Aṣṭāṅgahṛdaya – Śārīrasthāna | Adhyāya 06 – Dūtādivijñānīya

eSamhita: A Scholarly Digital Initiative of Ayurveda360

Table of Contents

Devanagari Version

श्रीमद्वाग्भटविरचितम्

अष्टाङ्गहृदयम्

श्रीमदरुणदत्तविरचितया 'सर्वाङ्गसुन्दराख्या' व्याख्यया हेमाद्रिप्रणीतया 'आयुर्वेदरसायनाह्वया' टीकया च समुल्लसितम्

शारीरस्थानम् - ६. दूतादिविज्ञानीयोध्यायः

Only Moolashloka

विकृतिविज्ञानीयाध्यायादनन्तरं दूतादिविज्ञानीयाध्यायारम्भेऽयं सम्बन्धः| उक्तमायुःप्रमाणं स्वस्थातुराणां रूपेन्द्रियस्वरच्छायादिविकृतिलक्षणैः प्रतिनियतविशिष्टव्याधिलक्षणैरपि| अयं पुनरध्यायो दूताद्याश्रयैः शुभाशुभनिमित्तैः शुभाशुभं सूचयितुमारभ्यते _

अथातो दूतादिविज्ञानीयं शारीरं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः|
गद्यसूत्रे||२||

दूतः-स्त्रीपुरुषादिर्य आतुरेण प्रेष्यते स कथ्यते| दूत आदिर्येषां ते दूतादयः| आदिग्रहणाद्वैद्यस्य गृहान्निर्गच्चतः पथि गच्चतो यावदातुरगृहे प्रवेशः, प्रविष्टस्यापि यानि शुभा शुभसूचकानि निमित्तानि दृश्यन्ते श्रूयन्ते च, तेषां परिग्रहः| दूतादीनां विज्ञानं दूतादिविज्ञानम्| यथैते दूतादयः शुभा एतेऽशुभा इति विशिष्टं-निश्चितं, ज्ञानं-अवबोधः, परिच्चेद इत्यर्थः| तस्मै हितो दूतादिविज्ञानीयः| शेषं पूर्ववद्व्याख्येयम्|

पाखण्डाश्रमवर्णानां सवर्णाः कर्मसिद्धये|
त एव विपरीताः स्युर्दूताः कर्मविपत्तये||१||

पाखण्डः-षण्णवतिभेदभिन्नो व्रात्यविशेषः| आश्रमाः-ब्रह्मचारिगृहस्थभिक्षुवैखानसभेदेन चत्वारः| वर्णाः-ब्राह्मणक्षत्रियविट्शूद्राश्चत्वारः| ते च प्रतिलोमानुलोमतो बहवः| तेषां पाखण्डादीनां ये सवर्णाः-समानवर्णास्तुल्यजातयो, दूतास्ते च कर्मसिद्धये-कर्मसिध्द्यर्थं भवन्ति, कर्मसिद्धिं सूचयन्तीत्यर्थः यथा-पाखण्डस्य पाखाण्डो दूतः, ब्रह्मचारिणो ब्रह्मचारी, गृहस्थस्य गृहस्थो, वानप्रस्थस्य वानप्रस्थो, भिक्षोर्भिक्षुः यावच्चूद्रस्य शूद्रः शुभ इति| त एव-पाखण्डादयो, विपरीताः-विजातीयाः सवर्णा ये न भवन्ति ते, कर्मविपत्तये-चिकित्सानैष्फल्यायभवन्ति, चिकित्सानैष्फल्यं सूचयन्तीत्यर्थः|

दीनं भीतं द्रुतं त्रस्तं रूक्षामङ्गलवादिनम्|
शस्त्रिणं दण्डिनं षण्ढं मुण्डश्मश्रुजटाधरम्||२||
अमङ्गलाह्वयं क्रूरकर्माणं मलिनं स्त्रियम्|
अनेकं व्याधितं व्यङ्गं रक्तमाल्यानुलेपनम्||३||
तैलपङ्काङ्कितं जीर्णविवर्णार्द्रैकवाससम्|
खरोष्ट्रमहिषारूढं काष्ठलोष्टादिमर्दिनम्||४||
नानुगच्चेद्भिषग्दूतमाह्वयन्तं च दूरतः|
—————————————————|५|

सवर्णमपि दूतं दीनभीतादिविशेषणविशिष्टं यावत्काष्ठलोष्टादिमर्दिनं भिषग् दृष्ट्वा नानुगच्चेच्चिकित्सानैष्फल्यादिति| रूक्षवादिनं-परुषभाषिणम्| अमङ्गलवादिनं-मरिष्यत्यसौ पतिष्यति न जीवतीत्याद्यभङ्गलवादी, तम्| तथा, षण्ढं-नपुंसकम्| तथा, मुण्डं-कृतवपनं, श्मश्रु-मुखव्यञ्जनं, यस्य स एवम्| मुण्डश्मश्रुश्चासौ जटाधरश्च तम्| तथा, अमङ्गलः-अकल्याणः, आह्वयो-नाम, यस्य तम्| व्यङ्गं-हीनाङ्गम्| तैलपङ्काभ्यामङ्कितं-दिग्धम्| तथा, जीर्णादिकं वासो यस्य तम्| तथा, दूरादाह्वयन्तं-आकारयन्तं, नानुयायात्|

—————————————————|
अशस्तचिन्तावचने नग्ने चिन्दति भिन्दति||५||
जुह्वाने पावकं पिण्डान् पित्तृभ्यो निर्वपत्यपि|
सुप्ते मुक्तकचेऽभ्यक्ते रुदत्यप्रयते तथा||६||
वैद्ये दूता मनुष्याणामागच्चन्ति मुमूर्षताम्|
—————————————————|७|

चिन्ता च वचनं च चिन्तावचने, अशस्ते चिन्तावचने यस्येति मत्वर्थे बहुव्रीहिः| वैद्येऽशस्तचिन्तां कुर्वति, अशस्त वचनं चोच्चारयति| मनुष्याणां मुमूर्षतां-आसन्नमृत्यूनां, सम्बन्धिनो दूता आयान्ति| मुमूर्षतामिति “आशङ्कायामुपसङ्ख्यानम् (यां सन् वक्तव्यः) ” इति सन्| “म्रियतेर्लुङ्ह्लिङोश्च” इति नियमादात्मनेपदाभावः| तथा च किम्भूते ? नग्ने-विवस्त्रे, चिन्दति भिन्दति किञ्चित्| तथा, पावकं-अग्निं जुह्वाने, पितृभ्यश्च पिण्डान् निर्वपति-अनुप्रयच्चति, यावदप्रयतेअशुचौ| मनुष्याणामित्युपलक्षणम्, स्त्र्यादयोऽपीह गृह्यन्त एव|

—————————————————|
विकारसामान्यगुणे देशे कालेऽथवा भिषक्||७||
दूतमभ्यागतं दृष्ट्वा नातुरं तमुपाचरेत्|
—————————————————|८|

विकारेण-ज्वरादिना, सामान्यः-तुल्यो, गुणो यस्यासौ विकारसामान्यगुणः, तस्मिंस्तथाविधे, देशे काले वा दूतमभ्यागतं-सम्मुखमागच्चन्तं, दृष्ट्वा भिषक्तमातुरं-दूतस्य प्रेषकं, नोपचरेत्| यथा,-कफजे ज्वरादावामये घृतोदकादिद्रवसमीपे देशेऽनूपे वा काले वा प्रत्युषस्यागतो दूतोऽशुभः| पित्तामये वह्न्यादिना सन्तप्ते देशे काले मध्याह्ने दूतोऽशुभः| वाररोगे परुषरूक्षसिकतापाषाणशर्करादिविशिष्टे देशे काले सायाह्ने दूतोऽशुभः| विपरीतस्तु शुभः| चर्दिमेहातीसारादिषु सेतुभङ्गोऽशुभः| एष्वेव सेतुवन्धः शुभः|

—————————————————|
स्पृशन्तो नाभिनासास्यकेशरोमनखद्विजान्||८||
गुह्यपृष्ठस्तनग्रीवाजठरानामिकाङ्गुलीः|
कार्पासबुससीसास्थिकपालमुशलोपलम्||९||
मार्जनीशूर्पचैलान्तभस्माङ्गारदशातुषान्|
रज्जूपानत्तुलापाशमन्यद्वा भग्नविच्युतम्||१०||
तत्पूर्वदर्शने दूता व्याहरन्ति मरिष्यताम्|
—————————————————|११|

तदित्यनेन वैद्यः परामृश्यते| तस्य पूर्वदर्शनं-प्रथमदर्शनं, तस्मिन् सति तत्काल एव, मरिष्यतां-आसन्नमरणानां, सम्बन्धिनो दूता नाभ्याति स्पृशन्तो व्याहरन्ति| “लक्षणहेत्वोः क्रियायाः” इति हेतावत्र शतृप्रत्ययः| नाभ्यादिस्पर्शनं हि मुमूर्षुदूतव्याहरणस्य हेतुः| मुमूर्षोर्वयं दूता इति प्रतिपादयन्तीत्यर्थः| अनामिकाङ्गुलिः-कनीयसीनिकटस्थिता| दशा-वस्त्रवर्तिः| उपानत्-चर्मपादुका| तुला-मानविशेषः| न केवलं नाभ्यादि स्पृशन्तोऽपरमपि च भग्नविच्युतं च स्पृशन्त इति योज्यम्|

——————————————————|
तथाऽर्धरात्रे मध्याह्ने सन्ध्ययोः पर्ववासरे||११||
षष्ठीचतुर्थीनवमीराहुकेतूदयादिषु|
भरणीकृत्तिकाऽऽश्लेषापूर्वाऽऽर्द्रापैत्र्यनैॠते||१२||

नाभ्यादिकमस्पृशन्तोऽप्यर्धरात्रादिष्वागच्चन्तो मरिष्यतां दूता व्याहरन्ति| अर्धरात्र इति “अहःसर्वैकदेश” इत्यत्र चकारादच् समासान्तः| आगच्चन्त इत्यत्रापि योज्यम्| पैत्र्यनैॠत इति मघामूलाख्ये नक्षत्रे| आदिशब्देनोत्पातदर्शनकृष्णचतुर्दश्यादयो गृह्यन्ते| सङ्ग्रहेऽप्युक्तम् (श. अ.१२)- “मध्याह्नोभयसन्ध्यार्धरात्रचतुर्थीषष्ठीनवमीपर्वदिनेषु ग्रहोपरागोत्पातदर्शनभरणीकृत्तिकार्द्राऽऽश्लेषामघामूलपूर्वासु चाशुभः|” इति|

यस्मिंश्च दूते ब्रुवति वाक्यमातुरसंश्रयम्|
पश्येन्निमित्तमशुभं तं च नानुव्रजेद्भिषक्||१३||

यस्मिन् दूते आतुरसंश्रयं-आतुरप्रतिबद्धं, वाक्यं ब्रुवति सत्यशुभं निमित्तं भिषक् पश्येत्| तं-दूतमातुरचिकित्सार्थमागतं, नानुव्रजेत्|

किम् तदशुभं निमित्तम् ? इत्याह —-

तद्यथा विकलः प्रेतः प्रेतालङ्कार एव वा|
चिन्नं दग्धं विनष्टं वा तद्वादीनि वचांसि वा||१४||
रसो वा कटुकस्तीव्रो गन्धो वा कौणपो महान्|
स्पर्शो वा विपुलः क्रूरो यद्वाऽन्यदपि तादृशम्||१५||
तत्सर्वमभितो वाक्यं वाक्यकालेऽथवा पुनः|
दूतमभ्यागतं दृष्ट्वा नातुरं तमुपाचरेत्||१६||

तद्यथाशब्दोऽशुभनिमित्तसंदर्शनसम्बन्धार्थः| विकलः-अङ्गहीनः काणकुण्ठादिकः| प्रेतो-मृत एव| प्रेतालङ्कारो यो मृतस्यानुलेपनवस्त्रादिनाऽलङ्कारो विधीयते| चिन्नं-रज्ज्वादिकम्| दग्धं-वस्त्रादिकम्| विनष्टं वा-घटभाजनादिकम्| तद्वादीनि-चिन्नदग्धविनष्टवाचकानि, वचांसि-वचनानि, श्रोत्रेण श्रूयन्ते| रसो वा कटुकस्तीव्र इत्यनेन रसाधारं द्रव्यमनाहारप्रतिबद्धमुपलक्षयते| रसो हि रसनेन्द्रियग्रह्य एव| तस्मात् कटुकरसाधिष्ठितं द्रव्यं मरिचादि कटुकरसशब्देनेह गृह्यते| लोकेऽपि रसेन द्रव्यं व्यपदिश्यत एव| यथा-इदं मधुरं द्रव्यमिदमम्लमिति| तदेवमुत्कटकटुकरसाधिष्ठितं द्रव्यं यदा चक्षुषा गृह्यते वैद्येन, तदा न शुभम्| तीव्रग्रहणादतीव्रस्य कुठेरकादेर्निरासः| गन्धश्च कौणपो-महान् दुर्गन्धोऽतिशयेन, तत्काल एव घ्राणेन्द्रियेण गृह्यते, स्पर्शो वा विस्तीर्णः क्रूरः-अतिदुःसहः, तत्काल एवाग्न्यादिसम्बन्धी स्पर्शनेन्द्रियेण गृह्यते, सोऽशुभः| यद्वेति| अथवाऽपरमपि यत्तादृशंविकलाद्यशुभनिमित्तसदृशमनिर्दिष्टमपि रक्तकरवीरकुसुमादिकं, तत्सर्वं वाक्यमभितः-आतुराश्रयाद्वाक्यादग्रे, अथवा वाक्यकाले-आतुराश्रयावाक्यमध्ये विकलाद्यशुभनिमित्तं तदानीमप्यशुभसूचकत्वात् तस्मिन् काले, दूतमभ्यागतं-आभिमुख्येन तत्कालमेवागतं, दृष्ट्वा येनासौ प्रेषितो दूतस्तमातुरं नोपाचरेत्|

अथान्यदप्यशुभं निमित्तमाह—-

हाहाक्रन्दितमुत्क्रुष्टमाक्रुष्टं स्खलनं क्षुतम्|
वस्त्रातपत्रपादत्रव्यसनं व्यसनीक्षणम्||१७||
चैत्यध्वजानां पात्राणां पूर्णानां च निमज्जनम्|
हतानिष्टप्रवादाश्च दूषणं भस्मपांसुभिः||१८||
पथःच्चेदोऽहिमार्जारगोधासरठवानरैः|
दीप्तां प्रति दिशं वाचः क्रूराणां मृगपक्षिणाम्||१९||
कृष्णधान्यगुडोदश्विल्लवणासवचर्मणाम्|
सर्षपाणां वसातैलतृणपङ्केन्धनस्य च||२०||
क्लीबक्रूरश्वपाकानां जालवागुरयोरपि|
चर्दितस्य पुरीषस्य पूतिदुर्दर्शनस्य च||२१||
निःसारस्य व्यवायस्य कार्पासादेररेरपि|
शयनासनयानानामुत्तानानां तु दर्शनम्||२२||
न्युब्जानामितरेषां च पात्रादीनामशोभनम्|
———————————————–|२३|

हाहाक्रन्दितमित्यादिकमशोभनमिति वक्ष्यमाणेन सम्बन्धः| हाहेति क्रन्दितं-रुदितं क्वणनं हाहाक्रन्दितम्| तथा, उत्क्रुष्टं उच्चैः कृत्वा क्रुष्टं, आक्रुष्टं-आक्रोशः| स्खलनं-पतनं, वैद्यस्याऽन्यस्य वा| क्षुतं-चिक्का| वस्त्रादीनां-वैद्यस्य सम्बन्धिनां, व्यसनं-विनाशः| व्यसनिनां-आपद्गतानां, ईक्ष्णं-आलोकनं, न शोभनमिति सर्वत्र योज्यम्|

चैत्यादीनां निमज्जनं-पतनं ब्रुडनं च| तथा, हत इत्येवंरुपाणामनिष्टानां-अमङ्गलानां, प्रवादाः-उच्चैरुच्चरितानि वाक्यानि| दूषणं भस्मपांसुभिः-वैद्यस्यैव पथि गच्चतो भस्मना पांसुना व विकिरणमशोभनम्, कर्मसिद्ध्यभावादातुरस्यापि मरणसूचकत्वात्| एवमन्यत्राप्युभयोरशोभनत्वं योज्यम्| पथःच्चेद इति मार्गस्य चेदः| कैः ? सर्पमार्जारादिभिः| सरठः-सर्पसदृशी रक्तवर्णादिमुखी प्राणिजातिश्चक्रलण्ड इत्यपरपर्य़ायः|

यस्यां दिशि सूर्यः स्थितः सा दीप्ता भण्यते| तथा चोक्तम् “अङ्गारिण्यर्कनिर्मुक्ता, दीप्ता तस्यां दिवाकरः| प्रधूमितैष्यर्सूर्या वै, शान्ताः पञ्चेतरा दिशः||” इति| दीप्तां दिशं प्रति या वाचो-वाण्यः, क्रूराणां-क्रव्यभुजां, मृगाणां-द्वीपिशृगालादीनां, पक्षिणां-गृध्रश्येनादीनां, ता अशोभना इति लिङ्गविपरिणामेन सम्बन्धः|

कृष्णधान्यादीनां यद्दर्शनं वैद्यस्य पथि गच्छत आतुरगृहे प्रविशतो वा तदशोभनम्, अशुभसूचकत्वात्| उदश्वित्-तक्रम्| सर्षपो-रक्ताभासः| क्रूरो-निष्ठ्रुरवादी| श्वपाकः-चाण्दालः| जालं-आनायः| वागुरा-मृगबन्धनी| पूतिः-दुर्गन्धिः| दुर्दर्शनः-करालाकृतिः| निःसारस्य-व्यपेतसारस्य वस्तुनः| व्यवायस्य-मैथुनस्य| कार्पासादेरित्यादिशब्देन कार्पासबुससीसादेर्दूतचिन्तानिर्दिष्टस्य (श्लो. ९) ग्रहणम्| कार्पासादेः पदार्थस्य दर्शनं पथि गच्चत आतुरगृहं प्रविशतो वाऽशोभनम्| अरेर्दर्शनमशोभनम्| प्रकृतत्वाद्वैस्द्यस्यात्मशत्रुदर्शनम्| तथा, शयनादीनामुत्तानानां-ऊर्ध्वमुखस्थितपादानां दर्शनम्, तथेतरेषां-पात्रादीनां घटशरावोदञ्चनादीनामधोमुखानां, दर्शनमशोभनम्|

———————————————————–|
पुंसंज्ञाः पक्षिणो वामाः स्त्रीसंज्ञा दक्षिणाः शुभाः||२३||
प्रदक्षिणं खगमृगा यन्तो, नैवं श्वजम्बुकाः|
———————————————————|२४|

पुंसंज्ञाः-पुंनामानः, पक्षिणो-वर्तकादयो, वामस्थिताः प्रशस्ताः| स्त्रीनामानो-बलाकासारिकादयो, दक्षिणस्थिताः शुभाः|

प्रदक्षिणमिति वामाद्दक्षिणं गच्छन्तः खगमृगाः शुभाः| खगाः-काकापारावतादयः| मृगाः-हरिणैणादयः|

यान्तो नैवं श्वजम्बुकाः,-किन्तर्हि ? दक्षिणाद्वामं गच्चन्तः शुभा इत्यर्थः|

———————————————————|
अयुग्माश्च मृगाः शस्ताः शस्ता नित्यं च दर्शने||२४||
चाषभासभरद्वाजनकुलच्चागबर्हिणः|
———————————————————|२५|

अयुग्माः-पञ्चसप्ता पि(दयो), मृगाः शुभाः|
चाषादयो मयूरान्ता नित्यं दर्शने-वामतो दक्षिणतो वा, शस्ताः|

———————————————————|
अशुभं सर्वथोलूकबिडालसरठेक्षणम्||२५||

सर्वथा-सर्वेण प्रकारेण वामतो दक्षिणतो वा युग्मानाम युग्मानां वा, उलूकादीनां दर्शनमशुभम्| कीर्तने तु प्रशस्ता इत्येके|

प्रशस्ताः कीर्तने कोलगोधाहिशशजाहकाः|
न दर्शने न विरुते, वानरर्क्षावतोऽन्यथा||२६||

धनुरैन्द्रं च लालाटमशुभं, शुभमन्यतः|
अग्निपूर्णानि पात्राणि भिन्नानि विशिखानि च||२७||

एन्द्रं धनुर्लालाटं-अभिमुखं, अशुभम्| अन्यतः-पुरःस्थितं सम्मुखं वर्जयित्वा तिर्यक् पृष्ठतो वा स्थितं, शुभम्| लालाटमिति भवार्थे अण्| लालाटशब्देनेह ललाटसमीपो देशो लक्ष्यते, सम्मुखमित्यर्थः| पात्राण्यग्निपूर्णान्यशोभनानि| तथा बिन्नानि-भग्नानि| तथा, विशिखानि-अन्तःशून्यानि| न शुभानीति वचनविपरिणामेन सम्बन्धः|

वैद्यस्यातुरगृहप्रवेशे शुभाशुभसूचकानि निमित्तान्याह—-

दध्यक्षतादि निर्गच्छद्वक्ष्यमाणं च मङ्गलम्|
वैद्यो मरिष्यतां वेश्म प्रविशन्नेव पश्यति||२८||

आदिशब्देनेक्षुनिष्पावादिपरिग्रहः| दध्यक्षतावादी (ता आदयो) यस्य मङ्गलस्य तदेवम्| वैद्यः प्रविशन्नेव-तत्काल एव, आतुरगृहाद्दध्यक्षतादि-यद्वक्ष्यमाणं, तन्निर्गच्चत्-निःसरत्, मरिष्यतां-आसन्नमरणानां, पश्यति|

दूताद्यसाधु दृष्ट्वैवं त्यजेदार्तमतोऽन्यथा|
करुणाशुद्धसन्तानो यत्नतस्तमुपाचरेत्||२९||

एवं-पूर्वोक्तेन प्रकारेण, दूताद्यसाधु-अशुभं पूर्वनिर्दिष्टं, दृष्ट्वा आर्तं-आतुरं, त्यजेत्-न चिकित्सेत्| आदिशब्देन शकुनादेर्ग्रहणम्| अतोऽन्यथेति दूतादि शुभं दृष्ट्वा, तं आतुरं, वैद्यो यत्नेन समुपाचरेत्| किम्भूतः ? करुणाया शुद्धं निर्मलं, सन्तानं-चेतो, यस्य स एवंभूतः सन्|

अथ तदेव दध्यक्षताद्याह—-

दध्यक्षतेक्षुनिष्पावप्रियङ्गुमधुसर्पिषाम्|
यावकाञ्जनभृङ्गारघण्टादीपसरोरुहाम्||३०||
दूर्वार्द्रमत्स्यमांसानां लाजानां फलभक्षयोः|
रत्नेभपूर्णकुम्भानां कन्यायाः स्यन्दनस्य च||३१||
नरस्य वर्धमानस्य देवतानां नृपस्य च|
शुक्लानां सुमनोवालचामराम्बरवाजिनाम्||३२||
शङ्खसाधुद्विजोष्णीषतोरणस्वस्तिकस्य च|
भूमेः समुद्धतायाश्च वह्नेः प्रज्वलितस्य च||३३||
मनोज्ञस्यान्नपानस्य पूर्णस्य शकटस्य च|
नृभिर्धेन्वाः सवत्साया वडावाय़ाः स्त्रिया अपि||३४||
जीवञ्जीवकसारङ्गसारसप्रियवादिनाम्|
हंसानां शतपत्राणां बद्धस्यैकपशोस्तथा||३५||
रुचकादर्शसिद्धार्थरोचनानां च दर्शनम्|
गन्धः सुसुरभिर्वर्णः सुशुक्लो मधुरो रसः||३६||
गोपतेरनुकूलस्य स्वनस्तद्वद्गवामपि|
मृगपक्षिनराणां च शोभिनां शोभना गिरः||३७||
छत्रध्वजपताकानामुत्क्षेपणमभिष्टुतिः|
भेरीमृदङ्गशङ्खानां शब्दाः पुण्य़ाहनिःस्वनाः||३८||
वेदाध्ययनशब्दाश्च सुखो वायुः प्रदक्षिणः|
पथि वेश्मप्रवेशे च विद्यादारोग्यलक्षणम्||३९||

दध्यक्षतादीनां दर्शनं ‘पथि वेश्मप्रवेशे च विद्यादारोग्यलक्षणम्|’ इति वक्ष्यमाणेन सम्बन्धः| अक्षताः-यवाः, अखण्डितास्तण्डुला इत्यन्ये, धान्यमेवाखण्डितमक्षतशब्दवाच्यमित्यपरे| यावकं-अलक्तकः| भृङ्गारः-कनकालुका| अर्द्रमत्स्याः, आर्द्रमांसम्| आर्द्रग्रहणमत्र शुष्कपरिहारार्थम्| भक्षंमोदकादि| पद्मरागादिकं-रत्नम्| इभो-हस्ती| नरस्येति शौर्यत्यागप्रज्ञाराजसत्कारादिभिर्वधमानः-प्रतिदिनमुपचयं गतः, तथाविधस्य पुरुषस्य दर्शनं शुभम्| शुक्लानां सुमनःप्रभृतीनां दर्शनं शुभम्| बालचामरं-केशप्रकीर्णकम्| वाजी-तुरङ्गः| उष्णीषं-शिरोवेष्टनम्| मनोज्ञस्य-हृदयहारिणोऽन्नपानस्य| शकटस्य-रथस्य, नृभिः-नरैः, पूर्णस्य-सम्भृतस्य| धेन्वा इत्यादि| स्त्रिया अपीत्यपिशब्दः समुच्चये| यथा धेन्वाः सवत्साया दर्शनमेवं वडवायाः स्त्रियाश्च सवत्सायाः-सापत्याया इति| रुचिको-वलयः, आभरणविशेषः| सिद्धार्थो-गौरसर्षपः| गन्धः-सुष्ठु सुरभिः| वर्णः सुष्ठु शुक्लः-सितः| रसो मधुरः| गोपतेः-वृषभस्य, अनुकूलस्य-अकुपितस्य, स्वनःशब्दः| तद्वत्-गोपतिना तुल्यो, गवामप्यनुकूलानां शब्द इत्यर्थः| तथा, शोभिनां-प्रशस्तानां मृगादीनां, प्रशस्ता गिरः| विद्यादारोग्यलक्षणमिति योज्यम्| मृगपक्षिनरा ह्यशोभिनोऽपि शृगालोलूकपुल्कसचाण्डालादयः सन्ति, तड्यवच्चेदनार्थं शोभिनामिति विशेषणम्| शोभिनामपि मृगादीनां क्षामरोगार्तामिहतानामशोभना वाचः स्युः तत्त्यागार्थं शोभना इति विशेषणम्| चत्रादीनामुत्क्षेपणं-उत्थापनम्| पताका-वैजयन्ती| अभिष्टुतिः-प्रयाणकाले जनेन स्तुतिर्जयजयेत्यादिशब्दपूर्वाऽभिमुखमुच्चारिता| तथा, भेर्यादीनां शब्दाः, पुण्याहनिःस्वनाः-प्रशस्तशब्दा| अरोग्याय, न त्वप्रशस्तनिःस्वनाः प्रेतपटहादिजाः| वेदाध्ययनस्य-वेदपाठस्य, ये शब्दास्ते च शुभाः| प्रदक्षिणः-अनुकूलो, वायुः सुखः-सुखावहः| पथि वेश्मप्रवेशे चैतदारोग्यलक्षणं विद्यात्|

इत्युक्तं दूतशकुनं स्वप्नानूर्ध्वं प्रचक्षते|
———————————————————|४०|

इत्येवमर्थे परिसमाप्तौ वा| दूतः-स्त्रीपुरुषादिः, इत्यादि प्रागुक्तम्| तथा, चेतनाचेतनरूपः शुभाशुभसूचको दूतवर्जितो लोकप्रसिद्धः-शकुन उक्तः| यथा (श्लो. १७)-“हाहाक्रन्दितं” इत्यादि| इति-एवं, उक्तं-अभिहितम्|
अतो दूतशकुनादूर्ध्वं-अनन्तरं, स्वप्नान् प्रचक्षते-सम्यग् भणिष्यति, तन्त्रकार इति शेषः| स्वप्नलक्षणमष्टङ्गसङ्ग्रहे कथितम्| यथा (सू. अ. ९)- “सर्वेन्द्रियव्युपरतौ मनोऽनुपरतं यदा| विषयेभ्यस्तदा स्वप्नं नानारूपं प्रपश्यति||” इति| तथा (सं. सू. अ. ९)- “श्लेष्मावृतेषु स्रोतःसु श्रमादुपरतेषु च| इन्द्रियेषु स्वकर्मभ्यो निद्राऽऽविशति देहिनम्||” इति निद्रालक्षणम्|

———————————————————|
स्वप्ने मद्यं सह प्रेतैर्यः विपन् कृष्यते शुना||४०||
स मर्त्यौ मृत्युना शीघ्रं ज्वररूपेण नीयते|
———————————————————|४१|

यो मर्त्यः-पुरुषः, स्वप्ने-स्वप्नावस्थायां, प्रेतैः सह मद्यं पिबन् शुना कृष्यते-आक्रम्यते, स मृत्युना ज्वररूपेण शीघ्रं अहिरात् कतिपयैरेव दिवसैः, नीयते, लिकान्तरमिति शेषः|

———————————————————|
रक्तमाल्यवपुर्वस्त्रो यो हसन् ह्रियते स्त्रिया||४१||
सोऽस्रपित्तेन————————————–|
———————————————————|४२|

रक्तमाल्यो रक्तवपू रक्तवस्त्रश्च यो मर्त्यो हसन् स्त्रिया स्वप्ने ह्रियते-आकृष्यत आक्रम्यते, सोऽस्रपित्तेन मृत्युना शीघ्रं नीयते|

———————–महिषश्वराहोष्ट्रगर्दभैः|
यः प्रयाति दिशं याम्यां मरणं तस्य यक्ष्मणा||४२||

यो महिषादिभिः करणभूतैर्याम्यां दक्षिणां दिशं, स्वप्ने प्रयाति, तस्य यक्ष्मणा मरणं भवति|

लता कण्टकिनी वंशस्तालो वा हृदि जायते|
यस्य तस्याशु गुल्मेन———————–|४३|

मर्त्य इति प्रथमान्तोऽपीहार्थवशात् षष्ठ्यन्तः सम्बध्यते| यस्य मर्त्यस्य स्वप्ने कण्टकयुक्ता लता हृदये जायते, वंशो वा-अथवा तालः, तस्य शीघ्रं गुल्मेन मरणं भवेत्| सङ्ग्रहेत्वेवमुक्तम् (शा. अ. १२)- “यस्य कण्टकिनी लता वंश स्तालो वा हृदि जायते स गुल्मेन| यस्य तु शिरसि स शिरोरोगेण शस्त्रेण वा शिरःच्चेदनेन|” इति|

———————————————————|
————————————यस्य वह्निमनर्चिषम्||४३||
जुह्नतो घृतसिक्तस्य नग्नस्योरसि जायते|
पद्मं स नश्येत्कुष्ठेन——————————-|४४|

यस्य मर्त्यस्य नग्नस्याज्याभ्यक्तस्य वह्निमनर्चिषं-ज्वालारहितं, जुह्नत उरसि पद्मं स्वप्ने जायते, स नरः कुष्ठेन नश्येत्|

———————————————————|
———————————चण्डालैः सह यः पिबेत्||४४||
स्नेहं बहुविधं स्वप्ने स प्रमेहेण नश्यति|
———————————————————|४५|

चण्डालैः सह बहुविधं-अनेकप्रकारं, स्नेहं-घृततैलादिकं, यो मर्त्यः स्वप्ने पिबेत्, स प्रमेहेण नश्यति| स्वप्ने प्रकृतेऽपि पुनः स्वप्नग्रहणं कृतं स्पष्टार्थम्|

———————————————————|
उन्मादेन जले मज्जेद्यो नृत्यन् राक्षसैः सह||४५||

उन्मादेन स नश्यति, यो राक्षसैः सह नृत्यन् जले मज्जेत्|

अपस्मारेण यो मर्त्यो नृत्यन् प्रेतेन नीयते|
———————————————————|४६|

स मर्थ्योऽपस्मारेण नश्यति, यो नृत्यन् प्रेतेन स्वप्ने नीयते|

———————————————————|
यानं खरोष्ट्रमार्जारकपिशार्दूलसूकरैः||४६||
यस्य प्रेतैः शृगालैर्वा स मृत्योर्वर्तते मुखे|
———————————————————|४७|

यस्य नरस्य स्वप्ने खरादिभिर्यानं भवति, स मृत्योर्मुखाभ्यन्तरे वर्तते, अत्यासन्नविनाशत्वात्|

————————————————–|
अपूपशष्कुलीर्जग्ध्वा विबुद्धस्तद्विधं वमन्||४७||
न जीवति———————————————|
———————————————–|४८|

अपूपान् शष्कुलीर्वा जग्ध्वा-भक्षयित्वैवं स्वप्ने दृष्ट्वा, विबुद्धः सन् तद्विधं-अपूपशष्कुलिप्रायमेव, वमेत्-उद्गिरेत्, स न जीवति|

———-अक्षिरोगाय सूर्यन्दुग्रहणेक्षणम्|
———————————————–|४८|

सूर्यचन्द्रयोर्ग्रहणदर्शनमक्षिरोगाय|

———————————————–|
सूर्याचन्द्रमसोः पातदर्शनं दृग्विनाशनम्||४८||

स्वप्ने सूर्याचन्द्रमसोः पतनदर्शनं मर्त्यस्य दृष्टिविनाशनम्| सूर्याचन्द्रमसोरिति “देवताद्वन्द्वे च” इत्यानङादेशः|

मूर्ध्नि वंशलतादीनां सम्भवो वयसां तथा|
निलयो मुण्डता काकगृध्राद्यैः परिवारणम्||४९||
तथा प्रेतपिशाचस्त्रीद्रविडान्ध्रगवाशनैः|
सङ्गो वेत्रलतावंशतृणकण्टकसङ्कटे||५०||
श्वभ्रश्मशानशयनं पतनं पांसुभस्मनोः|
मज्जनं जलपङ्कादौ शीग़्रेण स्रोतसा हृतिः||५१||
नृत्ववादित्रगीतानि रक्तस्रग्वस्त्रधारणम्|
वयोङ्गवृद्धिरभ्यङ्गो विवाहः श्मश्रुकर्म च||५२||
पक्वान्नस्नेहमद्याशः प्रच्चर्दनविरेचने|
हिरण्यलोहयोर्लाभः कलिर्बन्धपराजयौ||५३||
उपानद्युगनाशश्च प्रपातः पादचर्मणोः|
हर्षो भृशं प्रकुपितैः पितृभिश्चावभर्त्सनम्||५४||
प्रदीपग्रहनक्षत्रदन्तदैवतचक्षुषाम्|
पतनं वा विनाशो वा, भेदनं पर्वतस्य च||५५||
कानने रक्तकुसुमे पापकर्मनिवेशने|
चितान्धकारसम्बाधे जनन्यां च प्रवेशनम्||५६||
पातः प्रासादशैलादेर्मत्स्येन ग्रसनं तथा|
काषायिणामसोम्यानां नग्नानां दण्डधारिणां||५७||
रक्ताक्षाणां च कृष्णानां दर्शनं जातु नेष्यते|
———————————————–|५८|

जातु नेष्यत इति वक्ष्यमाणेन सम्बन्धः| वंशलतादीनां मूर्ध्नि-शिरसि, सम्भवो-जन्म, जातु नेष्यते| एवमग्रेऽपि योज्यम्| तथा, वयसां-पक्षिणां, मूर्ध्नि निलयो-निलयनम्| तथा, मुण्डता-कृतमुण्डनत्वम्| काकाद्यैः परिवारणं-परिवृतत्वम्| न केवलं काकाद्यैः, प्रेताद्यैश्चेति तथाशब्दस्यार्थः| गवाशनाः गोमांसभक्षाः, तैः| वेत्रादिसङ्कटे-संवृते, सङ्गः-द्वारालाभः, तत्रैव निःसारमपश्यतः| श्वभ्रे श्मशाने च शयनं-स्वपनम्| पांसौ भस्मनि च पतनम्| जलपङ्कादिके मज्जनं-बृडनम्| आदिशब्देन कूपकलुषोदकादि गृह्यते| स्रोतसा शीग़्रेण हृतिः-हरणम्| नृत्यं च वादित्रं च गीतं च तानि| तथा, स्रक् च वस्त्रं च स्रग्वस्त्रे, रक्ते च ते स्रग्वस्त्रे च, तयोर्धारणम्| वयश्चाङ्गं च, तयोर्वृद्धिः| अभ्यङ्गः-अभ्यञ्जनम्| विवाहः-परिणयः| श्मश्रुकर्म-मुख़व्यञ्जनमुण्डनम्| पक्वान्नं-मण्डकादिः, स्नेहः-तैलादिः, मद्यं-सीध्वादि, तेषामाशो-भक्षणम्| प्रच्चर्दनं-वमिः| विरेचनं-विरेकः| हिरण्यस्य-रुक्मादेः, लोहस्य च लाभः| सङ्ग्रहे तूक्तम् (शा. अ. १२)- “लभते वा हिरण्यलोहलवण” इति| कलिः-अनर्थः| बन्धो-बन्धनम्| पराजयः-परिभवः| उपानद्युगस्य नाशः| पादस्य चर्मणश्च प्रकर्षेण पतनम्| भृशं-अतिशयेन, हर्षः| पितृभिः प्रकुपितैरवभर्त्सन-सन्तर्जनम्| प्रदीपादीनां पतनमथवा विनाशः| पर्वतस्य च भेदनम्| कानने-वने, रक्तपुष्पे प्रवेशनमिति सम्बन्धः| पापकर्माणां-पापिनां, निवेशने-गृहे, प्रवेशनम्| चिन्तायामन्धकारसम्बाधे-तमःसङ्कटे, जनन्यांमातरि, च प्रवेशनम्| प्रासादात् पर्वताद्वा पातः-पतनम्, आदिशब्देन वृक्षगृहादेर्ग्रहणम्| मत्स्येन ग्रसनं-निगरणम्| कषायेण रक्तं वस्त्रं-काषायम्, तद्विद्यते येषामितीनिः| तेषां काषायिणां-काशायवस्त्रावृतानां, तथा असौम्यानां-दुर्दर्शानां, तथा नग्नानां-विवस्त्राणां, तथा दण्डधारिणां-दण्डिनां, तथा रक्तयनानां कृष्णवर्णानां च नृणां जातु-कदाचित्, न दर्शनमिष्यते, स्वप्नेऽशुभहेतुत्वात्|

———————————————–|
कृष्णा पापाननाचारा दीर्घकेशनखस्तनी||५८||
विरागमाल्यवसना स्वप्ने कालनिशा मता|
———————————————–|५९|

एवंविधा स्त्री स्वप्ने कालनिशा-तद्विधा, मता| कृष्णाकृष्णवर्णा| तथा, पापमाननमाचारश्च यस्याः सा| तथा, दीर्घाः केशा नखाः स्तनौ च यस्याः सैवम्| “स्वाङ्गाच्चोपसर्जनात्” इति ङीप्| माल्यं च वसनं च माल्यवसनम्| विगतो रागो यस्य माल्यवसनस्य तदेवंभूतं माल्यवसनं यस्याः सैवम्|

———————————————–|
मनोवहानां पूर्णत्वात्स्रोतसां प्रबलैर्मलैः||५९||
दृश्यन्ते दारुणाः स्वप्ना रोगी यैर्याति पञ्चताम्|
अरोगः संशयं प्राप्य कश्चिदेव विमुच्यते||६०||

मनः-चेतो, वहन्ति यानि विशेषेण हृदाश्रितानि स्रोतांसि तानि मनोवहानि, तेषां मनोवहानां प्रबलैः-अतिबलवद्भिः, मलैः-मलिनीकरणस्वभवैर्वातपित्तश्लेष्मभिः, पुर्णत्वात् दारुणाः-घोरा अप्रशस्ताः, स्पप्ना दृश्यन्ते-अनुभूयन्ते| यैःस्वप्नैर्दृष्टैः, रोगी-आतुरः, पञ्चतां याति-मरणं प्राप्नोति, तथा स्वभावत्वादैषां स्वप्नानाम्| अरोग इत्यादि| स्वस्थो नरः संशयं-जीवितसंदेहं, प्राप्य कश्चिदेव-बहूनां मध्यात्पुण्यवान्नियतायुरेव, विमुच्यते, मरणादिति, शेषः|

स्वप्नभेदानिदानीमाह-

दृष्टः श्रुतोऽनुभूतश्च प्रार्थितः कल्पितस्तथा|
भाविको दोषजश्चेति स्वप्नः सप्तविधो मतः||६१||

चः समुच्चये| इतिः प्रकारे| दृष्टादिना प्रकारेण स्वप्नः सप्तविधो मतः,-सप्त स्वप्ना इत्यर्थः| दृष्टः स उच्यते,-यश्चक्षुषा जाग्रदवस्थायां किञ्चिद्वस्तुजातं दृष्ट्वा तदानीं सुप्तावस्थायां तादृशं वस्तुजातं संवित्तिरूपतयाऽनुभुयते| १| यश्च शब्दमात्रेण बस्तुजातं श्रोत्रेन्द्रियेण गृह्यते तदानीं सुप्तावस्थायं ताद्रुक्संवित्तिरूपतयाऽनुभूयते, स श्रुत उच्यते| २| यस्तु जाग्रदवस्थायां यथायथमिन्द्रियैरनुभूयते सुप्तावस्थायां तादृगन्तःसंवित्तिरूपतयाऽनुभूयते, सोऽनुभूत उच्यते| ३| यस्मिन् दृष्टे श्रुतेऽनुभूते वा यत्पूर्वं जाग्रदवस्थायां वस्तुजातं मनसाऽभ्यर्थ्यते तथैव च सुप्तावस्थायामन्तःसंवित्तिरूपतयाऽनुभूयते, स प्रार्थित उच्यते| ४| यस्तु षड्भिः प्रत्यक्षानुमानादिभिर्न दृष्टो नापि श्रुतो नाप्यनुभूतो दृष्टश्रुतानुभूतत्वाभावादत एव न प्रार्थितः, अपि तु केवलं मनसा यथेच्चमुत्प्रेक्ष्य यत्किञ्चनरूपाभिः कल्पनाभिस्ताभिस्ताभिः कल्पितो जाग्रदवस्थायां वस्तुजातोऽन्तःसंवित्तावुपारुढः, तदानीं सुप्तावस्थायां तादृगनुभूयते, स कल्पित उच्यते| ५| यश्च दृष्टश्रुतादिभ्यः स्वप्नेभ्योऽन्यो विलक्षणस्वप्नो यथा दृश्यते सुप्तावस्थायामुत्तरकालं तथैव तत्स्वप्नदर्शिना नरेण तन्मुखावगततदर्थैरन्यैरपि प्रत्यक्षतो दृश्यते, स भाविकः| ६| दोषजः स स्वप्नः-यो वातजः पित्तजः कफजो वा यथायथं दोषगुणानुरूपोऽन्तःसंवित्तावनुभूयत इति| ७|

तेष्वाद्या निष्फलाः पञ्ह्च यथास्वप्रकृतिर्दिवा|
विस्मृतो दीर्घह्रस्वोऽति—————————|६२|

तेषु स्वप्नेषुमध्याद्ये पञ्चाद्याः-आदौ पठिता दृष्टादयः ते निष्फलाः-न ते यथानुरूपं फलं शुभमशुभं वा ददति| यथास्वप्रकृतिः-यथादोषजो, यः स्वप्नः सोऽपि निष्फलः-नासौ यथानुरूपं शुभाशुभलक्षणं फलं ददाति| वातप्रकृतेर्वातप्रकृत्यनुरूपतः स्वप्नो यावद्द्वन्द्वप्रकृतेर्द्वेन्द्वप्रकृत्यनरूपतः सन्निपातरूपतो वाऽफलः| तथा दिवा दृष्टो यः स्वप्नः, तथा विस्मृतः, तथाऽतिदीर्घोऽतिह्रस्वो वा यः स्वप्नः, स पञ्चविधव्यतिरिक्तोऽप्यफलः|

———————————————–|
————————-पूर्वरात्रे चिरात्फलम्||६२||
दृष्टः करोति तुच्चं च———————-|
———————————————–|६३|

पूर्वरात्रे दृष्टः स्वप्नश्चिरात्-चिरेण कालेन, फलं तुच्चं-अल्पं, न यथापरिभाषितं, विदधाति| केचित्त्वाहुः,-चेति विकल्पार्थे, चिरेण कालेन तुच्चं वेत्यर्थः| पूर्वरात्र इति “अहः सर्वैकदेश” इति समासान्तः|

————————-गोसर्गे तदहर्महत्|
निद्रया वाऽनुपहतः प्रतीपैर्वचनैस्तथा||६३||

गोसर्गे-गवां मोक्षकाले, यो दृष्टः स्वप्नः स तदहः-तस्मिन्नेवाहनि, फलं महत्करोतीति योज्यम्| तदहरित्यहःशब्दः सप्तम्यर्थवृत्तिरव्ययः| शुभः स्वप्नो दृष्टो रात्रिशेषे निद्रया वा यद्यनुपहतो-यस्मिन्स्वप्ने दृष्टेऽनन्तरं न सुप्यते, स स्वप्नो महत् फलं करोति| अन्यथा स्वल्पम्| प्रतीपैः-अननुकूलैर्वचनैश्च, अनुपहतः-अनभ्याहतः, शुभः स्वप्नो दृष्टो महत् फलं करोति|

एवं शुभं स्वप्नं प्रत्युक्त्वाऽशुभं स्वप्नं प्रत्याह—-

याति पापोऽल्पफलतां दानहोमजपादिभिः|
———————————————–|६४|

पापः-अशुभः स्वप्नः, अल्पफलतां याति| कैः ? दानादिभिः| आदिग्रहणात् ध्याननियमादयो गृह्यन्ते|

———————————————–|
अकल्याणमपि स्वप्नं दृष्ट्वा तत्रैव यः पुनः||६४||
पश्येत्सौम्यं शुभं तस्य शुभमेव फलं भवेत्|
———————————————–|६५|

अकल्याणमपि-अशुभसूचकत्वादशुभं [अपि], स्वप्नं दृष्ट्वा तत्रैव-तस्मिन्नेवावसरेऽशुभस्वप्नदर्शनसमनन्तरे काले, सौम्यकरंशुभसूचकत्वाच्चुभं स्वप्नं यः पश्येत्तस्य जन्तोस्तस्य वा स्वप्नस्य शुभमेव-कल्याणरूपमेव, फलं भवेत्, न पूर्वदृष्टमशुभमित्येवशब्दार्थः| अपिशब्दात् कल्याणं स्वप्नं दृष्ट्वा यस्तत्रैव वा स्वप्नमध्ये सुप्तोऽशुभं च स्वप्नं पश्येत्, तस्याशुभमेव फलं भवेत्, न पूर्वदृष्टं शुभमिति बोध्यम्| ननु, एवं सति स्वप्नानामनिश्चतफलत्वं प्राप्नोति| ततश्च “स्वप्ने मद्यं सह प्रेतैः” (श्लो.४०)
इत्यादिना यदुक्तं तदन्यथाऽपि स्यात्| यतोऽशुभलक्षणोऽप्येवं दानादिभिश्चान्यथा सम्पद्यते| ततश्चानिश्चितफलत्वान्मरणं प्रति नासौ निश्चितो हेतुः| एवमन्येऽपि ये स्वप्नाः प्रतिनियता रक्तपित्तादीनां व्याधीनां हेतवो निर्दिष्टाः, तेऽपि तथैव बोद्धव्याः| अत्राचक्ष्महे| निश्चितानिश्चितफलस्वभावत्वात् स्वप्नानामदोषः| तथा हि-केचित्स्वप्ना निश्चितफलस्वभावा निर्दिष्टाः| यथा-“स्वप्ने मद्यं सह प्रेतैः” इत्यादयः| केचिदनिश्चितफलस्वभावाः| यथा-“मूर्ध्नि वंशलतादीनां” (श्लो-४९) इत्यारभ्य यावत् “रक्ताक्षाणां च कृष्णानां दर्शनं जातु नेष्यते” इत्येवमन्तेन ग्रन्थेन ये निर्दिष्टाः| तत्र ये निश्चितफलस्वभावास्तेषां न कथञ्चिदप्यन्यथा कर्तुं पार्यते| प्राक्तनस्य कर्मणस्तथारूपस्य बलबत्त्वात्| ये त्वनिश्चितफलस्वभावाः “मूर्ध्नि वंशलतादीनां” इत्यादयः| तेषां स्पप्नान्तरदर्शनादिभिरन्यथा सद्भावः सम्भाव्यत इति|

“पश्येत्सौम्यं” इत्युक्तम्| अत्स्तानेव सौम्यान् स्वप्नान् दर्शयितुमाह-

———————————————–|
देवान् द्विजान् गोवृषभान् जीवतः सुहृदो नृपान्||६५||
साधून् यशस्विनो वह्निमिद्धं स्वच्चान् जलाशयान्|
कन्याः कुमारकान् गौरान् शुक्लवस्त्रान्सुतेजसः||६६||
नराशनं दीप्ततनुं समन्ताद्रुधिरोक्षितम्|
यः पश्येल्लभते यो वा चत्रादर्शविषामिषम्||६७||
शुक्लाः सुमनसो वस्त्रममेध्यालेपनं फलम्|
शैलप्रासादसफलवृक्षसिंहनरद्विपान्||६८||
आरोहेद्गोश्वयानं च, तरेन्नदहदोदधीन्|
पूर्वोत्तरेण गमनमगम्यागमनं मृतम्||६९||
सम्बाधान्निःसृतिर्देवैः पितृभिश्चाभिनन्दनम्|
रोदनं पतितोत्थानं द्विषतां चावमर्दनम्||७०||
यस्य स्यादायुरारोग्यं वित्तं बहु च सोऽश्नुते|
———————————————–|७१|

कुमारका-बालकाः| विषं-वत्सनाभादि| आमिषं-मांसम्| सुमनसः-पुष्पाणि| शुक्लशब्दो वस्त्रमित्यत्रापि सम्बध्यते, अर्थवशाच्चास्य नपुंसकत्वमेकत्वं च बोध्यम्| देवादीन् यः पश्येत्, यो वा चत्रादीन् लभते, यश्च शैलादीन् समारोहेत्, यश्च नदादींस्तरेत्, यस्य वा पूर्वोत्तरगमनादिकं स्यात्, स पुरुष आयुरादीनश्नुते-प्राप्नोति|

“आरोग्यमश्नुते” इत्युक्तम्|
अतस्तदेवारोग्यं लक्षयितुमाह—-

——————————————–|
मङ्गलाचारसम्पन्नः परिवारस्तथाऽऽतुरः||७१||
श्रद्धधानोऽनुकूलश्च प्रभूतद्रव्यसङ्ग्रहः|
सत्त्वलक्षणसंयोगो भक्तिर्वैद्यद्विजातिषु||७२||
चिकित्सायामनिर्वेदस्तदारोग्यस्य लक्षणम्|
———————————————–|७३|

“प्रशस्ताचरणं नित्यमप्रशस्तविसर्जनम्| एतद्धि मङ्गलं प्रोक्तमृषिभिस्तत्त्वदर्शिभिः||”. आचरणं-आचारः सद्दृत्तानुष्ठानम्| मङ्गलाचाराभ्यां सम्पन्नो-युक्तः| कः ? परिवारः| तथा, आतुरः| श्रद्धधानः-अवश्यं मे व्याधिरयमनेन भेषजेन नश्यतीत्येवं मन्यमानः| तथा च, परिवारोऽनुकूलः-दक्षिणः| तथा, प्रभूतस्य द्रव्यस्य सङ्ग्रहः-सङ्ग्रहणम्| तथा, सत्त्वलक्षणयोः संयोगो, वैद्यादिषु भक्तिः, चिकित्सायां-उपक्रमे, अनिर्वेदः-सोत्साहता, तत्-एतत्, आरोग्यलक्षणम्|

कस्मादिदं स्थानं शारीरमुच्यते ? इत्यस्य निरुक्तिमाह—-

——————————————–|
इत्यत्र जन्ममरणं यतः सम्यगुदाहृतम्|७३|
शरीरस्य ततः स्थानं शारीरमिदमुच्यते|
७३ १/२|
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता-
यामष्टाङ्गहृदयसंहितायां द्वितीये शारीरस्थाने
दूतादिविज्ञानीयो नाम षष्ठोऽध्यायः|६|

इति-परिसमाप्तौ| अत्र-अस्मिन्स्थाने, यतो-यस्मात्, शरीरस्य जन्म सम्यक्-अविपरीतं गर्भावक्रान्त्यादिभिश्चतुर्भिरध्यायैः प्रसक्तानुप्रसक्तिकया, उदहृतम्| मरणं-विकृतिविज्ञानीयाख्येन तथा दूतादिविज्ञानीयाख्येन च| ततः-शरीरस्य जन्ममरणोदाहरणात् कारणात्, इदं स्थानं शारीरमुच्यते| यद्यपि सर्व आयुर्वेदाख्यो ग्रन्थः शरीरमधिकृत्य प्रवृत्तः, तथाऽपीदं स्थानं साक्षाज्जन्ममरणचिन्तनाच्चरीरस्य प्राधान्येन शारीरं स्थानमुच्यत इति|
इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचित्तायामष्टाङ्गहृदय-
टीकायं सर्वाङ्गसुन्दराख्यायां द्वितीये शारीरस्थाने दूता-
दिविज्ञानीयो नाम षष्ठोऽध्यायः समाप्तः|| ६||

Moolashloka with Arunadutta & Hemadri Commentary

Diacritic Version

śrīmadvāgbhaṭaviracitam

Aṣṭāṅgahr̥dayam

śrīmadaruṇadattaviracitayā 'sarvāṅgasundarākhyā' vyākhyayā hēmādripraṇītayā 'āyurvēdarasāyanāhvayā' ṭīkayā ca samullasitam

śārīrasthānam - 6. dūtādivijñānīyōdhyāyaḥ

vikr̥tivijñānīyādhyāyādanantaraṁ dūtādivijñānīyādhyāyārambhē’yaṁ sambandhaḥ| uktamāyuḥpramāṇaṁ svasthāturāṇāṁ rūpēndriyasvaracchāyādivikr̥tilakṣaṇaiḥ pratiniyataviśiṣṭavyādhilakṣaṇairapi| ayaṁ punaradhyāyō dūtādyāśrayaiḥ śubhāśubhanimittaiḥ śubhāśubhaṁ sūcayitumārabhyatē _

athātō dūtādivijñānīyaṁ śārīraṁ vyākhyāsyāmaḥ|
iti ha smāhurātrēyādayō maharṣayaḥ|
gadyasūtrē||2||

dūtaḥ-strīpuruṣādirya āturēṇa prēṣyatē sa kathyatē| dūta ādiryēṣāṁ tē dūtādayaḥ| ādigrahaṇādvaidyasya gr̥hānnirgaccataḥ pathi gaccatō yāvadāturagr̥hē pravēśaḥ, praviṣṭasyāpi yāni śubhā śubhasūcakāni nimittāni dr̥śyantē śrūyantē ca, tēṣāṁ parigrahaḥ| dūtādīnāṁ vijñānaṁ dūtādivijñānam| yathaitē dūtādayaḥ śubhā ētē’śubhā iti viśiṣṭaṁ-niścitaṁ, jñānaṁ-avabōdhaḥ, pariccēda ityarthaḥ| tasmai hitō dūtādivijñānīyaḥ| śēṣaṁ pūrvavadvyākhyēyam|

pākhaṇḍāśramavarṇānāṁ savarṇāḥ karmasiddhayē|
ta ēva viparītāḥ syurdūtāḥ karmavipattayē||1||

pākhaṇḍaḥ-ṣaṇṇavatibhēdabhinnō vrātyaviśēṣaḥ| āśramāḥ-brahmacārigr̥hasthabhikṣuvaikhānasabhēdēna catvāraḥ| varṇāḥ-brāhmaṇakṣatriyaviṭśūdrāścatvāraḥ| tē ca pratilōmānulōmatō bahavaḥ| tēṣāṁ pākhaṇḍādīnāṁ yē savarṇāḥ-samānavarṇāstulyajātayō, dūtāstē ca karmasiddhayē-karmasidhdyarthaṁ bhavanti, karmasiddhiṁ sūcayantītyarthaḥ yathā-pākhaṇḍasya pākhāṇḍō dūtaḥ, brahmacāriṇō brahmacārī, gr̥hasthasya gr̥hasthō, vānaprasthasya vānaprasthō, bhikṣōrbhikṣuḥ yāvaccūdrasya śūdraḥ śubha iti| ta ēva-pākhaṇḍādayō, viparītāḥ-vijātīyāḥ savarṇā yē na bhavanti tē, karmavipattayē-cikitsānaiṣphalyāyabhavanti, cikitsānaiṣphalyaṁ sūcayantītyarthaḥ|

dīnaṁ bhītaṁ drutaṁ trastaṁ rūkṣāmaṅgalavādinam|
śastriṇaṁ daṇḍinaṁ ṣaṇḍhaṁ muṇḍaśmaśrujaṭādharam||2||
amaṅgalāhvayaṁ krūrakarmāṇaṁ malinaṁ striyam|
anēkaṁ vyādhitaṁ vyaṅgaṁ raktamālyānulēpanam||3||
tailapaṅkāṅkitaṁ jīrṇavivarṇārdraikavāsasam|
kharōṣṭramahiṣārūḍhaṁ kāṣṭhalōṣṭādimardinam||4||
nānugaccēdbhiṣagdūtamāhvayantaṁ ca dūrataḥ|
—————————————————|5|

savarṇamapi dūtaṁ dīnabhītādiviśēṣaṇaviśiṣṭaṁ yāvatkāṣṭhalōṣṭādimardinaṁ bhiṣag dr̥ṣṭvā nānugaccēccikitsānaiṣphalyāditi| rūkṣavādinaṁ-paruṣabhāṣiṇam| amaṅgalavādinaṁ-mariṣyatyasau patiṣyati na jīvatītyādyabhaṅgalavādī, tam| tathā, ṣaṇḍhaṁ-napuṁsakam| tathā, muṇḍaṁ-kr̥tavapanaṁ, śmaśru-mukhavyañjanaṁ, yasya sa ēvam| muṇḍaśmaśruścāsau jaṭādharaśca tam| tathā, amaṅgalaḥ-akalyāṇaḥ, āhvayō-nāma, yasya tam| vyaṅgaṁ-hīnāṅgam| tailapaṅkābhyāmaṅkitaṁ-digdham| tathā, jīrṇādikaṁ vāsō yasya tam| tathā, dūrādāhvayantaṁ-ākārayantaṁ, nānuyāyāt|

—————————————————|
aśastacintāvacanē nagnē cindati bhindati||5||
juhvānē pāvakaṁ piṇḍān pittr̥bhyō nirvapatyapi|
suptē muktakacē’bhyaktē rudatyaprayatē tathā||6||
vaidyē dūtā manuṣyāṇāmāgaccanti mumūrṣatām|
—————————————————|7|

cintā ca vacanaṁ ca cintāvacanē, aśastē cintāvacanē yasyēti matvarthē bahuvrīhiḥ| vaidyē’śastacintāṁ kurvati, aśasta vacanaṁ cōccārayati| manuṣyāṇāṁ mumūrṣatāṁ-āsannamr̥tyūnāṁ, sambandhinō dūtā āyānti| mumūrṣatāmiti “āśaṅkāyāmupasaṅkhyānam (yāṁ san vaktavyaḥ) ” iti san| “mriyatērluṅhliṅōśca” iti niyamādātmanēpadābhāvaḥ| tathā ca kimbhūtē ? nagnē-vivastrē, cindati bhindati kiñcit| tathā, pāvakaṁ-agniṁ juhvānē, pitr̥bhyaśca piṇḍān nirvapati-anuprayaccati, yāvadaprayatēaśucau| manuṣyāṇāmityupalakṣaṇam, stryādayō’pīha gr̥hyanta ēva|

—————————————————|
vikārasāmānyaguṇē dēśē kālē’thavā bhiṣak||7||
dūtamabhyāgataṁ dr̥ṣṭvā nāturaṁ tamupācarēt|
—————————————————|8|

vikārēṇa-jvarādinā, sāmānyaḥ-tulyō, guṇō yasyāsau vikārasāmānyaguṇaḥ, tasmiṁstathāvidhē, dēśē kālē vā dūtamabhyāgataṁ-sammukhamāgaccantaṁ, dr̥ṣṭvā bhiṣaktamāturaṁ-dūtasya prēṣakaṁ, nōpacarēt| yathā,-kaphajē jvarādāvāmayē ghr̥tōdakādidravasamīpē dēśē’nūpē vā kālē vā pratyuṣasyāgatō dūtō’śubhaḥ| pittāmayē vahnyādinā santaptē dēśē kālē madhyāhnē dūtō’śubhaḥ| vārarōgē paruṣarūkṣasikatāpāṣāṇaśarkarādiviśiṣṭē dēśē kālē sāyāhnē dūtō’śubhaḥ| viparītastu śubhaḥ| cardimēhātīsārādiṣu sētubhaṅgō’śubhaḥ| ēṣvēva sētuvandhaḥ śubhaḥ|

—————————————————|
spr̥śantō nābhināsāsyakēśarōmanakhadvijān||8||
guhyapr̥ṣṭhastanagrīvājaṭharānāmikāṅgulīḥ|
kārpāsabusasīsāsthikapālamuśalōpalam||9||
mārjanīśūrpacailāntabhasmāṅgāradaśātuṣān|
rajjūpānattulāpāśamanyadvā bhagnavicyutam||10||
tatpūrvadarśanē dūtā vyāharanti mariṣyatām|
—————————————————|11|

tadityanēna vaidyaḥ parāmr̥śyatē| tasya pūrvadarśanaṁ-prathamadarśanaṁ, tasmin sati tatkāla ēva, mariṣyatāṁ-āsannamaraṇānāṁ, sambandhinō dūtā nābhyāti spr̥śantō vyāharanti| “lakṣaṇahētvōḥ kriyāyāḥ” iti hētāvatra śatr̥pratyayaḥ| nābhyādisparśanaṁ hi mumūrṣudūtavyāharaṇasya hētuḥ| mumūrṣōrvayaṁ dūtā iti pratipādayantītyarthaḥ| anāmikāṅguliḥ-kanīyasīnikaṭasthitā| daśā-vastravartiḥ| upānat-carmapādukā| tulā-mānaviśēṣaḥ| na kēvalaṁ nābhyādi spr̥śantō’paramapi ca bhagnavicyutaṁ ca spr̥śanta iti yōjyam|

——————————————————|
tathā’rdharātrē madhyāhnē sandhyayōḥ parvavāsarē||11||
ṣaṣṭhīcaturthīnavamīrāhukētūdayādiṣu|
bharaṇīkr̥ttikā”ślēṣāpūrvā”rdrāpaitryanair̥̄tē||12||

nābhyādikamaspr̥śantō’pyardharātrādiṣvāgaccantō mariṣyatāṁ dūtā vyāharanti| ardharātra iti “ahaḥsarvaikadēśa” ityatra cakārādac samāsāntaḥ| āgaccanta ityatrāpi yōjyam| paitryanair̥̄ta iti maghāmūlākhyē nakṣatrē| ādiśabdēnōtpātadarśanakr̥ṣṇacaturdaśyādayō gr̥hyantē| saṅgrahē’pyuktam (śa. a.12)- “madhyāhnōbhayasandhyārdharātracaturthīṣaṣṭhīnavamīparvadinēṣu grahōparāgōtpātadarśanabharaṇīkr̥ttikārdrā”ślēṣāmaghāmūlapūrvāsu cāśubhaḥ|” iti|

yasmiṁśca dūtē bruvati vākyamāturasaṁśrayam|
paśyēnnimittamaśubhaṁ taṁ ca nānuvrajēdbhiṣak||13||

yasmin dūtē āturasaṁśrayaṁ-āturapratibaddhaṁ, vākyaṁ bruvati satyaśubhaṁ nimittaṁ bhiṣak paśyēt| taṁ-dūtamāturacikitsārthamāgataṁ, nānuvrajēt|

kim tadaśubhaṁ nimittam ? ityāha —-

tadyathā vikalaḥ prētaḥ prētālaṅkāra ēva vā|
cinnaṁ dagdhaṁ vinaṣṭaṁ vā tadvādīni vacāṁsi vā||14||
rasō vā kaṭukastīvrō gandhō vā kauṇapō mahān|
sparśō vā vipulaḥ krūrō yadvā’nyadapi tādr̥śam||15||
tatsarvamabhitō vākyaṁ vākyakālē’thavā punaḥ|
dūtamabhyāgataṁ dr̥ṣṭvā nāturaṁ tamupācarēt||16||

tadyathāśabdō’śubhanimittasaṁdarśanasambandhārthaḥ| vikalaḥ-aṅgahīnaḥ kāṇakuṇṭhādikaḥ| prētō-mr̥ta ēva| prētālaṅkārō yō mr̥tasyānulēpanavastrādinā’laṅkārō vidhīyatē| cinnaṁ-rajjvādikam| dagdhaṁ-vastrādikam| vinaṣṭaṁ vā-ghaṭabhājanādikam| tadvādīni-cinnadagdhavinaṣṭavācakāni, vacāṁsi-vacanāni, śrōtrēṇa śrūyantē| rasō vā kaṭukastīvra ityanēna rasādhāraṁ dravyamanāhārapratibaddhamupalakṣayatē| rasō hi rasanēndriyagrahya ēva| tasmāt kaṭukarasādhiṣṭhitaṁ dravyaṁ maricādi kaṭukarasaśabdēnēha gr̥hyatē| lōkē’pi rasēna dravyaṁ vyapadiśyata ēva| yathā-idaṁ madhuraṁ dravyamidamamlamiti| tadēvamutkaṭakaṭukarasādhiṣṭhitaṁ dravyaṁ yadā cakṣuṣā gr̥hyatē vaidyēna, tadā na śubham| tīvragrahaṇādatīvrasya kuṭhērakādērnirāsaḥ| gandhaśca kauṇapō-mahān durgandhō’tiśayēna, tatkāla ēva ghrāṇēndriyēṇa gr̥hyatē, sparśō vā vistīrṇaḥ krūraḥ-atiduḥsahaḥ, tatkāla ēvāgnyādisambandhī sparśanēndriyēṇa gr̥hyatē, sō’śubhaḥ| yadvēti| athavā’paramapi yattādr̥śaṁvikalādyaśubhanimittasadr̥śamanirdiṣṭamapi raktakaravīrakusumādikaṁ, tatsarvaṁ vākyamabhitaḥ-āturāśrayādvākyādagrē, athavā vākyakālē-āturāśrayāvākyamadhyē vikalādyaśubhanimittaṁ tadānīmapyaśubhasūcakatvāt tasmin kālē, dūtamabhyāgataṁ-ābhimukhyēna tatkālamēvāgataṁ, dr̥ṣṭvā yēnāsau prēṣitō dūtastamāturaṁ nōpācarēt|

athānyadapyaśubhaṁ nimittamāha—-

hāhākranditamutkruṣṭamākruṣṭaṁ skhalanaṁ kṣutam|
vastrātapatrapādatravyasanaṁ vyasanīkṣaṇam||17||
caityadhvajānāṁ pātrāṇāṁ pūrṇānāṁ ca nimajjanam|
hatāniṣṭapravādāśca dūṣaṇaṁ bhasmapāṁsubhiḥ||18||
pathaḥccēdō’himārjāragōdhāsaraṭhavānaraiḥ|
dīptāṁ prati diśaṁ vācaḥ krūrāṇāṁ mr̥gapakṣiṇām||19||
kr̥ṣṇadhānyaguḍōdaśvillavaṇāsavacarmaṇām|
sarṣapāṇāṁ vasātailatr̥ṇapaṅkēndhanasya ca||20||
klībakrūraśvapākānāṁ jālavāgurayōrapi|
carditasya purīṣasya pūtidurdarśanasya ca||21||
niḥsārasya vyavāyasya kārpāsādērarērapi|
śayanāsanayānānāmuttānānāṁ tu darśanam||22||
nyubjānāmitarēṣāṁ ca pātrādīnāmaśōbhanam|
———————————————–|23|

hāhākranditamityādikamaśōbhanamiti vakṣyamāṇēna sambandhaḥ| hāhēti kranditaṁ-ruditaṁ kvaṇanaṁ hāhākranditam| tathā, utkruṣṭaṁ uccaiḥ kr̥tvā kruṣṭaṁ, ākruṣṭaṁ-ākrōśaḥ| skhalanaṁ-patanaṁ, vaidyasyā’nyasya vā| kṣutaṁ-cikkā| vastrādīnāṁ-vaidyasya sambandhināṁ, vyasanaṁ-vināśaḥ| vyasanināṁ-āpadgatānāṁ, īkṣṇaṁ-ālōkanaṁ, na śōbhanamiti sarvatra yōjyam|

caityādīnāṁ nimajjanaṁ-patanaṁ bruḍanaṁ ca| tathā, hata ityēvaṁrupāṇāmaniṣṭānāṁ-amaṅgalānāṁ, pravādāḥ-uccairuccaritāni vākyāni| dūṣaṇaṁ bhasmapāṁsubhiḥ-vaidyasyaiva pathi gaccatō bhasmanā pāṁsunā va vikiraṇamaśōbhanam, karmasiddhyabhāvādāturasyāpi maraṇasūcakatvāt| ēvamanyatrāpyubhayōraśōbhanatvaṁ yōjyam| pathaḥccēda iti mārgasya cēdaḥ| kaiḥ ? sarpamārjārādibhiḥ| saraṭhaḥ-sarpasadr̥śī raktavarṇādimukhī prāṇijātiścakralaṇḍa ityaparaparYāyaḥ|

yasyāṁ diśi sūryaḥ sthitaḥ sā dīptā bhaṇyatē| tathā cōktam “aṅgāriṇyarkanirmuktā, dīptā tasyāṁ divākaraḥ| pradhūmitaiṣyarsūryā vai, śāntāḥ pañcētarā diśaḥ||” iti| dīptāṁ diśaṁ prati yā vācō-vāṇyaḥ, krūrāṇāṁ-kravyabhujāṁ, mr̥gāṇāṁ-dvīpiśr̥gālādīnāṁ, pakṣiṇāṁ-gr̥dhraśyēnādīnāṁ, tā aśōbhanā iti liṅgavipariṇāmēna sambandhaḥ|

kr̥ṣṇadhānyādīnāṁ yaddarśanaṁ vaidyasya pathi gacchata āturagr̥hē praviśatō vā tadaśōbhanam, aśubhasūcakatvāt| udaśvit-takram| sarṣapō-raktābhāsaḥ| krūrō-niṣṭhruravādī| śvapākaḥ-cāṇdālaḥ| jālaṁ-ānāyaḥ| vāgurā-mr̥gabandhanī| pūtiḥ-durgandhiḥ| durdarśanaḥ-karālākr̥tiḥ| niḥsārasya-vyapētasārasya vastunaḥ| vyavāyasya-maithunasya| kārpāsādērityādiśabdēna kārpāsabusasīsādērdūtacintānirdiṣṭasya (ślō. 9) grahaṇam| kārpāsādēḥ padārthasya darśanaṁ pathi gaccata āturagr̥haṁ praviśatō vā’śōbhanam| arērdarśanamaśōbhanam| prakr̥tatvādvaisdyasyātmaśatrudarśanam| tathā, śayanādīnāmuttānānāṁ-ūrdhvamukhasthitapādānāṁ darśanam, tathētarēṣāṁ-pātrādīnāṁ ghaṭaśarāvōdañcanādīnāmadhōmukhānāṁ, darśanamaśōbhanam|

———————————————————–|
puṁsaṁjñāḥ pakṣiṇō vāmāḥ strīsaṁjñā dakṣiṇāḥ śubhāḥ||23||
pradakṣiṇaṁ khagamr̥gā yantō, naivaṁ śvajambukāḥ|
———————————————————|24|

puṁsaṁjñāḥ-puṁnāmānaḥ, pakṣiṇō-vartakādayō, vāmasthitāḥ praśastāḥ| strīnāmānō-balākāsārikādayō, dakṣiṇasthitāḥ śubhāḥ|

pradakṣiṇamiti vāmāddakṣiṇaṁ gacchantaḥ khagamr̥gāḥ śubhāḥ| khagāḥ-kākāpārāvatādayaḥ| mr̥gāḥ-hariṇaiṇādayaḥ|

yāntō naivaṁ śvajambukāḥ,-kintarhi ? dakṣiṇādvāmaṁ gaccantaḥ śubhā ityarthaḥ|

———————————————————|
ayugmāśca mr̥gāḥ śastāḥ śastā nityaṁ ca darśanē||24||
cāṣabhāsabharadvājanakulaccāgabarhiṇaḥ|
———————————————————|25|

ayugmāḥ-pañcasaptā pi(dayō), mr̥gāḥ śubhāḥ|
cāṣādayō mayūrāntā nityaṁ darśanē-vāmatō dakṣiṇatō vā, śastāḥ|

———————————————————|
aśubhaṁ sarvathōlūkabiḍālasaraṭhēkṣaṇam||25||

sarvathā-sarvēṇa prakārēṇa vāmatō dakṣiṇatō vā yugmānāma yugmānāṁ vā, ulūkādīnāṁ darśanamaśubham| kīrtanē tu praśastā ityēkē|

praśastāḥ kīrtanē kōlagōdhāhiśaśajāhakāḥ|
na darśanē na virutē, vānararkṣāvatō’nyathā||26||

dhanuraindraṁ ca lālāṭamaśubhaṁ, śubhamanyataḥ|
agnipūrṇāni pātrāṇi bhinnāni viśikhāni ca||27||

ēndraṁ dhanurlālāṭaṁ-abhimukhaṁ, aśubham| anyataḥ-puraḥsthitaṁ sammukhaṁ varjayitvā tiryak pr̥ṣṭhatō vā sthitaṁ, śubham| lālāṭamiti bhavārthē aṇ| lālāṭaśabdēnēha lalāṭasamīpō dēśō lakṣyatē, sammukhamityarthaḥ| pātrāṇyagnipūrṇānyaśōbhanāni| tathā binnāni-bhagnāni| tathā, viśikhāni-antaḥśūnyāni| na śubhānīti vacanavipariṇāmēna sambandhaḥ|

vaidyasyāturagr̥hapravēśē śubhāśubhasūcakāni nimittānyāha—-

dadhyakṣatādi nirgacchadvakṣyamāṇaṁ ca maṅgalam|
vaidyō mariṣyatāṁ vēśma praviśannēva paśyati||28||

ādiśabdēnēkṣuniṣpāvādiparigrahaḥ| dadhyakṣatāvādī (tā ādayō) yasya maṅgalasya tadēvam| vaidyaḥ praviśannēva-tatkāla ēva, āturagr̥hāddadhyakṣatādi-yadvakṣyamāṇaṁ, tannirgaccat-niḥsarat, mariṣyatāṁ-āsannamaraṇānāṁ, paśyati|

dūtādyasādhu dr̥ṣṭvaivaṁ tyajēdārtamatō’nyathā|
karuṇāśuddhasantānō yatnatastamupācarēt||29||

ēvaṁ-pūrvōktēna prakārēṇa, dūtādyasādhu-aśubhaṁ pūrvanirdiṣṭaṁ, dr̥ṣṭvā ārtaṁ-āturaṁ, tyajēt-na cikitsēt| ādiśabdēna śakunādērgrahaṇam| atō’nyathēti dūtādi śubhaṁ dr̥ṣṭvā, taṁ āturaṁ, vaidyō yatnēna samupācarēt| kimbhūtaḥ ? karuṇāyā śuddhaṁ nirmalaṁ, santānaṁ-cētō, yasya sa ēvaṁbhūtaḥ san|

atha tadēva dadhyakṣatādyāha—-

dadhyakṣatēkṣuniṣpāvapriyaṅgumadhusarpiṣām|
yāvakāñjanabhr̥ṅgāraghaṇṭādīpasarōruhām||30||
dūrvārdramatsyamāṁsānāṁ lājānāṁ phalabhakṣayōḥ|
ratnēbhapūrṇakumbhānāṁ kanyāyāḥ syandanasya ca||31||
narasya vardhamānasya dēvatānāṁ nr̥pasya ca|
śuklānāṁ sumanōvālacāmarāmbaravājinām||32||
śaṅkhasādhudvijōṣṇīṣatōraṇasvastikasya ca|
bhūmēḥ samuddhatāyāśca vahnēḥ prajvalitasya ca||33||
manōjñasyānnapānasya pūrṇasya śakaṭasya ca|
nr̥bhirdhēnvāḥ savatsāyā vaḍāvāYāḥ striyā api||34||
jīvañjīvakasāraṅgasārasapriyavādinām|
haṁsānāṁ śatapatrāṇāṁ baddhasyaikapaśōstathā||35||
rucakādarśasiddhārtharōcanānāṁ ca darśanam|
gandhaḥ susurabhirvarṇaḥ suśuklō madhurō rasaḥ||36||
gōpatēranukūlasya svanastadvadgavāmapi|
mr̥gapakṣinarāṇāṁ ca śōbhināṁ śōbhanā giraḥ||37||
chatradhvajapatākānāmutkṣēpaṇamabhiṣṭutiḥ|
bhērīmr̥daṅgaśaṅkhānāṁ śabdāḥ puṇYāhaniḥsvanāḥ||38||
vēdādhyayanaśabdāśca sukhō vāyuḥ pradakṣiṇaḥ|
pathi vēśmapravēśē ca vidyādārōgyalakṣaṇam||39||

dadhyakṣatādīnāṁ darśanaṁ ‘pathi vēśmapravēśē ca vidyādārōgyalakṣaṇam|’ iti vakṣyamāṇēna sambandhaḥ| akṣatāḥ-yavāḥ, akhaṇḍitāstaṇḍulā ityanyē, dhānyamēvākhaṇḍitamakṣataśabdavācyamityaparē| yāvakaṁ-alaktakaḥ| bhr̥ṅgāraḥ-kanakālukā| ardramatsyāḥ, ārdramāṁsam| ārdragrahaṇamatra śuṣkaparihārārtham| bhakṣaṁmōdakādi| padmarāgādikaṁ-ratnam| ibhō-hastī| narasyēti śauryatyāgaprajñārājasatkārādibhirvadhamānaḥ-pratidinamupacayaṁ gataḥ, tathāvidhasya puruṣasya darśanaṁ śubham| śuklānāṁ sumanaḥprabhr̥tīnāṁ darśanaṁ śubham| bālacāmaraṁ-kēśaprakīrṇakam| vājī-turaṅgaḥ| uṣṇīṣaṁ-śirōvēṣṭanam| manōjñasya-hr̥dayahāriṇō’nnapānasya| śakaṭasya-rathasya, nr̥bhiḥ-naraiḥ, pūrṇasya-sambhr̥tasya| dhēnvā ityādi| striyā apītyapiśabdaḥ samuccayē| yathā dhēnvāḥ savatsāyā darśanamēvaṁ vaḍavāyāḥ striyāśca savatsāyāḥ-sāpatyāyā iti| rucikō-valayaḥ, ābharaṇaviśēṣaḥ| siddhārthō-gaurasarṣapaḥ| gandhaḥ-suṣṭhu surabhiḥ| varṇaḥ suṣṭhu śuklaḥ-sitaḥ| rasō madhuraḥ| gōpatēḥ-vr̥ṣabhasya, anukūlasya-akupitasya, svanaḥśabdaḥ| tadvat-gōpatinā tulyō, gavāmapyanukūlānāṁ śabda ityarthaḥ| tathā, śōbhināṁ-praśastānāṁ mr̥gādīnāṁ, praśastā giraḥ| vidyādārōgyalakṣaṇamiti yōjyam| mr̥gapakṣinarā hyaśōbhinō’pi śr̥gālōlūkapulkasacāṇḍālādayaḥ santi, taḍyavaccēdanārthaṁ śōbhināmiti viśēṣaṇam| śōbhināmapi mr̥gādīnāṁ kṣāmarōgārtāmihatānāmaśōbhanā vācaḥ syuḥ tattyāgārthaṁ śōbhanā iti viśēṣaṇam| catrādīnāmutkṣēpaṇaṁ-utthāpanam| patākā-vaijayantī| abhiṣṭutiḥ-prayāṇakālē janēna stutirjayajayētyādiśabdapūrvā’bhimukhamuccāritā| tathā, bhēryādīnāṁ śabdāḥ, puṇyāhaniḥsvanāḥ-praśastaśabdā| arōgyāya, na tvapraśastaniḥsvanāḥ prētapaṭahādijāḥ| vēdādhyayanasya-vēdapāṭhasya, yē śabdāstē ca śubhāḥ| pradakṣiṇaḥ-anukūlō, vāyuḥ sukhaḥ-sukhāvahaḥ| pathi vēśmapravēśē caitadārōgyalakṣaṇaṁ vidyāt|

ityuktaṁ dūtaśakunaṁ svapnānūrdhvaṁ pracakṣatē|
———————————————————|40|

ityēvamarthē parisamāptau vā| dūtaḥ-strīpuruṣādiḥ, ityādi prāguktam| tathā, cētanācētanarūpaḥ śubhāśubhasūcakō dūtavarjitō lōkaprasiddhaḥ-śakuna uktaḥ| yathā (ślō. 17)-“hāhākranditaṁ” ityādi| iti-ēvaṁ, uktaṁ-abhihitam|
atō dūtaśakunādūrdhvaṁ-anantaraṁ, svapnān pracakṣatē-samyag bhaṇiṣyati, tantrakāra iti śēṣaḥ| svapnalakṣaṇamaṣṭaṅgasaṅgrahē kathitam| yathā (sū. a. 9)- “sarvēndriyavyuparatau manō’nuparataṁ yadā| viṣayēbhyastadā svapnaṁ nānārūpaṁ prapaśyati||” iti| tathā (saṁ. sū. a. 9)- “ślēṣmāvr̥tēṣu srōtaḥsu śramāduparatēṣu ca| indriyēṣu svakarmabhyō nidrā”viśati dēhinam||” iti nidrālakṣaṇam|

———————————————————|
svapnē madyaṁ saha prētairyaḥ vipan kr̥ṣyatē śunā||40||
sa martyau mr̥tyunā śīghraṁ jvararūpēṇa nīyatē|
———————————————————|41|

yō martyaḥ-puruṣaḥ, svapnē-svapnāvasthāyāṁ, prētaiḥ saha madyaṁ piban śunā kr̥ṣyatē-ākramyatē, sa mr̥tyunā jvararūpēṇa śīghraṁ ahirāt katipayairēva divasaiḥ, nīyatē, likāntaramiti śēṣaḥ|

———————————————————|
raktamālyavapurvastrō yō hasan hriyatē striyā||41||
sō’srapittēna————————————–|
———————————————————|42|

raktamālyō raktavapū raktavastraśca yō martyō hasan striyā svapnē hriyatē-ākr̥ṣyata ākramyatē, sō’srapittēna mr̥tyunā śīghraṁ nīyatē|

———————–mahiṣaśvarāhōṣṭragardabhaiḥ|
yaḥ prayāti diśaṁ yāmyāṁ maraṇaṁ tasya yakṣmaṇā||42||

yō mahiṣādibhiḥ karaṇabhūtairyāmyāṁ dakṣiṇāṁ diśaṁ, svapnē prayāti, tasya yakṣmaṇā maraṇaṁ bhavati|

latā kaṇṭakinī vaṁśastālō vā hr̥di jāyatē|
yasya tasyāśu gulmēna———————–|43|

martya iti prathamāntō’pīhārthavaśāt ṣaṣṭhyantaḥ sambadhyatē| yasya martyasya svapnē kaṇṭakayuktā latā hr̥dayē jāyatē, vaṁśō vā-athavā tālaḥ, tasya śīghraṁ gulmēna maraṇaṁ bhavēt| saṅgrahētvēvamuktam (śā. a. 12)- “yasya kaṇṭakinī latā vaṁśa stālō vā hr̥di jāyatē sa gulmēna| yasya tu śirasi sa śirōrōgēṇa śastrēṇa vā śiraḥccēdanēna|” iti|

———————————————————|
————————————yasya vahnimanarciṣam||43||
juhnatō ghr̥tasiktasya nagnasyōrasi jāyatē|
padmaṁ sa naśyētkuṣṭhēna——————————-|44|

yasya martyasya nagnasyājyābhyaktasya vahnimanarciṣaṁ-jvālārahitaṁ, juhnata urasi padmaṁ svapnē jāyatē, sa naraḥ kuṣṭhēna naśyēt|

———————————————————|
———————————caṇḍālaiḥ saha yaḥ pibēt||44||
snēhaṁ bahuvidhaṁ svapnē sa pramēhēṇa naśyati|
———————————————————|45|

caṇḍālaiḥ saha bahuvidhaṁ-anēkaprakāraṁ, snēhaṁ-ghr̥tatailādikaṁ, yō martyaḥ svapnē pibēt, sa pramēhēṇa naśyati| svapnē prakr̥tē’pi punaḥ svapnagrahaṇaṁ kr̥taṁ spaṣṭārtham|

———————————————————|
unmādēna jalē majjēdyō nr̥tyan rākṣasaiḥ saha||45||

unmādēna sa naśyati, yō rākṣasaiḥ saha nr̥tyan jalē majjēt|

apasmārēṇa yō martyō nr̥tyan prētēna nīyatē|
———————————————————|46|

sa marthyō’pasmārēṇa naśyati, yō nr̥tyan prētēna svapnē nīyatē|

———————————————————|
yānaṁ kharōṣṭramārjārakapiśārdūlasūkaraiḥ||46||
yasya prētaiḥ śr̥gālairvā sa mr̥tyōrvartatē mukhē|
———————————————————|47|

yasya narasya svapnē kharādibhiryānaṁ bhavati, sa mr̥tyōrmukhābhyantarē vartatē, atyāsannavināśatvāt|

————————————————–|
apūpaśaṣkulīrjagdhvā vibuddhastadvidhaṁ vaman||47||
na jīvati———————————————|
———————————————–|48|

apūpān śaṣkulīrvā jagdhvā-bhakṣayitvaivaṁ svapnē dr̥ṣṭvā, vibuddhaḥ san tadvidhaṁ-apūpaśaṣkuliprāyamēva, vamēt-udgirēt, sa na jīvati|

———-akṣirōgāya sūryandugrahaṇēkṣaṇam|
———————————————–|48|

sūryacandrayōrgrahaṇadarśanamakṣirōgāya|

———————————————–|
sūryācandramasōḥ pātadarśanaṁ dr̥gvināśanam||48||

svapnē sūryācandramasōḥ patanadarśanaṁ martyasya dr̥ṣṭivināśanam| sūryācandramasōriti “dēvatādvandvē ca” ityānaṅādēśaḥ|

mūrdhni vaṁśalatādīnāṁ sambhavō vayasāṁ tathā|
nilayō muṇḍatā kākagr̥dhrādyaiḥ parivāraṇam||49||
tathā prētapiśācastrīdraviḍāndhragavāśanaiḥ|
saṅgō vētralatāvaṁśatr̥ṇakaṇṭakasaṅkaṭē||50||
śvabhraśmaśānaśayanaṁ patanaṁ pāṁsubhasmanōḥ|
majjanaṁ jalapaṅkādau śīghrēṇa srōtasā hr̥tiḥ||51||
nr̥tvavāditragītāni raktasragvastradhāraṇam|
vayōṅgavr̥ddhirabhyaṅgō vivāhaḥ śmaśrukarma ca||52||
pakvānnasnēhamadyāśaḥ praccardanavirēcanē|
hiraṇyalōhayōrlābhaḥ kalirbandhaparājayau||53||
upānadyuganāśaśca prapātaḥ pādacarmaṇōḥ|
harṣō bhr̥śaṁ prakupitaiḥ pitr̥bhiścāvabhartsanam||54||
pradīpagrahanakṣatradantadaivatacakṣuṣām|
patanaṁ vā vināśō vā, bhēdanaṁ parvatasya ca||55||
kānanē raktakusumē pāpakarmanivēśanē|
citāndhakārasambādhē jananyāṁ ca pravēśanam||56||
pātaḥ prāsādaśailādērmatsyēna grasanaṁ tathā|
kāṣāyiṇāmasōmyānāṁ nagnānāṁ daṇḍadhāriṇāṁ||57||
raktākṣāṇāṁ ca kr̥ṣṇānāṁ darśanaṁ jātu nēṣyatē|
———————————————–|58|

jātu nēṣyata iti vakṣyamāṇēna sambandhaḥ| vaṁśalatādīnāṁ mūrdhni-śirasi, sambhavō-janma, jātu nēṣyatē| ēvamagrē’pi yōjyam| tathā, vayasāṁ-pakṣiṇāṁ, mūrdhni nilayō-nilayanam| tathā, muṇḍatā-kr̥tamuṇḍanatvam| kākādyaiḥ parivāraṇaṁ-parivr̥tatvam| na kēvalaṁ kākādyaiḥ, prētādyaiścēti tathāśabdasyārthaḥ| gavāśanāḥ gōmāṁsabhakṣāḥ, taiḥ| vētrādisaṅkaṭē-saṁvr̥tē, saṅgaḥ-dvārālābhaḥ, tatraiva niḥsāramapaśyataḥ| śvabhrē śmaśānē ca śayanaṁ-svapanam| pāṁsau bhasmani ca patanam| jalapaṅkādikē majjanaṁ-br̥ḍanam| ādiśabdēna kūpakaluṣōdakādi gr̥hyatē| srōtasā śīghrēṇa hr̥tiḥ-haraṇam| nr̥tyaṁ ca vāditraṁ ca gītaṁ ca tāni| tathā, srak ca vastraṁ ca sragvastrē, raktē ca tē sragvastrē ca, tayōrdhāraṇam| vayaścāṅgaṁ ca, tayōrvr̥ddhiḥ| abhyaṅgaḥ-abhyañjanam| vivāhaḥ-pariṇayaḥ| śmaśrukarma-mukhavyañjanamuṇḍanam| pakvānnaṁ-maṇḍakādiḥ, snēhaḥ-tailādiḥ, madyaṁ-sīdhvādi, tēṣāmāśō-bhakṣaṇam| praccardanaṁ-vamiḥ| virēcanaṁ-virēkaḥ| hiraṇyasya-rukmādēḥ, lōhasya ca lābhaḥ| saṅgrahē tūktam (śā. a. 12)- “labhatē vā hiraṇyalōhalavaṇa” iti| kaliḥ-anarthaḥ| bandhō-bandhanam| parājayaḥ-paribhavaḥ| upānadyugasya nāśaḥ| pādasya carmaṇaśca prakarṣēṇa patanam| bhr̥śaṁ-atiśayēna, harṣaḥ| pitr̥bhiḥ prakupitairavabhartsana-santarjanam| pradīpādīnāṁ patanamathavā vināśaḥ| parvatasya ca bhēdanam| kānanē-vanē, raktapuṣpē pravēśanamiti sambandhaḥ| pāpakarmāṇāṁ-pāpināṁ, nivēśanē-gr̥hē, pravēśanam| cintāyāmandhakārasambādhē-tamaḥsaṅkaṭē, jananyāṁmātari, ca pravēśanam| prāsādāt parvatādvā pātaḥ-patanam, ādiśabdēna vr̥kṣagr̥hādērgrahaṇam| matsyēna grasanaṁ-nigaraṇam| kaṣāyēṇa raktaṁ vastraṁ-kāṣāyam, tadvidyatē yēṣāmitīniḥ| tēṣāṁ kāṣāyiṇāṁ-kāśāyavastrāvr̥tānāṁ, tathā asaumyānāṁ-durdarśānāṁ, tathā nagnānāṁ-vivastrāṇāṁ, tathā daṇḍadhāriṇāṁ-daṇḍināṁ, tathā raktayanānāṁ kr̥ṣṇavarṇānāṁ ca nr̥ṇāṁ jātu-kadācit, na darśanamiṣyatē, svapnē’śubhahētutvāt|

———————————————–|
kr̥ṣṇā pāpānanācārā dīrghakēśanakhastanī||58||
virāgamālyavasanā svapnē kālaniśā matā|
———————————————–|59|

ēvaṁvidhā strī svapnē kālaniśā-tadvidhā, matā| kr̥ṣṇākr̥ṣṇavarṇā| tathā, pāpamānanamācāraśca yasyāḥ sā| tathā, dīrghāḥ kēśā nakhāḥ stanau ca yasyāḥ saivam| “svāṅgāccōpasarjanāt” iti ṅīp| mālyaṁ ca vasanaṁ ca mālyavasanam| vigatō rāgō yasya mālyavasanasya tadēvaṁbhūtaṁ mālyavasanaṁ yasyāḥ saivam|

———————————————–|
manōvahānāṁ pūrṇatvātsrōtasāṁ prabalairmalaiḥ||59||
dr̥śyantē dāruṇāḥ svapnā rōgī yairyāti pañcatām|
arōgaḥ saṁśayaṁ prāpya kaścidēva vimucyatē||60||

manaḥ-cētō, vahanti yāni viśēṣēṇa hr̥dāśritāni srōtāṁsi tāni manōvahāni, tēṣāṁ manōvahānāṁ prabalaiḥ-atibalavadbhiḥ, malaiḥ-malinīkaraṇasvabhavairvātapittaślēṣmabhiḥ, purṇatvāt dāruṇāḥ-ghōrā apraśastāḥ, spapnā dr̥śyantē-anubhūyantē| yaiḥsvapnairdr̥ṣṭaiḥ, rōgī-āturaḥ, pañcatāṁ yāti-maraṇaṁ prāpnōti, tathā svabhāvatvādaiṣāṁ svapnānām| arōga ityādi| svasthō naraḥ saṁśayaṁ-jīvitasaṁdēhaṁ, prāpya kaścidēva-bahūnāṁ madhyātpuṇyavānniyatāyurēva, vimucyatē, maraṇāditi, śēṣaḥ|

svapnabhēdānidānīmāha-

dr̥ṣṭaḥ śrutō’nubhūtaśca prārthitaḥ kalpitastathā|
bhāvikō dōṣajaścēti svapnaḥ saptavidhō mataḥ||61||

caḥ samuccayē| itiḥ prakārē| dr̥ṣṭādinā prakārēṇa svapnaḥ saptavidhō mataḥ,-sapta svapnā ityarthaḥ| dr̥ṣṭaḥ sa ucyatē,-yaścakṣuṣā jāgradavasthāyāṁ kiñcidvastujātaṁ dr̥ṣṭvā tadānīṁ suptāvasthāyāṁ tādr̥śaṁ vastujātaṁ saṁvittirūpatayā’nubhuyatē| 1| yaśca śabdamātrēṇa bastujātaṁ śrōtrēndriyēṇa gr̥hyatē tadānīṁ suptāvasthāyaṁ tādruksaṁvittirūpatayā’nubhūyatē, sa śruta ucyatē| 2| yastu jāgradavasthāyāṁ yathāyathamindriyairanubhūyatē suptāvasthāyāṁ tādr̥gantaḥsaṁvittirūpatayā’nubhūyatē, sō’nubhūta ucyatē| 3| yasmin dr̥ṣṭē śrutē’nubhūtē vā yatpūrvaṁ jāgradavasthāyāṁ vastujātaṁ manasā’bhyarthyatē tathaiva ca suptāvasthāyāmantaḥsaṁvittirūpatayā’nubhūyatē, sa prārthita ucyatē| 4| yastu ṣaḍbhiḥ pratyakṣānumānādibhirna dr̥ṣṭō nāpi śrutō nāpyanubhūtō dr̥ṣṭaśrutānubhūtatvābhāvādata ēva na prārthitaḥ, api tu kēvalaṁ manasā yathēccamutprēkṣya yatkiñcanarūpābhiḥ kalpanābhistābhistābhiḥ kalpitō jāgradavasthāyāṁ vastujātō’ntaḥsaṁvittāvupāruḍhaḥ, tadānīṁ suptāvasthāyāṁ tādr̥ganubhūyatē, sa kalpita ucyatē| 5| yaśca dr̥ṣṭaśrutādibhyaḥ svapnēbhyō’nyō vilakṣaṇasvapnō yathā dr̥śyatē suptāvasthāyāmuttarakālaṁ tathaiva tatsvapnadarśinā narēṇa tanmukhāvagatatadarthairanyairapi pratyakṣatō dr̥śyatē, sa bhāvikaḥ| 6| dōṣajaḥ sa svapnaḥ-yō vātajaḥ pittajaḥ kaphajō vā yathāyathaṁ dōṣaguṇānurūpō’ntaḥsaṁvittāvanubhūyata iti| 7|

tēṣvādyā niṣphalāḥ pañhca yathāsvaprakr̥tirdivā|
vismr̥tō dīrghahrasvō’ti—————————|62|

tēṣu svapnēṣumadhyādyē pañcādyāḥ-ādau paṭhitā dr̥ṣṭādayaḥ tē niṣphalāḥ-na tē yathānurūpaṁ phalaṁ śubhamaśubhaṁ vā dadati| yathāsvaprakr̥tiḥ-yathādōṣajō, yaḥ svapnaḥ sō’pi niṣphalaḥ-nāsau yathānurūpaṁ śubhāśubhalakṣaṇaṁ phalaṁ dadāti| vātaprakr̥tērvātaprakr̥tyanurūpataḥ svapnō yāvaddvandvaprakr̥tērdvēndvaprakr̥tyanarūpataḥ sannipātarūpatō vā’phalaḥ| tathā divā dr̥ṣṭō yaḥ svapnaḥ, tathā vismr̥taḥ, tathā’tidīrghō’tihrasvō vā yaḥ svapnaḥ, sa pañcavidhavyatiriktō’pyaphalaḥ|

———————————————–|
————————-pūrvarātrē cirātphalam||62||
dr̥ṣṭaḥ karōti tuccaṁ ca———————-|
———————————————–|63|

pūrvarātrē dr̥ṣṭaḥ svapnaścirāt-cirēṇa kālēna, phalaṁ tuccaṁ-alpaṁ, na yathāparibhāṣitaṁ, vidadhāti| kēcittvāhuḥ,-cēti vikalpārthē, cirēṇa kālēna tuccaṁ vētyarthaḥ| pūrvarātra iti “ahaḥ sarvaikadēśa” iti samāsāntaḥ|

————————-gōsargē tadaharmahat|
nidrayā vā’nupahataḥ pratīpairvacanaistathā||63||

gōsargē-gavāṁ mōkṣakālē, yō dr̥ṣṭaḥ svapnaḥ sa tadahaḥ-tasminnēvāhani, phalaṁ mahatkarōtīti yōjyam| tadaharityahaḥśabdaḥ saptamyarthavr̥ttiravyayaḥ| śubhaḥ svapnō dr̥ṣṭō rātriśēṣē nidrayā vā yadyanupahatō-yasminsvapnē dr̥ṣṭē’nantaraṁ na supyatē, sa svapnō mahat phalaṁ karōti| anyathā svalpam| pratīpaiḥ-ananukūlairvacanaiśca, anupahataḥ-anabhyāhataḥ, śubhaḥ svapnō dr̥ṣṭō mahat phalaṁ karōti|

ēvaṁ śubhaṁ svapnaṁ pratyuktvā’śubhaṁ svapnaṁ pratyāha—-

yāti pāpō’lpaphalatāṁ dānahōmajapādibhiḥ|
———————————————–|64|

pāpaḥ-aśubhaḥ svapnaḥ, alpaphalatāṁ yāti| kaiḥ ? dānādibhiḥ| ādigrahaṇāt dhyānaniyamādayō gr̥hyantē|

———————————————–|
akalyāṇamapi svapnaṁ dr̥ṣṭvā tatraiva yaḥ punaḥ||64||
paśyētsaumyaṁ śubhaṁ tasya śubhamēva phalaṁ bhavēt|
———————————————–|65|

akalyāṇamapi-aśubhasūcakatvādaśubhaṁ [api], svapnaṁ dr̥ṣṭvā tatraiva-tasminnēvāvasarē’śubhasvapnadarśanasamanantarē kālē, saumyakaraṁśubhasūcakatvāccubhaṁ svapnaṁ yaḥ paśyēttasya jantōstasya vā svapnasya śubhamēva-kalyāṇarūpamēva, phalaṁ bhavēt, na pūrvadr̥ṣṭamaśubhamityēvaśabdārthaḥ| apiśabdāt kalyāṇaṁ svapnaṁ dr̥ṣṭvā yastatraiva vā svapnamadhyē suptō’śubhaṁ ca svapnaṁ paśyēt, tasyāśubhamēva phalaṁ bhavēt, na pūrvadr̥ṣṭaṁ śubhamiti bōdhyam| nanu, ēvaṁ sati svapnānāmaniścataphalatvaṁ prāpnōti| tataśca “svapnē madyaṁ saha prētaiḥ” (ślō.40)
ityādinā yaduktaṁ tadanyathā’pi syāt| yatō’śubhalakṣaṇō’pyēvaṁ dānādibhiścānyathā sampadyatē| tataścāniścitaphalatvānmaraṇaṁ prati nāsau niścitō hētuḥ| ēvamanyē’pi yē svapnāḥ pratiniyatā raktapittādīnāṁ vyādhīnāṁ hētavō nirdiṣṭāḥ, tē’pi tathaiva bōddhavyāḥ| atrācakṣmahē| niścitāniścitaphalasvabhāvatvāt svapnānāmadōṣaḥ| tathā hi-kēcitsvapnā niścitaphalasvabhāvā nirdiṣṭāḥ| yathā-“svapnē madyaṁ saha prētaiḥ” ityādayaḥ| kēcidaniścitaphalasvabhāvāḥ| yathā-“mūrdhni vaṁśalatādīnāṁ” (ślō-49) ityārabhya yāvat “raktākṣāṇāṁ ca kr̥ṣṇānāṁ darśanaṁ jātu nēṣyatē” ityēvamantēna granthēna yē nirdiṣṭāḥ| tatra yē niścitaphalasvabhāvāstēṣāṁ na kathañcidapyanyathā kartuṁ pāryatē| prāktanasya karmaṇastathārūpasya balabattvāt| yē tvaniścitaphalasvabhāvāḥ “mūrdhni vaṁśalatādīnāṁ” ityādayaḥ| tēṣāṁ spapnāntaradarśanādibhiranyathā sadbhāvaḥ sambhāvyata iti|

“paśyētsaumyaṁ” ityuktam| atstānēva saumyān svapnān darśayitumāha-

———————————————–|
dēvān dvijān gōvr̥ṣabhān jīvataḥ suhr̥dō nr̥pān||65||
sādhūn yaśasvinō vahnimiddhaṁ svaccān jalāśayān|
kanyāḥ kumārakān gaurān śuklavastrānsutējasaḥ||66||
narāśanaṁ dīptatanuṁ samantādrudhirōkṣitam|
yaḥ paśyēllabhatē yō vā catrādarśaviṣāmiṣam||67||
śuklāḥ sumanasō vastramamēdhyālēpanaṁ phalam|
śailaprāsādasaphalavr̥kṣasiṁhanaradvipān||68||
ārōhēdgōśvayānaṁ ca, tarēnnadahadōdadhīn|
pūrvōttarēṇa gamanamagamyāgamanaṁ mr̥tam||69||
sambādhānniḥsr̥tirdēvaiḥ pitr̥bhiścābhinandanam|
rōdanaṁ patitōtthānaṁ dviṣatāṁ cāvamardanam||70||
yasya syādāyurārōgyaṁ vittaṁ bahu ca sō’śnutē|
———————————————–|71|

kumārakā-bālakāḥ| viṣaṁ-vatsanābhādi| āmiṣaṁ-māṁsam| sumanasaḥ-puṣpāṇi| śuklaśabdō vastramityatrāpi sambadhyatē, arthavaśāccāsya napuṁsakatvamēkatvaṁ ca bōdhyam| dēvādīn yaḥ paśyēt, yō vā catrādīn labhatē, yaśca śailādīn samārōhēt, yaśca nadādīṁstarēt, yasya vā pūrvōttaragamanādikaṁ syāt, sa puruṣa āyurādīnaśnutē-prāpnōti|

“ārōgyamaśnutē” ityuktam|
atastadēvārōgyaṁ lakṣayitumāha—-

——————————————–|
maṅgalācārasampannaḥ parivārastathā”turaḥ||71||
śraddhadhānō’nukūlaśca prabhūtadravyasaṅgrahaḥ|
sattvalakṣaṇasaṁyōgō bhaktirvaidyadvijātiṣu||72||
cikitsāyāmanirvēdastadārōgyasya lakṣaṇam|
———————————————–|73|

“praśastācaraṇaṁ nityamapraśastavisarjanam| ētaddhi maṅgalaṁ prōktamr̥ṣibhistattvadarśibhiḥ||”. ācaraṇaṁ-ācāraḥ saddr̥ttānuṣṭhānam| maṅgalācārābhyāṁ sampannō-yuktaḥ| kaḥ ? parivāraḥ| tathā, āturaḥ| śraddhadhānaḥ-avaśyaṁ mē vyādhirayamanēna bhēṣajēna naśyatītyēvaṁ manyamānaḥ| tathā ca, parivārō’nukūlaḥ-dakṣiṇaḥ| tathā, prabhūtasya dravyasya saṅgrahaḥ-saṅgrahaṇam| tathā, sattvalakṣaṇayōḥ saṁyōgō, vaidyādiṣu bhaktiḥ, cikitsāyāṁ-upakramē, anirvēdaḥ-sōtsāhatā, tat-ētat, ārōgyalakṣaṇam|

kasmādidaṁ sthānaṁ śārīramucyatē ? ityasya niruktimāha—-

——————————————–|
ityatra janmamaraṇaṁ yataḥ samyagudāhr̥tam|73|
śarīrasya tataḥ sthānaṁ śārīramidamucyatē|
73 1/2|
iti śrīvaidyapatisiṁhaguptasūnuśrīmadvāgbhaṭaviracitā-
yāmaṣṭāṅgahr̥dayasaṁhitāyāṁ dvitīyē śārīrasthānē
dūtādivijñānīyō nāma ṣaṣṭhō’dhyāyaḥ|6|

iti-parisamāptau| atra-asminsthānē, yatō-yasmāt, śarīrasya janma samyak-aviparītaṁ garbhāvakrāntyādibhiścaturbhiradhyāyaiḥ prasaktānuprasaktikayā, udahr̥tam| maraṇaṁ-vikr̥tivijñānīyākhyēna tathā dūtādivijñānīyākhyēna ca| tataḥ-śarīrasya janmamaraṇōdāharaṇāt kāraṇāt, idaṁ sthānaṁ śārīramucyatē| yadyapi sarva āyurvēdākhyō granthaḥ śarīramadhikr̥tya pravr̥ttaḥ, tathā’pīdaṁ sthānaṁ sākṣājjanmamaraṇacintanāccarīrasya prādhānyēna śārīraṁ sthānamucyata iti|
iti śrīmr̥gāṅkadattaputraśrīmadaruṇadattaviracittāyāmaṣṭāṅgahr̥daya-
ṭīkāyaṁ sarvāṅgasundarākhyāyāṁ dvitīyē śārīrasthānē dūtā-
divijñānīyō nāma ṣaṣṭhō’dhyāyaḥ samāptaḥ|| 6||

Scroll to Top