Table of Contents
Devanagari Version
श्रीमाधवकरप्रणीतो रोगविनिश्चयः
माधवनिदानम्
श्रीविजयरक्षित-श्रीकण्ठदत्ताभ्यां विरचितया मधुकोशव्याख्यया श्रीवाचस्पतिवैद्यविरचितया आतङ्कदर्पणव्याख्यया च सहितम्
माधवनिदान - २२. वातव्याधिनिदानम्
Only Moolashloka
वातरोगस्य निदानं सम्प्राप्तिश्च
अथ वातव्याधिनिदानम्|
रूक्षशीताल्पलघ्वन्नव्यवायातिप्रजागरैः |
विषमादुपचाराच्च दोषासृक्स्रवणादपि ||१||
लङ्घनप्लवनात्यध्वव्यायामादिविचेष्टितैः |
धातूनां सङ्क्षयाच्चिन्ताशोकरोगातिकर्षणात् ||२||
वेगसन्धारणादामादभिघातादभोजनत् |
मर्माबाधाद्गजोष्ट्राश्वशीघ्रयानापतंसनात् ||३||
देहे स्रोतांसि रिक्तानि पूरयित्वाऽनिलो बली |
करोति विविधान् व्याधीन् सर्वाङ्गैकाङ्गसंश्रयान् ||४||
(च. चि. अ. २८) |
अपस्मारवद्वातविकाराणामप्याक्षेपकादीनां वेगकर्तृत्वादपस्मारानन्तरं वातव्याध्यारम्भः| ननु, वातव्याधिरिति कोऽर्थः? किं वात एव व्याधिर्वातव्याधिः, उत वातेन जनितो व्याधिर्वातव्याधिः? आद्ये स्वस्थेष्वपि प्रसङ्गः, द्वितीये ज्वरादिषु| उच्यते– व्याधिपदसामानाधिकरण्याद्विकृतो दुःखकारी वातो वातव्याधिः| उक्तं हि सुश्रुते– ‘‘पक्वाशयस्थोऽन्त्रकूजं शूलाटोपौ करोति च|’’ (सु. नि. अ. १) इति| वातजनितोऽसाधारणव्याधिर्वातव्याधिरिति विशेषणीयं, तेनोभयत्राप्रसङ्गः| यच्चोक्तम्– ‘‘कफपित्तान्वितो वायुर्वायुरेव च केवलः| कुर्यादाक्षेपकम्’’ इत्यादि; तत्रारम्भको वायुरेव, पित्तकफौ त्वनुबन्धाविति न विरोधः [१] स्यात्| चरके हि द्विविधा व्याधय उक्ताः [२] सामान्यजा, नानात्मजाश्चेति; तत्र सामान्यजा ये वातादिभिः समस्तैर्व्यस्तैर्वा जन्यन्ते, यथा– ज्वरादयः; नानात्मजा ये नियतैकदोषजन्याः, यथा– आक्षेपकादयो ये वातेनैव जन्यन्ते, न स्वतन्त्रेण पित्तेन कफेन वा; तथा ओषचोषादयः पित्तेनैव, न वातेन कफेन च तथा तृप्त्यादयः कफेनैव, न वातेन, न पित्तेन,; एवं व्यवस्थिते वातव्याधिवत् पित्तकफव्याधी कस्मान्नोक्तौ? उच्यते– वायोरतिबलत्वेन आशुकारित्वेन च गरीयस्त्वात्तद्विकाराणां दुःसाध्यत्वादाश्वेवात्ययकरत्वाद्विशिष्टचिकित्स्यत्वाद्वातव्याध्यभिधानं, नतु कफपित्तव्याध्यभिधानम्| अत एव चरकसुश्रुतादिष्वपि वातरोगाध्याय एव निर्दिष्टो, नतु पित्तकफरोगाध्यायः| चन्द्रिकाकारस्त्वाह– पित्तकफयो रूपरसादियोगाद्दूष्यविशेषयोगाद्वा हरिद्राचूर्णसंयोगवदत्यन्तविसदृशा रसादिमन्तो विकाराः पृथङ्नामानो जायन्ते, वायोस्तु [३] रूपरसाद्यभावात् [४] दूष्यनिरपेक्षा आक्षेपकादयो वातादनतिभिन्नरूपा नानात्मजाः; तेन वातविकाराः पृथगुच्यन्ते, नतु पित्तकफविकारा इति| एतत्तु बकुलकरप्रभृतया नानुमन्यन्ते, चरकविरोधात्| चरके हि पित्तकफयोरपि नानात्मजा उक्ताः, यथा– ‘अशीतिर्वातविकाराः, चत्वारिंशत् पित्तविकाराः, विंशतिः श्लेष्मविकाराः|’ (च. सू. अ. २०) इति| सुश्रुतेन तु शल्याध्यायिना पित्तकफनानात्मजा न दर्शिताः, पराधिकारेषु न [५] विस्तारोक्तिरित्यभिप्रायेणेति| लङ्घनमुत्पतनम्, उपवासस्यानशनशब्देन वमनादेश्च दोषस्रवणशब्देन वक्ष्यमाणत्वात्| प्लवनं बाहुभ्यां जलप्रतरणम्| आमादिति आमरसात्, तस्य कारणत्वं मार्गावरणद्वारेण नतु स्वरूपेण; आयासादिति पाठान्तरमयुक्तं, तस्य व्यायामशब्देनोक्तत्वात्| मर्माबाधात् मर्माभिघातात्| अपतंसनं गजादिभ्यः शीघ्रयानेन पतनम्, उच्छ्वासावरोधो वा; धातुकर्षणमिति खरनादः||१-४||
अपस्मारवद्वातविकाराणामाक्षेपकादीनां वेगकर्तृत्वादपस्मारानन्तरं वातव्याध्यारम्भः| ननु कोऽयं वातव्याधिः, किं वात एव व्याधिः, उत वातजनितो व्याधिः? आद्ये स्वस्थेऽपि प्रसङ्गः, द्वितीये ज्वरादिषु| उच्यते– चरके द्विविधा व्याधय उक्ताः– सामान्यजा नानात्मजाश्चेति; तत्र सामान्यजा वातादिभिः समस्तैर्व्यस्तैर्वा जन्यन्ते, यथा– ज्वरादयः, नानात्मजा ये नियतैकदोषजन्याः, यथा– आक्षेपकादयो वातेनैव जन्यन्ते, न स्वतन्त्रेण पित्तेन कफेन वा; तथा ओषचोषादयः पित्तेनैव न वातेन न वा कफेन; तथा तृप्त्यादयो कफेन, नैव च वातेन पित्तेन वा| एवं व्यवस्थिते वातव्याधिवत्पित्तकफव्याधी कस्मान्नोक्तौ? उच्यते– वायोरतिबलत्वेनाशुकारित्वेन च गरीयस्त्वात्तद्विकाराणां दुःसाध्यत्वादाशुकारित्वाद्विशिष्टचिकित्स्यत्वाद्वातव्याध्यभिधानं, न तु पित्तकफव्याध्यभिधानम्| अत एव चरकसुश्रुतदिष्वपि वातरोगाध्याय एव निर्दिष्टो, न तु पित्तकफरोगाध्यायः| तथा य सुश्रुते दोषाणां वात एव प्रधानः| उक्तं च– “पित्तं पङ्गु कफः पङ्गुः पङ्गवो मलधातवः| वायुना यत्र नीयन्ते तत्र वर्षन्ति मेघवत्||” इति| अतो वातव्याध्यभिधानम्| तस्य सम्प्राप्तिपूर्वकं निदानमाह– रूक्षेत्यादि| अल्पं स्तोकं, लघ्वन्नं पुरातनं षष्टिकादि, व्यवायो मैथुनं, प्रजागरणं रात्रिजागरणम्| विषमादुपचारादिति अप्राप्ते क्रियाकाले क्रियाक्रमः| दोषासृक्स्रावणादपि वमनविरेकाभ्यां दोषस्यातिरेकात् रुधिरस्रवणात्| लङ्घनमुत्पतनं, [६] प्लवनं बाहुभ्यां तरणम्| [७] , [८] रोगादिकर्षणम्, अत्रादिना अध्वज्वरादिष्वतिलङ्घनम्| आमात् आमरसात्, तस्य कारणत्वं मार्गावरणद्वारेण, न तु स्वरूपेण| अभिघातो लगुडादिभिः| अभोजनादुपवासात्| मर्माबाधात् मर्माभिघातात्| अपतंसनं पतनं गजादिभ्यः, तथा शीघ्रयानादिभिः| एतैः कारणैः कुपितो बली वायू रिक्तानि स्रोतांसि पूरयित्वा सर्वाङ्गैकाङ्गजान् व्याधीन् करोति||१-४||
वातव्याधेः पूर्वरूपादयः
अव्यक्तं लक्षणं तेषां पूर्वरूपमिति स्मृतम् |
आत्मरूपं तु यद्व्यक्तमपायो लघुता पुनः ||५||
(च. चि. अ. २८) |
पूर्वरूपादिकमाह– अव्यक्तमित्यादि| अव्यक्तमिति वक्ष्यमाणानां [९] वातविकाराणां रूपमेवाव्यक्तं पूर्वरूपं, नतु ज्वरादिवद्विशिष्टमन्यत्| आत्मरूपमित्यादि तदेव व्यक्तमात्मरूपं दोषादिभेदेन सम्यक् प्रकाशितं स्वलक्षणमित्यर्थः| अपाय इति [१०] वायोश्चलत्वेन स्तम्भसङ्कोचकम्पादीनां कदाचिदभावात्; यदुक्तम्– “गते वेगे भवेत् स्वास्थ्यं सर्वेष्वाक्षेपकादिषु|” इति लघुतेति शरीरस्य, वायुना सर्वधातुशोषणात्| अथवा अपायो लघुता इति [११] सर्ववातविकाराणामपायोऽभावः, किं तदित्याह– लघुतेति; वातलिङ्गानां लघुताऽत्यल्पत्वेनावस्थानं नतु निःशेषनिवृत्तिः; यथा– बहिरायामनिवृत्तावपि न रूक्षत्वादिनिवृत्तिरित्याहुः||५||
अस्य पूर्वरूपमाह– अव्यक्तमित्यादि| वक्ष्यमाणवातादिविकाराणां रूपमेवाव्यक्तं पूर्वरूपं, न तु ज्वरादिवद्विशिष्टमन्यत्| आत्मरूपमित्यादि, तदेव व्यक्तमात्मरूपं दोषादिभेदेन सम्यक्प्रकाशितं तस्य लक्षणमित्यर्थः| अपाय इति वायोश्चलत्वात् स्तम्भसङ्कोचकम्पादीनां कदाचिदभावात्| यदुक्तम्– “गते वेगे भवेत्स्वास्थ्यं सर्वेष्वाक्षेपकादिषु” इति| लघुतेति शरीरस्य, वायुना सर्वधातुशोषात्| अथवा अपायो लघुतेति वातविकाराणामपायोऽभावः| किं तदित्याह– लघुतेति| वातलिङ्गानां लघुता अत्यल्पत्वेनावस्थानं न तु [१२] तद् विशेषेण निवृत्तिः| यथा बहिरायामनिवृत्तावपि न रूक्षत्वादिनिवृत्तिरित्याहुः||५||
वातव्याधेः सामान्यलिङ्गं, वायोर्हेत्वादिविशेषाद्रोगविशेषकर्तृत्वं च
सङ्कोचः पर्वणां स्तम्भो भङ्गोऽस्थ्नां पर्वणामपि |
रोमहर्षः प्रलापश्च पाणिपृष्ठशिरोग्रहः ||६||
खाञ्ज्यपाङ्गुल्यकुब्जत्वं [१३] शोथोऽङ्गानामनिद्रता |
गर्भशुक्ररजोनाशः स्पन्दनं [१४] गात्रसुप्तता ||७||
शिरोनासाक्षिजत्रूणां ग्रीवायाश्चापि हुण्डनम् |
भेदस्तोदोऽर्तिराक्षेपो मुहुश्चायास एव च ||८||
करोति विविधान् व्याधीनिति यदुक्तं तद्व्याकरोति– सङ्कोच इत्यादि| स्तम्भः पर्वणामेव| पाङ्गुल्यं पङ्गुता| [१५] शोथोऽङ्गानामिति बाहुमुखादीनाम्| अनिद्रतेत्यनेन [१६] अल्पनिद्रतेत्याहुः| गर्भशुक्ररजोनाश इति [१७] गर्भशय्याया वाताधिष्ठितत्वेन गर्भाग्रहणमिति जेज्जटः| गर्भादिविकृतिरप्यत्र द्रष्टव्या| स्पन्दनं कम्पनम्| हुण्डनं शिरःप्रभृतीनामन्तःप्रवेशो वक्रत्वं वा, धातूनामनेकार्थन्त्वात्| अन्ये त्वाहुः– शिरोहुण्डनं केशभूमिस्फुटनं शङ्खललाटभेदश्च, नासाहुण्डनं घ्राणनाशः, अक्षिहुण्डनमक्षिव्युदासः, जत्रुहुण्डनं वक्षोपरोधः, ग्रीवाहुण्डनं ग्रीवास्तम्भः| भेद इति [१८] ओष्ठदन्तश्रोण्यादीनाम्| तोदः शूलम्| अर्तिः पीडा, सा च पादपार्श्वश्रोत्राक्षिवक्षसामिति जेज्जटः| [१९] आक्षेपश्च आक्षेपकादिषु वक्ष्यमाणः| आयासः श्रमः||६-८||
[२०] ‘करोति विविधान्व्याधीन्’ इति यदुक्तं तद्व्याकरोति– सङ्कोच इत्यादि| सङ्कोचः पर्वणां, स्तम्भश्च पर्वणामेव, अस्थ्नां भङ्गः स्फुटनं, तथा पर्वणां पाण्यादीनां ग्रहः स्तम्भ इव| खाज्ञ्यं खञ्जता, पाङ्गुल्यं पङ्गुता| शोथोऽङ्गानामिति बाहुमुखादीनाम्| अनिद्रतेत्यनेनाल्पनिद्रतेति बोद्धव्यम्| गर्भशुक्ररजोनाश इति गर्भाशयस्य वाताधिष्ठितत्वाद्गर्भादिविकृतिरप्यत्र द्रष्टव्या| स्पन्दनं कम्पनम्| हुण्डनं शिरःप्रभृतीनामन्तःप्रवेशः वक्रत्वं वा धातूनामनेकार्थत्वात्| अन्ये त्वाहुः– शिरोहुण्डनं केशभूमिस्फुटनं शङ्खललाटभेदश्च, नासाहुण्डनं घ्राणनाशः, अक्षिहुण्डनं चक्षुर्विकृतिः, जत्रुहुण्डनं वक्षोपरोधः, ग्रीवाहुण्डनं ग्रीवास्तम्भः| भेद इति ओष्ठदन्तश्रोण्यादीनां भेदः| तोदः शूलं पीडाभेदः| अर्तिः पीडाभेदः, “अर्तिः पीडा, सा च पादपार्श्वश्रोत्राक्षिवक्षसाम्” इति जेज्जटः| आक्षेपो वक्ष्यमाणः, आयासः श्रमः||६-८||
कुपितवायोः हेतुस्थानविशेषात् रोगविशेषकर्तृत्वम्
एवंविधानि रूपाणि करोति कुपितोऽनिलः |
हेतुस्थानविशेषाच्च भवेद्रोगविशेषकृत् ||९||
(च. चि. अ. २८) |
हेत्वित्यादि| हेतुविशेषः आवरणादिः यथा– श्लेष्मावृतो मन्यास्तम्भकारी; स्थानविशेषः कोष्ठादिः; यथा– पक्वाशयस्थोऽन्त्रकूजनमित्यादि||९||
हेत्वित्यादि| हेतुविशेषश्चावरणादिः, यथा– श्लेष्मावृतो मन्यास्तम्भकारी, स्थानविशेषः कोष्ठादिः, यथा– पक्वाशयस्थोऽन्त्रकूजमित्यादि||९||
कोष्ठाश्रितवातलक्षणं, सर्वाङ्गकुपितवातलक्षणं च
तत्र कोष्ठाश्रिते दुष्टे निग्रहो मूत्रवर्चसोः |
ब्रध्नहृद्रोगगुल्मार्शःपार्श्वशूलं च मारुते ||१०||
सर्वाङ्गकुपिते वाते गात्रस्फुरणभञ्जनम् |
वेदनाभिः परीताश्च स्फुटन्तीवास्य सन्धयः ||११||
(च. चि. अ. २८) |
एतदेव विवृणोति (कोष्ठाश्रितवातलक्षणमाह)– तत्रेत्यादि| कोष्ठशब्देनाविशेषात् सर्वे आमाशयादयो गृह्यन्ते, आमाशयादिगं तु पृथगपि वक्ष्यति| निग्रहोऽप्रवृत्तिः| ब्रध्नः कोशवङ्क्षणसन्धिः||१०-११||
स्थानविशेषमाह– तत्रेत्यादि| तत्र तेषु स्थानेषु मध्ये कोष्ठाश्रिते वाते दुष्टे सति मूत्रवर्चसोर्निग्रहस्तथा ब्रध्नादयो रोगा भवन्ति| कोष्ठशब्देनात्र आमाशयादयः सर्वे गृह्यन्ते| यदुक्तम्– “स्थानान्यामाग्निपक्वानां मूत्रस्य रुधिरस्य च| हृदुण्डुकः फुप्फुसश्च कोष्ठमित्यभिधीयते” इति| आमाशयादिगतं तु पृथगपि वक्ष्यति| निग्रहोऽप्रवृत्तिः| ब्रध्नः कोशवङ्क्षणसन्धिः| सर्वाङ्गकुपितलक्षणमाह– सर्वाङ्गेत्यादि| भञ्जनं भङ्गवत्पीडेत्यर्थः| सन्धयो वेदनया परीता युताः स्फुटन्तीव||१०-११||
गुदस्थितवातलक्षणम् आमाशयस्थवातलक्षणं च
ग्रहो विण्मूत्रवातानां शूलाध्मानाश्मशर्कराः |
जङ्घोरुत्रिकपात्पृष्ठरोगशोषौ गुदे स्थिते ||१२||
रुक् पार्श्वोदरहृन्नाभेस्तृष्णोद्गारविसूचिकाः |
कासः कण्ठास्यशोषश्च श्वासश्चामाशयस्थिते ||१३||
(च. चि. अ. २८) |
गुदस्थितवातलक्षणमाह– ग्रह इत्यादि| अश्मा अश्मरी| रोगो रुजा| गुद इत्युत्तरगुदे पक्वाशय इत्यर्थः, नतु गुदमात्रे; तथा सति अश्मरीकर्तृत्वानुपपत्तेः||१२-१३||
पक्वाशयकुपितमाह– ग्रहः अप्रवृत्तिः, गुद इत्युत्तरगुदे पक्वाशये नतु पायौ, अन्यथा अश्मर्यनुत्पत्तेः| न चैवं पक्वाशयस्थ इत्यादिना पौनरुक्त्यं दोषाय, तस्य सङ्ग्रहेऽत्र लिखितत्वात्| गुदे स्थित इति दृढबलस्य लक्षणं, ‘पक्वाशयस्थ’ इति सुश्रुतस्य, उभयलिङ्गोपन्यासस्तु सकललिङ्गदर्शनार्थमित्यविरोधः| पात् चरणम्, पृष्ठरोगाः स्तम्भादयः, रोगो रुजाविशेषः, तथा शोफश्च| आमाशयकुपितमाह– रुगित्यादि| सुगमम्||१२-१३||
पक्वाशयस्थवातलक्षणं श्रोत्रादिगतवातलक्षणं च
पक्वाशयस्थोऽन्त्रकूजं शूलाटोपौ करोति च |
कृच्छ्रमूत्रपुरीषत्वमानाहं त्रिकवेदनाम् ||१४||
श्रोत्रादिष्विन्द्रियवधं कुर्याद्दुष्टसमीरणः |
(सु. नि. अ. १) |
पक्वाशयस्थवातलक्षणमाह– पक्वाशयस्थ इत्यादि| ननु, पक्वाशयस्थ इति [२१] पुनरुक्तिः, गुदे स्थित इत्यनेनैवोक्तत्वात्| उच्यते– गुदे स्थित इति दृढबलस्य लक्षणं, पक्वाशयस्थ इति सुश्रुतस्य; उभयलिङ्गोपन्यासस्तु सकललिङ्गप्रदर्शनार्थमित्यविरोधः||१४||
सुश्रुतोक्तं पक्वाशयगतवातलक्षणमाह– पक्वेत्यादि| अन्त्रकूजं [२२] अन्त्रेऽव्यक्तशब्दं करोति| आटोपो रुजापूर्वकक्षोभः| त्रिकस्फिजोरुपरि [२३] सन्धिः| श्रोत्रादिगतलक्षणमाह– श्रोत्रादिषु गते श्रोत्रत्वक्चक्षुर्घ्राणरसनेन्द्रियाणां विनाशः स्वस्वविषयग्रहणेऽशक्तता||१४||–
त्वग्गतवातलक्षणम्
त्वग्रूक्षा स्फुटिता सुप्ता कृशा कृष्णा च तुद्यते |
आतन्यते सरागा च पर्वरुक् त्वग्गतेऽनिले ||१५||
(च. चि. अ. २८) |
त्वग्गतवातलक्षणमाह– त्वगित्यादि| आतन्यते विस्तार्यत [२४] एव| त्वग्गते इति उपधातुरूपां त्वचं प्राप्ते; चन्द्रिकाकारस्तु त्वक्शब्देन रसमाह, तेन रसगत इत्यर्थः| हृदयस्थस्य [२५] च रसस्यामाशयसामीप्यादामाशयगतवातलक्षणेनैव तदधिगतेः रसगतस्यानभिधानमिति कार्तिकः||१५||
साम्प्रतं धातुकुपितस्य लक्षणम्| तत्र रसकुपितमाह– त्वगित्यादि| त्वक् त्वचा, रौक्ष्यादियुक्ता तुद्यते; आतन्यते विस्तार्यते इव| त्वक्शब्देनात्र रसोऽभिप्रेतः, तदाधारत्वात्| पर्वरुक् सर्वत्वग्व्यथा||१५||
असृग्गतवातलक्षणम्
रुजस्तीव्राः ससन्तापा वैवर्ण्यं कृशताऽरुचिः |
गात्रे चारूंषि भुक्तस्य स्तम्भश्चासृग्गतेऽनिले ||१६||
(च. चि. अ. २८) |
असृग्गतवातलक्षणमाह– रुजा इत्यादि| अरूंषि व्रणाः| भुक्तस्य स्तम्भः भुक्तवतो गात्रस्तम्भः, सन्तर्पणेन रक्तस्य वृद्धेः| अन्ये त्वसृग्गतवातलक्षणं न पठन्ति, वातरक्तेन सहाभेदात्; तन्न, अत्र दुष्टो वायुः रक्तेनावृतः कुप्यति, वातरक्ते तु स्वकारणादुभावपि हस्त्यादिगमनकुपितौ विशिष्टसम्प्राप्त्या हस्तपादगतावेव वातरक्ताख्यं विकारं जनयत इति||१६||
रक्तकुपितमाह– रुज इत्यादि| वैवर्ण्यं विच्छायता, [२६] गात्रे शरीरे, अरूंषि व्रणाः, भुक्तस्य स्तम्भ इति भुक्तवतो गात्रस्य स्तम्भः, सन्तर्पणेन रक्तवृद्धेः| अन्ये त्वसृग्वातलक्षणं न पठन्ति, वातरक्तेन सहाभेदात्| तन्न, अत्र तु दुष्टो वायुः रक्तेनावृतः कुप्यति, वातरक्ते तु स्वकारणादुभावपि हस्त्यादिगमनकुपितौ विशिष्टसम्प्राप्त्याह हस्तपादगतावेव वातरक्ताख्यं विकारं जनयत इति||१६||
मांसमेदोगतवातलक्षणं मज्जास्थिगतवातलक्षणं च
गुर्वङ्गं तुद्यतेऽत्यर्थं दण्डमुष्टिहतं यथा |
सरुक् श्रमितमत्यर्थं मांसमेदोगतेऽनिले ||१७||
भेदोऽस्थिपर्वणां सन्धिशूलं मांसबलक्षयः |
अस्वप्नः सन्तता रुक् च मज्जास्थिकुपितेऽनिले ||१८||
(च. चि. अ. २८) |
मांसमेदोगतवातलक्षणमाह– गुर्वित्यादि| श्रमितं श्रान्तं निःसहमित्यर्थः| मांसमेदोगतवायोरेकलिङ्गत्वम् अदूरान्तरेण [२७] प्रत्यासत्तेराश्रयाभेदात्, एवं [२८] मज्जास्थिकुपितेऽपि वाच्यम्||१७-१८||
मांसमेदोगतमाह– गुर्वित्यादि| अनिले मांसमेदोगते सति अङ्गं शरीरं, गुरु भारिकं, स्तब्धं निश्चलं, दण्डमुष्टिभ्यां हतमिव सरुक् पीडायुक्तं; श्रमितं श्रान्तं निःसहमित्यर्थः| मांसमेदोगतवातयोरेकलिङ्गत्वमदूरान्तरेण प्रत्यासत्तेराश्रयाभेदात्| एवं मज्जास्थिकुपिते वाच्यम्| सुश्रुते चात्र विशेष उक्तः– “कर्कशास्तोदबहुलान् ग्रन्थीन् मांसं समाश्रितः| वायुर्मेदोगतः कुर्याद्ग्रन्थीन् [२९] मन्दरुजोऽव्रणान्||” इति| तथा मज्जास्थिकुपितस्यापि वातस्य विशेष उक्तः– “अस्थिशोषं च भेदं च कुर्याच्छूलं च तत्स्थितः| तथा मज्जगते रुक् च न कदाचित्प्रशाम्यति|” इति| भेद इति| सुगमम्||१७-१८||
शुक्रस्थवातलक्षणम्
क्षिप्रं मुञ्चति बध्नाति शुक्रं गर्भमथापि वा |
विकृतिं जनयेच्चापि शुक्रस्थः कुपितोऽनिलः ||१९||
(च. चि. अ. २८) |
शुक्रस्थवातलक्षणमाह– क्षिप्रमित्यादि| गर्भमिति दुष्टशुक्रारब्धत्वाद्गर्भस्य| विकृतिमिति गर्भस्य, शुक्रस्य च||१९||
शुक्रगतमाह– क्षिप्रमित्यादि| अनिलः शुक्रस्थः कुपितः सन् शुक्रं क्षिप्रं शीघ्रं मुञ्चति बध्नाति च, तथा गर्भमपि क्षिप्रं मुञ्चति बध्नाति च| दुष्टशुक्रारब्धत्वाद्गर्भस्य; तथा विकृतिमिति गर्भस्य शुक्रस्य च जनयेत्||१९||
सिरागतवातलक्षणं स्नायुगतवातलक्षणं च
कुर्यात् सिरागतः शूलं सिराकुञ्चनपूरणम् |
(सु. नि. अ. १) |
[३०] स बाह्याभ्यन्तरायामं [३१] खल्लीं कौब्ज्यमथापि वा ||२०||
सर्वाङ्गैकाङ्गरोगांश्च कुर्यात् स्नायुगतोऽनिलः |
(च. चि. अ. २८) |
सिरागतवातलक्षणमाह– कुर्यादित्यादि| आकुञ्चनं सङ्कोचः| पूरणं स्थूलत्वं, यदुक्तमन्यत्र– ‘सुप्तास्तन्व्यो बृहत्यो वा सिरा वाते सिरागते|’ इति| [३२] खल्लीं वक्ष्यमाणाम्||२०||
कुर्यादिति| सिरागतो वायुः शूलं सिराकुञ्चनपूरणं च, तथा बाह्याभ्यन्तरमायामं, तथा [३३] खल्लीं वक्ष्यमाणां, [३४] कौब्ज्यं च कुर्यात्| कुञ्चनं सङ्कोचः| पूरणं स्थूलत्वम्, यदुक्तमन्यत्र– “सुप्तास्तन्व्यो बृहत्यो वा सिरावाते सिरागते” इति| स्नायुगतोऽनिलः सर्वाङ्गरोगानेकाङ्गरोगांश्च कुर्यात्| सुश्रुतेनाप्युक्तम्– “स्नायुप्राप्तः स्तम्भकम्पौ शूलमाक्षेपणं तथा|” इति| वाग्भटेनोक्तम्– “तस्य स्नाय्वास्थितः कुर्याद्गृध्रस्यायामकुब्जताम्|” इति||२०||
सन्धिगतवातलक्षणम्
हन्ति सन्धिगतः सन्धीन् शूलाटोपौ करोति च ||२१||
(सु. नि. अ. १७) |
सन्धिगतवातलक्षणमाह– हन्तीत्यादि| हन्ति सन्धिगतः सन्धीनिति सन्धिविश्लेषं स्तम्भादिकं [३५] वा करोति||२१||
सन्धिगतो वायुः सन्धीन् हन्ति, तथा शूलशोफौ करोति, सन्धिष्विति शेषः| हन्ति सन्धीनिति सन्धिश्लेष्मस्तम्भादिकं करोति| एतेनाकुञ्चनप्रसारणयोरभाव उक्तः||२१||
पित्तकफावृतानां प्राणादीनां लक्षणानि
[३६] (प्राणोदानौ समानश्च व्यानश्चापान एव च |
स्थानस्था मारुताः पञ्च यापयन्ति शरीरिणम्) |
(सु. नि. अ. १) |
प्राणे पित्तावृते छर्दिर्दाहश्चैवोपजायते |
दौर्बल्यं सदनं तन्द्रा वैरस्यं च कफावृते ||२२||
(सु. नि. अ. १) |
उदाने पित्तयुक्ते तु दाहो मूर्छा भ्रमः क्लमः |
अस्वेदहर्षौ मन्दोऽग्निः शीतता च कफावृते ||२३||
स्वेददाहौष्ण्यमूर्छाः स्युः समाने पित्तसंवृते |
कफेन सक्ते विण्मूत्रे गात्रहर्षश्च जायते ||२४||
अपाने पित्तयुक्ते तु दाहौष्ण्यं रक्तमूत्रता |
अधःकाये गुरुत्वं च शीतता च कफावृते ||२५||
व्याने पित्तावृते दाहो गात्रविक्षेपणं क्लमः |
स्तम्भनो दण्डकश्चापि शूलशोथौ कफावृते ||२६||
(सु. नि. अ. १) |२७|
पित्तकफावृतानां प्राणादीनामर्धार्धश्लोकेन लिङ्गान्याह– प्राण इत्यादि| गात्रहर्षो रोमाञ्चः| दण्डको दण्डवत् स्तम्भः| परस्परं च प्राणादीनामावरणानि विंशतिर्भवन्ति| यदुक्तं चरके– ‘‘मारुतानां हि पञ्चानामन्योन्यावरणं शृणु|’’ (च. चि. अ. २८) इत्यादि| एषां च लक्षणं चरक एव द्रष्टव्यम् विदेहे चैक एव वायुः स्थानकर्मभेदात् [३७] पञ्चेत्याहुः, संसर्गिद्रव्यत्वेनैकाश्रये जलवत्पृथगवस्थानानुपपत्तेः| ईशानाऽप्याह– ‘‘यथैको देवदत्तः स्थानभेदाद् गृहस्थो वानप्रस्थः, कर्मभेदात् कुम्भकारो मालाकार इत्युच्यते तथा वायुरपि’’ इति||२२-२६||
[अत्र पञ्चविधस्य वायोर्नामान्याह– प्राणेत्यादि| स्थानस्थाः [३८] इति स्थानशब्देनात्र साम्यमुच्यते| प्रापयन्ति धारयन्ति|] पित्तकफावृतानां प्राणादीनामर्धर्धश्लोकेन लिङ्गान्याह– प्राण इत्यादि| सदनमङ्गग्लानिः| [३९] [४०] दण्डवत् स्तम्भः| परस्परं च प्राणादीनामावरणानि विंशतिर्भवन्ति| यदुक्तं चरके– “मारुतानां च पञ्चानामन्योन्यावरणं शृणु” इत्यादि| एषां च लक्षणं चरक एव द्रष्टव्यम्| तथा वाग्भटक्तं च द्वाविंशतिविधं वायोरावरणं लिख्यते– “वायोरावरणं [४१] चातो बहुभेदं प्रचक्षते| लिङ्गं पित्तावृते दाहस्तृष्णा शूलं [४२] भ्रमस्तमः|| कटूष्णैश्चाम्ललवणैर्विदाहः शीतकामिता| शैत्यगौरवशूलानि कट्वाद्युपशयोऽधिकम्|| लङ्घनायासरूक्षोष्णकामिता च कफावृते| रक्तावृते सदाहार्तिस्त्वग्मांसान्तरयोर्भृशम्|| भवेत्सरागः [४३] श्वयथुर्जायन्ते मण्डलानि च| मांसेन [४४] कठिनः शोफो विवर्णः पिडिकास्तथा|| हर्षः पिपीलिकानां च सञ्चार इव जायते| चलः स्निग्धो मृदुः शीतः शोफो गात्रेष्वरोचकः|| [४५] आढ्यवात इति ज्ञेयः स कृच्छ्रो मेदसाऽऽवृते| स्पर्शमस्थ्यावृतेऽत्युष्णं पीडनं चाभिनन्दति|| सूच्येव तुद्यतेऽत्यर्थमङ्गं सीदति शूल्यते| मज्जावृते [४६] विनमनं जृम्भणं परिवेष्टनम्| शूलं च पीड्यमानेन पाणिभ्यां लभते सुखम्| शुक्रावृतेऽतिवेगो वा [४७] नवा [४८] निष्फलताऽपि वा|| भुक्ते कुक्षौ रुजा जीर्णे शाम्यत्यन्नावृतेऽनिले| मूत्राप्रवृत्तिराध्मानं बस्तौ मूत्रावृते भवेत्|| विडावृते विबन्धोऽधः स्वस्थाने परिकृन्तति| व्रजत्याशु जरां स्नेहो भुक्ते चानह्यते नरः|| शकृत्पीडितमन्नेन दुःखं शुष्कं चिरात्सृजेत्| सर्वधात्वावृते वायौ श्रोणीवङ्क्षणपृष्ठरुक्|| विलोमो मारुतोऽस्वस्थं हृदयं [४९] पीड्यतेऽपि च| भ्रमो मूर्छा रुजा दाहः पित्तेन प्राण आवृते|| विदग्धेऽन्ने च वमनमुदानेऽपि भ्रमादयः| दाहोऽन्तररुजा भ्रंशो दाहो व्यानेन सर्वगः|| क्लमोऽङ्गचेष्टासङ्गश्च सन्तापः सहवेदनः| समान ऊष्मोपहतिरतिस्वेदोऽरतिः सतृट्|| दाहश्च स्यादपाने तु मले हारिद्रवर्णता| रुजोऽतिवृद्धिस्तापश्च योनिमेहनपायुषु|| श्लेष्मणा त्वावृते प्राणे सादस्तन्द्राऽरुचिर्वमिः| ष्ठीवनं क्षवथूद्गारनिःश्वासोच्छ्वाससङ्ग्रहः|| उदाने [५०] गुरुगात्रत्वमरुचिर्वा स्वरग्रहः| बलवर्णप्रणाशश्च, व्याने पर्वास्थिवाग्ग्रहः|| गुरुताऽङ्गेषु सर्वेषु स्खलितं च गतौ भृशम्| समानेऽतिहिमाङ्गत्वमस्वेदो मन्दवह्निता|| अपाने सकफं मूत्रशकृतः स्यात्प्रवर्तनम्| इति द्वाविंशतिविधं वायोरावरणं विदुः|| प्राणादयस्तथाऽन्योन्यमावृण्वन्ति यथाक्रमम्| [५१] सर्वेऽपि [५२] द्वाविंशतिविधं विद्यादावरणं च तत्|| निःश्वासोच्छ्वाससंरोधः प्रतिश्यायः शिरोग्रहः| हृद्रोगो मुखशोषश्च प्राणेनोदान आवृते|| उदानेनावृते प्राणे वर्णौजोबलसङ्क्षयः| दिशाऽनया च विभजेत्सर्वमावरणं भिषक्||” इति| देहे च एक एव वायुः पृथक्कायस्थाननामकर्मभेदात्पञ्चधा इत्याहुः| संसर्गिद्रव्यत्वेनैकाश्रये जलवत् पृथगवस्थानानुपपत्तेः| ईशानोऽप्याह-”यथैवैको देवदत्तः स्थानभेदाद्गृहस्थो वानप्रस्थः, कर्मभेदान्माला कारः कुम्भकार इत्युच्यते, तथा वायुरपि’’ इति||२२-२६||
आक्षेपकस्य सामान्यलक्षणानि
यदा तु धमनीः सर्वाः कुपितोऽभ्येति मारुतः |
तदाऽऽक्षिपत्याशु मुहुर्मुहुर्देहं मुहुश्चरः ||२७||
मुहुर्मुहुश्चाक्षेपणादाक्षेपक इति स्मृतः |
(सु. नि. अ. १) |
आक्षेपकस्य सामान्यलक्षणमाह– यदा त्वित्यादि| सर्वा इति ऊर्ध्वाधस्तिर्यग्गाः| आक्षिपति देहं हस्त्यारूढपुरुषस्येव गात्रं चालयति| मुहुश्चर इति हेतुगर्भविशेषणम्| ‘बहिश्चर’ इति पाठान्तरे कोष्ठाद्बहिः शाखागतश्चरन्नाक्षेपकं करोतीत्यर्थः| चन्द्रिकाकारस्तु एतन्नानुमन्यते, स्थानगाम्भीर्यादाक्षेपकस्य तदारम्भकवायोर्बहिश्चरत्वायुक्तत्वात्||२७||
आक्षेपकस्य सामान्यलक्षणमाह– यदेत्यादि| सर्वा इति| ऊर्ध्वाधस्तिर्यग्धमनीः| मुहुर्मुहुर्देहमाक्षिपति, हस्त्यारूढस्येव गात्रं चालयति| मुहुश्चर इति हेतुगर्भविशेषणं, वारंवारं सञ्चरणशीलः, ‘बहिश्चरः’ इति पाठान्तरं तत्र कोष्ठाद्बहिः शाखागतश्चरन् आक्षेपं करोतीत्यर्थः| आक्षेपणात् चालनात्||२७||
अपतन्त्रकलक्षणम् अपतानकलक्षणं च
क्रुद्धः स्वैः कोपनैर्वायुः स्थानादूर्ध्वं [५३] प्रवर्तते ||२८||
पीडयन् हृदयं गत्वा शिरःशङ्खौ च पीडयन् |
धनुर्वन्नमयेद्गात्राण्याक्षिपेन्मोहयेत्तदा ||२९||
स कृच्छ्रादुच्छ्वसेच्चापि स्तब्धाक्षोऽथ निमीलकः |
कपोत इव कूजेच्च निःसञ्ज्ञः सोऽपतन्त्रकः ||३०||
दृष्टिं संस्तभ्य सञ्ज्ञां च हत्वा कण्ठेन कूजति |
हृदि मुक्ते नरः स्वास्थ्यं याति मोहं वृते पुनः ||३१||
वायुना दारुणं प्राहुरेके तदपतानकम् |
(च. सि. अ. १) |
अस्यैवावस्थाविशेषावपतन्त्रकापतानकावाह– क्रुद्ध इत्यारभ्य एके तदपतानकमित्यन्तेन| स्वैः कोपनैरित्यनेन रूक्षादिकुपितः स्वतन्त्रो न त्वावरणकुपित इतीशानः| [५४] निमीलिताक्षः स्तब्धाक्षो वा भवतीत्यर्थः| आक्षेपकश्चतुर्विधो भवति– दण्डापतानकोऽभ्यन्तरायामो बहिरायामोऽभिघातजश्चेति| दृढबलेन यद्यपि आक्षेपकात् पूर्वमन्तरायामबहिरायामौ पठितौ, तथाऽप्याक्षेपकविशेषावेतौ मन्तव्यौ, सुश्रुतदर्शनात्||२८-३१||
अस्यैवावस्थाविशेषावपतन्त्रकापतानकावाह– क्रुद्धः इत्यारभ्य एके तमपतानकमित्यन्तेन| स्वैः कोपनैरित्यनेन रूक्षादिकुपितः स्वतन्त्रः, न त्वावरणकुपित इतीशानजः| [५५] स्थानात् पक्वाशयात्| [५६] ऊर्ध्वं शिरसि उद्दिश्य| पीडयन् [५७] रुजा| हृदयं ततः [५८] तस्मात् शिरः शङ्खौ च पीडयेत्| आक्षिपेत् चालयेत्| मोहयेदिन्द्रियाणि| कष्टेनोच्छ्वासं मुञ्चति| निमीलको निमीलिताक्षः, स्तब्धाक्षो वा भवतीत्यर्थः| कपोत इव कूजेत्, निःसञ्ज्ञः सञ्ज्ञारहितः, सोऽपतन्त्रकः, दृष्टिं रूपग्रहणयोग्यां, संस्तभ्याच्छाद्य, सञ्ज्ञां ज्ञानविषयिणीं बुद्धिं, विनाश्य| वायुना मुक्ते हृदि सुखं लभते| [५९] वृते मूर्छिते तमेवापतन्त्रमेके त्वपतानकमाहुः| तन्त्रान्तरे अपतन्त्रकलक्षणं पठितम्| तद्यथा– “क्रुद्धः स्वैः कोपनैर्वायुरपानो नाभिसंश्रयः| सन्दूष्य हृदयस्थं च मनो व्याकुलयेत्ततः|| पीडयन् हृदयं प्राप्य शिरःशङ्खौ च पीडयेत्| आक्षिप्य चाखिलं देहं मोहयेच्च पुनः पुनः|| स कृच्छ्रादुच्छ्वसेच्चापि स्वेदशैत्ययुतो बहिः| स निद्रां लभते नीतः प्राप्य चाशु प्रबुध्यते|| त्रसते कम्पते भूयो निःसञ्ज्ञः सोऽपतन्त्रकः| प्रलापो वक्त्रकटुता भ्रमो मूर्छाऽरुचिस्तृषा|| तस्मिन्पित्तान्विते स्वेदः पीताभः शीतकामिता| शिरोऽङ्गगौरवं ग्लानिः शीतद्विट् मन्दवेदनः| कफान्विते च सदनं शैत्यं च हृदयग्रहः|| वातोल्बणेऽङ्गस्फुरणं शिरोमन्याकटिव्यथा| धैर्यादिविप्लवो दैन्यं विषयेष्वनवस्थितः||”||२८-३१||
दण्डापतानकलक्षणम्
कफान्वितो भृशं वायुस्तास्वेव यदि तिष्ठति ||३२||
दण्डवत् स्तम्भयेद्देहं स तु दण्डापतानकः |
(सु. नि. अ. १) |
एषां लक्षणमाह– कफान्वित इत्यादि| भृशं कफान्वित इत्यनेन पित्तमपि न वार्यत इत्याहुः| चरके त्वस्यासाध्यत्वं केवलवातजत्वेन द्र्ष्टव्यम्| यदाह– “पाणिपादशिरःपृष्ठश्रोणीः स्तभ्नाति मारुतः| दण्डवत् स्तब्धगात्रस्य दण्डकः सोऽनुपक्रमः||” (च. चि. अ. २८) इति| तास्विति सर्वधमनीषु||३२||
तेषां लक्षणमाह– कफान्वित इत्यादि| तास्विति सर्वधमनीषु| भृशं कफान्वित इत्यनेन पित्तमपि न वार्यत इत्याहुः| चरके त्वस्यासाध्यत्वं केवलवातजत्वेन द्रष्टव्यम्| यदाह– “पाणिपादशिरःपृष्ठश्रोणीः स्तभ्नाति मारुतः| दण्डवत् स्तब्धगात्रस्य दण्डकः सोऽनुपक्रमः||” (च. चि. अ. २८) इति| [६०] तास्विति सर्वधमनीषु||३२||
धनुःस्तम्भलक्षणम्
धनुस्तुल्यं नमेद्यस्तु स धनुःस्तम्भसञ्ज्ञकः ||३३||
(सु. नि. अ. १) |
अन्तरायामबहिरायामयोः साधारणं रूपमाह– [६१] ‘धनुस्तुल्यं नमेद्यस्तु स धनुस्तम्भसञ्ज्ञकः’ इति||३३||
अन्तरायामबहिरायामयोः साधारणरूपमाह– स्तम्भः सामान्यः, धनुःस्तम्भः अस्यैव भेदः| धनुस्तुल्यमिति धनुस्तुल्यं क्रोडेन नम्रस्तिष्ठति, दण्डापतानकस्तु शुष्ककाष्ठदण्डवत्||३३||
अभ्यन्तरायामलक्षणं बाह्यायामलक्षणं च
अङ्गुलीगुल्फजठरहृद्वक्षोगलसंश्रितः |
स्नायुप्रतानमनिलो यदाऽऽक्षिपति वेगवान् ||३४||
विष्टब्धाक्षः स्तब्धहनुर्भग्नपार्श्वः कफं वमन् |
अभ्यन्तरं धनुरिव यदा नमति मानवम् ||३५||
तदाऽस्याभ्यन्तरायामं कुरुते मारुतो बली |
बाह्यस्नायुप्रतानस्थो बाह्यायामं करोति च ||३६||
तमसाध्यं बुधाः प्राहुर्वक्षःकट्यूरुभञ्जनम् |
(सु. नि. अ. १) |
विशेषलक्षणमाह– अङ्गुलीत्यादि| वक्षो बाहुद्वयान्तरम्| हृदयं तदभ्यन्तरं द्व्यङ्गुलम्| स्नायुप्रतानं लतावदनेकप्ररोहं स्नायुजालम्; स्नायुरित्युपलक्षणं, तेन सिराकण्डरयोरपि ग्रहणम्| यदुक्तं तन्त्रान्तरे– “महाहेतुर्बली वायुः सिराः सस्नायुकण्डराः| मन्यापृष्ठाश्रिता बाह्याः संशोष्यायामयेद्बहिः||” इत्यादि| अभ्यन्तरायामं क्रोडे नतं, बाह्यायामं पृष्ठे नतम्| अन्तरायामबहिरायामाभ्यां तन्त्रान्तरोक्तकुब्जस्यावरोधः| यदुक्तम्– “हृदयं यदि वा पृष्ठमुन्नतं क्रमशः सरुक्| क्रुद्धो वायुर्यदा कुर्यात्तदा तं कुब्जमादिशेत्||” इति||३४-३६||
विशेषलक्षणमाह– अङ्गुलीत्यादि| बली वायुः कुपितः गुल्फौ चरणघुटिके, वक्षो बाहुद्वयान्तरं, हृदयं तदभ्यन्तरं द्व्यङ्गुलं, स्नायुप्रतानं लतावदनेकप्ररोहं स्नायुजालं, स्नाय्वित्युपलक्षणं, तेन सिराकण्डरयोरपि ग्रहणम्| यदुक्तं तन्त्रान्तरे– “महाहेतुर्बली वायुः सिराः सस्नायुकण्डराः| मन्यापृष्ठाश्रिता बाह्याः संशोष्यायामयेद्बहिः” इत्यादि| ततः स्नायुप्रतानं धनुरिव नामयेत्| अभ्यन्तरायामं क्रोडे नतम्| हनुः कण्ठकपोलसन्धिः| बहिरायामलक्षणमाह– बाह्येत्यादि| पूर्ववद्बाह्यस्नायुप्रतानं धनुर्वदानमेत्| बाह्यायामं पृष्ठे नतं वक्षःकठ्यूरुभङ्ग्त्वात्| तमसाध्यमाहुः||३४-३६||
अभिघातजाक्षेपकलक्षणम्
( [६२] हृदयं यदि वा पृष्ठमुन्नतं क्रमशः सरुक् |
क्रुद्धो वायुर्यदा कुर्यात् तदा तं कुब्जमादिशेत्) |
कफपित्तान्वितो वायुर्वायुरेव च केवलः ||३७||
कुर्यादाक्षेपकं त्वन्यं चतुर्थमभिघातजम् |
(सु. नि. अ. १) |
उक्तानामाक्षेपकप्रकाराणां कफपित्तानुबन्धमाह– कफपित्तान्वित इत्यादि| एतच्च दण्डापतानकलक्षणमेव जेज्जटेन व्याख्यातम्| पित्तकफानुबन्धश्चात्र शैत्यशोथगुरुत्वानीत्यादिनोक्तलक्षण एव बोध्यः| चतुर्थमभिघातजमिति दण्डापतानकादित्रितयापेक्ष्य चतुर्थत्वम्, अभिघातजं दण्डाद्यभिघातकुपितवातजम्; अस्य च लक्षणम्– ‘‘यदा तु धमनीः सर्वाः’’ इत्यादिनोक्तसामान्यलक्षणं द्रष्टव्यम्||३७||
उक्तानामाक्षेपप्रकाराणां कफपित्तानुबन्धमाह– कफेत्यादि| कफपित्तानुबन्धश्चात्र शैत्यशोषगुरुत्वानीत्यादिनोक्तलक्षणे बोद्धव्यः, केवलः स्वतन्त्र आक्षेपं करोति| अन्यं चतुर्थमभिघातजम्| दण्डाभिघातकुपितवातजातस्य तु लक्षणम्| ‘यदा तु धमनीः सर्वाः’ इत्यादिना ज्ञेयम्||३७||
अपतानकस्यासाध्यलक्षणम्
गर्भपातनिमित्तश्च शोणितातिस्रवाच्च यः ||३८||
अभिघातनिमित्तश्च न सिध्यत्यपतानकः |
(सु. नि. अ. १) |
असाध्यत्वमाह– गर्भपातेत्यादि| गदाधरस्त्वाह– कफपित्तान्वित इत्यादिना निमित्तभेदेनाक्षेपकश्चतुर्धा इति; तद्यथा– एकः कफान्वितेन वातेन, द्वितीयः पित्तान्वितेन, तृतीयः केवलेन, चतुर्थोऽभिघातेनेति| अत्र पक्षे गर्भपातशोणितातिस्रावजौ केवलवातेन ग्राह्यौ| एतेषां च मुहुर्मुहुराक्षेपणं बोध्यम् आक्षेपकविशेषत्वात्||३८||
असाध्यमाह– गर्भेत्यादि| अत्रापतानकमुपलक्षणं, तेन चतुष्टयमपि गृह्यते ‘कफपित्तान्वितः’ इत्यादि निमित्तभेदेन चतुर्थ आक्षेपक इति गदाधरः| तद्यथा– एकः कफान्वितेन वातेन, द्वितीयः पित्तान्वितेन, तृतीयः केवलेन, चतुर्थोऽभिघातजेनेति| अत्र गर्भपातशोणितातिस्रावजौ केवलवातेन ग्राह्याविति| एषां च मुहर्मुहुराक्षेपणं ज्ञेयम्, आक्षेपकविशेषात्||३८||
पक्षवधस्य सम्प्राप्तिपूर्वकं लक्षणम्
गृहीत्वाऽर्धं तनोर्वायुः सिराः स्नायूर्विशोष्य च ||३९||
पक्षमन्यतरं हन्ति सन्धिबन्धान् विमोक्षयन् |
कृत्स्नोऽर्धकायस्तस्य स्यादकर्मण्यो विचेतनः ||४०||
एकाङ्गरोगं तं केचिदन्ये पक्षवधं विदुः |
सर्वाङ्गरोगस्तद्वच्च सर्वकायाश्रितेऽनिले ||४१||
(वा. नि. अ. १५) |
पक्षवधमाह– गृहीत्वेत्यादि| अर्धमिति अर्धमर्यादया अर्धनारीश्वरवत्| पक्षं बाहुकक्षपार्श्वादिभागम्, अन्यतरमिति वामं दक्षिणं वा| सन्धिबन्धान् कफसहितस्नायुभिर्वृतान् मोक्षयन्निति गदाधरः; अत एव “सिराः स्नायूर्विशोष्य” इत्युक्तम्| अर्धकाय इत्युक्तेऽपि कृत्स्नग्रहणं युगपत् सर्वार्धाङ्गव्याप्त्यर्थम्| अकर्मण्य ईषच्चेष्टाक्षमः| [६३] विचेतनोऽल्पचेतनः, ईषत्स्पर्शादिज्ञानवानित्यर्थः| तद्वच्चेत्यनेन सिराः स्नायूर्विशोष्य चेत्यादिसम्प्राप्तिं लक्षणं चातिदिशति||३९-४१||
पक्षवधमाह– गृहीत्वेत्यादि| वायुस्तनोः शरीरस्यार्धं गृहीत्वा सिराः स्नायूर्विशोष्य शोषयित्वा अन्यतरं पक्षं हन्ति निरीहं करोति| अर्धमिति अर्धमर्यादया अर्धनारीश्वरवत्| पक्षमिति शरीरार्धं बाहुकक्षपार्श्वादिभागम्, अन्यतरमिति वामं दक्षिणं [६४] वेति| किं कुर्वन्? सन्धीनां बन्धान् सन्धिबन्धान् कफसहितस्नायुभिर्वृतान् विमोक्षयन्निति गदाधरः| अतः सिराः स्नायूर्विशोष्येत्युक्तम्| तस्य तथाविधस्य पुंसः कृत्स्नो निःशेष अर्धकायोऽकर्मण्यो विचेतनः स्यात्| अर्धकाय इत्युक्तेऽपि कृत्स्नग्रहणं युगपत्सर्वाङ्गव्याप्त्यर्थम्| अकर्मण्य ईषच्चेष्टाक्षयः| विचेतनोऽल्पचेतनः ईषत्स्पर्शादिज्ञानवानित्यर्थः| केचिदाचार्यास्तं व्याधिमेकाङ्गरोगं विदुः, अन्ये पक्षवधं विदुः| सर्वकायाश्रिते समस्तदेहगते वाते तद्वत्सर्वाङ्गरोगमित्याहुः| तद्वच्चेत्यनेन ‘सिराः स्नायूर्विशोष्य च’ इत्यादिसम्प्राप्तिं लक्षणं चातिदिशति||३९-४१||
पक्षवधस्य साध्यासाध्यविचारः
दाहसन्तापमूर्छाः स्युर्वायौ पित्तसमन्विते |
शैत्यशोथगुरुत्वानि तस्मिन्नेव कफान्विते ||४२||
शुद्धवातहतं पक्षं कृच्छ्रसाध्यतमं विदुः |
साध्यमन्येन संयुक्तमसाध्यं क्षयहेतुकम् ||४३||
(सु. नि. अ. १) |
[६५] (गर्भिणीसूतिकाबालवृद्धक्षीणेष्वसृक्स्रुते |
पक्षाघातं परिहरेत् वेदनारहितो यदि) |
तस्यैव साध्यासाध्यज्ञानार्थमाह– दाहेत्यादि| एतच्च लक्षणमन्यत्रापि वातरोगे द्रष्टव्यम्, अत एव सामान्येन वायाविति कृतवान्| शुद्धः केवलः| अन्येनेति कफेन, पित्तेन वा| क्षयहेतुकमिति धातुक्षयकुपितशुद्धवातजमिति||४२-४३||
तस्यैव साध्यासाध्यत्वज्ञानार्थमाह– दाहेत्यादि| एवं लक्षणमन्यत्रापि वातरोगे द्र्ष्टव्यम्| पक्षाघातस्य साध्यासाध्यत्वं दर्शयन्नाह– शुद्धेत्यादि| शुद्धः केवलः, कृच्छ्रसाध्यं कष्टसाध्यं, [६६] अन्येन संसृष्टं कफेन पित्तेन वा युक्तं, क्षयहेतुकं धातुक्षयजमित्यर्थः||४२-४३||
अर्दितस्य निदानसम्प्राप्तिपूर्वकं लक्षणम्
उच्चैर्व्याहरतोऽत्यर्थं खादतः कठिनानि वा |
हसतो जृम्भतो वाऽपि भाराद्विषमशायिनः ||४४||
शिरोनासौष्ठचिबुकललाटेक्षणसन्धिगः |
अर्दयत्यनिलो वक्त्रमर्दितं जनयत्यतः |
वक्रीभवति वक्त्रार्धं [६७] ग्रीवा चाप्यपवर्तते ||४५||
शिरश्चलति वाक्सङ्गो नेत्रादीनां च वैकृतम् |
ग्रीवाचिबुकदन्तानां तस्मिन् पार्श्वे च वेदना ||४६||
(यस्याग्रजो रोमहर्षो वेपथुर्नेत्रमाविलम् |
वायुरूर्ध्वं त्वचि स्वापस्तोदो मन्याहनुग्रहः) |
तमर्दितमिति प्राहुर्व्याधिं व्याधिविचक्षणाः |
(सु. नि. अ. १) |
अर्दितमाह– उच्चैरित्यादि| अर्दयति पीडयति| अपवर्तते वक्रीभवति| चलति कम्पते| वाक्सङ्गोऽनिर्गमो वचनस्य| आदिशब्देन भ्रूगण्डादीनां ग्रहणम्| वैकृतं वेदनास्फुरणवक्रत्वादिकम्| ग्रीवेत्यादि यस्मिन् पार्श्वेऽर्दितं तस्मिन् ग्रीवादीनां वेदनेति योज्यम्| तन्त्रान्तरे तु मुखार्धवच्छरीरार्धव्यापकोऽप्यर्दितः पठितः| यदाह दृढबलः– ‘अर्धे तस्मिन् मुखार्धे वा केवले स्यात्तदर्दितम्|’ (च. चि. अ. २८) इति| ननु, यद्येवं तदा अर्दितार्धाङ्गवातयोः को भेदः? उच्यते– वेगित्वेनार्दिते कदाचिद्वेदना भवति, अर्धाङ्गवाते तु सर्वदैवेति भेदः; अथवा यथोक्तः [६८] सर्वाङ्गोऽर्दितः तद्विपरीतस्त्वर्धाङ्गवात इत्याहुः| सुश्रुतेन तु मुखमात्र एवार्दितः पठितः, अर्धशरीरस्यार्धाङ्गवातेन लब्धत्वात्| स एवात्र माधवेन लिखितः||४४-४६||
अर्दितस्य निदानपूर्वकं लक्षणमाह– उच्चैरित्यादि| उच्चैर्भाषणं, कठिनानि पूगफलादीनि खादतः, विषमाच्छयनात् ग्रीवादिवैपरीत्यशयनात्, अर्दयति पीडयति, ग्रीवां व्याप्य [६९] अपवर्तते वक्रीभवति, चलति कम्पते, वाक्सङ्गो वचनस्यानिर्गमः| आदिशब्देन गण्डनासादीनां ग्रहणं, वैकृतं वेदनास्फुरणवक्रत्वादिकम्| ग्रीवेत्यादि यस्मिन् पार्श्वेऽर्दितं तस्मिन्पार्श्वे ग्रीवादीनां वेदनेति योज्यम्| चिबुकं मुखकुहरस्याधोभागः| तन्त्रान्तरे मुखार्धवच्छरीरार्धव्यापकोऽप्यर्दितः पठितः| यदाह दृढबलः– “अर्धे तस्मिन्मुखार्धे वा केवले स्यात्तदर्दितम्” इति||४४-४६||
अर्दितस्यासाध्यलक्षणम्
क्षीणस्यानिमिषक्षस्य प्रसक्ताव्यक्तभाषिणः ||४७||
न सिध्यत्यर्दितं गाढं त्रिवर्षं वेपनस्य च |
(सु. नि. अ. १) |
तस्यासाध्यलक्षणमाह– क्षीणस्येत्यादि| अनिमिषाक्षस्य निमेषासमर्थचक्षुषः| प्रसक्ताव्यक्तभाषिण इति प्रसक्तं प्रकर्षेण सक्तमप्रवृत्तम्, अव्यक्तं प्रपीडितवर्णपदं, भाषितुं शीलं यस्य स तथा| अन्ये तु प्रसक्तं निरन्तरमाहुः; तन्न, चरके ‘‘दीना जिह्वा समुत्क्षिप्ता काले सज्जति चास्य वाक्|’’ (च. चि. अ. २८) इति वचनात्| त्रिवर्षमिति अतीतवर्षत्रयम्; अथवा त्रयाणां मुखनासाचक्षुषां वर्षः स्रवणं यत्र तत्तथेत्याहुः||४७||
तस्यासाध्यलक्षणमाह– क्षीणस्येत्यादि| [७०] अनिमिषाक्षस्य निमेषासमर्थचक्षुषः| प्रसक्तेति प्रकर्षेण सक्तं लग्नमप्रवृत्तं, कण्ठताल्वादिवर्णोच्चारणस्थानेषु, अव्यक्तमस्फुटं पीडितवर्णपदं भाषितुं शीलं यस्य स तथा| अन्ये तु प्रसक्तं निरन्तरमाहुः; तन्न, चरके– “काले सज्जति चास्य वाक्” इति वचनात्| त्रिवर्षमिति अतीतवर्षत्रयम्, अथवा त्रयाणां मुखनासिकाचक्षुषां वर्षः स्रवणं यत्र तत्तथेत्याहुः| वेपनस्य कम्पनशीलस्य||४७||
आक्षेपकादीनां वेगशान्तौ स्वस्थत्वम्
गते वेगे भवेत् स्वास्थ्यं सर्वेष्वाक्षेपकादिषु ||४८||
(वा. नि. अ. १५) |
आक्षेपकादीनामर्दितान्तानां वेगित्वमाह– गत इत्यादि| स्वास्थ्यं पीडालाघवं, भारापगमे सुखित्वव्यपदेशवत्||४८||
[७१] आक्षेपकादीनामर्दितान्तानां तावद्वेगित्वमाह– गत इत्यादि| भारापगमे सुखित्वव्यपदेशवत्||४८||
हनुग्रहलक्षणम्
जिह्वानिर्लेखनाच्छुष्कभक्षणादभिघाततः |
कुपितो हनुमूलस्थः स्रंसयित्वाऽनिलो [७२] हनुम् ||४९||
करोति विवृतास्यत्वमथवा संवृतास्यताम् |
[७३] हनुग्रहः स तेन स्यात् कृच्छ्राच्चर्वणभाषणम् ||५०||
(वा. नि. अ. १५) |
हनुग्रहमाह– जिह्वेत्यादि| हनुमूलस्थः [७४] कपोलमूलस्थः| [७५] हनुं स्रंसयित्वाऽधः कृत्वा| [७६] विवृतास्यत्वम् आस्यविवृतिं, संवृतास्यताम् आस्यसंवृतिं; सा च वायोरनियतकारित्वात्||४९-५०||
[७७] हनुग्रहमाह– जिह्वेत्यादि| जिह्वानिर्लेखनात् जिह्वाघर्षणात् दन्तकाष्ठादिना, [७८] शुष्काणां चणकादीनां [७९] भक्षणात्| अभिघाततः ताडनात्| हनुमूलस्थः कपोलमूलस्थः| हनुं स्रंसयित्वा अधः कृत्वा, विवृतास्यत्वं प्रसारितवदनत्वं, संवृतास्यत्वं सङ्कुचितमुखताम्| अत्र [८०] संवृतिर्विवृतिर्वा वायोरनियतकारित्वात्| स एव वातः कुपित इत्यर्थः| तेन कृच्छ्राच्चर्वणं भाषणं च स्यात्||४९-५०||
मन्यास्तम्भलक्षणम्
दिवास्वप्नासनस्थानविवृतोर्ध्वनिरीक्षणैः |
मन्यास्तम्भं प्रकुरुते स एव श्लेष्माणऽऽवृतः ||५१||
(सु. नि. अ. १) |
मन्यास्तम्भमाह– दिवास्वप्नेत्यादि| स एवेति वातः||५१||
मन्यास्तम्भमाह– दिवेत्यादि| [८१] आसनमुपवेशः, स्थानमूर्ध्वभवनं, विवृतोर्ध्वनिरीक्षणं वक्रमार्गावलोकनम्| स एवेति वातो दिवास्वप्नादिभिः कुपितः सन्, श्लेष्मणाऽऽवृतो मन्यास्तम्भं प्रकुरुते, मन्यास्तम्भं केचिदपतानकपूर्वरूपं मन्यन्ते||५१||
जिह्वास्तम्भलक्षणम्
वाग्वाहिनीसिरासंस्थो जिह्वां स्तम्भयतेऽनिलः |
जिह्वास्तम्भः स तेनान्नपानवाक्येष्वनीशता ||५२||
(वा. नि. अ. १५) |
जिह्वास्तम्भमाह– [८२] वागित्यादि| [८३] वाग्वाहिनीसिरासंस्थ इति वाग्वाहिनी या सिरा तत्र संस्थ इति योज्यं, समस्तपक्षे “पुंवत् कर्मधारयजातीयदेशीयेषु” इत्यनेन पुंवद्भावप्राप्तेः| अन्नपानवाक्येष्वनीशतेति अन्नपानाभ्यवहारवचनेषु असामर्थ्यम्||५२||
जिह्वास्तम्भमाह– वागित्यादि| वाग्वाहिनी [८४] वा सिरा तत्र संस्थ इति योज्यम्| अन्नपानवाक्येष्वनीशतेति अन्नपानाभ्यवहारवचनेष्वसामर्थ्यम्||५२||
सिराग्रहस्य सम्प्राप्तिपूर्वकं लक्षणम्
रक्तमाश्रित्य पवनः कुर्यान्मूर्धधराः सिराः |
रूक्षाः सवेदनाः कृष्णाः सोऽसाध्यः स्यात् सिराग्रहः ||५३||
(वा. नि. अ. १५) |
सिराग्रहमाह– रक्तमित्यादि| मूर्धधरा इति ग्रीवागताः, तासां रूक्षत्वं वेदनावत्त्वं कृष्णत्वं च कुर्यात्| सोऽसाध्य इति स्वरूपेणैव, काकणकुष्ठवत्| शिरोग्रह इति पाठान्तरेऽपि शिरोधारकसिरादुष्ट्या शिरोवेदनाकारित्वात् ‘शिरोग्रह’ इति व्यपदेशः, लक्षणं तु तदेव||५३||
सिराग्रहमाह– रूक्षाः सवेदनाः कृष्णा इति रूक्षकृष्णवेदनावत्त्वं कुर्यात्| सोऽसाध्य इति स्वरूपेण हस्तगतद्रव्यवत्| ‘शिरोग्रहः’ इति पाठान्तरं, तत्र शिरोधारकसिरादुष्ट्या शिरोवेदनाकारित्वात्, शिरोग्रहलक्षणं तु तदेव||५३||
गृध्रसीलक्षणम्
स्फिक्पूर्वा कटिपृष्ठोरुजानुजङ्घापदं क्रमात् |
गृध्रसी स्तम्भरुक्तोदैर्गृह्णाति स्पन्दते मुहुः ||५४||
वाताद्वातकफात्तन्द्रागौरवारोचकान्विता |
(च. चि. अ. २८) |
गृध्रसीमाह– स्फिक्पूर्वेत्यादि| स्फिक् पूर्वा प्रथमतो ग्राह्या स्तम्भरुक्तोदैर्यस्याः सा स्फिक्पूर्वा; ईशानस्तु पूर्वा प्रथमा गृध्रसी वातादिति योजयति, एषा च व्याख्या स्फिक्शब्दस्य नपुंसकत्वेन ‘पूर्वा स्फिक् कटीपृष्ठ’ इत्यादिना पाठेन वोपपद्यते नान्यथा| ‘स्फिक्पूर्वम्’ इति पाठान्तरं जानुजङ्घापदमित्यनेन योज्यम्| क्रमादिति न युगपत्| वातादिति छेदः| वातकफारब्धा गृध्रसी, सा उक्तवातलक्षणयुक्ताऽपि [८५] तन्द्रागौरवादियुक्ता भवतीति गृधसीद्वयमुक्तम्||५४||
गृध्रसीमाह– स्फिगित्यादि| गृध्रसी स्तम्भरुक्तोदैः क्रमात् कटिपृष्ठोरुजानुजङ्घापदं गृह्णाति, तथा मुहुः स्पन्दते सा वातजा ज्ञेया, कथम्भूता गृध्रसी? स्फिक् पूर्वा प्रथमतो ग्राह्या स्तम्भरुक्तोदैर्यस्याः सा स्फिक्पूर्वा| ईशानस्तु पूर्वा प्रथमा गृध्रसी वातादिति योजयति| एषा च व्याख्या स्फिक्शब्दस्य नपुंसकत्वेन, ‘पूर्वा स्फिक् सकटीपृष्ठ’– इत्यादिपाठेन वोपपद्यते, नान्यथा| ‘स्फिक्पूर्वम्’ इति पाठान्तरं जानुजङ्घापदमित्यनेन योज्यम्| क्रमादिति न युगपत्| गृध्रसी रङ्घिणीति लोके| वातादिति छेदः, वातकफारब्धा गृध्रसी, सा प्रोक्ता वातलक्षणयुक्ता तन्द्रागौरवादियुक्ताऽपि भवतीति गृध्रसीद्वयमुक्तम्||५४||
गृध्रस्या विशेषलक्षणम्
[८६] वातजायां भवेत्तोदो देहस्यापि [८७] प्रवक्रता |
जानुकट्यूरुसन्धीनां स्फुरणं स्तब्धता भृशम् ||५५||
वातश्लेष्मोद्भवायां तु निमित्तं वह्निमार्दवम् |
तन्द्रा मुखप्रसेकश्च भक्तद्वेषस्तथैव च ||५६||
गृध्रस्याः पुनरपि विशेषलक्षणमाह– वातजायामित्यादि| सुगमम्||५५-५६||
विश्वाचीलक्षणम्
तलं प्रत्यङ्गुलीनां याः कण्डरा बाहुपृष्ठतः ||५७||
बाह्वोः कर्मक्षयकरी विश्वाची चेति सोच्यते |
(सु. नि. अ. १) |
विश्वाचीमाह– तलमित्यादि| तलं हस्तस्योपरिभागः, तलशब्दोऽत्र उपरिवचनः, यथा– भूतलमिति गयदासः| तेनायमर्थः– बाह्वोः पृष्ठं बाहुपृष्ठं, तत आरभ्य हस्ततलं लक्षीकृत्याङ्गुलीनां याः कण्डरास्ताः सन्दूष्य बाह्वोः कर्मक्षयकरी या सा विश्वाची| बाह्वोः कर्म ग्रहणाकुञ्चनादि, द्वित्वं चात्र सम्भवपरं, तेनैकबाहावपि भवति वातरक्तवत्| विश्वाची चेति चकारेण गृध्रसीविश्वाच्योः खल्लीसञ्ज्ञां दर्शयति, तयोरपि करमूलावमोटनकारित्वात्; यदुक्तं हारीते– ‘‘विश्वाची गृध्रसी चोक्ता खल्ली तीव्ररुजान्विता|’’ इति गयदासः| चक्रस्त्वाह– चरके “खल्ली तु पादजङ्घोरुकरमूलावमोटनी|” (च. चि. अ. २८) इत्यनेन विश्वाच्याः पृथगेव खल्ली पठिता, सुश्रुतेन तु खल्ली न पठितैव; नहि तेन तन्त्रान्तरोक्तसर्वविकाराः पठ्यन्ते, चरकक्तपरस्परवातावरणलक्षणमेव न पठितं; हारीतेन तु तीव्ररुजायोगाद् गृध्रसीविश्वाच्योः खल्लीत्वं पठित्वं, भवति हि धर्मान्तरयोगात् कस्यचिद्विकारस्य रोगान्तरत्वं; यथा– अष्ठीलैव प्रत्यष्ठीला, अश्मर्येव शर्करा, पाण्डुरोग एव कामलेत्यादि||५७||
विश्वाचीमाह– तलमित्यादि| कण्डरा महास्नायुः, तलं हस्तस्योपरिभागः, तलशब्दोऽत्रोपरिवचनः, यथा– भूतलमिति| तेनायमर्थः बाह्वोः पृष्ठं बाहुपृष्ठं, तदारभ्य हस्ततलं लक्षीकृत्याङ्गुलीनां याः कण्डराः ताः सन्दूष्य बाह्वोः कर्मक्षयकरी या सा विश्वाची| बाह्वोः कर्म– आकुञ्चनग्रहणादि, द्वित्वं चात्र सम्भवपरं, तेनैकबाहावपि भवति, वातरक्तवत्| विश्वाची चेति चकारेण गृध्रसीविश्वाच्योः खल्लीसञ्ज्ञा दर्शिता, तयोरपि करमूलावमोटकत्वात्||५७||
क्रोष्टुकशीर्षलक्षणम्
वातशोणितजः शोथो जानुमध्ये महारुजः ||५८||
ज्ञेयः क्रोष्टुकशीर्षस्तु स्थूलः क्रोष्टुकशीर्षवत् |
(सु. नि. अ. १) |
क्रोष्टुकशीर्षमाह– वातेत्यादि| वातशोणितज इति वातरक्ताख्यविकारजः, चिकित्साभेदार्थं पृथक् पठित इति गयदासः| वातशोणिताभ्यां जात इति जेज्जटः| दृश्यते ह्ययं वातरक्तव्यतिरेकेणापि; जानुदेशनियतत्वेन विशिष्टलक्षणत्वेन चेतरवातरक्तशोथाद्भेद इति| क्रोष्टुकशीर्षवत् शृगालमस्तकवत् स्थूलः||५८||
क्रोष्टुकशीर्षमाह– वातेत्यादि| वातशोणिताभ्यां जातो वातशोणितजः, न पुनर्वातरक्तेन व्याधिना जनितः, जानु मध्ये ऊरुजङ्घयोः सन्धिः, स्थौल्येन आकृत्या च क्रोष्टुशीर्षवत्||५८||
खञ्जलक्षणम्
वायुः कट्याश्रितः सक्थ्नः कण्डरामाक्षिपेद्यदा ||५९||
खञ्जस्तदा भवेज्जन्तुः पङ्गुः सक्थ्नोर्द्वयोर्वधात् |
(सु. नि. अ. १) |
खञ्जमाह– वायुरित्यादि| सक्थ्नः ऊर्ध्वजङ्घायाः, कण्डरां महास्नायुम्, आक्षिपेत् ईषत् क्षिपेत्, किञ्चिद्गतिमत्त्वादिति गयदासः| सक्थ्नोरिति द्विवचनेनैव द्वित्वे लब्धे द्वयोरिति पदेन नियमयति– सक्थिद्वयस्यैव वधात् पङ्गुः, एकसक्थिवधात् खञ्ज इति; वधश्चात्र गमनादिक्रियानाशः||५९||
खञ्जपङ्गुवातावाह– वायुरित्यादि| यदा कट्यां स्थितो वायुः सक्थ्नः ऊर्ध्वजङ्घायाः कण्डरां महास्नायुमाक्षिपेत् ईषत् क्षिपेत् किञ्चिद्गतिमत्त्वादिति गयदासः, तदा जन्तुः खञ्जो भवति| पङ्गुः सक्थ्नोर्द्वयोर्वधादिति सर्वथा गतिविघातात् पङ्गुरिर्थः| सक्थ्नोरिति द्विवचनेनैव द्वित्वे लब्धे द्वयोरितिपदेन नियमयति– सक्थिद्वयस्यैव वधात्पङ्गुः, एकसक्थिवधात्खञ्ज इति| वधश्चात्र गमनक्रियानाशः||५९||
कलायखञ्जलक्षणम्
प्रक्रामन् वेपते यस्तु खञ्जन्निव च गच्छति ||६०||
कलायखञ्जं तं विद्यान्मुक्तसन्धिप्रबन्धनम् |
(सु. नि. अ. १) |
खञ्जविशेषमाह– प्रक्रामन्नित्यादि प्रक्रामन्निति गमनमारभमाणो वेपते| प्रशब्दोऽयमादिकर्मणि| खञ्जन्निव गच्छति विकलयन्निव गच्छति, गमनारम्भेन अन्येन संसृष्टं [८८] वेपते तेन खञ्जादस्य भेदः| [८९] मुक्तेत्यादिमित्याहुः| मुक्तसन्धिप्रबन्धनमिति शिथिलीकृतसन्धिबन्धनम्| कलायखञ्ज इति शास्त्रे रूढा सञ्ज्ञा; [९०] अयमेवान्यत्र खञ्जवात इत्युक्तः||६०||
कलायखञ्जमाह– प्रक्रामन्नित्यादि| प्रक्रामन् पादविक्षेपं कुर्वन्, वेपते कम्पते| खञ्जन्निवेत्यादि वैकल्यं कुर्वन्निव गच्छति| मुक्तसन्धिप्रबन्धनं शिथिलीकृतसन्धिबन्धनम्| कलायखञ्ज इति शास्त्रे रूढिः सञ्ज्ञा||६०||
वातकण्टकलक्षणम्
रुक् पादे विषमेन्यस्ते श्रमाद्वा जायते यदा ||६१||
वातेन गुल्फमाश्रित्य तमाहुर्वातकण्टकम् |
(वा. नि. अ. १५) |
वातकण्टकमाह– [९१] रुगित्यादि| विषमपादन्यासकुपितः श्रमकुपितो वा वायुर्गुल्फे वेदनां जनयन्, वातकण्टकमित्याहुः; अयमेवान्यत्र ‘खुडुकावात’ इत्युक्तः||६१||
वातकण्टकमाह– रुगित्यादि| यदा विषमपादन्यासकुपितः श्रमकुपितो वा वायुर्गुल्फेवेदनां जनयति, तं वातकण्टकमित्याहुः; अयमेवान्यत्र ‘खुडुकावात’ इत्युक्तः||६१||
पाददाहलक्षणम्
पादयोः कुरुते दाहं पित्तासृक्सहितोऽनिलः ||६२||
विशेषतश्चङ्क्रमतः पाददाहं तमादिशेत् |
(सु. नि. अ. १) |
पाददाहमाह– पादयोरित्यादि| विशेषतश्चङ्क्रमत इत्यनेन स्थितस्य मन्दो दाह इति दर्शयति| वैवर्ण्यादेरभावाद्वातरक्तादस्य भेदः||६२||
पाददाहमाह– [९२] पादयोरित्यादि| पादयोः विशेषतश्चङ्क्रमतः विशेषेण गच्छतः, विशेषतश्चङ्क्रमत इत्येनन स्थितस्य मन्दो दाह इति दर्शयति| वैवर्ण्यादेरभावाद्वातरक्तादस्य भेदः||६२||
पादहर्षलक्षणम्
हृष्येते चरणौ यस्य भवेतां चापि सुप्तकौ ||६३||
पादहर्षः स विज्ञेयः कफवातप्रकोपतः |
(सु. नि. अ. १) |
पादहर्षमाह– हृष्येते इत्यादि| हृष्येते हर्षयुक्तौ भवतः, हर्षश्च रोमाञ्चप्रायः अन्तःशीतो झिणिझिणिवत् वेदनाविशेष इत्याहुः; झिणिझिणि तु न चिरानुबन्धिनी केवलवातजेति भेदः||६३||
पादहर्षमाह– हृष्येते इत्यादि| हृष्येते हर्षयुक्तौ भवतः, हर्षश्च रोमाञ्चप्रायोऽन्तःशीतो झिणिझिणिवत् वेदनाविशेषः||६३||
अंसशोषलक्षणम्
अंसदेशस्थितो वायुः शोषयेदंसबन्धनम् ||६४||
(सु. नि. अ. १) |
[९३] अंसेत्यादि| अंसेत्यादिना श्लोकार्धेनांसशोषः केवलवातज उच्यते| अंसबन्धनकारकः श्लेष्मा अंसबन्धनः; एतदनन्तरं ‘अंसशोषं जनयेत्’ इति शेष इति कार्तिकः||६४||
अर्धार्धश्लोकेनांसशोषावबाहुकयोर्लक्षणमाह– अंसेत्यादि| अंसशब्देनांससमीपोपलक्षितदेशोंऽसदेशः| अंसो बाहुशिरः, तत्र स्थितो व्यवस्थितः| अंसबन्धनमिति अंसबन्धनकारकः श्लेष्मा अंसबन्धनः, [९४] तत्रांसबन्धनं श्लेष्माणं शोषयित्वा स तदनन्तरं अंसशोषं जनयेदिति वाक्यशेष इति कार्तिकः||६४||
अवबाहुकलक्षणम्
सिराश्चाकुञ्च्य तत्रस्थो जनयेदवबाहुकम् |६५|
(सु. नि. अ. १) |
अवबाहुकमाह– सिराश्चेत्यादिना| [९५] तत्रस्थोंऽसदेशस्थः| अयं च वातकफजः| अन्ये तु मिलित्वा अवबाहुकलक्षणमाहुः; तन्न, यतः सुश्रुतेनोक्तम्– ‘अंसशोषावबाहुकयोर्बाहुमध्ये सिराव्यधः’ (सु. शा. अ. ८) इति| एतदनन्तरं सुश्रुतेन बाधिर्यं पठितम्– “यदा शब्दवहं वायुः” (सु. नि. अ. १) इत्यादिना, माधवेन तु प्रकरणानुरोधं मन्यमानेन कर्णरोग एव तत् पठितं, किन्तु सुश्रुतेन वातव्याधौ बाधिर्यं पठित्वाऽपि बाधिर्यकर्णशूलौ शालाक्यऽपि पठितौ; पुनरुक्तमिति चेत्; नैव, सम्प्राप्तिभेदभिन्नत्वात्; वातव्याधौ शब्दवहमित्यनेन कर्णशष्कुल्यवच्छिन्ननभोदेश उक्तः, शालाक्ये च शब्दवहाः सिरा इत्युक्तम्| माधवेन तु कर्णरोगे शब्दाश्रवणत्वाविशेषादेतदेव तत्र पठितमित्यविरोधः|६५|–
सिराश्चेत्यादिना अवबाहुकः| तत्रस्थोंऽसदेशस्थः, सिराः आकुञ्च्यावबाहुकं जनयेत्| अयं च कफवातजः| [९६] अत्रांसशोषमवबाहुकमिति रोगद्वयमुक्तवान्, अन्ये तु मिलित्वाऽवबाहुकलक्षणमाहुः, तन्न यतः सुश्रुतेन [९७] रोगद्वयं पृथक् पठितम्– “अंसशोषावबाहुकयोर्बाहुमध्ये सिराव्यधः” इति|६५|–
मूकादीनां लक्षणम्
आवृत्य वायुः सकफो धमनीः शब्दवाहिनीः ||६५||
नरान् करोत्यक्रियकान्मूकमिन्मिनगद्गदान् |
(सु. नि. अ. १) |
[९८] मूकादींस्त्रीनाह– आवृत्येत्यादि| अक्रियकान् अवचनक्रियकानिति; नञयमभावे, ईषदर्थे च| आद्यो मूकोऽवचनः, द्वितीयो मिन्मिनः सानुनासिकसर्ववचनः, तृतीयो गद्गदो [९९] लुप्तपदव्यञ्जनाभिधायी| एषां [१००] च समानकारणाभिधानेऽपि दुष्टेरुत्कर्षादिभिरदृष्टवशाद्वा भेद इत्युन्नेयम्||६५||
मूकादीन् जिह्वागतान् वातरोगांस्त्रीनाह– आवृत्येत्यादि| वायुः सकफः कुपितः सन्, शब्दवाहिनीर्धमनीरावृत्यावरुध्य, नरान् अक्रियकान् अवचनक्रियकान् करोति| अत्र नञ् अभावे ईषदर्थे च| मूकोऽवचनः, मिन्मिनः सानुनासिकसर्ववचनः, गद्गदो लुप्तपदव्यञ्जनाभिधायी| एषां तुल्यहेत्वभिधानेऽपि दुष्टेरुत्कर्षादिभिरदृष्टवशाद्वा भेद इत्युन्नेयम्||६५||
तूनीलक्षणम्
अधो या वेदना याति वर्चोमूत्राशयोत्थिता ||६६||
भिन्दतीव गुदोपस्थं सा तूनी नाम नामतः |
(सु. नि. अ. १) |
तूनीमाह– अध इत्यादि| अध इति गुदोपस्थम्| वेदना शूलम्| वर्चोमूत्राशयोत्थिता पक्वाशयमूत्राशयोत्थिता, पक्वाशयमूत्रपुटयोर्व्यस्तसमस्तयोर्जाता| उपस्थं स्त्रीपुंसयोर्गुह्यम्| नामतः प्रसिद्धितः||६६||
तूनीवातमाह– अध इत्यादि| या वेदना शूलमध इति गुदोपस्थं याति, नामतः प्रसिद्धितः सा तूनी नाम, वर्चोमूत्राशयोत्थिता पक्वाशयमूत्रपुटयोर्व्यस्तसमस्तयोर्जाता, भिन्दतीव गुदोपस्थमिति भेदं कुर्वतीव गुदोपस्थस्येत्यर्थः| उपस्थं स्त्रीपुंसयोर्गुह्यम्||६६||
प्रतितूनीलक्षणम्
गुदोपस्थोत्थिता या तु प्रतिलोमं प्रधाविता ||६७||
वेगैः पक्वाशयं याति प्रतितूनीति सोच्यते |
(सु. नि. अ. १) |
प्रतितूनीमाह– गुदेत्यादि| प्रतिलोममित्यूर्ध्वम्| वेगैर्वातकृतोद्गमैः| सेत्यनेन ‘भिन्दतीव’ इत्यतिदिश्यते||६७||
प्रतितूनीमाह– गुदेत्यादि| गुदोपस्थोत्थिता सैव वेदना [१०१] प्रतिलोमित्यूर्ध्वं प्रधाविता सती, वेगैर्वातकृतोद्गमैर्मुहुर्मुहुः स्वभावोपशमोपलक्षितैः पक्वाशयं याति, सा प्रतितूनीत्युच्यते, सैवेत्यनेन भिन्दतीत्यतिदिश्यते||६७||
आध्मानलक्षणं, प्रत्याध्मानलक्षणं च
साटोपमत्युग्ररुजमाध्मातमुदरं भृशम् ||६८||
आध्मानमिति तं विद्याद् घोरं वातनिरोधजम् |
विमुक्तपार्श्वहृदयं तदेवामाशयोत्थितम् ||६९||
प्रत्याध्मानं विजानीयात् कफव्याकुलितानिलम् |
(सु. नि. अ. १) |
आध्मानमाह– साटोपमित्यादि| साटोपमिति [१०२] आटोपश्चलचलनमिति गयदासः, गुडगुडाशब्द इति कार्तिकः| आध्मातं वातपूर्णचर्मपुटकस्थानीयम्| उदरमिति पक्वाशयः, प्रत्याध्मानस्य आमाशयसम्भवत्वात्| घोरमिति कष्टप्रदम्| आमाशयसमुत्थत्वेन प्रत्यासत्त्या पार्श्वहृदययोरपि वेदानाशङ्कानिरासार्थमाह– [१०३] विमुक्तेत्यादि| तदेवेत्यनेन साटोपादित्वमतिदिशति| [१०४] कफव्याकुलितानिलं कफावृतवातम्||६८-६९||
आध्मानलक्षणमाह– साटोपमित्यादि| साटोपादिलक्षणयुक्तमुदरमाध्मानं जानीयात्; साटोपमिति आटोपश्चलनं तेन सह वर्तत इति साटोपमिति गयदासः; गुडगुडाशब्द इति कार्तिकः| आध्मानमिति आध्मातं वातपूर्णचर्मपुटकस्थानीयम् उदरमिति पक्वाशयः, प्रत्याध्मानस्यामाशयसम्भवत्वात्| घोरमिति कष्टप्रदम्| प्रत्याध्मानमाह– विमुक्तेत्यादि| विमुक्तं पार्श्वहृदयं येन तत्तथा| कफाकुलितं वातमित्यर्थः||६८-६९||
अष्ठीलालक्षणं, प्रत्यष्ठीलालक्षणं च
नाभेरधस्तात् सञ्जातः सञ्चारी यदि वाऽचलः ||७०||
अष्ठीलावद्घनो ग्रन्थिरूर्ध्वमायत उन्नतः |
वाताष्ठीलां विजानीयाद्बहिर्मार्गावरोधिनीम् ||७१||
एतामेव रुजोपेतां वातविण्मूत्ररोधिनीम् |
प्रत्यष्ठीलामिति वदेज्जठरे तिर्यगुत्थिताम् ||७२||
(सु. नि. अ. १) |
अष्ठीलामाह– नाभेरित्यादि| अष्ठीला उत्तरापथे वर्तुलः पाषाणविशेष इति जेज्जटमतानुवादी कार्तिकः, कर्मकाराणां वर्तुला दीर्घा लौहभाण्डीति गयदासः| ऊर्ध्वमायत उपरिदीर्घः| उन्नतः तिर्यगुन्नतः| वातकृता अष्ठीला वाताष्ठीलेति स्वरूपपरं, व्यावृत्त्यभावात्| बहिर्मार्गावरोधिनीं वातमूत्रपुरीषावरोधिनीम्| एतामित्यादि सैव जठरे तिर्यगुत्थिता तिर्यगायता प्रत्यष्ठीलेति भेदः| वातविण्मूत्ररोधिनीमिति विशेषपरम्||७०-७२||
अष्ठीलामाह– नाभेरित्यादि| अष्ठीलावत् अष्ठीलासदृशं ग्रन्थिं वाताष्ठीलां विजानीयात्| अष्ठीला उत्तरापथे वर्तुलः [१०५] पाषाणविशेष इति जेज्जटानुवादी कार्तिकः, कर्मकाराणां वर्तुला दीर्घा लौहभाण्डी इति गयदासः| [१०६] घनं संहतावयवम्| ऊर्ध्वमायतमुपरिदीर्घम्| उन्नतं तिर्यगुन्नतम्| वातकृता अष्ठीला वाताष्ठीला इति स्वरूपपरं, व्यावृत्त्यभावात्| [१०७] बहिर्मार्गनिरोधिनी वातमूत्रपुरीषरोधिनीम्| प्रत्यष्ठीलामाह– एतामित्यादि| प्रत्यष्ठीलेति भेदः| वातमूत्रपुरीषरोधिनीमिति विशेषपरम्||७०-७२||
बस्तौ प्रतिलोमे वायौ विविधमूत्ररोधकविकारसम्भवः
[१०८] मारुतेऽनुगुणे बस्तौ मूत्रं सम्यक् प्रवर्तते |
विकारा विविधाश्चात्र प्रतिलोमे भवन्ति च ||७३||
(सु. नि. अ. ३) |
अष्ठीलाव्यतिरिक्तामपि वातविकृतिं मूत्ररोधिनीमाह– मारुत इत्यादि| [१०९] अनुगुणेऽनुलोमे| प्रतिलोमे [११०] प्रतिलोमगे मारुत इति सम्बन्धः| विकारा अश्मरीमूत्रकृच्छ्रादयः||७३||
अष्ठीलाव्यतिरिक्तामपि मूत्ररोधिनीं वातविकृतिमाह– मारुत इत्यादि| अविगुणेऽनुलोमे मारुत इत्यर्थः| विकाराः [१११] अश्मरीमूत्रकृच्छ्रवातकृताष्ठीलाकृच्छ्रादयः||७३||
वेपथुलक्षणम्
सर्वाङ्गकम्पः शिरसो वायुर्वेपथुसञ्ज्ञकः |७४|
वेपथुवातविकारमाह– सर्वेत्यादि| शिरसः कम्प इति सम्बन्धः; शिर इत्यवयवोपलक्षणं, तेन हस्तादेरपि कम्पो वेपथुरित्यर्थः|७४|–
सर्वाङ्गकम्पवातमाह– सर्वाङ्गेत्यादि| सर्वाङ्गस्य शिरसश्च कम्प इति सम्बन्धः| शिरस इत्यवयवोपलक्षणं, तेन [११२] हस्तोदेरपि कम्पो वेपथुरिति|७४|–
खल्लीलक्षणम्, ऊर्ध्ववातलक्षणं च
[११३] खल्ली तु पादजङ्घोरुकरमूलावमोटनी ||७४||
(च. चि. अ. २८) |
खल्लीत्यादि| खल्ली ‘सिरावमोटन’ इति लोके||७४||
खल्लीमाह– खल्लीत्यादि| मोटिनीति परिवर्तनशीला||७४||
ऊर्ध्ववातलक्षणम्
अधः प्रतिहतो वायुः श्लेष्मणा मारुतेन वा |
करोत्युद्गारबाहुल्यमूर्ध्ववातः स उच्यते ||७५||
अधः प्रतिहतो वायुः श्लेष्मणा मारुतेन च| करोत्युद्गारबाहुल्यमूर्ध्ववातं प्रचक्षते||७५||
ऊर्ध्ववातमाह– अध इति||७५||
अनुक्तवातरोगसङ्ग्रहः
स्थाननामानुरूपैश्च लिङ्गैः शेषान् विनिर्दिशेत् |
सर्वेष्वेतेषु संसर्गं पित्ताद्यैरुपलक्षयेत् ||७६||
(च. चि. अ. २८) |
हनुस्तम्भार्दिताक्षेपपक्षाघातापतानकाः |
कालेन [११४] महता वाता यत्नात् सिध्यन्ति वा न वा ||७७||
[११५] नरान् बलवतस्त्वेतान् साधयेन्निरुपद्रवान् |
(च. चि. अ. २८) |
अनुक्तवातरोगसङ्ग्रहणार्थमाह– स्थानेत्यादि| [११६] स्थानानुरूपैर्लिङ्गैर्यथा– कुक्षिशूलं, [११७] पृष्ठशूलं, नखभेद इत्यादि| नामानुरूपैर्लिङ्गैर्यथा– शूलमित्युक्ते कीलनिखातवद्वेदनाविशेष एव उच्यते, तथा भेदतोदादिभिरपि पीडाविशेष एव गम्यते| [११८] वाता इति वातविकाराः, कार्यकारणयोरभेदोपचारात्| वातादिति पाठे तु वाताद्ये [११९] पक्षवधादय इति योज्यम्||७६-७७||
अनुक्तवातरोगसङ्ग्रहार्थमाह– स्थानेत्यादि| स्थानानुरूपैर्लिङ्गैर्यथा– कुक्षिशूलं, पृष्ठशूलं, नखभेदः| नामानुरूपैर्यथा– कुक्षिशूलमित्युक्ते कीलनिखातवद्वेदनाविषे एवोच्यते, तथा तोदभेद इत्यादि पीडाविशेष एव गम्यते| पित्ताद्यैरिति पित्तश्लेष्मरुधिरैः, संसर्गं द्विदोषजं च लक्षयेत्| उक्तरोगाणां कृच्छ्रसाध्यत्वमाह– हन्वित्यादि| एतेष्वेकः कश्चिन्मुच्यते इत्यर्थः| परं कः सिद्ध्यति, य तरुणो भवति| तथा निरुपद्रवान् उपद्रवरहितान्||७६-७७||
पूर्वोक्तवातरोगाणां साध्यासाध्यविचारः, उपद्रवाश्च
विसर्पदाहरुक्सङ्गमूर्छारुच्यग्निमार्दवैः ||७८||
क्षीणमांसबलं वाता घ्नन्ति पक्षवधादयः |
शूनं सुप्तत्वचं भग्नं कम्पाध्माननिपीडितम् |
रुजार्तिमन्तं च नरं वातव्याधिर्विनाशयेत् ||७९||
(सु. सू. अ. ३३) |
वातोपद्रवानाह– विसर्पेत्यादि| वाता इति वातविकाराः, कार्यकारणयोरभेदोपचारात्| वातादिति पाठे तु वातात् पक्षवधादय इति योज्यम्| शूनमित्यादि शूनं सशोथम्| सुप्तत्वचं स्पर्शानभिज्ञत्वगिन्द्रियम्||७८-७९||
वातोपद्रवानाह– विसर्पेत्यादि| वाता इति वातविकाराः, कार्यकारणयोरभेदोपचारेण| वातात् इति पाठे तु वातात् पक्षवधादयः इति योज्यम्, सङ्गो मूत्रपुरीषवाताप्रवृत्तिः| क्षीणं मांसबलं यस्य स तथा| असाध्यमाह– शूनमित्यादि| शूनं शोथयुक्तम्| सुप्तत्वचं स्पर्शानभिज्ञत्वगिन्द्रियम्| भग्नं भग्नास्थि| रुजार्तिमन्तमतीव पीडयाऽऽर्तम्||७८-७९||
प्रकृतिस्थस्य वायोर्लिङ्गं कार्यं च
अव्याहतगतिर्यस्य स्थानस्थः प्रकृतिस्थितः |
वायुः स्यात् सोऽधिकं जीवेद्वीतरोगः समाः शतम् ||८०||
(च. चि. अ. २८) |
इदानीं पञ्चविधस्यापि प्रकृतिस्थस्य वायोर्लिङ्गं कार्यं चाह– अव्याहतेत्यादि| यस्येति पुरुषस्य, अव्याहतगतिः अनवरुद्धमार्गः, [१२०] स्थानस्थः स्वाश्रयव्यवस्थितः, प्रकृतिस्थितोऽक्षीणश्चाप्रवृद्धः, एतद्विशेषणत्रयं हेतुहेतुमद्भावेन योज्यम्| वीतरोगो नीरोगः, कफपित्तदुष्टेरपि प्रेरकवातेनान्तरीयकत्वात्| अधिकं समाः [१२१] शतमिति पञ्च दिनाधिकं सविंशं वर्षशतम्| यदाह वराहः आयुर्निरूपणे– ‘समाः षष्टिर्द्विघ्ना मनुजकरिणां पञ्च च निशाः|’ इत्यादि||८०||
इदानीं पञ्चविधस्यापि प्रकृतिस्थस्य वायोः कार्यं लिङ्गं च प्राह– [१२२] अव्याहत इत्यादि| यस्य पुरुषस्य अव्याहतगतिः अरुद्धमार्गः, स्थानस्थः स्वाशयव्यवस्थितः, प्रकृतौ स्थितः न वृद्धो न च क्षीणः, वायोर्विशेषणत्रयम्| वीतरोगो नीरोगः, कफपित्तदुष्टेरपि प्रेरकवातेनान्तरीयकत्वात्| अधिकं समाः शतं पञ्चदिनाधिकं विंशतिवर्षशतम्| यदाह वराहमिहिरे आयुर्निरूपणाध्याये– “समाः षष्टिर्द्विघ्ना मनुजकरिणां पञ्च च निशाः” इति||८०||
पुष्पिका
इति श्रीमाधवकरविरचिते माधवनिदाने वातव्याधिनिदानं समाप्तम् ||२२||
इति श्रीविजयरक्षितकृतायां मधुकोशव्याख्यायां वातव्याधिनिदानं समाप्तम्||२२||
[१२३] इति श्रीवाचस्पतिवैद्यविरचितायां माधवनिदानव्याख्यायामातङ्कदर्पणाख्यायां वातव्याधिनिदानम्||२२||
१. ‘स्यात्’ इति पाठः क्वचित्पुस्तके नोपलभ्यते |
२. “सामान्यजा इति वातादिभिः प्रत्येकं मिलितैश्च ये जन्यन्ते, नानात्मजा इति ये वातादिभिर्दोषान्तरासम्पृक्तैर्जन्यन्ते” इति चक्रः|
३. अत्र ‘रूप’ इति क्वचित्पुस्तके अधिकः पा.|
४. ‘ … निरपेक्षत्वादाक्षेप … ’ इति पा.|
५. ‘विस्तरोक्तिरित्यभिप्रायेणैवेति’ इति पा.|
६. ‘प्लवनं बाहुभ्यां तरणम्’ इत्यस्य स्थाने ‘प्लवनं तरणं, बाहुभ्यां विचेष्टितम्’ इति पा.|
७. अग्रिमपङ्क्तिः क्वचित्पुस्तके नोपलभ्यते |
८. ‘रोगादिकर्षणात्’ इति पा.|
९. ‘विकाराणाम्’ इति पा.|
१०. ‘वायुश्चपलत्वेन’ इति पा.|
११. अत्र ‘सर्व’ इति क्वचित्पुस्तके अधिकः पा.|
१२. अत्र ‘तद्’ इति क्वचित्पुस्तके अधिकः पा.|
१३. ‘शोथो’ इत्यस्य स्थाने ‘शोषो’ इति पा. |
१४. ‘गात्रसुप्तति’ इति पा. |
१५. ‘शोथो’ इत्यस्य स्थाने ‘शोषो’ इति पा.|
१६. ‘अल्पनिद्रतावऽपि बोध्येत्याहुः’ इति पा.|
१७. ‘गर्भाशयादेः’ इति पा.|
१८. ‘ … श्रोत्रादीनाम्’ इति पा.|
१९. ‘आक्षेपः’ इति पा.|
२०. अत्र ‘‘करोति विविधान्व्याधीन्’ इति’ इति क्वचित्पुस्तके अधिकः पा.|
२१. ‘पुनरुक्तः’ इति पा.|
२२. ‘अन्त्रा … ’ इति पा.|
२३. ‘सन्धिगतवातलक्षणः’ इति पा.|
२४. ‘इव’ इति पा.|
२५. अत्र ‘च’ इति क्वचित्पुस्तके अधिकः पा.|
२६. ‘गात्रे शरीरे, अरूंषि व्रणाः’ इत्यस्य स्थाने ‘गात्रे अरूंषि व्रणाः, शरीरे … ’ इति पा.|
२७. ‘प्रत्यासत्तेराश्रयप्रभावात्’ इति पा.|
२८. ‘मज्जास्थिकुपिते वाच्यम्’ इति पा.|
२९. ‘मन्दरुजो व्रणान्’ इति पा.|
३०. अत्र ‘स’ इति क्वचित्पुस्तके अधिकः पा. |
३१. ‘खल्वीम्’ इति पा. |
३२. ‘खल्वीम्’ इति पा.|
३३. ‘खल्वीम्’ इति पा.|
३४. ‘कौब्जाम्’ इति पा.|
३५. अत्र ‘वा’ इति क्वचित्पुस्तके अधिकः पा.|
३६. अयं श्लोकः क्वचित्पुस्तके नोपलभ्यते
३७. ‘पञ्चधैवोच्यते … ’ इति पा.|
३८. अयं पाठः क्वचित्पुस्तके नोपलभ्यते |
३९. ‘क्लमोऽनायासः श्रमः’ इत्यस्य स्थाने ‘क्लमोऽनार्यसंश्रयः’ इति पा.| क्लमोऽनायासः श्रमः, हर्षो रोमहर्षः, ‘शीतस्तम्भौ’ इति पाठान्तरम्| कफेन संयुते समाने विण्मूत्रयोः सङ्गः, तथा गात्रहर्षो रोमाञ्चः, “कफाधिकं च विण्मूत्रं रोमहर्षः कफावृते” इति पाठान्तरम्| कफाधिकं श्लेष्मबहुलं विष्ठामूत्रमिति| अपान इति सुगमम्| व्यान इति| दण्डको
४०. ‘दण्डः’ इति पा.|
४१. ‘काले’ इति पा.|
४२. ‘भ्रमक्लमः’ इति पा.|
४३. ‘ … जीर्यन्ते’ इति पा.|
४४. ‘कलितः’ इति पा.|
४५. ‘आमवात’ इति पा.|
४६. ‘विनयनम्’ इति पा.|
४७. अत्र ‘नवा’ इति क्वचित्पुस्तके अधिकः पा.|
४८. ‘निष्फलत्वाच्च शुक्रगे’ इति पा.|
४९. ‘पीड्यतेति’ इति पा.|
५०. ‘ … रुचिर्वाक्स्वरग्रहः’ इति पा.|
५१. ‘सर्वम्’ इति पा.|
५२. ‘विंशतिविधम्’ इति पा.|
५३. ‘प्रपद्यते’ इति पा. |
५४. अत्र ‘निमीलको’ इति क्वचित्पुस्तके अधिकः पा.|
५५. अस्मात्पूर्वं क्वचित्पुस्तके ‘कपोत इव कूजेत्, निःसञ्ज्ञः सञ्ज्ञारहितः, सोऽपतन्त्रकः’ इति पङ्क्तिरुपलभ्यते यदग्रेऽस्त्येव|
५६. ‘क्रुद्धे’ इति पा.|
५७. ‘रुजन्’ इति पा.|
५८. अत्र ‘तस्मात्’ इति क्वचित्पुस्तके अधिकः पा.|
५९. ‘वृते मूर्छिते’ इत्यस्य स्थाने ‘आवृतमेव मूर्छाञ्चित … ’ इति पा.|
६०. ‘तास्विति सर्वधमनीषु’ इति पाठः क्वचित्पुस्तके नोपलभ्यते |
६१. ‘धनुस्तुल्यमित्यादि’ इति पा.|
६२. अयं श्लोकः क्वचित्पुस्तके नोपलभ्यते
६३. ‘विचेतनोऽचेतनः’ इति पा.|
६४. ‘चेति’ इति पा.|
६५. ( ) एतच्चिह्नमध्यस्थोऽयं श्लोकः क्वचित्पुस्तके नोपलभ्यते
६६. ‘अन्येन संसृष्टम्’ इत्यस्य स्थाने ‘एतच्च ‘साध्यमन्येन संसृष्टम्’ इति पा.|
६७. ‘ग्रीवा चाप्यपवर्तते’ इत्यस्य स्थाने ‘ग्रीवां व्याप्यप्रवर्तते’ इति पा. |
६८. ‘सर्वलिङ्गोऽर्दितः’ इति पा.|
६९. ‘प्रवर्तते’ इति पा.|
७०. अत्र ‘अनिमिषाक्षस्य’ इति क्वचित्पुस्तके अधिकः पा.|
७१. ‘ … अर्दितानाम्’ इति पा.|
७२. ‘हनू’ इति पा. |
७३. ‘हनुस्तम्भः’ इति पा. |
७४. ‘कपोलस्थः’ इति पा.|
७५. ‘हनू’ इति पा.|
७६. ‘विवृतास्यत्वम् आस्यविवृतिं, संवृतास्यताम् आस्यसंवृतिं; सा च’ इत्यस्य स्थाने ‘विवृतास्यत्वं संवृतास्यत्वं च’ इति पा.|
७७. ‘हनुस्तम्भ’ इति पा.|
७८. ‘शुष्केतादि’ इति पा.|
७९. अत्र ‘भक्षणात्’ इति क्वचित्पुस्तके अधिकः पा.|
८०. ‘ … विवृति’ इति पा.|
८१. ‘स्वप्नाऽऽसनस्थान … ’ इति पा.|
८२. ‘वागित्यादि’ इति पाठः क्वचित्पुस्तके नोपलभ्यते |
८३. ‘वाग्वाहिनीत्यादि’ इति पा.|
८४. ‘या’ इति पा.|
८५. ‘गौरवादियुक्ता’ इति पा.|
८६. पद्यद्वयमिदं मधुकोशे न जग्राह, आतङ्कदर्पणकारस्तु सङ्गृह्य व्याचख्यौ
८७. ‘प्रवक्तता’ इति पा. |
८८. ‘वेपनेन’ इति पा.|
८९. ‘मुक्तेत्यादिमित्याहुः’ इति पाठः क्वचित्पुस्तके नोपलभ्यते |
९०. अग्रिमपङ्क्तिः क्वचित्पुस्तके नोपलभ्यते |
९१. ‘रुक्पाद इत्यादि’ इति पा.|
९२. अत्र ‘पादयोरित्यादि’ इति क्वचित्पुस्तके अधिकः पा.|
९३. ‘अंसेत्यादि’ इति पाठः क्वचित्पुस्तके नोपलभ्यते |
९४. ‘तं अंसबन्धनम्’ इति पा.|
९५. ‘तत्रस्थोंऽसस्थः’ इति पा.|
९६. ‘अयं अंशशोष … ’ इति पा.|
९७. ‘रोगरूपम्’ इति पा.|
९८. ‘मूकादीनाह’ इति पा.|
९९. ‘लुप्तव्यञ्जनाभिधायी|’ इति पा.|
१००. अत्र ‘च’ इति क्वचित्पुस्तके अधिकः पा.|
१०१. ‘प्रतिलोमम्’ इति पा.|
१०२. ‘आटोपश्चलचलम्’ इति पा.|
१०३. ‘विमुक्तपार्श्वहृदयमिति’ इति पा.|
१०४. ‘कफव्याकुलतानिलम्’ इति पा.|
१०५. ‘पाषाण’ इति पा.|
१०६. एतच्च– ‘अष्ठीलावद्घनं ग्रन्थिमूर्ध्वमायतमुन्नतम्’ इति पा.|
१०७. एतच्च– ‘बहिर्मार्गनिरोधिनीम्’ इति पा.|
१०८. ‘मारुतेविगुणे’ इति पा. |
१०९. ‘अविगुणेऽनुलोमगे’ इति पा.|
११०. अत्र ‘प्रतिलोमगे’ इति क्वचित्पुस्तके अधिकः पा.|
१११. अत्र ‘ … वातकृताष्ठीलाकृच्छ्रा … ’ इति क्वचित्पुस्तके अधिकः पा.|
११२. ‘हस्तपादयोरपि’ इति पा.|
११३. ‘खल्वी’ इति पा. |
११४. ‘महता वाता’ इत्यस्य स्थाने ‘महताढ्यानाम्’ इति पा. |
११५. ‘नरान् बलवतस्त्वेतान्’ इत्यस्य स्थाने ‘नरांस्तु तरुणानेतान्’ इति पा. |
११६. ‘स्थानानुरूपैर्यथा’ इति पा.|
११७. अत्र ‘पृष्ठशूलम्’ इति क्वचित्पुस्तके अधिकः पा.|
११८. अग्रिमपङ्क्तिः क्वचित्पुस्तके नोपलभ्यते |
११९. ‘हनुस्तम्भा’ इति पा.|
१२०. ‘स्वस्थान … ’ इति पा.|
१२१. ‘शतमिति’ इत्यस्य स्थाने ‘शतम्’ इति पा.|
१२२. अत्र ‘अव्याहत इत्यादि’ इति क्वचित्पुस्तके अधिकः पा.|
१२३. ‘इत्यातङ्कदर्पणे निदानव्याख्यायां वातव्यधिनिदानम्||२२||’ इति पा.|
Moolashloka with Indu Commentary

Diacritic Version
śrīmādhavakarapraṇītō rōgaviniścayaḥ
mādhavanidānam
śrīvijayarakṣita-śrīkaṇṭhadattābhyāṁ viracitayā madhukōśavyākhyayā śrīvācaspativaidyaviracitayā ātaṅkadarpaṇavyākhyayā ca sahitam || || vistr̥tapāṭhāntarayuktaṁ saṁśōdhitasaṁskaraṇam
mādhavanidāna - 22. vātavyādhinidānam
vātarōgasya nidānaṁ samprāptiśca
atha vātavyādhinidānam|
rūkṣaśītālpalaghvannavyavāyātiprajāgaraiḥ |
viṣamādupacārācca dōṣāsr̥ksravaṇādapi ||1||
laṅghanaplavanātyadhvavyāyāmādivicēṣṭitaiḥ |
dhātūnāṁ saṅkṣayāccintāśōkarōgātikarṣaṇāt ||2||
vēgasandhāraṇādāmādabhighātādabhōjanat |
marmābādhādgajōṣṭrāśvaśīghrayānāpataṁsanāt ||3||
dēhē srōtāṁsi riktāni pūrayitvā’nilō balī |
karōti vividhān vyādhīn sarvāṅgaikāṅgasaṁśrayān ||4||
(ca. ci. a. 28) |
apasmāravadvātavikārāṇāmapyākṣēpakādīnāṁ vēgakartr̥tvādapasmārānantaraṁ vātavyādhyārambhaḥ| nanu, vātavyādhiriti kō’rthaḥ? kiṁ vāta ēva vyādhirvātavyādhiḥ, uta vātēna janitō vyādhirvātavyādhiḥ? ādyē svasthēṣvapi prasaṅgaḥ, dvitīyē jvarādiṣu| ucyatē– vyādhipadasāmānādhikaraṇyādvikr̥tō duḥkhakārī vātō vātavyādhiḥ| uktaṁ hi suśrutē– ‘‘pakvāśayasthō’ntrakūjaṁ śūlāṭōpau karōti ca|’’ (su. ni. a. 1) iti| vātajanitō’sādhāraṇavyādhirvātavyādhiriti viśēṣaṇīyaṁ, tēnōbhayatrāprasaṅgaḥ| yaccōktam– ‘‘kaphapittānvitō vāyurvāyurēva ca kēvalaḥ| kuryādākṣēpakam’’ ityādi; tatrārambhakō vāyurēva, pittakaphau tvanubandhāviti na virōdhaḥ [1] syāt| carakē hi dvividhā vyādhaya uktāḥ [2] sāmānyajā, nānātmajāścēti; tatra sāmānyajā yē vātādibhiḥ samastairvyastairvā janyantē, yathā– jvarādayaḥ; nānātmajā yē niyataikadōṣajanyāḥ, yathā– ākṣēpakādayō yē vātēnaiva janyantē, na svatantrēṇa pittēna kaphēna vā; tathā ōṣacōṣādayaḥ pittēnaiva, na vātēna kaphēna ca tathā tr̥ptyādayaḥ kaphēnaiva, na vātēna, na pittēna,; ēvaṁ vyavasthitē vātavyādhivat pittakaphavyādhī kasmānnōktau? ucyatē– vāyōratibalatvēna āśukāritvēna ca garīyastvāttadvikārāṇāṁ duḥsādhyatvādāśvēvātyayakaratvādviśiṣṭacikitsyatvādvātavyādhyabhidhānaṁ, natu kaphapittavyādhyabhidhānam| ata ēva carakasuśrutādiṣvapi vātarōgādhyāya ēva nirdiṣṭō, natu pittakapharōgādhyāyaḥ| candrikākārastvāha– pittakaphayō rūparasādiyōgāddūṣyaviśēṣayōgādvā haridrācūrṇasaṁyōgavadatyantavisadr̥śā rasādimantō vikārāḥ pr̥thaṅnāmānō jāyantē, vāyōstu [3] rūparasādyabhāvāt [4] dūṣyanirapēkṣā ākṣēpakādayō vātādanatibhinnarūpā nānātmajāḥ; tēna vātavikārāḥ pr̥thagucyantē, natu pittakaphavikārā iti| ētattu bakulakaraprabhr̥tayā nānumanyantē, carakavirōdhāt| carakē hi pittakaphayōrapi nānātmajā uktāḥ, yathā– ‘aśītirvātavikārāḥ, catvāriṁśat pittavikārāḥ, viṁśatiḥ ślēṣmavikārāḥ|’ (ca. sū. a. 20) iti| suśrutēna tu śalyādhyāyinā pittakaphanānātmajā na darśitāḥ, parādhikārēṣu na [5] vistārōktirityabhiprāyēṇēti| laṅghanamutpatanam, upavāsasyānaśanaśabdēna vamanādēśca dōṣasravaṇaśabdēna vakṣyamāṇatvāt| plavanaṁ bāhubhyāṁ jalaprataraṇam| āmāditi āmarasāt, tasya kāraṇatvaṁ mārgāvaraṇadvārēṇa natu svarūpēṇa; āyāsāditi pāṭhāntaramayuktaṁ, tasya vyāyāmaśabdēnōktatvāt| marmābādhāt marmābhighātāt| apataṁsanaṁ gajādibhyaḥ śīghrayānēna patanam, ucchvāsāvarōdhō vā; dhātukarṣaṇamiti kharanādaḥ||1-4||
apasmāravadvātavikārāṇāmākṣēpakādīnāṁ vēgakartr̥tvādapasmārānantaraṁ vātavyādhyārambhaḥ| nanu kō’yaṁ vātavyādhiḥ, kiṁ vāta ēva vyādhiḥ, uta vātajanitō vyādhiḥ? ādyē svasthē’pi prasaṅgaḥ, dvitīyē jvarādiṣu| ucyatē– carakē dvividhā vyādhaya uktāḥ– sāmānyajā nānātmajāścēti; tatra sāmānyajā vātādibhiḥ samastairvyastairvā janyantē, yathā– jvarādayaḥ, nānātmajā yē niyataikadōṣajanyāḥ, yathā– ākṣēpakādayō vātēnaiva janyantē, na svatantrēṇa pittēna kaphēna vā; tathā ōṣacōṣādayaḥ pittēnaiva na vātēna na vā kaphēna; tathā tr̥ptyādayō kaphēna, naiva ca vātēna pittēna vā| ēvaṁ vyavasthitē vātavyādhivatpittakaphavyādhī kasmānnōktau? ucyatē– vāyōratibalatvēnāśukāritvēna ca garīyastvāttadvikārāṇāṁ duḥsādhyatvādāśukāritvādviśiṣṭacikitsyatvādvātavyādhyabhidhānaṁ, na tu pittakaphavyādhyabhidhānam| ata ēva carakasuśrutadiṣvapi vātarōgādhyāya ēva nirdiṣṭō, na tu pittakapharōgādhyāyaḥ| tathā ya suśrutē dōṣāṇāṁ vāta ēva pradhānaḥ| uktaṁ ca– “pittaṁ paṅgu kaphaḥ paṅguḥ paṅgavō maladhātavaḥ| vāyunā yatra nīyantē tatra varṣanti mēghavat||” iti| atō vātavyādhyabhidhānam| tasya samprāptipūrvakaṁ nidānamāha– rūkṣētyādi| alpaṁ stōkaṁ, laghvannaṁ purātanaṁ ṣaṣṭikādi, vyavāyō maithunaṁ, prajāgaraṇaṁ rātrijāgaraṇam| viṣamādupacārāditi aprāptē kriyākālē kriyākramaḥ| dōṣāsr̥ksrāvaṇādapi vamanavirēkābhyāṁ dōṣasyātirēkāt rudhirasravaṇāt| laṅghanamutpatanaṁ, [6] plavanaṁ bāhubhyāṁ taraṇam| [7] , [8] rōgādikarṣaṇam, atrādinā adhvajvarādiṣvatilaṅghanam| āmāt āmarasāt, tasya kāraṇatvaṁ mārgāvaraṇadvārēṇa, na tu svarūpēṇa| abhighātō laguḍādibhiḥ| abhōjanādupavāsāt| marmābādhāt marmābhighātāt| apataṁsanaṁ patanaṁ gajādibhyaḥ, tathā śīghrayānādibhiḥ| ētaiḥ kāraṇaiḥ kupitō balī vāyū riktāni srōtāṁsi pūrayitvā sarvāṅgaikāṅgajān vyādhīn karōti||1-4||
vātavyādhēḥ pūrvarūpādayaḥ
avyaktaṁ lakṣaṇaṁ tēṣāṁ pūrvarūpamiti smr̥tam |
ātmarūpaṁ tu yadvyaktamapāyō laghutā punaḥ ||5||
(ca. ci. a. 28) |
pūrvarūpādikamāha– avyaktamityādi| avyaktamiti vakṣyamāṇānāṁ [9] vātavikārāṇāṁ rūpamēvāvyaktaṁ pūrvarūpaṁ, natu jvarādivadviśiṣṭamanyat| ātmarūpamityādi tadēva vyaktamātmarūpaṁ dōṣādibhēdēna samyak prakāśitaṁ svalakṣaṇamityarthaḥ| apāya iti [10] vāyōścalatvēna stambhasaṅkōcakampādīnāṁ kadācidabhāvāt; yaduktam– “gatē vēgē bhavēt svāsthyaṁ sarvēṣvākṣēpakādiṣu|” iti laghutēti śarīrasya, vāyunā sarvadhātuśōṣaṇāt| athavā apāyō laghutā iti [11] sarvavātavikārāṇāmapāyō’bhāvaḥ, kiṁ tadityāha– laghutēti; vātaliṅgānāṁ laghutā’tyalpatvēnāvasthānaṁ natu niḥśēṣanivr̥ttiḥ; yathā– bahirāyāmanivr̥ttāvapi na rūkṣatvādinivr̥ttirityāhuḥ||5||
asya pūrvarūpamāha– avyaktamityādi| vakṣyamāṇavātādivikārāṇāṁ rūpamēvāvyaktaṁ pūrvarūpaṁ, na tu jvarādivadviśiṣṭamanyat| ātmarūpamityādi, tadēva vyaktamātmarūpaṁ dōṣādibhēdēna samyakprakāśitaṁ tasya lakṣaṇamityarthaḥ| apāya iti vāyōścalatvāt stambhasaṅkōcakampādīnāṁ kadācidabhāvāt| yaduktam– “gatē vēgē bhavētsvāsthyaṁ sarvēṣvākṣēpakādiṣu” iti| laghutēti śarīrasya, vāyunā sarvadhātuśōṣāt| athavā apāyō laghutēti vātavikārāṇāmapāyō’bhāvaḥ| kiṁ tadityāha– laghutēti| vātaliṅgānāṁ laghutā atyalpatvēnāvasthānaṁ na tu [12] tad viśēṣēṇa nivr̥ttiḥ| yathā bahirāyāmanivr̥ttāvapi na rūkṣatvādinivr̥ttirityāhuḥ||5||
vātavyādhēḥ sāmānyaliṅgaṁ, vāyōrhētvādiviśēṣādrōgaviśēṣakartr̥tvaṁ ca
saṅkōcaḥ parvaṇāṁ stambhō bhaṅgō’sthnāṁ parvaṇāmapi |
rōmaharṣaḥ pralāpaśca pāṇipr̥ṣṭhaśirōgrahaḥ ||6||
khāñjyapāṅgulyakubjatvaṁ [13] śōthō’ṅgānāmanidratā |
garbhaśukrarajōnāśaḥ spandanaṁ [14] gātrasuptatā ||7||
śirōnāsākṣijatrūṇāṁ grīvāyāścāpi huṇḍanam |
bhēdastōdō’rtirākṣēpō muhuścāyāsa ēva ca ||8||
karōti vividhān vyādhīniti yaduktaṁ tadvyākarōti– saṅkōca ityādi| stambhaḥ parvaṇāmēva| pāṅgulyaṁ paṅgutā| [15] śōthō’ṅgānāmiti bāhumukhādīnām| anidratētyanēna [16] alpanidratētyāhuḥ| garbhaśukrarajōnāśa iti [17] garbhaśayyāyā vātādhiṣṭhitatvēna garbhāgrahaṇamiti jējjaṭaḥ| garbhādivikr̥tirapyatra draṣṭavyā| spandanaṁ kampanam| huṇḍanaṁ śiraḥprabhr̥tīnāmantaḥpravēśō vakratvaṁ vā, dhātūnāmanēkārthantvāt| anyē tvāhuḥ– śirōhuṇḍanaṁ kēśabhūmisphuṭanaṁ śaṅkhalalāṭabhēdaśca, nāsāhuṇḍanaṁ ghrāṇanāśaḥ, akṣihuṇḍanamakṣivyudāsaḥ, jatruhuṇḍanaṁ vakṣōparōdhaḥ, grīvāhuṇḍanaṁ grīvāstambhaḥ| bhēda iti [18] ōṣṭhadantaśrōṇyādīnām| tōdaḥ śūlam| artiḥ pīḍā, sā ca pādapārśvaśrōtrākṣivakṣasāmiti jējjaṭaḥ| [19] ākṣēpaśca ākṣēpakādiṣu vakṣyamāṇaḥ| āyāsaḥ śramaḥ||6-8||
[20] ‘karōti vividhānvyādhīn’ iti yaduktaṁ tadvyākarōti– saṅkōca ityādi| saṅkōcaḥ parvaṇāṁ, stambhaśca parvaṇāmēva, asthnāṁ bhaṅgaḥ sphuṭanaṁ, tathā parvaṇāṁ pāṇyādīnāṁ grahaḥ stambha iva| khājñyaṁ khañjatā, pāṅgulyaṁ paṅgutā| śōthō’ṅgānāmiti bāhumukhādīnām| anidratētyanēnālpanidratēti bōddhavyam| garbhaśukrarajōnāśa iti garbhāśayasya vātādhiṣṭhitatvādgarbhādivikr̥tirapyatra draṣṭavyā| spandanaṁ kampanam| huṇḍanaṁ śiraḥprabhr̥tīnāmantaḥpravēśaḥ vakratvaṁ vā dhātūnāmanēkārthatvāt| anyē tvāhuḥ– śirōhuṇḍanaṁ kēśabhūmisphuṭanaṁ śaṅkhalalāṭabhēdaśca, nāsāhuṇḍanaṁ ghrāṇanāśaḥ, akṣihuṇḍanaṁ cakṣurvikr̥tiḥ, jatruhuṇḍanaṁ vakṣōparōdhaḥ, grīvāhuṇḍanaṁ grīvāstambhaḥ| bhēda iti ōṣṭhadantaśrōṇyādīnāṁ bhēdaḥ| tōdaḥ śūlaṁ pīḍābhēdaḥ| artiḥ pīḍābhēdaḥ, “artiḥ pīḍā, sā ca pādapārśvaśrōtrākṣivakṣasām” iti jējjaṭaḥ| ākṣēpō vakṣyamāṇaḥ, āyāsaḥ śramaḥ||6-8||
kupitavāyōḥ hētusthānaviśēṣāt rōgaviśēṣakartr̥tvam
ēvaṁvidhāni rūpāṇi karōti kupitō’nilaḥ |
hētusthānaviśēṣācca bhavēdrōgaviśēṣakr̥t ||9||
(ca. ci. a. 28) |
hētvityādi| hētuviśēṣaḥ āvaraṇādiḥ yathā– ślēṣmāvr̥tō manyāstambhakārī; sthānaviśēṣaḥ kōṣṭhādiḥ; yathā– pakvāśayasthō’ntrakūjanamityādi||9||
hētvityādi| hētuviśēṣaścāvaraṇādiḥ, yathā– ślēṣmāvr̥tō manyāstambhakārī, sthānaviśēṣaḥ kōṣṭhādiḥ, yathā– pakvāśayasthō’ntrakūjamityādi||9||
kōṣṭhāśritavātalakṣaṇaṁ, sarvāṅgakupitavātalakṣaṇaṁ ca
tatra kōṣṭhāśritē duṣṭē nigrahō mūtravarcasōḥ |
bradhnahr̥drōgagulmārśaḥpārśvaśūlaṁ ca mārutē ||10||
sarvāṅgakupitē vātē gātrasphuraṇabhañjanam |
vēdanābhiḥ parītāśca sphuṭantīvāsya sandhayaḥ ||11||
(ca. ci. a. 28) |
ētadēva vivr̥ṇōti (kōṣṭhāśritavātalakṣaṇamāha)– tatrētyādi| kōṣṭhaśabdēnāviśēṣāt sarvē āmāśayādayō gr̥hyantē, āmāśayādigaṁ tu pr̥thagapi vakṣyati| nigrahō’pravr̥ttiḥ| bradhnaḥ kōśavaṅkṣaṇasandhiḥ||10-11||
sthānaviśēṣamāha– tatrētyādi| tatra tēṣu sthānēṣu madhyē kōṣṭhāśritē vātē duṣṭē sati mūtravarcasōrnigrahastathā bradhnādayō rōgā bhavanti| kōṣṭhaśabdēnātra āmāśayādayaḥ sarvē gr̥hyantē| yaduktam– “sthānānyāmāgnipakvānāṁ mūtrasya rudhirasya ca| hr̥duṇḍukaḥ phupphusaśca kōṣṭhamityabhidhīyatē” iti| āmāśayādigataṁ tu pr̥thagapi vakṣyati| nigrahō’pravr̥ttiḥ| bradhnaḥ kōśavaṅkṣaṇasandhiḥ| sarvāṅgakupitalakṣaṇamāha– sarvāṅgētyādi| bhañjanaṁ bhaṅgavatpīḍētyarthaḥ| sandhayō vēdanayā parītā yutāḥ sphuṭantīva||10-11||
gudasthitavātalakṣaṇam āmāśayasthavātalakṣaṇaṁ ca
grahō viṇmūtravātānāṁ śūlādhmānāśmaśarkarāḥ |
jaṅghōrutrikapātpr̥ṣṭharōgaśōṣau gudē sthitē ||12||
ruk pārśvōdarahr̥nnābhēstr̥ṣṇōdgāravisūcikāḥ |
kāsaḥ kaṇṭhāsyaśōṣaśca śvāsaścāmāśayasthitē ||13||
(ca. ci. a. 28) |
gudasthitavātalakṣaṇamāha– graha ityādi| aśmā aśmarī| rōgō rujā| guda ityuttaragudē pakvāśaya ityarthaḥ, natu gudamātrē; tathā sati aśmarīkartr̥tvānupapattēḥ||12-13||
pakvāśayakupitamāha– grahaḥ apravr̥ttiḥ, guda ityuttaragudē pakvāśayē natu pāyau, anyathā aśmaryanutpattēḥ| na caivaṁ pakvāśayastha ityādinā paunaruktyaṁ dōṣāya, tasya saṅgrahē’tra likhitatvāt| gudē sthita iti dr̥ḍhabalasya lakṣaṇaṁ, ‘pakvāśayastha’ iti suśrutasya, ubhayaliṅgōpanyāsastu sakalaliṅgadarśanārthamityavirōdhaḥ| pāt caraṇam, pr̥ṣṭharōgāḥ stambhādayaḥ, rōgō rujāviśēṣaḥ, tathā śōphaśca| āmāśayakupitamāha– rugityādi| sugamam||12-13||
pakvāśayasthavātalakṣaṇaṁ śrōtrādigatavātalakṣaṇaṁ ca
pakvāśayasthō’ntrakūjaṁ śūlāṭōpau karōti ca |
kr̥cchramūtrapurīṣatvamānāhaṁ trikavēdanām ||14||
śrōtrādiṣvindriyavadhaṁ kuryādduṣṭasamīraṇaḥ |
(su. ni. a. 1) |
pakvāśayasthavātalakṣaṇamāha– pakvāśayastha ityādi| nanu, pakvāśayastha iti [21] punaruktiḥ, gudē sthita ityanēnaivōktatvāt| ucyatē– gudē sthita iti dr̥ḍhabalasya lakṣaṇaṁ, pakvāśayastha iti suśrutasya; ubhayaliṅgōpanyāsastu sakalaliṅgapradarśanārthamityavirōdhaḥ||14||
suśrutōktaṁ pakvāśayagatavātalakṣaṇamāha– pakvētyādi| antrakūjaṁ [22] antrē’vyaktaśabdaṁ karōti| āṭōpō rujāpūrvakakṣōbhaḥ| trikasphijōrupari [23] sandhiḥ| śrōtrādigatalakṣaṇamāha– śrōtrādiṣu gatē śrōtratvakcakṣurghrāṇarasanēndriyāṇāṁ vināśaḥ svasvaviṣayagrahaṇē’śaktatā||14||–
tvaggatavātalakṣaṇam
tvagrūkṣā sphuṭitā suptā kr̥śā kr̥ṣṇā ca tudyatē |
ātanyatē sarāgā ca parvaruk tvaggatē’nilē ||15||
(ca. ci. a. 28) |
tvaggatavātalakṣaṇamāha– tvagityādi| ātanyatē vistāryata [24] ēva| tvaggatē iti upadhāturūpāṁ tvacaṁ prāptē; candrikākārastu tvakśabdēna rasamāha, tēna rasagata ityarthaḥ| hr̥dayasthasya [25] ca rasasyāmāśayasāmīpyādāmāśayagatavātalakṣaṇēnaiva tadadhigatēḥ rasagatasyānabhidhānamiti kārtikaḥ||15||
sāmprataṁ dhātukupitasya lakṣaṇam| tatra rasakupitamāha– tvagityādi| tvak tvacā, raukṣyādiyuktā tudyatē; ātanyatē vistāryatē iva| tvakśabdēnātra rasō’bhiprētaḥ, tadādhāratvāt| parvaruk sarvatvagvyathā||15||
asr̥ggatavātalakṣaṇam
rujastīvrāḥ sasantāpā vaivarṇyaṁ kr̥śatā’ruciḥ |
gātrē cārūṁṣi bhuktasya stambhaścāsr̥ggatē’nilē ||16||
(ca. ci. a. 28) |
asr̥ggatavātalakṣaṇamāha– rujā ityādi| arūṁṣi vraṇāḥ| bhuktasya stambhaḥ bhuktavatō gātrastambhaḥ, santarpaṇēna raktasya vr̥ddhēḥ| anyē tvasr̥ggatavātalakṣaṇaṁ na paṭhanti, vātaraktēna sahābhēdāt; tanna, atra duṣṭō vāyuḥ raktēnāvr̥taḥ kupyati, vātaraktē tu svakāraṇādubhāvapi hastyādigamanakupitau viśiṣṭasamprāptyā hastapādagatāvēva vātaraktākhyaṁ vikāraṁ janayata iti||16||
raktakupitamāha– ruja ityādi| vaivarṇyaṁ vicchāyatā, [26] gātrē śarīrē, arūṁṣi vraṇāḥ, bhuktasya stambha iti bhuktavatō gātrasya stambhaḥ, santarpaṇēna raktavr̥ddhēḥ| anyē tvasr̥gvātalakṣaṇaṁ na paṭhanti, vātaraktēna sahābhēdāt| tanna, atra tu duṣṭō vāyuḥ raktēnāvr̥taḥ kupyati, vātaraktē tu svakāraṇādubhāvapi hastyādigamanakupitau viśiṣṭasamprāptyāha hastapādagatāvēva vātaraktākhyaṁ vikāraṁ janayata iti||16||
māṁsamēdōgatavātalakṣaṇaṁ majjāsthigatavātalakṣaṇaṁ ca
gurvaṅgaṁ tudyatē’tyarthaṁ daṇḍamuṣṭihataṁ yathā |
saruk śramitamatyarthaṁ māṁsamēdōgatē’nilē ||17||
bhēdō’sthiparvaṇāṁ sandhiśūlaṁ māṁsabalakṣayaḥ |
asvapnaḥ santatā ruk ca majjāsthikupitē’nilē ||18||
(ca. ci. a. 28) |
māṁsamēdōgatavātalakṣaṇamāha– gurvityādi| śramitaṁ śrāntaṁ niḥsahamityarthaḥ| māṁsamēdōgatavāyōrēkaliṅgatvam adūrāntarēṇa [27] pratyāsattērāśrayābhēdāt, ēvaṁ [28] majjāsthikupitē’pi vācyam||17-18||
māṁsamēdōgatamāha– gurvityādi| anilē māṁsamēdōgatē sati aṅgaṁ śarīraṁ, guru bhārikaṁ, stabdhaṁ niścalaṁ, daṇḍamuṣṭibhyāṁ hatamiva saruk pīḍāyuktaṁ; śramitaṁ śrāntaṁ niḥsahamityarthaḥ| māṁsamēdōgatavātayōrēkaliṅgatvamadūrāntarēṇa pratyāsattērāśrayābhēdāt| ēvaṁ majjāsthikupitē vācyam| suśrutē cātra viśēṣa uktaḥ– “karkaśāstōdabahulān granthīn māṁsaṁ samāśritaḥ| vāyurmēdōgataḥ kuryādgranthīn [29] mandarujō’vraṇān||” iti| tathā majjāsthikupitasyāpi vātasya viśēṣa uktaḥ– “asthiśōṣaṁ ca bhēdaṁ ca kuryācchūlaṁ ca tatsthitaḥ| tathā majjagatē ruk ca na kadācitpraśāmyati|” iti| bhēda iti| sugamam||17-18||
śukrasthavātalakṣaṇam
kṣipraṁ muñcati badhnāti śukraṁ garbhamathāpi vā |
vikr̥tiṁ janayēccāpi śukrasthaḥ kupitō’nilaḥ ||19||
(ca. ci. a. 28) |
śukrasthavātalakṣaṇamāha– kṣipramityādi| garbhamiti duṣṭaśukrārabdhatvādgarbhasya| vikr̥timiti garbhasya, śukrasya ca||19||
śukragatamāha– kṣipramityādi| anilaḥ śukrasthaḥ kupitaḥ san śukraṁ kṣipraṁ śīghraṁ muñcati badhnāti ca, tathā garbhamapi kṣipraṁ muñcati badhnāti ca| duṣṭaśukrārabdhatvādgarbhasya; tathā vikr̥timiti garbhasya śukrasya ca janayēt||19||
sirāgatavātalakṣaṇaṁ snāyugatavātalakṣaṇaṁ ca
kuryāt sirāgataḥ śūlaṁ sirākuñcanapūraṇam |
(su. ni. a. 1) |
[30] sa bāhyābhyantarāyāmaṁ [31] khallīṁ kaubjyamathāpi vā ||20||
sarvāṅgaikāṅgarōgāṁśca kuryāt snāyugatō’nilaḥ |
(ca. ci. a. 28) |
sirāgatavātalakṣaṇamāha– kuryādityādi| ākuñcanaṁ saṅkōcaḥ| pūraṇaṁ sthūlatvaṁ, yaduktamanyatra– ‘suptāstanvyō br̥hatyō vā sirā vātē sirāgatē|’ iti| [32] khallīṁ vakṣyamāṇām||20||
kuryāditi| sirāgatō vāyuḥ śūlaṁ sirākuñcanapūraṇaṁ ca, tathā bāhyābhyantaramāyāmaṁ, tathā [33] khallīṁ vakṣyamāṇāṁ, [34] kaubjyaṁ ca kuryāt| kuñcanaṁ saṅkōcaḥ| pūraṇaṁ sthūlatvam, yaduktamanyatra– “suptāstanvyō br̥hatyō vā sirāvātē sirāgatē” iti| snāyugatō’nilaḥ sarvāṅgarōgānēkāṅgarōgāṁśca kuryāt| suśrutēnāpyuktam– “snāyuprāptaḥ stambhakampau śūlamākṣēpaṇaṁ tathā|” iti| vāgbhaṭēnōktam– “tasya snāyvāsthitaḥ kuryādgr̥dhrasyāyāmakubjatām|” iti||20||
sandhigatavātalakṣaṇam
hanti sandhigataḥ sandhīn śūlāṭōpau karōti ca ||21||
(su. ni. a. 17) |
sandhigatavātalakṣaṇamāha– hantītyādi| hanti sandhigataḥ sandhīniti sandhiviślēṣaṁ stambhādikaṁ [35] vā karōti||21||
sandhigatō vāyuḥ sandhīn hanti, tathā śūlaśōphau karōti, sandhiṣviti śēṣaḥ| hanti sandhīniti sandhiślēṣmastambhādikaṁ karōti| ētēnākuñcanaprasāraṇayōrabhāva uktaḥ||21||
pittakaphāvr̥tānāṁ prāṇādīnāṁ lakṣaṇāni
[36] (prāṇōdānau samānaśca vyānaścāpāna ēva ca |
sthānasthā mārutāḥ pañca yāpayanti śarīriṇam) |
(su. ni. a. 1) |
prāṇē pittāvr̥tē chardirdāhaścaivōpajāyatē |
daurbalyaṁ sadanaṁ tandrā vairasyaṁ ca kaphāvr̥tē ||22||
(su. ni. a. 1) |
udānē pittayuktē tu dāhō mūrchā bhramaḥ klamaḥ |
asvēdaharṣau mandō’gniḥ śītatā ca kaphāvr̥tē ||23||
svēdadāhauṣṇyamūrchāḥ syuḥ samānē pittasaṁvr̥tē |
kaphēna saktē viṇmūtrē gātraharṣaśca jāyatē ||24||
apānē pittayuktē tu dāhauṣṇyaṁ raktamūtratā |
adhaḥkāyē gurutvaṁ ca śītatā ca kaphāvr̥tē ||25||
vyānē pittāvr̥tē dāhō gātravikṣēpaṇaṁ klamaḥ |
stambhanō daṇḍakaścāpi śūlaśōthau kaphāvr̥tē ||26||
(su. ni. a. 1) |27|
pittakaphāvr̥tānāṁ prāṇādīnāmardhārdhaślōkēna liṅgānyāha– prāṇa ityādi| gātraharṣō rōmāñcaḥ| daṇḍakō daṇḍavat stambhaḥ| parasparaṁ ca prāṇādīnāmāvaraṇāni viṁśatirbhavanti| yaduktaṁ carakē– ‘‘mārutānāṁ hi pañcānāmanyōnyāvaraṇaṁ śr̥ṇu|’’ (ca. ci. a. 28) ityādi| ēṣāṁ ca lakṣaṇaṁ caraka ēva draṣṭavyam vidēhē caika ēva vāyuḥ sthānakarmabhēdāt [37] pañcētyāhuḥ, saṁsargidravyatvēnaikāśrayē jalavatpr̥thagavasthānānupapattēḥ| īśānā’pyāha– ‘‘yathaikō dēvadattaḥ sthānabhēdād gr̥hasthō vānaprasthaḥ, karmabhēdāt kumbhakārō mālākāra ityucyatē tathā vāyurapi’’ iti||22-26||
[atra pañcavidhasya vāyōrnāmānyāha– prāṇētyādi| sthānasthāḥ [38] iti sthānaśabdēnātra sāmyamucyatē| prāpayanti dhārayanti|] pittakaphāvr̥tānāṁ prāṇādīnāmardhardhaślōkēna liṅgānyāha– prāṇa ityādi| sadanamaṅgaglāniḥ| [39] [40] daṇḍavat stambhaḥ| parasparaṁ ca prāṇādīnāmāvaraṇāni viṁśatirbhavanti| yaduktaṁ carakē– “mārutānāṁ ca pañcānāmanyōnyāvaraṇaṁ śr̥ṇu” ityādi| ēṣāṁ ca lakṣaṇaṁ caraka ēva draṣṭavyam| tathā vāgbhaṭaktaṁ ca dvāviṁśatividhaṁ vāyōrāvaraṇaṁ likhyatē– “vāyōrāvaraṇaṁ [41] cātō bahubhēdaṁ pracakṣatē| liṅgaṁ pittāvr̥tē dāhastr̥ṣṇā śūlaṁ [42] bhramastamaḥ|| kaṭūṣṇaiścāmlalavaṇairvidāhaḥ śītakāmitā| śaityagauravaśūlāni kaṭvādyupaśayō’dhikam|| laṅghanāyāsarūkṣōṣṇakāmitā ca kaphāvr̥tē| raktāvr̥tē sadāhārtistvagmāṁsāntarayōrbhr̥śam|| bhavētsarāgaḥ [43] śvayathurjāyantē maṇḍalāni ca| māṁsēna [44] kaṭhinaḥ śōphō vivarṇaḥ piḍikāstathā|| harṣaḥ pipīlikānāṁ ca sañcāra iva jāyatē| calaḥ snigdhō mr̥duḥ śītaḥ śōphō gātrēṣvarōcakaḥ|| [45] āḍhyavāta iti jñēyaḥ sa kr̥cchrō mēdasā”vr̥tē| sparśamasthyāvr̥tē’tyuṣṇaṁ pīḍanaṁ cābhinandati|| sūcyēva tudyatē’tyarthamaṅgaṁ sīdati śūlyatē| majjāvr̥tē [46] vinamanaṁ jr̥mbhaṇaṁ parivēṣṭanam| śūlaṁ ca pīḍyamānēna pāṇibhyāṁ labhatē sukham| śukrāvr̥tē’tivēgō vā [47] navā [48] niṣphalatā’pi vā|| bhuktē kukṣau rujā jīrṇē śāmyatyannāvr̥tē’nilē| mūtrāpravr̥ttirādhmānaṁ bastau mūtrāvr̥tē bhavēt|| viḍāvr̥tē vibandhō’dhaḥ svasthānē parikr̥ntati| vrajatyāśu jarāṁ snēhō bhuktē cānahyatē naraḥ|| śakr̥tpīḍitamannēna duḥkhaṁ śuṣkaṁ cirātsr̥jēt| sarvadhātvāvr̥tē vāyau śrōṇīvaṅkṣaṇapr̥ṣṭharuk|| vilōmō mārutō’svasthaṁ hr̥dayaṁ [49] pīḍyatē’pi ca| bhramō mūrchā rujā dāhaḥ pittēna prāṇa āvr̥tē|| vidagdhē’nnē ca vamanamudānē’pi bhramādayaḥ| dāhō’ntararujā bhraṁśō dāhō vyānēna sarvagaḥ|| klamō’ṅgacēṣṭāsaṅgaśca santāpaḥ sahavēdanaḥ| samāna ūṣmōpahatiratisvēdō’ratiḥ satr̥ṭ|| dāhaśca syādapānē tu malē hāridravarṇatā| rujō’tivr̥ddhistāpaśca yōnimēhanapāyuṣu|| ślēṣmaṇā tvāvr̥tē prāṇē sādastandrā’rucirvamiḥ| ṣṭhīvanaṁ kṣavathūdgāraniḥśvāsōcchvāsasaṅgrahaḥ|| udānē [50] gurugātratvamarucirvā svaragrahaḥ| balavarṇapraṇāśaśca, vyānē parvāsthivāggrahaḥ|| gurutā’ṅgēṣu sarvēṣu skhalitaṁ ca gatau bhr̥śam| samānē’tihimāṅgatvamasvēdō mandavahnitā|| apānē sakaphaṁ mūtraśakr̥taḥ syātpravartanam| iti dvāviṁśatividhaṁ vāyōrāvaraṇaṁ viduḥ|| prāṇādayastathā’nyōnyamāvr̥ṇvanti yathākramam| [51] sarvē’pi [52] dvāviṁśatividhaṁ vidyādāvaraṇaṁ ca tat|| niḥśvāsōcchvāsasaṁrōdhaḥ pratiśyāyaḥ śirōgrahaḥ| hr̥drōgō mukhaśōṣaśca prāṇēnōdāna āvr̥tē|| udānēnāvr̥tē prāṇē varṇaujōbalasaṅkṣayaḥ| diśā’nayā ca vibhajētsarvamāvaraṇaṁ bhiṣak||” iti| dēhē ca ēka ēva vāyuḥ pr̥thakkāyasthānanāmakarmabhēdātpañcadhā ityāhuḥ| saṁsargidravyatvēnaikāśrayē jalavat pr̥thagavasthānānupapattēḥ| īśānō’pyāha-”yathaivaikō dēvadattaḥ sthānabhēdādgr̥hasthō vānaprasthaḥ, karmabhēdānmālā kāraḥ kumbhakāra ityucyatē, tathā vāyurapi’’ iti||22-26||
ākṣēpakasya sāmānyalakṣaṇāni
yadā tu dhamanīḥ sarvāḥ kupitō’bhyēti mārutaḥ |
tadā”kṣipatyāśu muhurmuhurdēhaṁ muhuścaraḥ ||27||
muhurmuhuścākṣēpaṇādākṣēpaka iti smr̥taḥ |
(su. ni. a. 1) |
ākṣēpakasya sāmānyalakṣaṇamāha– yadā tvityādi| sarvā iti ūrdhvādhastiryaggāḥ| ākṣipati dēhaṁ hastyārūḍhapuruṣasyēva gātraṁ cālayati| muhuścara iti hētugarbhaviśēṣaṇam| ‘bahiścara’ iti pāṭhāntarē kōṣṭhādbahiḥ śākhāgataścarannākṣēpakaṁ karōtītyarthaḥ| candrikākārastu ētannānumanyatē, sthānagāmbhīryādākṣēpakasya tadārambhakavāyōrbahiścaratvāyuktatvāt||27||
ākṣēpakasya sāmānyalakṣaṇamāha– yadētyādi| sarvā iti| ūrdhvādhastiryagdhamanīḥ| muhurmuhurdēhamākṣipati, hastyārūḍhasyēva gātraṁ cālayati| muhuścara iti hētugarbhaviśēṣaṇaṁ, vāraṁvāraṁ sañcaraṇaśīlaḥ, ‘bahiścaraḥ’ iti pāṭhāntaraṁ tatra kōṣṭhādbahiḥ śākhāgataścaran ākṣēpaṁ karōtītyarthaḥ| ākṣēpaṇāt cālanāt||27||
apatantrakalakṣaṇam apatānakalakṣaṇaṁ ca
kruddhaḥ svaiḥ kōpanairvāyuḥ sthānādūrdhvaṁ [53] pravartatē ||28||
pīḍayan hr̥dayaṁ gatvā śiraḥśaṅkhau ca pīḍayan |
dhanurvannamayēdgātrāṇyākṣipēnmōhayēttadā ||29||
sa kr̥cchrāducchvasēccāpi stabdhākṣō’tha nimīlakaḥ |
kapōta iva kūjēcca niḥsañjñaḥ sō’patantrakaḥ ||30||
dr̥ṣṭiṁ saṁstabhya sañjñāṁ ca hatvā kaṇṭhēna kūjati |
hr̥di muktē naraḥ svāsthyaṁ yāti mōhaṁ vr̥tē punaḥ ||31||
vāyunā dāruṇaṁ prāhurēkē tadapatānakam |
(ca. si. a. 1) |
asyaivāvasthāviśēṣāvapatantrakāpatānakāvāha– kruddha ityārabhya ēkē tadapatānakamityantēna| svaiḥ kōpanairityanēna rūkṣādikupitaḥ svatantrō na tvāvaraṇakupita itīśānaḥ| [54] nimīlitākṣaḥ stabdhākṣō vā bhavatītyarthaḥ| ākṣēpakaścaturvidhō bhavati– daṇḍāpatānakō’bhyantarāyāmō bahirāyāmō’bhighātajaścēti| dr̥ḍhabalēna yadyapi ākṣēpakāt pūrvamantarāyāmabahirāyāmau paṭhitau, tathā’pyākṣēpakaviśēṣāvētau mantavyau, suśrutadarśanāt||28-31||
asyaivāvasthāviśēṣāvapatantrakāpatānakāvāha– kruddhaḥ ityārabhya ēkē tamapatānakamityantēna| svaiḥ kōpanairityanēna rūkṣādikupitaḥ svatantraḥ, na tvāvaraṇakupita itīśānajaḥ| [55] sthānāt pakvāśayāt| [56] ūrdhvaṁ śirasi uddiśya| pīḍayan [57] rujā| hr̥dayaṁ tataḥ [58] tasmāt śiraḥ śaṅkhau ca pīḍayēt| ākṣipēt cālayēt| mōhayēdindriyāṇi| kaṣṭēnōcchvāsaṁ muñcati| nimīlakō nimīlitākṣaḥ, stabdhākṣō vā bhavatītyarthaḥ| kapōta iva kūjēt, niḥsañjñaḥ sañjñārahitaḥ, sō’patantrakaḥ, dr̥ṣṭiṁ rūpagrahaṇayōgyāṁ, saṁstabhyācchādya, sañjñāṁ jñānaviṣayiṇīṁ buddhiṁ, vināśya| vāyunā muktē hr̥di sukhaṁ labhatē| [59] vr̥tē mūrchitē tamēvāpatantramēkē tvapatānakamāhuḥ| tantrāntarē apatantrakalakṣaṇaṁ paṭhitam| tadyathā– “kruddhaḥ svaiḥ kōpanairvāyurapānō nābhisaṁśrayaḥ| sandūṣya hr̥dayasthaṁ ca manō vyākulayēttataḥ|| pīḍayan hr̥dayaṁ prāpya śiraḥśaṅkhau ca pīḍayēt| ākṣipya cākhilaṁ dēhaṁ mōhayēcca punaḥ punaḥ|| sa kr̥cchrāducchvasēccāpi svēdaśaityayutō bahiḥ| sa nidrāṁ labhatē nītaḥ prāpya cāśu prabudhyatē|| trasatē kampatē bhūyō niḥsañjñaḥ sō’patantrakaḥ| pralāpō vaktrakaṭutā bhramō mūrchā’rucistr̥ṣā|| tasminpittānvitē svēdaḥ pītābhaḥ śītakāmitā| śirō’ṅgagauravaṁ glāniḥ śītadviṭ mandavēdanaḥ| kaphānvitē ca sadanaṁ śaityaṁ ca hr̥dayagrahaḥ|| vātōlbaṇē’ṅgasphuraṇaṁ śirōmanyākaṭivyathā| dhairyādiviplavō dainyaṁ viṣayēṣvanavasthitaḥ||”||28-31||
daṇḍāpatānakalakṣaṇam
kaphānvitō bhr̥śaṁ vāyustāsvēva yadi tiṣṭhati ||32||
daṇḍavat stambhayēddēhaṁ sa tu daṇḍāpatānakaḥ |
(su. ni. a. 1) |
ēṣāṁ lakṣaṇamāha– kaphānvita ityādi| bhr̥śaṁ kaphānvita ityanēna pittamapi na vāryata ityāhuḥ| carakē tvasyāsādhyatvaṁ kēvalavātajatvēna drṣṭavyam| yadāha– “pāṇipādaśiraḥpr̥ṣṭhaśrōṇīḥ stabhnāti mārutaḥ| daṇḍavat stabdhagātrasya daṇḍakaḥ sō’nupakramaḥ||” (ca. ci. a. 28) iti| tāsviti sarvadhamanīṣu||32||
tēṣāṁ lakṣaṇamāha– kaphānvita ityādi| tāsviti sarvadhamanīṣu| bhr̥śaṁ kaphānvita ityanēna pittamapi na vāryata ityāhuḥ| carakē tvasyāsādhyatvaṁ kēvalavātajatvēna draṣṭavyam| yadāha– “pāṇipādaśiraḥpr̥ṣṭhaśrōṇīḥ stabhnāti mārutaḥ| daṇḍavat stabdhagātrasya daṇḍakaḥ sō’nupakramaḥ||” (ca. ci. a. 28) iti| [60] tāsviti sarvadhamanīṣu||32||
dhanuḥstambhalakṣaṇam
dhanustulyaṁ namēdyastu sa dhanuḥstambhasañjñakaḥ ||33||
(su. ni. a. 1) |
antarāyāmabahirāyāmayōḥ sādhāraṇaṁ rūpamāha– [61] ‘dhanustulyaṁ namēdyastu sa dhanustambhasañjñakaḥ’ iti||33||
antarāyāmabahirāyāmayōḥ sādhāraṇarūpamāha– stambhaḥ sāmānyaḥ, dhanuḥstambhaḥ asyaiva bhēdaḥ| dhanustulyamiti dhanustulyaṁ krōḍēna namrastiṣṭhati, daṇḍāpatānakastu śuṣkakāṣṭhadaṇḍavat||33||
abhyantarāyāmalakṣaṇaṁ bāhyāyāmalakṣaṇaṁ ca
aṅgulīgulphajaṭharahr̥dvakṣōgalasaṁśritaḥ |
snāyupratānamanilō yadā”kṣipati vēgavān ||34||
viṣṭabdhākṣaḥ stabdhahanurbhagnapārśvaḥ kaphaṁ vaman |
abhyantaraṁ dhanuriva yadā namati mānavam ||35||
tadā’syābhyantarāyāmaṁ kurutē mārutō balī |
bāhyasnāyupratānasthō bāhyāyāmaṁ karōti ca ||36||
tamasādhyaṁ budhāḥ prāhurvakṣaḥkaṭyūrubhañjanam |
(su. ni. a. 1) |
viśēṣalakṣaṇamāha– aṅgulītyādi| vakṣō bāhudvayāntaram| hr̥dayaṁ tadabhyantaraṁ dvyaṅgulam| snāyupratānaṁ latāvadanēkaprarōhaṁ snāyujālam; snāyurityupalakṣaṇaṁ, tēna sirākaṇḍarayōrapi grahaṇam| yaduktaṁ tantrāntarē– “mahāhēturbalī vāyuḥ sirāḥ sasnāyukaṇḍarāḥ| manyāpr̥ṣṭhāśritā bāhyāḥ saṁśōṣyāyāmayēdbahiḥ||” ityādi| abhyantarāyāmaṁ krōḍē nataṁ, bāhyāyāmaṁ pr̥ṣṭhē natam| antarāyāmabahirāyāmābhyāṁ tantrāntarōktakubjasyāvarōdhaḥ| yaduktam– “hr̥dayaṁ yadi vā pr̥ṣṭhamunnataṁ kramaśaḥ saruk| kruddhō vāyuryadā kuryāttadā taṁ kubjamādiśēt||” iti||34-36||
viśēṣalakṣaṇamāha– aṅgulītyādi| balī vāyuḥ kupitaḥ gulphau caraṇaghuṭikē, vakṣō bāhudvayāntaraṁ, hr̥dayaṁ tadabhyantaraṁ dvyaṅgulaṁ, snāyupratānaṁ latāvadanēkaprarōhaṁ snāyujālaṁ, snāyvityupalakṣaṇaṁ, tēna sirākaṇḍarayōrapi grahaṇam| yaduktaṁ tantrāntarē– “mahāhēturbalī vāyuḥ sirāḥ sasnāyukaṇḍarāḥ| manyāpr̥ṣṭhāśritā bāhyāḥ saṁśōṣyāyāmayēdbahiḥ” ityādi| tataḥ snāyupratānaṁ dhanuriva nāmayēt| abhyantarāyāmaṁ krōḍē natam| hanuḥ kaṇṭhakapōlasandhiḥ| bahirāyāmalakṣaṇamāha– bāhyētyādi| pūrvavadbāhyasnāyupratānaṁ dhanurvadānamēt| bāhyāyāmaṁ pr̥ṣṭhē nataṁ vakṣaḥkaṭhyūrubhaṅgtvāt| tamasādhyamāhuḥ||34-36||
abhighātajākṣēpakalakṣaṇam
( [62] hr̥dayaṁ yadi vā pr̥ṣṭhamunnataṁ kramaśaḥ saruk |
kruddhō vāyuryadā kuryāt tadā taṁ kubjamādiśēt) |
kaphapittānvitō vāyurvāyurēva ca kēvalaḥ ||37||
kuryādākṣēpakaṁ tvanyaṁ caturthamabhighātajam |
(su. ni. a. 1) |
uktānāmākṣēpakaprakārāṇāṁ kaphapittānubandhamāha– kaphapittānvita ityādi| ētacca daṇḍāpatānakalakṣaṇamēva jējjaṭēna vyākhyātam| pittakaphānubandhaścātra śaityaśōthagurutvānītyādinōktalakṣaṇa ēva bōdhyaḥ| caturthamabhighātajamiti daṇḍāpatānakāditritayāpēkṣya caturthatvam, abhighātajaṁ daṇḍādyabhighātakupitavātajam; asya ca lakṣaṇam– ‘‘yadā tu dhamanīḥ sarvāḥ’’ ityādinōktasāmānyalakṣaṇaṁ draṣṭavyam||37||
uktānāmākṣēpaprakārāṇāṁ kaphapittānubandhamāha– kaphētyādi| kaphapittānubandhaścātra śaityaśōṣagurutvānītyādinōktalakṣaṇē bōddhavyaḥ, kēvalaḥ svatantra ākṣēpaṁ karōti| anyaṁ caturthamabhighātajam| daṇḍābhighātakupitavātajātasya tu lakṣaṇam| ‘yadā tu dhamanīḥ sarvāḥ’ ityādinā jñēyam||37||
apatānakasyāsādhyalakṣaṇam
garbhapātanimittaśca śōṇitātisravācca yaḥ ||38||
abhighātanimittaśca na sidhyatyapatānakaḥ |
(su. ni. a. 1) |
asādhyatvamāha– garbhapātētyādi| gadādharastvāha– kaphapittānvita ityādinā nimittabhēdēnākṣēpakaścaturdhā iti; tadyathā– ēkaḥ kaphānvitēna vātēna, dvitīyaḥ pittānvitēna, tr̥tīyaḥ kēvalēna, caturthō’bhighātēnēti| atra pakṣē garbhapātaśōṇitātisrāvajau kēvalavātēna grāhyau| ētēṣāṁ ca muhurmuhurākṣēpaṇaṁ bōdhyam ākṣēpakaviśēṣatvāt||38||
asādhyamāha– garbhētyādi| atrāpatānakamupalakṣaṇaṁ, tēna catuṣṭayamapi gr̥hyatē ‘kaphapittānvitaḥ’ ityādi nimittabhēdēna caturtha ākṣēpaka iti gadādharaḥ| tadyathā– ēkaḥ kaphānvitēna vātēna, dvitīyaḥ pittānvitēna, tr̥tīyaḥ kēvalēna, caturthō’bhighātajēnēti| atra garbhapātaśōṇitātisrāvajau kēvalavātēna grāhyāviti| ēṣāṁ ca muharmuhurākṣēpaṇaṁ jñēyam, ākṣēpakaviśēṣāt||38||
pakṣavadhasya samprāptipūrvakaṁ lakṣaṇam
gr̥hītvā’rdhaṁ tanōrvāyuḥ sirāḥ snāyūrviśōṣya ca ||39||
pakṣamanyataraṁ hanti sandhibandhān vimōkṣayan |
kr̥tsnō’rdhakāyastasya syādakarmaṇyō vicētanaḥ ||40||
ēkāṅgarōgaṁ taṁ kēcidanyē pakṣavadhaṁ viduḥ |
sarvāṅgarōgastadvacca sarvakāyāśritē’nilē ||41||
(vā. ni. a. 15) |
pakṣavadhamāha– gr̥hītvētyādi| ardhamiti ardhamaryādayā ardhanārīśvaravat| pakṣaṁ bāhukakṣapārśvādibhāgam, anyataramiti vāmaṁ dakṣiṇaṁ vā| sandhibandhān kaphasahitasnāyubhirvr̥tān mōkṣayanniti gadādharaḥ; ata ēva “sirāḥ snāyūrviśōṣya” ityuktam| ardhakāya ityuktē’pi kr̥tsnagrahaṇaṁ yugapat sarvārdhāṅgavyāptyartham| akarmaṇya īṣaccēṣṭākṣamaḥ| [63] vicētanō’lpacētanaḥ, īṣatsparśādijñānavānityarthaḥ| tadvaccētyanēna sirāḥ snāyūrviśōṣya cētyādisamprāptiṁ lakṣaṇaṁ cātidiśati||39-41||
pakṣavadhamāha– gr̥hītvētyādi| vāyustanōḥ śarīrasyārdhaṁ gr̥hītvā sirāḥ snāyūrviśōṣya śōṣayitvā anyataraṁ pakṣaṁ hanti nirīhaṁ karōti| ardhamiti ardhamaryādayā ardhanārīśvaravat| pakṣamiti śarīrārdhaṁ bāhukakṣapārśvādibhāgam, anyataramiti vāmaṁ dakṣiṇaṁ [64] vēti| kiṁ kurvan? sandhīnāṁ bandhān sandhibandhān kaphasahitasnāyubhirvr̥tān vimōkṣayanniti gadādharaḥ| ataḥ sirāḥ snāyūrviśōṣyētyuktam| tasya tathāvidhasya puṁsaḥ kr̥tsnō niḥśēṣa ardhakāyō’karmaṇyō vicētanaḥ syāt| ardhakāya ityuktē’pi kr̥tsnagrahaṇaṁ yugapatsarvāṅgavyāptyartham| akarmaṇya īṣaccēṣṭākṣayaḥ| vicētanō’lpacētanaḥ īṣatsparśādijñānavānityarthaḥ| kēcidācāryāstaṁ vyādhimēkāṅgarōgaṁ viduḥ, anyē pakṣavadhaṁ viduḥ| sarvakāyāśritē samastadēhagatē vātē tadvatsarvāṅgarōgamityāhuḥ| tadvaccētyanēna ‘sirāḥ snāyūrviśōṣya ca’ ityādisamprāptiṁ lakṣaṇaṁ cātidiśati||39-41||
pakṣavadhasya sādhyāsādhyavicāraḥ
dāhasantāpamūrchāḥ syurvāyau pittasamanvitē |
śaityaśōthagurutvāni tasminnēva kaphānvitē ||42||
śuddhavātahataṁ pakṣaṁ kr̥cchrasādhyatamaṁ viduḥ |
sādhyamanyēna saṁyuktamasādhyaṁ kṣayahētukam ||43||
(su. ni. a. 1) |
[65] (garbhiṇīsūtikābālavr̥ddhakṣīṇēṣvasr̥ksrutē |
pakṣāghātaṁ pariharēt vēdanārahitō yadi) |
tasyaiva sādhyāsādhyajñānārthamāha– dāhētyādi| ētacca lakṣaṇamanyatrāpi vātarōgē draṣṭavyam, ata ēva sāmānyēna vāyāviti kr̥tavān| śuddhaḥ kēvalaḥ| anyēnēti kaphēna, pittēna vā| kṣayahētukamiti dhātukṣayakupitaśuddhavātajamiti||42-43||
tasyaiva sādhyāsādhyatvajñānārthamāha– dāhētyādi| ēvaṁ lakṣaṇamanyatrāpi vātarōgē drṣṭavyam| pakṣāghātasya sādhyāsādhyatvaṁ darśayannāha– śuddhētyādi| śuddhaḥ kēvalaḥ, kr̥cchrasādhyaṁ kaṣṭasādhyaṁ, [66] anyēna saṁsr̥ṣṭaṁ kaphēna pittēna vā yuktaṁ, kṣayahētukaṁ dhātukṣayajamityarthaḥ||42-43||
arditasya nidānasamprāptipūrvakaṁ lakṣaṇam
uccairvyāharatō’tyarthaṁ khādataḥ kaṭhināni vā |
hasatō jr̥mbhatō vā’pi bhārādviṣamaśāyinaḥ ||44||
śirōnāsauṣṭhacibukalalāṭēkṣaṇasandhigaḥ |
ardayatyanilō vaktramarditaṁ janayatyataḥ |
vakrībhavati vaktrārdhaṁ [67] grīvā cāpyapavartatē ||45||
śiraścalati vāksaṅgō nētrādīnāṁ ca vaikr̥tam |
grīvācibukadantānāṁ tasmin pārśvē ca vēdanā ||46||
(yasyāgrajō rōmaharṣō vēpathurnētramāvilam |
vāyurūrdhvaṁ tvaci svāpastōdō manyāhanugrahaḥ) |
tamarditamiti prāhurvyādhiṁ vyādhivicakṣaṇāḥ |
(su. ni. a. 1) |
arditamāha– uccairityādi| ardayati pīḍayati| apavartatē vakrībhavati| calati kampatē| vāksaṅgō’nirgamō vacanasya| ādiśabdēna bhrūgaṇḍādīnāṁ grahaṇam| vaikr̥taṁ vēdanāsphuraṇavakratvādikam| grīvētyādi yasmin pārśvē’rditaṁ tasmin grīvādīnāṁ vēdanēti yōjyam| tantrāntarē tu mukhārdhavaccharīrārdhavyāpakō’pyarditaḥ paṭhitaḥ| yadāha dr̥ḍhabalaḥ– ‘ardhē tasmin mukhārdhē vā kēvalē syāttadarditam|’ (ca. ci. a. 28) iti| nanu, yadyēvaṁ tadā arditārdhāṅgavātayōḥ kō bhēdaḥ? ucyatē– vēgitvēnārditē kadācidvēdanā bhavati, ardhāṅgavātē tu sarvadaivēti bhēdaḥ; athavā yathōktaḥ [68] sarvāṅgō’rditaḥ tadviparītastvardhāṅgavāta ityāhuḥ| suśrutēna tu mukhamātra ēvārditaḥ paṭhitaḥ, ardhaśarīrasyārdhāṅgavātēna labdhatvāt| sa ēvātra mādhavēna likhitaḥ||44-46||
arditasya nidānapūrvakaṁ lakṣaṇamāha– uccairityādi| uccairbhāṣaṇaṁ, kaṭhināni pūgaphalādīni khādataḥ, viṣamācchayanāt grīvādivaiparītyaśayanāt, ardayati pīḍayati, grīvāṁ vyāpya [69] apavartatē vakrībhavati, calati kampatē, vāksaṅgō vacanasyānirgamaḥ| ādiśabdēna gaṇḍanāsādīnāṁ grahaṇaṁ, vaikr̥taṁ vēdanāsphuraṇavakratvādikam| grīvētyādi yasmin pārśvē’rditaṁ tasminpārśvē grīvādīnāṁ vēdanēti yōjyam| cibukaṁ mukhakuharasyādhōbhāgaḥ| tantrāntarē mukhārdhavaccharīrārdhavyāpakō’pyarditaḥ paṭhitaḥ| yadāha dr̥ḍhabalaḥ– “ardhē tasminmukhārdhē vā kēvalē syāttadarditam” iti||44-46||
arditasyāsādhyalakṣaṇam
kṣīṇasyānimiṣakṣasya prasaktāvyaktabhāṣiṇaḥ ||47||
na sidhyatyarditaṁ gāḍhaṁ trivarṣaṁ vēpanasya ca |
(su. ni. a. 1) |
tasyāsādhyalakṣaṇamāha– kṣīṇasyētyādi| animiṣākṣasya nimēṣāsamarthacakṣuṣaḥ| prasaktāvyaktabhāṣiṇa iti prasaktaṁ prakarṣēṇa saktamapravr̥ttam, avyaktaṁ prapīḍitavarṇapadaṁ, bhāṣituṁ śīlaṁ yasya sa tathā| anyē tu prasaktaṁ nirantaramāhuḥ; tanna, carakē ‘‘dīnā jihvā samutkṣiptā kālē sajjati cāsya vāk|’’ (ca. ci. a. 28) iti vacanāt| trivarṣamiti atītavarṣatrayam; athavā trayāṇāṁ mukhanāsācakṣuṣāṁ varṣaḥ sravaṇaṁ yatra tattathētyāhuḥ||47||
tasyāsādhyalakṣaṇamāha– kṣīṇasyētyādi| [70] animiṣākṣasya nimēṣāsamarthacakṣuṣaḥ| prasaktēti prakarṣēṇa saktaṁ lagnamapravr̥ttaṁ, kaṇṭhatālvādivarṇōccāraṇasthānēṣu, avyaktamasphuṭaṁ pīḍitavarṇapadaṁ bhāṣituṁ śīlaṁ yasya sa tathā| anyē tu prasaktaṁ nirantaramāhuḥ; tanna, carakē– “kālē sajjati cāsya vāk” iti vacanāt| trivarṣamiti atītavarṣatrayam, athavā trayāṇāṁ mukhanāsikācakṣuṣāṁ varṣaḥ sravaṇaṁ yatra tattathētyāhuḥ| vēpanasya kampanaśīlasya||47||
ākṣēpakādīnāṁ vēgaśāntau svasthatvam
gatē vēgē bhavēt svāsthyaṁ sarvēṣvākṣēpakādiṣu ||48||
(vā. ni. a. 15) |
ākṣēpakādīnāmarditāntānāṁ vēgitvamāha– gata ityādi| svāsthyaṁ pīḍālāghavaṁ, bhārāpagamē sukhitvavyapadēśavat||48||
[71] ākṣēpakādīnāmarditāntānāṁ tāvadvēgitvamāha– gata ityādi| bhārāpagamē sukhitvavyapadēśavat||48||
hanugrahalakṣaṇam
jihvānirlēkhanācchuṣkabhakṣaṇādabhighātataḥ |
kupitō hanumūlasthaḥ sraṁsayitvā’nilō [72] hanum ||49||
karōti vivr̥tāsyatvamathavā saṁvr̥tāsyatām |
[73] hanugrahaḥ sa tēna syāt kr̥cchrāccarvaṇabhāṣaṇam ||50||
(vā. ni. a. 15) |
hanugrahamāha– jihvētyādi| hanumūlasthaḥ [74] kapōlamūlasthaḥ| [75] hanuṁ sraṁsayitvā’dhaḥ kr̥tvā| [76] vivr̥tāsyatvam āsyavivr̥tiṁ, saṁvr̥tāsyatām āsyasaṁvr̥tiṁ; sā ca vāyōraniyatakāritvāt||49-50||
[77] hanugrahamāha– jihvētyādi| jihvānirlēkhanāt jihvāgharṣaṇāt dantakāṣṭhādinā, [78] śuṣkāṇāṁ caṇakādīnāṁ [79] bhakṣaṇāt| abhighātataḥ tāḍanāt| hanumūlasthaḥ kapōlamūlasthaḥ| hanuṁ sraṁsayitvā adhaḥ kr̥tvā, vivr̥tāsyatvaṁ prasāritavadanatvaṁ, saṁvr̥tāsyatvaṁ saṅkucitamukhatām| atra [80] saṁvr̥tirvivr̥tirvā vāyōraniyatakāritvāt| sa ēva vātaḥ kupita ityarthaḥ| tēna kr̥cchrāccarvaṇaṁ bhāṣaṇaṁ ca syāt||49-50||
manyāstambhalakṣaṇam
divāsvapnāsanasthānavivr̥tōrdhvanirīkṣaṇaiḥ |
manyāstambhaṁ prakurutē sa ēva ślēṣmāṇa”vr̥taḥ ||51||
(su. ni. a. 1) |
manyāstambhamāha– divāsvapnētyādi| sa ēvēti vātaḥ||51||
manyāstambhamāha– divētyādi| [81] āsanamupavēśaḥ, sthānamūrdhvabhavanaṁ, vivr̥tōrdhvanirīkṣaṇaṁ vakramārgāvalōkanam| sa ēvēti vātō divāsvapnādibhiḥ kupitaḥ san, ślēṣmaṇā”vr̥tō manyāstambhaṁ prakurutē, manyāstambhaṁ kēcidapatānakapūrvarūpaṁ manyantē||51||
jihvāstambhalakṣaṇam
vāgvāhinīsirāsaṁsthō jihvāṁ stambhayatē’nilaḥ |
jihvāstambhaḥ sa tēnānnapānavākyēṣvanīśatā ||52||
(vā. ni. a. 15) |
jihvāstambhamāha– [82] vāgityādi| [83] vāgvāhinīsirāsaṁstha iti vāgvāhinī yā sirā tatra saṁstha iti yōjyaṁ, samastapakṣē “puṁvat karmadhārayajātīyadēśīyēṣu” ityanēna puṁvadbhāvaprāptēḥ| annapānavākyēṣvanīśatēti annapānābhyavahāravacanēṣu asāmarthyam||52||
jihvāstambhamāha– vāgityādi| vāgvāhinī [84] vā sirā tatra saṁstha iti yōjyam| annapānavākyēṣvanīśatēti annapānābhyavahāravacanēṣvasāmarthyam||52||
sirāgrahasya samprāptipūrvakaṁ lakṣaṇam
raktamāśritya pavanaḥ kuryānmūrdhadharāḥ sirāḥ |
rūkṣāḥ savēdanāḥ kr̥ṣṇāḥ sō’sādhyaḥ syāt sirāgrahaḥ ||53||
(vā. ni. a. 15) |
sirāgrahamāha– raktamityādi| mūrdhadharā iti grīvāgatāḥ, tāsāṁ rūkṣatvaṁ vēdanāvattvaṁ kr̥ṣṇatvaṁ ca kuryāt| sō’sādhya iti svarūpēṇaiva, kākaṇakuṣṭhavat| śirōgraha iti pāṭhāntarē’pi śirōdhārakasirāduṣṭyā śirōvēdanākāritvāt ‘śirōgraha’ iti vyapadēśaḥ, lakṣaṇaṁ tu tadēva||53||
sirāgrahamāha– rūkṣāḥ savēdanāḥ kr̥ṣṇā iti rūkṣakr̥ṣṇavēdanāvattvaṁ kuryāt| sō’sādhya iti svarūpēṇa hastagatadravyavat| ‘śirōgrahaḥ’ iti pāṭhāntaraṁ, tatra śirōdhārakasirāduṣṭyā śirōvēdanākāritvāt, śirōgrahalakṣaṇaṁ tu tadēva||53||
gr̥dhrasīlakṣaṇam
sphikpūrvā kaṭipr̥ṣṭhōrujānujaṅghāpadaṁ kramāt |
gr̥dhrasī stambharuktōdairgr̥hṇāti spandatē muhuḥ ||54||
vātādvātakaphāttandrāgauravārōcakānvitā |
(ca. ci. a. 28) |
gr̥dhrasīmāha– sphikpūrvētyādi| sphik pūrvā prathamatō grāhyā stambharuktōdairyasyāḥ sā sphikpūrvā; īśānastu pūrvā prathamā gr̥dhrasī vātāditi yōjayati, ēṣā ca vyākhyā sphikśabdasya napuṁsakatvēna ‘pūrvā sphik kaṭīpr̥ṣṭha’ ityādinā pāṭhēna vōpapadyatē nānyathā| ‘sphikpūrvam’ iti pāṭhāntaraṁ jānujaṅghāpadamityanēna yōjyam| kramāditi na yugapat| vātāditi chēdaḥ| vātakaphārabdhā gr̥dhrasī, sā uktavātalakṣaṇayuktā’pi [85] tandrāgauravādiyuktā bhavatīti gr̥dhasīdvayamuktam||54||
gr̥dhrasīmāha– sphigityādi| gr̥dhrasī stambharuktōdaiḥ kramāt kaṭipr̥ṣṭhōrujānujaṅghāpadaṁ gr̥hṇāti, tathā muhuḥ spandatē sā vātajā jñēyā, kathambhūtā gr̥dhrasī? sphik pūrvā prathamatō grāhyā stambharuktōdairyasyāḥ sā sphikpūrvā| īśānastu pūrvā prathamā gr̥dhrasī vātāditi yōjayati| ēṣā ca vyākhyā sphikśabdasya napuṁsakatvēna, ‘pūrvā sphik sakaṭīpr̥ṣṭha’– ityādipāṭhēna vōpapadyatē, nānyathā| ‘sphikpūrvam’ iti pāṭhāntaraṁ jānujaṅghāpadamityanēna yōjyam| kramāditi na yugapat| gr̥dhrasī raṅghiṇīti lōkē| vātāditi chēdaḥ, vātakaphārabdhā gr̥dhrasī, sā prōktā vātalakṣaṇayuktā tandrāgauravādiyuktā’pi bhavatīti gr̥dhrasīdvayamuktam||54||
gr̥dhrasyā viśēṣalakṣaṇam
[86] vātajāyāṁ bhavēttōdō dēhasyāpi [87] pravakratā |
jānukaṭyūrusandhīnāṁ sphuraṇaṁ stabdhatā bhr̥śam ||55||
vātaślēṣmōdbhavāyāṁ tu nimittaṁ vahnimārdavam |
tandrā mukhaprasēkaśca bhaktadvēṣastathaiva ca ||56||
gr̥dhrasyāḥ punarapi viśēṣalakṣaṇamāha– vātajāyāmityādi| sugamam||55-56||
viśvācīlakṣaṇam
talaṁ pratyaṅgulīnāṁ yāḥ kaṇḍarā bāhupr̥ṣṭhataḥ ||57||
bāhvōḥ karmakṣayakarī viśvācī cēti sōcyatē |
(su. ni. a. 1) |
viśvācīmāha– talamityādi| talaṁ hastasyōparibhāgaḥ, talaśabdō’tra uparivacanaḥ, yathā– bhūtalamiti gayadāsaḥ| tēnāyamarthaḥ– bāhvōḥ pr̥ṣṭhaṁ bāhupr̥ṣṭhaṁ, tata ārabhya hastatalaṁ lakṣīkr̥tyāṅgulīnāṁ yāḥ kaṇḍarāstāḥ sandūṣya bāhvōḥ karmakṣayakarī yā sā viśvācī| bāhvōḥ karma grahaṇākuñcanādi, dvitvaṁ cātra sambhavaparaṁ, tēnaikabāhāvapi bhavati vātaraktavat| viśvācī cēti cakārēṇa gr̥dhrasīviśvācyōḥ khallīsañjñāṁ darśayati, tayōrapi karamūlāvamōṭanakāritvāt; yaduktaṁ hārītē– ‘‘viśvācī gr̥dhrasī cōktā khallī tīvrarujānvitā|’’ iti gayadāsaḥ| cakrastvāha– carakē “khallī tu pādajaṅghōrukaramūlāvamōṭanī|” (ca. ci. a. 28) ityanēna viśvācyāḥ pr̥thagēva khallī paṭhitā, suśrutēna tu khallī na paṭhitaiva; nahi tēna tantrāntarōktasarvavikārāḥ paṭhyantē, carakaktaparasparavātāvaraṇalakṣaṇamēva na paṭhitaṁ; hārītēna tu tīvrarujāyōgād gr̥dhrasīviśvācyōḥ khallītvaṁ paṭhitvaṁ, bhavati hi dharmāntarayōgāt kasyacidvikārasya rōgāntaratvaṁ; yathā– aṣṭhīlaiva pratyaṣṭhīlā, aśmaryēva śarkarā, pāṇḍurōga ēva kāmalētyādi||57||
viśvācīmāha– talamityādi| kaṇḍarā mahāsnāyuḥ, talaṁ hastasyōparibhāgaḥ, talaśabdō’trōparivacanaḥ, yathā– bhūtalamiti| tēnāyamarthaḥ bāhvōḥ pr̥ṣṭhaṁ bāhupr̥ṣṭhaṁ, tadārabhya hastatalaṁ lakṣīkr̥tyāṅgulīnāṁ yāḥ kaṇḍarāḥ tāḥ sandūṣya bāhvōḥ karmakṣayakarī yā sā viśvācī| bāhvōḥ karma– ākuñcanagrahaṇādi, dvitvaṁ cātra sambhavaparaṁ, tēnaikabāhāvapi bhavati, vātaraktavat| viśvācī cēti cakārēṇa gr̥dhrasīviśvācyōḥ khallīsañjñā darśitā, tayōrapi karamūlāvamōṭakatvāt||57||
krōṣṭukaśīrṣalakṣaṇam
vātaśōṇitajaḥ śōthō jānumadhyē mahārujaḥ ||58||
jñēyaḥ krōṣṭukaśīrṣastu sthūlaḥ krōṣṭukaśīrṣavat |
(su. ni. a. 1) |
krōṣṭukaśīrṣamāha– vātētyādi| vātaśōṇitaja iti vātaraktākhyavikārajaḥ, cikitsābhēdārthaṁ pr̥thak paṭhita iti gayadāsaḥ| vātaśōṇitābhyāṁ jāta iti jējjaṭaḥ| dr̥śyatē hyayaṁ vātaraktavyatirēkēṇāpi; jānudēśaniyatatvēna viśiṣṭalakṣaṇatvēna cētaravātaraktaśōthādbhēda iti| krōṣṭukaśīrṣavat śr̥gālamastakavat sthūlaḥ||58||
krōṣṭukaśīrṣamāha– vātētyādi| vātaśōṇitābhyāṁ jātō vātaśōṇitajaḥ, na punarvātaraktēna vyādhinā janitaḥ, jānu madhyē ūrujaṅghayōḥ sandhiḥ, sthaulyēna ākr̥tyā ca krōṣṭuśīrṣavat||58||
khañjalakṣaṇam
vāyuḥ kaṭyāśritaḥ sakthnaḥ kaṇḍarāmākṣipēdyadā ||59||
khañjastadā bhavējjantuḥ paṅguḥ sakthnōrdvayōrvadhāt |
(su. ni. a. 1) |
khañjamāha– vāyurityādi| sakthnaḥ ūrdhvajaṅghāyāḥ, kaṇḍarāṁ mahāsnāyum, ākṣipēt īṣat kṣipēt, kiñcidgatimattvāditi gayadāsaḥ| sakthnōriti dvivacanēnaiva dvitvē labdhē dvayōriti padēna niyamayati– sakthidvayasyaiva vadhāt paṅguḥ, ēkasakthivadhāt khañja iti; vadhaścātra gamanādikriyānāśaḥ||59||
khañjapaṅguvātāvāha– vāyurityādi| yadā kaṭyāṁ sthitō vāyuḥ sakthnaḥ ūrdhvajaṅghāyāḥ kaṇḍarāṁ mahāsnāyumākṣipēt īṣat kṣipēt kiñcidgatimattvāditi gayadāsaḥ, tadā jantuḥ khañjō bhavati| paṅguḥ sakthnōrdvayōrvadhāditi sarvathā gativighātāt paṅgurirthaḥ| sakthnōriti dvivacanēnaiva dvitvē labdhē dvayōritipadēna niyamayati– sakthidvayasyaiva vadhātpaṅguḥ, ēkasakthivadhātkhañja iti| vadhaścātra gamanakriyānāśaḥ||59||
kalāyakhañjalakṣaṇam
prakrāman vēpatē yastu khañjanniva ca gacchati ||60||
kalāyakhañjaṁ taṁ vidyānmuktasandhiprabandhanam |
(su. ni. a. 1) |
khañjaviśēṣamāha– prakrāmannityādi prakrāmanniti gamanamārabhamāṇō vēpatē| praśabdō’yamādikarmaṇi| khañjanniva gacchati vikalayanniva gacchati, gamanārambhēna anyēna saṁsr̥ṣṭaṁ [88] vēpatē tēna khañjādasya bhēdaḥ| [89] muktētyādimityāhuḥ| muktasandhiprabandhanamiti śithilīkr̥tasandhibandhanam| kalāyakhañja iti śāstrē rūḍhā sañjñā; [90] ayamēvānyatra khañjavāta ityuktaḥ||60||
kalāyakhañjamāha– prakrāmannityādi| prakrāman pādavikṣēpaṁ kurvan, vēpatē kampatē| khañjannivētyādi vaikalyaṁ kurvanniva gacchati| muktasandhiprabandhanaṁ śithilīkr̥tasandhibandhanam| kalāyakhañja iti śāstrē rūḍhiḥ sañjñā||60||
vātakaṇṭakalakṣaṇam
ruk pādē viṣamēnyastē śramādvā jāyatē yadā ||61||
vātēna gulphamāśritya tamāhurvātakaṇṭakam |
(vā. ni. a. 15) |
vātakaṇṭakamāha– [91] rugityādi| viṣamapādanyāsakupitaḥ śramakupitō vā vāyurgulphē vēdanāṁ janayan, vātakaṇṭakamityāhuḥ; ayamēvānyatra ‘khuḍukāvāta’ ityuktaḥ||61||
vātakaṇṭakamāha– rugityādi| yadā viṣamapādanyāsakupitaḥ śramakupitō vā vāyurgulphēvēdanāṁ janayati, taṁ vātakaṇṭakamityāhuḥ; ayamēvānyatra ‘khuḍukāvāta’ ityuktaḥ||61||
pādadāhalakṣaṇam
pādayōḥ kurutē dāhaṁ pittāsr̥ksahitō’nilaḥ ||62||
viśēṣataścaṅkramataḥ pādadāhaṁ tamādiśēt |
(su. ni. a. 1) |
pādadāhamāha– pādayōrityādi| viśēṣataścaṅkramata ityanēna sthitasya mandō dāha iti darśayati| vaivarṇyādērabhāvādvātaraktādasya bhēdaḥ||62||
pādadāhamāha– [92] pādayōrityādi| pādayōḥ viśēṣataścaṅkramataḥ viśēṣēṇa gacchataḥ, viśēṣataścaṅkramata ityēnana sthitasya mandō dāha iti darśayati| vaivarṇyādērabhāvādvātaraktādasya bhēdaḥ||62||
pādaharṣalakṣaṇam
hr̥ṣyētē caraṇau yasya bhavētāṁ cāpi suptakau ||63||
pādaharṣaḥ sa vijñēyaḥ kaphavātaprakōpataḥ |
(su. ni. a. 1) |
pādaharṣamāha– hr̥ṣyētē ityādi| hr̥ṣyētē harṣayuktau bhavataḥ, harṣaśca rōmāñcaprāyaḥ antaḥśītō jhiṇijhiṇivat vēdanāviśēṣa ityāhuḥ; jhiṇijhiṇi tu na cirānubandhinī kēvalavātajēti bhēdaḥ||63||
pādaharṣamāha– hr̥ṣyētē ityādi| hr̥ṣyētē harṣayuktau bhavataḥ, harṣaśca rōmāñcaprāyō’ntaḥśītō jhiṇijhiṇivat vēdanāviśēṣaḥ||63||
aṁsaśōṣalakṣaṇam
aṁsadēśasthitō vāyuḥ śōṣayēdaṁsabandhanam ||64||
(su. ni. a. 1) |
[93] aṁsētyādi| aṁsētyādinā ślōkārdhēnāṁsaśōṣaḥ kēvalavātaja ucyatē| aṁsabandhanakārakaḥ ślēṣmā aṁsabandhanaḥ; ētadanantaraṁ ‘aṁsaśōṣaṁ janayēt’ iti śēṣa iti kārtikaḥ||64||
ardhārdhaślōkēnāṁsaśōṣāvabāhukayōrlakṣaṇamāha– aṁsētyādi| aṁsaśabdēnāṁsasamīpōpalakṣitadēśōṁ’sadēśaḥ| aṁsō bāhuśiraḥ, tatra sthitō vyavasthitaḥ| aṁsabandhanamiti aṁsabandhanakārakaḥ ślēṣmā aṁsabandhanaḥ, [94] tatrāṁsabandhanaṁ ślēṣmāṇaṁ śōṣayitvā sa tadanantaraṁ aṁsaśōṣaṁ janayēditi vākyaśēṣa iti kārtikaḥ||64||
avabāhukalakṣaṇam
sirāścākuñcya tatrasthō janayēdavabāhukam |65|
(su. ni. a. 1) |
avabāhukamāha– sirāścētyādinā| [95] tatrasthōṁ’sadēśasthaḥ| ayaṁ ca vātakaphajaḥ| anyē tu militvā avabāhukalakṣaṇamāhuḥ; tanna, yataḥ suśrutēnōktam– ‘aṁsaśōṣāvabāhukayōrbāhumadhyē sirāvyadhaḥ’ (su. śā. a. 8) iti| ētadanantaraṁ suśrutēna bādhiryaṁ paṭhitam– “yadā śabdavahaṁ vāyuḥ” (su. ni. a. 1) ityādinā, mādhavēna tu prakaraṇānurōdhaṁ manyamānēna karṇarōga ēva tat paṭhitaṁ, kintu suśrutēna vātavyādhau bādhiryaṁ paṭhitvā’pi bādhiryakarṇaśūlau śālākya’pi paṭhitau; punaruktamiti cēt; naiva, samprāptibhēdabhinnatvāt; vātavyādhau śabdavahamityanēna karṇaśaṣkulyavacchinnanabhōdēśa uktaḥ, śālākyē ca śabdavahāḥ sirā ityuktam| mādhavēna tu karṇarōgē śabdāśravaṇatvāviśēṣādētadēva tatra paṭhitamityavirōdhaḥ|65|–
sirāścētyādinā avabāhukaḥ| tatrasthōṁ’sadēśasthaḥ, sirāḥ ākuñcyāvabāhukaṁ janayēt| ayaṁ ca kaphavātajaḥ| [96] atrāṁsaśōṣamavabāhukamiti rōgadvayamuktavān, anyē tu militvā’vabāhukalakṣaṇamāhuḥ, tanna yataḥ suśrutēna [97] rōgadvayaṁ pr̥thak paṭhitam– “aṁsaśōṣāvabāhukayōrbāhumadhyē sirāvyadhaḥ” iti|65|–
mūkādīnāṁ lakṣaṇam
āvr̥tya vāyuḥ sakaphō dhamanīḥ śabdavāhinīḥ ||65||
narān karōtyakriyakānmūkaminminagadgadān |
(su. ni. a. 1) |
[98] mūkādīṁstrīnāha– āvr̥tyētyādi| akriyakān avacanakriyakāniti; nañayamabhāvē, īṣadarthē ca| ādyō mūkō’vacanaḥ, dvitīyō minminaḥ sānunāsikasarvavacanaḥ, tr̥tīyō gadgadō [99] luptapadavyañjanābhidhāyī| ēṣāṁ [100] ca samānakāraṇābhidhānē’pi duṣṭērutkarṣādibhiradr̥ṣṭavaśādvā bhēda ityunnēyam||65||
mūkādīn jihvāgatān vātarōgāṁstrīnāha– āvr̥tyētyādi| vāyuḥ sakaphaḥ kupitaḥ san, śabdavāhinīrdhamanīrāvr̥tyāvarudhya, narān akriyakān avacanakriyakān karōti| atra nañ abhāvē īṣadarthē ca| mūkō’vacanaḥ, minminaḥ sānunāsikasarvavacanaḥ, gadgadō luptapadavyañjanābhidhāyī| ēṣāṁ tulyahētvabhidhānē’pi duṣṭērutkarṣādibhiradr̥ṣṭavaśādvā bhēda ityunnēyam||65||
tūnīlakṣaṇam
adhō yā vēdanā yāti varcōmūtrāśayōtthitā ||66||
bhindatīva gudōpasthaṁ sā tūnī nāma nāmataḥ |
(su. ni. a. 1) |
tūnīmāha– adha ityādi| adha iti gudōpastham| vēdanā śūlam| varcōmūtrāśayōtthitā pakvāśayamūtrāśayōtthitā, pakvāśayamūtrapuṭayōrvyastasamastayōrjātā| upasthaṁ strīpuṁsayōrguhyam| nāmataḥ prasiddhitaḥ||66||
tūnīvātamāha– adha ityādi| yā vēdanā śūlamadha iti gudōpasthaṁ yāti, nāmataḥ prasiddhitaḥ sā tūnī nāma, varcōmūtrāśayōtthitā pakvāśayamūtrapuṭayōrvyastasamastayōrjātā, bhindatīva gudōpasthamiti bhēdaṁ kurvatīva gudōpasthasyētyarthaḥ| upasthaṁ strīpuṁsayōrguhyam||66||
pratitūnīlakṣaṇam
gudōpasthōtthitā yā tu pratilōmaṁ pradhāvitā ||67||
vēgaiḥ pakvāśayaṁ yāti pratitūnīti sōcyatē |
(su. ni. a. 1) |
pratitūnīmāha– gudētyādi| pratilōmamityūrdhvam| vēgairvātakr̥tōdgamaiḥ| sētyanēna ‘bhindatīva’ ityatidiśyatē||67||
pratitūnīmāha– gudētyādi| gudōpasthōtthitā saiva vēdanā [101] pratilōmityūrdhvaṁ pradhāvitā satī, vēgairvātakr̥tōdgamairmuhurmuhuḥ svabhāvōpaśamōpalakṣitaiḥ pakvāśayaṁ yāti, sā pratitūnītyucyatē, saivētyanēna bhindatītyatidiśyatē||67||
ādhmānalakṣaṇaṁ, pratyādhmānalakṣaṇaṁ ca
sāṭōpamatyugrarujamādhmātamudaraṁ bhr̥śam ||68||
ādhmānamiti taṁ vidyād ghōraṁ vātanirōdhajam |
vimuktapārśvahr̥dayaṁ tadēvāmāśayōtthitam ||69||
pratyādhmānaṁ vijānīyāt kaphavyākulitānilam |
(su. ni. a. 1) |
ādhmānamāha– sāṭōpamityādi| sāṭōpamiti [102] āṭōpaścalacalanamiti gayadāsaḥ, guḍaguḍāśabda iti kārtikaḥ| ādhmātaṁ vātapūrṇacarmapuṭakasthānīyam| udaramiti pakvāśayaḥ, pratyādhmānasya āmāśayasambhavatvāt| ghōramiti kaṣṭapradam| āmāśayasamutthatvēna pratyāsattyā pārśvahr̥dayayōrapi vēdānāśaṅkānirāsārthamāha– [103] vimuktētyādi| tadēvētyanēna sāṭōpāditvamatidiśati| [104] kaphavyākulitānilaṁ kaphāvr̥tavātam||68-69||
ādhmānalakṣaṇamāha– sāṭōpamityādi| sāṭōpādilakṣaṇayuktamudaramādhmānaṁ jānīyāt; sāṭōpamiti āṭōpaścalanaṁ tēna saha vartata iti sāṭōpamiti gayadāsaḥ; guḍaguḍāśabda iti kārtikaḥ| ādhmānamiti ādhmātaṁ vātapūrṇacarmapuṭakasthānīyam udaramiti pakvāśayaḥ, pratyādhmānasyāmāśayasambhavatvāt| ghōramiti kaṣṭapradam| pratyādhmānamāha– vimuktētyādi| vimuktaṁ pārśvahr̥dayaṁ yēna tattathā| kaphākulitaṁ vātamityarthaḥ||68-69||
aṣṭhīlālakṣaṇaṁ, pratyaṣṭhīlālakṣaṇaṁ ca
nābhēradhastāt sañjātaḥ sañcārī yadi vā’calaḥ ||70||
aṣṭhīlāvadghanō granthirūrdhvamāyata unnataḥ |
vātāṣṭhīlāṁ vijānīyādbahirmārgāvarōdhinīm ||71||
ētāmēva rujōpētāṁ vātaviṇmūtrarōdhinīm |
pratyaṣṭhīlāmiti vadējjaṭharē tiryagutthitām ||72||
(su. ni. a. 1) |
aṣṭhīlāmāha– nābhērityādi| aṣṭhīlā uttarāpathē vartulaḥ pāṣāṇaviśēṣa iti jējjaṭamatānuvādī kārtikaḥ, karmakārāṇāṁ vartulā dīrghā lauhabhāṇḍīti gayadāsaḥ| ūrdhvamāyata uparidīrghaḥ| unnataḥ tiryagunnataḥ| vātakr̥tā aṣṭhīlā vātāṣṭhīlēti svarūpaparaṁ, vyāvr̥ttyabhāvāt| bahirmārgāvarōdhinīṁ vātamūtrapurīṣāvarōdhinīm| ētāmityādi saiva jaṭharē tiryagutthitā tiryagāyatā pratyaṣṭhīlēti bhēdaḥ| vātaviṇmūtrarōdhinīmiti viśēṣaparam||70-72||
aṣṭhīlāmāha– nābhērityādi| aṣṭhīlāvat aṣṭhīlāsadr̥śaṁ granthiṁ vātāṣṭhīlāṁ vijānīyāt| aṣṭhīlā uttarāpathē vartulaḥ [105] pāṣāṇaviśēṣa iti jējjaṭānuvādī kārtikaḥ, karmakārāṇāṁ vartulā dīrghā lauhabhāṇḍī iti gayadāsaḥ| [106] ghanaṁ saṁhatāvayavam| ūrdhvamāyatamuparidīrgham| unnataṁ tiryagunnatam| vātakr̥tā aṣṭhīlā vātāṣṭhīlā iti svarūpaparaṁ, vyāvr̥ttyabhāvāt| [107] bahirmārganirōdhinī vātamūtrapurīṣarōdhinīm| pratyaṣṭhīlāmāha– ētāmityādi| pratyaṣṭhīlēti bhēdaḥ| vātamūtrapurīṣarōdhinīmiti viśēṣaparam||70-72||
bastau pratilōmē vāyau vividhamūtrarōdhakavikārasambhavaḥ
[108] mārutē’nuguṇē bastau mūtraṁ samyak pravartatē |
vikārā vividhāścātra pratilōmē bhavanti ca ||73||
(su. ni. a. 3) |
aṣṭhīlāvyatiriktāmapi vātavikr̥tiṁ mūtrarōdhinīmāha– māruta ityādi| [109] anuguṇē’nulōmē| pratilōmē [110] pratilōmagē māruta iti sambandhaḥ| vikārā aśmarīmūtrakr̥cchrādayaḥ||73||
aṣṭhīlāvyatiriktāmapi mūtrarōdhinīṁ vātavikr̥timāha– māruta ityādi| aviguṇē’nulōmē māruta ityarthaḥ| vikārāḥ [111] aśmarīmūtrakr̥cchravātakr̥tāṣṭhīlākr̥cchrādayaḥ||73||
vēpathulakṣaṇam
sarvāṅgakampaḥ śirasō vāyurvēpathusañjñakaḥ |74|
vēpathuvātavikāramāha– sarvētyādi| śirasaḥ kampa iti sambandhaḥ; śira ityavayavōpalakṣaṇaṁ, tēna hastādērapi kampō vēpathurityarthaḥ|74|–
sarvāṅgakampavātamāha– sarvāṅgētyādi| sarvāṅgasya śirasaśca kampa iti sambandhaḥ| śirasa ityavayavōpalakṣaṇaṁ, tēna [112] hastōdērapi kampō vēpathuriti|74|–
khallīlakṣaṇam, ūrdhvavātalakṣaṇaṁ ca
[113] khallī tu pādajaṅghōrukaramūlāvamōṭanī ||74||
(ca. ci. a. 28) |
khallītyādi| khallī ‘sirāvamōṭana’ iti lōkē||74||
khallīmāha– khallītyādi| mōṭinīti parivartanaśīlā||74||
ūrdhvavātalakṣaṇam
adhaḥ pratihatō vāyuḥ ślēṣmaṇā mārutēna vā |
karōtyudgārabāhulyamūrdhvavātaḥ sa ucyatē ||75||
adhaḥ pratihatō vāyuḥ ślēṣmaṇā mārutēna ca| karōtyudgārabāhulyamūrdhvavātaṁ pracakṣatē||75||
ūrdhvavātamāha– adha iti||75||
anuktavātarōgasaṅgrahaḥ
sthānanāmānurūpaiśca liṅgaiḥ śēṣān vinirdiśēt |
sarvēṣvētēṣu saṁsargaṁ pittādyairupalakṣayēt ||76||
(ca. ci. a. 28) |
hanustambhārditākṣēpapakṣāghātāpatānakāḥ |
kālēna [114] mahatā vātā yatnāt sidhyanti vā na vā ||77||
[115] narān balavatastvētān sādhayēnnirupadravān |
(ca. ci. a. 28) |
anuktavātarōgasaṅgrahaṇārthamāha– sthānētyādi| [116] sthānānurūpairliṅgairyathā– kukṣiśūlaṁ, [117] pr̥ṣṭhaśūlaṁ, nakhabhēda ityādi| nāmānurūpairliṅgairyathā– śūlamityuktē kīlanikhātavadvēdanāviśēṣa ēva ucyatē, tathā bhēdatōdādibhirapi pīḍāviśēṣa ēva gamyatē| [118] vātā iti vātavikārāḥ, kāryakāraṇayōrabhēdōpacārāt| vātāditi pāṭhē tu vātādyē [119] pakṣavadhādaya iti yōjyam||76-77||
anuktavātarōgasaṅgrahārthamāha– sthānētyādi| sthānānurūpairliṅgairyathā– kukṣiśūlaṁ, pr̥ṣṭhaśūlaṁ, nakhabhēdaḥ| nāmānurūpairyathā– kukṣiśūlamityuktē kīlanikhātavadvēdanāviṣē ēvōcyatē, tathā tōdabhēda ityādi pīḍāviśēṣa ēva gamyatē| pittādyairiti pittaślēṣmarudhiraiḥ, saṁsargaṁ dvidōṣajaṁ ca lakṣayēt| uktarōgāṇāṁ kr̥cchrasādhyatvamāha– hanvityādi| ētēṣvēkaḥ kaścinmucyatē ityarthaḥ| paraṁ kaḥ siddhyati, ya taruṇō bhavati| tathā nirupadravān upadravarahitān||76-77||
pūrvōktavātarōgāṇāṁ sādhyāsādhyavicāraḥ, upadravāśca
visarpadāharuksaṅgamūrchārucyagnimārdavaiḥ ||78||
kṣīṇamāṁsabalaṁ vātā ghnanti pakṣavadhādayaḥ |
śūnaṁ suptatvacaṁ bhagnaṁ kampādhmānanipīḍitam |
rujārtimantaṁ ca naraṁ vātavyādhirvināśayēt ||79||
(su. sū. a. 33) |
vātōpadravānāha– visarpētyādi| vātā iti vātavikārāḥ, kāryakāraṇayōrabhēdōpacārāt| vātāditi pāṭhē tu vātāt pakṣavadhādaya iti yōjyam| śūnamityādi śūnaṁ saśōtham| suptatvacaṁ sparśānabhijñatvagindriyam||78-79||
vātōpadravānāha– visarpētyādi| vātā iti vātavikārāḥ, kāryakāraṇayōrabhēdōpacārēṇa| vātāt iti pāṭhē tu vātāt pakṣavadhādayaḥ iti yōjyam, saṅgō mūtrapurīṣavātāpravr̥ttiḥ| kṣīṇaṁ māṁsabalaṁ yasya sa tathā| asādhyamāha– śūnamityādi| śūnaṁ śōthayuktam| suptatvacaṁ sparśānabhijñatvagindriyam| bhagnaṁ bhagnāsthi| rujārtimantamatīva pīḍayā”rtam||78-79||
prakr̥tisthasya vāyōrliṅgaṁ kāryaṁ ca
avyāhatagatiryasya sthānasthaḥ prakr̥tisthitaḥ |
vāyuḥ syāt sō’dhikaṁ jīvēdvītarōgaḥ samāḥ śatam ||80||
(ca. ci. a. 28) |
idānīṁ pañcavidhasyāpi prakr̥tisthasya vāyōrliṅgaṁ kāryaṁ cāha– avyāhatētyādi| yasyēti puruṣasya, avyāhatagatiḥ anavaruddhamārgaḥ, [120] sthānasthaḥ svāśrayavyavasthitaḥ, prakr̥tisthitō’kṣīṇaścāpravr̥ddhaḥ, ētadviśēṣaṇatrayaṁ hētuhētumadbhāvēna yōjyam| vītarōgō nīrōgaḥ, kaphapittaduṣṭērapi prērakavātēnāntarīyakatvāt| adhikaṁ samāḥ [121] śatamiti pañca dinādhikaṁ saviṁśaṁ varṣaśatam| yadāha varāhaḥ āyurnirūpaṇē– ‘samāḥ ṣaṣṭirdvighnā manujakariṇāṁ pañca ca niśāḥ|’ ityādi||80||
idānīṁ pañcavidhasyāpi prakr̥tisthasya vāyōḥ kāryaṁ liṅgaṁ ca prāha– [122] avyāhata ityādi| yasya puruṣasya avyāhatagatiḥ aruddhamārgaḥ, sthānasthaḥ svāśayavyavasthitaḥ, prakr̥tau sthitaḥ na vr̥ddhō na ca kṣīṇaḥ, vāyōrviśēṣaṇatrayam| vītarōgō nīrōgaḥ, kaphapittaduṣṭērapi prērakavātēnāntarīyakatvāt| adhikaṁ samāḥ śataṁ pañcadinādhikaṁ viṁśativarṣaśatam| yadāha varāhamihirē āyurnirūpaṇādhyāyē– “samāḥ ṣaṣṭirdvighnā manujakariṇāṁ pañca ca niśāḥ” iti||80||
puṣpikā
iti śrīmādhavakaraviracitē mādhavanidānē vātavyādhinidānaṁ samāptam ||22||
iti śrīvijayarakṣitakr̥tāyāṁ madhukōśavyākhyāyāṁ vātavyādhinidānaṁ samāptam||22||
[123] iti śrīvācaspativaidyaviracitāyāṁ mādhavanidānavyākhyāyāmātaṅkadarpaṇākhyāyāṁ vātavyādhinidānam||22||
1. ‘syāt’ iti pāṭhaḥ kvacitpustakē nōpalabhyatē |
2. “sāmānyajā iti vātādibhiḥ pratyēkaṁ militaiśca yē janyantē, nānātmajā iti yē vātādibhirdōṣāntarāsampr̥ktairjanyantē” iti cakraḥ|
3. atra ‘rūpa’ iti kvacitpustakē adhikaḥ pā.|
4. ‘ … nirapēkṣatvādākṣēpa … ’ iti pā.|
5. ‘vistarōktirityabhiprāyēṇaivēti’ iti pā.|
6. ‘plavanaṁ bāhubhyāṁ taraṇam’ ityasya sthānē ‘plavanaṁ taraṇaṁ, bāhubhyāṁ vicēṣṭitam’ iti pā.|
7. agrimapaṅktiḥ kvacitpustakē nōpalabhyatē |
8. ‘rōgādikarṣaṇāt’ iti pā.|
9. ‘vikārāṇām’ iti pā.|
10. ‘vāyuścapalatvēna’ iti pā.|
11. atra ‘sarva’ iti kvacitpustakē adhikaḥ pā.|
12. atra ‘tad’ iti kvacitpustakē adhikaḥ pā.|
13. ‘śōthō’ ityasya sthānē ‘śōṣō’ iti pā. |
14. ‘gātrasuptati’ iti pā. |
15. ‘śōthō’ ityasya sthānē ‘śōṣō’ iti pā.|
16. ‘alpanidratāva’pi bōdhyētyāhuḥ’ iti pā.|
17. ‘garbhāśayādēḥ’ iti pā.|
18. ‘ … śrōtrādīnām’ iti pā.|
19. ‘ākṣēpaḥ’ iti pā.|
20. atra ‘‘karōti vividhānvyādhīn’ iti’ iti kvacitpustakē adhikaḥ pā.|
21. ‘punaruktaḥ’ iti pā.|
22. ‘antrā … ’ iti pā.|
23. ‘sandhigatavātalakṣaṇaḥ’ iti pā.|
24. ‘iva’ iti pā.|
25. atra ‘ca’ iti kvacitpustakē adhikaḥ pā.|
26. ‘gātrē śarīrē, arūṁṣi vraṇāḥ’ ityasya sthānē ‘gātrē arūṁṣi vraṇāḥ, śarīrē … ’ iti pā.|
27. ‘pratyāsattērāśrayaprabhāvāt’ iti pā.|
28. ‘majjāsthikupitē vācyam’ iti pā.|
29. ‘mandarujō vraṇān’ iti pā.|
30. atra ‘sa’ iti kvacitpustakē adhikaḥ pā. |
31. ‘khalvīm’ iti pā. |
32. ‘khalvīm’ iti pā.|
33. ‘khalvīm’ iti pā.|
34. ‘kaubjām’ iti pā.|
35. atra ‘vā’ iti kvacitpustakē adhikaḥ pā.|
36. ayaṁ ślōkaḥ kvacitpustakē nōpalabhyatē
37. ‘pañcadhaivōcyatē … ’ iti pā.|
38. ayaṁ pāṭhaḥ kvacitpustakē nōpalabhyatē |
39. ‘klamō’nāyāsaḥ śramaḥ’ ityasya sthānē ‘klamō’nāryasaṁśrayaḥ’ iti pā.| klamō’nāyāsaḥ śramaḥ, harṣō rōmaharṣaḥ, ‘śītastambhau’ iti pāṭhāntaram| kaphēna saṁyutē samānē viṇmūtrayōḥ saṅgaḥ, tathā gātraharṣō rōmāñcaḥ, “kaphādhikaṁ ca viṇmūtraṁ rōmaharṣaḥ kaphāvr̥tē” iti pāṭhāntaram| kaphādhikaṁ ślēṣmabahulaṁ viṣṭhāmūtramiti| apāna iti sugamam| vyāna iti| daṇḍakō
40. ‘daṇḍaḥ’ iti pā.|
41. ‘kālē’ iti pā.|
42. ‘bhramaklamaḥ’ iti pā.|
43. ‘ … jīryantē’ iti pā.|
44. ‘kalitaḥ’ iti pā.|
45. ‘āmavāta’ iti pā.|
46. ‘vinayanam’ iti pā.|
47. atra ‘navā’ iti kvacitpustakē adhikaḥ pā.|
48. ‘niṣphalatvācca śukragē’ iti pā.|
49. ‘pīḍyatēti’ iti pā.|
50. ‘ … rucirvāksvaragrahaḥ’ iti pā.|
51. ‘sarvam’ iti pā.|
52. ‘viṁśatividham’ iti pā.|
53. ‘prapadyatē’ iti pā. |
54. atra ‘nimīlakō’ iti kvacitpustakē adhikaḥ pā.|
55. asmātpūrvaṁ kvacitpustakē ‘kapōta iva kūjēt, niḥsañjñaḥ sañjñārahitaḥ, sō’patantrakaḥ’ iti paṅktirupalabhyatē yadagrē’styēva|
56. ‘kruddhē’ iti pā.|
57. ‘rujan’ iti pā.|
58. atra ‘tasmāt’ iti kvacitpustakē adhikaḥ pā.|
59. ‘vr̥tē mūrchitē’ ityasya sthānē ‘āvr̥tamēva mūrchāñcita … ’ iti pā.|
60. ‘tāsviti sarvadhamanīṣu’ iti pāṭhaḥ kvacitpustakē nōpalabhyatē |
61. ‘dhanustulyamityādi’ iti pā.|
62. ayaṁ ślōkaḥ kvacitpustakē nōpalabhyatē
63. ‘vicētanō’cētanaḥ’ iti pā.|
64. ‘cēti’ iti pā.|
65. ( ) ētaccihnamadhyasthō’yaṁ ślōkaḥ kvacitpustakē nōpalabhyatē
66. ‘anyēna saṁsr̥ṣṭam’ ityasya sthānē ‘ētacca ‘sādhyamanyēna saṁsr̥ṣṭam’ iti pā.|
67. ‘grīvā cāpyapavartatē’ ityasya sthānē ‘grīvāṁ vyāpyapravartatē’ iti pā. |
68. ‘sarvaliṅgō’rditaḥ’ iti pā.|
69. ‘pravartatē’ iti pā.|
70. atra ‘animiṣākṣasya’ iti kvacitpustakē adhikaḥ pā.|
71. ‘ … arditānām’ iti pā.|
72. ‘hanū’ iti pā. |
73. ‘hanustambhaḥ’ iti pā. |
74. ‘kapōlasthaḥ’ iti pā.|
75. ‘hanū’ iti pā.|
76. ‘vivr̥tāsyatvam āsyavivr̥tiṁ, saṁvr̥tāsyatām āsyasaṁvr̥tiṁ; sā ca’ ityasya sthānē ‘vivr̥tāsyatvaṁ saṁvr̥tāsyatvaṁ ca’ iti pā.|
77. ‘hanustambha’ iti pā.|
78. ‘śuṣkētādi’ iti pā.|
79. atra ‘bhakṣaṇāt’ iti kvacitpustakē adhikaḥ pā.|
80. ‘ … vivr̥ti’ iti pā.|
81. ‘svapnā”sanasthāna … ’ iti pā.|
82. ‘vāgityādi’ iti pāṭhaḥ kvacitpustakē nōpalabhyatē |
83. ‘vāgvāhinītyādi’ iti pā.|
84. ‘yā’ iti pā.|
85. ‘gauravādiyuktā’ iti pā.|
86. padyadvayamidaṁ madhukōśē na jagrāha, ātaṅkadarpaṇakārastu saṅgr̥hya vyācakhyau
87. ‘pravaktatā’ iti pā. |
88. ‘vēpanēna’ iti pā.|
89. ‘muktētyādimityāhuḥ’ iti pāṭhaḥ kvacitpustakē nōpalabhyatē |
90. agrimapaṅktiḥ kvacitpustakē nōpalabhyatē |
91. ‘rukpāda ityādi’ iti pā.|
92. atra ‘pādayōrityādi’ iti kvacitpustakē adhikaḥ pā.|
93. ‘aṁsētyādi’ iti pāṭhaḥ kvacitpustakē nōpalabhyatē |
94. ‘taṁ aṁsabandhanam’ iti pā.|
95. ‘tatrasthōṁ’sasthaḥ’ iti pā.|
96. ‘ayaṁ aṁśaśōṣa … ’ iti pā.|
97. ‘rōgarūpam’ iti pā.|
98. ‘mūkādīnāha’ iti pā.|
99. ‘luptavyañjanābhidhāyī|’ iti pā.|
100. atra ‘ca’ iti kvacitpustakē adhikaḥ pā.|
101. ‘pratilōmam’ iti pā.|
102. ‘āṭōpaścalacalam’ iti pā.|
103. ‘vimuktapārśvahr̥dayamiti’ iti pā.|
104. ‘kaphavyākulatānilam’ iti pā.|
105. ‘pāṣāṇa’ iti pā.|
106. ētacca– ‘aṣṭhīlāvadghanaṁ granthimūrdhvamāyatamunnatam’ iti pā.|
107. ētacca– ‘bahirmārganirōdhinīm’ iti pā.|
108. ‘mārutēviguṇē’ iti pā. |
109. ‘aviguṇē’nulōmagē’ iti pā.|
110. atra ‘pratilōmagē’ iti kvacitpustakē adhikaḥ pā.|
111. atra ‘ … vātakr̥tāṣṭhīlākr̥cchrā … ’ iti kvacitpustakē adhikaḥ pā.|
112. ‘hastapādayōrapi’ iti pā.|
113. ‘khalvī’ iti pā. |
114. ‘mahatā vātā’ ityasya sthānē ‘mahatāḍhyānām’ iti pā. |
115. ‘narān balavatastvētān’ ityasya sthānē ‘narāṁstu taruṇānētān’ iti pā. |
116. ‘sthānānurūpairyathā’ iti pā.|
117. atra ‘pr̥ṣṭhaśūlam’ iti kvacitpustakē adhikaḥ pā.|
118. agrimapaṅktiḥ kvacitpustakē nōpalabhyatē |
119. ‘hanustambhā’ iti pā.|
120. ‘svasthāna … ’ iti pā.|
121. ‘śatamiti’ ityasya sthānē ‘śatam’ iti pā.|
122. atra ‘avyāhata ityādi’ iti kvacitpustakē adhikaḥ pā.|
123. ‘ityātaṅkadarpaṇē nidānavyākhyāyāṁ vātavyadhinidānam||22||’ iti pā.|