत एव, तासामपत्यमार्गस्यावृतत्वात्| वर्तिः पीनतरा भवेदिति स्नेहप्रत्यागमनार्था वर्तिः पीनतरा कर्तव्या| स्नेहमात्रा चात्र “स्नेहस्य प्रसृतं चात्र स्वाङ्गुलीमूलसम्मितम्” (सु.चि.अ.३७) इत्यनेन सुश्रुतोक्ता ज्ञेया||६५-६९||-
अतः शिरोविकाराणां कश्चिद्भेदः प्रवक्ष्यते||७०||
रक्तपित्तानिला दुष्टाः शङ्खदेशे विमूर्च्छिताः|
तीव्ररुग्दाहरागं हि शोफं कुर्वन्ति दारुणम्||७१||
स शिरो विषवद्वेगी निरुध्याशु गलं तथा|
त्रिरात्राज्जीवितं [४९] हन्ति शङ्खको नाम [५०] नामतः||७२||
परं [५१] त्र्यहाज्जीवति चेत् प्रत्याख्यायाचरेत् क्रियाम्|
शिरोविरेकसेकादि सर्वं वीसर्पनुच्च यत्||७३||
क्रमागतशिरोविकारज्ञानार्थं त्रिमर्मीयाविस्तृतान् वक्तुमाह- अत इत्यादि| दारुण इति आशुकारी| परं त्र्यहाज्जीवतीत्यादिकः प्रभावोऽयं शङ्खकस्य| प्रत्याख्यायाचरेत् क्रियामित्यनेन उत्पन्नमात्र एव प्रत्याख्यानपूर्विका चिकित्सा कर्तव्याऽस्य||७०-७३||
रूक्षात्यध्यशनात् [५२] पूर्ववातावश्यायमैथुनैः|
वेगसन्धारणायासव्यायामैः कुपितोऽनिलः||७४||
केवलः सकफो वाऽर्धं [५३] गृहीत्वा शिरसस्ततः|
मन्याभ्रूशङ्खकर्णाक्षिललाटार्धेऽतिवेदनाम्||७५||
शस्त्रारणिनिभां कुर्यात्तीव्रां सोऽर्धावभेदकः|
नयनं वाऽथवा श्रोत्रमतिवृद्धो विनाशयेत्||७६||
चतुःस्नेहोत्तमा मात्रा शिरःकायविरेचनम्|
नाडीस्वेदो घृतं जीर्णं बस्तिकर्मानुवासनम्||७७||
उपनाहः शिरोबस्तिर्दहनं चात्र शस्यते|
प्रतिश्याये शिरोरोगे यच्चोद्दिष्टं चिकित्सितम्||७८||
रूक्षेत्यादिनाऽर्धावभेदकमाह| अवश्यायः हिमः| शस्त्रारणिनिभामिति शस्त्रच्छेदारणिमन्थननिभाम्; अरणिः अग्न्युत्थापनकाष्ठं; किंवा अरणिना कारणेनाग्निरेवात्र लक्ष्यते| चतुःस्नेहस्योत्तमा मात्रा; उत्तमा च मात्रा अहोरात्रपरिणमनीया| जीर्णं दशवर्षस्थितं घृतम्| उपनाहं केचिच्छिरोबस्तिभेदमाहुः, यो मास्तिष्क उच्यते; तन्त्रान्तरे हि मास्तिष्क उपनाहः शिरोबस्तिप्रकार उक्तः- “मास्तिष्केऽष्टाङ्गुलं पट्टं बस्तौ तु द्वादशाङ्गुलम्” इत्यादिना; शिरोबस्तिविधानं शालाक्ये ज्ञेयं; यथा- “द्वादशाङ्गुलविस्तीर्णं चर्मपट्टं शिरःसमम्| आकर्णबन्धनस्थाने ललाटे वस्त्रवेष्टिते|| चेलवेणिकया बद्ध्वा माषकल्केन लेपयेत्| ततो यथाव्याधिशृतं स्नेहं कोष्णं निवेशयेत्|| ऊर्ध्वं केशभुवो यावदङ्गुलं धारयेच्च तम्| आवक्रनासिकाक्लेदाद्दशाष्टौ षड्वातादिषु|| मात्रा सहस्राण्यरुजे ह्येकं स्कन्धादि मर्दयेत्| युक्तस्नेहस्य परमं सप्ताहं तस्य सेवनम्” इति; तथा “आशिरोव्यायतं चर्म कृत्वाऽष्टाङ्गुलमुच्छ्रितम्| तेनावेष्ट्य शिरोऽधस्तान्माषकल्केन लेपयेत्|| निश्चलस्योपविष्टस्य तैलैः कोष्णैः प्रपूरयेत्| धारयेदारुजः शान्त्यै यामं यामार्धमेव वा|| शिरोबस्तिर्जयत्येष शिरोरोगं मरुद्भवम्” इत्यादि| दहनं वाऽस्येति तन्त्रान्तरप्रत्ययाद् द्व्यङ्गुलललाटशङ्खप्रदेशेषु शरकाण्डादिना दहनं ज्ञेयम्| यच्चोद्दिष्टं चिकित्सितमिति तच्चात्र शस्यते इति योज्यम्||७४-७८||
सन्धारणादजीर्णाद्यैर्मस्तिष्कं रक्तमारुतौ|
दुष्टौ दूषयतस्तच्च दुष्टं ताभ्यां विमूर्च्छितम्||७९||
सूर्योदयेंऽशुसन्तापाद्द्रवं [५४] विष्यन्दते शनैः|
ततो दिने शिरःशूलं दिनवृद्ध्या विवर्धते||८०||
दिनक्षये ततः स्त्याने मस्तिष्के सम्प्रशाम्यति|
सूर्यावर्तः स तत्र स्यात् सर्पिरौत्तरभक्तिकम्||८१||
शिरःकायविरेकौ च मूर्ध्ना त्रिस्नेहधारणम् [५५] |
जाङ्गलैरुपनाहश्च घृतक्षीरैश्च सेचनम् [५६] ||८२||
बर्हितित्तिरिलावादिशृतक्षीरोत्थितं घृतम्|
स्यान्नावनं जीवनीयक्षीराष्टगुणसाधितम्||८३||
मस्तिष्कं शिरःस्थो [५७] मज्जा| द्रवमिति द्रवं सत्| विष्यन्दते इति च्यवते| एतच्च सूर्यावर्तस्य रूपं दोषदूष्ययोर्विकृतिविषमसमवायाद्भवति; तेन नान्यविकार एवम्भूतो भवति| तथा वेदना सूर्यतापे एवास्य वर्धते नाग्नितापे, इत्येतदपि प्रभावकृतमेव ज्ञेयम्| त्रिस्नेहधारणमिति पाठात् तैलघृतवसाधारणं वदन्ति| लावादयो विष्किरा अन्नपानोक्ताः||७९-८३||
(उपवासातिशोकातिरूक्षशीताल्पभोजनैः [५८] )|
दुष्टा दोषास्त्रयो मन्यापश्चाद्घाटासु [५९] वेदनाम्||८४||
तीव्रां कुर्वन्ति सा [६०] चाक्षिभ्रूशङ्खेष्ववतिष्ठते|
स्पन्दनं गण्डपार्श्वस्य नेत्ररोगं हनुग्रहम्||८५||
सोऽनन्तवातस्तं हन्यात् सिरार्कावर्तनाशनैः|
वातो रूक्षादिभिः क्रुद्धः शिरःकम्पमुदीरयेत्||८६||
तत्रामृताबलारास्नामहाश्वेताश्वगन्धकैः|
स्नेहस्वेदादि वातघ्नं शस्तं नस्यं च तर्पणम्||८७||
मन्या ग्रीवासिराद्वयं, घाटा ग्रीवायाः पश्चाद्भागः, पश्चात् पृष्ठम्| सा चाक्षिभ्रूशङ्खेष्ववतिष्ठत इति शङ्खादीन् व्याप्य स्थिरा भवति| अनन्तवातमेनं तन्त्रान्तरे अन्यतोवातमाहुः| सिरार्कावर्तनाशनैरिति सिराव्यधैः, सूर्यावर्तनाशनैश्च भेषजैः||८४-८७||
नस्तःकर्म च कुर्वीत शिरोरोगेषु शास्त्रविद्|
द्वारं हि शिरसो नासा तेन तद् व्याप्य हन्ति तान्||८८||
नस्तःकर्म चेति सर्वशिरोरोगसाधारणं चिकित्सितम्| शिरोरोगेषु नस्तःकर्मकरणे हेतुमाह- द्वारं हीत्यादि| तेन नासारूपेण मार्गेण| तदिति नस्तो दत्तमौषधम्| व्याप्येति शिरो व्याप्य| तानिति शिरोगदान्||८८||
नावनं चावपीडश्च ध्मापनं धूम एव च|
प्रतिमर्शश्च विज्ञेयं नस्तःकर्म तु पञ्चधा||८९||
स्नेहनं शोधनं चैव द्विविधं नावनं स्मृतम्|
शोधनः स्तम्भनश्च स्यादवपीडो द्विधा मतः [६१] ||९०||
चूर्णस्याध्मापनं तद्धि देहस्रोतोविशोधनम् [६२] |
विज्ञेयस्त्रिविधो धूमः प्रागुक्तः शमनादिकः||९१||
प्रतिमर्शो भवेत् स्नेहो निर्दोष उभयार्थकृत्|
एवं तद्रेचनं कर्म तर्पणं शमनं त्रिधा||९२||
शिरोरोगप्रस्तावागतानवश्यवक्तव्यनस्तःकर्मभेदानाह- नावनमित्यादि| नावनादयश्चिकित्सास्थानोक्ताः| अत्र सुश्रुते धूमं वर्जयित्वा पञ्चविधं नस्तःकर्मोक्तं- “तद्द्विविधमपि पञ्चविधविकल्पं; तद्यथा- नस्यं, शिरोविरेचनं, प्रतिमर्शः, अवपीडः, प्रधमनं च” (चि.अ.४०)| इति; इह तु नावनशब्देनैव शिरोविरेचनमपि गृहीतं; यदुक्तं- “स्नेहनं शोधनं चैव नावनं द्विविधं स्मृतम्” इति; तेन सुश्रुतोक्तोऽप्यर्थो गृहीत एव| शोधनः स्तम्भनश्च स्यादवपीड इत्यत्र संशमनमप्यवपीडस्य कर्मेच्छन्ति, तच्च स्तम्भने एवान्तर्भावनीयम्| अवपीड्य यत्र कल्कादीनि दीयन्ते इत्यवपीडः; अनेन शिरोविरेचनार्थं दीयमानसैन्धवपिप्पल्यादिकल्कस्याप्यवरोधः| ध्मापनं तद्धि देहस्रोतोविशोधनमिति वचनाद् ध्मापनं शिरोविरेचनप्रयोजनकमेवेति दर्शयति| शमनादिक इत्यत्र शमनशब्देन प्रायोगिकं गृह्णाति, तेन प्रायोगिकस्नैहिकवैरेचनिकधूमानां नासादीयमानानामिह ग्रहणं, मुखपेयस्तु धुमो न नस्यम्| उभयार्थकृदिति स्नेहनविरेचनार्थकृत्| प्रतिमर्शलक्षणमग्रे “नस्तःस्नेहाङ्गुलिं दद्यात्” इत्यादिना वक्ष्यमाणम्| उक्तपञ्चविधनस्तःकर्मणस्त्रैविध्यमाह- एवमित्यादि| कर्मेति नस्तःकर्म| शमनेन स्तम्भनस्यापि ग्रहणं; तर्पणे स्नेहनस्यावरोधः; अन्ये ये केचित् प्रभेदास्तन्त्रान्तरे प्रतिपादितास्तेऽप्यत्रैवान्तर्भवन्ति||८९-९२||
स्तम्भसुप्तिगुरुत्वाद्याः श्लैष्मिका ये शिरोगदाः|
शिरोविरेचनं तेषु नस्तःकर्म प्रशस्यते||९३||
ये च वातात्मका रोगाः शिरःकम्पार्दितादयः|
शिरसस्तर्पणं तेषु नस्तःकर्म प्रशस्यते [६३] ||९४||
रक्तपित्तादिरोगेषु शमनं नस्यमिष्यते|
ध्मापनं धूमपानं च तथा योग्येषु शस्यते [६४] ||९५||
(दोषादिकं [६५] समीक्ष्यैव भिषक् सम्यक् च कारयेत्)|९६|
विरेचनादिकर्मत्रयस्य विषयमाह- स्तम्भेत्यादि| तर्पणमिति स्नेहेन तर्पणम्| तथा योग्येषु शस्यत इति ध्मापनधूमयोग्येषु शस्यते; तत्र धूमयोग्याः सूत्रस्थाने प्रतिपादिताः, ध्मापनयोग्यास्तु ध्मापनगुणकथने ‘देहस्रोतोविशोधनम्’ इतिपदेन येऽभिन्यासापस्मारादयः शोधनीयस्रोतस उक्तास्ते ज्ञेयाः||९३-९५||-
फलादिभेषजं प्रोक्तं शिरसो यद्विरेचनम्||९६||
तच्चूर्णं कल्पयेत्तेन पचेत् स्नेहं विरेचनम्|
यदुक्तं मधुरस्कन्धे भेषजं तेन तर्पणम्||९७||
साधयित्वा भिषक् स्नेहं नस्तः कुर्याद्विधानवित्|९८|
शिरोविरेचनचूर्णं विधिं चाह- फलादीत्यादि| फलादिभेषजमिति रोगभिषग्जितीयोक्तं फलपत्रमूलकन्दपुष्पनिर्यासत्वग्भेदात् सप्तविधमुक्तं शिरोविरेचनद्रव्यम्| चूर्णं कल्पयेदिति प्रधमनार्थमवपीडनार्थं च चूर्णं कल्पयेत्| मधुरस्कन्धोऽपि रोगभिषग्जितीय एवोक्तः||९६-९७||-
प्राक्सूर्ये मध्यसूर्ये वा प्राक्कृतावश्यकस्य च||९८||
उत्तानस्य शयानस्य शयने स्वास्तृते सुखम्|
प्रलम्बशिरसः किञ्चित् किञ्चित् पादोन्नतस्य च||९९||
दद्यान्नासापुटे स्नेहं तर्पणं बुद्धिमान् भिषक्|
अनवाक्शिरसो नस्यं न शिरः प्रतिपद्यते||१००||
अत्यवाक्शिरसो नस्यं मस्तुलुङ्गेऽवतिष्ठति|
अत एवंशयानस्य शुद्ध्यर्थं स्वेदयेच्छिरः||१०१||
संस्वेद्य नासामुन्नम्य वामेनाङ्गुष्ठपर्वणा|
हस्तेन दक्षिणेनाथ कुर्यादुभयतः समम्||१०२||
प्रणाड्या पिचुना वाऽपि नस्तःस्नेहं यथाविधि|
कृते च स्वेदयेद्भूय आकर्षेच्च पुनः पुनः||१०३||
तं स्नेहं श्लेष्मणा साकं [६६] तथा स्नेहो न तिष्ठति|
स्वेदेनोत्क्लेशितः श्लेष्मा नस्तःकर्मण्युपस्थितः [६७] ||१०४||
भूयः स्नेहस्य शैत्येन शिरसि स्त्यायते [६८] ततः|
श्रोत्रमन्यागलाद्येषु विकाराय स कल्पते||१०५||
ततो नस्तःकृते धूमं पिबेत् कफविनाशनम् [६९] |
हितान्नभुङ्निवातोष्णसेवी स्यान्नियतेन्द्रियः||१०६||
विधिरेषोऽवपीडस्य कार्यः प्रध्मापनस्य तु|
तत् षडङ्गुलया [७०] नाड्या धमेच्चूर्णं मुखेन तु||१०७||
विरिक्तशिरसं तूष्णं [७१] पाययित्वाऽम्बु भोजयेत्|
लघु त्रिष्वविरुद्धं च निवातस्थमतन्द्रितः||१०८||
विरेकशुद्धो दोषस्य कोपनं यस्य सेवते|
स दोषो विचरंस्तत्र करोति स्वान् गदान् बहून्||१०९||
यथास्वं विहितां तेषु क्रियां कुर्याद्विचक्षणः|
अकालकृतजातानां रोगाणामनुरूपतः||११०||
नस्तःकर्मविधिमाह- प्राक्सूर्ये इत्यादि| ग्रीष्मे प्राक्सूर्ये, शीते तु मध्यसूर्ये इति व्यवस्था| प्राक्कृतावश्यकस्य चेति प्राक्कृतावश्यकरणीयमलविसर्गादिकस्य| एवं शयानस्येति किञ्चिदवनतशिरस्कतया शयानस्य| कुर्यादुभयतः सममिति उभयनासापुटेनापि तुल्यं दद्यात्| प्रणाडी नस्यदाननलिका| यथाविधीति प्रमाणादिदोषरहितम्| कृतनस्यस्य धुमपानोपपत्तिवर्णनपूर्वकं धूमपानमाह- स्वेदनेत्यादि| प्रध्मापनस्य चोक्तो विधिस्तथा वक्ष्यमाणश्च ‘षडङ्गुलया’ इत्यादिना| विरिक्तशिरसमित्यादि सर्वविरेचनसाधारणम्| त्रिष्विति वातादिषु| विरेकशुद्ध इति शिरोविरेकशुद्धः| यस्य दोषस्य कोपनं सेवते इति योज्यम्| अकालकृतजातानां रोगाणामनुरूपत इति अकालकृतशिरोविरेचनजातानां रोगाणामनुरूपतश्चिकित्सां कुर्यादित्यर्थः||९८-११०||
अजीर्णे [७२] भोजने भुक्ते तोये पीतेऽथ दुर्दिने|
प्रतिश्याये नवे स्नाते [७३] स्नेहपानेऽनुवासने||१११||
नावनं स्नेहनं रोगान् करोति श्लैष्मिकान् बहून्|
तत्र श्लेष्महरः सर्वस्तीक्ष्णोष्णादिर्विधिर्हितः||११२||
क्षामे विरेचिते गर्भे व्यायामाभिहते तृषि|
वातो रूक्षेण नस्येन क्रुद्धः स्वाञ्जनयेद्गदान्||११३||
तत्र वातहरः सर्वो विधिः स्नेहनबृंहणः|
स्वेदादिः, स्याद्घृतं क्षीरं [७४] गर्भिण्यास्तु विशेषतः||११४||
ज्वरशोकातितप्तानां तिमिरं मद्यपस्य तु|
रूक्षैः शीताञ्जनैर्लेपैः पुटपाकैश्च साधयेत् [७५] ||११५||
नावनं स्नेहनमिति स्नेहनार्थं नस्यम्| स्वेदादिरिति च्छेदः| घृतं क्षीरमिति गर्भिण्या वातजयार्थं गर्भपुष्टये च| ज्वरेत्यादि| ज्वरादितप्तानां स्नेहनं नावनं तिमिरं कुर्यात्, तथा मद्यपस्य तिमिरं कुर्यात्| अत्र चिकित्सामाह- रूक्षैरित्यादि| शीताञ्जनं स्रोतोञ्जनं वदन्ति; किंवा तिक्तद्रव्यकृतमञ्जनं शीताञ्जनं; यदुक्तं शालाक्ये- “लेखनं रोपणं चैव प्रसादनमथापि च| तिक्तेन रोपणं कार्यं, मधुरेण प्रसादनम्|| कट्वम्ललवणाद्यैश्च लेखनं कारयेद्बुधः| शैत्यान्निर्वापयेत्तिक्तो रौक्ष्याद्रोपयति द्रुतम्” इति| रूक्षैरित्यञ्जनादिभिः सम्बध्यते| लेपः नयनालेपः [७६] ; पुटपाकः अक्षितर्पणजविकारहरलेखनः शमनो वा ज्ञेयः; पुटपाको हि शालाक्ये स्नेहन-लेखन-प्रसादनभेदात् त्रिविध उक्तः; तद्विधिश्चेहान्याधिकारान्न प्रपञ्चितः||१११-११५||
स्नेहनं शोधनं चैव द्विविधं नावनं [७७] मतम्|
प्रतिमर्शस्तु नस्यार्थं करोति न च दोषावान्||११६||
नस्तः स्नेहाङ्गुलिं दद्यात् प्रातर्निशि च सर्वदा|
न चोच्छिङ्घेदरोगाणां प्रतिमर्शः स दार्ढ्यकृत्||११७||
प्रतिमर्शस्य नावनसम्पाद्योभयकर्मदर्शनार्थं नावनकर्म प्रागुक्तमनूद्यते- स्नेहनमित्यादि| अन्ये, सर्वनस्तःकर्मणामेवैतत् कर्मद्वयमनूद्यते, तत्र च स्नेहनशमनस्य प्रागुक्तस्यावरोध इति वदन्ति| तस्यार्थमिति स्नेहनं शोधनं च| न च दोषवानिति न व्यापत्तिमान्| प्रतिमर्शविधिमाह- नस्त इत्यादि| स्नेहाङ्गुलिमिति स्नेहपूरितामङ्गुलिम्| सर्वदेति सर्वर्तुषु| दार्ढ्यकृदिति शिरःकपालादिदार्ढ्यकृत्| अयं प्रतिमर्शः स्वल्पस्नेहप्रमाणोऽनुच्छिङ्घनश्च सार्वकालिको ज्ञेयः; यस्तु भूरिस्नेहमात्रो नासौ सार्वकालिकः| यदुक्तम् “ईषदुच्छिङ्घनात् स्नेहो यावान् वक्रं प्रपद्यते| नस्तो निषिक्तं तं विद्यात् प्रतिमर्शं प्रमाणतः” इति; तथा “प्रतिमर्शं तु न पिबेत् कण्ठास्रावभयान्नरः| यावत् स्नेहो व्रजेदास्यं तत्प्रमाणं च तस्य तु” इति||११६-११७||
तत्र श्लोकौ-
त्रीणि यस्मात् प्रधानानि मर्माण्यभिहतेषु च|
तेषु लिङ्गं चिकित्सां च रोगभेदाश्च सौषधाः||११८||
विधिरुत्तरबस्तेश्च नस्तःकर्मविधिस्तथा|
सव्यापद्भेषजं सिद्धौ मर्माख्यायां प्रकीर्तितम्||११९||
त्रीणीत्यादिसङ्ग्रहो व्यक्तार्थः||११८-११९||
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरिते
सिद्धिस्थाने त्रिमर्मीयसिद्धिर्नाम नवमोऽध्यायः||९||
इति श्रीचक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां चरकतात्पर्यटीकायां

१. ‘पूर्वाध्यायेऽप्यनुवर्तते’ इति पा.|
२. ‘तानधिकृत्य कृता’ इति पा.|
३. ‘हृदि’ इति पा.|
४. ‘प्राणोदानौ’ इति पा.|
५. ‘…मूत्रवहानां’ इति पा.|
६. ‘प्रतिष्ठितः’ इति पा.|
७. ‘तदुपतापात्तु’ इति पा.|
८. ‘हृदयार्थस्य व्यतिरिक्तानुविधायित्वात्’ इति पा.|
९. ‘मूले(न) वा’ इति पा.|
१०. अयं पाठो हस्तलिखितपुस्तके न पठ्यते|
११. ‘भ्रमन्ति’ इति पा.|
१२. ‘हृदयाद्याश्रितत्वं’ इति पा.|
१३. ‘…गुल्मब्रध्नानिल…’ इति पा.|
१४. ‘भूयश्च हृद्युपसृष्टे वातेन हिङ्गुचूर्णलवणानामन्यतमचूर्णसंयुक्तां पेयां मातुलुङ्गरसेनान्येन वाऽम्लेन हृद्येन वा पाययेत्’ इति पा.|
१५. ‘मातुलुङ्गरसेनाज्येन वा बिल्वादिस्थिरादिपञ्चमूलरससिद्धा यवागूः’ इति पा.|
१६. ‘…शृतक्षीरं च’ इति पा.|
१७. ‘मर्मभेदादिचिकित्सितमाह-’ इति पा.|
१८. ‘…विधानाज्ज्ञेयः’ इति पा.|
१९. ‘यत्नात् कुर्वीत परिपालनम्|’ इति पा.|
२०. अयमर्धश्लोको हस्तलिखितपुस्तके न पठ्यते|
२१. ‘उच्छ्वसिति च कृच्छ्रेण स्तब्धाक्षोऽथानिमीलनः’ इति पा.|
२२. ‘वातकफाच्च’ इति पा.|
२३. ‘वातिकः’ इति पा.|
२४. ‘श्वसनः कफवाताभ्यां रुद्धस्तं च’ इति पा.|
२५. ‘हिङ्गु तुम्बुरु पथ्या च’ इति पा.|
२६. ‘हृत्पार्श्वार्त्यपतन्त्रके’ इति पा.|
२७. ‘शोधने’ इति पा.|
२८. ‘…गुर्वम्ल…’ इति पा.|
२९. ‘…द्भयात्’ इति पा.|
३०. ‘मूत्रैकसादो’ इति पा.|
३१. ‘द्वयं वाऽपि’ इति पा.|
३२. ‘मूत्रैकसादं’ इति पा.|
३३. ‘हन्यान्मूत्रादिसङ्घातं व्याधिं च गुदमेढ्रयोः’ इति पा.|
३४. ‘तच्छेषगुरुशेफसः’ इति पा.|
३५. ‘मूत्रमाधारयेद्वस्तौ’ इति पा.|
३६. ‘चावृते’ इति पा.|
३७. ‘तृण्मोहः’ इति पा.|
३८. ‘सङ्क्षेपलक्षणम्’ इति पा.|
३९. ‘जातीपुष्पस्य वृन्तेन’ इति पा.|
४०. ‘विसृष्टवर्चोमूत्रस्य’ इति पा.|
४१. ‘हिंस्याद्बस्तिगतं’ इति पा.|
४२. ‘पूर्णे(र्वे)’ इति पा.|
४३. अयमर्धश्लोको हस्तलिखितपुस्तके न पठ्यते|
४४. ‘यथास्वौषधमिश्रितम्’ इति पा.|
४५. ‘त्वौत्सर्गिककालोक्तं’ इति, ‘त्वौत्सर्गिकं नोक्तं’ इति च पा.|
४६. ‘मुद्गस्रोतोनुपाति च’ इति पा.|
४७. ‘बस्तिं बस्तौ प्रणीते च वर्तिश्चानन्तरा भवेत्’ इति पा.|
४८. ‘चतुरङ्गुलप्रवेशनमन्तः कर्तव्यम्’ इति पा.|
४९. ‘शङ्खकोऽग्निनिभः क्षिप्रं विनाशयति मानवम्’ इति पा.|
५०. ‘नामतः परम्’ इति पा.|
५१. ‘जीवेत्त्र्यहं चेद्भैषज्यं प्रत्याख्याय समाचरेत्’ इति पा.|
५२. ‘रूक्षाशनादध्यशनात् प्राग्वातस्य च सेवनात्’ इति पा.|
५३. ‘वाऽपि गृहीत्वाऽर्धं शिरो बली’ इति पा.|
५४. ‘…द्रक्तं विष्यन्दयेच्छनैः’ इति पा.|
५५. ‘तु स्नेहधारणम्’ इति पा.|
५६. ‘नावनम्’ इति पा.|
५७. ‘शिरसो मज्जा’ इति पा.|
५८. अयं पाठो हस्तलिखितपुस्तके न पठ्यते|
५९. ‘मन्यां पश्चाद्घाटासु’ इति पा.|
६०. ‘नासाक्षिभ्रूशङ्खेष्ववतिष्ठते’ इति पा.|
६१. ‘च सः’ इति पा.|
६२. ‘देहश्लेष्मविशोधनम्’ इति पा.|
६३. ‘प्रचक्षते’ इति पा.|
६४. ‘कारयेत्’ इति पा.|
६५. अयं पाठो हस्तलिखितपुस्तके न पठ्यते|
६६. ‘सार्धं यथा’ इति पा.|
६७. ‘नस्तः कर्मण्युरः स्थितः’ इति पा.|
६८. ‘श्यायते पुनः’ इति पा.|
६९. ‘कफविशोधनम्’ पा.|
७०. ‘षडङ्गुल्याऽथवा’ पा.|
७१. ‘तप्तं’ इति पा.|
७२. ‘अजीर्णे भुक्तभक्ते च तोयपीतेऽथ दुर्दिने’ इति पा.|
७३. ‘स्त्याने स्नेहपीतेऽनुवासिते’ इति पा.|
७४. ‘जीर्णे’ इति पा.|
७५. ‘शोधयेत्’ इति पा.|
७६. ‘वदनालेपः’ इति पा.|
७७. ‘नस्यमुच्यते’ इति पा.|
Moolashloka with Chakrapani Commentary

Pathantara/Pathabheda
athātastrimarmīyāṁ siddhiṁ vyākhyāsyāmaḥ||1||
iti ha smāha bhagavānātrēyaḥ||2||
prāsr̥tayōgīyānantaraṁ trimarmīyā siddhirucyatē, trimarmajarōgāśrayivyāpadāṁ bastirūpacikitsōpadarśanārthaṁ; vyāpatpratīkārānantaraṁ bastiprayōgādhikāraśca pūrvādhyāyādanuvartatē [1] ; kiṁvā, bastivyāpaccikitsā pūrvādhyāyādikr̥tā, bastivyāpādācca trimarmajā api rōgā bhavanti, tēna tēṣāṁ jñānapūrvakacikitsōpadarśanārthaṁ trimarmīyasiddhirucyatē| ētadadhyāyavaktavyāśca gadāstrimarmīyacikitsitē’dhyāyavistarabhayānnōktāḥ, ta iha pratipādyantē| atrāpi marmaśabdēna marmagatā gadā ucyantē, tānadhikr̥tā [2] siddhistrimarmīyasiddhiḥ||1-2||
saptōttaraṁ marmaśatamasmiñcharīrē skandhaśākhāsamāśritamagnivēśa!|
tēṣāmanyatamapīḍāyāṁ samadhikā pīḍā bhavati, cētanānibandhavaiśēṣyāt|
tatra śākhāśritēbhyō marmabhyaḥ skandhāśritāni garīyāṁsi, śākhānāṁ tadāśritatvāt; skandhāśritēbhyō’pi hr̥dvastiśirāṁsi, tanmūlatvāccharīrasya||3||
saptōttaraṁ marmaśatamiti śarīrasaṅkhyābhihitaṁ; tacca māṁsasirāsnāyvasthisandhiṣu niviṣṭam| skandhaśabdēnānantarādhirucyatē; śākhāśabdēna cēha śākhēva śākhēti kr̥tvā bāhudvayaṁ jaṅghādvayaṁ cōcyatē; nēha śākhāśabdēna raktādidhātūnāṁ grahaṇaṁ, raktādidhātūnāṁ skandhē’pi, vidyamānatvāt| tatra śākhāśritāni catuścatvāriṁśanmarmāṇi, śēṣaṁ skandhāśritam| yaduktaṁ suśrutē- “tēṣāmēkādaśaikasmin sakthi bhavanti, ētēnētarasakthi bāhū ca vyākhyātau; udarōrasōrdvādaśa, caturdaśa pr̥ṣṭhē, grīvāṁ pratyūrdhvaṁ saptatriṁśat” (su.śā.a.6) iti; ētēṣāṁ ca marmaṇāṁ pratyēkaṁ vibhāga uktaḥ suśrutē ēva “talahr̥daya” (su.śā.a.6) ityādinā prapañcatō’nusaraṇīyaḥ| saptōttaraśatamarmaṇāmamarmaśarīradēśavilakṣaṇaṁ dharmamāha- tēṣāmityādi| cētanānibandhavaiśēṣyāditi yasmānmarmasu cētanādhāturviśēṣēṇa nibaddha ityarthaḥ; cētanānibandhaśca marmasvadr̥ṣṭakr̥ta ēva marmapīḍayā viśēṣapīḍādarśanādunnīyatē| śākhānāṁ tadāśritatvāditi yasmācchākhā api skandhāśritāḥ, tēna skandhāśritaśākhāśritēbhyaḥ sākṣāt skandhāśritaṁ marma garīyō bhavatītyarthaḥ; skandhāśritatvaṁ ca śākhānāṁ skandhōpaghātēna tadupaghātāt, tathā skandhaniṣpannēnaiva rasādinā tatpōṣaṇāt; kiñca skandhāśritānyēva marmāṇi sadyaḥprāṇaharāṇi, na śākhāśrayāṇi; tēna ca skandhasya prādhānyam| yaduktaṁ suśrutē- “śr̥ṅgāṭakānyadhipatiḥ śaṅkhau kaṇṭhaśirōgudam| hr̥dayaṁ bastinābhī ca ghnanti sadyō hatāni vai” (su.śā.a.6) iti| hr̥dbastiśirāṁsi garīyāṁsīti sambandhaḥ| ētadgarīyastvē hētumāha- tanmūlatvāccharīrasyēti| tanmūlatvāditi tadāśritatvāt, tathā ca hr̥dayāśritatvaṁ śarīrasya ‘tatra hr̥dayē daśa dhamanyaḥ’ ityādinā ‘nābhyāmarā iva’ ityantēna darśayiṣyati| yadyapi ca marmāntarāṇyapi viśēṣēṇa prāṇāśrayāṇyuktāni; yathā ‘daśaivāyatanānyāhuḥ prāṇā yēṣu pratiṣṭhitāḥ| śaṅkhau marmatrayaṁ kaṇṭhō raktaṁ śukraujasī gudam’ (sū.a.29) ityanēna, tathā’pi śaṅkhādīni na śarīrāśrayabhūtāni yathā hr̥dayādīni; tēna prāṇāyatanatvē samānē’pyuktaśarīrāśrayatvaviśēṣādiha hr̥dayādīnāmēva prādhānyamucyatē; kiñca, prāṇāśrayatvamapi yathā hr̥dayādīnāṁ na tathā śaṅkhādīnām; uktaṁ hi “saptōttaraṁ marmaśataṁ yaduktaṁ śarīrasaṅkhyāmadhikr̥tya tēṣu| marmāṇi bastiṁ hr̥dayaṁ śiraśca pradhānabhūtānyr̥ṣayō vadanti|| prāṇāśrayān tānapi pīḍayantō vātādayō’sūnapi pīḍayanti” (su.śā.a.6) iti| anyē tu śaṅkhādiprāṇāśrayāṇāṁ hr̥dayādiṣvēva sāmīpyādantarbhāvaṁ darśayanti, taccāmūlatvādupēkṣitam||3||
tatra hr̥dayē [3] daśa dhamanyaḥ prāṇāpānau [4] manō buddhiścētanā mahābhūtāni ca nābhyāmarā iva pratiṣṭhitāni, śirasi indriyāṇi indriyaprāṇavahāni ca srōtāṁsi sūryamiva gabhastayaḥ saṁśritāni, bastistu sthūlagudamuṣkasēvanīśukramūtravāhinīnāṁ [5] nāḍī(lī)nāṁ madhyē mūtradhārō’mbuvahānāṁ sarvasrōtasāmudadhirivāpagānāṁ pratiṣṭhā [6] , bahubhiśca tanmūlairmarmasañjñakaiḥ srōtōbhirgaganamiva dinakarakarairvyāptamidaṁ śarīram||4||
tēṣāṁ trayāṇāmanyatamasyāpi bhēdādāśvēva śarīrabhēdaḥ syāt, āśrayanāśādāśritasyāpi vināśaḥ; tadupaghātāttu [7] ghōrataravyādhiprādurbhāvaḥ; tasmādētāni viśēṣēṇa rakṣyāṇi bāhyābhighādvātādibhyaśca||5||
daśa dhamanya iti ōjōvahā daśa dhamanyaḥ, “arthē daśa mahāmūlāḥ samāsaktāḥ” (sū.a.30) ityādinā arthēdaśamahāmūlīyē pratipāditāḥ| prāṇāpānāviti ucchvāsaniśvāsau, kēcittu prāṇāpānau yathōktāvēva vātau prāhuḥ; tatrāpānō yadyapi mēḍhraśrōṇyādyāśraya ēvētyāhuḥ, tathā’pi hr̥dayāvyatiriktānuvidhāyitvāddhr̥dayāśrita [8] ityucyatē| manaḥ antaḥkaraṇam| buddhiḥ mahacchabdābhilapyā| cētanā buddhivr̥ttibhēdaḥ| mahābhūtānīti ātmasambaddhāni sūkṣmamahābhūtāni| ētat sarvaṁ sāṅkhyadarśanē vyavasthāpitaṁ śārīrē ca vyutpāditamanusaraṇīyam| pradēśāntarē cōktaṁ- “ṣaḍaṅgamaṅgaṁ vijñānamindriyāṇyarthapañcakam| ātmā ca saguṇaścētaścintyaṁ ca hr̥di saṁsthitam” (sū.a.30) iti; tē’rthā ētacchlōkōktāḥ, adhikārthānāṁ ca prōktēṣvēvāvarōdhō vyākhyēyaḥ; kiṁvā iha śāstrōddhārēṇābhidhānam| yathā hr̥dayē daśa dhamanyādīnyāśritāni, taddr̥ṣṭāntēna darśayati- nābhyāmarā iva pratiṣṭhitānīti; nābhiḥ cakranābhiḥ, arāḥ cakranēmimadhyasthakāṣṭhāni, yathā- cakranābhyāṁ sambaddhā, arāstadupaghātādupahanyantē, tanmūlatvēna [9] tatsambandhā bhavanti, ēvaṁ dhamanyādayō’pītyarthaḥ| ‘nābhyāmaparā’ iti vā pāṭhaḥ, tēna garbhanābhyāmaparā ivētyarthaḥ (arā [10] iva aparēti vyākhyānayanti)| ētēna pradēśāntaravartināmapi dhamanyādīnāṁ hr̥dayāśritatvaṁ siddhamiti bhāvaḥ| śirasa āśrayatvamāha- śirasītyādi| indriyaprāṇavahāni srōtāṁsi yadyapi pradēśāntarē’pi bhavanti [11] , tathā’pi śirasi viśēṣēṇaivaitāni prabaddhānīti sūryamiva gabhastaya iti dr̥ṣṭāntēna darśayati| śiraāśrayatvaṁ ca yathōktasrōtasāṁ tadupaghātēna viśiṣṭōpaghātadarśanādunnīyatē| bastēḥ śarīrāśrayatvamāhu- bastistvityādi| sthūlagudādimadhyasthitatvapratipādanēnāsya sthūlagudādīnāṁ bastyāśrayatvaṁ darśayati| ambuvahānāṁ srōtasāṁ pratiṣṭhēti sthānamityarthaḥ, udadhiryathā”pagānāṁ pūraṇīyasthānaṁ, tathā bastirapyambuvahasrōtasāṁ viśrāmasthānam| tanmūlairiti tatsambaddhairmarmasañjñakaiḥ; nahi srōtasāṁ marmatvamasti; kiṁvā srōtōmarmaśabdēna sirāmarmaṇāṁ grahaṇaṁ; kiṁvā marmasambaddhāni marmapōṣakāṇi vā srōtāṁsi marmasañjñakāni srōtāṁsi| āśrayanāśādāśritasya nāśa iti āśrayanāśādāśritasya nāśō yasmādbhavati, tasmāddhr̥dayādīnāmanyatamasya nāśāccharīranāśō bhavatīti yuktam| śarīrasya hr̥dayāśritatvaṁ [12] śarīrārambhakapradhānadaśadhamanyādyāśrayatvēnaiva jñēyam| upaghātāditi kiñcidvaikr̥tāt||4-5||
tatra hr̥dyabhihatē kāsaśvāsabalakṣayakaṇṭhaśōṣaklōmākarṣaṇajihvānirgamamukhatāluśōṣāpasmārōnmādapralāpacittanāśādayaḥ syuḥ; śirasyabhihatē manyāstambhārditacakṣurvibhramamōhōdvēṣṭanacēṣṭānāśakāsaśvāsahanugrahamūkagadgadatvākṣinimīlana- gaṇḍaspandanajr̥mbhaṇalālāsrāvasvarahānivadanajihmatvādīni, bastau tu vātamūtravarcōnigrahavaṅkṣaṇamēhanabastiśūlakuṇḍalōdāvartagulmānilāṣṭhīlōpastambhanābhikukṣigudaśrōṇigrahādayaḥ [13] ; vātādyupasr̥ṣṭānāṁ tvēṣāṁ liṅgāni cikitsitē sakriyāvidhīnyuktāni||6||
hr̥dayādyabhighātabhavān vyādhīn kramēṇāha- tatrētyādi| klōmāpakarṣaṇaṁ klōmāpakarṣaṇākārā vēdanā| vēṣṭanaṁ śirasi vēṣṭanākārā vēdanā| kuṇḍalaṁ bastau kuṇḍalarūpā vēdanā| upastambhaḥ bastērēva| cikitsitē iti trimarmīyacikitsitē| sakriyāvidhinīti sacikitsitavidhānāni||6||
kintvētāni viśēṣatō’nilādrakṣyāṇi, anilō hi pittakaphasamudīraṇē hētuḥ prāṇamūlaṁ ca, sa bastikarmasādhyatamaḥ, tasmānna bastisamaṁ kiñcit karma marmaparipālanamasti|
tatra ṣaḍāsthāpanaskandhān vimānē dvau cānuvāsanaskandhāviha ca vihitān bastīn buddhyā vicārya mahāmarmaparipālanārthaṁ prayōjayēdvātavyādhicikitsāṁ ca||7||
marmaparipālanē bastēḥ prādhānyaṁ sōpapattikamāha- kintvētānītyādi| yasmāt pittakaphayōrdvayōrakriyayōrīraṇē’nila ēva hētuḥ, tēna kaphapittajē’pi vikārē vāyurnimittaṁ, vātajavikārē’pi vāyuḥ svatantra ēva kāraṇam, ataḥ sarvavikārēṣu marmāṇi rakṣayatā tatkāraṇādanilādēva marmāṇi rakṣaṇīyāni| tathā prāṇamūlaṁ cēti jīvitahētuścāvikr̥tō vāyuḥ, vikr̥taśca prāṇōpaghātakaḥ; tēna marmāṇyapi prāṇarakṣārthaṁ vātādrakṣyāṇi| bastisādhyatama iti itaracikitsāpēkṣayā bastinā sādhyatamaḥ; uktaṁ hi- “bastirvātaharāṇām” (sū.a.25) iti| dvau cānuvāsanaskandhāviti rōgabhiṣagjitīyē “anuvāsanaṁ tu snēha ēva, sa dvividhaḥ- sthāvarō jaṅgamaśca” (vi.a.8) ityanēnōktau dvāvanuvāsanaskandhau jñēyau| ihēti siddhisthānē| buddhyā vicāryēti dōṣauṣadhādīni daśa buddhyā vicārya, vātavyādhicikitsāṁ ca buddhyā vicārya prayōjayēdityarthaḥ||7||
bhūyaśca [14] hr̥dyupasr̥ṣṭē hiṅgucūrṇaṁ lavaṇānāmanyatamacūrṇasaṁyuktaṁ mātuluṅgasya [15] rasēnānyēna vā’mlēna hr̥dyēna vā pāyayēt, sthirādipañcamūlīrasaḥ saśarkaraḥ pānārthaṁ, bilvādipañcamūlarasasiddhā ca yavāgūḥ, hr̥drōgavihitaṁ ca karma; mūrdhni tu vātōpasr̥ṣṭē’bhyaṅgasvēdanōpanāhasnēhapānanastaḥkarmāvapīḍanadhūmādīni; bastau tu kumbhīsvēdaḥ, vartayaḥ, śyāmādibhirgōmūtrasiddhō nirūhaḥ, bilvādibhiśca surāsiddhaḥ, śarakāśēkṣudarbhagōkṣurakamūlaśr̥takṣīraiśca [16] trapusairvārukharāśvābījayavarṣabhakavr̥ddhikalkitō nirūhaḥ, pītadārusiddhatailēnānuvāsanaṁ, tailvakaṁ ca sarpirvirēkārthaṁ, śatāvarīgōkṣurakabr̥hatīkaṇṭakārikāguḍūcīpunarnavōśīramadhukadvisārivālōdhraśrēyasīkuśakāśamūlakaṣāyakṣīracaturguṇaṁ balāvr̥ṣarṣabhakakharāśvōpakuñcikāvatsakatrapusairvārubījaśitivārakamadhukavacāśatapuṣpāśmabhēdakavarṣābhūmadanaphalakalkasiddhaṁ tailamuttarabastirnirūhō vā śuddhasnigdhasvinnasya bastiśūlamūtravikārahara iti||8||
viśēṣēṇa marmabhēdacikitsitamāha [17] – bhūyaścētyādi| hr̥dyupasr̥ṣṭē ‘vātēna” iti śēṣaḥ| lavaṇānāmiti nirdhāraṇē ṣaṣṭhī| anya ēva anyatamaḥ, yathā- śrēṣṭhatama iti| hr̥dyēnēti manō’nukūlēna; yad dvēṣyarasasya hr̥dahitatayā’hr̥dyatvaṁ, tanmanō’nanukūlatvamēva| hr̥drōgavihitaṁ ca karmēti trimarmīyacikitsitē| dhūmādīnīti ādiśabdēna pariṣēkōpanāhādigrahaṇam| bastau tviti ‘praduṣṭē vātēna’ iti prakaraṇājjñēyaṁ; pittakaphaduṣṭau ca vāyurēva pradhānamiti prāgēva pratipāditaṁ; tēna kaphapittaduṣṭirapi labhyatē| vartaya iti phalavartayaḥ| śyāmādibhiriti “śyāmātrivr̥ccaturaṅgulatilvakamahāvr̥kṣasaptalāśaṅkhinīdantīdravantīnām” (vi.a.8) ityādinā prāguktaḥ śyāmādiḥ| bilvādiriti br̥hatpañcamūlaṁ; kiṁvā “bilvamūlatrivr̥ddāruyavakōlakulatthavān” (si.a.7) ityanēnōktō bilvādirjñēyaḥ| śarādimūlaśr̥takṣīrahapuṣādikalkō’paraḥ| kharāśvā ajamōdā| pītadārusiddhatailēna sādhitamanuvāsanaṁ yasminnirūhē sa tathā| kēcittu saralasārākr̥ṣṭatailaṁ pītadārusiddhatailamāhuḥ| tailvakasarpiḥ tilvakakalpōktam| śatāvarītyādau dvisārivēti anantamūlaśyāmē| śrēyasī rāsnā| upakuñcikā kr̥ṣṇajīrakam| śitivārakaḥ śāliñcaḥ| aśmabhēdakaḥ pāṣāṇabhēdakaḥ| uttarabastiriti vakṣyamāṇōttarabastividhānāddēya [18] ityarthaḥ| nirūhaḥ nirūhasthānē dēya ityarthaḥ||8||
bhavanti cātra ślōkāḥ-
hr̥dayē mūrdhni bastau ca nr̥ṇāṁ prāṇāḥ pratiṣṭhitāḥ|
tasmāttēṣāṁ sadā yatnaṁ [19] kurvīta paripālanē||9||
ābādhavarjanaṁ nityaṁ svasthavr̥ttānuvartanam|
utpannārtivighātaśca marmaṇāṁ paripālanam||10||
gadyōktamarthaṁ ślōkēna darśayannadhikamapyāha- kiñcit hr̥dayē ityādinā| ābādhavarjanamiti marmōpaghātakahētuvarjanam| svasthavr̥ttānuvartanaṁ ca hr̥dayādipōṣakatayaiva pālakaṁ bhavati| utpannārtivighāta iti utpannamarmarōgapratīkāraḥ||9-10||
ata urdhvaṁ vikārā yē trimarmīyē cikitsitē|
na prōktā marmajāstēṣāṁ kāṁścidvakṣyāmi sauṣadhān||11||
marmaparipālakabastikathanaprasaṅgādanuktamarmagatarōgān sacikitsitān darśayannāha- ata ūrdhvamityādi||11||
kruddhaḥ svaiḥ kōpanairvāyuḥ sthānādūrdhvaṁ prapadyatē|
pīḍayan hr̥dayaṁ gatvā śiraḥ śaṅkhau ca pīḍayan||12||
dhanurvannamayēdgātrāṇyākṣipēnmōhayēttathā|
(namayēccākṣipēccāṅgānyucchvāsaṁ [20] niruṇaddhi ca)|
kr̥cchrēṇa cāpyucchvasiti stabdhākṣō’tha nimīlakaḥ [21] ||13||
kapōta iva kūjēcca niḥsañjñaḥ sō’patantrakaḥ|
dr̥ṣṭiṁ saṁstambhya sañjñāṁ ca hatvā kaṇṭhēna kūjati||14||
hr̥di muktē naraḥ svāsthyaṁ yāti mōhaṁ vr̥tē punaḥ|
vāyunā dāruṇaṁ prāhurēkē tamapatānakam||15||
hr̥drōgamapatantrakamāha- kruddha ityādi| sthānādūrdhvamiti vātasthānāpēkṣayā yadūrdhvam| stabdhākṣō’tha nimīlana iti stabdhākṣō vā bhavati nimīlitākṣō vā bhavati| niḥsañjña iti vyādhivēgakālē dr̥ṣṭiṁ saṁstabhya sañjñāṁ ca hatvā kaṇṭhēna kūjati, niḥsañjñaśca bhavati| mōhaṁ vr̥tē punariti hr̥dayē vr̥tē punarvāyunā mōhaṁ yāti; vāyunēti kaphayuktēna; ēkē tamapatānakamēvāpatantrakamāhuḥ| atra jatūkarṇaḥ- “vātakaphābhyāṁ hr̥cchiraḥśaṅkhapīḍanānamanāṅgākṣēpapramōhākṣistambhānimīlanakr̥cchrōcchvāsakūjanānyapatantrakē”iti| kiṁvā apatantrakaṁ dvividhaṁ varṇayanti- vātāt, kaphācca [22] ; tatra ‘niḥsañjñaḥ sō’patantrakaḥ’ ityanēna kaphaja [23] ucyatē; ‘vāyunā dāruṇaṁ prāhuḥ’ ityanēna vāyunā janitamapatantrakamēvāpatānakamāhuḥ| tasya dāruṇatvaṁ dāruṇavātārabdhatvāditi vyākhyēyam| tathaiva suśrutē vātavyādhāvatantrakaḥ paṭhitaḥ||12-15||
śvasanaṁ kaphavātābhyāṁ ruddhaṁ tasya [24] vimōkṣayēt|
tīkṣṇaiḥ pradhamanaiḥ sañjñāṁ tāsu muktāsu vindati||16||
maricaṁ śigrubījāni viḍaṅgaṁ ca phaṇijjhakam|
ētāni sūkṣmacūrṇāni dadyācchīrṣavirēcanam||17||
tumburūṇyabhayā [25] hiṅgu pauṣkaraṁ lavaṇatrayam|
yavakvāthāmbunā pēyaṁ hr̥dgrahē cāpatantrakē [26] ||18||
hiṅgvamlavētasaṁ śuṇṭhīṁ sasauvarcaladāḍimam|
pibēdvātakaphaghnaṁ ca karma hr̥drōganuddhitam||19||
śōdhanā [27] bastayastīkṣṇā na hitāstasya kr̥tsnaśaḥ|
sauvarcalābhayāvyōṣaiḥ siddhaṁ tasmai ghr̥taṁ hitam||20||
tāsviti cētanāvahāsu dhamanīṣu| yavakvāthāmbunēti yavaiḥ ṣaḍaṅgavidhinā śr̥tapānīyēna| hr̥drōganud vātakaphaghnaṁ yat karma taddhitamapatantrakē| śōdhanā ityādau “kr̥tsnaśaḥ śōdhanā na hitāḥ’ iti vacanēna śōdhanārthastōkanirūhadānaṁ, bhūriśōdhananirūhadānē tu vātakṣōbhaḥ syāditi bhāvaḥ||16-20||
madhurasnigdhagurvannasēvanāccintanācchramāt [28] [29] |
śōkādvyādhyanuṣaṅgācca vāyunōdīritaḥ kaphaḥ||21||
yadā’sau samavaskandya hr̥dayaṁ hr̥dayāśrayān|
samāvr̥ṇōti jñānādīṁstadā tandrōpajāyatē||22||
hr̥dayē vyākulībhāvō vākcēṣṭēndriyagauravam|
manōbuddhyaprasādaśca tandrāyā lakṣaṇaṁ matam||23||
kaphaghnaṁ tatra kartavyaṁ śōdhanaṁ śamanāni ca|
vyāyāmō raktamōkṣaśca bhōjyaṁ ca kaṭutiktakam||24||
madhurasnigdhētyādinā tandrālakṣaṇaṁ cikitsitaṁ ca kēcit paṭhanti||21-24||
mūtraukasādō [30] jaṭharaṁ kr̥cchramutsaṅgasaṅkṣayau|
mūtrātītō’nilāṣṭhīlā vātabastyuṣṇamārutau||25||
vātakuṇḍalikā granthirviḍghātō bastikuṇḍalam|
trayōdaśaitē mūtrasya dōṣāstāmँlliṅgataḥ śr̥ṇu||26||
hr̥drōgamabhidhāya bastirōgānāha- mūtraukasāda ityādi| ētē ca mūtradōṣā mūtrakr̥cchrādbhinnā ēvēti trimarmīya ēva pratipāditam||25-26||
pittaṁ kaphō dvāvapi [31] vā bastau saṁhanyatē yadā|
mārutēna tadā mūtraṁ raktaṁ pītaṁ ghanaṁ sr̥jēt||27||
sadāhaṁ śvētasāndraṁ vā sarvairvā lakṣaṇairyutam|
mūtraukasādaṁ [32] taṁ vidyāt pittaślēṣmaharairjayēt||28||
pittaṁ kapha ityādinā mūtraukasādamāha| ayaṁ ca vātakapha-pittavāta-tridōṣairjanyata ityuktaṁ bhavati| saṁhanyatē iti saṁhatē raktapītavarṇatā pittēna, śvētavarṇatā kaphēna, kaphapittalakṣaṇatā kaphapittābhyāṁ, vāyustu sarvānugata ēva| atra vāyōrāvaraṇakr̥ta ēva kōpaḥ; tēna pittakaphayōrēva cikitsōktā ‘pittaślēṣmaharairjayēt’ ityanēna, vāyōstvāvaraṇajayādēva jayō bhavatīti bhāvaḥ||27-28||
vidhāraṇāt pratihataṁ vātōdāvartitaṁ yadā|
pūrayatyudaraṁ mūtraṁ tadā tadanimittaruk||29||
apaktimūtraviṭsaṅgaistanmūtrajaṭharaṁ vadēt|
mūtravairēcanīṁ tatra cikitsāṁ samprayōjayēt||30||
hiṅgudviruttaraṁ cūrṇaṁ trimarmīyē prakīrtitam|
hanyānmūtrōdarānāhamādhmānaṁ [33] gudamēḍhrayōḥ||31||
animittarugiti alakṣyamāṇanimittaruk| mūtravairēcanīmiti mūtravirēcanīyadaśakaprayōgarūpām| hiṅgudviruttaraṁ tu ‘dviruttaraṁ hiṅguvacā’ (ci.a.26) ityādinōktaṁ, hiṅgu dviruttaraṁ yasmin taddhiṅgudviruttaram||29-31||
mūtritasya vyavāyāttu rētō vātōddhataṁ cyutam|
pūrvaṁ mūtrasya paścādvā sravēt kr̥cchraṁ taducyatē||32||
khavaiguṇyānilākṣēpaiḥ kiñcinmūtraṁ ca tiṣṭhati|
maṇisandhau sravēt paścāttadarugvā’tha cātiruk||33||
mūtrōtsaṅgaḥ sa vicchinnamucchēṣaguruśēphasaḥ [34] |
vātākr̥tirbhavēdvātānmūtrē śuṣyati saṅkṣayaḥ||34||
ciraṁ dhārayatō mūtraṁ tvarayā na pravartatē|
mēhamānasya mandaṁ vā mūtrātītaḥ sa ucyatē||35||
ādhmāpayan bastigudaṁ ruddhvā vāyuścalōnnatām|
kuryāttīvrārtimaṣṭhīlāṁ mūtraviṇmārgarōdhinīm||36||
mūtraṁ [35] dhārayatō bastau vāyuḥ kruddhō vidhāraṇāt|
mūtrarōdhārtikaṇḍūbhirvātabastiḥ sa ucyatē||37||
uṣmaṇā sōṣmakaṁ mūtraṁ śōṣayan raktapītakam|
uṣṇavātaḥ sr̥jēt kr̥cchrādbastyupasthārtidāhavān||38||
gatisaṅgādudāvr̥ttaḥ sa mūtrasthānamārgayōḥ|
mūtrasya viguṇō vāyurbhagnavyāviddhakuṇḍalī||39||
mūtraṁ vihanti saṁstambhabhaṅgagauravavēṣṭanaiḥ|
tīvraruṅmūtraviṭsaṅgairvātakuṇḍalikēti sā||40||
raktaṁ vātakaphādduṣṭaṁ bastidvārē sudāruṇam|
granthiṁ kuryāt sa kr̥cchrēṇa sr̥jēnmūtraṁ tadāvr̥tam||41||
aśmarīsamaśūlaṁ taṁ raktagranthiṁ pracakṣatē|
rūkṣadurbalayōrvātēnōdāvr̥ttaṁ śakr̥dyadā||42||
mūtrasrōtaḥ prapadyēta viṭsaṁsr̥ṣṭaṁ tadā naraḥ|
viḍgandhaṁ mūtrayēt kr̥cchrādviḍvighātaṁ vinirdiśēt||43||
drutādhvalaṅghanāyāsādabhighātāt prapīḍanāt|
svasthānādvastirudvr̥ttaḥ sthūlastiṣṭhati garbhavat||44||
śūlaspandanadāhārtō binduṁ binduṁ sravatyapi|
pīḍitastu sr̥jēddhārāṁ saṁstambhōdvēṣṭanārtimān||45||
bastikuṇḍalamāhustaṁ ghōraṁ śastraviṣōpamam|
pavanaprabalaṁ prāyō durnivāramabuddhibhiḥ||46||
tasmin pittānvitē dāhaḥ śūlaṁ mūtravivarṇatā|
ślēṣmaṇā gauravaṁ [36] śōphaḥ snigdhaṁ mūtraṁ ghanaṁ sitam||47||
ślēṣmaruddhabilō bastiḥ pittōdīrṇō na sidhyati|
avibhrāntabilaḥ sādhyō na tu yaḥ kuṇḍalīkr̥taḥ||48||
syādvastau kuṇḍalībhūtē hr̥nmōhaḥ [37] śvāsa ēva ca|49|
mūtritasyēti mūtravēgagatasya, mūtravēgayuktasyēti yāvat| cyutamiti svasthānāccyutam| vātōddhatamiti vātavikṣiptam| ētallakṣaṇāntarayuktamēva kr̥cchraṁ; mūtrakr̥cchramitō’nyadēva, bhinnakṣaṇatvāt| kiñciditi stōkam| ucchēṣaguruśēphasa iti pravr̥ddhamūtrāvaśēṣēṇa sthitēna guruśēphasa iti| vātākr̥tirityādi saṅkṣayalakṣaṇam [38] | vātākr̥tiriti vātalakṣaṇayuktaḥ| vidhāraṇāditi mūtravēgarōdhāt| ūṣmaṇēti pittōṣmaṇā| śōṣayanniti ūṣmaṇā sahitō vāta ēva mūtraṁ śōṣayan| gatisaṅgādityādinā vātakuṇḍalikāmāha| mūtrasya gatisaṅgādudāvr̥ttō vāyurmūtrasthānamārgayōrbhagnavyāviddhakuṇḍalī mūtrayati; bhagnaḥ pratihataḥ, vyāviddhaḥ vakrī, kuṇḍalīti āvartamānatayā sthitaḥ; īdr̥śaṁ vāyōrupasthānaṁ mūtramārga ēva bhavati| vātakuṇḍalikālakṣaṇamāha- saṁstambhētyādi| bhaṅgaḥ bhaṅgākāravēdanā| raktaṁ granthiṁ kuryāt vātakaphābhyāṁ duṣṭamiti yōjyam| viḍyuktō vighātō viḍvighātaḥ| drutādhvētyādinā bastikuṇḍalamāha| udvr̥tta iti parāvr̥ttamukhaḥ| pīḍita iti hastādibhiḥ| ślēṣmaruddhabilō bastirna sidhyati, tathā pittōdīrṇaśca na sidhyati| avibhrāntabila iti aruddhadvāraḥ| kuṇḍalīkr̥ta iti vartulīkr̥taḥ| vartulīkr̥tasyaiva lakṣaṇānyāha- syādbastāvityādi||32-48||-
dōṣādhikyamavēkṣyaitān mūtrakr̥cchraharairjayēt||49||
bastimuttarabastiṁ ca sarvēṣāmēva dāpayēt|50|
cikitsāmāha- dōṣādhikyamityādi| mūtrakr̥cchraharaiḥ prayōgairdōṣādhikyamavēkṣya prayuktairjayēdityarthaḥ||49||-
puṣpanētraṁ tu haimaṁ syācchlakṣṇamauttarabastikam||50||
jātyaśvahanavr̥ntēna [39] samaṁ gōpucchasaṁsthitam|
raupyaṁ vā sarṣapacchidraṁ dvikarṇaṁ dvādaśāṅgulam||51||
tēnājabastiyuktēna snēhasyārdhapalaṁ nayēt|
yathāvayōviśēṣēṇa snēhamātrāṁ vikalpya vā||52||
snātasya bhuktabhaktasya rasēna payasā’pi vā|
sr̥ṣṭaviṇmūtravēgasya [40] pīṭhē jānusamē mr̥dau||53||
r̥jōḥ sukhōpaviṣṭasya hr̥ṣṭē mēḍhrē ghr̥tāktayā|
śalākayā’nviṣya gatiṁ yadyapratihatā vrajēt||54||
tataḥ śēphaḥpramāṇēna puṣpanētraṁ pravēśayēt|
gudavanmūtramārgēṇa praṇayēdanu sēvanīm||55||
hiṁsyādatigataṁ [41] bastimūnē snēhō na gacchati|
sukhaṁ prapīḍya niṣkampaṁ niṣkarṣēnnētramēva ca||56||
pratyāgatē dvitīyaṁ ca tr̥tīyaṁ ca pradāpayēt|
anāgacchannupēkṣyastu rajanīvyuṣitasya ca||57||
uttarabastiṁ dāpayēdityuktaṁ, tata uttarabastividhimāha- puṣpanētramityādi| puṣpanētramityuttarabastinētrasya sañjñā; uttarabastisañjñā uttaramārgadīyamānatayā, kiṁvā śrēṣṭhaguṇatayā uttarabastiḥ| jātyaśvahanavr̥ntēna samamiti jātēraśvahanasya ca puṣpayōrvr̥ntēnāgrasamam; uktaṁ hi hārītē “kundasya vr̥ntapratimaṁ tathā’grē” iti; aśvahanaḥ karavīraḥ| sarṣapacchidramiti sarṣapavāhicchidram| dvikarṇikamiti nētrē [42] bastibandhanārthamēkataḥ karṇikā, aparā’grē śēphaḥpramāṇaṣaḍaṅgulādau karṇikā kartavyā| trikarṇikam’ iti vā pāṭhaḥ| yathāvayōviśēṣēṇa snēhamātrāṁ vikalpya cēti yathōktasnēhaḥ pañcaviṁśativarṣasya, tatastvarvāgvayōbhēdavikalpēnāpakarṣaḥ kartavyaḥ; uktaṁ hi suśrutē “snēhapramāṇaṁ paramaṁ prakuñcaścātra kīrtitaḥ| pañcaviṁśativarṣāṇāmarvāgbuddhivikalpitam” (su.ci.a.37) iti| hr̥ṣṭē iti stabdhē, yadyapratihatā vrajēcchalākā, tatra puṣpanētraṁ śēphaḥpramāṇasamaṁ pravēśanīyam| śalākayā prathamamanvēṣaṇaṁ mārgavijñānārtham| gudavaditi gudē yathā nētrākampanādiguṇayuktaṁ pravēśyatē tathā mēḍhrē’pi| atigataṁ liṅgapramāṇātirēkapraviṣṭaṁ nētraṁ bastiṁ hiṁsyāt| ūnē iti liṅgamānastōkapraviṣṭē||50-57||
pippalīlavaṇāgāradhūmāpāmārgasarṣapaiḥ|
vārtākurasanirguṇḍīśampākaiḥ sasahācaraiḥ||58||
mūtrāmlapiṣṭaiḥ saguḍairvartiṁ kr̥tvā pravēśayēt|
agrē tu sarṣapākārāṁ paścārdhē māṣasammitām||59||
nētradīrghāṁ ghr̥tābhyaktāṁ sukumārāmabhaṅgurām|
nētravanmūtranāḍyāṁ tu pāyau cāṅguṣṭhasammitām||60||
snēhē pratyāgatē tābhyāmānuvāsanikō vidhiḥ|
parihāraśca savyāpat sasamyagdattalakṣaṇaḥ||61||
pippalītyādinā vyuṣitē’pyanāgacchataḥ snēhasya pravartikāṁ vartimāha| iyaṁ ca vartirguḍapākēna kaṭhinā kartavyā yathā ślakṣṇā bhavati| paścārdhē iti mūlē; aṅguṣṭhasannibhāmiti pāyau snēhapravr̥ttyarthaṁ dīyamānā’ṅguṣṭhasamānā kartavyā| tābhyāmiti mēḍhragudābhyāṁ dattavartibhyām| uttarabastēranuvāsanavat sēvyaparihāravyāpatsamyagdattalakṣaṇānyatidiśannāha- ānuvāsanikō vidhirityādi||58-61||
strīṇāmārtavakālē tu pratikarma tadācarēt|
garbhāsanā sukhaṁ snēhaṁ tadā”dattē hyapāvr̥tā||62||
garbhaṁ [43] yōnistadā śīghraṁ jitē gr̥hṇāti mārutē|
bastijēṣu vikārēṣu yōnivibhraṁśajēṣu ca||63||
yōniśūlēṣu tīvrēṣu yōnivyāpatsvasr̥gdarē|
aprasravati mūtrē ca binduṁ binduṁ sravatyapi||64||
vidadhyāduttaraṁ bastiṁ yathāsvauṣadhasaṁskr̥tam [44] |65|
ārtavakālē tvautsargikatayōktaṁ [45] strīṇāmuttarabastidānamārtavakālē vidhattē| ārtavakāladānē hētumāha- garbhāsanētyādi| garbhāsanā garbhaśayyā, garbhāśaya ityarthaḥ; anyē tu yōnimāhuḥ| ādatta iti samyag gr̥hṇāti| apāvr̥tēti apagatasañcitarajōrūpāvaraṇā||62-64||-
puṣpanētrapramāṇaṁ tu pramadānāṁ daśāṅgulam||65||
mūtrasrōtaḥparīṇāhaṁ mudgasrōtō’nuvāhi [46] ca|
apatyamārgē nārīṇāṁ vidhēyaṁ caturaṅgulam||66||
dvyaṅgulaṁ mūtramārgē tu bālāyāstvēkamaṅgulam|
uttānāyāḥ śayānāyāḥ samyak saṅkōcya sakthinī||67||
athāsyāḥ praṇayēnnētramanuvaṁśagataṁ sukham|
dvistriścaturiti snēhānahōrātrēṇa yōjayēt||68||
bastau [47] , bastau praṇītē ca vartiḥ pīnatarā bhavēt|
trirātraṁ karma kurvīta snēhamātrāṁ vivardhayēt||69||
anēnaiva vidhānēna karma kuryāt punastryahāt|70|
puṣpanētrapramāṇaṁ tvityādi| mudgasrōtō’nuvāhīti mūdgavāhicchidram| apatyamārgē vidhēyaṁ caturaṅgulamiti apatyamārgē snēhayitavyē caturaṅgulapravēśanaṁ [48] prāptayauvanānāmēva nārīṇāṁ kartavyaṁ, mūtramārgē tu snēhayitavyē dvyaṅgulapravēśanaṁ prāptayauvanānāmēva nārīṇāṁ kartavyam| bālāyāḥ svalpapramāṇatayā ēkāṅgulapravēśanamēva mūtramārgaprayōgārthaṁ kartavyaṁ; bālānāṁ tvapatyamārgē na dīyata ēva, tāsāmapatyamārgasyāvr̥tatvāt| vartiḥ pīnatarā bhavēditi snēhapratyāgamanārthā vartiḥ pīnatarā kartavyā| snēhamātrā cātra “snēhasya prasr̥taṁ cātra svāṅgulīmūlasammitam” (su.ci.a.37) ityanēna suśrutōktā jñēyā||65-69||-
ataḥ śirōvikārāṇāṁ kaścidbhēdaḥ pravakṣyatē||70||
raktapittānilā duṣṭāḥ śaṅkhadēśē vimūrcchitāḥ|
tīvrarugdāharāgaṁ hi śōphaṁ kurvanti dāruṇam||71||
sa śirō viṣavadvēgī nirudhyāśu galaṁ tathā|
trirātrājjīvitaṁ [49] hanti śaṅkhakō nāma [50] nāmataḥ||72||
paraṁ [51] tryahājjīvati cēt pratyākhyāyācarēt kriyām|
śirōvirēkasēkādi sarvaṁ vīsarpanucca yat||73||
kramāgataśirōvikārajñānārthaṁ trimarmīyāvistr̥tān vaktumāha- ata ityādi| dāruṇa iti āśukārī| paraṁ tryahājjīvatītyādikaḥ prabhāvō’yaṁ śaṅkhakasya| pratyākhyāyācarēt kriyāmityanēna utpannamātra ēva pratyākhyānapūrvikā cikitsā kartavyā’sya||70-73||
rūkṣātyadhyaśanāt [52] pūrvavātāvaśyāyamaithunaiḥ|
vēgasandhāraṇāyāsavyāyāmaiḥ kupitō’nilaḥ||74||
kēvalaḥ sakaphō vā’rdhaṁ [53] gr̥hītvā śirasastataḥ|
manyābhrūśaṅkhakarṇākṣilalāṭārdhē’tivēdanām||75||
śastrāraṇinibhāṁ kuryāttīvrāṁ sō’rdhāvabhēdakaḥ|
nayanaṁ vā’thavā śrōtramativr̥ddhō vināśayēt||76||
catuḥsnēhōttamā mātrā śiraḥkāyavirēcanam|
nāḍīsvēdō ghr̥taṁ jīrṇaṁ bastikarmānuvāsanam||77||
upanāhaḥ śirōbastirdahanaṁ cātra śasyatē|
pratiśyāyē śirōrōgē yaccōddiṣṭaṁ cikitsitam||78||
rūkṣētyādinā’rdhāvabhēdakamāha| avaśyāyaḥ himaḥ| śastrāraṇinibhāmiti śastracchēdāraṇimanthananibhām; araṇiḥ agnyutthāpanakāṣṭhaṁ; kiṁvā araṇinā kāraṇēnāgnirēvātra lakṣyatē| catuḥsnēhasyōttamā mātrā; uttamā ca mātrā ahōrātrapariṇamanīyā| jīrṇaṁ daśavarṣasthitaṁ ghr̥tam| upanāhaṁ kēcicchirōbastibhēdamāhuḥ, yō māstiṣka ucyatē; tantrāntarē hi māstiṣka upanāhaḥ śirōbastiprakāra uktaḥ- “māstiṣkē’ṣṭāṅgulaṁ paṭṭaṁ bastau tu dvādaśāṅgulam” ityādinā; śirōbastividhānaṁ śālākyē jñēyaṁ; yathā- “dvādaśāṅgulavistīrṇaṁ carmapaṭṭaṁ śiraḥsamam| ākarṇabandhanasthānē lalāṭē vastravēṣṭitē|| cēlavēṇikayā baddhvā māṣakalkēna lēpayēt| tatō yathāvyādhiśr̥taṁ snēhaṁ kōṣṇaṁ nivēśayēt|| ūrdhvaṁ kēśabhuvō yāvadaṅgulaṁ dhārayēcca tam| āvakranāsikāklēdāddaśāṣṭau ṣaḍvātādiṣu|| mātrā sahasrāṇyarujē hyēkaṁ skandhādi mardayēt| yuktasnēhasya paramaṁ saptāhaṁ tasya sēvanam” iti; tathā “āśirōvyāyataṁ carma kr̥tvā’ṣṭāṅgulamucchritam| tēnāvēṣṭya śirō’dhastānmāṣakalkēna lēpayēt|| niścalasyōpaviṣṭasya tailaiḥ kōṣṇaiḥ prapūrayēt| dhārayēdārujaḥ śāntyai yāmaṁ yāmārdhamēva vā|| śirōbastirjayatyēṣa śirōrōgaṁ marudbhavam” ityādi| dahanaṁ vā’syēti tantrāntarapratyayād dvyaṅgulalalāṭaśaṅkhapradēśēṣu śarakāṇḍādinā dahanaṁ jñēyam| yaccōddiṣṭaṁ cikitsitamiti taccātra śasyatē iti yōjyam||74-78||
sandhāraṇādajīrṇādyairmastiṣkaṁ raktamārutau|
duṣṭau dūṣayatastacca duṣṭaṁ tābhyāṁ vimūrcchitam||79||
sūryōdayēṁ’śusantāpāddravaṁ [54] viṣyandatē śanaiḥ|
tatō dinē śiraḥśūlaṁ dinavr̥ddhyā vivardhatē||80||
dinakṣayē tataḥ styānē mastiṣkē sampraśāmyati|
sūryāvartaḥ sa tatra syāt sarpirauttarabhaktikam||81||
śiraḥkāyavirēkau ca mūrdhnā trisnēhadhāraṇam [55] |
jāṅgalairupanāhaśca ghr̥takṣīraiśca sēcanam [56] ||82||
barhitittirilāvādiśr̥takṣīrōtthitaṁ ghr̥tam|
syānnāvanaṁ jīvanīyakṣīrāṣṭaguṇasādhitam||83||
mastiṣkaṁ śiraḥsthō [57] majjā| dravamiti dravaṁ sat| viṣyandatē iti cyavatē| ētacca sūryāvartasya rūpaṁ dōṣadūṣyayōrvikr̥tiviṣamasamavāyādbhavati; tēna nānyavikāra ēvambhūtō bhavati| tathā vēdanā sūryatāpē ēvāsya vardhatē nāgnitāpē, ityētadapi prabhāvakr̥tamēva jñēyam| trisnēhadhāraṇamiti pāṭhāt tailaghr̥tavasādhāraṇaṁ vadanti| lāvādayō viṣkirā annapānōktāḥ||79-83||
(upavāsātiśōkātirūkṣaśītālpabhōjanaiḥ [58] )|
duṣṭā dōṣāstrayō manyāpaścādghāṭāsu [59] vēdanām||84||
tīvrāṁ kurvanti sā [60] cākṣibhrūśaṅkhēṣvavatiṣṭhatē|
spandanaṁ gaṇḍapārśvasya nētrarōgaṁ hanugraham||85||
sō’nantavātastaṁ hanyāt sirārkāvartanāśanaiḥ|
vātō rūkṣādibhiḥ kruddhaḥ śiraḥkampamudīrayēt||86||
tatrāmr̥tābalārāsnāmahāśvētāśvagandhakaiḥ|
snēhasvēdādi vātaghnaṁ śastaṁ nasyaṁ ca tarpaṇam||87||
manyā grīvāsirādvayaṁ, ghāṭā grīvāyāḥ paścādbhāgaḥ, paścāt pr̥ṣṭham| sā cākṣibhrūśaṅkhēṣvavatiṣṭhata iti śaṅkhādīn vyāpya sthirā bhavati| anantavātamēnaṁ tantrāntarē anyatōvātamāhuḥ| sirārkāvartanāśanairiti sirāvyadhaiḥ, sūryāvartanāśanaiśca bhēṣajaiḥ||84-87||
nastaḥkarma ca kurvīta śirōrōgēṣu śāstravid|
dvāraṁ hi śirasō nāsā tēna tad vyāpya hanti tān||88||
nastaḥkarma cēti sarvaśirōrōgasādhāraṇaṁ cikitsitam| śirōrōgēṣu nastaḥkarmakaraṇē hētumāha- dvāraṁ hītyādi| tēna nāsārūpēṇa mārgēṇa| taditi nastō dattamauṣadham| vyāpyēti śirō vyāpya| tāniti śirōgadān||88||
nāvanaṁ cāvapīḍaśca dhmāpanaṁ dhūma ēva ca|
pratimarśaśca vijñēyaṁ nastaḥkarma tu pañcadhā||89||
snēhanaṁ śōdhanaṁ caiva dvividhaṁ nāvanaṁ smr̥tam|
śōdhanaḥ stambhanaśca syādavapīḍō dvidhā mataḥ [61] ||90||
cūrṇasyādhmāpanaṁ taddhi dēhasrōtōviśōdhanam [62] |
vijñēyastrividhō dhūmaḥ prāguktaḥ śamanādikaḥ||91||
pratimarśō bhavēt snēhō nirdōṣa ubhayārthakr̥t|
ēvaṁ tadrēcanaṁ karma tarpaṇaṁ śamanaṁ tridhā||92||
śirōrōgaprastāvāgatānavaśyavaktavyanastaḥkarmabhēdānāha- nāvanamityādi| nāvanādayaścikitsāsthānōktāḥ| atra suśrutē dhūmaṁ varjayitvā pañcavidhaṁ nastaḥkarmōktaṁ- “taddvividhamapi pañcavidhavikalpaṁ; tadyathā- nasyaṁ, śirōvirēcanaṁ, pratimarśaḥ, avapīḍaḥ, pradhamanaṁ ca” (ci.a.40)| iti; iha tu nāvanaśabdēnaiva śirōvirēcanamapi gr̥hītaṁ; yaduktaṁ- “snēhanaṁ śōdhanaṁ caiva nāvanaṁ dvividhaṁ smr̥tam” iti; tēna suśrutōktō’pyarthō gr̥hīta ēva| śōdhanaḥ stambhanaśca syādavapīḍa ityatra saṁśamanamapyavapīḍasya karmēcchanti, tacca stambhanē ēvāntarbhāvanīyam| avapīḍya yatra kalkādīni dīyantē ityavapīḍaḥ; anēna śirōvirēcanārthaṁ dīyamānasaindhavapippalyādikalkasyāpyavarōdhaḥ| dhmāpanaṁ taddhi dēhasrōtōviśōdhanamiti vacanād dhmāpanaṁ śirōvirēcanaprayōjanakamēvēti darśayati| śamanādika ityatra śamanaśabdēna prāyōgikaṁ gr̥hṇāti, tēna prāyōgikasnaihikavairēcanikadhūmānāṁ nāsādīyamānānāmiha grahaṇaṁ, mukhapēyastu dhumō na nasyam| ubhayārthakr̥diti snēhanavirēcanārthakr̥t| pratimarśalakṣaṇamagrē “nastaḥsnēhāṅguliṁ dadyāt” ityādinā vakṣyamāṇam| uktapañcavidhanastaḥkarmaṇastraividhyamāha- ēvamityādi| karmēti nastaḥkarma| śamanēna stambhanasyāpi grahaṇaṁ; tarpaṇē snēhanasyāvarōdhaḥ; anyē yē kēcit prabhēdāstantrāntarē pratipāditāstē’pyatraivāntarbhavanti||89-92||
stambhasuptigurutvādyāḥ ślaiṣmikā yē śirōgadāḥ|
śirōvirēcanaṁ tēṣu nastaḥkarma praśasyatē||93||
yē ca vātātmakā rōgāḥ śiraḥkampārditādayaḥ|
śirasastarpaṇaṁ tēṣu nastaḥkarma praśasyatē [63] ||94||
raktapittādirōgēṣu śamanaṁ nasyamiṣyatē|
dhmāpanaṁ dhūmapānaṁ ca tathā yōgyēṣu śasyatē [64] ||95||
(dōṣādikaṁ [65] samīkṣyaiva bhiṣak samyak ca kārayēt)|96|
virēcanādikarmatrayasya viṣayamāha- stambhētyādi| tarpaṇamiti snēhēna tarpaṇam| tathā yōgyēṣu śasyata iti dhmāpanadhūmayōgyēṣu śasyatē; tatra dhūmayōgyāḥ sūtrasthānē pratipāditāḥ, dhmāpanayōgyāstu dhmāpanaguṇakathanē ‘dēhasrōtōviśōdhanam’ itipadēna yē’bhinyāsāpasmārādayaḥ śōdhanīyasrōtasa uktāstē jñēyāḥ||93-95||-
phalādibhēṣajaṁ prōktaṁ śirasō yadvirēcanam||96||
taccūrṇaṁ kalpayēttēna pacēt snēhaṁ virēcanam|
yaduktaṁ madhuraskandhē bhēṣajaṁ tēna tarpaṇam||97||
sādhayitvā bhiṣak snēhaṁ nastaḥ kuryādvidhānavit|98|
śirōvirēcanacūrṇaṁ vidhiṁ cāha- phalādītyādi| phalādibhēṣajamiti rōgabhiṣagjitīyōktaṁ phalapatramūlakandapuṣpaniryāsatvagbhēdāt saptavidhamuktaṁ śirōvirēcanadravyam| cūrṇaṁ kalpayēditi pradhamanārthamavapīḍanārthaṁ ca cūrṇaṁ kalpayēt| madhuraskandhō’pi rōgabhiṣagjitīya ēvōktaḥ||96-97||-
prāksūryē madhyasūryē vā prākkr̥tāvaśyakasya ca||98||
uttānasya śayānasya śayanē svāstr̥tē sukham|
pralambaśirasaḥ kiñcit kiñcit pādōnnatasya ca||99||
dadyānnāsāpuṭē snēhaṁ tarpaṇaṁ buddhimān bhiṣak|
anavākśirasō nasyaṁ na śiraḥ pratipadyatē||100||
atyavākśirasō nasyaṁ mastuluṅgē’vatiṣṭhati|
ata ēvaṁśayānasya śuddhyarthaṁ svēdayēcchiraḥ||101||
saṁsvēdya nāsāmunnamya vāmēnāṅguṣṭhaparvaṇā|
hastēna dakṣiṇēnātha kuryādubhayataḥ samam||102||
praṇāḍyā picunā vā’pi nastaḥsnēhaṁ yathāvidhi|
kr̥tē ca svēdayēdbhūya ākarṣēcca punaḥ punaḥ||103||
taṁ snēhaṁ ślēṣmaṇā sākaṁ [66] tathā snēhō na tiṣṭhati|
svēdēnōtklēśitaḥ ślēṣmā nastaḥkarmaṇyupasthitaḥ [67] ||104||
bhūyaḥ snēhasya śaityēna śirasi styāyatē [68] tataḥ|
śrōtramanyāgalādyēṣu vikārāya sa kalpatē||105||
tatō nastaḥkr̥tē dhūmaṁ pibēt kaphavināśanam [69] |
hitānnabhuṅnivātōṣṇasēvī syānniyatēndriyaḥ||106||
vidhirēṣō’vapīḍasya kāryaḥ pradhmāpanasya tu|
tat ṣaḍaṅgulayā [70] nāḍyā dhamēccūrṇaṁ mukhēna tu||107||
viriktaśirasaṁ tūṣṇaṁ [71] pāyayitvā’mbu bhōjayēt|
laghu triṣvaviruddhaṁ ca nivātasthamatandritaḥ||108||
virēkaśuddhō dōṣasya kōpanaṁ yasya sēvatē|
sa dōṣō vicaraṁstatra karōti svān gadān bahūn||109||
yathāsvaṁ vihitāṁ tēṣu kriyāṁ kuryādvicakṣaṇaḥ|
akālakr̥tajātānāṁ rōgāṇāmanurūpataḥ||110||
nastaḥkarmavidhimāha- prāksūryē ityādi| grīṣmē prāksūryē, śītē tu madhyasūryē iti vyavasthā| prākkr̥tāvaśyakasya cēti prākkr̥tāvaśyakaraṇīyamalavisargādikasya| ēvaṁ śayānasyēti kiñcidavanataśiraskatayā śayānasya| kuryādubhayataḥ samamiti ubhayanāsāpuṭēnāpi tulyaṁ dadyāt| praṇāḍī nasyadānanalikā| yathāvidhīti pramāṇādidōṣarahitam| kr̥tanasyasya dhumapānōpapattivarṇanapūrvakaṁ dhūmapānamāha- svēdanētyādi| pradhmāpanasya cōktō vidhistathā vakṣyamāṇaśca ‘ṣaḍaṅgulayā’ ityādinā| viriktaśirasamityādi sarvavirēcanasādhāraṇam| triṣviti vātādiṣu| virēkaśuddha iti śirōvirēkaśuddhaḥ| yasya dōṣasya kōpanaṁ sēvatē iti yōjyam| akālakr̥tajātānāṁ rōgāṇāmanurūpata iti akālakr̥taśirōvirēcanajātānāṁ rōgāṇāmanurūpataścikitsāṁ kuryādityarthaḥ||98-110||
ajīrṇē [72] bhōjanē bhuktē tōyē pītē’tha durdinē|
pratiśyāyē navē snātē [73] snēhapānē’nuvāsanē||111||
nāvanaṁ snēhanaṁ rōgān karōti ślaiṣmikān bahūn|
tatra ślēṣmaharaḥ sarvastīkṣṇōṣṇādirvidhirhitaḥ||112||
kṣāmē virēcitē garbhē vyāyāmābhihatē tr̥ṣi|
vātō rūkṣēṇa nasyēna kruddhaḥ svāñjanayēdgadān||113||
tatra vātaharaḥ sarvō vidhiḥ snēhanabr̥ṁhaṇaḥ|
svēdādiḥ, syādghr̥taṁ kṣīraṁ [74] garbhiṇyāstu viśēṣataḥ||114||
jvaraśōkātitaptānāṁ timiraṁ madyapasya tu|
rūkṣaiḥ śītāñjanairlēpaiḥ puṭapākaiśca sādhayēt [75] ||115||
nāvanaṁ snēhanamiti snēhanārthaṁ nasyam| svēdādiriti cchēdaḥ| ghr̥taṁ kṣīramiti garbhiṇyā vātajayārthaṁ garbhapuṣṭayē ca| jvarētyādi| jvarāditaptānāṁ snēhanaṁ nāvanaṁ timiraṁ kuryāt, tathā madyapasya timiraṁ kuryāt| atra cikitsāmāha- rūkṣairityādi| śītāñjanaṁ srōtōñjanaṁ vadanti; kiṁvā tiktadravyakr̥tamañjanaṁ śītāñjanaṁ; yaduktaṁ śālākyē- “lēkhanaṁ rōpaṇaṁ caiva prasādanamathāpi ca| tiktēna rōpaṇaṁ kāryaṁ, madhurēṇa prasādanam|| kaṭvamlalavaṇādyaiśca lēkhanaṁ kārayēdbudhaḥ| śaityānnirvāpayēttiktō raukṣyādrōpayati drutam” iti| rūkṣairityañjanādibhiḥ sambadhyatē| lēpaḥ nayanālēpaḥ [76] ; puṭapākaḥ akṣitarpaṇajavikāraharalēkhanaḥ śamanō vā jñēyaḥ; puṭapākō hi śālākyē snēhana-lēkhana-prasādanabhēdāt trividha uktaḥ; tadvidhiścēhānyādhikārānna prapañcitaḥ||111-115||
snēhanaṁ śōdhanaṁ caiva dvividhaṁ nāvanaṁ [77] matam|
pratimarśastu nasyārthaṁ karōti na ca dōṣāvān||116||
nastaḥ snēhāṅguliṁ dadyāt prātarniśi ca sarvadā|
na cōcchiṅghēdarōgāṇāṁ pratimarśaḥ sa dārḍhyakr̥t||117||
pratimarśasya nāvanasampādyōbhayakarmadarśanārthaṁ nāvanakarma prāguktamanūdyatē- snēhanamityādi| anyē, sarvanastaḥkarmaṇāmēvaitat karmadvayamanūdyatē, tatra ca snēhanaśamanasya prāguktasyāvarōdha iti vadanti| tasyārthamiti snēhanaṁ śōdhanaṁ ca| na ca dōṣavāniti na vyāpattimān| pratimarśavidhimāha- nasta ityādi| snēhāṅgulimiti snēhapūritāmaṅgulim| sarvadēti sarvartuṣu| dārḍhyakr̥diti śiraḥkapālādidārḍhyakr̥t| ayaṁ pratimarśaḥ svalpasnēhapramāṇō’nucchiṅghanaśca sārvakālikō jñēyaḥ; yastu bhūrisnēhamātrō nāsau sārvakālikaḥ| yaduktam “īṣaducchiṅghanāt snēhō yāvān vakraṁ prapadyatē| nastō niṣiktaṁ taṁ vidyāt pratimarśaṁ pramāṇataḥ” iti; tathā “pratimarśaṁ tu na pibēt kaṇṭhāsrāvabhayānnaraḥ| yāvat snēhō vrajēdāsyaṁ tatpramāṇaṁ ca tasya tu” iti||116-117||
tatra ślōkau-
trīṇi yasmāt pradhānāni marmāṇyabhihatēṣu ca|
tēṣu liṅgaṁ cikitsāṁ ca rōgabhēdāśca sauṣadhāḥ||118||
vidhiruttarabastēśca nastaḥkarmavidhistathā|
savyāpadbhēṣajaṁ siddhau marmākhyāyāṁ prakīrtitam||119||
trīṇītyādisaṅgrahō vyaktārthaḥ||118-119||
ityagnivēśakr̥tē tantrē carakapratisaṁskr̥tē’prāptē dr̥ḍhabalasampūritē
siddhisthānē trimarmīyasiddhirnāma navamō’dhyāyaḥ||9||
iti śrīcakrapāṇidattaviracitāyāmāyurvēdadīpikāyāṁ carakatātparyaṭīkāyāṁ

1. ‘pūrvādhyāyē’pyanuvartatē’ iti pā.|
2. ‘tānadhikr̥tya kr̥tā’ iti pā.|
3. ‘hr̥di’ iti pā.|
4. ‘prāṇōdānau’ iti pā.|
5. ‘…mūtravahānāṁ’ iti pā.|
6. ‘pratiṣṭhitaḥ’ iti pā.|
7. ‘tadupatāpāttu’ iti pā.|
8. ‘hr̥dayārthasya vyatiriktānuvidhāyitvāt’ iti pā.|
9. ‘mūlē(na) vā’ iti pā.|
10. ayaṁ pāṭhō hastalikhitapustakē na paṭhyatē|
11. ‘bhramanti’ iti pā.|
12. ‘hr̥dayādyāśritatvaṁ’ iti pā.|
13. ‘…gulmabradhnānila…’ iti pā.|
14. ‘bhūyaśca hr̥dyupasr̥ṣṭē vātēna hiṅgucūrṇalavaṇānāmanyatamacūrṇasaṁyuktāṁ pēyāṁ mātuluṅgarasēnānyēna vā’mlēna hr̥dyēna vā pāyayēt’ iti pā.|
15. ‘mātuluṅgarasēnājyēna vā bilvādisthirādipañcamūlarasasiddhā yavāgūḥ’ iti pā.|
16. ‘…śr̥takṣīraṁ ca’ iti pā.|
17. ‘marmabhēdādicikitsitamāha-’ iti pā.|
18. ‘…vidhānājjñēyaḥ’ iti pā.|
19. ‘yatnāt kurvīta paripālanam|’ iti pā.|
20. ayamardhaślōkō hastalikhitapustakē na paṭhyatē|
21. ‘ucchvasiti ca kr̥cchrēṇa stabdhākṣō’thānimīlanaḥ’ iti pā.|
22. ‘vātakaphācca’ iti pā.|
23. ‘vātikaḥ’ iti pā.|
24. ‘śvasanaḥ kaphavātābhyāṁ ruddhastaṁ ca’ iti pā.|
25. ‘hiṅgu tumburu pathyā ca’ iti pā.|
26. ‘hr̥tpārśvārtyapatantrakē’ iti pā.|
27. ‘śōdhanē’ iti pā.|
28. ‘…gurvamla…’ iti pā.|
29. ‘…dbhayāt’ iti pā.|
30. ‘mūtraikasādō’ iti pā.|
31. ‘dvayaṁ vā’pi’ iti pā.|
32. ‘mūtraikasādaṁ’ iti pā.|
33. ‘hanyānmūtrādisaṅghātaṁ vyādhiṁ ca gudamēḍhrayōḥ’ iti pā.|
34. ‘tacchēṣaguruśēphasaḥ’ iti pā.|
35. ‘mūtramādhārayēdvastau’ iti pā.|
36. ‘cāvr̥tē’ iti pā.|
37. ‘tr̥ṇmōhaḥ’ iti pā.|
38. ‘saṅkṣēpalakṣaṇam’ iti pā.|
39. ‘jātīpuṣpasya vr̥ntēna’ iti pā.|
40. ‘visr̥ṣṭavarcōmūtrasya’ iti pā.|
41. ‘hiṁsyādbastigataṁ’ iti pā.|
42. ‘pūrṇē(rvē)’ iti pā.|
43. ayamardhaślōkō hastalikhitapustakē na paṭhyatē|
44. ‘yathāsvauṣadhamiśritam’ iti pā.|
45. ‘tvautsargikakālōktaṁ’ iti, ‘tvautsargikaṁ nōktaṁ’ iti ca pā.|
46. ‘mudgasrōtōnupāti ca’ iti pā.|
47. ‘bastiṁ bastau praṇītē ca vartiścānantarā bhavēt’ iti pā.|
48. ‘caturaṅgulapravēśanamantaḥ kartavyam’ iti pā.|
49. ‘śaṅkhakō’gninibhaḥ kṣipraṁ vināśayati mānavam’ iti pā.|
50. ‘nāmataḥ param’ iti pā.|
51. ‘jīvēttryahaṁ cēdbhaiṣajyaṁ pratyākhyāya samācarēt’ iti pā.|
52. ‘rūkṣāśanādadhyaśanāt prāgvātasya ca sēvanāt’ iti pā.|
53. ‘vā’pi gr̥hītvā’rdhaṁ śirō balī’ iti pā.|
54. ‘…draktaṁ viṣyandayēcchanaiḥ’ iti pā.|
55. ‘tu snēhadhāraṇam’ iti pā.|
56. ‘nāvanam’ iti pā.|
57. ‘śirasō majjā’ iti pā.|
58. ayaṁ pāṭhō hastalikhitapustakē na paṭhyatē|
59. ‘manyāṁ paścādghāṭāsu’ iti pā.|
60. ‘nāsākṣibhrūśaṅkhēṣvavatiṣṭhatē’ iti pā.|
61. ‘ca saḥ’ iti pā.|
62. ‘dēhaślēṣmaviśōdhanam’ iti pā.|
63. ‘pracakṣatē’ iti pā.|
64. ‘kārayēt’ iti pā.|
65. ayaṁ pāṭhō hastalikhitapustakē na paṭhyatē|
66. ‘sārdhaṁ yathā’ iti pā.|
67. ‘nastaḥ karmaṇyuraḥ sthitaḥ’ iti pā.|
68. ‘śyāyatē punaḥ’ iti pā.|
69. ‘kaphaviśōdhanam’ pā.|
70. ‘ṣaḍaṅgulyā’thavā’ pā.|
71. ‘taptaṁ’ iti pā.|
72. ‘ajīrṇē bhuktabhaktē ca tōyapītē’tha durdinē’ iti pā.|
73. ‘styānē snēhapītē’nuvāsitē’ iti pā.|
74. ‘jīrṇē’ iti pā.|
75. ‘śōdhayēt’ iti pā.|
76. ‘vadanālēpaḥ’ iti pā.|
77. ‘nasyamucyatē’ iti pā.|
Diacritic Version
||maharṣiṇā punarvasunōpadiṣṭā, tacchiṣyēṇāgnivēśēna praṇītā, carakadr̥ḍhabalābhyāṁ pratisaṁskr̥tā||
||śrīcakrapāṇidattaviracitayā āyurvēdadīpikāvyākhyayā sahitā||
siddhisthānam - 9. trimarmīyā siddhiḥ