Table of Contents
Devanagari Version
काशिराजधन्वन्तरिणोपदिष्टा तच्छिष्यसुश्रुतेन विरचिता
सुश्रुतसंहिता
श्रीडल्हणाचार्यविरचितया निबन्धसङ्ग्रहाख्यव्याख्यया निदानस्थानस्य श्रीगयदासाचार्यविरचितया न्यायचन्द्रिकाख्यपञ्जिकाव्याख्यया च समुल्लसिता
चिकित्सास्थानम् - ३५. नेत्रबस्तिप्रमाणप्रविभागचिकित्सितम्
Only Moolashloka
अथातो नेत्रबस्तिप्रमाणप्रविभागचिकित्सितं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
नेत्रं यन्त्रं; बस्तिरेणादीनां मूत्राधारः, तदाधेयं द्रव्यमपि; तयोः प्रमाणं प्रविभागश्च [१] , स एव चिकित्सितं व्याधेः प्रतीकारो यस्मिंस्तत्||१-२||
तत्र स्नेहादीनां कर्मणां बस्तिकर्म प्रधानतममाहुराचार्याः |
कस्मात्? अनेककर्मकरत्वाद्बस्तेः; इह खलु बस्तिर्नानाविधद्रव्यसंयोगाद्दोषाणां संशोधनसंशमनसङ्ग्रहणानि करोति, क्षीणशुक्रं वाजीकरोति, कृशं बृंहयति, स्थूलं कर्शयति, चक्षुः प्रीणयति, वलीपलितमपहन्ति, वयः स्थापयति ||३||
शरीरोपचयं वर्णं बलमारोग्यमायुषः |
कुरुते परिवृद्धिं च बस्तिः सम्यगुपासितः ||४||
बस्तिकर्म तु मूत्राधारपुटकेन साध्यं कर्म; बस्तिशब्दो हि सामान्यो निरूहे स्नेहबस्तौ च| वमनविरेचने तु प्रधानतरे, बस्तिकर्म तु प्रधानतमम्| सङ्ग्रहणानीति दोषाणामेवातिप्रवर्तमानानामित्यर्थः| क्षीणशुक्रं वाजीकरोति अनेनाश्व इव बलकारिणी हर्षजा शक्तिरुक्ता| कृशं बृंहयतीत्युपचयलक्षणा शक्तिरुक्ता| वयः स्थापयतीत्यनेन आयुर्वृद्धिकरत्वं सूचयति| एतदेव प्रधानतमत्वसाधनं श्लोकेनापि दर्शयन्नाह- शरीरोपचयमित्यादि||३-४||
तथा ज्वरातीसारतिमिरप्रतिश्यायशिरोरोगाधिमन्थार्दिताक्षेपकपक्षाघातैकाङ्गसर्वाङ्गरोगाध्मानोदर- योनिशूलशर्कराशूलवृद्ध्युपदंशानाहमूत्रकृच्छ्रगुल्मवातशोणितवातमूत्रपुरीषोदावर्त- शुक्रार्तवस्तन्यनाशहृद्धनुमन्याग्रहशर्कराश्मरीमूढगर्भप्रभृतिषु [२] चात्यर्थमुपयुज्यते ||५||
अनेकव्याधिनिर्घातकत्वं दर्शयन्नाह- तथा ज्वरातीसारेत्यादि| ज्वरादिषु चावस्थाविशेषो बस्तेर्विषयः, स च शास्त्रादेव ज्ञेयः||५||
भवति चात्र-
बस्तिर्वाते च पित्ते च कफे रक्ते च शस्यते |
संसर्गे सन्निपाते च बस्तिरेव हितः सदा ||६||
दोषकार्ये ज्वरादौ बस्तिप्रयोगमभिधाय ज्वरादिकारणे दोषेऽपि बस्तेर्हितत्वं दर्शयन्नाह- भवति चात्रेत्यादि| संसर्गो दोषद्वयप्रकोपः, प्रकृतिसमसमवेतज्वराद्यारम्भकदोषत्रयप्रकोपः सन्निपातोऽत्राभिप्रेतः||६||
तत्र सांवत्सरिकाष्टद्विरष्टवर्षाणां षडष्टदशाङ्गुलप्रमाणानि कनिष्ठिकानामिकामध्यमाङ्गुलिपरिणाहान्यग्रेऽध्यर्धाङ्गुलद्व्यङ्गुलार्धतृतीयाङ्गुलसन्निविष्टकर्णिकानि कङ्कश्येनबर्हिणपक्षनाडीतुल्यप्रवेशानि मुद्गमाषकलायमात्रस्रोतांसि विदध्यान्नेत्राणि |
तेषु चास्थापनद्रव्यप्रमाणमातुरहस्तसम्मितेन प्रसृतेन सम्मितौ प्रसृतौ द्वौ चत्वारोऽष्टौ च विधेयाः ||७||
वर्षान्तरेषु [३] नेत्राणां बस्तिमानस्य चैव हि |
वयोबलशरीराणि समीक्ष्योत्कर्षयेद्विधिम् [४] ||८||
पञ्चविंशतेरूर्ध्वं द्वादशाङ्गुलं, मूलेऽङ्गुष्ठोदरपरीणाहम्, अग्रे कनिष्ठिकोदरपरीणाहम्, अग्रे त्र्यङ्गुलसन्निविष्टकर्णिकं, गृध्रपक्षनाडीतुल्यप्रवेशं, कोलास्थिमात्रछिद्रं, क्लिन्नकलायमात्रछिद्रमित्येके; सर्वाणि मूले बस्तिनिबन्धनार्थं द्विकर्णिकानि |
आस्थापनद्रव्यप्रमाणं तु विहितं द्वादशप्रसृताः |
सप्ततेस्तूर्ध्वं नेत्रप्रमाणमेतदेव, द्रव्यप्रमाणं तु द्विरष्टवर्षवत् ||९||
नेत्रप्रमाणमास्थापनद्रव्यप्रमाणं च वयोभेदेन प्रदर्शयितुमाह- तत्र सांवत्सरिकेत्यादि| तत्र सांवत्सरिकाष्टद्विरष्टवर्षाणामित्यत्र यथासङ्ख्यव्याख्यानेन सांवत्सरिकबालस्य निरूहयन्त्रं षडङ्गुलप्रमाणं, तत्कनिष्ठिकापरिणाहम्, अग्रेऽध्यर्धाङ्गुलसन्निविष्टकर्णिकं [५] , कङ्कपक्षनाडीतुल्यप्रवेशं मूले, मुद्गवाहिस्रोतश्चाग्रे विदध्यात्| छत्राकारा गुदेऽधिकान्तःप्रवेशरोधिनी कर्णिका कथ्यते| कङ्कः वक्रचञ्चुः कृष्णवर्णः प्रसिद्ध एव| अष्टवर्षस्य पुनरष्टाङ्गुलप्रमाणं, तदनामिकापरिणाहम्, अग्रे द्व्यङ्गुलसन्निविष्टकर्णिकं, श्येनपक्षनाडीतुल्यप्रवेशं मूले, माषवाहिस्रोतश्चाग्रे विदध्यात्| द्विरष्टवर्षस्य षोडशवर्षस्येत्यर्थः| किम्भूतं यन्त्रं? दशाङ्गुलप्रमाणं, तन्मध्याङ्गुलिपरिणाहम्, अर्धतृतीयाङ्गुलसन्निविष्टकर्णिकं [६] , बर्ही [७] मयूरस्तत्पक्षनाडीतुल्यप्रवेशं मूले, कलायवाहिस्रोतश्चाग्रे विदध्यात्| तेष्विति सांवत्सरिकाष्टद्विरष्टवर्षेषु बालेषु यथासङ्ख्यमातुरहस्तेन द्वौ चत्वारोऽष्टौ च प्रसृता विधेयाः| प्रसृतोऽत्र कुञ्चिताङ्गुलिः पाणिः, न तु पलद्वयमिति गयदासाचार्यः| जेज्जटाचार्यस्तु आतुरहस्तग्रहणं मध्यमपुरुषहस्तोपलक्षणं, तेन तत्प्रसृतेन पलद्वयप्रमितेनेति व्याख्यानयति| अत्र [८] मध्यवर्तिवर्षाणां नेत्रद्रव्यमानं निर्दिशन्नाह- वर्षान्तरेष्वित्यादि| पञ्चविंशतिं यावत् समीक्ष्य यथायथमभ्यूह्य नेत्रप्रमाणं बस्तिद्रव्यप्रमाणं चोत्कर्षयेत्| पञ्चविंशतेरित्यादि| गृध्रपक्षनाडीतुल्यप्रवेशं मूले| क्लिन्नकलायमात्रच्छिद्रमग्रे| सर्वाणि तु मूले बस्तिनिबन्धनार्थं द्विकर्णिकानि द्व्यङ्गुलान्तराणि कुर्यात् द्व्यङ्गुलमध्यानीत्यर्थः||७-९||
मृदुर्बस्तिः प्रयोक्तव्यो विशेषाद्बालवृद्धयोः |
तयोस्तीक्ष्णः प्रयुक्तस्तु बस्तिर्हिंस्याद् बलायुषी ||१०||
बालवृद्धयोर्हीनोपचयशक्तिलक्षणबलत्वेनास्थापनस्य मात्राकृतं हीनत्वं प्रदर्श्य तीक्ष्णादिगुणहीनत्वं दर्शयन्नाह- मृदुर्बस्तिः प्रयोक्तव्य इत्यादि| तत्र मृदुद्रव्यकृतो बस्तिर्मृदुः, तीक्ष्णश्च तद्विपर्ययः||१०||
(व्रणनेत्रमष्टाङ्गुलं [९] मुद्गवाहिस्रोतः; व्रणमवेक्ष्य यथास्वं स्नेहकषाये विदधीत) ||११||
शल्यतन्त्रत्वादस्य शास्त्रस्य व्रणनेत्रप्रमाणमाह- व्रणनेत्रमष्टाङ्गुलमित्यादि||११||
तत्र नेत्राणि सुवर्णरजतताम्रायोरीतिदन्तशृङ्गमणितरुसारमयानि श्लक्ष्णानि दृढानि गोपुच्छाकृतीन्यृजूनि गुटिकामुखानि च ||१२||
तानि च नेत्राणि किम्मयानि किमाकृतीनि वा तदाह- तत्र नेत्राणीत्यादि| रीतिः पित्तलं, मणिः स्फटिकादिः| श्लक्ष्णानि अकर्कशानि| दृढानि अजर्जराणि| गुटिकामुखानि अतीक्ष्णाग्राणि||१२||
बस्तयश्च बन्ध्या [१०] मृदवो नातिबहला दृढाः प्रमाणवन्तो गोमहिषवराहाजोरभ्राणाम् ||१३||
नेत्रालाभे हिता नाडी नलवंशास्थिसम्भवा |
बस्त्यलाभे हितं चर्म सूक्ष्मं वा तान्तवं घनम् ||१४||
कीदृशा बस्तयो बन्ध्या इत्याह- बस्तयश्च बन्ध्या इत्यादि| नातिबहला नात्युपचिताः, नातिदीर्घा इत्यन्ये| तान्तवं वस्त्रम्||१३-१४||
बस्तिं निरुपदिग्धं तु शुद्धं सुपरिमार्जितम् |
मृद्वनुद्धतहीनं च मुहुः स्नेहविमर्दितम् ||१५||
नेत्रमूले प्रतिष्ठाप्य न्युब्जं तु विवृताननम् |
बद्ध्वा लोहेन तप्तेन चर्मस्रोतसि निर्दहेत् ||१६||
परिवर्त्य ततो बस्तिं बद्ध्वा गुप्तं निधापयेत् |
आस्थापनं च तैलं च यथावत्तेन दापयेत् ||१७||
ग्रहणयोग्यबस्तेः [११] परिकर्म बन्धविधिं च दर्शयन्नाह- बस्तिं निरुपदिग्धमित्यादि| निरुपदिग्धं मांसाद्युपलेपवर्जितम्| शुद्धं कषायरञ्जितम्| सुपरिमार्जितं सुष्ठुनिर्मार्जितम्| अनुद्धतहीनं नाधिकं न हीनम्; एतेनाधेयद्रव्यमानं समीक्ष्याधारभूतस्य बस्तेः प्रमाणं विधेयमित्यर्थः| प्रतिष्ठाप्य संयोज्य| न्युब्जम् अधोमुखम्| गोमहिषादिबस्तयो निरूहयन्त्रे यथालाभं संयोज्याः; उत्तरबस्तियन्त्रे पुनरजोरभ्रबस्ती एव योजनीयाविति||१५-१७||
तत्र द्विविधो बस्तिः- नैरूहिकः, स्नैहिकश्च |
आस्थापनं, निरूह इत्यनर्थान्तरं; तस्य विकल्पो माधुतैलिकः; तस्य पर्यायशब्दो यापनो, युक्तरथः, सिद्धबस्तिरिति |
स दोषनिर्हरणाच्छरीरनीरोहणाद्वा निरूहः, वयःस्थापनादायुःस्थापनाद्वा आस्थापनम् |
माधुतैलिकविधानं च निरूहोपक्रमचिकित्सिते वक्ष्यामः |
यथाप्रमाणगुणविहितः [१२] स्नेहबस्तिविकल्पोऽनुवासनः पादाव(प)कृष्टः |
अनुवसन्नपि न दुष्यत्यनुदिवसं वा दीयत इत्यनुवासनः |
तस्यापि विकल्पोऽर्धार्धमात्रावकृष्टोऽपरिहार्यो मात्राबस्तिरिति [१३] ||१८||
अनर्थान्तरमिति एकार्थमित्यर्थः| बस्तेर्नैरूहिकस्नैहिकभेदाभ्यां यौ द्वौ विकल्पौ तौ निरूहस्नेहबस्त्याख्यौ, तयोर्नैरूहिकमभिधाय स्नैहिकं बस्तिविकल्पमभिधत्ते- यथेत्यादि| यस्य यत् प्रमाणं यो यो गुणस्ताभ्यां विहितः स्नेहबस्त्याख्योऽनुवासनसञ्ज्ञ इत्यर्थः| यथावयोनिरूहाणामित्यादिना विधास्यमानोऽपि स्नेहबस्तिविकल्पोऽनागतावेक्षणतन्त्रयुक्त्या विहित इति प्रदिष्टः| यथाप्रमाणमित्यनेन सूचितं प्रमाणं प्रकटयन्नाह- पादाव(प)कृष्ट इति|- यथावय इत्यादिवक्ष्यमाणवाक्यदर्शनादास्थापनस्य पादैस्त्रिभिरपकृष्टो हीनः पादाव(प)कृष्टः| अयमर्थः- सांवत्सरिकादिकालाद्यपेक्षं यत् प्रकुञ्चादि चतुर्विंशतिपलावसानं निरूहप्रमाणं तच्चतुर्थांशेन कर्षमारभ्य षट्पलानि यावदनुवासनस्य प्रमाणमिति| तन्त्रान्तरे च मध्यवयस्कमाश्रित्यानुवासनस्योत्तमादिमात्राभेदेन त्रैविध्यमुक्तं, यथा- “षट्पली तु भवेच्छ्रेष्ठा मध्यमा त्रिपली भवेत्| कनीयस्यध्यर्धपला त्रिधा मात्राऽनुवासने-” इति| तस्यापि विकल्प इत्यादि तस्याप्यनुवासनस्य, षट्पलप्रमाणस्यार्धार्धमात्रावशिष्टः पादावशिष्टोऽध्यर्धपलमात्र इत्यर्थः| अपरिहार्यः अविद्यमानपरिहरणार्हः| गयी तु यथाप्रमाणविहिताच्च बस्तेः पादांशः स्नेहबस्तिः, स्नेहविकल्पोऽर्धमात्रापकृष्टोऽनुवासनं, तस्यापि विकल्पोऽर्धमात्रापकृष्टोऽपरिहार्यो मात्राबस्तिरिति| एतेन तन्मते षट्पलप्रमाणः स्नेहबस्तिः, तदर्धेन पलत्रयप्रमाणमनुवासनं, तस्यार्धेन सार्धपलप्रमाणो मात्राबस्तिरिति||१८||
निरूहः शोधनो लेखी स्नैहिको बृंहणो मतः |१९|
फलेनापि तयोर्भेदं दर्शयन्नाह- निरूह इत्यादि| शोधनद्रव्यसंयुक्तः शोधनो निरूहः| सर्वनिरूहानुवासनधर्मोऽयं, द्रव्यविशेषसंयोगात्तु क्वचिच्छोधनादीनामुत्कर्षापकर्षौ| जेज्जटाचार्यस्तु ‘स्नेहनो बृंहणो मत’ इति पठित्वा शोधनादिचतुष्कं निरूहस्य कर्मेति वर्णयति|१९|-
निरूहशोधितान्मार्गान् सम्यक् स्नेहोऽनुगच्छति |
अपेतसर्वदोषासु नाडीष्विव वहज्जलम् ||१९||
सर्वदोषहरश्चासौ शरीरस्य च जीवनः |
तस्माद्विशुद्धदेहस्य स्नेहबस्तिर्विधीयते ||२०||
निरूहशोधितमार्गेषु सम्यक् स्नेहवीर्यानुसरणं दर्शयन्नाह- निरूहेत्यादि||१९-२०||
तत्रोन्मादभयशोकपिपासारोचकाजीर्णार्शःपाण्डुरोगभ्रममदमूर्च्छाच्छर्दिकुष्ठमेहोदरस्थौल्य- श्वासकासकण्ठशोषशोफोपसृष्टक्षतक्षीणचतुस्त्रिमासगर्भिणीदुर्बलाग्न्यसहा बालवृद्धौ च वातरोगादृते क्षीणा नानुवास्या नास्थापयितव्याः ||२१||
तत्रेत्यादि| भ्रमः चक्रारूढस्येव भ्रमणम्| मदः पूगफलेनेव मत्तता| मूर्च्छा चेतनाच्युतिः| उपसृष्टशब्द उन्मादादिभिः शोफान्तैः सह सम्बन्धनीयः| क्षतः क्षतोरस्कः, क्षीणः कृशः| चतुस्त्रिमासगर्भिणीति सप्तमासान् यावद्गर्भिणी; तथाच वाग्भटः- “मासान् सप्त च गर्भिणी” (वा. सू. १९)| वातरोगादृते क्षीणा इति क्षीणशब्दस्य पुनरुपादानादतिकृशा वातरोगं विना क्षीणा नानुवास्या इति| उन्मादादिषु सामान्येन बस्तिनिषेधोऽत्राभिहितः; केचित्तु केषाञ्चित्प्रतिप्रसवमपवादरूपेणाहुः| तत्रोन्मादापस्मारभ्रममदमूर्च्छासु सञ्ज्ञानाशापगमे शुद्धस्यातुरस्य अनुबन्धोपचरणाय बस्तिर्देयः, कुष्ठिनामर्शसां च मूढवातानां प्रयोज्यः, वाताद्युदरिषु त्रिषु निषिद्धोऽपि शेषेषु पञ्चसु बस्तिः प्रयोक्तव्यः, शोथक्षतोरस्कयोरनुवासननिषेधो न निरूहस्य; वर्षादर्वाग् बालस्य, नवत्यूर्ध्वं वृद्धस्य मृदुरपि बस्तिर्निषिद्धः, अतोऽन्यथा तीक्ष्ण एव; एतेनावस्थावशान्निषिद्धमपि कार्यं स्यात् “उत्पद्यते हि साऽवस्था देशकालबलं प्रति| यस्यां कार्यमकार्यं स्यात् कर्म कार्यं च गर्हितम्”- इति||२१||
उदरी च प्रमेही च कुष्ठी स्थूलश्च मानवः |
अवश्यं स्थापनीयास्ते नानुवास्याः कथञ्चन ||२२||
क्वचिदेवास्थापनस्यावस्थायां प्रतिप्रसवमुद्दिशन्नाह- उदरी चेत्यादि| सा चावस्था तन्त्रान्तरादनुसर्तव्या| तत्रोदरे वाग्भटः- “सुविरिक्तस्य यस्य स्यादाध्मानं पुनरेव तम्| सुस्निग्धैरम्ललवणैर्निरूहैः समुपाचरेत्-” (वा. चि. १५) इति; एवं प्रमेहादिषु चिकित्सितमालोक्यास्थापनावस्था ज्ञातव्या||२२||
असाध्यता विकाराणां स्यादेषामनुवासनात् |
असाध्यत्वेऽपि भूयिष्ठं गात्राणां सदनं भवेत् ||२३||
निषिद्धाचरणदोषमुद्दिशन्नाह- असाध्यतेत्यादि| एषां विकाराणाम् उदरादीनाम्| गात्रसदनम् अङ्गग्लानिः||२३||
पक्वाशये तथा श्रोण्यां नाभ्यधस्ताच्च सर्वतः |
सम्यक्प्रणिहितो बस्तिः स्थानेष्वेतेषु तिष्ठति ||२४||
पक्वाशयाद्बस्तिवीर्यं खैर्देहमनुसर्पति |
वृक्षमूले निषिक्तानामपां वीर्यमिव द्रुमम् ||२५||
सम्यक् प्रदत्तो बस्तिर्येषु स्थानेष्ववतिष्ठते तान्याह- पक्वाशये इत्यादि| कथं तर्हि पक्वाशयादिमात्रगतो बस्तिः क्वचित् सर्वेषामवयवानामवसादं, क्वचित् सर्वाङ्गगतानां दोषाणां हरणं शमनं च जनयतीत्याह- पक्वाशय इत्यादि| पक्वाशयाद्बस्तिवीर्यं खैः स्रोतोभिरनुसर्पति कृत्स्नदेहे; वीर्यं, शक्तिः, प्रभाव इत्यनर्थान्तरम्||२४-२५||
स चापि सहसा बस्तिः केवलः समलोऽपि वा |
प्रत्येति वीर्यं त्वनिलैरपानाद्यैर्विनीयते ||२६||
तिष्ठंस्तावद्बस्तिर्गुणकारी भवतु, कथं निर्गतोऽपि तादृशः स्यादित्याह- स चापीत्यादि| प्रत्येति प्रत्यागच्छति| वीर्यं स्नेहादिगुणः| अपानाद्यैरिति आद्यपदेनोदानादयो बोद्धव्याः| अपानेनाधः, उदानेनोर्ध्वं, व्यानेन सर्वत्र, विनीयते विशेषेण सर्वशरीरावयवेषु नीयते||२६||
वीर्येण बस्तिरादत्ते दोषानापादमस्तकात्(न्) |
पक्वाशयस्थोऽम्बरगो भूमेरर्को रसानिव ||२७||
स कटीपृष्ठकोष्ठस्थान् वीर्येणालोड्य सञ्चयान् |
उत्खातमूलान् हरति दोषाणां साधुयोजितः ||२८||
सकलावयवगतदोषहरणं बस्तेरेकस्थानस्थितस्योपमानेन दर्शयन्नाह- वीर्येणेत्यादि| अन्ये त्वत्रामुं श्लोकं न पठन्ति||२७-२८||
दोषत्रयस्य यस्माच्च प्रकोपे वायुरीश्वरः |
तस्मात्तस्यातिवृद्धस्य शरीरमभिनिघ्नतः ||२९||
वायोर्विषहते वेगं नान्या बस्तेरृते क्रिया |
पवनाविद्धतोयस्य वेला वेगमिवोदधेः ||३०||
शरीरोपचयं वर्णं बलमारोग्यमायुषः |
कुरुते परिवृद्धिं च बस्तिः सम्यगुपासितः ||३१||
दोषत्रयस्येत्यादि| यथा उदधेः समुद्रस्य, पवनाविद्धतोयस्य अनिलेनाभुग्नसलिलस्य [१४] , वेला कूलमर्यादा, वेगं विषहते विशेषेण सहते||२९-३१||
अत ऊर्ध्वं व्यापदो वक्ष्यामः |
तत्र नेत्रं विचलितं, विवर्तितं, पार्श्वावपीडितम्, अत्युत्क्षिप्तम्, अवसन्नं, तिर्यक्प्रक्षिप्तमिति षट् प्रणिधानदोषाः; अतिस्थूलं, कर्कशम्, अवनतं, अणुभिन्नं [१५] , सन्निकृष्टविप्रकृष्टकर्णिकं, सूक्ष्मातिच्छिद्रम्, अतिदीर्घम्, अतिह्रस्वम् [१६] , अस्रिमदित्येकादश नेत्रदोषाः; बहलता, अल्पता, सच्छिद्रता [१७] , प्रस्तीर्णता, दुर्बद्धतेति पञ्च बस्तिदोषाः; अतिपीडितता, शिथिलपीडितता, भूयो भूयोऽवपीडनं, कालातिक्रम इति चत्वारः पीडनदोषाः; आमता, हीनता, अतिमात्रता, अतिशीतता, अत्युष्णता, अतितीक्ष्णता, अतिमृदुता, अतिस्निग्धता, अतिरूक्षता, अतिसान्द्रता, अतिद्रवता, इत्येकादश द्रव्यदोषाः; अवाक्शीर्षोच्छीर्षन्युब्जोत्तानसङ्कुचितदेहस्थितदक्षिणपार्श्वशायिनः प्रदानमिति सप्त शय्यादोषाः; एवमेताश्चतुश्चत्वारिंशद्व्यापदो वैद्यनिमित्ताः |
आतुरनिमित्ताः पञ्चदश आतुरोपद्रवचिकित्सिते वक्ष्यन्ते |
स्नेहस्त्वष्टभिः कारणैः प्रतिहतो न प्रत्यागच्छति त्रिभिर्दोषैः, अशनाभिभूतो, मलव्यामिश्रो, दूरानुप्रविष्टो, अस्विन्नस्य, अनुष्णो, अल्पम्भुक्तवतो, अल्पश्चेति वैद्यातुरनिमित्ता भवन्ति |
अयोगस्तूभयोः, आध्मानं, परिकर्तिका, परिस्रावः, प्रवाहिका, हृदयोपसरणम्, अङ्गप्रग्रहो, अतियोगो, जीवादानमिति नव व्यापदो वैद्यनिमित्ता भवन्ति ||३२||
विचलितं विशेषेण कम्पितम्| विवर्तितं प्रविष्टमेव मोटितम्| पार्श्वावपीडितं पार्श्वयोर्वामदक्षिणयोरवपीडनम्| अत्युत्क्षिप्तम् अतिशयेनोर्ध्वप्रेरितम्| अवसन्नम् अधोभागगतिकम्| प्रणिधानदोषा दानदोषाः| सूक्ष्मातिच्छिद्रं सूक्ष्ममुखं, बृहन्मुखमित्यर्थः| अस्रिमदिति अस्रिः कोटिः पालिरित्यर्थः, धारायुक्तमित्यन्ये| नेत्रदोषा निरूहयन्त्रदोषाः| बहलता मांसोपचितत्वम्, अन्ये विपुलतामाहुः| प्रस्तीर्णता स्नायुजालवत्त्वम्| कालातिक्रम इति कालस्यातिद्रुतविलम्बितस्यातिक्रमो विलम्बितदानेनोल्लङ्घनम् [१८] | तत्रातिशिथिलपीडने सम्यक्पीडनकालस्येषदतिक्रमः, कालातिक्रमे च सम्यक्पीडनकालस्य महानतिक्रम इति भेदः| आमतेत्यादि| आमः अपक्वस्नेहः| एकादश द्रव्यदोषा यथासम्भवं स्नेहबस्तिनिरूहोभयाश्रिता ज्ञातव्याः| अवाक्शीर्षेत्यादि| अवाक्शीर्ष अधोमस्तकः, उच्छीर्षक ऊर्ध्वमस्तकः, न्युब्जः अधोमुखः, स्थित उपविष्टः| अवाक्शीर्षादयः सप्त शय्यास्थितपुरुषस्य दोषाः, उपचारेण शय्यायाः प्रतिपाद्यन्ते| स्नेह इत्यादि| उभयोरिति निरूहानुवासनयोः| एतदुक्तं भवति- अयोगादिव्यापत्सु काश्चिद्व्यापन्निरूहाश्रिताः, काश्चिदनुवासनाश्रिताः, काश्चिदुभयाश्रिता इति||३२||
भवति चात्र-
षट्सप्ततिः समासेन व्यापदः परिकीर्तिताः |
तासां वक्ष्यामि विज्ञानं सिद्धिं च तदनन्तरम् ||३३||
विज्ञानं लक्षणम्| सिद्धिं चिकित्सितम्||३३||
इति सुश्रुतसंहितायां चिकित्सास्थाने नेत्रबस्तिप्रमाणप्रविभागचिकित्सितं नाम पञ्चत्रिंशोऽध्यायः ||३५||
इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां चिकित्सास्थाने पञ्चत्रिंशत्तमोऽध्यायः||३५||
१. ‘प्रमाणविभागः’ इति पा.|
२. ‘…मन्याग्रहार्शोश्मरी…’ इति पा.|
३. ‘वर्षोत्तरेषु’ इति पा.|
४. ‘समीक्ष्य वर्धयेद्विधिम्’ इति पा.|
५. ‘सार्धाङ्गुलसन्निविष्टकर्णिकं’ इति|
६. ‘सार्धद्व्यङ्गुलसन्निविष्टकर्णिकं’ इति पा.|
७. ‘बर्हिणो मयूराः’ इति पा.|
८. ‘तन्मध्यवर्तिवर्षाणां’ इति पा.|
९. ‘हाराणचन्द्रस्तु अमुं पाठं न पठति|
१०. ‘बस्तयश्चावृद्धानां’ इति पा.|
११. ‘ग्रहणयोग्यं स्वभावमुद्दिश्य बस्तेः’ इति पा.|
१२. ‘यथाप्रमाणविहितः’ इति, ‘यथाप्रमाणगणविहित’ इति च पा.|
१३. ‘अर्धार्धमात्रावशिष्टः’ इति पा.|
१४. ‘अनिलेनात्युग्रसलिलस्य’ इति पा.|
१५. ‘अणु, भिन्नं’, इति पा.|
१६. ‘अतिह्रस्वमित्येकादश’ इति पा.|
१७. ‘भिन्नता’ इति पा.|
१८. ‘विलम्बितदानेनातिवाहनम्’ इति पा.|
Moolashloka with Dalhana & Gayadas Commentary

Pathantara/Pathabheda

Diacritic Version
kāśirājadhanvantariṇōpadiṣṭā tacchiṣyasuśrutēna viracitā
Suśrutasaṁhitā
śrīḍalhaṇācāryaviracitayā nibandhasaṅgrahākhyavyākhyayā nidānasthānasya śrīgayadāsācāryaviracitayā nyāyacandrikākhyapañjikāvyākhyayā ca samullasitā
cikitsāsthānam - 35. nētrabastipramāṇapravibhāgacikitsitam
athātō nētrabastipramāṇapravibhāgacikitsitaṁ vyākhyāsyāmaḥ ||1||
yathōvāca bhagavān dhanvantariḥ ||2||
nētraṁ yantraṁ; bastirēṇādīnāṁ mūtrādhāraḥ, tadādhēyaṁ dravyamapi; tayōḥ pramāṇaṁ pravibhāgaśca [1] , sa ēva cikitsitaṁ vyādhēḥ pratīkārō yasmiṁstat||1-2||
tatra snēhādīnāṁ karmaṇāṁ bastikarma pradhānatamamāhurācāryāḥ |
kasmāt? anēkakarmakaratvādbastēḥ; iha khalu bastirnānāvidhadravyasaṁyōgāddōṣāṇāṁ saṁśōdhanasaṁśamanasaṅgrahaṇāni karōti, kṣīṇaśukraṁ vājīkarōti, kr̥śaṁ br̥ṁhayati, sthūlaṁ karśayati, cakṣuḥ prīṇayati, valīpalitamapahanti, vayaḥ sthāpayati ||3||
śarīrōpacayaṁ varṇaṁ balamārōgyamāyuṣaḥ |
kurutē parivr̥ddhiṁ ca bastiḥ samyagupāsitaḥ ||4||
bastikarma tu mūtrādhārapuṭakēna sādhyaṁ karma; bastiśabdō hi sāmānyō nirūhē snēhabastau ca| vamanavirēcanē tu pradhānatarē, bastikarma tu pradhānatamam| saṅgrahaṇānīti dōṣāṇāmēvātipravartamānānāmityarthaḥ| kṣīṇaśukraṁ vājīkarōti anēnāśva iva balakāriṇī harṣajā śaktiruktā| kr̥śaṁ br̥ṁhayatītyupacayalakṣaṇā śaktiruktā| vayaḥ sthāpayatītyanēna āyurvr̥ddhikaratvaṁ sūcayati| ētadēva pradhānatamatvasādhanaṁ ślōkēnāpi darśayannāha- śarīrōpacayamityādi||3-4||
tathā jvarātīsāratimirapratiśyāyaśirōrōgādhimanthārditākṣēpakapakṣāghātaikāṅgasarvāṅgarōgādhmānōdara- yōniśūlaśarkarāśūlavr̥ddhyupadaṁśānāhamūtrakr̥cchragulmavātaśōṇitavātamūtrapurīṣōdāvarta- śukrārtavastanyanāśahr̥ddhanumanyāgrahaśarkarāśmarīmūḍhagarbhaprabhr̥tiṣu [2] cātyarthamupayujyatē ||5||
anēkavyādhinirghātakatvaṁ darśayannāha- tathā jvarātīsārētyādi| jvarādiṣu cāvasthāviśēṣō bastērviṣayaḥ, sa ca śāstrādēva jñēyaḥ||5||
bhavati cātra-
bastirvātē ca pittē ca kaphē raktē ca śasyatē |
saṁsargē sannipātē ca bastirēva hitaḥ sadā ||6||
dōṣakāryē jvarādau bastiprayōgamabhidhāya jvarādikāraṇē dōṣē’pi bastērhitatvaṁ darśayannāha- bhavati cātrētyādi| saṁsargō dōṣadvayaprakōpaḥ, prakr̥tisamasamavētajvarādyārambhakadōṣatrayaprakōpaḥ sannipātō’trābhiprētaḥ||6||
tatra sāṁvatsarikāṣṭadviraṣṭavarṣāṇāṁ ṣaḍaṣṭadaśāṅgulapramāṇāni kaniṣṭhikānāmikāmadhyamāṅgulipariṇāhānyagrē’dhyardhāṅguladvyaṅgulārdhatr̥tīyāṅgulasanniviṣṭakarṇikāni kaṅkaśyēnabarhiṇapakṣanāḍītulyapravēśāni mudgamāṣakalāyamātrasrōtāṁsi vidadhyānnētrāṇi |
tēṣu cāsthāpanadravyapramāṇamāturahastasammitēna prasr̥tēna sammitau prasr̥tau dvau catvārō’ṣṭau ca vidhēyāḥ ||7||
varṣāntarēṣu [3] nētrāṇāṁ bastimānasya caiva hi |
vayōbalaśarīrāṇi samīkṣyōtkarṣayēdvidhim [4] ||8||
pañcaviṁśatērūrdhvaṁ dvādaśāṅgulaṁ, mūlē’ṅguṣṭhōdaraparīṇāham, agrē kaniṣṭhikōdaraparīṇāham, agrē tryaṅgulasanniviṣṭakarṇikaṁ, gr̥dhrapakṣanāḍītulyapravēśaṁ, kōlāsthimātrachidraṁ, klinnakalāyamātrachidramityēkē; sarvāṇi mūlē bastinibandhanārthaṁ dvikarṇikāni |
āsthāpanadravyapramāṇaṁ tu vihitaṁ dvādaśaprasr̥tāḥ |
saptatēstūrdhvaṁ nētrapramāṇamētadēva, dravyapramāṇaṁ tu dviraṣṭavarṣavat ||9||
nētrapramāṇamāsthāpanadravyapramāṇaṁ ca vayōbhēdēna pradarśayitumāha- tatra sāṁvatsarikētyādi| tatra sāṁvatsarikāṣṭadviraṣṭavarṣāṇāmityatra yathāsaṅkhyavyākhyānēna sāṁvatsarikabālasya nirūhayantraṁ ṣaḍaṅgulapramāṇaṁ, tatkaniṣṭhikāpariṇāham, agrē’dhyardhāṅgulasanniviṣṭakarṇikaṁ [5] , kaṅkapakṣanāḍītulyapravēśaṁ mūlē, mudgavāhisrōtaścāgrē vidadhyāt| chatrākārā gudē’dhikāntaḥpravēśarōdhinī karṇikā kathyatē| kaṅkaḥ vakracañcuḥ kr̥ṣṇavarṇaḥ prasiddha ēva| aṣṭavarṣasya punaraṣṭāṅgulapramāṇaṁ, tadanāmikāpariṇāham, agrē dvyaṅgulasanniviṣṭakarṇikaṁ, śyēnapakṣanāḍītulyapravēśaṁ mūlē, māṣavāhisrōtaścāgrē vidadhyāt| dviraṣṭavarṣasya ṣōḍaśavarṣasyētyarthaḥ| kimbhūtaṁ yantraṁ? daśāṅgulapramāṇaṁ, tanmadhyāṅgulipariṇāham, ardhatr̥tīyāṅgulasanniviṣṭakarṇikaṁ [6] , barhī [7] mayūrastatpakṣanāḍītulyapravēśaṁ mūlē, kalāyavāhisrōtaścāgrē vidadhyāt| tēṣviti sāṁvatsarikāṣṭadviraṣṭavarṣēṣu bālēṣu yathāsaṅkhyamāturahastēna dvau catvārō’ṣṭau ca prasr̥tā vidhēyāḥ| prasr̥tō’tra kuñcitāṅguliḥ pāṇiḥ, na tu paladvayamiti gayadāsācāryaḥ| jējjaṭācāryastu āturahastagrahaṇaṁ madhyamapuruṣahastōpalakṣaṇaṁ, tēna tatprasr̥tēna paladvayapramitēnēti vyākhyānayati| atra [8] madhyavartivarṣāṇāṁ nētradravyamānaṁ nirdiśannāha- varṣāntarēṣvityādi| pañcaviṁśatiṁ yāvat samīkṣya yathāyathamabhyūhya nētrapramāṇaṁ bastidravyapramāṇaṁ cōtkarṣayēt| pañcaviṁśatērityādi| gr̥dhrapakṣanāḍītulyapravēśaṁ mūlē| klinnakalāyamātracchidramagrē| sarvāṇi tu mūlē bastinibandhanārthaṁ dvikarṇikāni dvyaṅgulāntarāṇi kuryāt dvyaṅgulamadhyānītyarthaḥ||7-9||
mr̥durbastiḥ prayōktavyō viśēṣādbālavr̥ddhayōḥ |
tayōstīkṣṇaḥ prayuktastu bastirhiṁsyād balāyuṣī ||10||
bālavr̥ddhayōrhīnōpacayaśaktilakṣaṇabalatvēnāsthāpanasya mātrākr̥taṁ hīnatvaṁ pradarśya tīkṣṇādiguṇahīnatvaṁ darśayannāha- mr̥durbastiḥ prayōktavya ityādi| tatra mr̥dudravyakr̥tō bastirmr̥duḥ, tīkṣṇaśca tadviparyayaḥ||10||
(vraṇanētramaṣṭāṅgulaṁ [9] mudgavāhisrōtaḥ; vraṇamavēkṣya yathāsvaṁ snēhakaṣāyē vidadhīta) ||11||
śalyatantratvādasya śāstrasya vraṇanētrapramāṇamāha- vraṇanētramaṣṭāṅgulamityādi||11||
tatra nētrāṇi suvarṇarajatatāmrāyōrītidantaśr̥ṅgamaṇitarusāramayāni ślakṣṇāni dr̥ḍhāni gōpucchākr̥tīnyr̥jūni guṭikāmukhāni ca ||12||
tāni ca nētrāṇi kimmayāni kimākr̥tīni vā tadāha- tatra nētrāṇītyādi| rītiḥ pittalaṁ, maṇiḥ sphaṭikādiḥ| ślakṣṇāni akarkaśāni| dr̥ḍhāni ajarjarāṇi| guṭikāmukhāni atīkṣṇāgrāṇi||12||
bastayaśca bandhyā [10] mr̥davō nātibahalā dr̥ḍhāḥ pramāṇavantō gōmahiṣavarāhājōrabhrāṇām ||13||
nētrālābhē hitā nāḍī nalavaṁśāsthisambhavā |
bastyalābhē hitaṁ carma sūkṣmaṁ vā tāntavaṁ ghanam ||14||
kīdr̥śā bastayō bandhyā ityāha- bastayaśca bandhyā ityādi| nātibahalā nātyupacitāḥ, nātidīrghā ityanyē| tāntavaṁ vastram||13-14||
bastiṁ nirupadigdhaṁ tu śuddhaṁ suparimārjitam |
mr̥dvanuddhatahīnaṁ ca muhuḥ snēhavimarditam ||15||
nētramūlē pratiṣṭhāpya nyubjaṁ tu vivr̥tānanam |
baddhvā lōhēna taptēna carmasrōtasi nirdahēt ||16||
parivartya tatō bastiṁ baddhvā guptaṁ nidhāpayēt |
āsthāpanaṁ ca tailaṁ ca yathāvattēna dāpayēt ||17||
grahaṇayōgyabastēḥ [11] parikarma bandhavidhiṁ ca darśayannāha- bastiṁ nirupadigdhamityādi| nirupadigdhaṁ māṁsādyupalēpavarjitam| śuddhaṁ kaṣāyarañjitam| suparimārjitaṁ suṣṭhunirmārjitam| anuddhatahīnaṁ nādhikaṁ na hīnam; ētēnādhēyadravyamānaṁ samīkṣyādhārabhūtasya bastēḥ pramāṇaṁ vidhēyamityarthaḥ| pratiṣṭhāpya saṁyōjya| nyubjam adhōmukham| gōmahiṣādibastayō nirūhayantrē yathālābhaṁ saṁyōjyāḥ; uttarabastiyantrē punarajōrabhrabastī ēva yōjanīyāviti||15-17||
tatra dvividhō bastiḥ- nairūhikaḥ, snaihikaśca |
āsthāpanaṁ, nirūha ityanarthāntaraṁ; tasya vikalpō mādhutailikaḥ; tasya paryāyaśabdō yāpanō, yuktarathaḥ, siddhabastiriti |
sa dōṣanirharaṇāccharīranīrōhaṇādvā nirūhaḥ, vayaḥsthāpanādāyuḥsthāpanādvā āsthāpanam |
mādhutailikavidhānaṁ ca nirūhōpakramacikitsitē vakṣyāmaḥ |
yathāpramāṇaguṇavihitaḥ [12] snēhabastivikalpō’nuvāsanaḥ pādāva(pa)kr̥ṣṭaḥ |
anuvasannapi na duṣyatyanudivasaṁ vā dīyata ityanuvāsanaḥ |
tasyāpi vikalpō’rdhārdhamātrāvakr̥ṣṭō’parihāryō mātrābastiriti [13] ||18||
anarthāntaramiti ēkārthamityarthaḥ| bastērnairūhikasnaihikabhēdābhyāṁ yau dvau vikalpau tau nirūhasnēhabastyākhyau, tayōrnairūhikamabhidhāya snaihikaṁ bastivikalpamabhidhattē- yathētyādi| yasya yat pramāṇaṁ yō yō guṇastābhyāṁ vihitaḥ snēhabastyākhyō’nuvāsanasañjña ityarthaḥ| yathāvayōnirūhāṇāmityādinā vidhāsyamānō’pi snēhabastivikalpō’nāgatāvēkṣaṇatantrayuktyā vihita iti pradiṣṭaḥ| yathāpramāṇamityanēna sūcitaṁ pramāṇaṁ prakaṭayannāha- pādāva(pa)kr̥ṣṭa iti|- yathāvaya ityādivakṣyamāṇavākyadarśanādāsthāpanasya pādaistribhirapakr̥ṣṭō hīnaḥ pādāva(pa)kr̥ṣṭaḥ| ayamarthaḥ- sāṁvatsarikādikālādyapēkṣaṁ yat prakuñcādi caturviṁśatipalāvasānaṁ nirūhapramāṇaṁ taccaturthāṁśēna karṣamārabhya ṣaṭpalāni yāvadanuvāsanasya pramāṇamiti| tantrāntarē ca madhyavayaskamāśrityānuvāsanasyōttamādimātrābhēdēna traividhyamuktaṁ, yathā- “ṣaṭpalī tu bhavēcchrēṣṭhā madhyamā tripalī bhavēt| kanīyasyadhyardhapalā tridhā mātrā’nuvāsanē-” iti| tasyāpi vikalpa ityādi tasyāpyanuvāsanasya, ṣaṭpalapramāṇasyārdhārdhamātrāvaśiṣṭaḥ pādāvaśiṣṭō’dhyardhapalamātra ityarthaḥ| aparihāryaḥ avidyamānapariharaṇārhaḥ| gayī tu yathāpramāṇavihitācca bastēḥ pādāṁśaḥ snēhabastiḥ, snēhavikalpō’rdhamātrāpakr̥ṣṭō’nuvāsanaṁ, tasyāpi vikalpō’rdhamātrāpakr̥ṣṭō’parihāryō mātrābastiriti| ētēna tanmatē ṣaṭpalapramāṇaḥ snēhabastiḥ, tadardhēna palatrayapramāṇamanuvāsanaṁ, tasyārdhēna sārdhapalapramāṇō mātrābastiriti||18||
nirūhaḥ śōdhanō lēkhī snaihikō br̥ṁhaṇō mataḥ |19|
phalēnāpi tayōrbhēdaṁ darśayannāha- nirūha ityādi| śōdhanadravyasaṁyuktaḥ śōdhanō nirūhaḥ| sarvanirūhānuvāsanadharmō’yaṁ, dravyaviśēṣasaṁyōgāttu kvacicchōdhanādīnāmutkarṣāpakarṣau| jējjaṭācāryastu ‘snēhanō br̥ṁhaṇō mata’ iti paṭhitvā śōdhanādicatuṣkaṁ nirūhasya karmēti varṇayati|19|-
nirūhaśōdhitānmārgān samyak snēhō’nugacchati |
apētasarvadōṣāsu nāḍīṣviva vahajjalam ||19||
sarvadōṣaharaścāsau śarīrasya ca jīvanaḥ |
tasmādviśuddhadēhasya snēhabastirvidhīyatē ||20||
nirūhaśōdhitamārgēṣu samyak snēhavīryānusaraṇaṁ darśayannāha- nirūhētyādi||19-20||
tatrōnmādabhayaśōkapipāsārōcakājīrṇārśaḥpāṇḍurōgabhramamadamūrcchācchardikuṣṭhamēhōdarasthaulya- śvāsakāsakaṇṭhaśōṣaśōphōpasr̥ṣṭakṣatakṣīṇacatustrimāsagarbhiṇīdurbalāgnyasahā bālavr̥ddhau ca vātarōgādr̥tē kṣīṇā nānuvāsyā nāsthāpayitavyāḥ ||21||
tatrētyādi| bhramaḥ cakrārūḍhasyēva bhramaṇam| madaḥ pūgaphalēnēva mattatā| mūrcchā cētanācyutiḥ| upasr̥ṣṭaśabda unmādādibhiḥ śōphāntaiḥ saha sambandhanīyaḥ| kṣataḥ kṣatōraskaḥ, kṣīṇaḥ kr̥śaḥ| catustrimāsagarbhiṇīti saptamāsān yāvadgarbhiṇī; tathāca vāgbhaṭaḥ- “māsān sapta ca garbhiṇī” (vā. sū. 19)| vātarōgādr̥tē kṣīṇā iti kṣīṇaśabdasya punarupādānādatikr̥śā vātarōgaṁ vinā kṣīṇā nānuvāsyā iti| unmādādiṣu sāmānyēna bastiniṣēdhō’trābhihitaḥ; kēcittu kēṣāñcitpratiprasavamapavādarūpēṇāhuḥ| tatrōnmādāpasmārabhramamadamūrcchāsu sañjñānāśāpagamē śuddhasyāturasya anubandhōpacaraṇāya bastirdēyaḥ, kuṣṭhināmarśasāṁ ca mūḍhavātānāṁ prayōjyaḥ, vātādyudariṣu triṣu niṣiddhō’pi śēṣēṣu pañcasu bastiḥ prayōktavyaḥ, śōthakṣatōraskayōranuvāsananiṣēdhō na nirūhasya; varṣādarvāg bālasya, navatyūrdhvaṁ vr̥ddhasya mr̥durapi bastirniṣiddhaḥ, atō’nyathā tīkṣṇa ēva; ētēnāvasthāvaśānniṣiddhamapi kāryaṁ syāt “utpadyatē hi sā’vasthā dēśakālabalaṁ prati| yasyāṁ kāryamakāryaṁ syāt karma kāryaṁ ca garhitam”- iti||21||
udarī ca pramēhī ca kuṣṭhī sthūlaśca mānavaḥ |
avaśyaṁ sthāpanīyāstē nānuvāsyāḥ kathañcana ||22||
kvacidēvāsthāpanasyāvasthāyāṁ pratiprasavamuddiśannāha- udarī cētyādi| sā cāvasthā tantrāntarādanusartavyā| tatrōdarē vāgbhaṭaḥ- “suviriktasya yasya syādādhmānaṁ punarēva tam| susnigdhairamlalavaṇairnirūhaiḥ samupācarēt-” (vā. ci. 15) iti; ēvaṁ pramēhādiṣu cikitsitamālōkyāsthāpanāvasthā jñātavyā||22||
asādhyatā vikārāṇāṁ syādēṣāmanuvāsanāt |
asādhyatvē’pi bhūyiṣṭhaṁ gātrāṇāṁ sadanaṁ bhavēt ||23||
niṣiddhācaraṇadōṣamuddiśannāha- asādhyatētyādi| ēṣāṁ vikārāṇām udarādīnām| gātrasadanam aṅgaglāniḥ||23||
pakvāśayē tathā śrōṇyāṁ nābhyadhastācca sarvataḥ |
samyakpraṇihitō bastiḥ sthānēṣvētēṣu tiṣṭhati ||24||
pakvāśayādbastivīryaṁ khairdēhamanusarpati |
vr̥kṣamūlē niṣiktānāmapāṁ vīryamiva drumam ||25||
samyak pradattō bastiryēṣu sthānēṣvavatiṣṭhatē tānyāha- pakvāśayē ityādi| kathaṁ tarhi pakvāśayādimātragatō bastiḥ kvacit sarvēṣāmavayavānāmavasādaṁ, kvacit sarvāṅgagatānāṁ dōṣāṇāṁ haraṇaṁ śamanaṁ ca janayatītyāha- pakvāśaya ityādi| pakvāśayādbastivīryaṁ khaiḥ srōtōbhiranusarpati kr̥tsnadēhē; vīryaṁ, śaktiḥ, prabhāva ityanarthāntaram||24-25||
sa cāpi sahasā bastiḥ kēvalaḥ samalō’pi vā |
pratyēti vīryaṁ tvanilairapānādyairvinīyatē ||26||
tiṣṭhaṁstāvadbastirguṇakārī bhavatu, kathaṁ nirgatō’pi tādr̥śaḥ syādityāha- sa cāpītyādi| pratyēti pratyāgacchati| vīryaṁ snēhādiguṇaḥ| apānādyairiti ādyapadēnōdānādayō bōddhavyāḥ| apānēnādhaḥ, udānēnōrdhvaṁ, vyānēna sarvatra, vinīyatē viśēṣēṇa sarvaśarīrāvayavēṣu nīyatē||26||
vīryēṇa bastirādattē dōṣānāpādamastakāt(n) |
pakvāśayasthō’mbaragō bhūmērarkō rasāniva ||27||
sa kaṭīpr̥ṣṭhakōṣṭhasthān vīryēṇālōḍya sañcayān |
utkhātamūlān harati dōṣāṇāṁ sādhuyōjitaḥ ||28||
sakalāvayavagatadōṣaharaṇaṁ bastērēkasthānasthitasyōpamānēna darśayannāha- vīryēṇētyādi| anyē tvatrāmuṁ ślōkaṁ na paṭhanti||27-28||
dōṣatrayasya yasmācca prakōpē vāyurīśvaraḥ |
tasmāttasyātivr̥ddhasya śarīramabhinighnataḥ ||29||
vāyōrviṣahatē vēgaṁ nānyā bastēṟutē kriyā |
pavanāviddhatōyasya vēlā vēgamivōdadhēḥ ||30||
śarīrōpacayaṁ varṇaṁ balamārōgyamāyuṣaḥ |
kurutē parivr̥ddhiṁ ca bastiḥ samyagupāsitaḥ ||31||
dōṣatrayasyētyādi| yathā udadhēḥ samudrasya, pavanāviddhatōyasya anilēnābhugnasalilasya [14] , vēlā kūlamaryādā, vēgaṁ viṣahatē viśēṣēṇa sahatē||29-31||
ata ūrdhvaṁ vyāpadō vakṣyāmaḥ |
tatra nētraṁ vicalitaṁ, vivartitaṁ, pārśvāvapīḍitam, atyutkṣiptam, avasannaṁ, tiryakprakṣiptamiti ṣaṭ praṇidhānadōṣāḥ; atisthūlaṁ, karkaśam, avanataṁ, aṇubhinnaṁ [15] , sannikr̥ṣṭaviprakr̥ṣṭakarṇikaṁ, sūkṣmāticchidram, atidīrgham, atihrasvam [16] , asrimadityēkādaśa nētradōṣāḥ; bahalatā, alpatā, sacchidratā [17] , prastīrṇatā, durbaddhatēti pañca bastidōṣāḥ; atipīḍitatā, śithilapīḍitatā, bhūyō bhūyō’vapīḍanaṁ, kālātikrama iti catvāraḥ pīḍanadōṣāḥ; āmatā, hīnatā, atimātratā, atiśītatā, atyuṣṇatā, atitīkṣṇatā, atimr̥dutā, atisnigdhatā, atirūkṣatā, atisāndratā, atidravatā, ityēkādaśa dravyadōṣāḥ; avākśīrṣōcchīrṣanyubjōttānasaṅkucitadēhasthitadakṣiṇapārśvaśāyinaḥ pradānamiti sapta śayyādōṣāḥ; ēvamētāścatuścatvāriṁśadvyāpadō vaidyanimittāḥ |
āturanimittāḥ pañcadaśa āturōpadravacikitsitē vakṣyantē |
snēhastvaṣṭabhiḥ kāraṇaiḥ pratihatō na pratyāgacchati tribhirdōṣaiḥ, aśanābhibhūtō, malavyāmiśrō, dūrānupraviṣṭō, asvinnasya, anuṣṇō, alpambhuktavatō, alpaścēti vaidyāturanimittā bhavanti |
ayōgastūbhayōḥ, ādhmānaṁ, parikartikā, parisrāvaḥ, pravāhikā, hr̥dayōpasaraṇam, aṅgapragrahō, atiyōgō, jīvādānamiti nava vyāpadō vaidyanimittā bhavanti ||32||
vicalitaṁ viśēṣēṇa kampitam| vivartitaṁ praviṣṭamēva mōṭitam| pārśvāvapīḍitaṁ pārśvayōrvāmadakṣiṇayōravapīḍanam| atyutkṣiptam atiśayēnōrdhvaprēritam| avasannam adhōbhāgagatikam| praṇidhānadōṣā dānadōṣāḥ| sūkṣmāticchidraṁ sūkṣmamukhaṁ, br̥hanmukhamityarthaḥ| asrimaditi asriḥ kōṭiḥ pālirityarthaḥ, dhārāyuktamityanyē| nētradōṣā nirūhayantradōṣāḥ| bahalatā māṁsōpacitatvam, anyē vipulatāmāhuḥ| prastīrṇatā snāyujālavattvam| kālātikrama iti kālasyātidrutavilambitasyātikramō vilambitadānēnōllaṅghanam [18] | tatrātiśithilapīḍanē samyakpīḍanakālasyēṣadatikramaḥ, kālātikramē ca samyakpīḍanakālasya mahānatikrama iti bhēdaḥ| āmatētyādi| āmaḥ apakvasnēhaḥ| ēkādaśa dravyadōṣā yathāsambhavaṁ snēhabastinirūhōbhayāśritā jñātavyāḥ| avākśīrṣētyādi| avākśīrṣa adhōmastakaḥ, ucchīrṣaka ūrdhvamastakaḥ, nyubjaḥ adhōmukhaḥ, sthita upaviṣṭaḥ| avākśīrṣādayaḥ sapta śayyāsthitapuruṣasya dōṣāḥ, upacārēṇa śayyāyāḥ pratipādyantē| snēha ityādi| ubhayōriti nirūhānuvāsanayōḥ| ētaduktaṁ bhavati- ayōgādivyāpatsu kāścidvyāpannirūhāśritāḥ, kāścidanuvāsanāśritāḥ, kāścidubhayāśritā iti||32||
bhavati cātra-
ṣaṭsaptatiḥ samāsēna vyāpadaḥ parikīrtitāḥ |
tāsāṁ vakṣyāmi vijñānaṁ siddhiṁ ca tadanantaram ||33||
vijñānaṁ lakṣaṇam| siddhiṁ cikitsitam||33||
iti suśrutasaṁhitāyāṁ cikitsāsthānē nētrabastipramāṇapravibhāgacikitsitaṁ nāma pañcatriṁśō’dhyāyaḥ ||35||
iti śrīḍalha(hla)ṇaviracitāyāṁ nibandhasaṅgrahākhyāyāṁ suśrutavyākhyāyāṁ cikitsāsthānē pañcatriṁśattamō’dhyāyaḥ||35||
1. ‘pramāṇavibhāgaḥ’ iti pā.|
2. ‘…manyāgrahārśōśmarī…’ iti pā.|
3. ‘varṣōttarēṣu’ iti pā.|
4. ‘samīkṣya vardhayēdvidhim’ iti pā.|
5. ‘sārdhāṅgulasanniviṣṭakarṇikaṁ’ iti|
6. ‘sārdhadvyaṅgulasanniviṣṭakarṇikaṁ’ iti pā.|
7. ‘barhiṇō mayūrāḥ’ iti pā.|
8. ‘tanmadhyavartivarṣāṇāṁ’ iti pā.|
9. ‘hārāṇacandrastu amuṁ pāṭhaṁ na paṭhati|
10. ‘bastayaścāvr̥ddhānāṁ’ iti pā.|
11. ‘grahaṇayōgyaṁ svabhāvamuddiśya bastēḥ’ iti pā.|
12. ‘yathāpramāṇavihitaḥ’ iti, ‘yathāpramāṇagaṇavihita’ iti ca pā.|
13. ‘ardhārdhamātrāvaśiṣṭaḥ’ iti pā.|
14. ‘anilēnātyugrasalilasya’ iti pā.|
15. ‘aṇu, bhinnaṁ’, iti pā.|
16. ‘atihrasvamityēkādaśa’ iti pā.|
17. ‘bhinnatā’ iti pā.|
18. ‘vilambitadānēnātivāhanam’ iti pā.|