Table of Contents
Devanagari Version
काशिराजधन्वन्तरिणोपदिष्टा तच्छिष्यसुश्रुतेन विरचिता
सुश्रुतसंहिता
श्रीडल्हणाचार्यविरचितया निबन्धसङ्ग्रहाख्यव्याख्यया निदानस्थानस्य श्रीगयदासाचार्यविरचितया न्यायचन्द्रिकाख्यपञ्जिकाव्याख्यया च समुल्लसिता
निदानस्थानम् - २. अर्शोनिदानम्
Only Moolashloka
अथातोऽर्शसां निदानं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
अथेत्यादि| निदानं हेतुलक्षणनिर्देशः||१-२||
वातव्याधिनिदानानन्तरमर्शोनिदानारम्भः, वातविण्मूत्ररोधिनीमिति पूर्वप्रक्रान्तत्वात्, अर्शसां च वातादिनिरोधित्वेन सामान्यात्, शस्त्रक्षाराग्निकर्मत्रयसाध्यत्वेन शल्यतन्त्रव्याधिप्राधान्याच्च| अर्शसां निदानं हेतुलक्षणनिर्देशः||१-२||
षडर्शांसि भवन्ति वातपित्तकफशोणितसन्निपातैः सहजानि चेति ||३||
षडर्शांसीत्यादि| ननु, वातपित्तकफशोणितसन्निपातैः सहजानि चेत्यनेनैव षट्सङ्ख्याया लब्धत्वात् कथं षडिति सङ्ख्यानिर्देशः? उच्यते- द्विदोषजनितार्शोगणनापरिहारार्थम्| यद्यपि शोणिताधिष्ठाना वातादयो रक्तार्शसामारम्भकाः, तथाऽप्युपचारात् ‘शोणितजानि’ इत्युच्यन्ते; यथा-
घृताधिष्ठानेनाग्निना दग्धो ‘घृतदग्ध’ इत्युच्यते||३||
षडर्शांसि भवन्तीति प्रथमं सङ्ख्याकरणं षट्सङ्ख्याया वातादीनां बलवद्विग्रहादिषु हेतुषु, रौक्षादिस्वभावलिङ्गेषु, कर्मादिकार्यलिङ्गेषु, साध्यासाध्यचिकित्सितेषु चाङ्गभूतत्वात्| षडर्शांसि भवन्तीत्यस्य सूत्रस्य भाष्यं- वातपित्तकफशोणितसन्निपातैः सहजानि चेति| ननु च षट्त्वावधारणं विरुध्यते, संसृष्टार्शःषट्कस्यापि दर्शितत्वात्| तदुक्तं- “अर्शस्सु दृश्यते रूपं यदा वै दोषयोर्द्वयोः| संसर्गं तं विजानीयात् संसर्गः षड्विधः स्मृतः” इति| उच्यते- व्याख्यातोऽयमर्थः- यत्र प्रकृतिसमसमवेतः सन्निपातः संसर्गो वा न तत्र सङ्ख्यातिरेकमापादयति, समुदायिभ्योऽनन्यः समुदाय इति कृत्वा; प्रत्येकवातादिदोषधातुलिङ्गस्य संसर्गस्य चिकित्साया एकत्वेन वातादिष्वेवावरुद्धत्वात्| तदुक्तं चरके- “पञ्च गुल्मा इति वातपित्तकफसन्निपातशोणितजाः” (च. सू. १९) इत्यभिधाय पुनराह- “संसृष्टलिङ्गानपरांस्तु गुल्मांस्त्रीनादिशेदौषधकल्पनार्थम्” (च. चि. ५) इति; यदि च समुदायिभ्योऽनन्यः समुदाय इति प्रत्येकवातादिदोषजेषु संसर्गजावरोधो न भवति तदा ‘पञ्च गुल्माः’ इति पञ्चसङ्ख्यावधारणं विरुध्यते| अन्ये पुनराहुः- सन्निपातशब्दस्य व्युत्पादितत्वात्….. तन्न, चरकादिषु सांसर्गिकाणामर्शसां प्रदर्शितत्वात्||३||
तत्रानात्मवतां यथोक्तैः प्रकोपणैर्विरुद्धाध्यशनस्त्रीप्रसङ्गोत्कटुकासनपृष्ठयानवेगविधारणादिभिर्विशेषैः प्रकुपिता दोषा एकशो द्विशः समस्ताः शोणितसहिता वा यथोक्तं प्रसृताः प्रधानधमनीरनुप्रपद्याधो गत्वा गुदमागम्य प्रदूष्य गुदवलीर्मांसप्ररोहाञ्जनयन्ति विशेषतो मन्दाग्नेः, तथा तृणकाष्ठोपललोष्ठवस्त्रादिभिः शीतोदकसंस्पर्शनाद्वा कन्दाः परिवृद्धिमासादयन्ति, तान्यर्शांसीत्याचक्षते ||४||
अर्शसां हेतून् सम्प्राप्ति च दर्शयन्नाह- तत्रेत्यादि| प्रकुपिता दोषा मांसप्ररोहाञ्जनयन्तीति सम्बन्धः| अनात्मवताम् अजितेन्द्रियाणाम्| यथोक्तैः प्रकोपणैर्बलवद्विग्रहादिक्रोधशोकादिदिवास्वप्नादिभिः| विरुद्धं बहुधा हिताहितीयोक्तम्| स्त्रीप्रसङ्ग इत्यत्र प्रशब्देनात्यन्तसक्तिः प्रतिपाद्यते| ‘गुदपार्ष्णीसमायोगः प्राहुरुत्कटुकासनम्’, ‘उकुडु’ इति लोके| अश्वादीनां पृष्ठेन गमनं पृष्ठयानम्| वेगविधारणशब्देन वातविण्मूत्रादीनां वेगधारणम्| विरुद्धाशनशब्देन गुरुशीताभिष्यन्दिविदाह्यसात्म्यप्रमिताशनादीनि गृह्यन्ते| विशेषैर्भेदैः| तेषां निदानमभिधाय सम्प्राप्तिमाह- यथोक्तमित्यादि| प्रसृता इति ‘किण्वोदकपिष्टसमवाय इवोद्रिक्तानां प्रसरो भवति’ (सू. २१) इत्यादिक्रमेण प्रसृताः| प्रधानधमनीः पुरीषवाहिनीः| अनु पश्चात्, प्रपद्य प्राप्य| गुदवलीरिति वलिस्त्वक्सङ्कोचः| मन्दाग्नेर्विशेषतोऽतिशयेन मांसप्ररोहाञ्जनयन्तीति सम्बन्धः| तथा तृणेत्यादि| परिवृद्धिमासादयन्ति प्राप्नुवन्तीत्यर्थः| आचक्षत इति ‘पूर्वाचार्या’ इत्यध्याहारः||४||
अर्शसां हेतूनतीतावेक्षणेन निर्दिशन्नाह- यथोक्तैः प्रकोपणैरित्यादि| प्रकोपयन्तीति प्रकोपणानि वातादिदोषाणां सञ्चयहेतवः प्रकोपहेतवश्च, दोषाणामसञ्चितानां च प्रकोपाभावात्| यथोक्तैरिति पदार्थानतिवृत्तावव्ययीभावः| “तृतीयासप्तम्योर्बहुलम्” (पा. अ. २/४/८४) इति तृतीया, बहुवचनस्याभावाभावः| यथोक्तप्रकारमनुवृत्तिः| अथवा वाक्यमेवैतत् येन प्रकारेणोक्तैः| तत्र सञ्चयहेतवः ऋतुचर्योदिताः, प्रकोपहेतवो व्रणप्रश्नोदिता बलवद्विग्रहादयः| केचिद्व्याधिहेतूनपि विरुद्धाध्यशनस्त्रीसङ्गोत्कटकासनादीन् पठन्ति| एकैकश इति वीप्सायां शस्प्रत्ययः| एके ‘द्विशः’ इति न पठन्ति| शोणितस्य च प्राधान्यार्थं पृथक् शोणितग्रहणं; तदुक्तं व्रणप्रश्नस्य द्वितीये दर्शने- “तदेभिरेव शोणितचतुर्थैः” (सू. २१) इति, यदुक्तं पूर्वं- दोषा अपि स्वस्था धातवो दधतीति कृत्वा; यदाह चरकः- “विकारो धातुवैषम्यम्” (च. सू. ९) इति, धातुवैषम्यमिति दोषधातुमलवैषम्यमित्यर्थः| वृद्धिक्षयाभ्यामस्वस्था धातवोऽपि दोषाः; यदाह चरकः- “किञ्चिद्दोषप्रशमनं” (च. सू. १)इति; दुष्टवातादिधातुमलप्रशमनमित्यर्थः| दोषशब्दो दुष्टेषु धातुष्वपि वर्तते, तदयुक्तमेव “अत्रैतावता शोणितस्यैकस्यैव दोषत्वमुच्यते किं तर्हि न रसादीनामपि; व्रणप्रश्ने तु व्रणे शोणितस्य प्राधान्यार्थं हेत्वादिषु पृथग्ग्रहणम्” इति| तथा व्याधिसमुद्देशीये “दोषदूषितेष्वत्यर्थं धातुषु सञ्ज्ञा क्रियते रसजोऽयं रक्तजोऽयम्” (सू. २४) इत्यादि| अतोऽत्र शोणितस्य सामान्ये धातुत्वे दोषत्वमपीति विशेषेण शोणितस्य दोषवचनं सहेतुकमेवेति| तेषामिदानीं प्रसरपूर्वकस्थानसंश्रयलक्षणां सम्प्राप्तिं दर्शयन्नाह- यथोक्तं प्रसृता इत्यादि| यथोक्तमिति उक्तप्रकारानतिक्रमेण प्रसृताः| अधोगमनादधोजातानन्यान् विकारान् कुतो न कुर्वन्तीत्याह- प्रधानधमनीम(र)नुसृत्येति| प्रधानमनीमि(रि)ति “अधोगतास्तु वतमूत्रपुरीषशुक्रार्तवादीन्यधो वहन्ति| तासु पित्ताशयमभिप्रपन्नास्तत्रस्थमन्नपानरसमभिविपक्वमौष्ण्याद्विवेचयन्त्योऽभिवहन्त्यः शरीरं तर्पयन्ति, अर्पयन्ति चोर्ध्वगानां तिर्यगाणां च, रसस्थानं चाभिपूरयन्ति; आमपक्वाशयान्तरं च त्रिधा जायन्ते’ (शा. ९)| प्रधानग्रहणमप्रधानां निरस्यति| अधोगत्वेऽपि बस्त्यादिरोगं निरसन्नाह- गुदमागम्येति| तत्रापि कुतो न भगन्दरबद्धगुदगुदभ्रंशादीन् कुर्वन्तीत्याह- विशेषतो मन्दाग्नेरिति| मन्दाग्नेर्विशेषादिति समानाधिकरणे पञ्चमी| मन्दाग्नेर्विशेषतोऽर्शांसि जनयन्ति| केचिद्दोषजानामेव तृणादीन् परिवृद्धिहेतूनाहुः| पठन्ति च- ‘तृणलोष्टोपलवस्त्रादिशीतोदकसंस्पर्शाद्वृद्धिमासादयन्ति, तान्यर्शांसीत्याचक्षते’| इतिशब्देनात्र शैलीपरिभाषितत्वमर्शसां द्योतयति| यदाह चरकः- “केचिद्भूयांसमेव क्षेत्रमुपदिशन्त्यर्शसां; तद्यथा- शिश्नममपत्यपथमित्यादि| अधिमांससञ्ज्ञ [१] एषः| गुदवलिजानां त्वर्शांसीति तन्त्रे सञ्ज्ञा’ (च. चि. १४) इति| अन्ये तु विशेषतो गुदमेढ्रगास्त्वर्शांस्येव जनयन्ति||४||
तत्र स्थूलान्त्रप्रतिबद्धमर्धपञ्चाङ्गुलं गुदमाहुः, तस्मिन् वलयस्तिस्रोऽध्यर्धाङ्गुलान्तरसम्भूताः प्रवाहणी विसर्जनी संवरणी चेति चतुरङ्गुलायताः [२] ; सर्वास्तिर्यगेकाङ्गलोच्छ्रिताः ||५||
शङ्खावर्तनिभाश्चापि उपर्युपरि संस्थिताः |
गजतालुनिभाश्चापि वर्णतः सम्प्रकीर्त्तिताः |
रोमान्तेभ्यो यवाध्यर्धो गुदौष्ठः परिकीर्तितः ||६||
इदानीं गुदं गुदवलीश्च विवृण्वन्नाह- तत्रेत्यादि| स्थूलान्त्रं कट्यन्त्रं ‘गुदान्त्रं’ इति प्रसिद्धम्| अर्धपञ्चाङ्गुलमिति अर्धपञ्चममङ्कुलं यस्मिन् तत्तथा, एतेन सार्धचतुरङ्गुलप्रमाणं गुदमित्यर्थः| अध्यर्धाङ्गुलान्तरसम्भूता इति सार्धैकाङ्गुलान्तरसञ्जाताः| तत्रोपरितनं वलिद्वयं शङ्खावर्त्तनिभं प्रत्येकमन्तरेण सह सार्धैकाङ्गुलं, प्रथमा तु वलिरन्तरेण विनैकाङ्गुलोच्छ्राया, अर्धाङ्गुलस्तु गुदौष्ठ ईदृशं बोद्धव्यम्| अत एव ‘प्रथमा तु गुदौष्ठादङ्गुलमात्रे’ इत्यग्रे वक्ष्यति| तासां नामान्याह- प्रवाहणीत्यादि| प्रवाहयतीति प्रवाहणी, विसृजतीति विसर्जनी, संवृणोतीति संवरणी| गुदौष्ठप्रमाणमाह- रोमान्तेभ्य इत्यादि| रोमान्तेभ्यो रोमप्रान्तेभ्यो रोममालिकायाः, यवाध्यर्धः सार्धो यवः, अर्धाङ्गुलप्रमाण इत्यर्थः, अङ्गुलस्य त्रियवप्रमाणत्वात्||५-६||
प्रथमा तु गुदौष्ठादङ्गुलमात्रे ||७||
प्रथमा वलिर्गुदौष्ठात् कियद्दूरे भवतीत्याह- प्रथमेत्यादि| प्रथमा ‘वलिः’ इति शेषः||७||
तत्रान्त्रगुदाङ्गुलिवलीश्चापि विवृण्वन्नाह- तत्र स्थूलान्त्रप्रतिबद्धमित्यादि| प्रवाहणीति प्रपूर्वात् ‘वह’ प्रयत्ने, इत्यस्मात् कर्तरि णट्| विसृजतीति विसर्जनी| संवृणोतीति संवरणी| तासु का किं प्रमाणेति दर्शयन्नाह- तत्र रोमान्तेभ्य इत्यादि| यवाध्यर्धः सार्धयवः| एतेन त्रियवोऽङ्गुलः, सार्धेन यवेनार्धाङ्गुलत्वात्| तत्र भालुकिः- “तस्य वलीरोममालिका, तस्या उपर्यध्यर्धयवमात्रो गुदौष्ठः, तस्मादूर्ध्वमङ्गुलमात्रा प्रथमा, द्वितीयाऽध्यर्धमङ्गुला, तृतीयाऽपि तथैव” इति| भोजेऽपि- “रोमान्तेभ्यो यवाध्यर्धं गुदौष्ठं परिचक्षते| गुदौष्ठादङ्गुलं चैव प्रथमां तु वलिं विदुः”- इति| तत्र गुदौष्ठादर्धाङ्गुलमेव गुदौष्ठेऽर्शसां सम्भव इति||५-७|
तेषां तु भविष्यतां पूर्वरूपाणि- अन्नेऽश्रद्धा कृच्छ्रात् पक्तिरम्लीका परिदाहो विष्टम्भः पिपासा सक्थिसदनमाटोपः कार्श्यमुद्गारबाहुल्यमक्ष्णोः श्वयथुरन्त्रकूजनं गुदपरिकर्तनमाशङ्का पाण्डुरोगग्रहणीदोषशोषाणां [३] कासश्वासौ बलहानिर्भ्रमस्तन्द्रा निद्रेन्द्रियदौर्बल्यं च ||८||
तेषामित्यादि| भविष्यतां भवितुकामानाम्| अम्लीका अम्लोद्गारः| सक्थिसदनम् ऊरुग्लानिः, स्फुटनमिवेत्येके| आटोप आध्मानम्| पाण्डुरोगादीनामाशङ्का विकल्पः| कासश्वासौ भ्रमस्तन्द्रा निद्रेन्द्रियदौर्बल्यं च ‘जायते’ इति शेषः||८||
स्थानसंश्रये सम्प्राप्तिरूपे पूर्वरूपं दर्शयन्नाह- तेषां तु भविष्यतामित्यादि| इन्द्रियदौर्बल्यमिति चक्षुराद्यधिष्ठितदोषेण तच्छक्तिव्याघातादशक्तिपूर्वकरूपादिग्रहणम्||८||
जातेष्वेतान्येव लक्षणानि प्रव्यक्ततराणि भवन्ति ||९||
तेषां सामान्यरूपमाह- जातेष्वित्यादि| एतानि पूर्वोक्तानि||९||
तत्र मारुतात् परिशुष्कारुणविवर्णानि विषममध्यानि कदम्बपुष्पतुण्डिकेरीनाडीमुकुलसूचीमुखाकृतीनि [४] च भवन्ति; तैरुपद्रुतः सशूलं संहतमुपवेश्यते कटीपृष्ठपार्श्वमेढ्रगुदनाभिप्रदेशेषु चास्य वेदना भवन्ति, गुल्माष्ठीलाप्लीहोदराणि चास्य तन्निमित्तान्येव भवन्ति, कृष्णत्वङ्नखनयनदशनवदनमूत्रपुरीषश्च पुरुषो भवति ||१०||
विशिष्टं रूपमाह- तत्रेत्यादि| परिशुष्काणि अनास्रावीणि| अरुणानि ईषद्रक्तानि| विवर्णानि विविधवर्णानि| विषममध्यानि निम्नोन्नतमध्यानि, केचिदत्र ‘विषमध्यामानि’ इति पठन्ति, व्याख्यानयन्ति च- विषमाणि निम्नोन्नतत्वेन, ध्यामानि दग्धेष्टिकादिवस्तुवर्णानि| तुण्डिकेरी वनकार्पासिका, तत्पुष्पाकृतीनि| अन्ये त्वत्र “तुण्डिकेरीनाडीमुकुलसूचीमुखसदृशानि भवन्ति” इति पठन्ति, व्याख्यानयन्ति च- तुण्डिकेरी बिम्बी, तस्या नाडी नालिका; मुकुलं पुष्पमुकुलं; सूचीसीवनद्रव्यम्; एषां मुखसदृशानि भवन्ति| उपद्रुतः अभिभूतः| संहतं घनम्| उपवेश्यते विट्सर्गं कार्यते| गुल्मादीनि चास्य तन्निमित्तानीत्युपद्रवकथनम्||१०||
ततो रूपं दर्शयन्नाह- तत्र मारुतादित्यादि| तत्र ‘अर्शांसि नाम जायन्ते नासन्निपतितैस्त्रिभिः’ इति सर्वेषामेव (सर्वजत्वं) उत्कर्षतस्त्वेकदोषजत्वम्, उक्तमेव तदसकृत् “द्रव्यमेकरसं नास्ति, न रोगोऽप्येकदोषजः| योऽधिकस्तेन निर्देशः क्रियते रसदोषयोः” इति| परिशुष्कारुणवर्णानि परितः शुष्काण्यनास्राविणीत्यर्थः| कफजान्यपि ‘न भिद्यन्ते न स्रवन्ति च’ इति वचनाच्छेषाणि स्रवन्त्येव| विषममध्यानि विषमो निम्नोन्नतत्वेन मध्यो भागो येषां तानि| विवर्णानि दग्धेष्टकादिवस्तुवर्णानि| कदम्बपुष्पाकृतीनीति कदम्बो वृक्षकदम्बः, तस्य पुष्पं यथा केसरकण्टकेन निरन्तरं परिपुटितमिव तथाऽर्शांस्यपि निरन्तरत्वक्परिपुटनेन विषमविसृतानि| तुण्डिकेरी बिम्बी, तस्या नाडी नालिका, मुकुलं पुष्पमुकुलं, सूची सेवनद्रव्यम्, एषां मुखाकृतिसदृशानीति अनेन प्रतनुमुखानीत्युक्तम्| गुल्मादीनि चास्य तन्निमित्तानीत्युपद्रवकथनम्| कृष्णशब्दस्त्वगादिभिर्वर्णान्तैः सह प्रत्येकमभिसम्बध्यते| एवं पित्तजेऽपि पीतशब्दः, एवं श्वेतशब्दः श्लेष्मजेषु||१०||
पित्तान्नीलाग्राणि तनूनि विसर्पीणि पीतावभासानि यकृत्प्रकाशानि शुकजिह्वासंस्थानानि यवमध्यानि जलौकोवक्रसदृशानि प्रक्लिन्नानि च भवन्ति; तैरुपद्रुतः सदाहं सरुधिरमतिसार्यते, ज्वरदाहपिपासामूर्च्छाश्चास्योपद्रवा भवन्ति, पीतत्वङ्नखनयनदशनवदनमूत्रपुरीषश्च पुरुषो भवति ||११||
पित्तादित्यादि| विसर्पीणि प्रसरणशीलानि| संस्थानमाकारः| यवमध्यानीति पीनमध्यानि मूलाग्रयोस्तनूनि| प्रक्लिन्नानि क्लेदस्रावीणि||११||
पित्तजानि यवमध्यानीति पीनमध्यानि| शुकजिह्वासंस्थानानि शुकजिह्वाग्रतनूनि| जलौकोवक्रसदृशानि भिन्नमुखत्वेन सूक्ष्मरन्ध्रवन्मुखानि| प्रक्लिन्नानि क्लेदस्रावीणि||११||
श्लेष्मजानि श्वेतानि महामूलानि स्थिराणि वृत्तानि स्निग्धानि पाण्डूनि करीरपनसास्थिगोस्तनाकाराणि, न भिद्यन्ते न स्रवन्ति कण्डूबहुलानि च भवन्ति; तैरुपद्रुतः सश्लेष्माणमनल्पं मांसधावनप्रकाशमतिसार्यते, शोफशीतज्वरारोचकाविपाकशिरोगौरवाणि चास्य तन्निमित्तान्येव भवन्ति, शुक्लत्वङ्नखनयनदशनवदनमूत्रपुरीषश्च पुरुषो भवति ||१२||
श्लेष्मजानीत्यादि| स्थिराणि कठिनानि| पाण्डूनि धूसराणि| करीरो मरुदेशातिप्रवृद्धो वृक्षविशेषः, पनसो बहिः- कण्टकिफलः ‘कटहल’ इति लोके, तस्य फलसदृशानि| अनल्पं बहु| शीतज्वरः शीतप्रधानज्वरः||१२||
कफजानि महामूलानि न पित्तजवत्तनुमूलानि| स्थिराणि कठिनानि| न भिद्यान्ते न स्रवन्ति रक्तजवत्| मांसधावनं सान्द्रमांसक्षालनोदकं, तत्प्रकाशं तत्सदृशम्| शीतज्वरः शीतप्रधानो ज्वरः||१२||
रक्तजानि न्यग्रोधप्ररोहविद्रुमकाकणन्तिकाफलसदृशानि [५] पित्तलक्षणानि च, यदाऽवगाढपुरीषप्रपीडितानि भवन्ति तदाऽत्यर्थं दुष्टमनल्पमसृक् सहसा विसृजन्ति, तस्य चातिप्रवृत्तौ शोणितातियोगोपद्रवा भवन्ति ||१३||
रक्तजानीत्यादि| न्यग्रोधप्ररोहो वटप्ररोहः, विद्रुमः प्रवालः, काकणन्तिका गुञ्जा चिरिहिण्टिका’ इति लोके, काकादनीत्यपरे| चकारेणानुबन्धभूतवातकफरूपमनुक्तमपि समुच्चीयते| शोणितातियोगोपद्रवा आक्षेपकादयः||१३||
रक्तजानीत्यादि| न्यग्रोधो वटः, तस्य प्ररोहः; एषामन्यतमवर्णसंस्थानानि एकतमवर्णानि, एकतमसंस्थानानि| पित्तलक्षणानि चेति आग्नेयत्वे रक्तपित्तस्य चैकत्वात्| चकारेणानुबन्धभूतवातकफरूपमनुक्तमपि समुच्चीयते| तदुक्तं रक्तार्शःसु चरके- “तत्रानुबन्धो द्विविधः श्लेष्मणो मारुतस्य च| विड् भवेत् कठिनं रूक्षं” (च. चि. १४) इत्यादि| यवरूपमनुक्तनिर्दिष्टं द्रष्टव्यम्| यवमध्यादयो धर्माः सविशेषणाश्चातिसारज्वरादयश्चोपद्रवा अतिदेशेनैव निर्दिष्टा द्रष्टव्याः| अत्यर्थदुष्टमनुबन्धभूतवातादिदोषदूषणकृतकृष्णादिवर्णम्| शोणितातियोगोपद्रवा आक्षेपकादयः||१३||
सन्निपातजानि सर्वदोषलक्षणयुक्तानि [६] ||१४||
सर्वदोषलक्षणयुक्तानीति “सर्वेषां चार्शंसां यानि लक्षणानि” इति जेज्झटः; गयदासस्तु ‘सन्निपातजानि सर्वलक्षणानि’ इति पठति, व्यख्यानयति च- “सर्वेषां वातादीनां लक्षणानि स्वभावकर्मभूतानि येषु तानि तथा” इति||१४||
सन्निपातजानि सर्वलक्षणानीति नात्र सर्वेषां वातादीनां लक्षणानि, एवमसन्देहार्थं ‘त्रिदोषलिङ्गानि’ इत्येवं ब्रूयात्; किञ्च ‘समुदायिभ्योऽनन्यः समुदायः’ इत्यनेन न्यायेन सङ्ख्याभेदश्च न प्राप्नोति, सङ्ख्याभेदहेतोर्वातादेः कारणस्य लक्षणभूतत्वेन धर्माणामप्यभेदात्| भेदो हि भेदवतां कारणभेदाद्विरुद्धधर्माध्यासाच्च| तेन सर्वेषां वातादीनां लक्षणानि स्वभावकर्मभूतानि येषु तानि सहजानि| यदाह- तेषां दोषत एव प्रसाधनमिति| युक्तानि समाहितानि, ‘युज’ समाधौ इत्यस्मात् प्रयोगः| अत्रैव चरकः- “सर्वो हेतुस्त्रिदोषाणां लक्षणं सहजैः समम्”- (च. चि. १४) इति| उपद्रवा अप्येषां सहजानामिव, अत्रापि तेषां सद्भावात्, अन्यथा लक्षणसामान्यं न स्यात्| उपद्रवाणामपि हि परिच्छेदहेतुत्वाल्लक्षणानीव न तु लक्षणान्येव, अत्रापि तेषां सद्भावात्; अत एव ‘तैरुपद्रुतः’ इति लक्षणेभ्यः पृथगुपादानमुपद्रवाणाम्||१४||
सहजानि दुष्टशोणितशुक्रनिमित्तानि, तेषां दोषत एव प्रसाधनं कर्त्तव्यम्, विशेषतश्चैतानि दुर्दर्शनानि परुषाणि पांसूनि [७] दारुणान्यन्तर्मुखानि; तैरुपद्रुतः कृशोऽल्पभुक् सिरासन्ततगात्रोऽल्पप्रजः क्षीणरेताः क्षामस्वरः क्रोधनोऽल्पाग्निप्राणः [८] परमलसश्च, तथा घ्राणशिरोऽक्षिनासाश्रवणरोगी, सततमन्त्रकूजाटोपहृदयोपलेपारोचकप्रभृतिभिः पीड्यते ||१५||
शरीरेण सह जातानामर्शसां दोषेभ्यो भिन्नं हेतुं दर्शयन्नाह- सहजानीत्यादि| दुष्टशोणितशुक्रनिमित्तानीति गर्भगुदारम्भकमात्रं बीजं दुष्टं न सर्वं, सर्वदुष्टत्वे हि प्रजोत्पत्तिरेव न स्यात्| ‘तेषां दोषत एव प्रसाधनं कर्तव्यमिति येन दोषेण यस्य [९] शुक्रशोणितं दूषितं भवेत्तस्य दोषस्य लक्षणवर्णवेदनाकृतिभिः प्रसाधनं विज्ञानम्’ इत्येके; अन्ये तु ‘दोषत इति दोषलिङ्गं समीक्ष्य प्रसाधनं चिकित्सा’ इत्याहुः| दुर्दर्शनानि दुःखेन दृश्यन्ते, अन्तर्विद्रधिवदित्यर्थः| पांसूनि धूसराणि| दारुणानि अतिदुःखकराणि||१५||
शरीरेण सहजातानां दोषेभ्यो भिन्नं हेतुं दर्शयन्नाह- सहजानीत्यादि| गुदवल्यारम्भकदुष्टशुक्रशोणितभागबीजानीत्यर्थः| यदाह चरकः- “तत्र बीजे गुदवलिबीजभाग उपतप्तः सहजानामर्शसां हेतुः” (च. चि. १४) इति| अत एव जन्मन्यप्रतिबन्धः, अन्यथा कथमेतच्छुक्रशोणितं सकलावयवदुष्टं गर्भजननायालं स्यात्| अन्ये पुनराहुः- “अविशिष्टदुष्टशोणितवचनेन समुदायदुष्टिरभिप्रेता| विशेषेण तु गुदवलीबीजभागे एव, न च सर्वदुष्टीनां सर्वोपघातशक्तयः| एवं हि सर्वाङ्गगतदोषमधुमेहिशोषप्रभृतीनामपत्यानि न स्युरेव…. तत्रैवं “जातः प्रमेही मधुमेहिना वा” (च. चि. ६) इति चरकवचनात्| मधुमेहिनश्च सर्वाङ्गदुष्टिः; यदुक्तं- “कृत्स्नं शरीरं निष्पीड्य मेदोमज्जवसायुतः| अधः प्रक्रमते वायुस्तेनासाध्यास्तु वातजाः” (नि. ७) इति| न च सर्वाः सर्वाङ्गगतदुष्टयः पुंसामपत्यविघातकाः, वातादिप्रकृतिष्वपि सर्वाङ्गारम्भकस्य बीजस्य वातादिदुष्टावप्यपत्यदर्शनात्| तत्र च सकलमेव दुष्टं शुक्रशोणितं, दुष्टवातादिप्रकृतिकानां स्फुटितकरचरणादे रूक्षाल्पश्मश्रुकेशादेश्च सर्वाङ्गविकारस्योपलम्भात्| सहजार्शःसु न सर्वाङ्गविकारोपलम्भ इति चेत्; न, “कृशः सिरासन्ततगात्रः क्षीणरेता” इति रसादिशुक्रान्तधातुक्षयात्, तथा ‘घ्राणास्यशिरोक्षिश्रवणरोगी’ तथा ‘क्षामस्वर’ इत्यादिना सर्वाङ्गविकारोपलम्भात्| तथा चरकेऽपि- “क्षामभिन्नसक्तजर्जरस्वरः” (च. चि. १४) इति| अनेन सकलविकलत्वेनोपलम्भः| चरके ‘क्रोधनः’ इत्यनेन, स्वतन्त्रे ‘प्रध्यानपरः’ इत्यनेन च चित्तचेष्टाविकृतिः| ‘परमलसश्च’ इति कायचेष्टाविकृतिः| “तदेवं सकलगात्रावयवगतैव सहजार्शःस्वल्पशुक्रशोणितयोर्दुष्टिरस्त्येव, विशेषेण तु गुदवलिबीजभागे” इति| तेषां लिङ्गं चिकित्सितोपयोगि दर्शयन्नाह- तेषां दोषत एवेत्यादि| येन दोषेण शुक्रशोणितगेन गुदवलिभागो दूषितस्तस्य दोषस्य स्वभावकार्यभूतवर्णनिदानाकृतिभिः प्रसाधनं विज्ञानमित्येके| अन्ये तु “दोषत इति ल्यब्लोपे पञ्चमी, तेन दोषलिङ्गं समीक्ष्य प्रसाधनं चिकित्सा” इत्याहुः, लिङ्गज्ञानस्य चिकित्सार्थत्वादेव| इदानीं विकृतिविषमसमवायेन दोषदूष्यराशेरन्यत्वाद्विशिष्टमप्यत्र लिङ्गं दर्शयन्नाह- विशेषतो दुर्दर्शनानीत्यादि| सामान्यतः सर्वार्शांसि वातादिवर्णवेदनासंस्थानादिसमानानि विशेषात् पुनर्दुर्दर्शनादीनि| सहजत्वेन विद्रधिवन्मांसाद्यन्तरवि(प्र)शिष्टत्वात् पाय्वन्तर्गतानि दुःखेन दृश्यन्ते| अतः स्पर्शसुखानीति| भेदाश्राववान्नरो येषां(?); भेदस्रावे चात्र कथमिति चेत् वातजेषु ‘परिशुष्काणि’ इति विशेषणात्, कफजेषु ‘नावभिद्यन्ते न स्रवन्ति’ इति वचनाच्छेषेष्वार्द्रत्वं भेदस्रावौ चावगन्तव्यौ| तेन सर्वेषामेवापाकित्वं, तदेव कथमिति चेत्? मेदोबाहुल्यात्; यदुक्तं चरके- “तेषां पुनरधिष्ठानं मेदो मांसं त्वक् च” (च. चि. १४) इति| रक्तजानामाग्नेयत्वेन पाक इति चेत्? न, रक्तार्बुदवदत्रापि मेदसोऽतिरेकात्||१५||
भवति चात्र-
बाह्यमध्यवलिस्थानां प्रतिकुर्याद्भिषग्वरः |
अन्तर्वलिसमुत्थानां प्रत्याख्यायाचरेत् क्रियाम् ||१६||
स्थानाश्रयं साध्यादित्वं दर्शयन्नाह- भवति चात्रेत्यादि| अन्तर्वलिः अभ्यन्तरवलिः| प्रत्याख्याय असाध्यान्येतान्यर्शांसीति निराकृत्य||१६||
तत्रार्शसां चतुर्विधः साध्ययाप्यत्वादावुपाधिभेदः- स्थानं, दोषाः, जन्म, कालश्चेति| तत्र स्थानं बाह्यादिवलिः, दोषाः- एकद्वित्रिदोषजादि, जन्म तु सहजादि; कालः पुनः परिसंवत्सरादि| उपद्रवासाध्यताऽवारणीये- “तृष्णारोचकमूर्च्छार्तं” (सू. ३३) इत्यादि| तत्र स्थानाश्रयं साध्यत्वं दर्शयन्नाह- बाह्यमध्यवलिस्थानामित्यादि| तत्र बाह्यमध्यवलिजानां गुदमर्मप्रत्यासन्नत्वात् कृच्छ्रसाध्यता द्विदोषजत्वाच्च; अभ्यन्तरवलिजानां त्वसाध्यता गुदमर्मप्रत्यासन्नत्वात् त्रिदोषजत्वाच्चेति चरकाशयः||१६||
प्रकुपितास्तु दोषा मेढ्रमभिप्रपन्ना मांसशोणिते प्रदूष्य कण्डूं जनयन्ति, ततः कण्डूयनात् क्षतं समुपजायते, तस्मिंश्च क्षते दुष्टमांसजाः प्ररोहाः पिच्छिलरुधिरस्राविणो जायन्ते कूर्चकिनोऽभ्यन्तरमुपरिष्टाद्वा, ते तु शेफो विनाशयन्त्युपघ्नन्ति च पुंस्त्वं; योनिमभिप्रपन्नाः सुकुमारान् दुर्गन्धान् पिच्छिलरुधिरस्राविणश्छत्राकारान् करीराञ्जनयन्ति, ते तु योनिमुपघ्नन्त्यार्तवं च; नाभिमभिप्रपन्नाः सुकुमारान् दुर्गन्धान् पिच्छिलान् गण्डूपदमुखसदृशान् करीराञ्जनयन्ति; त एवोर्ध्वमागताः श्रोत्राक्षिघ्राणवदनेष्वर्शांस्युपनिर्वर्तयन्ति; तत्र कर्णजेषु बाधिर्यं शूलं पूतिकर्णता च, नेत्रजेषु वर्त्मावरोधो वेदना स्रावो दर्शननाशश्च, घ्राणजेषु प्रतिश्यायोऽतिमात्रं क्षवथुः कृच्छ्रोच्छ्वासता पूतिनस्यं सानुनासिकवाक्यत्वं शिरोदुःखं च; वक्रजेषु कण्ठौष्ठतालूनामन्यतमस्मिंस्तैर्गद्गदवाक्यता रसाज्ञानं मुखरोगाश्च भवन्ति ||१७||
मेढ्रादिष्वर्शांस्याह- प्रकुपितास्त्वित्यादि| अभिप्रपन्ना आश्रिताः| कूर्चकिनः सूक्ष्मदीर्घाङ्कुरसन्तानिनः| अभ्यन्तरमिति मणौ| उपरिष्टादिति बाह्यचर्मणि| पुंस्त्वं शुक्रं पुंश्चिह्नं च| योनिमभिप्रपन्ना इत्यादि अभिप्रपन्ना दोषा इति सम्बन्धः| करीरान् अङ्कुरान्| नाभिमभिप्रपन्ना इत्यादि दोषा इत्यत्रापि [१०] सम्बध्यते| त एव दोषा इत्यर्थः| उपनिर्वर्तयन्ति जनयन्तीत्यर्थः| तत्रेत्यादि| वर्त्मावरोध इति वर्त्म अक्षिपुटः| घ्राणजेष्वित्यादि| क्षवथुः छिक्का| वक्रजेष्वित्यादि| अन्यतमस्मिन् एकतमस्मिन् स्थाने ‘उत्पन्नेष्वर्शःसु [११] ’ इति शेषः||१७||
स्थानान्तरेष्वप्यन्यैरभ्युपगतमर्शस्त्वमङ्गीकृत्य तत्रार्शांसि निर्दिशन्नाह- प्रकुपितास्त्वित्यादि| अधोगता एव मेढ्रमभिप्रपन्नाः| कूर्चकिनः सूक्ष्मदीर्घाङ्कुरसन्तानिनः| अभ्यन्तरमिति मणौ| उपरिष्टादिति बाह्यचर्मणि| उपघ्नन्ति च पुंस्त्वं शुक्रम्| अधोगता एव योनिमभिप्रपन्नाः कन्दाकारान् करीरानुपजनयन्तीति सम्बन्धः| ऊर्ध्वमागताः ‘दोषाः’ इति वाक्यशेषः, घ्राणादिष्वर्शांस्युपनयन्ति| चरकेऽप्येतदस्त्यधिष्ठानमर्शसामुक्तं; तथाहि- “केचिद्भूयांसमेव देशमुपदिशन्त्यर्शसां गलमुखनासाकर्णाक्षिवर्त्मानित्वक् च” (च. चि. १४) इति||१७||
व्यानस्तु प्रकुपितः श्लेष्माणं परिगृह्य बहिःस्थिराणि कीलवदर्शांसि निर्वर्तयति, तानि चर्मकीलान्यर्शांसीत्याचक्षते ||१८||
त्वगधिष्ठानमेव चर्मकीलाख्यमर्शो दर्शयन्नाह- व्यानस्त्वित्यादि| बहिः गुदौष्ठाद्बहिः; अन्ये तु ‘बहिःशब्देनान्यत्रापि’ इति कथयन्ति| कीलवत् शङ्कुतुल्यानीत्यर्थः||१८||
त्वग्गतमेव चर्मकीलाख्यमर्शो दर्शयन्नाह- व्यानस्त्वित्यादि| श्लेष्माणं परिगृह्येति सम्प्राप्तिः| बहिः त्वचो बहिः, ‘बहिर्गुदौष्ठात्’ इत्येके| अन्ये तु “व्यानस्य सर्वत्वगधिष्ठानत्वादधोगतदोषकृतार्शस्सु पूर्वमकीर्तनात् पूर्वमध-ऊर्ध्वगतदोषकृतार्शसां कीर्तितत्वेन तिर्यग्गतदोषारब्धत्वाद् गुदौष्ठाद्बहिरन्यत्रापि” इत्याचक्षते||१८||
भवन्ति चात्र-
तेषु कीलेषु निस्तोदो मारुतेनोपजायते |
श्लेष्मणा तु सवर्णत्वं ग्रन्थित्वं च विनिर्दिशेत् ||१९||
पित्तशोणितजं रौक्ष्यं [१२] कृष्णत्वं श्लक्ष्णता तथा |
समुदीर्णखरत्वं चर्मकीलस्य लक्षणम् ||२०||
तेषां चर्मकीलानां दोषलिङ्गमाह- भवन्ति चात्रेत्यादि| सवर्णत्वमिति श्लेष्मणः समानवर्णतेत्यर्थः| ग्रन्थित्वं ग्रन्थिभावः| पित्तेत्यादि| तेषु चर्मकीलेषु| रौक्ष्यमित्यादि पित्तशोणितजं विनिर्दिशेत्| समुदीर्णखरत्वम् अतीव कठिनत्वम्| चर्मकीलस्य लक्षणमिति एतद्वातादिदोषभेदतश्चर्मकीलस्य लक्षणमुक्तम्| केचिच्चर्मकीलानां दोषलिङ्गं न पठन्ति||१९-२०||
तेषां चर्मकीलानां दोषलिङ्गं केचिदधीयते- तेषु कीलेषु निस्तोद इत्यादि||१९-२०||
अर्शसां लक्षणं व्यासादुक्तं सामान्यतस्तु [१३] यत् |
तत्सर्वं प्राग्विनिर्दिष्टात्साधयेद्भिषजां वरः ||२१||
इदानीं सर्वेषामेव मेढ्रादिजानां वातादिलक्षणमतिदेशेन निर्दिशन्नाह- अर्शसामित्यादि| अर्शसां मेढ्रादिजानां वातादिदोषलक्षणं विना यत् सङ्क्षेपतो लक्षणमुक्तं तत् सर्वं साधयेत् जानीयात् चिकित्सेद्वा| कथमित्याह- प्राग्विनिर्दिष्टादिति; “प्राक् पूर्वं व्यासेन प्रत्येकं वातादिजार्शोलक्षणमुक्तं वीक्ष्येत्यर्थः” इति गयदासाचार्यः; अन्ये तु “सङ्क्षेपतः षोढा, व्यासतो विस्तरेण, प्राग्विनिर्दिष्टात् पञ्चदशधा प्रसरात् साधयेत्” इति मन्यन्ते||२१||
इदानीं सर्वेषामेव मेढ्रादिजानां चर्मकीलाख्यानां वातादिदोषलक्षणमतिदेशेन निर्दिशन्नाह- दुर्नाम्नामित्यादि| दुर्नाम्नां मेढ्रादिजानामर्शसां सङ्क्षेपतो लक्षणं यदुक्तं वातादिदोषलक्षणं विना सामान्यलक्षणमात्रमभिहितं, तत् साधयेज्जानीयात्, चिकित्सेच्चेति चार्थः| प्राग्विनिर्दिष्टादिति ल्यब्लोपे पञ्चमीति केचित्| प्राग्विनिर्दिष्टादिति सूत्रस्थानोदितं प्रत्येकं वातादिलक्षणं वीक्ष्येत्यर्थः||२१||
अर्शःसु दृश्यते रूपं यदा दोषद्वयस्य [१४] तु |
संसर्गं तं विजानीयात् संसर्गः स च षड्विधः ||२२||
इदानीं षड्विधेष्वेवार्शःस्वत ऊर्ध्वं संसर्गमौषधकल्पनार्थं दर्शयन्नाह- अर्शःस्वित्यादि| संसर्गः स च षड्विध इति वातपित्ते, वातश्लेष्माणौ, पित्तश्लेष्माणौ, वातशोणिते, पित्तशोणिते श्लेष्मशोणिते, एवं संसर्गः षड्विधः| स च सूत्रस्थानोक्तव्रणवेदनालक्षणादवगन्तव्यः [१५] ||२२||
इदानीं प्रकृतिसमसमवेतसंयोगेन षड्विधेष्वेवार्शःस्वत ऊर्ध्वं संसर्गमौषधकल्पनार्थं दर्शयन्नाह- अर्शःस्वित्यादि| स चात्रोक्तप्रत्येकवाताद्यर्शसां लिङ्गादवगन्तव्यः||२२||
त्रिदोषाण्यल्पलिङ्गानि याप्यानि तु विनिर्दिशेत् |
द्वन्द्वजानि द्वितीयायां वलौ यान्याश्रितानि च ||२३||
कृच्छ्रसाध्यानि तान्याहुः परिसंवत्सराणि च |
सन्निपातसमुत्थानि सहजानि तु वर्जयेत् ||२४||
इदानीं याप्यकृच्छ्रसाध्यासाध्यान्यर्शांसि दर्शयन्नाह- त्रिदोषाणीत्यादि| द्वन्द्वजानि द्विदोषोत्थानि, तान्यपि याप्यानीत्यर्थः| परिसंवत्सराणीति परितः संवत्सरमभिव्याप्य स्थितानि कृच्छ्रसाध्यानीत्यर्थः| केचित् ‘सन्निपातसमुत्थानि’ इत्यादौ कृत्वा पठन्ति; स च पाठः समग्रोऽदर्शनान्न लिखितः||२३-२४||
इदानीं दोषजन्मकालदेशकृतमसाध्यादिभेदं दर्शयन्नाह- सन्निपातसमुत्थानीत्यादि| जन्मना सह जातानि सहजानि| देशकृतं तु ‘द्वितीयायां बलौ यान्याश्रितानि तु| कृच्छ्रसाध्यानि तान्याहुः’ इति| परिसंवत्सराणि चेति परितः संवत्सरमभिव्याप्यावस्थितानीति कालकृतं कृच्छ्रत्वम्| त्रिदोषाण्यल्पलिङ्गानि याप्यानीति दोषकृतं याप्यत्वम्||२३-२४||
सर्वाः स्युर्वलयो येषां दुर्नामभिरुपद्रुताः |
तैस्तु प्रतिहतो वायुरपानः सन्निवर्तते ||२५||
ततो व्यानेन सङ्गम्य ज्योतिर्मृद्नाति [१६] देहिनाम् ||२६||
सर्ववलिव्यापिनामर्शसां पञ्चात्मकस्याप्यग्नेर्महानर्थकरत्वं दर्शयन्नाह- सर्वा इत्यादि| येषां देहिनाम्| दुर्नामभिः अर्शोभिः| तैस्तु अर्शोभिरित्यर्थः| अपानो वायुरिति सम्बन्धः| सन्निवर्तते स्थितिं बध्नाति न निःसरतीत्यर्थः| सङ्गम्य मिलित्वा| ज्योतिः पञ्चात्मकमग्निं, मृद्नाति मन्दीकरोति| अयं चोपद्रवः, प्रायेण सहजेष्वर्शःसु ज्ञेयः||२५-२६||
इदानीं प्रत्येकं पञ्चात्मकानां वातपित्तकफानां प्रकोपयितृत्वात् पञ्चात्मकस्याग्नेरुपघातकरत्वाच्च महानर्थकरत्वं दर्शयन्नाह- सर्वाः स्युर्वलयो योषामित्यादि| सर्वत्र सर्ववलिव्याप्तिरित्यूर्ध्वमपहतोऽपानः सन्निवर्तते| अत एव पित्तकफाभ्यां पञ्चात्मकाभ्यां सर्वाङ्गगतव्यानेनापि सह सङ्गम्य सङ्गतो भूत्वा ज्योतिः पञ्चात्मकमग्निं मृद्नातीति||२५-२६||
इति सुश्रुतसंहितायां निदानस्थानेऽर्शोनिदानं नाम द्वितीयोऽध्यायः ||२||
इति श्रीडल्हणाचार्यविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां निदानस्थाने द्वितीयोऽध्यायः||२||
इति सौश्रुते शल्यतन्त्रे श्रीगयदासविरचितायां न्यायचन्द्रिकायां पञ्जिकायामर्शोनिदानम्||२||
१. ‘तदस्त्यधिमांसदेशतया’ च इति वर्तमानचरकपुस्तके पाठः|
२. ‘अत्र चतुरङ्गुलायता इति सङ्कुचितावस्थायामित्येवावधेयं, अन्यथा पुंसां नारीणां च यथाक्रममुपदेक्ष्यमाणं पञ्चषडङ्गुलपरिणाहमर्शोयन्त्रमनुपपन्नं स्यात्, स्रोतःप्रमाणापेक्षया स्थूलतरत्वात्’ इति हाराणचन्द्रः| ‘चतुरङ्गुलाः, ताः सर्वाः’ इति पा.|
३. ‘ग्रहणीदोषोदराणां इति पा.|
४. ‘नाडीमुख…’ इति पा.|
५. ‘… फलान्यतमवर्णसंस्थानानि’ इति गयदाससम्मतः पाठः|
६. ‘सर्वलक्षणानि युक्तानि’ इति गयदाससम्मतः पाठः स्यात्|
७. ‘पाण्डूनि’ इति पा.|
८. ‘अल्पाग्निः’ इति पा.|
९. ‘यत्’ इति पा.|
१०. ‘इत्युत्तरत्रापि’ इति पा.|
११. ‘स्थानेष्वर्शःसु’ इति पा.|
१२. ‘कृष्णरक्तत्वं स्निग्धता तथा’ इति पा.
१३. ‘दुर्नाम्नां लक्षणं ह्येतदुक्तं सङ्क्षेपतस्तु’ इति गयदाससम्मतः पाठः स्यात्|
१४. ‘वै दोषयोर्द्वयोः इति ता.|
१५. ‘सूत्रस्थानोक्तवर्णवेदनालक्षणात्’ इति पा.
१६. ‘ज्योतिरस्य प्रमर्दति’ इति ता.|
Moolashloka with Dalhana & Gayadas Commentary

Pathantara/Pathabheda

Diacritic Version
kāśirājadhanvantariṇōpadiṣṭā tacchiṣyasuśrutēna viracitā
Suśrutasaṁhitā
śrīḍalhaṇācāryaviracitayā nibandhasaṅgrahākhyavyākhyayā nidānasthānasya śrīgayadāsācāryaviracitayā nyāyacandrikākhyapañjikāvyākhyayā ca samullasitā
nidānasthānam - 2. arśōnidānam
athātō’rśasāṁ nidānaṁ vyākhyāsyāmaḥ ||1||
yathōvāca bhagavān dhanvantariḥ ||2||
athētyādi| nidānaṁ hētulakṣaṇanirdēśaḥ||1-2||
vātavyādhinidānānantaramarśōnidānārambhaḥ, vātaviṇmūtrarōdhinīmiti pūrvaprakrāntatvāt, arśasāṁ ca vātādinirōdhitvēna sāmānyāt, śastrakṣārāgnikarmatrayasādhyatvēna śalyatantravyādhiprādhānyācca| arśasāṁ nidānaṁ hētulakṣaṇanirdēśaḥ||1-2||
ṣaḍarśāṁsi bhavanti vātapittakaphaśōṇitasannipātaiḥ sahajāni cēti ||3||
ṣaḍarśāṁsītyādi| nanu, vātapittakaphaśōṇitasannipātaiḥ sahajāni cētyanēnaiva ṣaṭsaṅkhyāyā labdhatvāt kathaṁ ṣaḍiti saṅkhyānirdēśaḥ? ucyatē- dvidōṣajanitārśōgaṇanāparihārārtham| yadyapi śōṇitādhiṣṭhānā vātādayō raktārśasāmārambhakāḥ, tathā’pyupacārāt ‘śōṇitajāni’ ityucyantē; yathā-
ghr̥tādhiṣṭhānēnāgninā dagdhō ‘ghr̥tadagdha’ ityucyatē||3||
ṣaḍarśāṁsi bhavantīti prathamaṁ saṅkhyākaraṇaṁ ṣaṭsaṅkhyāyā vātādīnāṁ balavadvigrahādiṣu hētuṣu, raukṣādisvabhāvaliṅgēṣu, karmādikāryaliṅgēṣu, sādhyāsādhyacikitsitēṣu cāṅgabhūtatvāt| ṣaḍarśāṁsi bhavantītyasya sūtrasya bhāṣyaṁ- vātapittakaphaśōṇitasannipātaiḥ sahajāni cēti| nanu ca ṣaṭtvāvadhāraṇaṁ virudhyatē, saṁsr̥ṣṭārśaḥṣaṭkasyāpi darśitatvāt| taduktaṁ- “arśassu dr̥śyatē rūpaṁ yadā vai dōṣayōrdvayōḥ| saṁsargaṁ taṁ vijānīyāt saṁsargaḥ ṣaḍvidhaḥ smr̥taḥ” iti| ucyatē- vyākhyātō’yamarthaḥ- yatra prakr̥tisamasamavētaḥ sannipātaḥ saṁsargō vā na tatra saṅkhyātirēkamāpādayati, samudāyibhyō’nanyaḥ samudāya iti kr̥tvā; pratyēkavātādidōṣadhātuliṅgasya saṁsargasya cikitsāyā ēkatvēna vātādiṣvēvāvaruddhatvāt| taduktaṁ carakē- “pañca gulmā iti vātapittakaphasannipātaśōṇitajāḥ” (ca. sū. 19) ityabhidhāya punarāha- “saṁsr̥ṣṭaliṅgānaparāṁstu gulmāṁstrīnādiśēdauṣadhakalpanārtham” (ca. ci. 5) iti; yadi ca samudāyibhyō’nanyaḥ samudāya iti pratyēkavātādidōṣajēṣu saṁsargajāvarōdhō na bhavati tadā ‘pañca gulmāḥ’ iti pañcasaṅkhyāvadhāraṇaṁ virudhyatē| anyē punarāhuḥ- sannipātaśabdasya vyutpāditatvāt….. tanna, carakādiṣu sāṁsargikāṇāmarśasāṁ pradarśitatvāt||3||
tatrānātmavatāṁ yathōktaiḥ prakōpaṇairviruddhādhyaśanastrīprasaṅgōtkaṭukāsanapr̥ṣṭhayānavēgavidhāraṇādibhirviśēṣaiḥ prakupitā dōṣā ēkaśō dviśaḥ samastāḥ śōṇitasahitā vā yathōktaṁ prasr̥tāḥ pradhānadhamanīranuprapadyādhō gatvā gudamāgamya pradūṣya gudavalīrmāṁsaprarōhāñjanayanti viśēṣatō mandāgnēḥ, tathā tr̥ṇakāṣṭhōpalalōṣṭhavastrādibhiḥ śītōdakasaṁsparśanādvā kandāḥ parivr̥ddhimāsādayanti, tānyarśāṁsītyācakṣatē ||4||
arśasāṁ hētūn samprāpti ca darśayannāha- tatrētyādi| prakupitā dōṣā māṁsaprarōhāñjanayantīti sambandhaḥ| anātmavatām ajitēndriyāṇām| yathōktaiḥ prakōpaṇairbalavadvigrahādikrōdhaśōkādidivāsvapnādibhiḥ| viruddhaṁ bahudhā hitāhitīyōktam| strīprasaṅga ityatra praśabdēnātyantasaktiḥ pratipādyatē| ‘gudapārṣṇīsamāyōgaḥ prāhurutkaṭukāsanam’, ‘ukuḍu’ iti lōkē| aśvādīnāṁ pr̥ṣṭhēna gamanaṁ pr̥ṣṭhayānam| vēgavidhāraṇaśabdēna vātaviṇmūtrādīnāṁ vēgadhāraṇam| viruddhāśanaśabdēna guruśītābhiṣyandividāhyasātmyapramitāśanādīni gr̥hyantē| viśēṣairbhēdaiḥ| tēṣāṁ nidānamabhidhāya samprāptimāha- yathōktamityādi| prasr̥tā iti ‘kiṇvōdakapiṣṭasamavāya ivōdriktānāṁ prasarō bhavati’ (sū. 21) ityādikramēṇa prasr̥tāḥ| pradhānadhamanīḥ purīṣavāhinīḥ| anu paścāt, prapadya prāpya| gudavalīriti valistvaksaṅkōcaḥ| mandāgnērviśēṣatō’tiśayēna māṁsaprarōhāñjanayantīti sambandhaḥ| tathā tr̥ṇētyādi| parivr̥ddhimāsādayanti prāpnuvantītyarthaḥ| ācakṣata iti ‘pūrvācāryā’ ityadhyāhāraḥ||4||
arśasāṁ hētūnatītāvēkṣaṇēna nirdiśannāha- yathōktaiḥ prakōpaṇairityādi| prakōpayantīti prakōpaṇāni vātādidōṣāṇāṁ sañcayahētavaḥ prakōpahētavaśca, dōṣāṇāmasañcitānāṁ ca prakōpābhāvāt| yathōktairiti padārthānativr̥ttāvavyayībhāvaḥ| “tr̥tīyāsaptamyōrbahulam” (pā. a. 2/4/84) iti tr̥tīyā, bahuvacanasyābhāvābhāvaḥ| yathōktaprakāramanuvr̥ttiḥ| athavā vākyamēvaitat yēna prakārēṇōktaiḥ| tatra sañcayahētavaḥ r̥tucaryōditāḥ, prakōpahētavō vraṇapraśnōditā balavadvigrahādayaḥ| kēcidvyādhihētūnapi viruddhādhyaśanastrīsaṅgōtkaṭakāsanādīn paṭhanti| ēkaikaśa iti vīpsāyāṁ śaspratyayaḥ| ēkē ‘dviśaḥ’ iti na paṭhanti| śōṇitasya ca prādhānyārthaṁ pr̥thak śōṇitagrahaṇaṁ; taduktaṁ vraṇapraśnasya dvitīyē darśanē- “tadēbhirēva śōṇitacaturthaiḥ” (sū. 21) iti, yaduktaṁ pūrvaṁ- dōṣā api svasthā dhātavō dadhatīti kr̥tvā; yadāha carakaḥ- “vikārō dhātuvaiṣamyam” (ca. sū. 9) iti, dhātuvaiṣamyamiti dōṣadhātumalavaiṣamyamityarthaḥ| vr̥ddhikṣayābhyāmasvasthā dhātavō’pi dōṣāḥ; yadāha carakaḥ- “kiñciddōṣapraśamanaṁ” (ca. sū. 1)iti; duṣṭavātādidhātumalapraśamanamityarthaḥ| dōṣaśabdō duṣṭēṣu dhātuṣvapi vartatē, tadayuktamēva “atraitāvatā śōṇitasyaikasyaiva dōṣatvamucyatē kiṁ tarhi na rasādīnāmapi; vraṇapraśnē tu vraṇē śōṇitasya prādhānyārthaṁ hētvādiṣu pr̥thaggrahaṇam” iti| tathā vyādhisamuddēśīyē “dōṣadūṣitēṣvatyarthaṁ dhātuṣu sañjñā kriyatē rasajō’yaṁ raktajō’yam” (sū. 24) ityādi| atō’tra śōṇitasya sāmānyē dhātutvē dōṣatvamapīti viśēṣēṇa śōṇitasya dōṣavacanaṁ sahētukamēvēti| tēṣāmidānīṁ prasarapūrvakasthānasaṁśrayalakṣaṇāṁ samprāptiṁ darśayannāha- yathōktaṁ prasr̥tā ityādi| yathōktamiti uktaprakārānatikramēṇa prasr̥tāḥ| adhōgamanādadhōjātānanyān vikārān kutō na kurvantītyāha- pradhānadhamanīma(ra)nusr̥tyēti| pradhānamanīmi(ri)ti “adhōgatāstu vatamūtrapurīṣaśukrārtavādīnyadhō vahanti| tāsu pittāśayamabhiprapannāstatrasthamannapānarasamabhivipakvamauṣṇyādvivēcayantyō’bhivahantyaḥ śarīraṁ tarpayanti, arpayanti cōrdhvagānāṁ tiryagāṇāṁ ca, rasasthānaṁ cābhipūrayanti; āmapakvāśayāntaraṁ ca tridhā jāyantē’ (śā. 9)| pradhānagrahaṇamapradhānāṁ nirasyati| adhōgatvē’pi bastyādirōgaṁ nirasannāha- gudamāgamyēti| tatrāpi kutō na bhagandarabaddhagudagudabhraṁśādīn kurvantītyāha- viśēṣatō mandāgnēriti| mandāgnērviśēṣāditi samānādhikaraṇē pañcamī| mandāgnērviśēṣatō’rśāṁsi janayanti| kēciddōṣajānāmēva tr̥ṇādīn parivr̥ddhihētūnāhuḥ| paṭhanti ca- ‘tr̥ṇalōṣṭōpalavastrādiśītōdakasaṁsparśādvr̥ddhimāsādayanti, tānyarśāṁsītyācakṣatē’| itiśabdēnātra śailīparibhāṣitatvamarśasāṁ dyōtayati| yadāha carakaḥ- “kēcidbhūyāṁsamēva kṣētramupadiśantyarśasāṁ; tadyathā- śiśnamamapatyapathamityādi| adhimāṁsasañjña [1] ēṣaḥ| gudavalijānāṁ tvarśāṁsīti tantrē sañjñā’ (ca. ci. 14) iti| anyē tu viśēṣatō gudamēḍhragāstvarśāṁsyēva janayanti||4||
tatra sthūlāntrapratibaddhamardhapañcāṅgulaṁ gudamāhuḥ, tasmin valayastisrō’dhyardhāṅgulāntarasambhūtāḥ pravāhaṇī visarjanī saṁvaraṇī cēti caturaṅgulāyatāḥ [2] ; sarvāstiryagēkāṅgalōcchritāḥ ||5||
śaṅkhāvartanibhāścāpi uparyupari saṁsthitāḥ |
gajatālunibhāścāpi varṇataḥ samprakīrttitāḥ |
rōmāntēbhyō yavādhyardhō gudauṣṭhaḥ parikīrtitaḥ ||6||
idānīṁ gudaṁ gudavalīśca vivr̥ṇvannāha- tatrētyādi| sthūlāntraṁ kaṭyantraṁ ‘gudāntraṁ’ iti prasiddham| ardhapañcāṅgulamiti ardhapañcamamaṅkulaṁ yasmin tattathā, ētēna sārdhacaturaṅgulapramāṇaṁ gudamityarthaḥ| adhyardhāṅgulāntarasambhūtā iti sārdhaikāṅgulāntarasañjātāḥ| tatrōparitanaṁ validvayaṁ śaṅkhāvarttanibhaṁ pratyēkamantarēṇa saha sārdhaikāṅgulaṁ, prathamā tu valirantarēṇa vinaikāṅgulōcchrāyā, ardhāṅgulastu gudauṣṭha īdr̥śaṁ bōddhavyam| ata ēva ‘prathamā tu gudauṣṭhādaṅgulamātrē’ ityagrē vakṣyati| tāsāṁ nāmānyāha- pravāhaṇītyādi| pravāhayatīti pravāhaṇī, visr̥jatīti visarjanī, saṁvr̥ṇōtīti saṁvaraṇī| gudauṣṭhapramāṇamāha- rōmāntēbhya ityādi| rōmāntēbhyō rōmaprāntēbhyō rōmamālikāyāḥ, yavādhyardhaḥ sārdhō yavaḥ, ardhāṅgulapramāṇa ityarthaḥ, aṅgulasya triyavapramāṇatvāt||5-6||
prathamā tu gudauṣṭhādaṅgulamātrē ||7||
prathamā valirgudauṣṭhāt kiyaddūrē bhavatītyāha- prathamētyādi| prathamā ‘valiḥ’ iti śēṣaḥ||7||
tatrāntragudāṅgulivalīścāpi vivr̥ṇvannāha- tatra sthūlāntrapratibaddhamityādi| pravāhaṇīti prapūrvāt ‘vaha’ prayatnē, ityasmāt kartari ṇaṭ| visr̥jatīti visarjanī| saṁvr̥ṇōtīti saṁvaraṇī| tāsu kā kiṁ pramāṇēti darśayannāha- tatra rōmāntēbhya ityādi| yavādhyardhaḥ sārdhayavaḥ| ētēna triyavō’ṅgulaḥ, sārdhēna yavēnārdhāṅgulatvāt| tatra bhālukiḥ- “tasya valīrōmamālikā, tasyā uparyadhyardhayavamātrō gudauṣṭhaḥ, tasmādūrdhvamaṅgulamātrā prathamā, dvitīyā’dhyardhamaṅgulā, tr̥tīyā’pi tathaiva” iti| bhōjē’pi- “rōmāntēbhyō yavādhyardhaṁ gudauṣṭhaṁ paricakṣatē| gudauṣṭhādaṅgulaṁ caiva prathamāṁ tu valiṁ viduḥ”- iti| tatra gudauṣṭhādardhāṅgulamēva gudauṣṭhē’rśasāṁ sambhava iti||5-7|
tēṣāṁ tu bhaviṣyatāṁ pūrvarūpāṇi- annē’śraddhā kr̥cchrāt paktiramlīkā paridāhō viṣṭambhaḥ pipāsā sakthisadanamāṭōpaḥ kārśyamudgārabāhulyamakṣṇōḥ śvayathurantrakūjanaṁ gudaparikartanamāśaṅkā pāṇḍurōgagrahaṇīdōṣaśōṣāṇāṁ [3] kāsaśvāsau balahānirbhramastandrā nidrēndriyadaurbalyaṁ ca ||8||
tēṣāmityādi| bhaviṣyatāṁ bhavitukāmānām| amlīkā amlōdgāraḥ| sakthisadanam ūruglāniḥ, sphuṭanamivētyēkē| āṭōpa ādhmānam| pāṇḍurōgādīnāmāśaṅkā vikalpaḥ| kāsaśvāsau bhramastandrā nidrēndriyadaurbalyaṁ ca ‘jāyatē’ iti śēṣaḥ||8||
sthānasaṁśrayē samprāptirūpē pūrvarūpaṁ darśayannāha- tēṣāṁ tu bhaviṣyatāmityādi| indriyadaurbalyamiti cakṣurādyadhiṣṭhitadōṣēṇa tacchaktivyāghātādaśaktipūrvakarūpādigrahaṇam||8||
jātēṣvētānyēva lakṣaṇāni pravyaktatarāṇi bhavanti ||9||
tēṣāṁ sāmānyarūpamāha- jātēṣvityādi| ētāni pūrvōktāni||9||
tatra mārutāt pariśuṣkāruṇavivarṇāni viṣamamadhyāni kadambapuṣpatuṇḍikērīnāḍīmukulasūcīmukhākr̥tīni [4] ca bhavanti; tairupadrutaḥ saśūlaṁ saṁhatamupavēśyatē kaṭīpr̥ṣṭhapārśvamēḍhragudanābhipradēśēṣu cāsya vēdanā bhavanti, gulmāṣṭhīlāplīhōdarāṇi cāsya tannimittānyēva bhavanti, kr̥ṣṇatvaṅnakhanayanadaśanavadanamūtrapurīṣaśca puruṣō bhavati ||10||
viśiṣṭaṁ rūpamāha- tatrētyādi| pariśuṣkāṇi anāsrāvīṇi| aruṇāni īṣadraktāni| vivarṇāni vividhavarṇāni| viṣamamadhyāni nimnōnnatamadhyāni, kēcidatra ‘viṣamadhyāmāni’ iti paṭhanti, vyākhyānayanti ca- viṣamāṇi nimnōnnatatvēna, dhyāmāni dagdhēṣṭikādivastuvarṇāni| tuṇḍikērī vanakārpāsikā, tatpuṣpākr̥tīni| anyē tvatra “tuṇḍikērīnāḍīmukulasūcīmukhasadr̥śāni bhavanti” iti paṭhanti, vyākhyānayanti ca- tuṇḍikērī bimbī, tasyā nāḍī nālikā; mukulaṁ puṣpamukulaṁ; sūcīsīvanadravyam; ēṣāṁ mukhasadr̥śāni bhavanti| upadrutaḥ abhibhūtaḥ| saṁhataṁ ghanam| upavēśyatē viṭsargaṁ kāryatē| gulmādīni cāsya tannimittānītyupadravakathanam||10||
tatō rūpaṁ darśayannāha- tatra mārutādityādi| tatra ‘arśāṁsi nāma jāyantē nāsannipatitaistribhiḥ’ iti sarvēṣāmēva (sarvajatvaṁ) utkarṣatastvēkadōṣajatvam, uktamēva tadasakr̥t “dravyamēkarasaṁ nāsti, na rōgō’pyēkadōṣajaḥ| yō’dhikastēna nirdēśaḥ kriyatē rasadōṣayōḥ” iti| pariśuṣkāruṇavarṇāni paritaḥ śuṣkāṇyanāsrāviṇītyarthaḥ| kaphajānyapi ‘na bhidyantē na sravanti ca’ iti vacanācchēṣāṇi sravantyēva| viṣamamadhyāni viṣamō nimnōnnatatvēna madhyō bhāgō yēṣāṁ tāni| vivarṇāni dagdhēṣṭakādivastuvarṇāni| kadambapuṣpākr̥tīnīti kadambō vr̥kṣakadambaḥ, tasya puṣpaṁ yathā kēsarakaṇṭakēna nirantaraṁ paripuṭitamiva tathā’rśāṁsyapi nirantaratvakparipuṭanēna viṣamavisr̥tāni| tuṇḍikērī bimbī, tasyā nāḍī nālikā, mukulaṁ puṣpamukulaṁ, sūcī sēvanadravyam, ēṣāṁ mukhākr̥tisadr̥śānīti anēna pratanumukhānītyuktam| gulmādīni cāsya tannimittānītyupadravakathanam| kr̥ṣṇaśabdastvagādibhirvarṇāntaiḥ saha pratyēkamabhisambadhyatē| ēvaṁ pittajē’pi pītaśabdaḥ, ēvaṁ śvētaśabdaḥ ślēṣmajēṣu||10||
pittānnīlāgrāṇi tanūni visarpīṇi pītāvabhāsāni yakr̥tprakāśāni śukajihvāsaṁsthānāni yavamadhyāni jalaukōvakrasadr̥śāni praklinnāni ca bhavanti; tairupadrutaḥ sadāhaṁ sarudhiramatisāryatē, jvaradāhapipāsāmūrcchāścāsyōpadravā bhavanti, pītatvaṅnakhanayanadaśanavadanamūtrapurīṣaśca puruṣō bhavati ||11||
pittādityādi| visarpīṇi prasaraṇaśīlāni| saṁsthānamākāraḥ| yavamadhyānīti pīnamadhyāni mūlāgrayōstanūni| praklinnāni klēdasrāvīṇi||11||
pittajāni yavamadhyānīti pīnamadhyāni| śukajihvāsaṁsthānāni śukajihvāgratanūni| jalaukōvakrasadr̥śāni bhinnamukhatvēna sūkṣmarandhravanmukhāni| praklinnāni klēdasrāvīṇi||11||
ślēṣmajāni śvētāni mahāmūlāni sthirāṇi vr̥ttāni snigdhāni pāṇḍūni karīrapanasāsthigōstanākārāṇi, na bhidyantē na sravanti kaṇḍūbahulāni ca bhavanti; tairupadrutaḥ saślēṣmāṇamanalpaṁ māṁsadhāvanaprakāśamatisāryatē, śōphaśītajvarārōcakāvipākaśirōgauravāṇi cāsya tannimittānyēva bhavanti, śuklatvaṅnakhanayanadaśanavadanamūtrapurīṣaśca puruṣō bhavati ||12||
ślēṣmajānītyādi| sthirāṇi kaṭhināni| pāṇḍūni dhūsarāṇi| karīrō marudēśātipravr̥ddhō vr̥kṣaviśēṣaḥ, panasō bahiḥ- kaṇṭakiphalaḥ ‘kaṭahala’ iti lōkē, tasya phalasadr̥śāni| analpaṁ bahu| śītajvaraḥ śītapradhānajvaraḥ||12||
kaphajāni mahāmūlāni na pittajavattanumūlāni| sthirāṇi kaṭhināni| na bhidyāntē na sravanti raktajavat| māṁsadhāvanaṁ sāndramāṁsakṣālanōdakaṁ, tatprakāśaṁ tatsadr̥śam| śītajvaraḥ śītapradhānō jvaraḥ||12||
raktajāni nyagrōdhaprarōhavidrumakākaṇantikāphalasadr̥śāni [5] pittalakṣaṇāni ca, yadā’vagāḍhapurīṣaprapīḍitāni bhavanti tadā’tyarthaṁ duṣṭamanalpamasr̥k sahasā visr̥janti, tasya cātipravr̥ttau śōṇitātiyōgōpadravā bhavanti ||13||
raktajānītyādi| nyagrōdhaprarōhō vaṭaprarōhaḥ, vidrumaḥ pravālaḥ, kākaṇantikā guñjā cirihiṇṭikā’ iti lōkē, kākādanītyaparē| cakārēṇānubandhabhūtavātakapharūpamanuktamapi samuccīyatē| śōṇitātiyōgōpadravā ākṣēpakādayaḥ||13||
raktajānītyādi| nyagrōdhō vaṭaḥ, tasya prarōhaḥ; ēṣāmanyatamavarṇasaṁsthānāni ēkatamavarṇāni, ēkatamasaṁsthānāni| pittalakṣaṇāni cēti āgnēyatvē raktapittasya caikatvāt| cakārēṇānubandhabhūtavātakapharūpamanuktamapi samuccīyatē| taduktaṁ raktārśaḥsu carakē- “tatrānubandhō dvividhaḥ ślēṣmaṇō mārutasya ca| viḍ bhavēt kaṭhinaṁ rūkṣaṁ” (ca. ci. 14) ityādi| yavarūpamanuktanirdiṣṭaṁ draṣṭavyam| yavamadhyādayō dharmāḥ saviśēṣaṇāścātisārajvarādayaścōpadravā atidēśēnaiva nirdiṣṭā draṣṭavyāḥ| atyarthaduṣṭamanubandhabhūtavātādidōṣadūṣaṇakr̥takr̥ṣṇādivarṇam| śōṇitātiyōgōpadravā ākṣēpakādayaḥ||13||
sannipātajāni sarvadōṣalakṣaṇayuktāni [6] ||14||
sarvadōṣalakṣaṇayuktānīti “sarvēṣāṁ cārśaṁsāṁ yāni lakṣaṇāni” iti jējjhaṭaḥ; gayadāsastu ‘sannipātajāni sarvalakṣaṇāni’ iti paṭhati, vyakhyānayati ca- “sarvēṣāṁ vātādīnāṁ lakṣaṇāni svabhāvakarmabhūtāni yēṣu tāni tathā” iti||14||
sannipātajāni sarvalakṣaṇānīti nātra sarvēṣāṁ vātādīnāṁ lakṣaṇāni, ēvamasandēhārthaṁ ‘tridōṣaliṅgāni’ ityēvaṁ brūyāt; kiñca ‘samudāyibhyō’nanyaḥ samudāyaḥ’ ityanēna nyāyēna saṅkhyābhēdaśca na prāpnōti, saṅkhyābhēdahētōrvātādēḥ kāraṇasya lakṣaṇabhūtatvēna dharmāṇāmapyabhēdāt| bhēdō hi bhēdavatāṁ kāraṇabhēdādviruddhadharmādhyāsācca| tēna sarvēṣāṁ vātādīnāṁ lakṣaṇāni svabhāvakarmabhūtāni yēṣu tāni sahajāni| yadāha- tēṣāṁ dōṣata ēva prasādhanamiti| yuktāni samāhitāni, ‘yuja’ samādhau ityasmāt prayōgaḥ| atraiva carakaḥ- “sarvō hētustridōṣāṇāṁ lakṣaṇaṁ sahajaiḥ samam”- (ca. ci. 14) iti| upadravā apyēṣāṁ sahajānāmiva, atrāpi tēṣāṁ sadbhāvāt, anyathā lakṣaṇasāmānyaṁ na syāt| upadravāṇāmapi hi paricchēdahētutvāllakṣaṇānīva na tu lakṣaṇānyēva, atrāpi tēṣāṁ sadbhāvāt; ata ēva ‘tairupadrutaḥ’ iti lakṣaṇēbhyaḥ pr̥thagupādānamupadravāṇām||14||
sahajāni duṣṭaśōṇitaśukranimittāni, tēṣāṁ dōṣata ēva prasādhanaṁ karttavyam, viśēṣataścaitāni durdarśanāni paruṣāṇi pāṁsūni [7] dāruṇānyantarmukhāni; tairupadrutaḥ kr̥śō’lpabhuk sirāsantatagātrō’lpaprajaḥ kṣīṇarētāḥ kṣāmasvaraḥ krōdhanō’lpāgniprāṇaḥ [8] paramalasaśca, tathā ghrāṇaśirō’kṣināsāśravaṇarōgī, satatamantrakūjāṭōpahr̥dayōpalēpārōcakaprabhr̥tibhiḥ pīḍyatē ||15||
śarīrēṇa saha jātānāmarśasāṁ dōṣēbhyō bhinnaṁ hētuṁ darśayannāha- sahajānītyādi| duṣṭaśōṇitaśukranimittānīti garbhagudārambhakamātraṁ bījaṁ duṣṭaṁ na sarvaṁ, sarvaduṣṭatvē hi prajōtpattirēva na syāt| ‘tēṣāṁ dōṣata ēva prasādhanaṁ kartavyamiti yēna dōṣēṇa yasya [9] śukraśōṇitaṁ dūṣitaṁ bhavēttasya dōṣasya lakṣaṇavarṇavēdanākr̥tibhiḥ prasādhanaṁ vijñānam’ ityēkē; anyē tu ‘dōṣata iti dōṣaliṅgaṁ samīkṣya prasādhanaṁ cikitsā’ ityāhuḥ| durdarśanāni duḥkhēna dr̥śyantē, antarvidradhivadityarthaḥ| pāṁsūni dhūsarāṇi| dāruṇāni atiduḥkhakarāṇi||15||
śarīrēṇa sahajātānāṁ dōṣēbhyō bhinnaṁ hētuṁ darśayannāha- sahajānītyādi| gudavalyārambhakaduṣṭaśukraśōṇitabhāgabījānītyarthaḥ| yadāha carakaḥ- “tatra bījē gudavalibījabhāga upataptaḥ sahajānāmarśasāṁ hētuḥ” (ca. ci. 14) iti| ata ēva janmanyapratibandhaḥ, anyathā kathamētacchukraśōṇitaṁ sakalāvayavaduṣṭaṁ garbhajananāyālaṁ syāt| anyē punarāhuḥ- “aviśiṣṭaduṣṭaśōṇitavacanēna samudāyaduṣṭirabhiprētā| viśēṣēṇa tu gudavalībījabhāgē ēva, na ca sarvaduṣṭīnāṁ sarvōpaghātaśaktayaḥ| ēvaṁ hi sarvāṅgagatadōṣamadhumēhiśōṣaprabhr̥tīnāmapatyāni na syurēva…. tatraivaṁ “jātaḥ pramēhī madhumēhinā vā” (ca. ci. 6) iti carakavacanāt| madhumēhinaśca sarvāṅgaduṣṭiḥ; yaduktaṁ- “kr̥tsnaṁ śarīraṁ niṣpīḍya mēdōmajjavasāyutaḥ| adhaḥ prakramatē vāyustēnāsādhyāstu vātajāḥ” (ni. 7) iti| na ca sarvāḥ sarvāṅgagataduṣṭayaḥ puṁsāmapatyavighātakāḥ, vātādiprakr̥tiṣvapi sarvāṅgārambhakasya bījasya vātādiduṣṭāvapyapatyadarśanāt| tatra ca sakalamēva duṣṭaṁ śukraśōṇitaṁ, duṣṭavātādiprakr̥tikānāṁ sphuṭitakaracaraṇādē rūkṣālpaśmaśrukēśādēśca sarvāṅgavikārasyōpalambhāt| sahajārśaḥsu na sarvāṅgavikārōpalambha iti cēt; na, “kr̥śaḥ sirāsantatagātraḥ kṣīṇarētā” iti rasādiśukrāntadhātukṣayāt, tathā ‘ghrāṇāsyaśirōkṣiśravaṇarōgī’ tathā ‘kṣāmasvara’ ityādinā sarvāṅgavikārōpalambhāt| tathā carakē’pi- “kṣāmabhinnasaktajarjarasvaraḥ” (ca. ci. 14) iti| anēna sakalavikalatvēnōpalambhaḥ| carakē ‘krōdhanaḥ’ ityanēna, svatantrē ‘pradhyānaparaḥ’ ityanēna ca cittacēṣṭāvikr̥tiḥ| ‘paramalasaśca’ iti kāyacēṣṭāvikr̥tiḥ| “tadēvaṁ sakalagātrāvayavagataiva sahajārśaḥsvalpaśukraśōṇitayōrduṣṭirastyēva, viśēṣēṇa tu gudavalibījabhāgē” iti| tēṣāṁ liṅgaṁ cikitsitōpayōgi darśayannāha- tēṣāṁ dōṣata ēvētyādi| yēna dōṣēṇa śukraśōṇitagēna gudavalibhāgō dūṣitastasya dōṣasya svabhāvakāryabhūtavarṇanidānākr̥tibhiḥ prasādhanaṁ vijñānamityēkē| anyē tu “dōṣata iti lyablōpē pañcamī, tēna dōṣaliṅgaṁ samīkṣya prasādhanaṁ cikitsā” ityāhuḥ, liṅgajñānasya cikitsārthatvādēva| idānīṁ vikr̥tiviṣamasamavāyēna dōṣadūṣyarāśēranyatvādviśiṣṭamapyatra liṅgaṁ darśayannāha- viśēṣatō durdarśanānītyādi| sāmānyataḥ sarvārśāṁsi vātādivarṇavēdanāsaṁsthānādisamānāni viśēṣāt punardurdarśanādīni| sahajatvēna vidradhivanmāṁsādyantaravi(pra)śiṣṭatvāt pāyvantargatāni duḥkhēna dr̥śyantē| ataḥ sparśasukhānīti| bhēdāśrāvavānnarō yēṣāṁ(?); bhēdasrāvē cātra kathamiti cēt vātajēṣu ‘pariśuṣkāṇi’ iti viśēṣaṇāt, kaphajēṣu ‘nāvabhidyantē na sravanti’ iti vacanācchēṣēṣvārdratvaṁ bhēdasrāvau cāvagantavyau| tēna sarvēṣāmēvāpākitvaṁ, tadēva kathamiti cēt? mēdōbāhulyāt; yaduktaṁ carakē- “tēṣāṁ punaradhiṣṭhānaṁ mēdō māṁsaṁ tvak ca” (ca. ci. 14) iti| raktajānāmāgnēyatvēna pāka iti cēt? na, raktārbudavadatrāpi mēdasō’tirēkāt||15||
bhavati cātra-
bāhyamadhyavalisthānāṁ pratikuryādbhiṣagvaraḥ |
antarvalisamutthānāṁ pratyākhyāyācarēt kriyām ||16||
sthānāśrayaṁ sādhyāditvaṁ darśayannāha- bhavati cātrētyādi| antarvaliḥ abhyantaravaliḥ| pratyākhyāya asādhyānyētānyarśāṁsīti nirākr̥tya||16||
tatrārśasāṁ caturvidhaḥ sādhyayāpyatvādāvupādhibhēdaḥ- sthānaṁ, dōṣāḥ, janma, kālaścēti| tatra sthānaṁ bāhyādivaliḥ, dōṣāḥ- ēkadvitridōṣajādi, janma tu sahajādi; kālaḥ punaḥ parisaṁvatsarādi| upadravāsādhyatā’vāraṇīyē- “tr̥ṣṇārōcakamūrcchārtaṁ” (sū. 33) ityādi| tatra sthānāśrayaṁ sādhyatvaṁ darśayannāha- bāhyamadhyavalisthānāmityādi| tatra bāhyamadhyavalijānāṁ gudamarmapratyāsannatvāt kr̥cchrasādhyatā dvidōṣajatvācca; abhyantaravalijānāṁ tvasādhyatā gudamarmapratyāsannatvāt tridōṣajatvāccēti carakāśayaḥ||16||
prakupitāstu dōṣā mēḍhramabhiprapannā māṁsaśōṇitē pradūṣya kaṇḍūṁ janayanti, tataḥ kaṇḍūyanāt kṣataṁ samupajāyatē, tasmiṁśca kṣatē duṣṭamāṁsajāḥ prarōhāḥ picchilarudhirasrāviṇō jāyantē kūrcakinō’bhyantaramupariṣṭādvā, tē tu śēphō vināśayantyupaghnanti ca puṁstvaṁ; yōnimabhiprapannāḥ sukumārān durgandhān picchilarudhirasrāviṇaśchatrākārān karīrāñjanayanti, tē tu yōnimupaghnantyārtavaṁ ca; nābhimabhiprapannāḥ sukumārān durgandhān picchilān gaṇḍūpadamukhasadr̥śān karīrāñjanayanti; ta ēvōrdhvamāgatāḥ śrōtrākṣighrāṇavadanēṣvarśāṁsyupanirvartayanti; tatra karṇajēṣu bādhiryaṁ śūlaṁ pūtikarṇatā ca, nētrajēṣu vartmāvarōdhō vēdanā srāvō darśananāśaśca, ghrāṇajēṣu pratiśyāyō’timātraṁ kṣavathuḥ kr̥cchrōcchvāsatā pūtinasyaṁ sānunāsikavākyatvaṁ śirōduḥkhaṁ ca; vakrajēṣu kaṇṭhauṣṭhatālūnāmanyatamasmiṁstairgadgadavākyatā rasājñānaṁ mukharōgāśca bhavanti ||17||
mēḍhrādiṣvarśāṁsyāha- prakupitāstvityādi| abhiprapannā āśritāḥ| kūrcakinaḥ sūkṣmadīrghāṅkurasantāninaḥ| abhyantaramiti maṇau| upariṣṭāditi bāhyacarmaṇi| puṁstvaṁ śukraṁ puṁścihnaṁ ca| yōnimabhiprapannā ityādi abhiprapannā dōṣā iti sambandhaḥ| karīrān aṅkurān| nābhimabhiprapannā ityādi dōṣā ityatrāpi [10] sambadhyatē| ta ēva dōṣā ityarthaḥ| upanirvartayanti janayantītyarthaḥ| tatrētyādi| vartmāvarōdha iti vartma akṣipuṭaḥ| ghrāṇajēṣvityādi| kṣavathuḥ chikkā| vakrajēṣvityādi| anyatamasmin ēkatamasmin sthānē ‘utpannēṣvarśaḥsu [11] ’ iti śēṣaḥ||17||
sthānāntarēṣvapyanyairabhyupagatamarśastvamaṅgīkr̥tya tatrārśāṁsi nirdiśannāha- prakupitāstvityādi| adhōgatā ēva mēḍhramabhiprapannāḥ| kūrcakinaḥ sūkṣmadīrghāṅkurasantāninaḥ| abhyantaramiti maṇau| upariṣṭāditi bāhyacarmaṇi| upaghnanti ca puṁstvaṁ śukram| adhōgatā ēva yōnimabhiprapannāḥ kandākārān karīrānupajanayantīti sambandhaḥ| ūrdhvamāgatāḥ ‘dōṣāḥ’ iti vākyaśēṣaḥ, ghrāṇādiṣvarśāṁsyupanayanti| carakē’pyētadastyadhiṣṭhānamarśasāmuktaṁ; tathāhi- “kēcidbhūyāṁsamēva dēśamupadiśantyarśasāṁ galamukhanāsākarṇākṣivartmānitvak ca” (ca. ci. 14) iti||17||
vyānastu prakupitaḥ ślēṣmāṇaṁ parigr̥hya bahiḥsthirāṇi kīlavadarśāṁsi nirvartayati, tāni carmakīlānyarśāṁsītyācakṣatē ||18||
tvagadhiṣṭhānamēva carmakīlākhyamarśō darśayannāha- vyānastvityādi| bahiḥ gudauṣṭhādbahiḥ; anyē tu ‘bahiḥśabdēnānyatrāpi’ iti kathayanti| kīlavat śaṅkutulyānītyarthaḥ||18||
tvaggatamēva carmakīlākhyamarśō darśayannāha- vyānastvityādi| ślēṣmāṇaṁ parigr̥hyēti samprāptiḥ| bahiḥ tvacō bahiḥ, ‘bahirgudauṣṭhāt’ ityēkē| anyē tu “vyānasya sarvatvagadhiṣṭhānatvādadhōgatadōṣakr̥tārśassu pūrvamakīrtanāt pūrvamadha-ūrdhvagatadōṣakr̥tārśasāṁ kīrtitatvēna tiryaggatadōṣārabdhatvād gudauṣṭhādbahiranyatrāpi” ityācakṣatē||18||
bhavanti cātra-
tēṣu kīlēṣu nistōdō mārutēnōpajāyatē |
ślēṣmaṇā tu savarṇatvaṁ granthitvaṁ ca vinirdiśēt ||19||
pittaśōṇitajaṁ raukṣyaṁ [12] kr̥ṣṇatvaṁ ślakṣṇatā tathā |
samudīrṇakharatvaṁ carmakīlasya lakṣaṇam ||20||
tēṣāṁ carmakīlānāṁ dōṣaliṅgamāha- bhavanti cātrētyādi| savarṇatvamiti ślēṣmaṇaḥ samānavarṇatētyarthaḥ| granthitvaṁ granthibhāvaḥ| pittētyādi| tēṣu carmakīlēṣu| raukṣyamityādi pittaśōṇitajaṁ vinirdiśēt| samudīrṇakharatvam atīva kaṭhinatvam| carmakīlasya lakṣaṇamiti ētadvātādidōṣabhēdataścarmakīlasya lakṣaṇamuktam| kēciccarmakīlānāṁ dōṣaliṅgaṁ na paṭhanti||19-20||
tēṣāṁ carmakīlānāṁ dōṣaliṅgaṁ kēcidadhīyatē- tēṣu kīlēṣu nistōda ityādi||19-20||
arśasāṁ lakṣaṇaṁ vyāsāduktaṁ sāmānyatastu [13] yat |
tatsarvaṁ prāgvinirdiṣṭātsādhayēdbhiṣajāṁ varaḥ ||21||
idānīṁ sarvēṣāmēva mēḍhrādijānāṁ vātādilakṣaṇamatidēśēna nirdiśannāha- arśasāmityādi| arśasāṁ mēḍhrādijānāṁ vātādidōṣalakṣaṇaṁ vinā yat saṅkṣēpatō lakṣaṇamuktaṁ tat sarvaṁ sādhayēt jānīyāt cikitsēdvā| kathamityāha- prāgvinirdiṣṭāditi; “prāk pūrvaṁ vyāsēna pratyēkaṁ vātādijārśōlakṣaṇamuktaṁ vīkṣyētyarthaḥ” iti gayadāsācāryaḥ; anyē tu “saṅkṣēpataḥ ṣōḍhā, vyāsatō vistarēṇa, prāgvinirdiṣṭāt pañcadaśadhā prasarāt sādhayēt” iti manyantē||21||
idānīṁ sarvēṣāmēva mēḍhrādijānāṁ carmakīlākhyānāṁ vātādidōṣalakṣaṇamatidēśēna nirdiśannāha- durnāmnāmityādi| durnāmnāṁ mēḍhrādijānāmarśasāṁ saṅkṣēpatō lakṣaṇaṁ yaduktaṁ vātādidōṣalakṣaṇaṁ vinā sāmānyalakṣaṇamātramabhihitaṁ, tat sādhayējjānīyāt, cikitsēccēti cārthaḥ| prāgvinirdiṣṭāditi lyablōpē pañcamīti kēcit| prāgvinirdiṣṭāditi sūtrasthānōditaṁ pratyēkaṁ vātādilakṣaṇaṁ vīkṣyētyarthaḥ||21||
arśaḥsu dr̥śyatē rūpaṁ yadā dōṣadvayasya [14] tu |
saṁsargaṁ taṁ vijānīyāt saṁsargaḥ sa ca ṣaḍvidhaḥ ||22||
idānīṁ ṣaḍvidhēṣvēvārśaḥsvata ūrdhvaṁ saṁsargamauṣadhakalpanārthaṁ darśayannāha- arśaḥsvityādi| saṁsargaḥ sa ca ṣaḍvidha iti vātapittē, vātaślēṣmāṇau, pittaślēṣmāṇau, vātaśōṇitē, pittaśōṇitē ślēṣmaśōṇitē, ēvaṁ saṁsargaḥ ṣaḍvidhaḥ| sa ca sūtrasthānōktavraṇavēdanālakṣaṇādavagantavyaḥ [15] ||22||
idānīṁ prakr̥tisamasamavētasaṁyōgēna ṣaḍvidhēṣvēvārśaḥsvata ūrdhvaṁ saṁsargamauṣadhakalpanārthaṁ darśayannāha- arśaḥsvityādi| sa cātrōktapratyēkavātādyarśasāṁ liṅgādavagantavyaḥ||22||
tridōṣāṇyalpaliṅgāni yāpyāni tu vinirdiśēt |
dvandvajāni dvitīyāyāṁ valau yānyāśritāni ca ||23||
kr̥cchrasādhyāni tānyāhuḥ parisaṁvatsarāṇi ca |
sannipātasamutthāni sahajāni tu varjayēt ||24||
idānīṁ yāpyakr̥cchrasādhyāsādhyānyarśāṁsi darśayannāha- tridōṣāṇītyādi| dvandvajāni dvidōṣōtthāni, tānyapi yāpyānītyarthaḥ| parisaṁvatsarāṇīti paritaḥ saṁvatsaramabhivyāpya sthitāni kr̥cchrasādhyānītyarthaḥ| kēcit ‘sannipātasamutthāni’ ityādau kr̥tvā paṭhanti; sa ca pāṭhaḥ samagrō’darśanānna likhitaḥ||23-24||
idānīṁ dōṣajanmakāladēśakr̥tamasādhyādibhēdaṁ darśayannāha- sannipātasamutthānītyādi| janmanā saha jātāni sahajāni| dēśakr̥taṁ tu ‘dvitīyāyāṁ balau yānyāśritāni tu| kr̥cchrasādhyāni tānyāhuḥ’ iti| parisaṁvatsarāṇi cēti paritaḥ saṁvatsaramabhivyāpyāvasthitānīti kālakr̥taṁ kr̥cchratvam| tridōṣāṇyalpaliṅgāni yāpyānīti dōṣakr̥taṁ yāpyatvam||23-24||
sarvāḥ syurvalayō yēṣāṁ durnāmabhirupadrutāḥ |
taistu pratihatō vāyurapānaḥ sannivartatē ||25||
tatō vyānēna saṅgamya jyōtirmr̥dnāti [16] dēhinām ||26||
sarvavalivyāpināmarśasāṁ pañcātmakasyāpyagnērmahānarthakaratvaṁ darśayannāha- sarvā ityādi| yēṣāṁ dēhinām| durnāmabhiḥ arśōbhiḥ| taistu arśōbhirityarthaḥ| apānō vāyuriti sambandhaḥ| sannivartatē sthitiṁ badhnāti na niḥsaratītyarthaḥ| saṅgamya militvā| jyōtiḥ pañcātmakamagniṁ, mr̥dnāti mandīkarōti| ayaṁ cōpadravaḥ, prāyēṇa sahajēṣvarśaḥsu jñēyaḥ||25-26||
idānīṁ pratyēkaṁ pañcātmakānāṁ vātapittakaphānāṁ prakōpayitr̥tvāt pañcātmakasyāgnērupaghātakaratvācca mahānarthakaratvaṁ darśayannāha- sarvāḥ syurvalayō yōṣāmityādi| sarvatra sarvavalivyāptirityūrdhvamapahatō’pānaḥ sannivartatē| ata ēva pittakaphābhyāṁ pañcātmakābhyāṁ sarvāṅgagatavyānēnāpi saha saṅgamya saṅgatō bhūtvā jyōtiḥ pañcātmakamagniṁ mr̥dnātīti||25-26||
iti suśrutasaṁhitāyāṁ nidānasthānē’rśōnidānaṁ nāma dvitīyō’dhyāyaḥ ||2||
iti śrīḍalhaṇācāryaviracitāyāṁ nibandhasaṅgrahākhyāyāṁ suśrutavyākhyāyāṁ nidānasthānē dvitīyō’dhyāyaḥ||2||
iti sauśrutē śalyatantrē śrīgayadāsaviracitāyāṁ nyāyacandrikāyāṁ pañjikāyāmarśōnidānam||2||
1. ‘tadastyadhimāṁsadēśatayā’ ca iti vartamānacarakapustakē pāṭhaḥ|
2. ‘atra caturaṅgulāyatā iti saṅkucitāvasthāyāmityēvāvadhēyaṁ, anyathā puṁsāṁ nārīṇāṁ ca yathākramamupadēkṣyamāṇaṁ pañcaṣaḍaṅgulapariṇāhamarśōyantramanupapannaṁ syāt, srōtaḥpramāṇāpēkṣayā sthūlataratvāt’ iti hārāṇacandraḥ| ‘caturaṅgulāḥ, tāḥ sarvāḥ’ iti pā.|
3. ‘grahaṇīdōṣōdarāṇāṁ iti pā.|
4. ‘nāḍīmukha…’ iti pā.|
5. ‘… phalānyatamavarṇasaṁsthānāni’ iti gayadāsasammataḥ pāṭhaḥ|
6. ‘sarvalakṣaṇāni yuktāni’ iti gayadāsasammataḥ pāṭhaḥ syāt|
7. ‘pāṇḍūni’ iti pā.|
8. ‘alpāgniḥ’ iti pā.|
9. ‘yat’ iti pā.|
10. ‘ityuttaratrāpi’ iti pā.|
11. ‘sthānēṣvarśaḥsu’ iti pā.|
12. ‘kr̥ṣṇaraktatvaṁ snigdhatā tathā’ iti pā.
13. ‘durnāmnāṁ lakṣaṇaṁ hyētaduktaṁ saṅkṣēpatastu’ iti gayadāsasammataḥ pāṭhaḥ syāt|
14. ‘vai dōṣayōrdvayōḥ iti tā.|
15. ‘sūtrasthānōktavarṇavēdanālakṣaṇāt’ iti pā.
16. ‘jyōtirasya pramardati’ iti tā.|