Table of Contents
Devanagari Version
श्रीमद्वाग्भटविरचितम्
अष्टाङ्गहृदयम्
श्रीमदरुणदत्तविरचितया 'सर्वाङ्गसुन्दराख्या' व्याख्यया हेमाद्रिप्रणीतया 'आयुर्वेदरसायनाह्वया' टीकया च समुल्लसितम्
उत्तरस्थानम् - ३५. विषप्रतिषेधाध्यायः
Only Moolashloka
अधुना विषतन्त्रमुच्यते, सद्यःप्राणहारित्वेन तुल्यसाधर्म्यात्|
अथातो विषप्रतिषेधं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः|
(गद्यसूत्रे)|२|
तत्र विषस्य प्रागुत्पत्तिदर्शनार्थमाह-
मथ्यमाने जलनिधावमृतार्थं सुरासुरैः|
जातः प्रागमृतोत्पत्तेः पुरुषो घोरदर्शनः||१||
दीप्ततेजाश्चतुर्दंष्ट्रो हरिकेशोऽनलेक्षणः|
जगद्विषण्णं तं दृष्ट्वा तेनासौ विषसंज्ञितः||२||
हुंकृतो ब्रह्मणा मूर्ती ततः स्थावरजङ्गमे|
सोऽध्यतिष्ठन्निजं रूपमुज्झित्वा वञ्चनात्मकम्||३||
स०- समुद्रे सुरासुरैरमृतार्थं विलोड्यमानेऽमृतोत्पत्तेः पूर्वं पुरुषो दारुणदृष्टिः समिद्धधामा चतुर्दंष्ट्रो हरिवर्णकचो दहनतुल्यनेत्रो जातः| तं पुरुषं दृष्ट्वा भुवनं विषादं गतम्| अत एवासौ जगद्विषदनात् विषसंज्ञः| ब्रह्मण हुंकृतस्तु सन्नसौ वञ्चनस्वभावं स्वं रूपं हित्वा स्थावरजङ्गमाख्ये मूर्ती अधितस्थौ| पुरुषरुपी तिष्ठेदसौ ततो ब्रह्मा शापं दद्यात्|
स्थिरमत्युल्बणं वीर्ये यत्कन्देषु प्रतिष्ठितम्|
कालकूटेन्द्रवत्साख्यशृङ्गीहालाहलादिकम्||४||
स०-यद्विषं स्थिरं-स्थावरं, कन्देषु प्रतिष्ठितं वीर्ये अत्युल्बणं तत् कालकूटादिभेदभिन्नम्| फलादिष्वपि तद् भवति, किन्तु कन्दे वीर्यातिकृत्| आदिशब्देन सङ्ग्रहोक्ता भेदा गृह्यन्ते| यथा (सं.उ. अ. ४०)-“कालकूटं वत्सनाभं साक्तुकं वालकं कर्दमकं वैराटं मुस्तकं शृङ्गी पुण्डरीकं महाविषं हालाहलं मर्कटकं कर्कटं काशपुष्पकमिन्द्रायुधं तथा तैलम्|” इति (त्यादि) भेदाः प्रकीर्तिताः| एषां तु लक्षणं तत्रोक्तम्| तदहि विस्तरतरग्रन्थशङ्कया नोक्तम्|
सर्पलूतादिदंष्ट्रासु दारुणं जङ्गमं विषम्|
———————————————–|५|
स०- सर्पादिदंष्ट्रासु तु यद्व्यवस्थितं तज्जङ्गमम्| तच्च दारुणम्| दंष्ट्रेत्युपलक्षणार्थम्, नखविषाणमूत्रादीनामपि पुरो विषत्वेन वक्ष्यमाणत्वात्|
——————————————————–|
स्थावरं जङ्गमं चेति विषं प्रोक्तमकृत्रिमम्||५||
स०-स्थावरं जङ्गमं चेति द्विप्रकारं विषमकृत्रिमम्|
कृत्रिमं गरसंज्ञं तु क्रियते विविधौषधैः|
हन्ति योगवशेनाशु चिराच्चिरतराच्च तत्||६||
शोफपाण्डूदरोन्माददुर्नामादीन् करोति वा|
——————————————————–|७|
स०- गरसंज्ञं तु कृत्रिमम्| यस्मात्तत् क्रियते| अत एव विविधानि वक्ष्यमाणान्यौषधानि यस्मिंस्तदेवम्| तच्च योगवशाच्छीघ्रं हन्ति| तथा विविधयोगवशाच्चिराच्चिरं हन्ति| शोफादींश्च विधत्ते|
अथ विषगुणान्निर्दिशति —————
——————————————————–|
तीक्ष्णोष्णरूक्षविशदं व्यवाय्याशुकरं लघु||७||
विकाषि सूक्ष्ममव्यक्तरसं विषमपाकि च|
——————————————————–|८|
स०- तत्सर्वं विषं तीक्ष्णादिगुणं स्यात्| गुणनिर्देशनादस्य रौक्ष्याद्वातमुष्णत्वात् पित्तं करोतीति ज्ञाप्यते| ननु, रौक्ष्यादिभिर्गुणैर्वायोः कोपो न युज्यते, रौक्ष्यादीनां गुणत्वाद्वायोश्च द्रव्यत्वात्| ब्रूमः| वायोर्ये रौक्ष्यादयो गुणास्तेषामेव विषस्थै रौक्ष्यादिभिर्गुणैर्वृद्धिः क्रियते| ते च वायोरात्मभूताः, तन्नाशे वायोर्नाशः स्यात्, यथा तन्तुनाशे पटनाशः| तस्माद्युक्तः पवनस्य रौक्ष्यादिभिर्गुणैः प्रकोपः| एवं पित्तेऽपि योज्यम्| कट्वम्लादिकथनेऽपि विषस्याव्यक्तरसत्वम्, अनेकरससम्भवादेकस्यापि च व्यक्तस्यानुपलब्धेः| व्यवायित्वं चास्य द्रागेवाखिलकायस्य व्याप्तेः| तथा अपाकि,-विषस्य हि मन्त्रतन्त्राभ्यामन्तरेण पाकाभावात्, पक्वेऽप्यन्ने विषस्यापक्वस्येवोपलब्धेः| अत एव शमितमपि किञ्चित्कारणं प्राप्य पुनः कुप्यति|
——————————————————–|
ओजसो विपरीतं तत् तीक्ष्णाद्यैरन्वितं गुणैः||८||
वातपित्तोत्तरं नृणां सद्यो हरति जीवितम्|
——————————————————–|९|
सं-तथा विषमोजसो विपरीतं तीक्ष्णादिभिर्दशभिर्गुणैर्युक्तम्| तीक्ष्णाद्यैरन्वितमिति हेतौ प्रथमा| तीक्ष्णादिगुणयुक्तत्वादोजसो विपरीतमित्यर्थः| तथा वातपित्तोतरं नराणां द्रागेव जीवितं हरति|
कुतः ? इत्याह—-
—————————————————–|
विषं हि देहं सम्प्राप्य प्राग् दूषयति शोणितम्||९||
कफपित्तानिलांश्चानु समं दोषान् सहाशयान्|
ततो हृदयमास्थाय देहोच्छेदाय कल्पते||१०||
स०- यस्माद्विषं शरीरं प्राप्य पूर्वं रक्तं सर्वशरीरगतं दूषयति, पश्चात् कफपित्तवातानाशयसहितान् दूषयति| अनन्तरं कफादिभिः सममेव हृदयमाश्रित्य शरिरनाशाय सम्पद्यते| ननु, विषस्य तीक्ष्णादिभिर्गुणैर्युगपत् त्रिदोषकोपित्वाद्रक्तकोपित्वाच्च पूर्वं शोणितं दूषयति पश्चात्रीन् दोषानिति यदुक्तं तदयुक्तिमदिव दृश्यते| अत्र भणामः विषप्रभावेण रक्तमाकृष्टं पूर्वं सह तेन संयुक्तं विषेण दूष्यते, ततो युगपदेव दोषत्रयकोपः, ततो दोषैः शोणितेन सह हृदयं व्याप्य सर्वस्रोतांसि बद्ध्वा देहोच्छेदाय प्रवर्तत इति न किञ्चिदत्रानुपपन्नम्|
स्थावरस्योपयुक्तस्य वेगे पूर्वे प्रजायते|
जिह्वायाः श्यावता स्तम्भो मूर्च्छा त्रासः क्लमो वमिः||११||
स०-स्थावरस्य विषस्योपयुक्तस्य प्रथमे वेगे रसनाश्यावतादि जायते|
द्वितीये वेपथुः स्वेदो दाहः कण्ठे च वेदना|
विषं चामाशयं प्राप्तं कुरुते हृदि वेदनाम्||१२||
स०- द्वितीये वेगे वेपथ्वादयः| विषं चामाशयं प्राप्तं हृदये वेदनां विधत्ते|
तालुशोषस्तृतीये तु शूलं चामाशये भृशम्|
दुर्बले हरिते शूने जायेते चास्य लोचने||१३||
पक्वाशयगते तोदहिध्माकासान्त्रकूजनम्|
——————————————————–|१४|
स०- तृतीये च वेगे तालुशोषः आमाशयेऽतिरुजा स्यात्| नेत्रे चास्य दुर्बलादिगुणे भवतः| पक्वाशयगते तोदादयः स्युः|
——————————————————–|
चतुर्थे जायते वेगे शिरसश्चातिगौरवम्||१४||
स०- चतुर्थे वेगे मूर्ध्नोऽतिगुरुत्वं जायते| चशब्दात् पूर्वोक्ता रसनाशयावतादयः स्युः| एवमग्रेऽपि चशब्दार्थो बोध्यः|
कफप्रसेको वैवर्ण्यं पर्वभेदश्च पञ्चमे|
सर्वदोषप्रकोपश्च पक्वाधाने च वेदना||१५||
स०- पञ्चमे वेगे कफप्रसेकादिः| सर्वदोषाणां प्रकोपः| पूर्वोक्ताश्च| पक्वाशये व्यथा च|
षष्ठे संज्ञाप्रणाशश्च सुभृशं चातिसार्यते|
——————————————————–|१६|
स०- षष्ठे वेगे चेतनायाः प्रणाशोऽतिशयेनातिसारश्च|
——————————————————–|
स्कन्धपृष्ठकटीभङ्गो भवेन्मृत्युश्च सप्तमे||१६||
स०- सप्तमे स्कन्धादिभङ्गः, सप्तानां धातूनां दूषणान्मृत्युश्च स्यात्|
प्रथमे विषवेगे तु वान्तं शीताम्बुसेचितम्|
सर्पिर्मधुभ्यां संयुक्तमगदं पाययेद् द्रुतम्||१७||
स०- प्रथमे विषवेगे तु कृतवमनं शिशिरजलसेचितं शीघ्रमेवागदं सघृतमाक्षिकं पाययेत्|
द्वितीये पूर्ववद्वान्तं विरिक्तं चानु पाययेत्|
——————————————————–|१८|
स०- द्वितीये विषवेगे पूर्ववत्-शीताम्बुसेचितं, वान्तं विरिक्तं चानु-पश्चात्, अगदं पाययेत्|
——————————————————–|
तृतीयेऽगदपानं तु हितं नस्यं तथाऽञ्जनम्||१८||
स०- तृतीये वेगेऽगदपानं नस्यमञ्जनं च हितम्|
चतुर्थे स्नेहसंयुक्तमगदं प्रतियोजयेत्|
——————————————————–|१९|
स०- चतुर्थे वेगे स्नेहसंयुतमगदं प्रतियोजयेत्|
——————————————————–|
पञ्चमे मधुकक्वाथमाक्षिकाभ्यां युतं हितम्||१९||
स०- पञ्चमे वेगे मधुयष्टिकाक्वाथमाक्षिकाभ्यां युक्तमगदं हितम्|
षष्ठेऽतिसारवत्सिद्धिः————————-|
——————————————————–|२०|
स०- षष्ठे वेगेऽतिसारतुल्या चिकित्सा|
———————————-अवपीडस्तु सप्तमे|
मूर्ध्नि काकपदं कृत्वा सासृग्वा पिशितं क्षिपेत्||२०||
स०- सप्तमे वेगेऽवपीडो-रोगानुत्पादनीयोक्तो (हृ.सू. अ. ४/६), देयः|
अथवा मस्तके काकपदं कृत्वा सरक्तं पिशितं न्यसेत्|
कोशातक्यग्निकः पाठा सूर्यवल्यमृताभयाः|
शेलुः शिरीषः किणीही हरिद्रे क्षौद्रसाह्वया||२१||
पुनर्नवे त्रिकटुकं बृहत्यौ सारिवे बला|
एषां यवागूं निर्युहे शीतां सघृतमक्षिकाम्||२२||
युञ्ज्याद्वेगान्तरे सर्वविषघ्नीं कृतकर्मणः|
——————————————————–|२३|
स०- कोशातक्यादीनां क्वाथे यवागूं सिद्धां शीतां ससर्पिष्कमाक्षिकां युञ्जयात्| सूर्यवल्ली-करवीरकाकारपुष्पी| क्षौद्रसाह्वयं-वटमाक्षिकम्| वेगान्तरे-वेगमध्ये, सर्वविषघ्नीम्| कृतं कर्म यस्य तस्यैवं कार्यम्|
——————————————————–|
तद्वन्मधूकमधुकपद्मकेसरचन्दनैः||२३||
स०- मधूकादिक्वाथे पेयां शीतां सघृतमाक्षिकां युञ्ज्यात्|
अञ्जनं तगरं कुष्ठं हरितालं मनःशिला|
फलानी त्रिकटु स्पृक्का नागपुष्पं सकेसरम्||२४||
हरेणुर्मधुकं मांसी रोचना काकमालिका|
श्रीवेष्टकं सर्जरसः शताह्वा कुङ्कुमं बला||२५||
तमालपत्रतालीसभूर्जोशीरनिशाद्वयम्|
कन्योपवासिनी स्नाता शुक्लवासा मधुद्रुतैः||२६||
द्विजानभ्यर्च्य तैः पुष्ये कल्पयेदगदोत्तमम्|
वैद्यश्चात्र तदा मन्त्रं प्रयतात्मा पठेदिमम्||२७||
“नमः पुरुषसिंहाय नमो नारायणाय च|
यथाऽसौ नाभिजानाति रणे कृष्णपराजयम्||२८||
एतेन सत्यवाक्येन अगदो मे प्रसिध्यतु|
नमो वैदूर्यमाते हुलुहुलु रक्ष मां सर्वविषेभ्यः||२९||
गौरि गान्धारि चाण्डालि मातङ्गि स्वाहा|
“
पिष्टे च द्वितीयो मन्त्रः “हरिमायि स्वाहा||३०||
“
अशेषविषवेतालग्रहकार्मणपाप्मसु|
मरकव्याधिदुर्भिक्षयुद्धाशनिभयेषु च||३१||
पाननस्याञ्जनालेपमणिबन्धादियोजितः|
एष चन्द्रोदयो नाम शान्तिस्वस्त्ययनं परम्||३२||
|वासवो वृत्रमवधीत्समालिप्तः किलामुना|
]||३२||
स०- अञ्जनादीनि द्रव्याणि| कन्या कृतोपवासा स्नाताशुक्लवस्त्रा तैः-पूर्वोक्तैर्द्रव्यैः, माक्षिकसिक्तैः पुष्यनक्षत्रे विप्रान् पूजयित्वाऽनन्तरमगदवरमिमं कल्पयेत्| वैद्यश्च समीपस्थो मन्त्रं नम इत्यादिकं पठेत्| पिष्टे चागदे द्वितीयो मन्त्रो हरिमाय्यादिकोऽत्र योज्यः| निखिलेषु विषादिषु पानादिमणिबन्धादि योजितोऽयं चन्द्रोदयो नामागदः परं शान्तं(न्ति) स्वस्त्ययनम्|
जीर्णं विषघ्नौषधिभिर्हतं वा दावाग्निवातातपशोषितं वा|
स्वभावतो वा न गुणैः सुयुक्तं दूषिविषाख्यां विषमभ्युपैति||३३||
वीर्याल्पभावादविभाव्यमेतत् कफावृतं वर्षगणानुबन्धि|
तेनार्दितो भिन्नपुरीषवर्णो दुष्टास्ररोगी तृडरोचकार्तः||३४||
मूर्च्छन् वमन् गद्गदवाक् विमुह्यन् भवेच्च दूष्योदरलिङ्गजुष्टः|
आमाशयस्थे कफवातरोगी पक्वाशयस्थेऽनिलपित्तरोगी||३५||
भवेन्नरो ध्वस्तशिरोरुहाङ्गो विलूनपक्षः स यथा विहङ्गः|
स्थितं रसादिष्वथवा विचित्रान् करोति धातुप्रभवान् विकारान्||३६||
स०- यद्विषं पुराणं, विषघ्नौषधिभिर्वा हतवीर्यं, यद्वा दावाग्नीत्यादिभिः शोषितं, स्वभवेनैव वा गुणैर्न सुष्ठु युक्तं, तद् दूषीविषसंज्ञामुपैति| तथा वीर्यस्याल्पत्वादेतदविभाव्यं-अलक्ष्यम्| तथा कफेनावृतं वर्षवृन्दं च तत्स्थायि| तेन-दूषीविषेण, पीडितो भिन्नपुरीषवर्णादिकः स्यात्| तथा मूर्च्छां गच्छन् वमन्नस्फुटवाक् तथा विमुह्यन् तथा दूष्येनोपलक्षित उदरे यानि लिङ्गानि (हृंइ. अ. १२/२०), तैः सेवितश्च भवेत्|
आमाशयस्थे दूषीविषे कफवातरोगी स्यात्
पक्वाशयस्थे दूषीविषेऽनिलपित्तरोगी स्यात्| उपजातयः|
ध्वस्ताः कचाः शरीरं च यस्य स ध्वस्तशिरोतुहाङ्गो विलूनपक्षः पक्षीव भवेत्|
रसादिषु च स्थितं नानाविधान् धातुप्रभवान् विकारान् करोति| उपेन्द्रवज्रावृत्तम्|
प्राग्वाताजीर्णशीताभ्रदिवास्वप्नाहिताशनैः|
दुष्टं दूषयते धातूनतो दूषीविषं स्मृतम्||३७||
स०-तच्च पुरोवातादिभिर्दुष्टं सद्धातून् दूषयति यतः, ततोऽपि हेतोर्दूषीविषं स्मृतम्|
दूषीविषार्तं सुस्विन्नमूर्ध्वं चाधश्च शोधितम्|
दूषीविषारिमगधं लेहयेन्मधुनाऽऽप्लुतम्||३८||
स०-दूषीविषपीडितं नरं सुस्विन्नमूर्ध्वमधस्ताच्च शोधितं सन्तं दूषीविषारि-वक्ष्यमाणं, माक्षिकेणाप्लुतमगदं लेहयेत्|
तमेवाह —-
पिप्पल्यो ध्यामकं मांसी रोध्रमेला सुवर्चिका|
कुटन्नटं नतं कुष्ठं यष्टी चन्दनगैरिकम्||३९||
दूषीविषारिर्नाम्नाऽयं न चान्यत्रापि वार्यते|
——————————————————–|४०|
स०- पिप्पल्यादिकोऽयमगदो नाम्ना दूषीविषारिः| न चान्यस्मिन्नपि वार्यते| किन्तु विशेषेण प्रयुज्यते|
——————————————————–|
विषदिग्धेन विद्धस्तु प्रताम्यति मुहुर्मुहुः||४०||
विवर्णभावं भजते विषादं चाशु गच्छति|
कीटैरिवावृतं चास्य गात्रं चिमिचिमायते||४१||
श्रोणिपृष्ठशिरःस्कन्धसन्धयः स्युः सवेदनाः|
कृष्णदुष्टास्रविस्रावी तृण्मूर्च्छाज्वरदाहवान्||४२||
दृष्टिकालुष्यवमथुश्वासकासकरः क्षणात्|
आरक्तपीतपर्यन्तः श्यावमध्योऽतिरुग्व्रणः||४३||
शूयते पच्यते सद्यो गत्वा मांसं च कृष्णताम्|
प्रक्लिन्नं शीर्यतेऽभीक्ष्णं सपिच्छिलपरिस्रवम्||४४||
स०-विषदिग्धेन-विषलिप्तेन शस्त्रेण, विद्धो नरः पुनःपुनः प्रताम्यति| तथा वैवर्ण्यं प्रयाति| द्रागेव विषादमेति| अस्य च-विषदिग्धेन विद्धस्य, शरीरं कीटैरिव व्याप्तं चिमिचिमायते| श्रोण्यादयश्चास्य सरुजाः स्युः कृष्णं दुष्टं च रक्तं क्षरति| तृडादियुतः क्षणेनैव च दृष्टिकालुष्यादिकरः स्यात्| तथा व्रण ईषद्रक्तप्रयन्तः श्यावमध्यो महारुजः स्यात्| तथा शूयते पाकं याति| तेषां सद्य एव च मांसं कृष्णतां गत्वा प्रक्लिन्नं सद्दीर्यते नित्यमेव पिच्छिलयुतं परिस्रवं कुर्यात्|
कुर्यादमर्मविद्धस्य हृदयावरणं द्रुतम्|
शल्यमाकृष्य तप्तेन लोहेनानु दहेद् व्रणम्||४५||
अथवा मुष्ककश्वेतासोमत्वक्ताम्रवल्लितः|
शिरीषाद् गृध्रनख्याश्च क्षारेण प्रतिसारयेत्||४६||
शुकनासाप्रतिविषाव्याघ्रीमूलैश्च लेपयेत्|
——————————————————–|४७|
स०- अमर्मविद्धस्य हृदयावरणं द्रुतं विदधीत|
स०- शल्यमाकृष्य तप्तेन लोहेन व्रणं पश्चाद्दहेत्|
अथवा मुष्ककादिक्षारेण प्रतिसारयेत्| शुकनासादिभिश्च लेपयेत् व्रणम्|
——————————————————–|
कीटदष्टचिकित्सां च कुर्यात्तस्य यथार्हतः||४७||
स०-तस्य च-दिग्धफलविद्धस्य, कीटदष्टचिकित्सितं यथायोगं कुर्यात्|
व्रणे तु पूतिपिशिते क्रिया पित्तविसर्पवत्|
——————————————————–|४८|
स०-व्रणे च पूतिमांसे पित्तविसर्प इव चिकित्सा कार्या|
——————————————————–|
सौभाग्यार्थं स्त्रियो भर्त्रे राज्ञे वाऽरातिचोदिताः||४८||
गरमाहारसम्पृक्तं यच्छन्त्यासन्नवर्तिनः|
——————————————————–|४९|
सं-नानाकान्ताः योषितः पत्ये सौभाग्यार्थं राज्ञश्च(राज्ञे वा) निकटवर्तिनो नराश्चारातिप्रेरिता गरयुक्तं भोजनं ददति|
——————————————————–|
नानाप्राण्यङ्गशमलविरुद्धौषधिभस्मनाम्||४९||
विषाणां चाल्पवीर्याणां योगो गर इति स्मृतः|
——————————————————–|५०|
स०-नानाप्रकारप्राण्यङ्गशकृतां तथा विरुद्धौषधिभस्मनां विषाणां च स्तोकवीर्याणां यो योगः, स गर इति स्मृतः|
——————————————————–|
तेन पाण्डुः कृशोऽल्पाग्निः कासश्वासज्वरार्दितः||५०||
वायुना प्रतिलोमेन स्वप्नचिन्तापरायणः|
महोदरयकृत्प्लीही दीनवाग्दुर्बलोऽलसः||५१||
शोफवान् सतताध्मातः शुष्कपादकरः क्षयी|
स्वप्ने गोमायुमार्जारनकुलव्यालवानरान्||५२||
प्रायः पश्यति शुष्कांश्च वनस्पतिजलाशयान्|
मन्यते कृष्णमात्मानं गौरो, गोरं च कालकः||५३||
विकर्णनासानयनं पश्येत्तद्विहतेन्द्रियः|
——————————————————–|५४|
स०- तेन गरेण पाण्ड्वादिगुणः कासादिपीडितश्च स्यात्| वातेन प्रतिलोमेन युक्तस्तथा स्वप्नचिन्तापरः स्यात्| तथा बृहज्जठरयकृत्प्लीहवान् दीनवागादिगुणश्च स्यात्| स्वप्ने शृगालादीन् पश्यति| प्रायेण शुष्कवृक्षोदपानानि लोकते| आत्मानं च गौरः सन् कृष्णं मन्यते| कृष्णश्च गौरं मन्यते| तेन-गरविषेण, विहतेन्द्रियः सन् विकर्णघ्राणचक्षुषं पश्येत्|
——————————————————–|
एतैरन्यैश्च बहुभिः क्लिष्टो घोरैरुपद्रवैः||५४||
गरार्तो नाशमाप्नोति कश्चित्सद्योऽचिकित्सितः|
——————————————————–|५५|
स०-एतैः-उक्तैरुपद्रवैः, अपरैश्चानुक्तैर्दारुणैः क्लिष्टः सन् गरपीडितः कश्चिदचिकित्सितः सद्य एव नाशमश्नुते|
——————————————————–|
गरार्तो वान्तवान् भुक्त्वा तत्पथ्यं पानभोजनम्||५५||
शुद्धहृच्छीलयेद्धेम सूत्रस्थानविधेः स्मरन्|
——————————————————–|५६|
स०- गरातुरः कृतवमनः सन् तत्-पूर्वोक्तं, पथ्यं पानभोजनं भुक्त्वा शुद्धहृदयः सुवर्णं शीलयेत्| किं कुर्वन् ? सूत्रस्थानोक्तविधेः-“शुद्धे हृदि ततः शाणं हेमचूर्णस्य दापयेत्|” (हृ.सू. अ. ७/२८) इति स्मरन्| विधेः स्मरन्नित्यत्र “अधीगर्थ-” इत्यादिना विधिशब्दात् कर्मणि षष्ठी|
——————————————————–|
शर्कराक्षौद्रसंयुक्तं चूर्णं ताप्यसुवर्णयोः||५६||
लेहः प्रशमयत्युग्रं सर्वयोगकृतं विषम्|
——————————————————–|५७|
स०-माक्षीकधातुकाञ्चनयोश्चूर्णं शर्करामाक्षिकान्वितं लेहो दारुणं गरयोगजं विषं हन्ति|
——————————————————–|
मूर्वामृतानतकणापटोलीचव्यचित्रकान्||५७||
वचामुस्तविडङ्गानि तक्रकोष्णाम्बुमस्तुभिः|
पिबेद्रसेन वाऽम्लेन गरोपहतपावकः||५८||
स०-मूर्वादीनि तक्रादिभिरम्लेन वा-बीजपूररसादिरसेन, गरोपहताग्निः पुमान् पिबेत्|
पारावतामिषशठीपुष्कराह्वशृतं हिमम्|
गरतृष्णारुजाकासश्वासहिध्माज्वरापहम्||५९||
स०- पारावतामिषादिभिः शृतं शीतं जलं गरतृष्णादिघ्नम्|
विषप्रकृतिकालान्नदोषदूष्यादिसङ्गमे|
विषसङ्कटमुद्दिष्टं शतस्यैकोऽत्र जीवति||६०||
स०-विषप्रकृत्यादियोगे सति विषसङ्कटं कथितम्| [अत्र-] अस्मिंश्च विषसङ्कटे, विषार्तः शतमध्य एको जीवेत्| तत्र विषप्रकृतिः-पित्तप्रकृतिः| कालो-वर्षाः| विषान्नं-सर्षपादि| विषदोषः-पित्तम्| दूष्यं-रक्तम्| आदिशब्देन सात्म्यादीनां ग्रहणम्|
क्षुत्तृष्णाघर्मदौर्बल्यक्रोधशोकभयश्रमैः|
अजीर्णवर्चोद्रवतापित्तमारुतवृद्धिभिः||६१||
तिलपुष्पफलाघ्राणभूबाष्पघनगर्जितैः|
हस्तिमूषिकवादित्रनिःस्वनैर्विषसङ्कटैः||६२||
पुरोवातोत्पलामोदमदनैर्वर्धते विषम्|
——————————————————–|६३|
स०- क्षुधादिभिर्विषं वृद्धिमेति|
——————————————————–|
वर्षासु चाम्बुयोनित्वात्संक्लेदं गुडवद्गतम्||६३||
विसर्पति घनापाये, तदगस्त्यो हिनस्ति च|
प्रयाति मन्दवीर्यत्वं विषं तस्माद्धनात्यये||६४||
स०- प्रावृषि च जलप्रभवत्वाद्विषं संक्लेदं गुडवद् याति| विसर्पति-प्रसरति, घनापाये-विगतवर्षासमये| तत्-विषं, अगस्त्यो हिनस्ति-अल्पशक्ति करोति| तस्माद्घनात्यये-शरत्समये, मन्दवीर्यत्वं प्रयाति|
इति प्रकृतिसात्म्यर्तुस्थानवेगबलाबलम्|
अलोच्य निपुणं बुद्ध्या कर्मानन्तरमाचरेत्||६५||
स०-इति-एवं पूर्वोक्तेन प्रकारेण, प्रकृत्यादिकं बुद्ध्वा-यत्नेन निरूप्य, ततः कर्म कुर्यात्|
श्लैष्मिकं वमनैरुष्णरूक्षतीक्ष्णैः प्रलेपनैः|
कषायकटुतिक्तैश्च भोजनैः शमयेद्विषम्||६६||
स०-श्लैष्मिकं विषं वमनैरुष्णादिगुणैः प्रलेपैश्चेद्दशैर्भोजनैश्च कषायादिगुणैः शान्तिं नयेत्|
पैत्तिकं स्रंसनैः सेकप्रदेहैर्भृशशीतलैः|
कषायतिक्तमधुरैर्घृतयुक्तैश्च भोजनैः||६७||
स०-पैत्तिकं विषं विरेचनैस्तथाऽतिशीतलैः सेकैः प्रलेपैश्च तथा भोजनैः कषायतिक्तमधुरैराज्ययुतैश्च शमयेत्|
वातात्मकं जयेत्स्वादुस्निग्धाम्ललवणान्वितैः|
सघृतैर्भोजनैर्लेपैस्तथैव पिशिताशनैः||६८||
स०-वातिकं मधुरादियुक्तैः ससर्पिष्कैर्भोजनैर्लेपैर्मांसभोजनैश्च जयेत्|
नाघृतं स्रंसनं शस्तं प्रलेपो भोज्यमौषधम्|
सर्वेषु सर्वावस्थेषु विषेषु न घृतोपमम्||६९||
विद्यते भेषजं किञ्चिद्विशेषात् प्रबलेऽनिले|
——————————————————–|७०|
स०- विषे स्रंसनं-विरेचनं, प्रलेपो वा भोज्यमौषधं वा नाघृतं शस्तम्| किं तर्हि ? सर्वमेव तत् सघृतं शस्तम्|
स०- सर्वेषु विषेषु सर्वावस्थेषु च घृततुल्यं नान्यदौषधं किमप्यस्ति| विशेषेण च वातेऽतिरिक्ते|
——————————————————–|
अयत्नाच्छ्लेष्मगं साध्यं, यत्नात् पित्ताशयाश्रयम्|७०|
सुदुःसाध्यमसाध्यं वा वाताशयगतं विषम्|
७० १/२|
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीवद्वाग्भटविरचि-
तायामष्टाङ्गहृदयसंहितायां षष्ठे उत्तरस्थाने विषप्रतिषेधो नाम पञ्चत्रिंशोऽध्यायः|३५|
स०- कफगतं विषमल्पयत्नेन साध्यम्|
पित्ताशयाश्रयं यत्नेन साध्यम्|
वाताशयाश्रितं सुष्ठु दुःखेन साध्यतेऽसाध्यं वा स्यादिति|
इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटी- कायां सर्वाङ्गसुन्दराख्यायां षष्ठे उत्तरस्थाने विषप्रतिषेधो
नाम पञ्चत्रिंशोऽध्यायः समाप्तः|| ३५||
Moolashloka with Arunadutta & Hemadri Commentary

Diacritic Version
śrīmadvāgbhaṭaviracitam
Aṣṭāṅgahr̥dayam
śrīmadaruṇadattaviracitayā 'sarvāṅgasundarākhyā' vyākhyayā hēmādripraṇītayā 'āyurvēdarasāyanāhvayā' ṭīkayā ca samullasitam
uttarasthānam - 35. viṣapratiṣēdhādhyāyaḥ
adhunā viṣatantramucyatē, sadyaḥprāṇahāritvēna tulyasādharmyāt|
athātō viṣapratiṣēdhaṁ vyākhyāsyāmaḥ|
iti ha smāhurātrēyādayō maharṣayaḥ|
(gadyasūtrē)|2|
tatra viṣasya prāgutpattidarśanārthamāha-
mathyamānē jalanidhāvamr̥tārthaṁ surāsuraiḥ|
jātaḥ prāgamr̥tōtpattēḥ puruṣō ghōradarśanaḥ||1||
dīptatējāścaturdaṁṣṭrō harikēśō’nalēkṣaṇaḥ|
jagadviṣaṇṇaṁ taṁ dr̥ṣṭvā tēnāsau viṣasaṁjñitaḥ||2||
huṁkr̥tō brahmaṇā mūrtī tataḥ sthāvarajaṅgamē|
sō’dhyatiṣṭhannijaṁ rūpamujjhitvā vañcanātmakam||3||
sa0- samudrē surāsurairamr̥tārthaṁ vilōḍyamānē’mr̥tōtpattēḥ pūrvaṁ puruṣō dāruṇadr̥ṣṭiḥ samiddhadhāmā caturdaṁṣṭrō harivarṇakacō dahanatulyanētrō jātaḥ| taṁ puruṣaṁ dr̥ṣṭvā bhuvanaṁ viṣādaṁ gatam| ata ēvāsau jagadviṣadanāt viṣasaṁjñaḥ| brahmaṇa huṁkr̥tastu sannasau vañcanasvabhāvaṁ svaṁ rūpaṁ hitvā sthāvarajaṅgamākhyē mūrtī adhitasthau| puruṣarupī tiṣṭhēdasau tatō brahmā śāpaṁ dadyāt|
sthiramatyulbaṇaṁ vīryē yatkandēṣu pratiṣṭhitam|
kālakūṭēndravatsākhyaśr̥ṅgīhālāhalādikam||4||
sa0-yadviṣaṁ sthiraṁ-sthāvaraṁ, kandēṣu pratiṣṭhitaṁ vīryē atyulbaṇaṁ tat kālakūṭādibhēdabhinnam| phalādiṣvapi tad bhavati, kintu kandē vīryātikr̥t| ādiśabdēna saṅgrahōktā bhēdā gr̥hyantē| yathā (saṁ.u. a. 40)-“kālakūṭaṁ vatsanābhaṁ sāktukaṁ vālakaṁ kardamakaṁ vairāṭaṁ mustakaṁ śr̥ṅgī puṇḍarīkaṁ mahāviṣaṁ hālāhalaṁ markaṭakaṁ karkaṭaṁ kāśapuṣpakamindrāyudhaṁ tathā tailam|” iti (tyādi) bhēdāḥ prakīrtitāḥ| ēṣāṁ tu lakṣaṇaṁ tatrōktam| tadahi vistarataragranthaśaṅkayā nōktam|
sarpalūtādidaṁṣṭrāsu dāruṇaṁ jaṅgamaṁ viṣam|
———————————————–|5|
sa0- sarpādidaṁṣṭrāsu tu yadvyavasthitaṁ tajjaṅgamam| tacca dāruṇam| daṁṣṭrētyupalakṣaṇārtham, nakhaviṣāṇamūtrādīnāmapi purō viṣatvēna vakṣyamāṇatvāt|
——————————————————–|
sthāvaraṁ jaṅgamaṁ cēti viṣaṁ prōktamakr̥trimam||5||
sa0-sthāvaraṁ jaṅgamaṁ cēti dviprakāraṁ viṣamakr̥trimam|
kr̥trimaṁ garasaṁjñaṁ tu kriyatē vividhauṣadhaiḥ|
hanti yōgavaśēnāśu cirācciratarācca tat||6||
śōphapāṇḍūdarōnmādadurnāmādīn karōti vā|
——————————————————–|7|
sa0- garasaṁjñaṁ tu kr̥trimam| yasmāttat kriyatē| ata ēva vividhāni vakṣyamāṇānyauṣadhāni yasmiṁstadēvam| tacca yōgavaśācchīghraṁ hanti| tathā vividhayōgavaśāccirācciraṁ hanti| śōphādīṁśca vidhattē|
atha viṣaguṇānnirdiśati —————
——————————————————–|
tīkṣṇōṣṇarūkṣaviśadaṁ vyavāyyāśukaraṁ laghu||7||
vikāṣi sūkṣmamavyaktarasaṁ viṣamapāki ca|
——————————————————–|8|
sa0- tatsarvaṁ viṣaṁ tīkṣṇādiguṇaṁ syāt| guṇanirdēśanādasya raukṣyādvātamuṣṇatvāt pittaṁ karōtīti jñāpyatē| nanu, raukṣyādibhirguṇairvāyōḥ kōpō na yujyatē, raukṣyādīnāṁ guṇatvādvāyōśca dravyatvāt| brūmaḥ| vāyōryē raukṣyādayō guṇāstēṣāmēva viṣasthai raukṣyādibhirguṇairvr̥ddhiḥ kriyatē| tē ca vāyōrātmabhūtāḥ, tannāśē vāyōrnāśaḥ syāt, yathā tantunāśē paṭanāśaḥ| tasmādyuktaḥ pavanasya raukṣyādibhirguṇaiḥ prakōpaḥ| ēvaṁ pittē’pi yōjyam| kaṭvamlādikathanē’pi viṣasyāvyaktarasatvam, anēkarasasambhavādēkasyāpi ca vyaktasyānupalabdhēḥ| vyavāyitvaṁ cāsya drāgēvākhilakāyasya vyāptēḥ| tathā apāki,-viṣasya hi mantratantrābhyāmantarēṇa pākābhāvāt, pakvē’pyannē viṣasyāpakvasyēvōpalabdhēḥ| ata ēva śamitamapi kiñcitkāraṇaṁ prāpya punaḥ kupyati|
——————————————————–|
ōjasō viparītaṁ tat tīkṣṇādyairanvitaṁ guṇaiḥ||8||
vātapittōttaraṁ nr̥ṇāṁ sadyō harati jīvitam|
——————————————————–|9|
saṁ-tathā viṣamōjasō viparītaṁ tīkṣṇādibhirdaśabhirguṇairyuktam| tīkṣṇādyairanvitamiti hētau prathamā| tīkṣṇādiguṇayuktatvādōjasō viparītamityarthaḥ| tathā vātapittōtaraṁ narāṇāṁ drāgēva jīvitaṁ harati|
kutaḥ ? ityāha—-
—————————————————–|
viṣaṁ hi dēhaṁ samprāpya prāg dūṣayati śōṇitam||9||
kaphapittānilāṁścānu samaṁ dōṣān sahāśayān|
tatō hr̥dayamāsthāya dēhōcchēdāya kalpatē||10||
sa0- yasmādviṣaṁ śarīraṁ prāpya pūrvaṁ raktaṁ sarvaśarīragataṁ dūṣayati, paścāt kaphapittavātānāśayasahitān dūṣayati| anantaraṁ kaphādibhiḥ samamēva hr̥dayamāśritya śariranāśāya sampadyatē| nanu, viṣasya tīkṣṇādibhirguṇairyugapat tridōṣakōpitvādraktakōpitvācca pūrvaṁ śōṇitaṁ dūṣayati paścātrīn dōṣāniti yaduktaṁ tadayuktimadiva dr̥śyatē| atra bhaṇāmaḥ viṣaprabhāvēṇa raktamākr̥ṣṭaṁ pūrvaṁ saha tēna saṁyuktaṁ viṣēṇa dūṣyatē, tatō yugapadēva dōṣatrayakōpaḥ, tatō dōṣaiḥ śōṇitēna saha hr̥dayaṁ vyāpya sarvasrōtāṁsi baddhvā dēhōcchēdāya pravartata iti na kiñcidatrānupapannam|
sthāvarasyōpayuktasya vēgē pūrvē prajāyatē|
jihvāyāḥ śyāvatā stambhō mūrcchā trāsaḥ klamō vamiḥ||11||
sa0-sthāvarasya viṣasyōpayuktasya prathamē vēgē rasanāśyāvatādi jāyatē|
dvitīyē vēpathuḥ svēdō dāhaḥ kaṇṭhē ca vēdanā|
viṣaṁ cāmāśayaṁ prāptaṁ kurutē hr̥di vēdanām||12||
sa0- dvitīyē vēgē vēpathvādayaḥ| viṣaṁ cāmāśayaṁ prāptaṁ hr̥dayē vēdanāṁ vidhattē|
tāluśōṣastr̥tīyē tu śūlaṁ cāmāśayē bhr̥śam|
durbalē haritē śūnē jāyētē cāsya lōcanē||13||
pakvāśayagatē tōdahidhmākāsāntrakūjanam|
——————————————————–|14|
sa0- tr̥tīyē ca vēgē tāluśōṣaḥ āmāśayē’tirujā syāt| nētrē cāsya durbalādiguṇē bhavataḥ| pakvāśayagatē tōdādayaḥ syuḥ|
——————————————————–|
caturthē jāyatē vēgē śirasaścātigauravam||14||
sa0- caturthē vēgē mūrdhnō’tigurutvaṁ jāyatē| caśabdāt pūrvōktā rasanāśayāvatādayaḥ syuḥ| ēvamagrē’pi caśabdārthō bōdhyaḥ|
kaphaprasēkō vaivarṇyaṁ parvabhēdaśca pañcamē|
sarvadōṣaprakōpaśca pakvādhānē ca vēdanā||15||
sa0- pañcamē vēgē kaphaprasēkādiḥ| sarvadōṣāṇāṁ prakōpaḥ| pūrvōktāśca| pakvāśayē vyathā ca|
ṣaṣṭhē saṁjñāpraṇāśaśca subhr̥śaṁ cātisāryatē|
——————————————————–|16|
sa0- ṣaṣṭhē vēgē cētanāyāḥ praṇāśō’tiśayēnātisāraśca|
——————————————————–|
skandhapr̥ṣṭhakaṭībhaṅgō bhavēnmr̥tyuśca saptamē||16||
sa0- saptamē skandhādibhaṅgaḥ, saptānāṁ dhātūnāṁ dūṣaṇānmr̥tyuśca syāt|
prathamē viṣavēgē tu vāntaṁ śītāmbusēcitam|
sarpirmadhubhyāṁ saṁyuktamagadaṁ pāyayēd drutam||17||
sa0- prathamē viṣavēgē tu kr̥tavamanaṁ śiśirajalasēcitaṁ śīghramēvāgadaṁ saghr̥tamākṣikaṁ pāyayēt|
dvitīyē pūrvavadvāntaṁ viriktaṁ cānu pāyayēt|
——————————————————–|18|
sa0- dvitīyē viṣavēgē pūrvavat-śītāmbusēcitaṁ, vāntaṁ viriktaṁ cānu-paścāt, agadaṁ pāyayēt|
——————————————————–|
tr̥tīyē’gadapānaṁ tu hitaṁ nasyaṁ tathā’ñjanam||18||
sa0- tr̥tīyē vēgē’gadapānaṁ nasyamañjanaṁ ca hitam|
caturthē snēhasaṁyuktamagadaṁ pratiyōjayēt|
——————————————————–|19|
sa0- caturthē vēgē snēhasaṁyutamagadaṁ pratiyōjayēt|
——————————————————–|
pañcamē madhukakvāthamākṣikābhyāṁ yutaṁ hitam||19||
sa0- pañcamē vēgē madhuyaṣṭikākvāthamākṣikābhyāṁ yuktamagadaṁ hitam|
ṣaṣṭhē’tisāravatsiddhiḥ————————-|
——————————————————–|20|
sa0- ṣaṣṭhē vēgē’tisāratulyā cikitsā|
———————————-avapīḍastu saptamē|
mūrdhni kākapadaṁ kr̥tvā sāsr̥gvā piśitaṁ kṣipēt||20||
sa0- saptamē vēgē’vapīḍō-rōgānutpādanīyōktō (hr̥.sū. a. 4/6), dēyaḥ|
athavā mastakē kākapadaṁ kr̥tvā saraktaṁ piśitaṁ nyasēt|
kōśātakyagnikaḥ pāṭhā sūryavalyamr̥tābhayāḥ|
śēluḥ śirīṣaḥ kiṇīhī haridrē kṣaudrasāhvayā||21||
punarnavē trikaṭukaṁ br̥hatyau sārivē balā|
ēṣāṁ yavāgūṁ niryuhē śītāṁ saghr̥tamakṣikām||22||
yuñjyādvēgāntarē sarvaviṣaghnīṁ kr̥takarmaṇaḥ|
——————————————————–|23|
sa0- kōśātakyādīnāṁ kvāthē yavāgūṁ siddhāṁ śītāṁ sasarpiṣkamākṣikāṁ yuñjayāt| sūryavallī-karavīrakākārapuṣpī| kṣaudrasāhvayaṁ-vaṭamākṣikam| vēgāntarē-vēgamadhyē, sarvaviṣaghnīm| kr̥taṁ karma yasya tasyaivaṁ kāryam|
——————————————————–|
tadvanmadhūkamadhukapadmakēsaracandanaiḥ||23||
sa0- madhūkādikvāthē pēyāṁ śītāṁ saghr̥tamākṣikāṁ yuñjyāt|
añjanaṁ tagaraṁ kuṣṭhaṁ haritālaṁ manaḥśilā|
phalānī trikaṭu spr̥kkā nāgapuṣpaṁ sakēsaram||24||
harēṇurmadhukaṁ māṁsī rōcanā kākamālikā|
śrīvēṣṭakaṁ sarjarasaḥ śatāhvā kuṅkumaṁ balā||25||
tamālapatratālīsabhūrjōśīraniśādvayam|
kanyōpavāsinī snātā śuklavāsā madhudrutaiḥ||26||
dvijānabhyarcya taiḥ puṣyē kalpayēdagadōttamam|
vaidyaścātra tadā mantraṁ prayatātmā paṭhēdimam||27||
“namaḥ puruṣasiṁhāya namō nārāyaṇāya ca|
yathā’sau nābhijānāti raṇē kr̥ṣṇaparājayam||28||
ētēna satyavākyēna agadō mē prasidhyatu|
namō vaidūryamātē huluhulu rakṣa māṁ sarvaviṣēbhyaḥ||29||
gauri gāndhāri cāṇḍāli mātaṅgi svāhā|
“
piṣṭē ca dvitīyō mantraḥ “harimāyi svāhā||30||
“
aśēṣaviṣavētālagrahakārmaṇapāpmasu|
marakavyādhidurbhikṣayuddhāśanibhayēṣu ca||31||
pānanasyāñjanālēpamaṇibandhādiyōjitaḥ|
ēṣa candrōdayō nāma śāntisvastyayanaṁ param||32||
|vāsavō vr̥tramavadhītsamāliptaḥ kilāmunā|
]||32||
sa0- añjanādīni dravyāṇi| kanyā kr̥tōpavāsā snātāśuklavastrā taiḥ-pūrvōktairdravyaiḥ, mākṣikasiktaiḥ puṣyanakṣatrē viprān pūjayitvā’nantaramagadavaramimaṁ kalpayēt| vaidyaśca samīpasthō mantraṁ nama ityādikaṁ paṭhēt| piṣṭē cāgadē dvitīyō mantrō harimāyyādikō’tra yōjyaḥ| nikhilēṣu viṣādiṣu pānādimaṇibandhādi yōjitō’yaṁ candrōdayō nāmāgadaḥ paraṁ śāntaṁ(nti) svastyayanam|
jīrṇaṁ viṣaghnauṣadhibhirhataṁ vā dāvāgnivātātapaśōṣitaṁ vā|
svabhāvatō vā na guṇaiḥ suyuktaṁ dūṣiviṣākhyāṁ viṣamabhyupaiti||33||
vīryālpabhāvādavibhāvyamētat kaphāvr̥taṁ varṣagaṇānubandhi|
tēnārditō bhinnapurīṣavarṇō duṣṭāsrarōgī tr̥ḍarōcakārtaḥ||34||
mūrcchan vaman gadgadavāk vimuhyan bhavēcca dūṣyōdaraliṅgajuṣṭaḥ|
āmāśayasthē kaphavātarōgī pakvāśayasthē’nilapittarōgī||35||
bhavēnnarō dhvastaśirōruhāṅgō vilūnapakṣaḥ sa yathā vihaṅgaḥ|
sthitaṁ rasādiṣvathavā vicitrān karōti dhātuprabhavān vikārān||36||
sa0- yadviṣaṁ purāṇaṁ, viṣaghnauṣadhibhirvā hatavīryaṁ, yadvā dāvāgnītyādibhiḥ śōṣitaṁ, svabhavēnaiva vā guṇairna suṣṭhu yuktaṁ, tad dūṣīviṣasaṁjñāmupaiti| tathā vīryasyālpatvādētadavibhāvyaṁ-alakṣyam| tathā kaphēnāvr̥taṁ varṣavr̥ndaṁ ca tatsthāyi| tēna-dūṣīviṣēṇa, pīḍitō bhinnapurīṣavarṇādikaḥ syāt| tathā mūrcchāṁ gacchan vamannasphuṭavāk tathā vimuhyan tathā dūṣyēnōpalakṣita udarē yāni liṅgāni (hr̥.ni. a. 12/20), taiḥ sēvitaśca bhavēt|
āmāśayasthē dūṣīviṣē kaphavātarōgī syāt
pakvāśayasthē dūṣīviṣē’nilapittarōgī syāt| upajātayaḥ|
dhvastāḥ kacāḥ śarīraṁ ca yasya sa dhvastaśirōtuhāṅgō vilūnapakṣaḥ pakṣīva bhavēt|
rasādiṣu ca sthitaṁ nānāvidhān dhātuprabhavān vikārān karōti| upēndravajrāvr̥ttam|
prāgvātājīrṇaśītābhradivāsvapnāhitāśanaiḥ|
duṣṭaṁ dūṣayatē dhātūnatō dūṣīviṣaṁ smr̥tam||37||
sa0-tacca purōvātādibhirduṣṭaṁ saddhātūn dūṣayati yataḥ, tatō’pi hētōrdūṣīviṣaṁ smr̥tam|
dūṣīviṣārtaṁ susvinnamūrdhvaṁ cādhaśca śōdhitam|
dūṣīviṣārimagadhaṁ lēhayēnmadhunā”plutam||38||
sa0-dūṣīviṣapīḍitaṁ naraṁ susvinnamūrdhvamadhastācca śōdhitaṁ santaṁ dūṣīviṣāri-vakṣyamāṇaṁ, mākṣikēṇāplutamagadaṁ lēhayēt|
tamēvāha —-
pippalyō dhyāmakaṁ māṁsī rōdhramēlā suvarcikā|
kuṭannaṭaṁ nataṁ kuṣṭhaṁ yaṣṭī candanagairikam||39||
dūṣīviṣārirnāmnā’yaṁ na cānyatrāpi vāryatē|
——————————————————–|40|
sa0- pippalyādikō’yamagadō nāmnā dūṣīviṣāriḥ| na cānyasminnapi vāryatē| kintu viśēṣēṇa prayujyatē|
——————————————————–|
viṣadigdhēna viddhastu pratāmyati muhurmuhuḥ||40||
vivarṇabhāvaṁ bhajatē viṣādaṁ cāśu gacchati|
kīṭairivāvr̥taṁ cāsya gātraṁ cimicimāyatē||41||
śrōṇipr̥ṣṭhaśiraḥskandhasandhayaḥ syuḥ savēdanāḥ|
kr̥ṣṇaduṣṭāsravisrāvī tr̥ṇmūrcchājvaradāhavān||42||
dr̥ṣṭikāluṣyavamathuśvāsakāsakaraḥ kṣaṇāt|
āraktapītaparyantaḥ śyāvamadhyō’tirugvraṇaḥ||43||
śūyatē pacyatē sadyō gatvā māṁsaṁ ca kr̥ṣṇatām|
praklinnaṁ śīryatē’bhīkṣṇaṁ sapicchilaparisravam||44||
sa0-viṣadigdhēna-viṣaliptēna śastrēṇa, viddhō naraḥ punaḥpunaḥ pratāmyati| tathā vaivarṇyaṁ prayāti| drāgēva viṣādamēti| asya ca-viṣadigdhēna viddhasya, śarīraṁ kīṭairiva vyāptaṁ cimicimāyatē| śrōṇyādayaścāsya sarujāḥ syuḥ kr̥ṣṇaṁ duṣṭaṁ ca raktaṁ kṣarati| tr̥ḍādiyutaḥ kṣaṇēnaiva ca dr̥ṣṭikāluṣyādikaraḥ syāt| tathā vraṇa īṣadraktaprayantaḥ śyāvamadhyō mahārujaḥ syāt| tathā śūyatē pākaṁ yāti| tēṣāṁ sadya ēva ca māṁsaṁ kr̥ṣṇatāṁ gatvā praklinnaṁ saddīryatē nityamēva picchilayutaṁ parisravaṁ kuryāt|
kuryādamarmaviddhasya hr̥dayāvaraṇaṁ drutam|
śalyamākr̥ṣya taptēna lōhēnānu dahēd vraṇam||45||
athavā muṣkakaśvētāsōmatvaktāmravallitaḥ|
śirīṣād gr̥dhranakhyāśca kṣārēṇa pratisārayēt||46||
śukanāsāprativiṣāvyāghrīmūlaiśca lēpayēt|
——————————————————–|47|
sa0- amarmaviddhasya hr̥dayāvaraṇaṁ drutaṁ vidadhīta|
sa0- śalyamākr̥ṣya taptēna lōhēna vraṇaṁ paścāddahēt|
athavā muṣkakādikṣārēṇa pratisārayēt| śukanāsādibhiśca lēpayēt vraṇam|
——————————————————–|
kīṭadaṣṭacikitsāṁ ca kuryāttasya yathārhataḥ||47||
sa0-tasya ca-digdhaphalaviddhasya, kīṭadaṣṭacikitsitaṁ yathāyōgaṁ kuryāt|
vraṇē tu pūtipiśitē kriyā pittavisarpavat|
——————————————————–|48|
sa0-vraṇē ca pūtimāṁsē pittavisarpa iva cikitsā kāryā|
——————————————————–|
saubhāgyārthaṁ striyō bhartrē rājñē vā’rāticōditāḥ||48||
garamāhārasampr̥ktaṁ yacchantyāsannavartinaḥ|
——————————————————–|49|
saṁ-nānākāntāḥ yōṣitaḥ patyē saubhāgyārthaṁ rājñaśca(rājñē vā) nikaṭavartinō narāścārātiprēritā garayuktaṁ bhōjanaṁ dadati|
——————————————————–|
nānāprāṇyaṅgaśamalaviruddhauṣadhibhasmanām||49||
viṣāṇāṁ cālpavīryāṇāṁ yōgō gara iti smr̥taḥ|
——————————————————–|50|
sa0-nānāprakāraprāṇyaṅgaśakr̥tāṁ tathā viruddhauṣadhibhasmanāṁ viṣāṇāṁ ca stōkavīryāṇāṁ yō yōgaḥ, sa gara iti smr̥taḥ|
——————————————————–|
tēna pāṇḍuḥ kr̥śō’lpāgniḥ kāsaśvāsajvarārditaḥ||50||
vāyunā pratilōmēna svapnacintāparāyaṇaḥ|
mahōdarayakr̥tplīhī dīnavāgdurbalō’lasaḥ||51||
śōphavān satatādhmātaḥ śuṣkapādakaraḥ kṣayī|
svapnē gōmāyumārjāranakulavyālavānarān||52||
prāyaḥ paśyati śuṣkāṁśca vanaspatijalāśayān|
manyatē kr̥ṣṇamātmānaṁ gaurō, gōraṁ ca kālakaḥ||53||
vikarṇanāsānayanaṁ paśyēttadvihatēndriyaḥ|
——————————————————–|54|
sa0- tēna garēṇa pāṇḍvādiguṇaḥ kāsādipīḍitaśca syāt| vātēna pratilōmēna yuktastathā svapnacintāparaḥ syāt| tathā br̥hajjaṭharayakr̥tplīhavān dīnavāgādiguṇaśca syāt| svapnē śr̥gālādīn paśyati| prāyēṇa śuṣkavr̥kṣōdapānāni lōkatē| ātmānaṁ ca gauraḥ san kr̥ṣṇaṁ manyatē| kr̥ṣṇaśca gauraṁ manyatē| tēna-garaviṣēṇa, vihatēndriyaḥ san vikarṇaghrāṇacakṣuṣaṁ paśyēt|
——————————————————–|
ētairanyaiśca bahubhiḥ kliṣṭō ghōrairupadravaiḥ||54||
garārtō nāśamāpnōti kaścitsadyō’cikitsitaḥ|
——————————————————–|55|
sa0-ētaiḥ-uktairupadravaiḥ, aparaiścānuktairdāruṇaiḥ kliṣṭaḥ san garapīḍitaḥ kaścidacikitsitaḥ sadya ēva nāśamaśnutē|
——————————————————–|
garārtō vāntavān bhuktvā tatpathyaṁ pānabhōjanam||55||
śuddhahr̥cchīlayēddhēma sūtrasthānavidhēḥ smaran|
——————————————————–|56|
sa0- garāturaḥ kr̥tavamanaḥ san tat-pūrvōktaṁ, pathyaṁ pānabhōjanaṁ bhuktvā śuddhahr̥dayaḥ suvarṇaṁ śīlayēt| kiṁ kurvan ? sūtrasthānōktavidhēḥ-“śuddhē hr̥di tataḥ śāṇaṁ hēmacūrṇasya dāpayēt|” (hr̥.sū. a. 7/28) iti smaran| vidhēḥ smarannityatra “adhīgartha-” ityādinā vidhiśabdāt karmaṇi ṣaṣṭhī|
——————————————————–|
śarkarākṣaudrasaṁyuktaṁ cūrṇaṁ tāpyasuvarṇayōḥ||56||
lēhaḥ praśamayatyugraṁ sarvayōgakr̥taṁ viṣam|
——————————————————–|57|
sa0-mākṣīkadhātukāñcanayōścūrṇaṁ śarkarāmākṣikānvitaṁ lēhō dāruṇaṁ garayōgajaṁ viṣaṁ hanti|
——————————————————–|
mūrvāmr̥tānatakaṇāpaṭōlīcavyacitrakān||57||
vacāmustaviḍaṅgāni takrakōṣṇāmbumastubhiḥ|
pibēdrasēna vā’mlēna garōpahatapāvakaḥ||58||
sa0-mūrvādīni takrādibhiramlēna vā-bījapūrarasādirasēna, garōpahatāgniḥ pumān pibēt|
pārāvatāmiṣaśaṭhīpuṣkarāhvaśr̥taṁ himam|
garatr̥ṣṇārujākāsaśvāsahidhmājvarāpaham||59||
sa0- pārāvatāmiṣādibhiḥ śr̥taṁ śītaṁ jalaṁ garatr̥ṣṇādighnam|
viṣaprakr̥tikālānnadōṣadūṣyādisaṅgamē|
viṣasaṅkaṭamuddiṣṭaṁ śatasyaikō’tra jīvati||60||
sa0-viṣaprakr̥tyādiyōgē sati viṣasaṅkaṭaṁ kathitam| [atra-] asmiṁśca viṣasaṅkaṭē, viṣārtaḥ śatamadhya ēkō jīvēt| tatra viṣaprakr̥tiḥ-pittaprakr̥tiḥ| kālō-varṣāḥ| viṣānnaṁ-sarṣapādi| viṣadōṣaḥ-pittam| dūṣyaṁ-raktam| ādiśabdēna sātmyādīnāṁ grahaṇam|
kṣuttr̥ṣṇāgharmadaurbalyakrōdhaśōkabhayaśramaiḥ|
ajīrṇavarcōdravatāpittamārutavr̥ddhibhiḥ||61||
tilapuṣpaphalāghrāṇabhūbāṣpaghanagarjitaiḥ|
hastimūṣikavāditraniḥsvanairviṣasaṅkaṭaiḥ||62||
purōvātōtpalāmōdamadanairvardhatē viṣam|
——————————————————–|63|
sa0- kṣudhādibhirviṣaṁ vr̥ddhimēti|
——————————————————–|
varṣāsu cāmbuyōnitvātsaṁklēdaṁ guḍavadgatam||63||
visarpati ghanāpāyē, tadagastyō hinasti ca|
prayāti mandavīryatvaṁ viṣaṁ tasmāddhanātyayē||64||
sa0- prāvr̥ṣi ca jalaprabhavatvādviṣaṁ saṁklēdaṁ guḍavad yāti| visarpati-prasarati, ghanāpāyē-vigatavarṣāsamayē| tat-viṣaṁ, agastyō hinasti-alpaśakti karōti| tasmādghanātyayē-śaratsamayē, mandavīryatvaṁ prayāti|
iti prakr̥tisātmyartusthānavēgabalābalam|
alōcya nipuṇaṁ buddhyā karmānantaramācarēt||65||
sa0-iti-ēvaṁ pūrvōktēna prakārēṇa, prakr̥tyādikaṁ buddhvā-yatnēna nirūpya, tataḥ karma kuryāt|
ślaiṣmikaṁ vamanairuṣṇarūkṣatīkṣṇaiḥ pralēpanaiḥ|
kaṣāyakaṭutiktaiśca bhōjanaiḥ śamayēdviṣam||66||
sa0-ślaiṣmikaṁ viṣaṁ vamanairuṣṇādiguṇaiḥ pralēpaiścēddaśairbhōjanaiśca kaṣāyādiguṇaiḥ śāntiṁ nayēt|
paittikaṁ sraṁsanaiḥ sēkapradēhairbhr̥śaśītalaiḥ|
kaṣāyatiktamadhurairghr̥tayuktaiśca bhōjanaiḥ||67||
sa0-paittikaṁ viṣaṁ virēcanaistathā’tiśītalaiḥ sēkaiḥ pralēpaiśca tathā bhōjanaiḥ kaṣāyatiktamadhurairājyayutaiśca śamayēt|
vātātmakaṁ jayētsvādusnigdhāmlalavaṇānvitaiḥ|
saghr̥tairbhōjanairlēpaistathaiva piśitāśanaiḥ||68||
sa0-vātikaṁ madhurādiyuktaiḥ sasarpiṣkairbhōjanairlēpairmāṁsabhōjanaiśca jayēt|
nāghr̥taṁ sraṁsanaṁ śastaṁ pralēpō bhōjyamauṣadham|
sarvēṣu sarvāvasthēṣu viṣēṣu na ghr̥tōpamam||69||
vidyatē bhēṣajaṁ kiñcidviśēṣāt prabalē’nilē|
——————————————————–|70|
sa0- viṣē sraṁsanaṁ-virēcanaṁ, pralēpō vā bhōjyamauṣadhaṁ vā nāghr̥taṁ śastam| kiṁ tarhi ? sarvamēva tat saghr̥taṁ śastam|
sa0- sarvēṣu viṣēṣu sarvāvasthēṣu ca ghr̥tatulyaṁ nānyadauṣadhaṁ kimapyasti| viśēṣēṇa ca vātē’tiriktē|
——————————————————–|
ayatnācchlēṣmagaṁ sādhyaṁ, yatnāt pittāśayāśrayam|70|
suduḥsādhyamasādhyaṁ vā vātāśayagataṁ viṣam|
70 1/2|
iti śrīvaidyapatisiṁhaguptasūnuśrīvadvāgbhaṭaviraci-
tāyāmaṣṭāṅgahr̥dayasaṁhitāyāṁ ṣaṣṭhē uttarasthānē viṣapratiṣēdhō nāma pañcatriṁśō’dhyāyaḥ|35|
sa0- kaphagataṁ viṣamalpayatnēna sādhyam|
pittāśayāśrayaṁ yatnēna sādhyam|
vātāśayāśritaṁ suṣṭhu duḥkhēna sādhyatē’sādhyaṁ vā syāditi|
iti śrīmr̥gāṅkadattaputraśrīmadaruṇadattaviracitāyāmaṣṭāṅgahr̥dayaṭī- kāyāṁ sarvāṅgasundarākhyāyāṁ ṣaṣṭhē uttarasthānē viṣapratiṣēdhō
nāma pañcatriṁśō’dhyāyaḥ samāptaḥ|| 35||