Carakasaṃhitā Vimānasthāna Adhyāya 05 – Srotas

eSamhita: A Scholarly Digital Initiative of Ayurveda360

Table of Contents

Devanagari Version

महर्षिणा पुनर्वसुनोपदिष्टा, तच्छिष्येणाग्निवेशेन प्रणीता, चरकदृढबलाभ्यां प्रतिसंस्कृता

चरकसंहिता

श्रीचक्रपाणिदत्तविरचितया आयुर्वेददीपिकाव्याख्यया सहिता

विमानस्थानम् - ५. स्रोतोविमानम्

Only Moolashloka

अथातः स्रोतसां विमानं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||

पूर्वस्मिन्नध्याये परीक्षामभिधाय तत्परीक्षणीयं शरीरं दुष्टादुष्टस्रोतोविभागेन [१] वक्तुं स्रोतसां विमानमुच्यते||१-२||

यावन्तः पुरुषे मूर्तिमन्तो भावविशेषास्तावन्त एवास्मिन् स्रोतसां प्रकारविशेषाः|
सर्वे हि भावा पुरुषे नान्तरेण स्रोतांस्यभिनिर्वर्तन्ते, क्षयं वाऽप्यभिगच्छन्ति|
स्रोतांसि खलु परिणाममापद्यमानानां धातूनामभिवाहीनि भवन्त्ययनार्थेन||३||

मूर्तिमन्त इति असर्वगतद्रव्यपरिमाणवन्तः, असर्वगतद्रव्यपरिमाणं हि मूर्तिरुच्यते| भावविशेषा इति उत्पत्तिमन्तो विशेषाः| अत्र हेतुमाह- सर्व इत्यादि| अभिनिर्वर्तन्त इति सन्तानन्यायेन| स्रोतांसीत्यादि| खलुशब्दो हेतौ| परिणाममापद्यमानानामिति पूर्वपूर्वरसादिरूपतापरित्यागेनोत्तरोत्तररक्तादिरूपतामापद्यमानानाम्| अयनार्थेनेतिवचनान्न स्थिराणां धातूनामभिवाहीनि भवन्ति स्रोतांसि, किन्तु देशान्तरप्रापणेनाभिवाहीनि भवन्ति| एवं मन्यते- रक्तस्य वृद्धिः शोणितरूपतया परिणमता रसेन मिलितेन कर्तव्या, स च स्थानान्तरस्थस्य रसस्य रुधिरेण समं मेलको न गमनमार्गं स्रोतःसञ्ज्ञकमन्तरा भवति| अयं तावदभिसन्धिः- स्रोतःकारणिको हि धातूनां प्रायो रक्तादीनामुत्तरधातुपोषकभागपरिणामो भवति, तच्चाप्युत्तरधातुपोषणं नान्तरेण स्रोतो भवति; यश्च रक्ते न्यायः, स सर्वत्र शारीरे भावे; न चान्यस्रोतसाऽन्यधातुपुष्टिः सम्भवति, सर्वपोष्याणां भिन्नदेशत्वात्; न ह्यभिन्नेन स्रोतसा भिन्नदेशवृक्षयोः सेचनमस्ति| मनस्तु यद्यपि नित्यत्वेन न पोष्यं, तथाऽपि तस्येन्द्रियप्रदेशगमनार्थं स्रोतोऽस्त्येव| तच्च मनःप्रभृतीनामतीन्द्रियाणां कृत्स्नमेव शरीरं स्रोतोरूपं वक्ष्यति| दोषाणां तु सर्वशरीरचरत्वेन यथास्थूलस्रोतोऽनभिधानेऽपि सर्वस्रोतांस्येव गमनार्थं वक्ष्यन्ते, सूक्ष्मजिज्ञासायां तु वातादीनामपि प्रधानभूता धमन्यः सन्त्येव; यदुक्तं सुश्रुते- “तासां वातवाहिन्यो दश” (सु.शा.अ.७) इत्यादि| नच चरके सुश्रुते इव धमनीसिरास्रोतसां भेदो विवक्षितः||३||

अपि चैके स्रोतसामेव समुदयं पुरुषमिच्छन्ति, सर्वगतत्वात् सर्वसरत्वाच्च दोषप्रकोपणप्रशमनानाम्|
न त्वेतदेवं, यस्य हि स्रोतांसि, यच्च [२] वहन्ति, यच्चावहन्ति, यत्र चावस्थितानि, सर्वं तदन्यत्तेभ्यः||४||
अतिबहुत्वात् खलु केचिदपरिसङ्ख्येयान्याचक्षते स्रोतांसि, परिसङ्ख्येयानि पुनरन्ये||५||

सर्वगतत्वादिति स्रोतसां सर्वशरीरावयवगतत्वादित्यर्थः| सर्वसरत्वादित्युत्तरेण सम्बध्यते| दोषप्रकोपणमपथ्यं दोषप्रशमनं वा पथ्यं सर्वस्मिञ् शरीरप्रदेशे दोषरूपं सत् तथा भेषजरूपं सद्गच्छति; तेन सर्वत्र स्रोतो विद्यते; तेन स्रोतोमयः पुरुष इति पूर्वपक्षः| तं निषेधति- न त्वित्यादि| यस्य हि स्रोतांसि यद्घटितानीत्यर्थः, यच्च वहन्तीति यद्रसादि वहन्तीत्यर्थः, यच्चावहन्तीति यच्च पुष्यन्तीत्यर्थः, यत्र चावस्थितानीति यत्र मांसादौ सम्बद्धानीत्यर्थः, तत् सर्वं धमनीभ्योऽन्यत्; तस्मान्न स्रोतोरूप एव पुरुष इत्यर्थः||४-५||

तेषां तु खलु स्रोतसां यथास्थूलं कतिचित्प्रकारान्मूलतश्च प्रकोपविज्ञानतश्चानुव्याख्यास्यामः; ये भविष्यन्त्यलमनुक्तार्थज्ञानाय ज्ञानवतां, विज्ञानाय चाज्ञानवताम्||६||
तद्यथा- प्राणोदकान्नरसरुधिरमांसमेदोस्थिमज्जशुक्रमूत्रपुरीषस्वेदवहानीति; वातपित्तश्लेष्मणां पुनः सर्वशरीरचराणां सर्वाणि स्रोतांस्ययनभूतानि, तद्वदतीन्द्रियाणां पुनः सत्त्वादीनां केवलं चेतनावच्छरीरमयनभूतमधिष्ठानभूतं च|
तदेतत् स्रोतसां प्रकृतिभूतत्वान्न विकारैरुपसृज्यते शरीरम्||७||

प्रकोपविज्ञानतश्चेति यथा स्रोतसां प्रकोपो विज्ञायते तथा व्याख्यास्याम इति योजना| अनुक्तार्थज्ञानायेति अनुक्तस्रोतोज्ञानाय| ज्ञानवतामिति अनुक्तार्थज्ञानसमर्थानाम्| ज्ञानवन्तो ह्यनेन लिङ्गेनानुक्तमपि स्रोतोऽनुमिमते| विज्ञानाय चाज्ञानवतामिति यथोक्तमात्रज्ञानाय च मन्दबुद्धीनामित्यर्थः| तद्वदिति सर्वशरीरचराणाम्| चेतनावच्छरीरमित्यनेनाचेतनकेशनखादिप्रदेशं सत्त्वादिगमने निषेधति, दोषास्तु तत्रापि यान्तीति| अयनभूतमिति मार्गभूतम्| अधिष्ठानभूतमिति स्थानरूपम्||६-७||

तत्र प्राणवहानां स्रोतसां हृदयं मूलं महास्रोतश्च, प्रदुष्टानां तु खल्वेषामिदं विशेषविज्ञानं भवति; तद्यथा- अतिसृष्टमतिबद्धं कुपितमल्पाल्पमभीक्ष्णं वा सशब्दशूलमुच्छ्वसन्तं दृष्ट्वा प्राणवहान्यस्य स्रोतांसि प्रदुष्टानीति विद्यात्|
उदकवहानां स्रोतसां तालुमूलं क्लोम च, प्रदुष्टानां तु खल्वेषामिदं विशेषविज्ञानं भवति; तद्यथा- जिह्वाताल्वोष्ठकण्ठक्लोमशोषं पिपासां चातिप्रवृद्धां दृष्ट्वोदकवहान्यस्य स्रोतांसि प्रदुष्टानीति विद्यात्|
अन्नवहानां स्रोतसामामाशयो मूलं वामं च पार्श्वं, प्रदुष्टानां तु खल्वेषामिदं विशेषविज्ञानं भवति; तद्यथा- अनन्नाभिलषणमरोचकविपाकौ छर्दिं च दृष्ट्वाऽन्नवहान्यस्य स्रोतांसि प्रदुष्टानीति विद्यात्|
रसवहानां स्रोतसां हृदयं मूलं दश च धमन्यः|
शोणितवहानां स्रोतसां यकृन्मूलं प्लीहा च|
मांसवहानां च स्रोतसां स्नायुर्मूलं त्वक् च|
मेदोवहानां स्रोतसां वृक्कौ [३] मूलं वपावहनं च|
अस्थिवहानां स्रोतसां मेदो मूलं जघनं च|
मज्जवहानां स्रोतसामस्थीनि मूलं सन्धयश्च|
शुक्रवहानां स्रोतसां वृषणौ मूलं शेफश्च|
प्रदुष्टानां तु खल्वेषां रसादिवहस्रोतसां विज्ञानान्युक्तानि विविधाशितपीतीये; यान्येव हि धातूनां प्रदोषविज्ञानानि तान्येव यथास्वं प्रदुष्टानां धातुस्रोतसाम्|
मूत्रवहानां स्रोतसां बस्तिर्मूलं वङ्क्षणौ [४] च, प्रदुष्टानां तु खल्वेषामिदं विशेषविज्ञानं भवति; तद्यथा- अतिसृष्टमतिबद्धं प्रकुपितमल्पाल्पमभीक्ष्णं वा बहलं सशूलं मूत्रयन्तं दृष्ट्वा मूत्रवहान्यस्य स्रोतांसि प्रदुष्टानीति विद्यात्|
पुरीषवहानां स्रोतसां पक्वाशयो मूलं स्थूलगुदं [५] च, प्रदुष्टानां तु खल्वेषामिदं विशेषविज्ञानं भवति; तद्यथा- कृच्छ्रेणाल्पाल्पं सशब्दशूलमतिद्रवमतिग्रथितमतिबहु चोपविशन्तं दृष्ट्वा पुरीषवहान्यस्य स्रोतांसि प्रदुष्टानीति विद्यात्|
स्वेदवहानां स्रोतसां मेदो मूलं लोमकूपाश्च, प्रदुष्टानां तु खल्वेषामिदं विशेषविज्ञानं भवति; तद्यथा- अस्वेदनमतिस्वेदनं पारुष्यमतिश्लक्ष्णतामङ्गस्य परिदाहं लोमहर्षं च दृष्ट्वा स्वेदवहान्यस्य स्रोतांसि प्रदुष्टानीति विद्यात्||८||

प्राणवहानामिति प्राणसञ्ज्ञकवातवहानाम्| एतच्च प्राणाख्यविशिष्टस्य वायोर्विशिष्टस्रोतः, सामान्येन तु वायोः सर्वा एव धमन्य इति न विरोधः| मूलमिति प्रभवस्थानम्| अतिसृष्टं वा अतिबद्धं वेति विकल्पेन बोद्धव्यम्, अतिसृष्टातिबद्धयोरेकत्रासम्भवात्| अल्पाल्पं वा तथाऽभीक्ष्णं वेति च विकल्पः| क्लोम हृदयस्थपिपासास्थानम्| वपावहनं वपा उदरस्था स्निग्धवर्तिका यामाहुर्जनास्तैलवर्तिकेति| सुश्रुते तु “मेदोवहानां मूलं वृक्कौ कटी च” (सु.शा.अ.) इत्युक्तं; तदत्रातीन्द्रियार्थदर्शिगम्ये नास्मद्विधानां बुद्धयः प्रभवन्ति [६] | अस्थ्यपि द्रवरूपमस्त्येव स्रोतोवाह्यमिति कृत्वा अस्थिवहानामित्युक्तम्| यद्यपि विविधाशितपीतीये रसादीनां दुष्टिलक्षणमुक्तं न रसादिस्रोतसां, तथाऽपि रसादिदुष्ट्या रसादिवहधमनीनामपि दुष्टेः साधारणत्वेनोक्तं- रसादिवहस्रोतसां विज्ञानान्युक्तानीति| ये तु ब्रुवते- रसादिदुष्टेरभिन्नैव तद्वहधमनीदुष्टिरिति, तेषां मते पृथग्धमनीदुष्ट्यभिधानमनुपपन्नं, तथा धमनीदुष्ट्या यद्धातुदुष्टिं वक्ष्यति “तेषां प्रकोपात् स्थानस्थाश्चैव” इत्यादिना तदनुपपन्नम्| धमनीदुष्ट्या तु तद्वाह्यदुष्टिरवश्यं भवतीति कृत्वा धातुदुष्टिलक्षणैरेवेह धमनीदुष्टिरुक्ता, रक्तादिधातुदुष्ट्यतिरिक्तं तु धमनीदुष्टिलक्षणम् “अतिप्रवृत्तिः” इत्यादिनाऽत्रैव वक्ष्यति| अस्वेदनादिकं स्वेदवहदुष्टिलक्षणं कुष्ठपूर्वरूपेऽप्यस्ति; तेन यत्रान्यत्कुष्ठपूर्वरूपदर्शनं भवति तत्र कुष्ठपूर्वरूपता निश्चेतव्या, एतावन्मात्रलक्षणोदये तु स्वेदवहधमनीदुष्टिरिति| धमनीनामिह मूलज्ञाने यद्यपि साक्षात् प्रयोजनं नोक्तं, तथाऽपि मूलोपघाताद्वृक्षाणामिव धमनीनां महानुपघातो भवतीति ज्ञेयम्, अत एव सुश्रुते स्रोतोमूलविद्धलक्षणान्युक्तानि||८||

स्रोतांसि, सिराः, धमन्यः, रसायन्यः, रसवाहिन्यः, नाड्यः, पन्थानः, मार्गाः, शरीरच्छिद्राणि, संवृतासंवृतानि, स्थानानि, आशयाः, निकेताश्चेति शरीरधात्ववकाशानां लक्ष्यालक्ष्याणां नामानि भवन्ति|
तेषां प्रकोपात् स्थानस्थाश्चैव मार्गगाश्च शरीरधातवः प्रकोपमापद्यन्ते, इतरेषां प्रकोपादितराणि च|
स्रोतांसि स्रोतांस्येव, धातवश्च धातूनेव प्रदूषयन्ति प्रदुष्टाः|
तेषां सर्वेषामेव वातपित्तश्लेष्माणः प्रदुष्टा दूषयितारो भवन्ति, दोषस्वभावादिति||९||

स्रोतसां व्यवहारार्थं पर्यायानाह- स्रोतांसीत्यादि| संवृतासंवृतानीत्येका सञ्ज्ञा, तत्राग्रे संवृतानि मूलेऽसंवृतानि| स्थानादिपर्यायान् केचिद्धमनीमूलस्य पर्यायानाचक्षते; अन्ये त्वेतानपि धमनीपर्यायानाहुः, धमन्योऽपि हि रसादिस्थानं भवन्त्येवेति कृत्वा| स्थानस्था इति आशयस्थाः| मार्गगाश्चैवेति धमनीभिर्गच्छन्तः| इतरेषां चेत्यादिनोक्तमर्थं स्रोतांसि चेत्यादिना विवृणोति| स्रोतांसि धातवश्च दुष्टाः प्रत्यासन्नानि स्रोतांसि धात्वन्तराणि च स्वदोषसङ्क्रान्त्या दूषयन्तीत्यर्थः| दोषस्वभावादिति दोषाणामेवायं स्वभावो यद्दूषकत्वं [७] , न धात्वन्तराणां; तेन धातुना दुष्टिर्धातुदुष्टिः धातुगतदोषकृतैव ज्ञेया||९||

भवन्ति चात्र-
क्षयात् सन्धारणाद्रौक्ष्याद्व्यायामात् क्षुधितस्य च|
प्राणवाहीनि दुष्यन्ति स्रोतांस्यन्यैश्च दारुणैः||१०||
औष्ण्यादामाद्भयात् पानादतिशुष्कान्नसेवनात्|
अम्बुवाहीनि दुष्यन्ति तृष्णायाश्चातिपीडनात्||११||
अतिमात्रस्य चाकाले चाहितस्य च भोजनात्|
अन्नवाहीनि दुष्यन्ति वैगुण्यात् पावकस्य च||१२||
गुरुशीतमतिस्निग्धमतिमात्रं समश्नताम्|
रसवाहीनि दुष्यन्ति चिन्त्यानां चातिचिन्तनात्||१३||
विदाहीन्यन्नपानानि स्निग्धोष्णानि द्रवाणि च|
रक्तवाहीनि दुष्यन्ति भजतां चातपानलौ||१४||
अभिष्यन्दीनि भोज्यानि स्थूलानि च गुरूणि च|
मांसवाहीनि दुष्यन्ति भुक्त्वा च स्वपतां दिवा||१५||
अव्यायामाद्दिवास्वप्नान्मेद्यानां चातिभक्षणात्|
मेदोवाहीनि दुष्यन्ति वारुण्याश्चातिसेवनात्||१६||
व्यायामादतिसङ्क्षोभादस्थ्नामतिविघट्टनात्|
अस्थिवाहीनि दुष्यन्ति वातलानां च सेवनात्||१७||
उत्पेषादत्यभिष्यन्दादभिघातात् प्रपीडनात्|
मज्जवाहीनि दुष्यन्ति विरुद्धानां च सेवनात्||१८||
अकालयोनिगमनान्निग्रहादतिमैथुनात्|
शुक्रवाहीनि दुष्यन्ति शस्त्रक्षाराग्निभिस्तथा||१९||
मूत्रितोदकभक्ष्यस्त्रीसेवनान्मूत्रनिग्रहात्|
मूत्रवाहीनि दुष्यन्ति क्षीणस्याभिक्षतस्य [८] च||२०||
सन्धारणादत्यशनादजीर्णाध्यशनात्तथा|
वर्चोवाहीनि दुष्यन्ति दुर्बलाग्नेः कृशस्य च||२१||
व्यायामादतिसन्तापाच्छीतोष्णाक्रमसेवनात् [९] |
स्वेदवाहीनि दुष्यन्ति क्रोधशोकभयैस्तथा||२२||

यथाक्रमं स्रोतसां दुष्टिकारणमाह- क्षयादित्यादि| दारुणैरित्यत्र ‘कर्मभिः’ इति शेषः| गुरूणि च भजतामिति पूर्वोक्तेन सम्बन्धः| मेद्यानां मेदुराणाम्| अकालयोनिगमनादिति अहर्षकालगमनात्, तथाऽनुचितयोनौ गमनात्| निग्रहादिति शुक्रवेगनिग्रहात्| मूत्रितेत्यादौ मूत्रवेगयुक्तस्य उदकादिसेवनादिति ज्ञेयम्||१०-२२||

आहारश्च विहारश्च यः स्याद्दोषगुणैः समः|
धातुभिर्विगुणश्चापि स्रोतसां स प्रदूषकः||२३||

आहारश्चेत्यादिना सामान्येन सर्वस्रोतोदुष्टिमाह| दोषगुणैः सम इत्यनेन दोषातिवर्धकत्वं दर्शयति| क्षीणाश्च दोषा नान्यदुष्टिं कुर्वन्ति, किं तु स्वयमेव क्षीणस्वलिङ्गा भवन्तीत्यादि वेदितव्यम्| धातुभिर्विगुण इति धातुविरोधकस्वभाव इत्यर्थः, नतु धातुविपरीतगुणे विगुणः; दिवास्वप्नमेद्यादयो हि मेदसा समानगुणा एव मेदोदूषका उक्ताः||२३||

अतिप्रवृत्तिः सङ्गो वा सिराणां ग्रन्थयोऽपि वा|
विमार्गगमनं चापि स्रोतसां दुष्टिलक्षणम्||२४||

अतिप्रवृत्तिरित्यादिना सामान्येन स्रोतोदुष्टिलक्षणमाह| अतिप्रवृत्तिरिह स्रोतोवाह्यस्य रसादेर्बोद्धव्या; एवं सङ्गोऽपि रसादेरेव| विमार्गगमनं च यथा- मलस्य मूत्रमार्गगमनमित्यादि||२४||

स्वधातुसमवर्णानि वृत्तस्थूलान्यणूनि च|
स्रोतांसि दीर्घाण्याकृत्या प्रतानसदृशानि च||२५||

स्वधातुसमवर्णानीति वाह्यधातुतुल्यवर्णानि| प्रतानः लताप्रपञ्चः||२५||

प्राणोदकान्नवाहानां दुष्टानां श्वासिकी क्रिया|
कार्या तृष्णोपशमनी तथैवामप्रदोषिकी||२६||
विविधाशितपीतीये रसादीनां यदौषधम्|
रसादिस्रोतसां कुर्यात्तद्यथास्वमुपक्रमम्||२७||
मूत्रविट्स्वेदवाहानां चिकित्सा मौत्रकृच्छ्रिकी|
तथाऽतिसारिकी कार्या तथा ज्वरचिकित्सिकी||२८||

प्राणोदकेत्यादिना चिकित्सामाह| प्राणवहानां श्वासिकी, उदकवहानां तृष्णोपशमनी, अन्नवहानामामप्रदोषिकीति बोद्धव्यम्| मूत्रादिवहानामपि त्रयाणां मौत्रकृच्छ्रिक्यादयो यथासङ्ख्यं तिस्रश्चिकित्सा ज्ञेयाः||२६-२८||

तत्र श्लोकाः-
त्रयोदशानां मूलानि स्रोतसां दुष्टिलक्षणम्|
सामान्यं नामपर्यायाः कोपनानि परस्परम्||२९||
दोषहेतुः पृथक्त्वेन भेषजोद्देश एव च|
स्रोतोविमाने निर्दिष्टस्तथा चादौ विनिश्चयः||३०||
केवलं विदितं यस्य शरीरं सर्वभावतः|
शारीराः सर्वरोगाश्च स कर्मसु न मुह्यति||३१||

सङ्ग्रहे दुष्टिलक्षणं सामान्यं वाताद्यविशेषितं दुष्टिलक्षणमित्यर्थः, स्रोतोदुष्टिलक्षणानीह वातादिदोषभेदेन नोक्तानीत्यर्थः [१०] ; वातादिविशेषेण चेह विस्तरभयाद्दुष्टिर्नोक्ता; तेन वातादिविशेषलिङ्गाधिक्याद्दुष्टिर्निर्णेतव्या| आदौ विनिश्चय इति अध्यायादौ पुरुषस्य धमनीमयत्वादिवादनिश्चय इत्यर्थः| केवलमित्यादिना अत्रोक्तधमन्यादिभेदेन शरीरज्ञानस्योपादेयतामाह||२९-३१||

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते विमानस्थाने स्रोतोविमानं नाम पञ्चमोऽध्यायः||५||

इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां विमानस्थाने स्रोतोविमानं नाम पञ्चमोऽध्यायः||५||

१. ‘दृष्टादृष्टस्रोतोविभागेन’ इति पा.|
२. ‘यच्च वहन्ति यथा वहन्ति’ इति गङ्गाधरसम्मतः पाठः|
३. ‘बुक्कौ’ इति पा.|
४. ‘वृक्कौ च’ इति पाठश्चेत् साधु|
५. ‘स्थूलान्त्रं गुदं च’ इति पा.|
६. ‘प्रसरन्ति’ इति पा.|
७. ‘यद्दूषकत्वं धात्वन्तराणाम्’ इति पा.|
८. ‘क्षीणस्यातिकृशस्य च’ इति पा.|
९. ‘व्यायामादतिसङ्क्षोभात्’ इति पा.|
१०. ‘नोपयुक्तानीत्यर्थः’ इति पा.|

Moolashloka with Chakrapani Commentary

Pathantara/Pathabheda

Diacritic Version

||maharṣiṇā punarvasunōpadiṣṭā, tacchiṣyēṇāgnivēśēna praṇītā, carakadr̥ḍhabalābhyāṁ pratisaṁskr̥tā||

||śrīcakrapāṇidattaviracitayā āyurvēdadīpikāvyākhyayā sahitā||

vimānasthānam - 5. srōtōvimānam

athātaḥ srōtasāṁ vimānaṁ vyākhyāsyāmaḥ||1||
iti ha smāha bhagavānātrēyaḥ||2||

pūrvasminnadhyāyē parīkṣāmabhidhāya tatparīkṣaṇīyaṁ śarīraṁ duṣṭāduṣṭasrōtōvibhāgēna [1] vaktuṁ srōtasāṁ vimānamucyatē||1-2||

yāvantaḥ puruṣē mūrtimantō bhāvaviśēṣāstāvanta ēvāsmin srōtasāṁ prakāraviśēṣāḥ|
sarvē hi bhāvā puruṣē nāntarēṇa srōtāṁsyabhinirvartantē, kṣayaṁ vā’pyabhigacchanti|
srōtāṁsi khalu pariṇāmamāpadyamānānāṁ dhātūnāmabhivāhīni bhavantyayanārthēna||3||

mūrtimanta iti asarvagatadravyaparimāṇavantaḥ, asarvagatadravyaparimāṇaṁ hi mūrtirucyatē| bhāvaviśēṣā iti utpattimantō viśēṣāḥ| atra hētumāha- sarva ityādi| abhinirvartanta iti santānanyāyēna| srōtāṁsītyādi| khaluśabdō hētau| pariṇāmamāpadyamānānāmiti pūrvapūrvarasādirūpatāparityāgēnōttarōttararaktādirūpatāmāpadyamānānām| ayanārthēnētivacanānna sthirāṇāṁ dhātūnāmabhivāhīni bhavanti srōtāṁsi, kintu dēśāntaraprāpaṇēnābhivāhīni bhavanti| ēvaṁ manyatē- raktasya vr̥ddhiḥ śōṇitarūpatayā pariṇamatā rasēna militēna kartavyā, sa ca sthānāntarasthasya rasasya rudhirēṇa samaṁ mēlakō na gamanamārgaṁ srōtaḥsañjñakamantarā bhavati| ayaṁ tāvadabhisandhiḥ- srōtaḥkāraṇikō hi dhātūnāṁ prāyō raktādīnāmuttaradhātupōṣakabhāgapariṇāmō bhavati, taccāpyuttaradhātupōṣaṇaṁ nāntarēṇa srōtō bhavati; yaśca raktē nyāyaḥ, sa sarvatra śārīrē bhāvē; na cānyasrōtasā’nyadhātupuṣṭiḥ sambhavati, sarvapōṣyāṇāṁ bhinnadēśatvāt; na hyabhinnēna srōtasā bhinnadēśavr̥kṣayōḥ sēcanamasti| manastu yadyapi nityatvēna na pōṣyaṁ, tathā’pi tasyēndriyapradēśagamanārthaṁ srōtō’styēva| tacca manaḥprabhr̥tīnāmatīndriyāṇāṁ kr̥tsnamēva śarīraṁ srōtōrūpaṁ vakṣyati| dōṣāṇāṁ tu sarvaśarīracaratvēna yathāsthūlasrōtō’nabhidhānē’pi sarvasrōtāṁsyēva gamanārthaṁ vakṣyantē, sūkṣmajijñāsāyāṁ tu vātādīnāmapi pradhānabhūtā dhamanyaḥ santyēva; yaduktaṁ suśrutē- “tāsāṁ vātavāhinyō daśa” (su.śā.a.7) ityādi| naca carakē suśrutē iva dhamanīsirāsrōtasāṁ bhēdō vivakṣitaḥ||3||

api caikē srōtasāmēva samudayaṁ puruṣamicchanti, sarvagatatvāt sarvasaratvācca dōṣaprakōpaṇapraśamanānām|
na tvētadēvaṁ, yasya hi srōtāṁsi, yacca [2] vahanti, yaccāvahanti, yatra cāvasthitāni, sarvaṁ tadanyattēbhyaḥ||4||
atibahutvāt khalu kēcidaparisaṅkhyēyānyācakṣatē srōtāṁsi, parisaṅkhyēyāni punaranyē||5||

sarvagatatvāditi srōtasāṁ sarvaśarīrāvayavagatatvādityarthaḥ| sarvasaratvādityuttarēṇa sambadhyatē| dōṣaprakōpaṇamapathyaṁ dōṣapraśamanaṁ vā pathyaṁ sarvasmiñ śarīrapradēśē dōṣarūpaṁ sat tathā bhēṣajarūpaṁ sadgacchati; tēna sarvatra srōtō vidyatē; tēna srōtōmayaḥ puruṣa iti pūrvapakṣaḥ| taṁ niṣēdhati- na tvityādi| yasya hi srōtāṁsi yadghaṭitānītyarthaḥ, yacca vahantīti yadrasādi vahantītyarthaḥ, yaccāvahantīti yacca puṣyantītyarthaḥ, yatra cāvasthitānīti yatra māṁsādau sambaddhānītyarthaḥ, tat sarvaṁ dhamanībhyō’nyat; tasmānna srōtōrūpa ēva puruṣa ityarthaḥ||4-5||

tēṣāṁ tu khalu srōtasāṁ yathāsthūlaṁ katicitprakārānmūlataśca prakōpavijñānataścānuvyākhyāsyāmaḥ; yē bhaviṣyantyalamanuktārthajñānāya jñānavatāṁ, vijñānāya cājñānavatām||6||
tadyathā- prāṇōdakānnarasarudhiramāṁsamēdōsthimajjaśukramūtrapurīṣasvēdavahānīti; vātapittaślēṣmaṇāṁ punaḥ sarvaśarīracarāṇāṁ sarvāṇi srōtāṁsyayanabhūtāni, tadvadatīndriyāṇāṁ punaḥ sattvādīnāṁ kēvalaṁ cētanāvaccharīramayanabhūtamadhiṣṭhānabhūtaṁ ca|
tadētat srōtasāṁ prakr̥tibhūtatvānna vikārairupasr̥jyatē śarīram||7||

prakōpavijñānataścēti yathā srōtasāṁ prakōpō vijñāyatē tathā vyākhyāsyāma iti yōjanā| anuktārthajñānāyēti anuktasrōtōjñānāya| jñānavatāmiti anuktārthajñānasamarthānām| jñānavantō hyanēna liṅgēnānuktamapi srōtō’numimatē| vijñānāya cājñānavatāmiti yathōktamātrajñānāya ca mandabuddhīnāmityarthaḥ| tadvaditi sarvaśarīracarāṇām| cētanāvaccharīramityanēnācētanakēśanakhādipradēśaṁ sattvādigamanē niṣēdhati, dōṣāstu tatrāpi yāntīti| ayanabhūtamiti mārgabhūtam| adhiṣṭhānabhūtamiti sthānarūpam||6-7||

tatra prāṇavahānāṁ srōtasāṁ hr̥dayaṁ mūlaṁ mahāsrōtaśca, praduṣṭānāṁ tu khalvēṣāmidaṁ viśēṣavijñānaṁ bhavati; tadyathā- atisr̥ṣṭamatibaddhaṁ kupitamalpālpamabhīkṣṇaṁ vā saśabdaśūlamucchvasantaṁ dr̥ṣṭvā prāṇavahānyasya srōtāṁsi praduṣṭānīti vidyāt|
udakavahānāṁ srōtasāṁ tālumūlaṁ klōma ca, praduṣṭānāṁ tu khalvēṣāmidaṁ viśēṣavijñānaṁ bhavati; tadyathā- jihvātālvōṣṭhakaṇṭhaklōmaśōṣaṁ pipāsāṁ cātipravr̥ddhāṁ dr̥ṣṭvōdakavahānyasya srōtāṁsi praduṣṭānīti vidyāt|
annavahānāṁ srōtasāmāmāśayō mūlaṁ vāmaṁ ca pārśvaṁ, praduṣṭānāṁ tu khalvēṣāmidaṁ viśēṣavijñānaṁ bhavati; tadyathā- anannābhilaṣaṇamarōcakavipākau chardiṁ ca dr̥ṣṭvā’nnavahānyasya srōtāṁsi praduṣṭānīti vidyāt|
rasavahānāṁ srōtasāṁ hr̥dayaṁ mūlaṁ daśa ca dhamanyaḥ|
śōṇitavahānāṁ srōtasāṁ yakr̥nmūlaṁ plīhā ca|
māṁsavahānāṁ ca srōtasāṁ snāyurmūlaṁ tvak ca|
mēdōvahānāṁ srōtasāṁ vr̥kkau [3] mūlaṁ vapāvahanaṁ ca|
asthivahānāṁ srōtasāṁ mēdō mūlaṁ jaghanaṁ ca|
majjavahānāṁ srōtasāmasthīni mūlaṁ sandhayaśca|
śukravahānāṁ srōtasāṁ vr̥ṣaṇau mūlaṁ śēphaśca|
praduṣṭānāṁ tu khalvēṣāṁ rasādivahasrōtasāṁ vijñānānyuktāni vividhāśitapītīyē; yānyēva hi dhātūnāṁ pradōṣavijñānāni tānyēva yathāsvaṁ praduṣṭānāṁ dhātusrōtasām|
mūtravahānāṁ srōtasāṁ bastirmūlaṁ vaṅkṣaṇau [4] ca, praduṣṭānāṁ tu khalvēṣāmidaṁ viśēṣavijñānaṁ bhavati; tadyathā- atisr̥ṣṭamatibaddhaṁ prakupitamalpālpamabhīkṣṇaṁ vā bahalaṁ saśūlaṁ mūtrayantaṁ dr̥ṣṭvā mūtravahānyasya srōtāṁsi praduṣṭānīti vidyāt|
purīṣavahānāṁ srōtasāṁ pakvāśayō mūlaṁ sthūlagudaṁ [5] ca, praduṣṭānāṁ tu khalvēṣāmidaṁ viśēṣavijñānaṁ bhavati; tadyathā- kr̥cchrēṇālpālpaṁ saśabdaśūlamatidravamatigrathitamatibahu cōpaviśantaṁ dr̥ṣṭvā purīṣavahānyasya srōtāṁsi praduṣṭānīti vidyāt|
svēdavahānāṁ srōtasāṁ mēdō mūlaṁ lōmakūpāśca, praduṣṭānāṁ tu khalvēṣāmidaṁ viśēṣavijñānaṁ bhavati; tadyathā- asvēdanamatisvēdanaṁ pāruṣyamatiślakṣṇatāmaṅgasya paridāhaṁ lōmaharṣaṁ ca dr̥ṣṭvā svēdavahānyasya srōtāṁsi praduṣṭānīti vidyāt||8||

prāṇavahānāmiti prāṇasañjñakavātavahānām| ētacca prāṇākhyaviśiṣṭasya vāyōrviśiṣṭasrōtaḥ, sāmānyēna tu vāyōḥ sarvā ēva dhamanya iti na virōdhaḥ| mūlamiti prabhavasthānam| atisr̥ṣṭaṁ vā atibaddhaṁ vēti vikalpēna bōddhavyam, atisr̥ṣṭātibaddhayōrēkatrāsambhavāt| alpālpaṁ vā tathā’bhīkṣṇaṁ vēti ca vikalpaḥ| klōma hr̥dayasthapipāsāsthānam| vapāvahanaṁ vapā udarasthā snigdhavartikā yāmāhurjanāstailavartikēti| suśrutē tu “mēdōvahānāṁ mūlaṁ vr̥kkau kaṭī ca” (su.śā.a.) ityuktaṁ; tadatrātīndriyārthadarśigamyē nāsmadvidhānāṁ buddhayaḥ prabhavanti [6] | asthyapi dravarūpamastyēva srōtōvāhyamiti kr̥tvā asthivahānāmityuktam| yadyapi vividhāśitapītīyē rasādīnāṁ duṣṭilakṣaṇamuktaṁ na rasādisrōtasāṁ, tathā’pi rasādiduṣṭyā rasādivahadhamanīnāmapi duṣṭēḥ sādhāraṇatvēnōktaṁ- rasādivahasrōtasāṁ vijñānānyuktānīti| yē tu bruvatē- rasādiduṣṭērabhinnaiva tadvahadhamanīduṣṭiriti, tēṣāṁ matē pr̥thagdhamanīduṣṭyabhidhānamanupapannaṁ, tathā dhamanīduṣṭyā yaddhātuduṣṭiṁ vakṣyati “tēṣāṁ prakōpāt sthānasthāścaiva” ityādinā tadanupapannam| dhamanīduṣṭyā tu tadvāhyaduṣṭiravaśyaṁ bhavatīti kr̥tvā dhātuduṣṭilakṣaṇairēvēha dhamanīduṣṭiruktā, raktādidhātuduṣṭyatiriktaṁ tu dhamanīduṣṭilakṣaṇam “atipravr̥ttiḥ” ityādinā’traiva vakṣyati| asvēdanādikaṁ svēdavahaduṣṭilakṣaṇaṁ kuṣṭhapūrvarūpē’pyasti; tēna yatrānyatkuṣṭhapūrvarūpadarśanaṁ bhavati tatra kuṣṭhapūrvarūpatā niścētavyā, ētāvanmātralakṣaṇōdayē tu svēdavahadhamanīduṣṭiriti| dhamanīnāmiha mūlajñānē yadyapi sākṣāt prayōjanaṁ nōktaṁ, tathā’pi mūlōpaghātādvr̥kṣāṇāmiva dhamanīnāṁ mahānupaghātō bhavatīti jñēyam, ata ēva suśrutē srōtōmūlaviddhalakṣaṇānyuktāni||8||

srōtāṁsi, sirāḥ, dhamanyaḥ, rasāyanyaḥ, rasavāhinyaḥ, nāḍyaḥ, panthānaḥ, mārgāḥ, śarīracchidrāṇi, saṁvr̥tāsaṁvr̥tāni, sthānāni, āśayāḥ, nikētāścēti śarīradhātvavakāśānāṁ lakṣyālakṣyāṇāṁ nāmāni bhavanti|
tēṣāṁ prakōpāt sthānasthāścaiva mārgagāśca śarīradhātavaḥ prakōpamāpadyantē, itarēṣāṁ prakōpāditarāṇi ca|
srōtāṁsi srōtāṁsyēva, dhātavaśca dhātūnēva pradūṣayanti praduṣṭāḥ|
tēṣāṁ sarvēṣāmēva vātapittaślēṣmāṇaḥ praduṣṭā dūṣayitārō bhavanti, dōṣasvabhāvāditi||9||

srōtasāṁ vyavahārārthaṁ paryāyānāha- srōtāṁsītyādi| saṁvr̥tāsaṁvr̥tānītyēkā sañjñā, tatrāgrē saṁvr̥tāni mūlē’saṁvr̥tāni| sthānādiparyāyān kēciddhamanīmūlasya paryāyānācakṣatē; anyē tvētānapi dhamanīparyāyānāhuḥ, dhamanyō’pi hi rasādisthānaṁ bhavantyēvēti kr̥tvā| sthānasthā iti āśayasthāḥ| mārgagāścaivēti dhamanībhirgacchantaḥ| itarēṣāṁ cētyādinōktamarthaṁ srōtāṁsi cētyādinā vivr̥ṇōti| srōtāṁsi dhātavaśca duṣṭāḥ pratyāsannāni srōtāṁsi dhātvantarāṇi ca svadōṣasaṅkrāntyā dūṣayantītyarthaḥ| dōṣasvabhāvāditi dōṣāṇāmēvāyaṁ svabhāvō yaddūṣakatvaṁ [7] , na dhātvantarāṇāṁ; tēna dhātunā duṣṭirdhātuduṣṭiḥ dhātugatadōṣakr̥taiva jñēyā||9||

bhavanti cātra-
kṣayāt sandhāraṇādraukṣyādvyāyāmāt kṣudhitasya ca|
prāṇavāhīni duṣyanti srōtāṁsyanyaiśca dāruṇaiḥ||10||
auṣṇyādāmādbhayāt pānādatiśuṣkānnasēvanāt|
ambuvāhīni duṣyanti tr̥ṣṇāyāścātipīḍanāt||11||
atimātrasya cākālē cāhitasya ca bhōjanāt|
annavāhīni duṣyanti vaiguṇyāt pāvakasya ca||12||
guruśītamatisnigdhamatimātraṁ samaśnatām|
rasavāhīni duṣyanti cintyānāṁ cāticintanāt||13||
vidāhīnyannapānāni snigdhōṣṇāni dravāṇi ca|
raktavāhīni duṣyanti bhajatāṁ cātapānalau||14||
abhiṣyandīni bhōjyāni sthūlāni ca gurūṇi ca|
māṁsavāhīni duṣyanti bhuktvā ca svapatāṁ divā||15||
avyāyāmāddivāsvapnānmēdyānāṁ cātibhakṣaṇāt|
mēdōvāhīni duṣyanti vāruṇyāścātisēvanāt||16||
vyāyāmādatisaṅkṣōbhādasthnāmativighaṭṭanāt|
asthivāhīni duṣyanti vātalānāṁ ca sēvanāt||17||
utpēṣādatyabhiṣyandādabhighātāt prapīḍanāt|
majjavāhīni duṣyanti viruddhānāṁ ca sēvanāt||18||
akālayōnigamanānnigrahādatimaithunāt|
śukravāhīni duṣyanti śastrakṣārāgnibhistathā||19||
mūtritōdakabhakṣyastrīsēvanānmūtranigrahāt|
mūtravāhīni duṣyanti kṣīṇasyābhikṣatasya [8] ca||20||
sandhāraṇādatyaśanādajīrṇādhyaśanāttathā|
varcōvāhīni duṣyanti durbalāgnēḥ kr̥śasya ca||21||
vyāyāmādatisantāpācchītōṣṇākramasēvanāt [9] |
svēdavāhīni duṣyanti krōdhaśōkabhayaistathā||22||

yathākramaṁ srōtasāṁ duṣṭikāraṇamāha- kṣayādityādi| dāruṇairityatra ‘karmabhiḥ’ iti śēṣaḥ| gurūṇi ca bhajatāmiti pūrvōktēna sambandhaḥ| mēdyānāṁ mēdurāṇām| akālayōnigamanāditi aharṣakālagamanāt, tathā’nucitayōnau gamanāt| nigrahāditi śukravēganigrahāt| mūtritētyādau mūtravēgayuktasya udakādisēvanāditi jñēyam||10-22||

āhāraśca vihāraśca yaḥ syāddōṣaguṇaiḥ samaḥ|
dhātubhirviguṇaścāpi srōtasāṁ sa pradūṣakaḥ||23||

āhāraścētyādinā sāmānyēna sarvasrōtōduṣṭimāha| dōṣaguṇaiḥ sama ityanēna dōṣātivardhakatvaṁ darśayati| kṣīṇāśca dōṣā nānyaduṣṭiṁ kurvanti, kiṁ tu svayamēva kṣīṇasvaliṅgā bhavantītyādi vēditavyam| dhātubhirviguṇa iti dhātuvirōdhakasvabhāva ityarthaḥ, natu dhātuviparītaguṇē viguṇaḥ; divāsvapnamēdyādayō hi mēdasā samānaguṇā ēva mēdōdūṣakā uktāḥ||23||

atipravr̥ttiḥ saṅgō vā sirāṇāṁ granthayō’pi vā|
vimārgagamanaṁ cāpi srōtasāṁ duṣṭilakṣaṇam||24||

atipravr̥ttirityādinā sāmānyēna srōtōduṣṭilakṣaṇamāha| atipravr̥ttiriha srōtōvāhyasya rasādērbōddhavyā; ēvaṁ saṅgō’pi rasādērēva| vimārgagamanaṁ ca yathā- malasya mūtramārgagamanamityādi||24||

svadhātusamavarṇāni vr̥ttasthūlānyaṇūni ca|
srōtāṁsi dīrghāṇyākr̥tyā pratānasadr̥śāni ca||25||

svadhātusamavarṇānīti vāhyadhātutulyavarṇāni| pratānaḥ latāprapañcaḥ||25||

prāṇōdakānnavāhānāṁ duṣṭānāṁ śvāsikī kriyā|
kāryā tr̥ṣṇōpaśamanī tathaivāmapradōṣikī||26||
vividhāśitapītīyē rasādīnāṁ yadauṣadham|
rasādisrōtasāṁ kuryāttadyathāsvamupakramam||27||
mūtraviṭsvēdavāhānāṁ cikitsā mautrakr̥cchrikī|
tathā’tisārikī kāryā tathā jvaracikitsikī||28||

prāṇōdakētyādinā cikitsāmāha| prāṇavahānāṁ śvāsikī, udakavahānāṁ tr̥ṣṇōpaśamanī, annavahānāmāmapradōṣikīti bōddhavyam| mūtrādivahānāmapi trayāṇāṁ mautrakr̥cchrikyādayō yathāsaṅkhyaṁ tisraścikitsā jñēyāḥ||26-28||

tatra ślōkāḥ-
trayōdaśānāṁ mūlāni srōtasāṁ duṣṭilakṣaṇam|
sāmānyaṁ nāmaparyāyāḥ kōpanāni parasparam||29||
dōṣahētuḥ pr̥thaktvēna bhēṣajōddēśa ēva ca|
srōtōvimānē nirdiṣṭastathā cādau viniścayaḥ||30||
kēvalaṁ viditaṁ yasya śarīraṁ sarvabhāvataḥ|
śārīrāḥ sarvarōgāśca sa karmasu na muhyati||31||

saṅgrahē duṣṭilakṣaṇaṁ sāmānyaṁ vātādyaviśēṣitaṁ duṣṭilakṣaṇamityarthaḥ, srōtōduṣṭilakṣaṇānīha vātādidōṣabhēdēna nōktānītyarthaḥ [10] ; vātādiviśēṣēṇa cēha vistarabhayādduṣṭirnōktā; tēna vātādiviśēṣaliṅgādhikyādduṣṭirnirṇētavyā| ādau viniścaya iti adhyāyādau puruṣasya dhamanīmayatvādivādaniścaya ityarthaḥ| kēvalamityādinā atrōktadhamanyādibhēdēna śarīrajñānasyōpādēyatāmāha||29-31||

ityagnivēśakr̥tē tantrē carakapratisaṁskr̥tē vimānasthānē srōtōvimānaṁ nāma pañcamō’dhyāyaḥ||5||

iti śrīcakrapāṇidattaviracitāyāṁ carakatātparyaṭīkāyāmāyurvēdadīpikāyāṁ vimānasthānē srōtōvimānaṁ nāma pañcamō’dhyāyaḥ||5||

1. ‘dr̥ṣṭādr̥ṣṭasrōtōvibhāgēna’ iti pā.|
2. ‘yacca vahanti yathā vahanti’ iti gaṅgādharasammataḥ pāṭhaḥ|
3. ‘bukkau’ iti pā.|
4. ‘vr̥kkau ca’ iti pāṭhaścēt sādhu|
5. ‘sthūlāntraṁ gudaṁ ca’ iti pā.|
6. ‘prasaranti’ iti pā.|
7. ‘yaddūṣakatvaṁ dhātvantarāṇām’ iti pā.|
8. ‘kṣīṇasyātikr̥śasya ca’ iti pā.|
9. ‘vyāyāmādatisaṅkṣōbhāt’ iti pā.|
10. ‘nōpayuktānītyarthaḥ’ iti pā.|

Scroll to Top