Table of Contents
Devanagari Version
श्रीमद्वाग्भटविरचितम्
अष्टाङ्गहृदयम्
श्रीमदरुणदत्तविरचितया 'सर्वाङ्गसुन्दराख्या' व्याख्यया हेमाद्रिप्रणीतया 'आयुर्वेदरसायनाह्वया' टीकया च समुल्लसितम्
शारीरस्थानम् - ३. अङ्गविभागशारीरोध्यायः
Only Moolashloka
गर्भव्यापदोऽनन्तरमङ्गविभाग उच्यते| अङ्गप्रत्यङ्गविज्ञाने हि सति सम्यग्गर्भस्याहरणादिकं कर्तुं शक्यते, नान्यथा| इतीदमाह-
अथातोऽङ्गविभागं शारीरं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः|
गद्यसूत्रे||२||
अङ्गस्य-शरीरस्य, विभागो-विभजनं, अङ्गप्रत्यङ्गादिना पृथक्करणं-अङ्गविभागः| अथेत्यादि पूर्ववत्|
अथ तान्येवाङ्गानि विभक्तुकाम आह —-
शिरोऽन्तराधिर्द्वौ बाहू सक्थिनीति समासतः|
षडङ्गमङ्गं प्रत्यङ्गं तस्याक्षिहृदयादिकम्||१||
षडङ्गं-षडवयवं, अङ्गं-शरीरम्| तान्येव षडङ्गान्याहशिरः, तथाऽन्तराधिः, तथा द्वौ बाहू-वामदक्षिणौ, तथा सक्थिनी द्वे-वामदक्षिणे, इति-एवं, समासतः-सङ्क्षेपेण, षडङ्गम्| विस्तरेण पुनरनेकावयवम्| अन्तराधिशब्देन शिरोबाहुसक्थिवर्जः सर्वो मध्यभाग उच्यते| आधीयन्ते-निबध्यन्ते यथायथं शरीरस्यान्तः स्थाप्यन्ते प्राक्कृतेन कर्मणा शिरःप्रभृतयः पञ्चावयवा यस्मिन् सोऽन्तराधिः| तस्य-षडवयवस्याङ्गस्य, अक्षिहृदयादिकं प्रत्यङ्गम्| आदिशब्देन कर्णनासापाणिपादादिपरिग्रहः| अवयवमवयवं प्रति योऽवयवः, तत्प्रत्यङ्गमुच्यते| शरीरं व्योमवाय्वादिपञ्चमहाभूतात्मकं चेतनादीनामधिष्ठानम्|
अतस्तमेव प्रत्येकं महाभूतगुणमाह —-
शब्दः स्पर्शश्च रूपं च रसो गन्धः क्रमाद्ङ्गुणाः|
खानिलाग्न्यब्भुवाम्—————————————|२|
शब्दादयः पञ्च गुणाः क्रमात्-क्रमेण, खादीनां पञ्चानां भवन्ति| खं चानिलश्चाग्निश्चापश्च भूश्च खानिलग्न्यब्भुवः, तासाम्| तत्र शब्दः खस्य-आकाशस्य गुणः, सुषिरेऽतिरेक्तस्पर्शादिगुणचतुष्टयायोगित्वेन शब्दमात्रस्यैवोपलम्भात्| स्पर्शो वायोः| रूपमग्नेः| रसोऽपां-पानीयस्य| गन्धो भूमेः| एतेषां गुणानां खाद्याश्रितत्वात्तेषां गुणा इत्युच्यन्ते|
किमेकैक एवाकाशस्येव वाय्वादीनां यथोक्तो गुणः ? उतान्येऽपि सन्ति ? इत्याह —-
———————————————|
——————–एकगुणवृध्द्यन्वयः परे||२||
एकेन गुणेन वृद्धिः, तयाऽन्वयः-सम्बन्धः| परे-वाय्वादौ महाभूते| अथवा, एकस्य गुणस्य वृद्धिः, तयाऽन्वयः-अनुगमस्तद्भावित्वं पर इति| चतुर्णां महाभूतानां परत्वोक्तिभाक्त्वमाकाशापेक्षया| तेन वाय्वादौ महाभूते एकगुणवृध्द्यन्वयः| आकाशस्त्वेकगुण एव| तस्य परत्वासम्भवान्न तस्यैकगुणवृध्द्यन्वयः| आकाशात्परे-अनन्तरे महाभूते वाय्वाख्ये, एकगुण वृध्द्यन्वयेन द्विगुणत्वात् शब्दस्पर्शगुणत्वम्| ततः परे महाभूतेऽग्न्याख्ये, एकगुणवृद्ध्यन्वयेन त्रिगुणत्वात् शब्दस्पर्शरूपगुणत्वम्| ततः परे-जलाख्ये महाभूते, एकगुणवृध्द्यन्वयेन चतुर्गुणत्वात् शब्दस्पर्शरूपरसगुणत्वम्| ततः परे-पृथिव्याख्ये महाभूते, एकगुणवृध्द्यन्वयेन पञ्चगुणत्वात् शब्दस्पर्शरूपरसगन्धगुणत्वम्| एवं पञ्चानां खादीनामेकगुणवृध्द्यैकद्वित्रिचतुः पञ्चगुणत्वं बोध्यम्|
इदानीं यथाक्रमनिर्दिष्टेभ्यो भूतेभ्यो ये भावा भवन्ति, तान् दर्शयति-
इदानीं यथाक्रमनिर्दिष्टेभ्यो भूतेभ्यो ये भावा भवन्ति, तान् दर्शयति —-
तत्र खात् खानि देहेऽस्मिन् श्रोत्रं शब्दो विविक्तता|
वातात्स्पर्शत्वगुच्छ्वासा वह्नेर्दृग्रूपपक्तयः||३||
आप्या जिह्वारसक्लेदा घ्राणगन्धास्थि पार्थिवम्|
———————————————|४|
[तत्र-] तेषु पञ्चसु महाभूतेषु मध्ये, अस्मिन् देहे-मनुष्यादौ स्थूलतया परिणते, नान्यस्मिन्नतीन्द्रिये भूतादौ| खात्-आकाशात् सत्वबहुलात्, खानि-छिद्राणि, ‘भवन्ति’ इति शेषः| एवं श्रोत्रेन्द्रियाधिष्ठानं-श्रोत्रम्| तथा, शब्दो-घोषः| तथा, विविक्तता-शून्यता रिक्तता, खादेव चिद्रविशेषः| यद्यपि छिद्रादिषु सर्वभूतानामेव व्यापारः, तथाऽप्याकाशस्यैवात्र विशिष्टं कारणत्वम्| यथा-घटादौ मृद्दण्डचक्रसलिलसूत्रादिकारणसमुदायनिष्पन्नेऽपि मृद एव विशिष्टकारणत्वम्| अत एवासौ मृन्मय एवोच्यते| एवं सर्वेषु वक्ष्यमाणेषु वातादिजेषु स्पर्शादिषु बोध्यम्| वातात्-अनिलाद्रजोबहुलात्, स्पर्शादयो भवन्ति| स्पर्शः-स्पर्शनम्| त्वगिह स्पर्शनेन्द्रियाधिष्ठानम्| तथा, उच्छ्वासः-प्राणाख्यः| वह्नेः सत्वरजोबहुलाद्दृगादयो भवन्ति| द्दृक्-द्दृष्टिः, चक्षुरिन्द्रियाधिष्ठानम्| तथा, रूपाख्यो गुणः| पक्तिः-पाकः| उपलक्षणं चेदम्| तेजःपित्तोष्ममेधावर्णशौर्यादयोऽपि वह्नेरेव वेद्याः| अभ्द्यः सत्वतमोबहुलाभ्यो जाता आप्या जिह्वादयो भवन्ति| जिह्वाशब्देनात्र जिह्वाया विशिष्ट एकदेशो रसनेन्द्रियाधिष्ठानं विवक्षितः, न सर्वैव जिह्वा| तथा, रसाख्यो गुणः| तथा, क्लेदाख्यो भावः| उपलक्षणं चेदम्| स्वेदस्नेहमूत्रादयोऽप्याप्या एव| घ्राणादि पार्थिवं भवति| घ्राणं-नासाया विशिष्ट एकदेशो घ्राणेन्द्रियाधिष्ठानम्| गन्धो गुणः| तथा, अस्थि भावः| एतानि सर्वाणि पृथिव्याख्यात्तमोबहुलान्महाभूताज्जातानि|
देहेऽस्मिन् किं मातृजम् ? किं पितृजम् ? इत्याह —-
———————————————|
मृद्वत्र मातृजं रक्तमांसमज्जगुदादिकम्||४||
पैतृकं तु स्थिरं शुक्रधमन्यस्थिकचादिकम्|
चैतनं चित्तमक्षाणि नानायोनिषु जन्म च||५||
अत्र-अस्मिन् देहे, अनेकसामग्रीकेऽपि यन्मृदु वस्तु तन्मातृजम्| मातुराधिक्येन कारणभाव इत्यर्थः| मातृजमिति “पञ्चम्यामजातौ” इति जनेर्डः| किं पुनस्तन्मृदु ? इत्याह-रक्तेत्यादि| आदिशब्देन नाभीहृदययकृत्प्लीहामाशयादीनां ग्रहणम्| ननु, गुदस्य मांसप्रायत्वान्मांसग्रहणेनैव सिद्धं ग्रहणम्| तत् किं गुदग्रहणेन ? ब्रूमः| मांसत्वस्याप्यस्यानिश्चयात् पृथगुपादानं कृतम्| तथा च वक्ष्यति (हृ.शा.अ.४/४५)-“मांसमर्म गुदोऽन्येषां” इति| यद्वस्तु स्थिरं तत् पैतृकं-पितृजम्| किं तत् ? इत्याह-शुक्रादिकम्| आदिशब्देन शिरास्नायुरोमादीनां ग्रहणम्| पैतृकमिति “पितुर्यच्च” इति ठक्| “इसुसुक्तान्तात्कः” इति कादेशः| चेतना-आत्मैव, प्राक्कृतशुभाशुभकर्मबीजक्षेत्रमित्यर्थः| ततो जातं चैतनम्| किं तत् ? इत्याहचित्तमित्यादि| चित्तं-इन्द्रियसारथिः| तथा, अक्षाणि-श्रोत्रादीनि| ननु, चैतनान्यक्षाणीत्येतत्पूर्वापरव्याहतमिव मन्यामहे| यतः पूर्वमुक्तम् (श्लो.३)-“खात्खानि देहेऽस्मिन्” इति| तत्कथमिह चैतनान्यक्षाणीत्युच्यन्ते ? ब्रूमः| नात्र तत्र वाऽवधारणं कृतम्| यथा चैतनान्येवाक्षाणि खादेव खानीति| तस्मादाकाशं चेतना च द्वयमप्यक्षाणां कारणमित्यवेहि| तथा, नानायेनिषु-गजाजवाजिबस्तशशशम्बरप्रभृतिषु, यज्जन्म-सम्भवः, तदपि चैतनम्| उपलक्षणं चेदम्| कामक्रोधलोभभयहर्षधर्माधर्मशीलतास्मृतिबुद्धीच्छाद्वेषप्रयत्नाहङ्कारसुखदुःखायुःस्वरविशेशादयोऽपि हि चैतना एव|
———————————————|
सात्म्यजं त्वायुरारोग्यमनालस्यं प्रभा बलम्|६|
सात्म्यं त्रिविधम्, व्याधिसात्म्यं देशसात्म्यं देहसात्म्यं च| तत्रेह व्याधिसात्म्यं न गृह्यते| यतो देहस्य सम्भवतः सम्भूतमात्रस्य चेयं विचारणा प्रस्तुता, कुतः किं सम्भवति? इति| अतो व्याधिचर्चेहाप्रस्तावान्नोपयुज्यते| [तस्माद्देशसात्म्यं देहसात्म्यं च गृह्यते| देहस्य हि सम्भवतः सम्भूतमात्रस्य च मात्राहारविहारादि यदपथ्यमप्यतिशयेन शीलितं तदप्यस्य देहस्योचिततां गच्छत्सुखनुबन्धत्वेन सात्म्यमुच्यते|] तस्माद्देशसात्म्यं देहसात्म्यम् च ग्रहीतुं युक्तम्| सात्म्याज्जातं-सात्म्यजम्| किं तत् ? आयुः,-जीवितम्| तथा, आरोग्यं-धातुसाम्यम्| तथा, अनालस्यं-सर्वचेष्टासूद्योगः,-उत्साहः| तथा, प्रभाकान्तिः| तथा, बलं-शक्तिः| उपलक्षणं चेदम्| अलोलुपत्वेन्द्रियप्रसादस्वरवर्णवीर्यौजःसम्पत्प्रहर्षाद्यपि हि सात्म्यजमेव|
———————————————|
रसजं वपुषो जन्म वृत्तिर्वृद्धिरलोलता||६||
रसात्-आहाररसात् परिणताज्जातं रसजम्| किं तत् ? जन्म,-सम्भवः| कस्य ? वपुषः,-सकलस्य शरीरस्य| तथा, वृत्तिः-वर्तनं, जीवितानुबन्धः| रसं हि विना जीवितस्याप्यभावः| तथा, वृद्धिः-आयामविस्तराभ्यां यथासंस्थानस्य शरीरस्याधिक्यम्| तथा, अलोलिता-अलौल्यम्| अलोलता रसजेति लिङ्गविपरिणामे सति सम्बन्धः| उदाहरणमात्रं चेदम्| उत्साहपुष्टितृप्तयोऽपि हि रसजा एव|
सातिविकं शौचमास्तिक्यं शुक्लधर्मरुचिर्मतिः|
राजसं बहुभाषित्वं मानकृद्दम्भमत्सरम्||७||
तामसं भयमज्ञानं निद्राऽऽलस्यं विषादिता|
———————————————|८|
सत्वजं शौचादिकम्| शौचं-वाक्कायमनसां शुद्धिः सत्यवाक्याद्यभिधायित्वं-वाक्शुद्धिः, मृज्जलादिना क्षालनादि शास्त्रोदितं-कायिकं शौचम्| मानसं तु शौचं-जगद्बन्धुता करुणाशुद्धसन्तानत्वमास्तिक्यादि| शौचमिति “इगान्ताच्च लघुपूर्वात्” इत्यण्| आस्तिक्यमिति अस्ति परलोक इति मतिरस्येत्यास्तिकः| “अस्ति नास्ति” इत्यादिना ठक्| आस्तिकस्य भाव आस्तिक्यम्| ब्राह्माणादित्वात् ष्यञ्| तथा, शुक्ले धर्मे निर्व्याजे, रुचिः-भक्तिः| मतिः-प्रज्ञा| उपलक्षणं चेदम्| कृतज्ञतादाक्षिण्यव्यवसायशौर्यगाम्भीर्यस्मृतिमेधादयोऽपि हि सात्त्विका एव| राजसानि बहुभाषित्वादीनि| उपलक्षणं चेदम्| शौर्यदुरुपचारतालोलुपत्वहर्षकामादयोऽपि राजसा एव| तामसानि भयादीनि| उपलक्षणं चेदम्| प्रमादशोकादीन्यपि तामसान्येव| तत्र सत्वं-मनः, तस्योपप्लवो रजस्तमश्चेति| सुश्रुते (सङ्ग्रहे) चोक्तम् (सू.अ.२०)-“वय्वाकाशधातुभ्यां वायुः, आग्नेयं पित्तम्, अम्भःपृथिवीभ्यां श्लेष्मा|” इति| आयुर्वेदावतारे तूक्तम्-“शीतोष्णशमवृद्ध्याऽऽप्यं न पित्तं द्रुतताम्रवत्| करकाम्भः कफो भौमौ नानिलानलसंहतः||(?) इति|
अधुना देहाश्रितसर्वभावोपसंहारं कुर्वन् प्रधानो यो भावो देहस्य, तस्य प्राधान्यं दर्शयन्निदमाह —-
———————————————|
इति भूतमयो देहः—————————-|८|
सर्वेभ्यो देहाश्रितभावेभ्यो महाभूतानामेव प्राधान्यम्, तन्मयत्वाद्देहस्य सर्वभावाधारभूतस्य
इत्येवमनेन ग्रन्थेन देहस्य भूतमयत्वमभिधाय, इदानीं देहस्य प्रतिभागशो निरूपयन्नाह —-
———————————————|
——————–तत्र सप्त त्वचोऽसृजः||८||
पच्यमानात्प्रजायन्ते क्षीरात्सन्तानिका इव|
———————————————|९|
तत्र-तस्मिन् महाभूतमये देहे, असृजो-रक्तात् सप्तत्वगुत्पादनसमर्थेन धातूष्मणा पच्यमानात्, सप्त त्वचः प्रकर्षेण जायन्ते| कुतः का इव ? यथा क्षीरात् पच्यमानाच्छीतीभूतात्तदुपरि घनभागस्वभावाः सन्तानिकाः-जालिकाः, जायन्ते तद्वदसृजः पच्यमानात्सप्त त्वचो भवन्ति| तत्र “भासिनी लोहिनी श्वेता ताम्रा त्वग्वेदिनी तथा| स्याद्रोहिणी मांसधरा सप्तमी परिकीर्तिता|| १|| व्रीहेरष्टादशांशाऽऽद्या द्वितीया षोडशांशिका| द्वादशांशा तृतीया तु चतुर्थ्यष्टांशमात्रिका|| २|| पञ्चमी पञ्चमांशा तु षष्ठी व्रीहिप्रमाणिका| व्रीहिद्वयप्रमाणा तु सप्तमी भिषजां मता|| ३|| खादिच्छायापञ्चकस्य भासिन्याधारतां गता| मन्यन्ते षट् त्वचः केचित्तासां बाह्योदकाश्रया|| ४|| द्वितीयाऽसृग्धरा सिध्मश्वित्राधारा तृतीयका| चतुर्थी सर्वकुष्ठानामधिष्ठानत्वमागता|| ५|| विद्रध्यलज्यधिष्ठाना पञ्चमी रोगकारिणी| षष्ठ्यत्र यस्यां च्छिन्नायां ताम्यत्यन्धं तमो विशेत्|| ६|| यामधिष्ठाय जायन्ते स्थूलमूलानि पर्वसु| अरूंषि कृष्णरक्तानि दुश्चिकित्स्यतमानि च|| ७|| ” इति|
इदानीं कला आह —-
———————————————|
धात्वाशयान्तरक्लेदो विपक्वः स्वंस्वमूष्मणा||९||
श्लेष्मस्नाय्वपराच्छन्नः कलाख्यः काष्ठसारवत्|
ताः सप्त————————————–|१०|
धातूनां-रसादीनां, आशयाः-आधाराः, जलाशयवत्तेषामन्तराण्यन्तरालानि, तेषु धात्वाशयान्तरेषु क्लेदो धात्वाशयान्तरक्लेदः| स विपक्वः कलाख्य उच्यते-कलासंज्ञां लभते| केन विपक्वः ? स्वंस्वमूष्मणा,-आत्मीयेनात्मीयेन वह्निना| यथा रसधात्वाशयान्तरस्थः क्लेदो रसधातूष्मणा विपक्वः कलैका भवति| यावच्छुक्रधात्वाशयान्तरस्थः शुक्रधातूष्मणा विपक्वः सप्तमी कला भवति| कीदृशो विपक्वः ? श्लेष्मणा स्नाय्वाऽपरया च-जराय्वाख्यया, छन्नः-छादितः| “वा दान्तशान्त” इत्यादौ छदेर्ण्यन्तात् छन्नशब्दो निपातितः| किंवत् ? काष्ठसारवत्| यथा काष्ठस्य सारः, तथाऽयं धातुसारशेषोऽल्पत्वात्कलासंज्ञः| धात्वाशयान्तरमर्यादाः सप्त कलाः| तत्र-“आद्या मंसधरा यस्यां धमन्यः स्नायवः सिराः| स्रोतांसि च प्ररोहन्ति प्रतानैर्व्यापिभिः कला|| १|| द्वितीयाऽसृग्धराऽस्यां तु मांसान्तः शोणितं स्थितम्| विशेषतः सिराप्लीहयकृत्सु क्षतजं क्षतात्|| २||मांसात्प्रवर्तते क्षीरं क्षीरिवृक्षादिव क्षतात्| मेदोधरा तृतीयाऽत्र मेदाऽस्थ्नामुदरे स्थितम्|| ३|| भवत्यणुषु मज्जाऽन्तः स्थूलास्थिष्वथ मूर्द्धनि| मस्तुलुङ्गकपालान्तश्चतुर्थी तु कफाश्रया|| ४|| तत्स्थः कफो द्रढयति सन्धीनस्थ्नां शरीरजान्| पञ्चम्यासां विडाधारा साऽऽमपक्वाशयाश्रया|| ५|| उन्दुकस्थं विभजते मलं, पित्तधरा पुनः| षष्ठी पक्वाशयान्तस्था वह्नयधिष्ठानभावतः|| ६|| पक्वाशयोन्मुखं कृत्वा बलात्पित्तस्य तेजसा| शोषयन्ती पचत्यन्नं तदेव च विमुच्यति|| ७|| दोषदुष्टाऽथ दौर्बल्यादाममेव निरस्यति| लभते ग्रहणीसंज्ञामस्याश्चाग्निबलं बलम्|| ८|| शरीरं धारयत्यग्निबलोपष्टम्भबृंहिता| अन्त्या कला शुक्रधरा मूत्रमार्गमुपाश्रिता|| ९|| द्वयङ्गुले दक्षिणे पार्श्वे बस्तिद्वारस्य चाप्यधः| शरीरं व्याप्य सकलं सा शुक्रं वर्तयत्यपि|| १०||” इति|
कलाख्यं भावमाख्याय, आधाराख्यान् भावानाह—–
—————————————–|
सप्त चाधारा रक्तस्याद्यः क्रमात् परे||१०||
कफामपित्तपक्वानां वायोर्मूत्रस्य च स्मृताः|
गर्भाशयोऽष्टमः स्त्रीणां पित्तपक्वाशयान्तरे||११||
न केवलं कलाः सप्त यावदाधारा अपि सप्त| रक्तादीनामस्मिन् देहे सम्भवन्तीति वाक्यशेषः| रक्तस्याद्यो-रसाख्योधातुः, परे-अन्ये ये धातवः षट्, ते क्रमात्-यथाक्रमं, कफादीनामाधाराः स्मृताः-उक्ताः| आमस्यान्नस्य य आधारः सोऽत्रामशब्देनोक्तः| तथा पक्वस्यान्नस्य-पुरीषतां प्राप्तस्य, य आधारः स पक्वशब्देनोच्यते| गर्भाशयो-गर्भाधारो, यः सोऽष्टमः स्त्रीणामेव देहे सम्भवति न पुंसाम्| क्व शरीरदेशे स्त्रीणां सम्भवति ? इत्याह-पित्तपक्वाशयान्तर इति| पक्वशब्देनेह पक्वान्नमुच्यते| पित्तं च पक्वं च पित्तपक्के, तयोराशयौ आधारौ, पित्तपक्वाशययोरन्तरं-मध्यं, पित्तपक्वाशयान्तरम्| तस्मिन् गर्भस्याशयः|
कोष्ठाङ्गानि स्थितान्येषु हृदयं क्लोम फुप्फुसम्|
यकृत्प्लीहोन्दुकं वृक्कौ नाभिडिम्भान्त्रबस्तयः||१२||
एषु-रक्ताद्याधारेषु, कोष्टाङ्गानि-उदरावयवा हृदयादीनि, स्थितानि-आश्रितानि| तत्र-“कफरक्तप्रसादात्स्याद्धृदयं स्थान मोजसः| चेतनानुगभावानां परमं चिन्तितस्य च|| १||
मांसपेशीचयो रक्तपद्माकारमधोमुखम्| तस्य दक्षिणतः क्लोम यकृत्फुप्फुसमास्थितम्|| २|| समानवायुप्रध्माताद्रक्ताद्देहोष्मपाचितात्| किञ्चिदुच्छ्रितरूपस्तु जायते क्लोमसंज्ञकः|| ३|| तत्तुल्यहेतुजे प्लीहयकृती भिषजां मते| रक्तकिट्टादुन्दुकं स्यात्फुप्फुसो रक्तफेनजः|| ४|| मेदोसृजः पच्यमानात् स्यातां वृक्कौ प्रसादजौ| नाभिः सर्वशिराणां स्यादाधारः, शकृतः पुनः|| ५|| डिम्भं स्याद्रक्तमांसस्य प्रसादादन्त्रसम्भवः| सार्धत्रिव्याममन्त्राणि पुरुषाणां तु तानि च|| ६|| स्त्रीणां त्रिव्याममात्राणि, बस्तिर्मूत्रस्य चाशयः|” इति| सङ्ग्रहे चोक्तम् (शा.अ.५)-“कफरक्तवाहिस्रोतसां महाभूतानां च प्रसादादिन्द्रियाणि| तेष्वपि नेत्रे श्लेष्मणः प्रसादाच्छुक्लमण्डलम्, तत्पितृजम्| असृजः कृष्णमण्डलम्, तन्मातृजम्| मध्ये द्दृष्टिमण्डलम्, तदुभयात्मकम्| पक्ष्मवर्त्मशुक्लकृष्णद्दृष्ट्याख्यानि पञ्च मण्डलानि| तत्सन्धयश्चत्वारो द्वौ चापाङ्गकनीनयोरिति [ ते षट् ] षट् [ च ] पटलानि| द्वे वर्त्मनी| बाह्यं चाश्रितमग्न्यम्भसी, द्वितीयं मांसं, तृतियं मेदः, चतुर्थमस्थि, तेषां बहलता द्दृष्टेः पञ्चमांशेन| बन्धनगुणास्तु चत्वारः सिराकण्डरामेदःकफात्मकाः| श्लेष्मा तु परं सर्वसन्धिबन्धनमित्युक्तं प्राक्| नेत्राश्रितं तेजो बाह्यतेजसा स्वयोनिना योगाच्छस्त्रमिवाश्मना कर्मण्यं भवति| अतियोगादुपहन्यते| तच्च वैद्युतवद्वडवामुखवच्चाम्भो मध्यगमपि वीर्योकर्षात्तेजस्त्वं न जहाति|” इति|
अधुना यानि विशेषेण जीवितस्य स्थानानि-देहावयवाः, तान्याह-
दश जीवितधामानि शिरोरसनबन्धनम्|
कण्ठोऽस्रं हृदयं नाभिर्बस्तिः शुक्रौजसी गुदम्||१३||
शिरश्च रसनं च शिरोरसनम्| रसनं-जिह्वा| बध्यतेऽनेनेति बन्धनम्| शिरोरसनस्य बन्धनं शिरोरसनबन्धनम्| शिरोरसनबन्धनादीनि दश जीवितस्य स्थानानि| एतेषु स्थानेषु विशेषेण जीवितं-शरीरेन्द्रियसत्वात्मसंयोगलक्षणं, अवतिष्ठते|
जालानि कण्डराश्चाङ्गे पृथक् षोडश निर्दिशेत्|
षट् कूर्चाः सप्त सीवन्यो मेढ्रजिह्वाशिरोगताः||१४||
शस्त्रेण ताः परिहरेच्चतस्रो मांसरज्जवः|
चतुर्दशास्थिसङ्ग़ाताः, सीमन्ता द्विगुणा नव||१५||
अस्थ्नां शतानि षष्टिश्च त्रीणि दन्तनख़ैः सह|
———————————————|१६|
जालानीव जालानि शरीरे षोडश आदिशेत्| कण्डराश्च पृथगेव षोडश आदिशेत्-ब्रूयात्| आचार्य इति शेषः| तथा, षट् कूर्चा अङ्गे स्युः| तथा सीवन्यः सप्तसङ्ख़्या मेढ्रादिस्थिताः| ताः शस्त्रेण परिहरेत्, प्रत्यवायभयात्| न तासु शस्त्रं पातयेदित्यर्थः| तत्र-“शिरास्नाय्वस्थिपिशितैश्चत्वारि माणिबन्धने| एकत्रैकत्र गुल्फे च जालान्येवं तु षोडश|| १|| हस्तयोर्द्वे पादयोर्द्वे ग्रीवाभागेऽथ पृष्ठतः| प्रत्येकं तु चतस्रः स्युः कण्डरा इति षोडश|| २|| करयोर्द्वौ पादयोर्द्वौ ग्रीवायां मेहने तथा| एकैकमिति षट् कूर्चाः, सीवन्यः सप्त कीर्तिताः|| ३|| एका मेढ्रेऽथ जिह्वायां भवेयुः पश्च मूर्द्धनि| पृष्ठवंशे ह्युभयतश्चतस्रो मांसरज्जवः|| ४|| बाह्ये द्वे अन्तरे द्वे च, गुल्फे जानुनि वङ्क्षणे| त्रिके शिरसि कक्षायां कूर्परे मणिबन्धने|| ५|| अस्थ्नां भवेयुः सङ्ग़ाता अमी अत्र चतुर्दश| सीमन्ताः पञ्च मूर्ध्नि स्युर्गुल्फादिष्वस्थिसङ्ग़वत्|| ६|| अस्थ्नां शतानि षष्टिश्च त्रीणि दन्तनख़ैः सह| पञ्च पादनख़ाः सक्थ्नि प्रत्यङ्गुल्य स्थिकत्रयम्|| ७|| एवं पञ्चदशैतानि शलाकाः पञ्च तु स्मृताः| एकस्तत्प्रतिबन्धश्च जङ्ग़ायां कूर्चगुल्फके|| ८|| द्वे द्वे इति षडेव स्युः पार्ष्णावूरौ च जानुनि| एकैकमित्ये कसक्थ्नि पञ्चत्रिंशत्तथाऽपरे|| ९|| भुजयोः सक्थितुल्यानि भेदा एषां तु नामतः| पाणिः स्यात्पादवतत्र हस्तमूलं च पार्ष्णिवत्|| १०|| मणिबन्धो गुल्फतुल्यः कूर्चतुल्यो द्वयेऽपि च| प्रकोष्ठौ जङ्ग़या तुल्यौ जानुवत्कूर्परो भवेत्|| ११|| ऊरुवद्वाहुपृष्ठं स्यान्दन्तराधौ तु पर्शुकाः| चतुर्विंशतिरेतेषु स्थालकान्यर्बुदानि च|| १२|| तावन्ति पृष्ठे त्रिंशत्स्युरुरस्यष्टौ त्रिके भगे| एकैकं स्यादक्षकयोरंसयोस्तत्फलाख़्ययोः|| १३|| नितम्बे तु भवेतां द्वे शतमेतत्सविंशति| गण्डयोः कर्णयोर्द्वे द्वे शङ्ख़योश्चाथ तालुनि|| १४|| तथा जत्रुण्येकमेकं ग्रीवायां तु त्रयोदश| कण्ठनाड्यां तु चत्वारि हनुबन्धे द्वयं भवेत्|| १५|| द्वात्रिंशदेव दन्ताः स्युस्तत्सङ्ख़्योलूख़लानि च| त्रीणि ग़्राणे षट् शिरसि शतमूर्ध्वमिति स्मृतम्|| १६|| शाख़ान्तराध्यूर्ध्वभेदादेवं षष्टिशतत्रयम्| कपालं रुचकं चैव तरुणं वलयं तथा|| १७|| नलकं पञ्चधेति स्युर्नितम्बे गण्डजानुनि| तालुमध्ये शिरस्यंसे कपालाख़्यानि निर्दिशेत्|| १८|| दशना रुचकाख़्याः स्युर्ग़्राणे कर्णेऽक्षिकोशके| तरुणानि पृष्ठपार्र्श्वे चरणे वलयानि तु|| १९|| शेषाणि नलकाख़्यानि नामाख़्याताकृतीनि च|” इति|
———————————————|
धन्वन्तरिस्तु त्रीण्याह, सन्धीनां च शतद्वयम्||१६||
दशोत्तरं————————————–|
———————————————|१७|
धन्वन्तरिसंज्ञः पुनस्तन्त्रकृदस्थ्नां शतानि त्रीण्येवाह, नाधिकानि| तथा, अस्थिसन्धीनां शतद्वयं दशोत्तरं धन्वन्तरिराहेति योज्यम्| “सङ्ख्यायन्ते सन्धयोऽत्र चतस्रोऽङ्गुलयः पदे| चतसृष्वङ्गुलीषु स्युः प्रत्येकं त्रय एव तु|| १|| द्वावङ्गुष्ठे वङ्क्षणे स्यादेको गुल्फेऽथ जानुनि| सक्थ्येकस्मिन् सप्तदश तावन्तोऽपि द्वितीयके|| २|| भुजयोः सक्थितुल्यानि अन्तराधौ त्विमे मताः| त्रयः कटीकपालेषु विंशतिश्चतुरुत्तरा|| ३|| पृष्ठे तद्वत्पार्श्वयोश्च, उरस्यष्टौ तथोर्ध्वतः| शिरोधरायामष्ट स्युः कण्ठनाड्यां त्रयः स्मृताः|| ४|| हृदयक्लोमयकृतां नाडीष्वष्टादश स्मृताः| द्वात्रिंशद्दन्तमूलेषु एकैके घ्राणकाकले|| ५|| मूर्ध्नि च, द्वौ कर्णशङ्खे गण्डनेत्रे च वर्त्मनि| हनुसन्धौ च विज्ञेयौ द्वौ भ्रुवोश्चोपरि स्मृतौ|| ६|| पञ्च मूर्द्धकपालेषु ऊर्ध्वमेवं त्र्यशीतिकाः| संज्ञयैतेऽष्टधा ज्ञेया मणिबन्धेऽथ जानुनि|| ७||गुल्फेऽङ्गुलौ कोरसंज्ञा द्विजमूलेषु वङ्क्षणे| कक्षायां चोलूखलाख्या अंसपीठे गुदे भगे|| ८|| नितम्बे चैव सामुद्गा ग्रीवायां पृष्ठवंशके| प्रतराः, स्युर्मूर्द्धकटीकपाले तुन्नसीवनाः|| ९|| हनूभये काकतुण्डाः, कण्ठस्य यकृतस्तथा| हृदयक्लोमनेत्राणां नाड्यां मण्डलनामकाः|| १०|| श्रोत्रशृङ्गाटकाख्येषु शङ्खावर्ता इति स्मृताः|” इति|
अथात्रेयमतं ब्रूते—-
—–सहस्रे द्वे निजगादात्रिनन्दनः|
———————————————|१७|
अत्रिनन्दनो द्वे सहस्रे सन्धीनां निजगाद-प्रोवाच| स हि स्नायुपेशीसिराश्रितैः सन्धिभिः सह गणयति| एतच्च बाहुल्येनोक्तम्| तथा हि-नवसु स्नायुशतेषु नवशतानि सन्धीनाम्, पञ्चसु पेशीशतेषु पञ्चशतानि,, सप्तसु सिराशतेषु सप्तशतानि, इत्येकविंशतिशतानि प्रायेण प्राप्नुवन्तीति मन्यामहे|
———————————————|
स्नाव्नां नवशती—————————–|१७|
स्नायूनामस्मिन् देहे नवशती| नवानां शतानां समाहारो नवशती, “द्विगोः” इति ङीप्, नवशतानित्यर्थः| तत्र “पदे पञ्च स्युरङ्गुल्यः प्रत्यङ्गुलि तु तानि षट्| त्रिंशदेवं, दश दश कूर्चे पादतले तथा|| १|| गुल्फे चेति, त्रिंशदेव जङ्घायां, दश जानुनि| चत्वारिंशत्स्युरूरौ च, वङ्क्षणे दश, सक्थिनि|| २|| सार्धं शतं, द्वितीयेऽपि तद्वद्बाह्वोश्च सक्थिवत्| शाखास्वेवं षट्शतानि, कट्यां द्वे विंशती स्मृते|| ३|| विंशतिर्मुष्कयोर्मेढ्रबस्त्यन्त्रेषु च कीर्तिताः| अशीतिः पृष्ठभागे स्युः, पार्श्वयोः षष्टिरक्षयोः|| ४|| चत्वार्युरस्यष्टदश, अष्टावंसयुगे स्मृताः| मध्ये शतद्वयं त्रिंशद्वे द्वे मन्यावटौ स्मृते|| ५|| नेत्रौष्ठतालुनि तथा, ग्रीवायां त्रिंशदीरिताः| जत्रुणि त्रीणि, चत्वारि हन्वोः पञ्च तु कीर्तिताः|| ६|| जिह्वायां, दन्तमांसेषु द्वादशैवाथ मूर्ध्नि षट्| एवं शतानि स्नायूनां नवैतेषु विनिर्देशेत्|| ७|| आमपक्वाशयान्त्रेषु बस्तौ च सुषिराणि तु| प्रतानवन्ति शाखासु महास्नावानि कण्डाराः|| ८|| वृत्तानि, पार्श्व पृष्ठोरःशिरसि स्युः पृथूनि च| सिरादिभ्योऽप्यस्थितोऽपि रक्षेत्स्नावानि यत्नतः|| ९||” इति| तथा चोक्तम् (सुश्रुते शा. अ. ५/३५)- “न ह्यस्थीनि तथा हिंस्युर्न पेश्यो न च सन्धयः| व्यापादिता अपि सिरा यथा स्नायूनि देहिनाम्|| स्नायूनि यो वेत्ति सम्यग्बाह्यान्याभ्यन्तराणि च| स गूढं शल्यमाहर्तुं देहाच्छक्नोति देहिनः||” इति|
———————————————|
——————-पञ्च पुंसां पेशीशतानि तु||१७||
अधिका विंशतिः स्त्रीणां योनिस्तनसमाश्रिताः|
———————————————|१८|
“पेश्यः सम्प्रति भण्यन्ते पञ्चाङ्गुल्योऽथ तासु ताः| प्रत्येकं तिस्र इत्येवं ताः पञ्चदश कीर्तिताः|| १|| दश पादतले गुल्फे तथा पादस्य चोपरि| कूर्चे तु (च) विंशतिः स्यात्तु जङ्घायां, पञ्च जानुनि|| २|| ऊरौ विंशतिरित्येवं शतं सक्थ्येकतो भवेत्| शतं द्वितीयेऽपि तथा, सक्थिवद्गुजयोर्मताः|| ३|| चत्वार्येवं शतानि स्युः शाखास्वेकैव मेहने| सीवन्यां च, वृषणयोर्द्वे, स्फिजोस्तु दश स्मृताः|| ४|| तिस्रो गुदे, बस्तिमूर्ध्नि द्वे, चतस्रस्तु कोष्टगाः| नाभ्यामेकाऽथ, हृद्येका, स्यादेकाऽऽमाशयेऽपि, षट्|| ५|| यकृत्प्लीहोन्दुकेषु, स्युश्चतस्रः, पृष्ठतो दश| पार्श्वयोर्वक्षसि दश, चतस्रश्चाक्षकांसयोः|| ६|| इत्यन्तराधौ षष्टिः, स्युर्ग्रीवायां दश, गण्डयोः| अष्टौ, हनुप्रदेशेऽष्टावेकैका काकले तथा|| ७|| जिह्वायां मूर्ध्नि गलके, द्वे ललाटेऽथ तालुनि (द्वे द्वे तालुललाटयोः)| द्वे ओष्ठयोः, कर्णयोर्द्वे, नासायां द्वे च कीर्तिते|| ८|| पुरुषाणां भवेदेतत्पेशीनां शतपञ्चकम्| दशाधिकाः स्युः स्तनयोर्दश योनौ च योषिताम्|| ९|| प्रत्येकं स्तनयोः पञ्च, तासां वृद्धिस्तु यौवने| योन्यन्तराश्रिते द्वे तु द्वे च वृत्ते मुखाश्रिते|| १०|| गर्भमार्गाश्रयास्तिस्रो यत्र गर्भोऽवतिष्ठते| शङ्खनाभ्याकृतिर्योनिस्त्र्यावर्ता जायते स्त्रियाः|| ११|| तस्यास्तृतीय आवर्ते रोहितस्याकृतिर्भवेत्| गर्भशय्याऽथ तिस्रश्च भवेयुः सम्प्रवेशिकाः|| १२|| शुक्रस्य चार्तवस्यैवं पेशीस्तन्त्रविदो विदुः|” इति| (सङ्ग्रहे चोक्तम् शा.अ.५)- “एताभिर्हि शरीरे तनुबहलस्थूलाणुवक्रवृत्तह्रस्वदीर्घस्थिरमृदुश्लक्ष्णकर्कशाभिः सन्ध्यस्थिसिरास्नावानि प्रच्छादितानि| सिराधमनीनां चाणुशो विभज्यमानानामेकोनत्रिंशच्छतसहस्राणि नव च शताणि षट्पञ्चाशानि भवन्ति| ताभिरिदं शरीरं गवाक्षितं पिनद्धमाततं च| तावन्ति च केशश्मश्रुलोमानि| तासां हि मुखानि तत्प्रतिबद्धानि| अतस्तानि ताभिराप्याय्यन्ते| तैश्च ताः स्वेदमभिवहन्ति| तथाऽभ्यङ्गालेपादिवीर्यं त्वचिविपक्वमन्तर्नयन्ति| स्पर्श च गृह्णन्ति| स्रोतांसि पुनरसङ्ख्येयान्येव|” इति| अन्ये त्वाहुः-“शरीरे रोम्णां द्वासप्ततिः कोठ्यो भवन्ति|” इति|
इदानीं सिराः सङ्ख्यातुमाह—-
——————————————|
दश मूलसिरा हृत्स्थास्ताः सर्वं सर्वतो वपुः||१८||
रसात्मकं वहन्त्योजस्तन्निबद्धं हि चेष्टितम्|
———————————————|१९|
हृदि तिष्ठन्तीति हृत्स्थाः, दश मूलसिराः| यतोऽन्यासां सिराणं सर्वासां मूलभूतत्वेनैवैताः स्थिताः, ततः प्रधानभूता इत्यर्थः| हृत्स्थाः-हृदयसम्बद्धाः| ताः सर्वं वपुः-सकलं देहं, ओजो वहन्ति-प्रापयन्ति| कथम् ? सर्वतः,-सर्वदिक्कम्| वपुरोजो वहन्तीति वहेर्द्विकर्मकत्वात् वपुरोजश्च कर्म| किम्भूतमोजः ? रसात्मकं,-रसस्वभावम्, आहारात्सारकिट्टतया परिणतात् सारम्| तन्निवद्धं हि चेष्टितम्| तासु-दशसु सिरासु, निबद्धं-निश्चयेन स्थितं, चेष्टितं-वाक्कायमनोव्यापारः| हिशब्दो यस्मादर्थे| यस्मात्तन्निबद्धं चेष्टितमतस्ता मूलसिराः|
इदानीम् संस्थानमासां निर्दिशति—-
——————————————|
स्थूलमूलाः सुसूक्ष्माग्राः पत्ररेखाप्रतानवत्||१९||
भिद्यन्ते तास्ततः सप्तशतन्यासां भवन्ति तु|
———————————————|२०|
स्थूलं मूलं यासां ता एवम्| सुष्टु सूक्ष्ममग्रं-प्रान्तो यासां ता एवम्| स्थूलमूलत्वेन तासां व्यानवायुविक्षिप्तो रसः शीघ्रमेव चान्तः प्रविशति| सूक्ष्मप्रान्तत्वेन रोमराज्यामप्यन्तः प्रविश्य तेषां रोम्णां वृद्धिहेतुः सम्पद्यते| ततश्चास्मिन् देहे स्थूलमूलाः सुसूक्ष्माग्राः पत्ररेकाप्रतानवत् भिद्यन्ते-अनेकधा सम्पद्यन्ते| यथा, वृक्षस्य पलाशरेकानां प्रतानाः-समूहाः, स्थूलमूलाः सुसूक्ष्माग्रा अनेकधा जायन्ते तथैवैताः सिराः स्थूलमूलाः सूक्ष्माग्रा अनेकधा सम्पद्यन्ते नानारूपा यतः, ततः-तस्माद्धेतोः, पलाशरेखाप्रतानवदनेकधा गमनादासां सिराणां सप्तशतानि भवन्ति| तुशब्दोऽवधारणे भिन्नक्रमः, सप्तैव शतानि|
———————————————|
तत्रैकैकं च शाखायां शतं, तस्मिन्न वेधयेत्||२०||
सिरां जालन्धरां नाम तिस्रश्चाभ्यन्तराश्रिताः|
———————————————|२१|
तासामेकैकस्मिन् सक्थ्नि शतम्| तस्मिन्-सिराशते, सिरां जालन्धरां नाम-या जालानि धारयति तां, न विध्येत्| तिस्रश्चेति| याश्चान्यास्तिस्रः सिरा अभ्यन्तराश्रिताः-अन्तर्मुखाः, ता अपि न वेध्या इति चशब्दार्थः| एवं सक्थ्न्याश्रिते सिराशते चतस्रः सिरा न वेध्याः| द्वितीयेऽपि सक्थ्नि चतस्र एव| सक्थिवद्बाह्वोरपि| एवं चतुर्षु सिराशतेषु शाखास्वाश्रितेषु षोडश सिरा न वेध्याः|
———————————————|
षोडशद्विगुणाः श्रोण्यां, तासांद्वे द्वे तु वङ्क्षणे||२१||
द्वे द्वे कटिकतरुणे शस्त्रेणाष्टौ स्पृशेन्न ताः|
———————————————|२२|
षट्त्रिंशच्छतमन्तराधौ| तत्र षोडशद्विगुणाः श्रोण्यां-द्वात्रिंशच्च्रोण्यवयवाश्रिता सिराः| तासां मध्ये द्वे द्वे तु वङ्क्षणेद्वयोर्वङ्क्षणयोः प्रत्येकं द्वे सिरे| द्वे द्वे कटीकतरुणे-द्वयोः कटीकतरुणयोः प्रत्येकं द्वे सिरे| एवं श्रोण्याश्रिता अष्टौ सिराः शस्त्रेण न् स्पृशेत्|
———————————————|
पार्श्वयोः षोडशैकैकामूर्ध्वगां वर्जयेत्तयोः||२२||
पार्श्वयोः षोडश सिराः| तासामेकैकामूर्ध्वगां पार्श्वसन्धिसंज्ञां प्रत्येकं वर्जयेत्|
द्वादशद्विगुणाः पृष्ठे पृष्ठवंशस्य पार्श्वयोः|
द्वे द्वे तत्रोर्ध्वगामिन्यौ न शस्त्रेण परामृशेत्||२३||
द्वादशद्विगुणाः पृष्ठे-चतुर्विंशतिः सिराः पृष्ठमाश्रिताः| तासां पृष्ठवंशस्य पार्श्वयोः-पृष्ठवंशमुभयतः, द्वे द्वे तत्रोर्ध्वगामिन्यौ| एवं चतस्रः शस्त्रेण न परामृशेत्|
पृष्ठवज्जठरे तासां मेहनस्योपरि स्थिते|
रोमराजीमुभयतो द्वे द्वे शस्त्रेण न स्पृशेत्||२४||
पृष्ठवज्जठरे-पृष्ठेन तुल्याः सिरा उदरे, तत्सङ्ख्या चतुर्विंशतिरित्यर्थः| तासां-उदराश्रितानां शिराणां मध्यात्, मेहनस्य मेढ्रस्योपरि स्थिते, रोमराजीमुभयतः-उभयपार्श्वयोः, द्वे द्वे सिरे| एवं चतस्रः सिराः| ताः शस्त्रेण न परामृशेत्|
चत्वारिंशदुरस्यासां चतुर्दश न वेधयेत्|
स्तनरोहिततन्मूलहृदये तु पृथग्द्वयम्||२५||
अपस्तम्भाख्ययोरेकां तथाऽपालापयोरपि|
———————————————|२६|
चत्वारिंशदुरसि सिराः| तासां मध्यात् चतुर्दश सिरा न वेधयेत्| ता एव दर्शयति-स्तनरोहितेत्यादि| तयोः-स्तनयोर्मूले तन्मूले| तत्र स्तनरोहितयोः, तथा स्तनमूलयोः तथा हृदये, पृथक्-प्रत्येकं, द्वयं-द्वे द्वे सिरे, न विध्येत्| अपस्तम्भाख्ययोः प्रत्येकमेकां सिरां, तथाऽपालापयोः प्रत्येकमेकां सिरां न विध्येत्|
———————————————|
ग्रीवायां पृष्ठवत्तासां नीले मन्ये कृकाटिके||२६||
विधुरे मातृकाश्चाष्टौ षोडशेति परित्यजेत्|
———————————————|२७|
ग्रीवायां पृष्ठवत् सिराणां सङ्ख्या-चतुर्विंशतिः सिराः| तासां सिराणां मध्यान्नीले द्वे, मन्ये द्वे, कृकाटिके द्वे, विधुरे द्वे, अष्टौ च मातृकाः-मातृकाख्यानि मर्माणि, इति-एवं, षोडश परित्यजेत्-न शस्त्रं तासु पातयेत्|
———————————————|
हन्वोः षोडश, तासां द्वे सन्धिबन्धनकर्मणी||२७||
हन्वोर्द्वयोः षोडश सिराः संश्रिताः| तासां सिराणां मध्याद्वेसिरे परित्यजेत्| किंकर्मणी ते आह ? सन्धिबन्धनकर्मणी| बध्यतेऽनेनेति बन्धनम्| सम्धेर्बन्धनं सन्धिबन्धनम्| अर्थाद्धनुसम्बन्धिनः सन्धेर्बन्धनं कर्म-क्रिया, ययोः सिरयोस्ते सन्धिबन्धनकर्मणी सिरे|
जिह्वायां हनुवत्तासामधो द्वे रसबोधने|
द्वे च वाचःप्रवर्तिन्यौ——————–|२८|
जिह्वायां हनुवत् सिरासङ्ख्या-षोडशैव सिराः| तासां मध्यात् जिह्वाया अधो ये द्वे स्थिते रसबोधने-याभ्यां रसो ज्ञायते मधुरादिरसबोधिन्यौ, द्वे च वाचःप्रवर्तिन्यौ ये सिरे, एवं चतस्रो जिह्वाश्रिताः सिराः परित्यजेत्|
———————————————|
————————-नासायां चतुरुत्तरा||२८||
विंशतिर्गन्धवेदिन्यौ तासामेकां च तालुगाम्|
———————————————|२९|
नासायां चतुरुत्तरा विंशतिः सिराणाम्, एवं चतुर्विंशतिः सिरा नासाश्रिताः| तासां मध्याद्वे गन्धवेदिन्यौ-गन्धं वेदितुं शीलं ययोस्ते गन्धवेदिन्यौ सिरे, तथैकां तालुगां सिराम्, एवं नासाश्रिताः सिरास्तिस्रः परित्यजेत्|
———————————————|
षट्पञ्चाशन्नयनयोर्निमेषोन्मेषकर्मणी||२९||
द्वे द्वे, अपाङ्गयोर्द्वे च तासां षडिति वर्जयेत्|
———————————————|३०|
षट्पञ्चाशन्नयनयोः सिराः| तासां मध्यान्निमेषोन्मेषकर्मणी| निमेषोन्मेषौ-निमिलनोन्मीलने, कर्मणी ययोस्ते निमेषोन्मेषकर्मणी सिरे द्वे द्वे प्रत्येकम्, तथाऽपाङ्गयोर्द्वे सिरे, एवं षट् सिरा वर्जयेत्-तत्र श्स्त्रं न पातयेत्|
———————————————|
नासानेत्राश्रिताः षष्टिर्ललाटे, स्थपनीश्रिताम्||३०||
तत्रैकां, द्वे तथाऽऽवर्तौ, चतस्त्रश्च कचान्तगाः|
सप्तैवं वर्जयेत्तासाम्————————-|३१|
नासानेत्रगता याः सिरा उक्ताः| तासां मध्याल्ललाटे षष्टिः सिरा भवन्ति| तत्र-तासां मध्यात्, स्थपनीश्रितां-स्थपनीनाममर्मविशेषस्तत्रस्थां, एकां सिरां न विध्येत्| द्वे तथाऽऽवर्तौमर्मणी, तयोरावर्तयोः स्थिते द्वे सिरे न विध्येत्| चतस्रश्च कचान्तगाः-केशान्तस्थाः सिराः, न विध्येत्| एवं सप्त सिरा ललाटे वर्जयेत्|
———————————————|
———————-कर्णयोः षोडशात्र तु||३१||
द्वे शब्दबोधने शङ्खौ सिरास्ता एव चाश्रिताः|
द्वे शङ्खसन्धिगे तासाम्————————|३२|
कर्णयोर्द्वयोः षोडश सिराः| अत्र तु-अस्मिन् षोडशसङ्ख्ये सिरोद्देशे, कर्णयोरास्थिते द्वे सिरे शब्दबोधने-याभ्यां शब्दो बुध्यते-ज्ञायते ते, वर्जयेत्| शङ्खौ सिरास्ता एव कर्णाश्रिताः| तासां मध्याद्वे सिरे शङ्खसन्धिगे-शङ्खसन्ध्याश्रिते, वर्जयेत्|
———————————————|
——————-मूर्ध्नि द्वादश तत्र तु||३२||
एकैकां पृथगुत्क्षेपसीमन्ताधिपतिस्थिताम्|
———————————————|३३|
मूर्ध्नि विषये द्वादश सिराः| तत्र तु-तासु द्वादशसु सिरासु मध्येऽष्टौ सिराः शस्त्रेण वर्जयेत्| ता एवाह-एकैकामिति| एवं प्रत्येकमुत्क्षेपयोर्द्वयोरेकैकां, सीमन्तेषु पञ्चस्वेकैकां, अधिपतावेकां, इत्यष्टौ|
———————————————|
इत्यवेध्यविभागार्थं प्रत्यङ्गं वर्णिताः सिराः||३३||
इति-समप्तौ प्रकारे वा| अवेष्यसिराविभागविज्ञानार्थं तन्निमित्तं, प्रत्यङ्गं-शिरस्यन्तराधौ बाह्वादिषु, याः सिरास्ता वर्णिताः-उक्ताः ता वर्णयितुं समाप्ता इति, अथवाऽनेन प्रकारेण पूर्वोक्तेन वर्णिताः|
अवेध्यास्तत्र कार्त्स्नेन देहेऽष्टानवतिस्तथा|
सङ्ह्कीर्णा ग्रथिताः क्षुद्रा वक्राः सन्धिषु चाश्रिताः||३४||
तत्र-तासु सिरासु मध्ये, कार्त्स्नेन- साकल्येन, अष्टानवतिः सिरा अवोध्या वर्णिताः| देहे-शरीरे| न केवलमेत एवावेध्याः, यावत्सङ्कीर्णादयश्चेति तथाशब्दस्यार्थः| सङ्कीर्णाः-परस्परं निबद्धाः| ग्रथिता इव-ग्रथिताः| क्षुद्राः-अल्पाःसूक्ष्मा न महत्यः| वक्राः-कुटिलाः| तथा सन्धिषु-अस्थिसन्धिषु, या आश्रितास्ता अपि न वेध्याः|
तासां शतानां सप्तानां पादोऽस्रं वहते पृथक्|
वातपित्तकफैर्जुष्टं शुद्धं चैवं स्थिता मलाः||३५||
शरीरमनुगृह्णन्ति पीडयन्त्यन्यथा पुनः|
———————————————|३६|
तासां सिराणां सम्बन्धीनि यानि सप्तशतानि, तेषां पादः-पञ्चसप्तत्यधिकं शतं, अस्रं वहते, अस्मिन् देहे| किम्भूतं तद्रक्तम् ? वातपित्तकफैर्जुष्टं-सेवितं, शुद्धं च-रैरनाक्रान्तमजुष्टं कृत्वा| पृथत्-प्रत्येकं कृत्वा, पादोऽस्रं वहते| एवं वातजुष्टं रक्तं सिराशतं पञ्चसप्तत्यधिकं वहते| पित्तजुष्टं पञ्चसप्तत्यधिकं शतं, तथा कफजुष्टं पञ्चसप्त्यधिकं शतं, तथा शुद्धं रक्तं पञ्च सप्त्यधिकं शतं वहते| एवं-पूर्वोक्तेन प्रकारेण, मलाःस्थिताः शरीरमनुगृह्णन्ति-वर्तयन्ति| अन्यथा पुनः-व्यत्ययेन स्थिताः, पीडयन्ति-विकारेण योजयन्ति|
किंलक्षणाः सिरा वातादिजुष्टमस्रं वहन्ति ? इत्याह—-
——————————————|
तत्र श्यावारुणाः सूक्ष्माः पूर्णरिक्ताः क्षणात्सिराः||३६||
प्रस्पन्दिन्यश्च वातास्रं वहन्ते——————–|
—————————————————|३७|
तत्र-तासु सिरासु मध्ये, श्यावारुणा वर्णेन याः सिरास्ता वातास्रं-वातरक्तं, वहन्ते| तथा सूक्ष्माः| तथा पूर्णरिक्ताः वायोश्चलत्वात् क्षणात्पूर्णाः क्षणाद्रिक्ताः-शून्या एव| तथा प्रस्पन्दिन्यः| किल स्पन्दनं सर्वासां विद्यते, प्रकर्षेण तु वातरक्तवाहिनीनामिति प्रशब्देन द्योत्यते|
———————————-पित्तशोणितम्|
स्पर्शोष्णाः शीघ्रवाहिन्यो नीलपीताः————-|३७|
सिराः पित्तशोणितं वहन्ते| किंविधाः ? स्पर्शोष्णाःस्पर्शेनोष्णाः, न शीताः| तथा, शीघ्रवाहिन्यः| तथा, नीलपीता वर्णेन|
———————————————|
———————————कफं पुनः||३७||
गौर्यः स्निग्धाः स्थिराः शीताः————-|
———————————————|३८|
कफं पुनर्गौर्यो वहन्ते| तथा स्निग्धादिविशेषणाः| कफमिति कफशोणितम्, शोणितशब्दलोपात्| स्निग्धाः-स्निग्धच्छायाः| तथा, स्थिराः-न तु चपलाः| तथा, शीताः स्पर्शेन|
——————-संसृष्टं लिङ्गसङ्करे|
———————————————|३८|
लिङ्गसङ्करे-यथा निर्दिष्टस्य लक्षणस्य सङ्कीर्णत्वे, संसृष्टं-कपावातजुष्टं वातपित्तजुष्टं कफपित्तजुष्टं त्रिभिरपि दोशैर्जुष्टं, रक्तं सिरा वहन्ति-सकलं शरीरं प्रापयन्ति|
———————————————|
गूढाः समस्थिताः स्निग्धा रोहिण्यः शुद्धशोणितम्||३८||
गूढाः-अन्तर्गताः, तथा समं कृत्वा स्थिताः-समस्थिताः, तथा स्निग्धाः-स्निग्धच्छायाः, रोहिण्यः-सिरापरसंज्ञा लोहिताभासा वा प्रसरणशीला वा, शुद्धशोणितं देहेऽस्मिन् वहन्ति|
धमन्यो नाभिसम्बद्धा विंशतिश्चतुरुत्तरा|
ताभिः परिवृता नाभिश्चक्रनाभिरिवारकैः||३९||
ताभिश्चोर्ध्वमधस्तिर्यग्देहोऽयमनुगृह्यते|
———————————————|४०|
धमन्यो नाभिसम्बद्धा विंशतिश्चतुरुत्तरा-चतुर्विंशतिरित्यर्थः| ताभिः-धमनीभिः, नाभिः परिवृता-परिवेष्टिता| कथम् ? चक्रनाभिरिवारकैः,-यथा रथाङ्गस्य मध्यमभागो नाभिशब्दवाच्योऽरकैः परिव्रियते तद्वन्नाभिः-शरीरमध्यभागो, धमनीभिः| ध्मानाद्धमन्यः स्रोतोविशेषा उच्यन्ते| ताभिः धमनीभिः, अयं देह ऊर्ध्वमधस्तिर्यक् चानुगृह्यते-रसादिप्रापणकर्मणा ताः कायस्यानुग्रहं कुर्वन्ति| ताभिरयं देह आय्यायते, आराम इव जलहारिणीभिः केदार इव कुल्याभिः| सङ्ग्रहे चोक्तम् (शा. अ.६)-“तासां खलु धमनीनां मध्याद्दश धमन्य ऊर्ध्वं प्रसृता दशाधः प्रसृतास्तिर्यक् चतस्रः| ताभिर्यथास्वमङ्गावयवा ऊर्ध्वाधस्तिर्यक् समाश्रिता धार्यन्ते आप्याय्यन्ते च| तासामूर्ध्वगा हृदयमभिप्रपन्नाः प्रत्येकं त्रिधा जायन्ते| एवं तास्त्रिंशत्| त्रिंशतो मध्याद्वे द्वे वातपित्तकफरक्तरसान् वहतः| एवं दश| द्वे द्वे शब्दरूपरसगन्धान् गृह्णीतः| एवमष्टाभिः शब्दरूपरसगन्धा गृह्यन्ते| द्वाभ्यां द्वाभ्यां भाषते घोषं करोति स्वपिति प्रतिबुध्यते च| एवमष्टौ द्वे चाश्रु वहतः| तथैव द्वे स्तनाश्रिते नार्याः स्तन्यं नरस्य शुक्रम्| अधोगमाः पक्वाशयस्था दश त्रिधा जायन्ते| एवं ता अपि त्रिंशत्| तत्राद्याः पूर्ववद्दश द्वे द्वे वातपित्तकफरक्तरसान् वहतः| द्वे वहतोऽन्नमन्त्राश्रयेण, द्वे तोयं द्वे मूत्रम्| द्वे शुक्रं वहतो द्वे च मुञ्चतः| त एव नारीणामार्तवं वहतः| द्वे वर्चोनिरसन्यौ स्थूलान्त्रप्रतिबद्धे| एवं द्वादश| शेषास्त्वष्टौ धमन्यस्तिरश्चीनाः स्वेदमभिवर्द्धयन्ति| तिर्यग्गामिन्यस्तु चतुस्रो भिद्यमानाः सुबहुधा भवन्ति|” इति|
इदानीम् स्त्रीपुरुषाणां दृश्यानि स्रोतांसि निरुपयितुमाह—-
————————————————|
स्रोतांसि नासिके कर्णौ नेत्रे पाय्वास्यमेहनम्||४०||
स्तनौ रक्तपथश्चेति नारीणामधिकंत्रयम्|
—————————————————|४१|
स्रोतांसि पुंसां नव,-द्वौ नासापुटौ, द्वौ कर्णौ, द्वे नेत्रे, पायुः- गुदम्, आस्यं-मुखम्, मेहनं-मूत्रनिष्क्रमणद्वारम्| स्त्रीणामेतानि तथाऽन्यानि त्रीणि,-द्बौ स्तनौ, तथैको रक्तपथो-रक्तमार्गः, प्रतिमासं यतो योनौ रक्तं प्रवर्तते| तदेवं स्त्रीणां त्रीणिस्रोतांसि पुंभ्योऽधिकानि|
एवं स्रोतांसि दृश्यान्यभिधाय शरीरे यान्यदृश्यानि स्रोतांसि तान्याह-
—————————————————|
जीवितायतनान्यन्तः स्रोतांस्याहुस्त्रयोदश||४१||
प्राणधातुमलाब्भोन्नवाहीनि————————–|
—————————————————|४२|
अन्तः-शरीराभ्यन्तरे, त्रयोदश स्रोतांसि वदन्ति| ‘ आचार्याः’ इति शेषः| तानि च स्रोतांसि जीवितायतनानि-विशेषेण जीवितस्याधिष्ठानानि| किम्भूतानि ? प्राणधातुमलम्भोन्नवाहीनि| प्राणाख्यं वातं वहन्ति यानि तानि-प्राणवाहीनि| धातुवाहीनि-रसादिधातुन् यनि वहन्ति| मलवाहीनि-मूत्रशकृत्स्वेदान् यानि वहन्ति| तथा, अम्भोवाहीनि-उदकवाहीनि| तथा, अन्नवाहीनि-अन्नमभ्यवहृतं यानि वहन्ति| एवं त्रयोदश| सङ्ग्रहे चोक्तम् (शा.अ.६)-“तत्र प्राणवाहिनां हृदयं मूलं महास्रोतश्च| तानि क्षयरौक्ष्यपिपासाक्षुद्व्यायामवेगविधारणादिभिर्दुष्यन्ति| ततोऽतिसृष्टं प्रतिबद्धं कुपितमल्पाल्पमभीक्ष्णं वा सशब्दशूलमुच्छ्वसनं कुर्वन्ति| तत्र श्वासवत्साधनम्| उदकवाहिनां तालु मूलं क्लोम च| तान्यामभयातिपानोष्णशुष्कान्नतृड्विग्रहादिभिर्दुष्यन्ति| ततोऽतितृष्णा मुखशोषः कर्णक्ष्वेडनं तमोदर्शनं च| तत्र तृष्णोक्तमौषधम्| अन्नवाहिनामामाशयो मूलं वामपार्श्वं च| तेषां दुष्टौ सर्वं मात्राशितीयोक्तमवगध्च्छेत्| रसवाहिनां हृदयं मूलं दश धमन्यश्च| रक्तवाहिनां यकृत् प्लीहा च| मांसवाहिनां स्नावानित्वक् च| मेदोवाहिनां वृक्कौ मांसं च| अस्थिवाहिनां जघनं मेदश्च| मज्जवाहिनां पर्वाण्यस्थीनि च| शुक्रवाहिनां स्तहौ मुष्कौ मज्जा च| मूत्रवाहिनां बस्तिर्वङ्क्षणौ च| शकृद्वाहिनां पक्वाशयः स्थूलान्त्रं च| स्वेदवाहिनां मेदो रोमकूपाश्च| स्रोतसामेव विशेषाः सिरा धमन्यः| अपरे त्वन्यत्वमिच्छन्ति सिराधमनीस्रोतसाम्| सरणात् सिराः| ध्मानाद्धमह्यः| स्रवणात्स्रोतांसि| केवलं परस्परसन्निकर्षात् सद्दृशकर्मत्वात् सौक्ष्म्याच्च विभक्तकर्मणामप्यविभाग इव लक्ष्यते| अन्ये पुनरेवमाचक्षते| स्रोतांसि सिरा धमन्यो रसायन्यो वाहिन्यो नाड्यः पन्थानोऽयनानि मार्गाः शरीरच्छिद्राणि संवृतानि स्थानान्याशया क्षया निकेताश्चेति शरीरे धात्ववकाशानां लक्ष्यालक्ष्याणं पर्ययेण नामानीति|” इति|
———————————–अहितसेवनात्|
तानि दुष्टानि रोगाय, विशुद्धानि सुखाय च||४२||
अहितानामाहारविहारादीनां सेवनात्-शीलनात्, तानि,-स्रोतांसि, दुष्टानि रोगाय सम्पद्यन्ते| तेषां विज्ञानार्थं दोषादिविज्ञानीयोक्तमवगच्छेत्| विशुद्धानि-अदुष्टानि स्रोतांसि, सुखाय आरोग्याय, सम्पद्यन्ते|
स्वधातुसमवर्णानि वृत्तस्थूलान्यणूनि च|
स्रोतांसि दीर्घाण्याकृत्या प्रतानसद्दृशानि च||४३||
स्वो धातुः स्वधातुः,-यो यो यस्य यस्य स्रोतस आधारस्याधेयत्वेन स्थितो धातुः, तेन तेन स्वधातुना समः-समानो, वर्णो येषां स्रोतसां तानि स्वधातुसमवर्णानि| यथा,-रसधातुतुल्यवर्णानि रसवाहिस्रोतांसि, यावच्छुक्रधातुसद्दृशवर्णानि शुक्रवाहिस्रोतांसि| तथा, सर्वस्रोतसां मध्ये कानिचिद्दृत्तानि-वर्तुलानि, कानिचित्स्थूलानि, कानिचिदणूनि-सुक्ष्माणि स्रोतांसि| तथा, आकृत्या-संस्थानेन, दीर्घाणि सर्वाण्येव| तथा, प्रतान सदृशानि-पत्ररेखातुल्यानि| पत्ररेखातुल्यरुपत्वेन शाखा प्रशाखतयाऽनेकधा दूरं प्रविसृतानीति गमयति|
यतश्चाहिताहारविहारसेवनं स्रोतोदुष्टिकारणम्, अतस्तानि तद्दुष्टिकारणानि वक्ति —-
आहारश्च विहारश्च यः स्याद्दोषगुणैः समः|
धातुभिर्विगुणो यश्च स्रोतसां स प्रदूषकः||४४||
आहारः-पानाशनादिलक्षणः, दोषगुणैः-वातपित्तश्लेष्मगुणैरौक्ष्यादिभिः यः समः-तुल्यः समानगुणः, स स्रोतसां प्रदूषकः| विहारोऽपि-यो वाग्देहमनश्चेष्टालक्षणः, सोऽपि दोषगुणैः समानगुणो यथायथं स्रोतसां प्रदूषकः| यश्चाहारस्तथाविहारो धातुभिः-रसादिभिः, विगुणो-विरुद्धगुणो रससमानगुणर्विपरीतगुणः, स यथायथमेव स्रोतसां प्रदूषकः|
स्रोतासां दुष्टिः कथं ज्ञायते ? इत्याह —-
अतिप्रवृत्तिः सङ्गो वा सिराणां ग्रन्थयोऽपि वा|
विमार्गतो वा गमनं स्रोतसां दुष्टिलक्षणम्||४५||
अतिशयेन प्रवृत्तिः, यथा-मूत्रवाहिस्रोतसां प्रमेहवद्बहुमूत्रता| सङ्गः-अप्रवृत्तिः, किञ्चिद्वा प्रवृत्तिर्मूत्रकृच्छ्रवत्| शकृद्वाहिनां स्रोतसामतीसारवत्पुरीषातिसरणं-अतिप्रवृत्तिः| सङ्गः स्तोकं स्तोकं कृत्वापुरीषस्य प्रवृत्तिः, अथवा सर्वसर्विकयोदावर्तवत्पुरीषस्याप्रवृत्तिः| एवं मूत्रवाहिस्रोतसां मूत्रातिप्रवृत्त्य प्रवृत्ती तत्स्रोतोदुष्टेर्लक्षणम्| तथैव पुरीषवाहिनां पुरीषाति प्रवृत्त्यप्रवृत्ती पुरीशवाहिस्रोदुष्टेर्लक्षणम्| एवमन्येषामपि स्रोतसां यथायथं वस्तुवाहिनां यथास्वं वस्त्वतिप्रवृत्त्यप्रवृत्ती तेषां दुष्टेर्लक्षणम्| अथवा सिराणां-स्रोतसां, ग्रन्थयः-कुटिलभावत्वं, दुष्टेर्लक्षणम्| विमार्गतो वेति| अथवा स्वं मार्गमुज्झित्वा मार्गान्तरासादनं स्रोतसां दुष्टेर्लक्षणम्|
बिसानामिव सूक्ष्माणि दूरं प्रविसृतानि च|
द्वाराणि स्रोतसां देहे रसो यैरुपचीयते||४६||
बिसानां-मृणालानां, यथा सूक्ष्माणि द्वाराणि-छिद्राणि, दूरं प्रविसृतानि-सकलं बिसं गतानि, तथैव स्रोतसां द्वाराणि मुखानि, सूक्ष्माणि देहे दूरं प्रविसृतानि-कृत्स्नं देहं प्रकर्षेण गतानि| यैः-द्वारैच्छिद्रैः, देहे-शरीरे, अभ्यवहृतस्याहारस्य कायाग्निना पच्यमानस्य प्रसादभावो यः समुद्भवति स रसः प्रसादाख्य उपचीयते-वृद्धिं नीयते|
व्यधे तु स्रोतसां मोहकम्पाध्मानवमिज्वराः|
प्रलापशूलविण्मूत्ररोधा मरणमेव वा||४७||
स्रोतोविद्धमतो वैद्यः प्रत्याख्याय प्रसाधयेत्|
उद्धृत्य शल्यं यत्नेन सद्यःक्षतविधानतः||४८||
स्रोतसां तु व्यधे-ताडने सति, मोहादयो भवन्ति| मोहादीनामतिरेतरद्वन्द्वः प्रलापादीनां च| विण्मूत्रयो रोधेन सम्बन्धः| अथवा मरणमेव भवति| अतः-अस्माज्जीवित संशयाद्धेतोः, वैद्यः प्रत्याख्याय-“अक्रियायां ध्रुवो मृत्युः” (हृ.चि. अ.११/४४) इत्याद्युक्त्वा, शल्यमुद्धृत्य-बहिर्निष्कास्य, प्रसाधयेत्| कथम् ? यत्नेन-नावहेलया| केन प्रसाधयेत् ? सद्यःक्षतविधानतः-सद्योव्रणप्रतिषेदोक्तविधिना|
अन्नस्य पक्ता पित्तं तु पाचकाख्यं पुरेरितम्|
दोषधातुमलादीनामूष्मेत्यात्रेयशासनम्||४९||
तुरवधारणे| अनेकविधस्याहारस्याभ्यवहृतस्य पित्तमेव पक्ता| किम्भूतं पित्तम् ? पाचकाख्यं पुरेरितं,-पूर्वं दोषभेदीयेऽध्याय उक्तम्| यथा (हृ.सू. अ.१२/१०)-“पक्वामाशयमध्यगम्” इत्यारभ्य यावत् “पाचकं नाम तत्स्मृतम्|” इति| तदीद्दृश पित्तमाहारं पाचयतीति धन्वन्तरिमतम्| दोषधात्विति| ओत्रेयस्य-अत्रिपुत्रस्य, शासनं-आज्ञा, इति-एवं, दोषादीनामूष्माऽग्निरिति| दोषाः-वातादयः, धातवो-रसादयः, मलाः-मूत्रपुरीषस्वेदाः, आदिशब्देन दूषिकादयः| तेषां दोषादीनां सम्बन्धी ऊष्मा-अग्निः, यः स एवान्नस्य पक्ता, न तु पित्तं पाचकाख्यमिति|
तदधिष्ठानमन्नस्य ग्रहणाद्ग्रहणी मता|
सैव धन्वन्तरिमते कला पित्तधराह्वया||५०||
आयूरारोग्यवीर्यौजोभूतधात्वग्निपुष्टये|
स्थिता पक्वाशयद्वारि भुक्तमार्गार्गलेव सा||५१||
भुक्तमामाशये रुध्वा सा विपाच्य नयत्यधः|
बलवत्यबला त्वन्नमाममेव विमुञ्चति||५२||
भुक्तं-अभ्यवहृतमन्नं, आमाशये-आमान्नस्थाने यत्राममन्नं तत्र, सा-ग्रहणी, रुद्ध्वा-अवष्टभ्य, अधो नयति| किं कृत्वा ? पिपाच्य,-विविधैः प्रकारैः पाचयित्वा| बलवतीति| बलवती भुक्तं विपाच्याधो नयति| अबला पुनः सती सा आममेव-अपक्वमेव विमुञ्चति| ननु, जाठाराग्निरन्नं ग्रहणीस्थं पचति, न ग्रहणी| ततश्च कथमुक्तम् ? “सा विपाच्य नयत्यधः” इति| अत्रोच्यते| अग्निग्रहण्योराधाराधेयभावेन स्थितत्वाद्युज्यत एवैतद्वक्तुम्| ग्रहणी ह्यग्नेराधारः| तथा च प्रागुक्तम् (श्लो.५०)-“कला पित्तधराह्वया” इति| पित्तं च वह्निः| तथा चाधुनैव वक्ष्यति (श्लो.९०)-“पित्तं वह्निः” इत्यादि| तदेवं वह्नयाधारा या कला साऽन्नग्रहणाद्ग्रहणीत्युच्यते| ततश्चाधारतया ग्रहणीमाश्रित्याग्निः पाककरणसमर्थो भवति, नाधारमन्तरेण केवल एव| तदेवमग्न्याधारस्य ग्रहण्याख्यस्य पाकनिर्वर्तनं प्रति कर्तृत्वं युक्तमेवेति| अतः “सा विपाच्य नयत्यधः” इत्येतदुपपन्नमेव|
अग्निग्रहण्योराधाराधेयभावतयाऽवस्थानात् परस्परबलाधानेनोपकर्योपकारकभावः सम्भाव्यत इत्याह —-
ग्रहण्या बलमग्निर्हि स चापि ग्रहणीबलः|
दूषितेऽग्नावतो दुष्टा ग्रहणी रोगकारिणी||५३||
हि यस्मादर्थे| यस्माद्ग्रहण्या यद्बलं-सामर्थ्यं, तस्य हेतुरग्निः| अग्नितो ग्रहण्या बलमुत्पद्यते| स चाप्यग्निर्ग्रहणीबलः, ग्रहणी बलं यस्याग्नेः स एवम्| अपिशब्दान्न केवलमग्निर्ग्रहण्या बलम्, ग्रहण्यप्यर्ग्नेर्बलम्| अतो हेतोर्दूषितेऽग्नौ दुष्टाग्रहणी रोगकारिणी सम्पद्यते| एवं चार्थाद् ग्रहण्यामपि दुष्टायामग्निर्दुष्यति| दुष्टश्च सोऽपि रोगकारी सम्पद्यते| एवं या पित्तधरा कला साऽदुष्टा सत्यायुरादीनां पुष्टये भवतीत्युक्तम्| अन्नग्रहणाद्भहण्या एवंरूपता|
तच्चान्नं विपक्वमेव देहधात्वादिपोषणम्, नापक्वम्|
तस्य चान्नपाकस्य हेतुरग्निः, अत आह—-
यदन्नं देहधात्वोजोबलवर्णादिपोषणम्|
तत्राग्निर्हेतुराहारान्न ह्यपक्वाद्रसादयः||५४||
यदन्नं-आहारो, देहधात्वादिपोषणं भवति, तत्राग्निर्हेतुः| कुतः ? इत्याह-न हीत्यादि| हि-यस्मात्, अपक्वादाहाराद्रसरुधिरादयो न सम्भवन्ति| अतो देहधात्वादिपोषणे सर्वत्राग्निः कारणम्, पाकक्रियानिर्वर्तनात्| तदेवमन्वयव्यतिरेकाभ्यामवगम्यते, अन्नं देहधात्वादिहेतुरग्निप्रभावादेव, तस्मादग्निः पाककारणम्, पक्वमन्नं देहादिपोषणम्| इति परस्परकारण्त्वमनयोः|
“न ह्यपक्वाद्रसादयः” इत्युक्तम्|
अतः पाकस्यैवेतिकर्तव्यतां निरुपयन्नाह—-
अन्नं कालेऽभ्यवहृतं कोष्ठं प्राणानिलाहृतम्|
द्रवैर्विभिन्नसङ्घातं नीतं स्नेहेन मार्द्वम्||५५||
सन्धुक्षितः समानेन पचत्यामाशयस्थितम्|
औदर्योऽग्निर्यथा बाह्यः स्थालीस्थं तोयतण्डुलम्||५६||
काले-“प्रसृष्टे विण्मूत्रे” (हृ.सू. अ.८/५५) इत्यादिना ग्रन्थेन प्राङ्निरूपिते| अन्नमभ्यवहृतं कोष्ठं-हृदयाद्यङ्गनिबन्धनं स्थानं, प्रणाख्येन वायुनाऽऽहृतं-आनीतम्| “ष्ठीवनक्षवथूद्गार” (हृ.सू.अ.१२/५) इत्यादिनैव प्राणानिलाहृतत्वे लब्धे पुनरुक्तं स्पष्टार्थम्| तच्च द्रवैः-द्रवगुणोपलक्षितैस्तोयव्यञ्जनमद्यक्षीरादिभिः, विभिन्नसङ्घातं-अपनीतपिण्डितभावम्| तथा, स्नेहेन-घृतादिना, मृदुत्वं प्रापितम्| तथा, आमाशयस्थितमग्निः पचति| “नाभिस्तनान्तरं जन्तोरामाशय इति स्मृतः|” इति व्याख्यात आमाशयस्तन्त्रान्तरे (चरके वि. अ. २/२३)| किम्भूतोऽग्निः ? औदर्यो-जठरभवः| तथा समानाख्येन वायुना सन्धुक्षितः-उद्दीपतः| कालग्रहणस्योपलक्षणार्थत्वान्मात्रादिसहायेन जाठराग्निना समनोद्दीपितेन पक्वमन्नं देहधात्वादिपोषणम्| ननु, औदर्योऽग्निरदृश्यत्वान्न ज्ञायते कथं पचति ? अतस्तदर्थं बाह्यं दृष्टान्तं निरुपयितुं ग्रन्थकृदाह यथेत्यादि| यथा बाह्योऽग्निः स्थालीस्थं तोयतण्डुलं पचति| तोयं च तण्डुलाश्च तोयतण्डुलम्, द्वन्द्वैकवद्भावः| तथैवासावौदर्योऽग्निः सन्धुक्षितः समानेनामाशयस्थितं चतुर्विधमन्नं-अशितपीतलीढखादितभेदभिन्नं, प्राणानिलाहृतं पचति| ननु, दोषभेदीयेऽध्याये पूर्वमुक्तम् (हृ.सू.अ. १२/४)-“प्राणोऽत्र मूर्धगः| इत्यारभ्य यावत् “निश्वासान्नप्रवेशकृत्|” इति| अन्नस्य प्रवेशं-आहरणं, करोतीत्यन्नप्रवेशकृत्| प्राणानिला हृतमित्यनेनाप्ययमर्थः प्रत्यपादि| तत्किमेतेन ? अत्रोच्यते| अन्नप्रवेशकृदित्यनेनान्नप्रवेशकरणमात्रमुक्तम्, न तु कोष्ठप्रापणमिति| प्राणस्य हि वार्योर्मूर्धाश्रितस्योरो यावत्संचार उक्तः, न ततोऽधः| एवमन्नप्रवेशकरणं तावत्प्राप्तं यावदुरः, न कोष्ठमिति| कोष्ठं प्राणानिलाहृतमित्यनेन तु कोष्ठप्रापणाख्योऽर्थविशेष उक्तः| इति द्वयमप्येतद्वक्तुं युक्तम्| [ ननु, ] ‘सन्धुक्षितः समानेन’ इति च न वाच्यम्| यतः प्रागुक्तम् (हृ.सू.अ.१२/८)-“समानोऽग्निसमीपस्थः कोष्ठे चरति सर्वतः|” इति| एवं जाठरेणाग्निना सहचरः समनो वायुः सन्धुक्षयतीत्यर्थोऽवतिष्ठते| तस्मात् “सन्धुक्षितः समानेन ” इत्यनेन नार्थः| उच्यते| अर्थविशेषसम्प्रत्ययार्थमेतदुक्तम्| तथा हि-“समानोऽग्निसमीपस्थः कोष्ठे चरति सर्वतः| अन्नं गृह्णाति पचति ” इति समानसयैव पाकक्रियां प्रति वह्निसन्धुक्षणद्वारेण कर्तृत्वमुक्तम्, नाग्नेः| इह पुनः सन्धुक्षितः समानेनाग्निः पचति, न समानो वायुः, इत्यपौनरुक्त्यमेव| यद्यपि चैकप्रत्ययजनितं न किञ्चिदस्ति, तथाऽप्यन्नपाकक्रियां प्रत्यग्नेरेव कर्तृत्वम्, न समानादेः| समानादयो ह्युपकारका एव| अतो युक्तमिदं ‘अग्निः पचति’ इति|
तस्यान्नस्येदानीमग्निसमीपस्थस्य या अवस्थास्ताः कथयन् पुनस्तमेव पाकं निर्दिशति—-
आदौ षड्रसमप्यन्नं मधुरीभूतमीरयेत्|
फेनीभूतं कफं, यातं विदाहादम्लतां ततः||५७||
पित्तमामाशयात्कुर्याच्यवमानं, च्युतं पुनः|
अग्निना शोषितं पक्वं पिण्डितं कटु मारुतम्||५८||
आदौ-प्रथमं, षड्रसमपि, अपिशब्दाद्वित्रादिरसमपि, अन्नं-अभ्यवहृतमशितपीतादिकं, तत्पच्यमानं मधुरीभुतं-अमधुरं मधुरं सम्पन्नं सत्, कफमीरयेत्| किम्भूतं कफम् ? फेनीभूतम्| पानीयादेरपि पच्यमानस्य प्रथमं फेनोत्पत्तिदर्शनादेवमुक्तम्| विदाहादिति| ततः-प्रथमावस्थातो माधुर्यप्रायाया अनन्तरं, मध्यमावस्थां प्राप्य जाठरेण वह्निना पक्वं षड्रसमप्यन्नमभ्यवहृतमम्लतां यातं-अनम्लमम्लं सम्पन्नं, पित्तं विदध्यात्| कस्मात्पुनरम्लतां याति ? इत्याह-विदाहात्| विरुद्धो विषमो वा दाहो-विदाहः| ततो विदाहाद्धेतोरम्लतां यातम्| किम्भूतमन्नम् ? आमाशयाच्च्यवमानं,-नामाशयस्थितमेव| च्युतंपुनः-तत आमशयात्पक्वाशयं प्राप्तं, जाठराग्निना पक्वं शोषितमन्नं, तथा पिण्डितं-तदानीम् पिण्डं सञ्जातं संहतं सम्पन्नं, तथा कटुकं जातं, अन्यां(न्त्यां) तृतीयामवस्थां प्राप्य मारुतं कुर्यादिति योज्यम्| एतच्च सर्वं स्वभवसिद्धं स्वसंवेद्यप्रायं कार्यानुमेयं च| अत एव रसषट्केऽपि यद्द्रव्याणां विपाकत्रैविध्यं मधुराम्लकटुकलक्षणमुक्तं, तदनया रीत्योपपन्नतरं भवति| तथा हि-षड्रसस्याप्यन्नस्य जाठराग्निना पच्यमानस्य रसत्रयोपलक्षितेन मधुराम्लकटुकस्वभावेनावस्थात्रयेण परिणामो भवति| अथ (ननु,) अन्नमित्यत्र कस्मात् “अदो जग्धिर्ल्यप्तिकिति” इति जग्ध्यादेशो न भवति ?| ब्रूमः| अन्न इति निपातनात् “बहुलं छन्दसि” इति बहुलवचनाद्वा जग्ध्यादेशाभावः| ननु, विदाहादम्लतां गतमिति सामान्येनोक्तम युक्तमिवाभाति| यतो द्राक्षेक्षुशर्करादीनामविदाहित्वं श्रूयते| अपि च विदाहादीनि च वर्जयेदिति तन्त्रकारः (हृ.सू.अ. ८/३२) पठति| अनया च रीत्या अवदाहिद्रव्याभाव एव स्यात्| तस्मात्सामान्येन विदाहित्वमभ्युपगम्यमानमन्याय्यमिव मन्यामहे| उच्यते| विदाहस्य द्वैविध्याददोषः| इह हि द्विविधो विदाहः प्रथितो दोषस्थानकृतो द्रव्यकृतश्च| तत्र हि दोषस्थानकृतस्य ग्रहणम्| [ननु,] आमाशयाच्युतमग्निना पक्वमिति कथमुक्तम् ? यतः पक्वाशयस्थस्याग्निना पाकोऽनुपपन्नः| दूरव्यवधानो ह्यग्निरामाशयस्थः| तस्मात्पक्वाशयस्थस्यान्नस्य पक्वत्वमनुपपन्नम्| अत्रोच्यते| पक्वाशयेऽप्यस्ति पाकः, तन्त्रकारवचनात्| तथा हि प्राग्बस्तिविधावभ्यधात् (हृ.सू.अ.१९/३४)-“यथा वा स्नेहपक्तिः स्यादतोऽत्युल्बणमारुतान्| व्यायामनित्यान् दीप्ताग्नीन्” इत्यादि| तदेवं पक्वाशयस्थस्याप्यनुवासनस्य स्नेहपाकोऽभिहितः| तथा पक्वाशयेऽप्यग्निना पक्वस्य पुनः पाको युक्त एव| तन्त्रान्तरेषु मांसादीनामपि विक्लेददर्शनादन्यत्रापि पाकोऽनुज्ञात एव|
जाठरस्याग्नेः कर्माभिधाय, इदानीमन्येषामप्यग्नीनां कर्माभिधातुमाह —-
भौमाप्याग्नेयवायव्याः पञ्चोष्माणः सनाभसाः|
पञ्चाहारगुणान्स्वान् स्वान् पार्थिवादीन् पचन्त्यनु||५९||
भूमेरयं भौमः| आप्य इति चिन्त्यम्| आग्नेय इति “अग्रेर्ढक्” इति ढक्| वायव्य इति “साऽस्य देवता” इत्यर्थे “वाय्वृतुपित्रुषसो यत्” इति यत्| तदत्रौपम्यर्थो बोध्यः, वायव्य इव वायव्य इति| के पुनस्ते ? इत्याह-पञ्चोष्माण इति| किम्भूताः ? सनभसाः| सह नाभसेनोष्मणा पञ्चोष्माणःपञ्चाग्नयः| भौम ऊष्मा यावन्नाभस ऊष्मेति| तदेतेऽग्नयः पञ्चाहारगुणान् अनु-पश्चात्, पचन्ति| कुतोऽनु ? प्रकृतत्वा दौदार्याग्निनिर्वर्तितादन्नपाकात्| किम्भूतानाहारगुणान् ? स्वान्खान् पार्थिवादीन्| यो यस्य माहाभुतोष्मणः पार्थिवादेरात्मीयो गुणः, तं गुणं स एव पार्थिवाद्यूष्मा पचति|
अनया चोक्त्या आहारः शरीरगतानां भावानां समानगुणानां गुणद्वारेण वर्द्धनहेतुः,विपरीत गुणानां च क्षयहेतुः इति प्रतिपादयति —-
यथास्वं ते च पुष्णन्ति पक्वा भूतगुणान् पृथक्|
पार्थिवाः पार्थिवानेव शेषाः शेषांश्च देहगान्||६०||
ते च-गुणाः, पञ्चमहाभूताश्रिताः| यथास्वं ये येषां महाभूतानामात्मीया गुणाः, ते यथास्वमात्मीयेन वह्निना पक्वा आत्मीयानेव देहस्थान् महाभूतगुणान् पुष्णन्ति| कथं पुष्णन्ति ? इत्याह-पृथक्,-प्रत्येकं कृत्वा, नैकं सर्वे, न सर्वानेकः|
तामेव प्रत्येकं भूतगुणपुष्टिं पञ्चोष्मपक्वाहारगुणकृतां स्पष्टी कुर्वन्नाह-
पार्थिवा महाभूतगुणाः पार्थिवानेव महाभूतगुणान् देहगान् पुष्णन्ति-वृद्धिं नयन्ति| शेषाः-पार्थिवगुणेभ्यो येऽन्ये महाभूतगुणा आप्यास्तैजसा वायव्या नाभसाश्च, ते शेषान् पार्थिवगुणव्यतिरिक्तानाप्यादिमहाभूतगुणान्, पुष्णन्ति-आप्याययन्ति| गुणानां च निराधाराणामसम्भवात् सहाधारेण पृथिव्यादिना महाभूतेन सह पक्वा एते महाभूतगुणास्तथाविधानेव महाभूतगुणान् पुष्णन्तीति सामर्थ्यलभ्योऽर्थः| अत्र चोदयन्ति| ननु, पृथिव्यादिमहाभूतचतुष्टयव्यतिरिक्तस्योद्देशमात्रत्वादाकाशस्य सत्तैव दुर्घटा| कुतः पुनस्तस्योष्मणः सम्भवः ? इति| अत्रोच्यते| आकाशस्य सत्ता तावत् द्रव्यनिर्णयप्रस्ताव प्राक् (हृ.सू. अ.९/१) प्रतिपादितैव| तथा नासिकाश्रोत्रास्यादिषु सुषिरेषु स्थानेषु स्थित ऊष्मा दाहपाकादीन् कुर्वन् नाभस ऊष्मेत्युपचर्यते| इत्यौपचारिक ऊष्माऽप्यस्योपपन्न एव| एवं पञ्च भौतिका अग्नय एते, एक उदराग्निः, सप्त च धात्वग्नयो वक्ष्यमाणाः, इति त्रयोदशाग्नयः| ननु, पार्थिवाद्यूष्मभिः पक्वस्य पुनर्धातूष्मभिः पाककाले धातूनामपि पाञ्चभौतिकत्वात्तत्रापि पार्थिवाद्यूष्मभावः| तैश्च पार्थिवाद्यूष्मभिः पुनः पाकः, इत्येवमष्टादश प्राप्नुवन्ति| सत्यमेवतत्| किन्तु त एव पञ्चोष्माणः पार्थिवादयः स्थानन्तरप्राप्ता धातूष्माण इति व्यपदेश मासादयन्ति| यथा-उदकं स्थानान्तरगतं लसीकादिव्यपदेशं लभते| तथा चोक्तम्-“तच्छरीरगतं लसीकादिव्यपदेशं प्राप्नोति|” इति| अन्ये त्वेवमाहुः-एते त्रयोदशाग्नयः, तथा सप्तसु सिराशतेषु सप्ताग्निशतानि, पञ्चसु मांसपेशी शतषु च पञ्चाग्निशतानि “| इति| एवं पञ्चमहाभूतात्मकादाहाराद्यथास्वमग्निना पक्वाद्रस आहारसारः| तत्रस्थैर्महाभूतगुणैर्देहगा महाभूतगुणा रसधात्वाश्रिता यथास्वमभिवर्द्धन्ते|
किट्टं सारश्च तत्पक्वमन्नं सम्भवति द्विधा|
————————————————-|६१|
तदन्नं पक्वं द्विधा सम्भवति-द्विप्रकारं जायते, किट्टरूपप्रसादरूपतया|
किट्टमपि यदेतन्नस्य पक्वस्य, तदप्यच्छानच्छभेदेन द्विधेत्याह—-
————————————————|
तत्राच्छं किट्टमन्नस्य मूत्रं विद्याद्धनं शकृत्||६१||
तत्र-तयोरच्छानच्छभेदभिन्नयोः किट्टयार्मध्यात्, यदच्छमन्नस्य किट्टं तन्मूत्रं विद्यात्| यद् घनं-संहतं, अन्नस्य किट्टं तत् शकृत्-पुरीषं, जानीयात्|
सारस्तु सप्तभिर्भूयो यथास्वं पच्यतेऽग्निभिः|
—————————————————|६२|
सारः पुनः-प्रसादाख्यो भागो, भूयः सप्तभिरग्निभिः पच्यते| उदराग्निना पञ्चभिश्च भूताग्निभिः पूर्वं पक्वः सन् पाश्चात्सारीभूतो धातूष्मभिः पच्यत इति प्रतिपादनर्थं भूयो ग्रहणम्| कथं पच्यते ? यथास्वं,-यस्य सारस्य रसादिसप्त धातुस्थस्य योऽग्निः स आत्मियः, तेन तेन स स सारः पच्यत इत्यर्थः| रसधातुस्थः सारो रसधात्वग्निना पच्यत इति भावः| चतुर्विधोऽप्याहाराऽभ्यवहृतो जठराग्निना भूतसहायेन पक्वः किट्टसारतां याति| ततो यः सारः प्रसादाख्यः स पूर्वं हृदयं याति| ततो हृदयान्तःस्थेन व्यानेन विक्षिप्तस्तत्स्थाभिः सिराभिर्दशभिर्मूलभूताभिः कृत्स्नं शरीरमुह्यमानो रसधातुना सहैकतां प्राप्तो रसधात्वशयस्थेन वह्निना भूताग्निसहायेन पच्यमानो रक्तधातुसारतया परिणमिति| रक्तधातुसारतया परिणतो मांसधातुसारतया परिणमति| यावत्स एवाहाररसः क्रमेण गर्भतया परिणमितीति|
अमुमर्थं द्योतयितुमुवाच—-
————————————————|
रसाद्रक्तं ततो मांसं मांसान्मेदस्ततोऽस्थि च||६२||
अस्थ्नो मज्जा ततः शुक्रं शुक्राद्गर्भः प्रजायते|
—————————————————|६३|
रसात्-धातुरसादाहाररसेन सहैकतामापन्नात्, रक्तं प्रजायते-स धातुरसस्तथाभूतो रक्ततया सम्पद्यते| तावद्यावत्स एव गर्भत्वेनेति योज्यम्| अत्र चोदयन्ति| ननु, यद्याहाररसो व्यानविक्षिप्तो रसधातुना सहैकतां परिणमन् क्रमेण रक्तादीन् भावान् गर्भावसानान् परिणमति| तर्हि कथमुक्तं “सारस्तु सप्तभिर्भूयो यथास्वं पच्यतेऽग्निभिः|” इति ? अत्रोच्यते| कार्ये कारणोपचारदेतदुक्तमित्यवेहि| सारकार्येषु रसरक्तादिषु सप्तभिर्धात्वग्निभिः पच्यमानेषु “सारस्तु सप्तभिर्भूयो यथास्वं पच्यतेऽग्निभिः|” इत्युक्तम्| तस्माद्रसादिधातव एव साराख्यान्मूलकारणादुत्थिताः परमार्थेन पच्यन्त इति बोध्यम्| ननु, यदि क्रमेणाहाररसाद्रसो रसाद्रक्तं रक्तान्माम्समित्यादिक्रम आश्रीयते, तत्कथमुक्तं (श्लो.६८)-“व्यानेन रसधातुर्हि विक्षेपोचित कर्मणा|” इति? अत्र हि युगपदिति च निर्दिश्यते| युगपत्-एककालं, व्यानेन रसो देहे विक्षिप्यते| विक्षिप्ताच्च रसात् सर्वधातूत्पत्तिरिति प्रत्यज्ञायि| इह च रसरक्तमांसादिक्रमेणाहाररसाद्धातुनिष्पत्तिरित्युच्यते| तदेतत् परस्परं विरुद्धमिव लक्ष्यते| ब्रूमः| युगपच्छब्दोऽत्र शीघ्रक्रमार्थः| तथा चोवाच साङ्ख्ये (सां.का. ३)- “युगपच्चतुष्टयस्य तु वृत्तिः क्रमशश्च तस्य निर्दिष्टा|” इति| अस्यार्थः-मनोबुद्ध्यहङ्कारास्त्रयश्चक्षुःश्रोत्रादीनां मध्यादन्यतम इत्येवं चतुष्टयमेतत्| अस्य च वृत्तेर्युगपन्निर्दिष्टा क्रमेण च| तत्र युगपद्वृत्तिरुत्पलपत्रशतसूचीभेदनन्यायेन| क्रमेण च वृत्तिर्यथा,-चक्षुरादि रूपादिकं पश्यति, मनस्तत्र संशेते, बुद्धिर्निश्चिनोति, अहं करोमीत्यहङ्कार उद्यमयति| तद्वदत्रापि युगपत्क्रमेण च विक्षेपो न विरुद्धः| अस्त्वेतत्| रसधातुरित्येतत्कथमुक्तम् ? यतो रसाख्यो धातुस्तेन न विक्षिप्यत, किन्तर्हि ? आहाररसः| अत एव धातुशब्दोपादानमनर्थकम्| ब्रूमः| धातुशब्द आधाराभिधेयत्वेनेहोपात्तो रसस्य देहधारणत्वं दर्शयितुम्| सर्वेषां हि धातूनां यद्देहधारणस्वभावत्वं तदाहाररसाप्यायितानामेषां, न त्वनाप्यायितानाम्| अतः स आहाररसो धातुनामाधारः उद्भवस्थानम्| यथा,-लोके हेमादीना य आधारः प्रतिनियता विशिष्टा मृत् स धातुसंज्ञया भण्यते| इयं मृद्धेमधातुरियं रजतधातुरिति| एवमाहाररसा व्यानेन विक्षिप्यत, न रसाख्यो धातुः, इति स्थितमेतत्| किञ्च, आहाररसादेककालं सप्तसुधातुस्रोतःसु प्रवेशिताद्रसरक्तादयो धातव उत्पद्यन्ते, इति यद्येष एककालधातुपोषणपक्ष आश्रीयते, तदानीमिदं विरुध्यते-“पूर्वो धातुः परं कुर्याद्वृद्धः क्षीणाश्च तद्विधम्|” (हृ.सू. अ. ११/३५) इति| यतः सर्वे धातव आहाररसेन युगपद्व्यानविक्षिप्तेन स्वे स्वे स्रोतस्यवतिष्ठमानाः स्वातन्त्र्येणाहाररसाप्यायिताः पुष्यन्ति, अनाप्यायिताः क्षयं यान्ति| तदेवं कथं पूर्वस्य धातोर्वृद्धौ परस्य वृद्धिः पूर्वस्य धातोः क्षये परस्य क्षयः स्यात् ? न हि कदाचिद्धटते मैत्रे तृप्ते चैत्रः सुहितः स्यात्, अतृप्ते वाऽसुहितः स्यात्| तथा स्थूलस्य मेद एवोपचीयत इति दृष्टम्| न च समं कृत्वा सप्तसु धातुस्रोतःसु विनिक्षिप्ते रसे मेदसोऽधिका वृद्धिः कथञ्चिदुपपद्यते| क्रमपरिणामपक्षे तु स्थूलस्याहाररसो रसधातुतया परिणमिति| रसधातू रक्ततया, रक्तधातुर्मांसतया, मांसधातुर्मेदस्तया परिणमति| मेदस आहारपूर्णस्य स आहाररसो मेदस्त्वं प्राप्तः पुनः प्रतिस्रोतोन्यायेन मांसस्य विशेषवतीम् वृद्धिं करोति, अनन्तरं रक्तस्य, अनन्तरं रसस्य| पुनश्च रसधातुरतिपूर्णो रक्तस्य वृद्धिं विधत्ते, रक्तधातुर्मांसस्य, मांसधातुर्मेदसः, इत्येवमतिस्थूलस्य मेदोवद्रसादयो मांसावसाना अप्युपचीयन्ते| अस्थ्यादयश्चास्थ्यादिस्रोतसां मेदसाऽऽवृतत्वान्न तथोपचीयन्ते| तस्मादाहाररसेन मेदोभावेन परिणमता उदकपरिपूर्णाभिनवमृत्कुम्भजललवस्यन्दनन्यायेनास्थ्यादयो धातवः केवलमाप्याय्यन्ते, न तु तथोपचीयन्ते| तथा च मुनिः (च. सू. अ. २१/४)- “स्थूलस्य मेद एवोपचीयते, न तथेतरे धातवः|” इति| अस्य ह्ययमर्थः,-मेदसो येऽन्येऽस्थ्यादयः शुक्रावसानस्ते न तथोपचीयन्ते, न पुनः पूर्वे रसादयो धातवः स्थूलस्य नोपचीयन्त इति| अत एवाह मुनिः (च. सू. अ.२१/९)- “मेदोमांसातिवृद्धत्वाच्चलस्फिगुदरस्तनः| अयथोपचयोत्साहो नरोऽतिस्थूल उच्यते||” इति| अपि च, यदि क्रमपरिणामपक्षो नोररीक्रियेत तदानीं गर्भस्य शुक्रधातुसारोत्पन्नस्य रसादयो मज्जावसाना धातवो न स्युः| कारणानुविधायीनि हि कार्याणि भवन्तीत्युक्तम्| क्रमपरिणामपक्षे पुनः शुक्रप्रसादस्य सर्वधातुप्रसादरूपतया परिणतत्वात् स शुक्रप्रसादो गर्भतया परिणमंस्तथारुप एव परिणमति| कारणानुरूपत्वात्कार्याणाम्| तथा च बीजकारणे वटधवप्ररोहादौ सकलान्यवश्यं तत्पदार्थजातानि तथारूपाण्यव्यक्तरूपतया तान्यवतिष्ठन्ते| यानि कार्यरूपतया परिणमन्ति, सर्वाण्यभिव्यक्तिं यान्ति कार्ये दृश्यन्ते| ननु, क्रमपरिणामपक्षे धातोर्धात्वन्तरोत्पत्तावाश्रीयमाणायां यो यो धातुर्धात्वन्तरभावेन देहे परिणमति| तस्य तस्य धातोर्धात्वन्तरभावेन परिणातत्वादभावः प्राप्नोति पूर्वस्य पूर्वस्य| ततश्च शुक्रप्रसादस्यैव देहे सद्भावः स्यात्, न रसादीनां धातूनाम्| तथा चैवमाहारविनिवृत्तावपि स्त्रीगमनसामर्थ्यं स्यात्, शुक्रस्य विद्यमानत्वात्| अत्रोच्यते| अनवच्छिन्नप्रवाहसन्तानक्रमेणांशांशिकतया धातूनां धात्वन्तरभावापत्तिः, न तुल्य कालं सर्वैरवयवैरुत्पत्तिः| इति कृत्वा यो यो धातुर्धात्वन्तरभावेन देहे परिणमति न तस्य तस्य धातोः पूर्वस्याभावः प्राप्नोति, सर्वैरवयवैरपरिणतत्वात्| तदेवं सर्वथा क्रमपरिणामपक्ष एवाश्रयितुं न्याय्यः| तथा चाष्टाङ्गसङ्ग्रहेऽप्यधीतम् (शा. अ. ६)- “तत्राहाररसो व्यानविक्षिप्तो यथास्वं सप्तसु धात्वग्निषु क्रमात्पच्यमानः स्वात्मभावप्रच्युतिसमनन्तरमेव प्राप्तरक्तादिसंज्ञः कालवदस्खलितप्रयाणो देहमूर्जयन्” इत्यादि| तथा चरकसंहितायां दृढबलोऽप्याह (चि. अ. १५/१४)- “रसाद्रक्तं ततो मासं मांसान्मेदस्ततोऽस्थि च| अस्थ्नो मज्जा ततः शुक्रं शुक्राद्गर्भः प्रसादजः|| इत्युक्तवन्तमाचार्यं शिष्यस्तिवदमचोदयत्| रसाद्रक्तं विसदृशात्कथं देहेऽभिजायते|| रसस्य न च रागोऽस्ति स कथं याति रक्तताम्| रसाद्रक्तात् स्थिरं मांसं कथं तज्जायते नृणाम्|| रसाद्रक्तात्तथा मांसान्मेदसः श्वेतता कथम्| श्लक्ष्णाभ्यां मांसमेदोभ्यां खरत्वं कथमस्थिषु|| खरेष्वस्थिषु मज्जा च केन स्निग्धो मृदुस्तथा| मज्ज्ञश्च परिणामेन यदि शुक्रं प्रजायते|| कथं सर्वगतं शुक्रं प्रवदन्ति मनीषिणः|| अथ प्रसादान्मज्ज्ञश्च शुक्रं भवति देहिनाम्|| छिद्रं न दृश्यतेऽस्थ्नां च तन्निःसरति वा कथम्| एवमुक्तस्तु शिष्येण गुरुः प्राहेदमुत्तरम्|| तेजो रसानां सर्वेषामम्बुजानां यदुच्यते| पित्तोष्मणः स रागेण रसो रक्तत्वमृच्छति|| वाय्वग्नितेजसायुक्तं रक्तं मांसत्वमृच्छ् गति| श्लेष्माणं च समाश्रित्य मांस स्नेहाभिसंयुतम्|| स्थिरतां प्राप्य शौक्ल्यं च मेदो देहेऽभिजायते| पृथिव्यग्न्यनिलादीनां सङ्घातः श्लेष्मणा वृतः|| खरत्वं प्रकरोत्यस्य जायतेऽस्थि ततो नृणाम्| करोति तत्र सौषिर्यमस्थ्नां मध्ये समीरणः|| मेदसा तानि पूर्यन्ते स्नेहो मज्जा ततः स्मृतः| तस्मान्मज्ज्ञश्च यः स्नेहः शुक्रं सञ्जायते ततः|| वाय्वाकाशादिभिर्भावैः सौषिर्यं जायतेऽस्थिषु| येन स्रवति तच्छुक्रं नवात्कुम्भादिवोदकम्|| स्रोतोभिः स्यन्दते देहात्समन्ताच्चुक्रवाहिभिः| हर्षेणोदीरितं रागात्सङ्कल्पाच्च मनोभवात्|| [विलीनं घृतवड्यायामोष्मणा स्थानविच्युतम्|] बस्तौ सम्भृत्य निर्याति स्थलान्निम्नमिवोदकम्|” इति| तथा चरकमुनिरपि साक्षादधिजगे (चि. अ.८/३७)-“स्रोतसा च यथास्वेन धातुः पुष्यति धातुना|” इति| तथा (च.सू. अ.२८/३)-“धातवो हि धात्वाहाराः प्रकृतिमनुवर्तन्ते|” इति| नग्नजिदप्याह-“तत्राहाररसात्पूर्वं रसधातुर्विवद्धते| रक्तधातू रसाच्चैव रक्ताख्यान्मांसमेव च|| मेदोधातुस्ततो मांसादस्थ्याख्यो मेदसस्तथा| मज्जधातुस्ततोऽस्थ्याख्यान्मज्ज्ञः शुक्राख्य एव च|| शुक्रात्परं च गर्भस्य सम्भवः परिकीर्तितः|” इति| तस्मात्क्रमपरिणामपक्ष एव युक्तः|
एवं रसादीनां धातूनां प्रसादं दर्शयित्वा, किट्टं यथाक्रमं दर्शयितुमाह—-
————————————————|
कफः पित्तं मलाः खेषु प्रस्वेदो नखरोम च||६३||
स्नेहोऽक्षित्वग्विशामोजो धातूनां क्रमशो मलाः|
—————————————————|६४|
कफादयो धातूनां क्रमेण मलाः| रसस्य कफो मलः| रक्तस्य पित्तं मलः| खेषु नासिकाविवरादिषु यो मलोऽन्तः सम्भवति स मांसस्य मलः| यः शरीरे प्रस्वेदो-रोमभ्यः सलिलसम्भवः, स मेदसो मलः| नखा रोमाणि चास्थ्नां मलः| मज्ज्ञः स्नेहो मलः| स्नेहः केषां सम्बन्धी ? नेत्रयोस्त्वचो विशः-पुरीषस्य, च| यत्तदोजः-सर्वधातूनां तेजः शरीरसम्भवं, स शुक्रस्य मलः|
न केवलामाहारस्य प्रसादकिट्टतया द्वैविध्यम्, यावद्धातूनामप्याहाररसाप्यायितानां प्रसादकिट्टतया द्वैविध्यमिति दर्शयन्नाह—-
————————————————|
प्रसादकिट्टौ धातूनां पाकादेवं द्विधच्छतः||६४||
धातूनां-रसादीनां, एवं-अनेन प्रकारेण यथादर्शितेन पाकादग्न्याहितात्, प्रसादकिट्टौ द्विधा ऋच्छतः-द्वैविध्यं व्रजतः| किट्टशब्दस्यात्र पुंस्त्वं लोकाश्रयत्वाल्लिङ्गस्येति बोध्यम्, अर्धर्चादिषु त्वपाठ एवास्य|
परस्परोपसंस्तम्भाद्धातुस्नेहपरम्परा|
——————————————|६५|
धातूनां स्नेहः-सारो धातुस्नेहः| आहाररसस्य धात्वात्मनापरिणमतो यथायथं धात्वग्निभिः पच्यमानस्य क्षीरस्येव शृतस्य सारः-तथापाकवशाद्धातूनां यथोत्तरं यथारूपः स्नेहो जायते, तस्य धातुस्नेहस्य परम्परा-आहाररसाप्यायिता याऽव्युच्छिन्नप्रबन्धप्रवृत्ततया विशिष्टैव यथोत्तरं धातुस्नेहोत्कर्षक्रमपरिणतिः सा धातुस्नेहपरम्परा, परस्परमुपसंस्तम्भात्-उपसंश्लेषात्, जायते| अत एव शोणितप्रभृतीनां धातूनामुत्तरोत्तरं गौरवं यथोत्तरं स्नेहोत्कर्षः|
इदानीं परिणतिकालमाहारस्य निरुपयन्नाह —-
—————————————|
केचिदाहुरहोरात्रात्षाडहादपरे, परे||६५||
मासेन याति शुक्रत्वमन्नं पाकक्रमादिभिः|
——————————————|६६|
केचिदाचार्याः अहोरात्रात्-रात्रिंदिनेन, अन्नं शुक्रत्वं यातीत्याहुः| कैः ? पाकक्रमादिभिः| पाकस्य जाठराग्निना भूताग्निभिर्धात्वग्निभी रसरक्तादिपरिपाट्येत्येवंप्रकारः क्रमः, स आदिर्येषां-वीर्यप्रभावादीनां, तैः| अपरे-अन्ये आचार्याः, षडहात्षड्भिर्दिनैः, अन्न पाकक्रमादिभिः शुक्रत्वं यातीति वदन्ति| परे अन्ये, त्वाहुः,-अहोरात्रात्प्रभृति मासः परः प्रमाणावधिरन्नस्य रसादिपाकक्रमादिना परिणमतः शुक्रत्वगमने, न तत ऊर्ध्वं कदाचिदपि| तथा च पराशरोऽष्टरात्रेणान्नं परिणमच्छुक्रत्वं यातीति सङ्गिरते| तथा च तद्वन्थः-“आहारोऽद्यतनो यश्च श्चो रसत्वं स गच्छति| शोणितत्वं तृतीयेऽह्नि, चतुर्थे मांसतामपि|| मेदस्त्वं पञ्चमे, षष्ठे अस्थित्वं, सप्तमे व्रजेत्| मज्जतां, शुक्रतामेति दिवसे त्वष्टमे नृणाम्|| तस्मद्धि पथ्यापथ्याभ्यामाहाराभ्यां नृणां ध्रुवम्| सप्तरात्रेण शुध्यन्ति प्रदुष्यन्ति च धातवः||” इति
अथैतदन्नं रसादिभावेन परिणमच्छुक्रत्वं याति|
किञ्चिच्छिन्नं कृत्वाऽथ कालवदनवरतं कृत्वा पाकक्रमेण ? अत आह —-
—————————————|
सन्त्तता भोज्यधातूनां परिवृत्तिस्तु चक्रवत्||६६||
भोज्याश्च ते धातवश्च भोज्यधातवः| भोज्यशब्देनेह यस्य धातोर्य आहारस्तस्य सर्वस्य ग्रहणम्| उक्तं हि (च.सू. अ.२८|१३)-“धातवो हि धात्वाहाराः|” इति| एतदुक्तं भवति,-यस्य धातोर्यस्मादुत्पत्तिः स यस्याहार इति| भोज्यधातूनां परिवृत्तिः-परिवर्तनं भ्रमणं गतिः, स चक्रवत्सन्तता अव्युच्चिन्नप्रबन्धस्वरूपा, आहाररसेनाप्यायितत्वात्|
एवं पूर्वोक्तेन कालावधिना वृष्याद्यपि यद्वस्तुजातं तदपि शुक्रत्वं यातीत्याशङ्कायामिदमाह—-
वृष्यादीनि प्रभावेण सद्यः शुक्रादि कुर्वते|
————————————————-|६७|
वृष्याणि क्षीररसमधुकमाषकूष्माण्डहंसादिपक्ष्यण्डप्रायाणि| तथा, आदिग्रहणाद्विषगरप्रशमनमूढगर्भजरायुनिष्क्रमणक्रियाप्रायाणि| सद्यः-तत्क्षणादेव, सुसूक्ष्मं दुर्लक्ष्यं तथाविधं प्रभावमासाद्य तानि परिणमन्ति शुक्रबलादि कुर्वते नापरिणमन्ति|
—————————————————|
प्रायः करोत्यहोरात्रात्कर्मान्यदपि भेषजम्||६७||
वृष्यादिद्रव्यव्यतिरिक्तमन्यदपि भेषजं-चूर्णगुटिकादि दीपनादिक्रियं, अहोरात्रेण प्रायः स्वं स्वं कर्म करोति| प्रायोग्रहणं किञ्चिद्भेषजमहोरात्रादप्यूर्ध्वं किञ्चित्ततोऽप्यवाक् वीर्यादिवशात् कर्म करोतीति द्योतनार्थम्|
आहाररसो रसधातुना सहैकतमापन्नो रसरक्तादिभावेन परिणमति यावच्चुक्रप्रसादो गर्भत्वेनेत्युक्तम्|
तत्कथं कदाचिदेकदेशे रोगकृद्गुधिरमांसाद्येकदेशवृद्धिक्षयविकारकृत्त्वाद्भवति ? इति संशयापनोदार्थमिदमाह —-
व्यानेन रसधातुर्हि विक्षेपोचितकर्मणा|
युगत्पसर्वतोऽजस्रं देहे विक्षिप्यते सदा||६८||
क्षिप्यमाणः खवैगुण्याद्र्रसः सज्जति यत्र सः|
तस्मिन्विकारं कुरुते खे वर्षमिव तोयदः||६९||
आहाररसो जठराग्निना पक्वः प्रसादो धात्वाकारत्वाद्धातुवाच्यो यस्माद्व्यानेन सदा सर्वतः-सर्वस्मिन् देहे, विक्षिप्यते विशेषेण प्रेर्यते| सर्वत इत्याद्यादित्वात्तसिः| किम्भूतेन ? विक्षेपः-प्रेरणमेव, उचितं-योग्यं, कर्म यस्य, तेन विक्षेपोचितकर्मणा| कथं विक्षिप्यते ? युगपत्-एककालम्, तथाऽजस्रं-अनवरतम्| सः-रसधातुराहाररसप्रसादाख्यो, व्यानेन विक्षिप्यमाणः खवैगुण्यात् स्रोतोदुष्टेः, यत्र प्रदेशे स्वरुपाप्रच्युतोऽपि सज्जति-सक्तः सम्पद्यते, तस्मिन् प्रदेशे देहस्य विकारं कुरुते, न सर्वत्र| एतदेव दृष्टान्तद्वारेण स्पष्टयति| खे वर्षमित्यादि| यथा खे-वियति, तोयदो-मेघो, वातवशात् क्षिप्यते वर्षं-वृष्टिं, क्वचिदेव देशे कुरुते, न सर्वत्र| खस्य वैगुण्यं खवैगुण्यमिति षष्ठीसमासः| “पूरणगुण” इत्यादिना चात्र यथा समासनिषेधो न भवति, तथा “शिरोर्तीन्द्रियदौर्बल्य” (हृ.सू. अ. ४/९) इत्यत्र प्रतिपादितमेव| तस्मिन् विकारं कुरुत इत्यत्रात्मनेपदं न प्राप्नोति, रसस्य कर्त्रभिप्रायाभावात्| न हि तस्य चित्रमुत्पद्यत इति करोतीति प्राप्नोति| ब्रूमः| औपचारिकोऽत्र कर्त्रभिप्रायः कल्प्यः| अनेनैव न्यायेन ‘व्रीहीनातपः शोषयति’ इत्याद्यप्युपपन्नम्| व्यानो रसधातुं यत्र नयति तत्र विकारः, इति तावद्रसस्य विक्षेपः|
दोषाणामपि चैवं स्यादेकदेशप्रकोपणम्|
अन्नभौतिकधात्वग्निकर्मेति परिभाषितम्||७०||
एवमिति दोषप्रकोपत्रमातिदेशार्थम्| यथा रसः क्षिप्यमाणः खवैगुण्याद्यत्र सज्जति तस्मिन् विकारं कुरुते, एवं-अनेन न्यायेन, दोषाणामपि-वातादीनां व्यानेन विक्षिप्यमाणानां, एकदेशप्रकोपणं-विकारकरणं, स्यात्| अत एव सिध्मदद्रुश्वयथ्वाद्येकदेशे जायते| एवं क्षेप्याणां स्वभावस्थानामप्यस्वातन्त्र्याद्विकारकारित्वं भवति|
भूतमेव भौतिकम्| विनयादिभ्यष्टक्| अन्नं च भौतिकं च धातवश्चान्नभौतिकधातवः, तेषामग्निरन्नभौतिकधात्वग्निः, तस्य कर्म अन्नभातिकधात्वग्निकर्म| इति प्रकारे| इति-पूर्वोक्तेन प्रकारेण, अन्नभौतिकधात्वग्निकर्म परिभाषितं-उक्तं निश्चयीकृतम्| तत्र “अन्नं कालेऽभ्यवहृतं” (श्लो.५५) इत्यादिना “कटु मारुतम्” इत्यन्तेन ग्रन्थेन| तथा, अन्नं सारकिट्टतया यत्परिणमति तदेतज्जाठाराग्नेः कर्म| “भौमाप्याग्नेय” (श्लो.५९) इत्यारभ्य” शेषाः शेषांश्च देहगान्” इत्येवमन्तेन ग्रन्थेन यन्निर्देष्टं तद्भूताग्नेः कर्म| “सारस्तु सप्तभिर्भूयो” (श्लो ६२) इत्यारभ्य “प्रसादकिट्टौ धातूना” इत्येवमन्तेन यन्निर्दिष्टं तद्धात्वग्निकर्मेति|
अन्नस्य पक्ता सर्वेषां पक्तॄणामधिको मतः|
तन्मूलास्ते हि तद्वृद्धिक्षयवृद्धिक्षयात्मकाः||७१||
तस्मात्तं विधिवद्युक्तैरन्नपानेन्धनैर्हितैः|
पालयेत्प्रयतस्तस्य स्थितौ ह्यायुर्बलस्थितिः||७२||
सर्वेषां पक्तॄणां मध्ये योऽन्नस्य पक्ता-पाचको जाठराग्निः, सोऽधिको मतः-बलीयानभिप्रेतः| तन्त्रकृतामिति शेषः| कुतः श्रेष्ठः ? इत्याह-तन्मूला इत्यादि| सः जाठरानलो, मूलं प्रधानं, येषां-भूताग्न्यादीनां ते यस्मात्तन्मूलाः| मूलमिव मूलम्| यथा, वृक्षादीनां प्रधानमवयवो मूलं, सर्वेषां हि तदवयवानां जन्मादिषु तत्कारणम्, तेन विना तेषां जन्माद्यसम्भवात्| यस्माच्चैवं मूलं-सर्वावयवेभ्यः प्रधानमवयवः| तस्मात्ते-भूतधात्वग्नयः, तद्दृद्धिक्ष्यवृद्धिक्षयात्मकाः,-वृद्धिश्च क्षयश्च वृद्धिक्षयौ, तस्य-जाठराग्नेः, वृद्धिक्षयौ-चयापचयौ, ताभ्यां वृद्धिक्षयौ तद्वृद्धिक्षयवृद्धिक्षयौ, तावात्मा-स्वभावो, येषां ते तद्वृद्धिक्षयवृद्धिक्षयात्मकाः| एतदुक्तं भवति,-जाठरानलवृद्ध्या परेषामग्नीनां वृद्धिः तत्क्षयेण तेषां क्षयः| तस्मात्तं पाचकमग्निं, विधिवत्-प्रशस्तेन विधानेन, युक्तैः-योजितैः, अन्नपानेन्धनैर्हितैः-पथ्यैः, पालयेत्| अन्नपानान्येवेन्धनानि, तैः| कथं पालयेत् ? प्रयतः-यत्नवान् नावहेलया| हि-यस्मात्, तस्य-अन्नस्य पक्तुः, स्थितौ-सद्भावे, आयुर्बलस्थितिः-तत्स्थितावायुरवतिष्ठते बलं च| तथा चोक्तम् (सङ्ग्रहे चि. अ.१२)- “अग्निमूलं बलं पुंसां बलमूलं हि जीवितम्|” इति|
जाठराग्निमधुना चतुर्विधं वक्ति —-
समः समाने स्थानस्थे विषमोऽग्निर्विमार्गगे|
पित्ताभिमूर्च्चिते तीक्ष्णो मन्दोऽस्मिन्कफपीडिते||७३||
समाने वायौ स्थानस्थे-खाशयस्थिते सति, समोऽग्निर्भवति| विमार्गगे-मार्गमुज्झित्वोत्पथप्रवृते समाने सति, विषमोऽग्निर्भवति| पित्तेनाभिमूर्च्चिते-एकलोलीभूते समाने, तीक्ष्णोऽग्निर्भवति| अस्मिन्-समाने, कफपीडिते-श्लेष्माभिभूते, मन्दोऽग्निर्भवति|
समोऽग्निर्विषमस्तीक्ष्णो मन्दश्चैवं चतुर्विधः|
यः पचेत्सम्यगेवान्नं भुक्तं सम्यक् समस्त्वसौ||७४||
विषमोऽसम्यगप्याशु सम्यग्वाऽपि चिरात्पचेत्|
तीक्ष्णो वह्निः पचेच्चीघ्रमसम्यगपि भोजनम्||७५||
मन्दस्तु सम्यगप्यन्नमुपयुक्तं चिरात्पचेत्|
कृत्वाऽऽस्यशोषाटोपान्त्रकूजनाध्मानगौरवम्||७६||
एवं-समादिभेदेन, चतुर्विधोऽग्निर्भवति|
इदानीमस्य चतुर्विधस्याग्नेर्लक्षणं वक्ति-
वह्निरिति वक्ष्यमाणेन सम्बन्धः| यो वह्निः सम्यक्-यथाविधि, भुक्तमन्नं सम्यगेव पचेत्, स सम एव भवति, इति तुशब्दोऽवधारयति| अन्नमिति प्रकृतम्| योऽसमयगपिदेशकालमात्राविधिभ्रष्टमपि, अन्नं भुक्तमाशु पचेत्, सम्यग्वाऽन्नं भुक्तं चिरात्पचेत्, स विषमः| योऽसम्यगप्यन्नं भुक्तं द्राक् पचेत्, स तीक्ष्णः| यस्तु सम्यगप्यन्नमुपयुक्तमास्यशोषादीन् कृत्वा चिरात्पचेत्, स मन्दः| आटोपः-क्षोभः| मन्देऽग्नौ च सभक्तमेवौषधं प्रायेणोपयोक्तुं युज्यते| तथा च सङ्ग्रहे पपाठ (सू. अ. ११)- “यामैश्चतुर्भिर्द्वाभ्यां च भोज्यभेषज्ययोः समे| पाकोऽग्नौ युक्तयोर्द्राक् च तीक्ष्णे, मन्दे पुनश्चिरात्|| सभक्तमौषधं तस्मान्मन्दाग्नेरवचारयेत्|” इति|
एवमग्निमुक्त्वा, अग्न्यायत्तत्वाद्बलस्य बलत्रैविध्यं दर्शयति-
सहजं कालजं युक्तिकृतं देहबलं त्रिधा|
—————————————————|७७|
सह जायत इति सहजम्, कालाज्जातं कालजम्, युक्तिभिरूपजातं युक्तिजम्, इति देहबलं-शरीरबलं, त्रिधा|
—————————————————|
तत्र सत्त्वशरीरोत्थं प्राकृतं सहजं बलम्||७७||
वयस्कृतमृतूत्थं च कालजं, युक्तिजं पुनः|
विहाराहारजनितं तथोर्जस्करयोगजम्||७८||
तत्र-तेषु बलेषु मध्ये, सत्त्वरजस्तमःसमुत्थं शरीरोद्भूतं च यद्बलं तत्प्राकृतं-स्वभाविकम्| सत्त्वशब्देन गुणत्रयमुपलक्ष्यते| शरीरं-त्वग्रक्तादिसारमयं यद्वस्तुजातं तत्| वयो-बाल्ययौवनादि, तेन कृतं वयस्कृतम्,-वयोनुसारेण निष्पादितम्, ऋतुभ्यो-हेमन्तादिभ्य उद्भूतमृतूत्थम्, एतदुभयमपि कालजं बलम्| वयस्कृतमित्यत्र “अतः कृकमि” इत्यनेन सः| युक्तिजं पुनर्बलं,-विहरणं-विहारो वाङ्ग्मनश्चेष्टालक्षणोऽनेकप्रकारः, आहारः-पूर्वमुक्तः, ताभ्यां विहाराहाराभ्यां जनितं विहाराहारजनितं यद्वलं तद्युक्तिजम्| युक्तिः-योग इतिकर्तव्यता, ततो जातं युक्तिजम्| तथा, ऊर्जस्करास्त्विमे योगाः-“तद्यथा,-बलवत्पुरुषे देशे जन्म [ तद्विधे च काले ] सुख़श्च कालयोगो बीजक्षेत्रगुणशरीराहारसत्वसम्पत्तयश्च” (सं. शा. अ. ८)| तथा ये योगा रसायनवाजीकरणोक्ताः, तेभ्यो जातमूर्जस्करयोगजं यद्वलं तदपि युक्तिजम्|
सम्प्रति देशत्रैविध्यं दर्शयति-
देशोऽल्पवारिद्रुनगो जाङ्गलः स्वल्परोगदः|
आनूपो विपरीतोऽस्मात्समः साधारणः स्मृतः||७९||
स्तोकजलवृक्षशैलाक्रान्तः स्वल्परोगदो जाङ्गलो देशः शुद्धस्रोतस्तया| तथा च-मरुदेशोद्भवा अल्परोगाश्चिरजीविनश्च दृश्यन्ते| अस्मात्-जाङ्गलात्, विपरीतो-बहूदकतरुगिरिसमधिष्ठितो बहुरोगदश्च, आनूपः| समस्तु देशो यो नात्यम्बुवृक्षपर्वतो, न चात्यल्पवारितरुगिरिः, स साधारणो मध्यस्थरोगारोग्यः|
एवं भूमिलक्षणं देशमुक्त्वा मज्जादीनां परिमाणार्थमाह —-
मज्जमेदोवसामूत्रपित्तश्लेष्मशकृन्त्यसृक्|
रसो जलं च देहेऽस्मिन्नेकैकाञ्जलिवर्द्धितम्||८०||
मज्जादिद्रव्यं जलावसानं, अस्मिन्-पौरुषे देहे, एकैकाञ्जलिवर्द्धितम्| तेन मज्ज्ञ एकोऽञ्जलिः, द्वौ मेदसः, यावज्जलस्य देहाश्रितस्य दशाञ्जलयः|
पृथक् स्वप्रसृतं प्रोक्तमोजोमस्तिष्करेतसाम्|
द्वावञ्जली तु स्तन्यस्य चत्वारो रजसः स्त्रियाः||८१||
ओजोमस्तिष्कशुक्राणां देहगानां पृथक्-प्रेत्येकं, स्वप्रसृतं प्रमाणम्| स्त्रियाः स्तन्यस्य द्वावञ्जली, रजसो-रक्तस्यार्तवस्य चत्वारोऽञ्जलयः| स्वेन मानेनाञ्जलिप्रसृताविह हस्तसंस्थानविशेषवाच्यौ गृह्येते, न तु चतुष्पलद्विपलपरिमाणौ मानवाच्यौ, स्वशब्दप्रयोगात्| प्रसृतशब्दे तु मानवाचिनि गृह्यमाणे स्वशब्दोऽनर्थक एवेह स्यात्| ननु, यथा मज्जादीनां समत्वाधिक्यहानयो विद्यन्ते, तथा पवनस्यापि| तथा च प्रागभ्यधायि (हृ. सू. अ. ११/१)- “उत्साहोच्छ्वासनिःश्वास” इत्यादि| तथा (हृ. सू. अ. ११/५)- “वृद्धस्तु कुरुतेऽनिलः| कार्श्य” इत्यादि| तथा (हृ. सू. अ. ११/१५)- “लिङ्गं क्षीणेऽनिलेऽङ्गस्य” इत्यादि| तस्माद्वायोरपि प्रमाणं वाच्यं स्यात्| तत्कथमिह नोक्तम् ? अत्रोच्यते| पवनस्यामूर्त्तत्वात्प्रमाणं वक्तुमयुक्तम्| तथा च चरकः (?)-“न मानोन्मानता वायोररूपत्वात्तु युज्यते|” इति| तस्माल्लिङ्गैरेव समत्वाधिक्यहानयोऽनिलस्य वक्तुं युक्ताः|
समधातोरिदं मानं विद्याद्वृद्धिक्षयावतः||८२||
समधातोः-समप्रकृतेः, एतन्मानं विद्यात्, नैकदोषाधिकप्रकृतीनां द्विदोषाधिकप्रकृतीनां वा| तेषां ह्यत एव यथोक्तादञ्जलिप्रमाणादिकाद्यथायथं मज्जादीनां वृद्धिक्षयौ विद्यात्|
अधुना यदुक्रमायुष्कामीयाध्याये (हृ. सू. अ. १/९)- “शुक्रार्तवस्थैर्जन्मादौ विषेणेव विषक्रिमेः|
(तैश्च तिस्रः प्रकृतयः” इत्यादि सूत्रस्यैव विवरणमाह —-
शुक्रासृग्गर्भिणीभोज्यचेष्टागर्भाशयर्तुषु|
यः स्याद्दोषोऽधिकस्तेन प्रकृतिः सप्तधोदिता||८३||
शुक्रं चासृक् चेत्यादिद्वन्द्वः| गर्भिणी-सम्पद्यमाना गर्भामाता, तस्या भोज्यचेष्टे-आहारविहारौ, एतेषु योऽधिको दोशो-वातादिः, तेन प्रकृतिः सप्तधा-सप्तप्रकारा, [ उदिता- ] अभिहिता, सूत्रस्थाने (अ.१/१०)| य इति जातावेक वचनम्| तेन यो दोषो, यौ दोषौ, ये दोषाः, इत्यर्थोऽवतिष्ठते| एकदोषद्विदोषत्रिदोषप्रकृतिषु यथासङ्ख्यमेको दोशो द्वौ दोषो त्रयो दोषा अधिका इत्यर्थः| ननु, समधातोर्वातादीनां समत्वात् कथमिवाधिक्यं स्यात् ? ब्रूमः| समधातोरपि समानां त्रयाणामपि तस्मिन् काले स्वप्रमाणतो यथास्वं तुल्ये नाधिकत्वं भवतीति युक्तं तत्राप्याधिक्यम्| यदि वा दोषोऽधिक इति बाहुल्येनोक्तम्| तेन षट्स्वेव प्रकृतिषु दोषाधिकभावः, न तु समधाताविति वेद्यम्|
अधुना वातस्य प्राधान्यं षड्भिः कारणैः प्रदर्श्य वातप्रकृति प्रागभिधत्ते-
विभुत्वादाशुकारित्वाद्वलित्वादन्यकोपनात्|
स्वातन्त्र्याद्बहुरोगत्वाद्दोषाणां प्रवलोऽनिलः||८४||
विभुत्वात्-व्यापित्वात्| तथा, आशुकारित्वात्| तथा, बलित्वात्, यथा हि वायुर्व्याप्याशुकारी बली च, न तथा पित्तश्लेष्माणौ| तथा, अन्यकोपनात्, स्वजातीयापेक्षयाऽन्यौपित्तश्लेष्माणौ, अनेन यथा कोप्येते, न ताभ्यां तथाऽयम्| तथा, स्वातन्त्र्यात्-प्रेरकत्वात्, तथा हि नासावन्येन प्रेर्यतेऽतः स्वतन्त्रोऽसौ| तथा, बहुरोगत्वात्| तथा चोक्तम्-“अशीतिर्वातजा रोगाश्चत्वारिशच्च पित्तजाः| विंशतिः श्लेष्मजाश्च” इति| एवं त्रयाणां दोषाणं मध्येऽनिलः प्रबलः-प्रधानम्|
प्रायोऽत एव पवनाध्युषिता मनुष्या
दोषात्मकाः स्फुटितधूसरकेशगात्राः|
शीतद्विषश्चलधृतिस्मृतिबुद्धिचेष्टा-
सौहार्ददृष्टिगतयोऽतिबहुप्रलापाः||८५||
अल्पवित्तबलजीवितनिद्राः
सन्नसक्तचलजर्जरवाचः|
नास्तिका बहुभुजः सविलासा
गीतहासमृगयाकलिलोलाः||८६||
मधुराम्लपटूष्णसात्म्यकाङ्क्षाः
कृशदीर्घाकृतयः सशब्दयाताः|
न दृढा न जितेन्द्रिया न चार्या
न च कान्तादयिता बहुप्रजा वा||८७||
नेत्राणि चैषां खरधूसराणि
वृत्तान्यचारूणि मृतोपमानि|
उन्मीलितानीव भवन्ति सुप्ते
शैलद्रुमांस्ते गगनं च यान्ति||८८||
अध्न्या मत्सराध्माताः स्तेनाः प्रोद्बद्धपिण्डिकाः|
श्वशृगालोष्ट्रगृध्राखुकाकानूकाश्च वातिकाः||८९||
प्रायोग्रहणं क्वचिद्व्यभिचारर्थम्| अत एव-अस्मादेव कारणात्, पवनाध्युषिताः-वायुनाऽधिष्ठिताः, मनुष्याः प्राय एवंरूपा भवन्ति| कारणानुविधायित्वात् कार्याणाम्| दोषात्मकाः-न तु गुणस्वभावाः, न शुभस्वभावा भवन्ति| शुक्रार्तवरूपावस्थामारभ्याजीवितं पवनाध्युषिता मानवाः स्फुटितधूसरकेशगात्राः| स्फुटितानि धूसराणि च केशगात्राणि येषां त एवम्| तथा, शीतं द्विषन्तीति शीतद्विषः, उष्णाभिलाषित्वात्| तथा, चला धृत्यादयो गत्यन्ता येषां ते तथोक्ताः| तथा, अतिशयेन बहुः प्रलापः-सम्भाषणं, येषां त एवम्| वसन्ततिलकावृत्तम्| अल्पाः वित्तादयो निद्रान्ता येषां त एवम्| तथा, सन्ना सक्ता चला जर्जारा वाक् येषां त एवम्| केषाञ्चित्सन्ना-अवसादं नीता, केषाञ्चित्सक्ता-भाषणे विलम्ब्य विलम्ब्य प्रवृत्ता, केषाञ्चिच्चला, केषाञ्चिज्जर्जरा-भिन्नकांस्यस्वनसदृशी वागिति| तथा नास्ति परलोक इत्येवं मतिर्येषां ते नास्तिकाः| “अस्ति नास्ति दिष्टं मतिः” इति ठक्| तथा, बहुभुजः-अनल्पाशनाः| तथा, सविलासाः-सलीलाः| तथा, गीतहासादिलोलाः तत्प्रियाः| स्वागतावृत्तम्| तथा, मधुराम्लपटूष्णसात्म्या मधुराद्यभिलाषिणश्च| कृशाश्च ते दीर्घाकृतयश्च, ते कृशदीर्घाकाराः| तथा, सशब्दं यातं-गमनं, येषां ते सशब्दयाताः| न दृढाः-न दृढशरीराः| न जितेन्द्रियाः| न चार्याः-असन्तः| कान्तानां स्त्रीणां, न च दयिताः-[न] अभिमताः| न च बहुप्रजाः-अपि तु स्वल्पसन्ततयः| “या(र्या)वन्तः(न्तं)शेषं(ष)पूर्वसाम्यादौपच्छन्दसिकं वदन्ति सन्तः|” एषां च-वातप्रकृतीनां, नेत्राणी खराणि-परुषाणि, तथा धूसराणि-पांसुनेवावकीर्णानि, वृत्तानिवर्तुलानि, अचारूणि, मृतोपमानि च, तथा सुप्ते-स्वप्ने, उन्मीलितानीव-उद्धाटितानीव, भवन्ति| ते-वातप्राकृतयः, स्वप्ने सति शैलद्रुमान् गगनं च गच्छन्ति| इन्द्रवज्रावृत्तम्| ते च, अधन्याः-अभव्याः, मत्सरेणाध्माताः-द्वेषपूर्णाः| तथा, स्तेनाः-चौराः| प्रोद्बद्धपिण्डिकाः-जङ्घायाः पश्चिमाद्भागात् प्रकर्षेणोन्नताः पिण्डिका येषां त एवम्| अणुकं-स्वभावः, स्वररूपचेष्टानुकरणम्| श्वादीनामिवानूकं येषां-वातिकानां, त एवम्| वातिका इति भूम्नि मत्वर्थीयष्ठक्, वातभूयिष्ठा इत्यर्थः|
अधुना पित्तप्रकृतिलक्षणं प्रस्तौति-पित्तं वह्निर्वह्निजं वा यदस्मा—-
त्पित्तोद्रिक्तस्तीक्ष्णतृष्णाबुभुक्षः|
गौरोष्णाङ्गस्ताम्रहस्ताङ्घ्रिवक्रः
शूरो मानी पिङ्गकेशोऽल्परोमा||९०||
दयितमाल्यविलेपनमण्डनः
सुचरितः शुचिराश्रितवत्सलः|
विभवसाहसबुद्धिबलान्वितो
भवति भीषु गतिर्द्विषतामपि||९१||
मेधावी प्रशिथिलसन्धिबन्धमांसो
नारीणामनभिमतोऽल्पशुक्रकामः|
आवासः पलिततरङ्गनीलिकानां
भुङ्क्तेऽन्नं मधुरकषायतिक्तशीतम्||९२||
घर्मद्वेषी स्वेदनः पूतिगन्धि
र्भूर्युच्चारक्रोधपानाशनेर्ष्यः|
सुप्तः पश्येत्कर्णिकारन्पलाशान्
दिग्दाहोल्काविद्युदर्कानलांश्च||९३||
तनूनि पिङ्गानि चलानि चैषां
तन्वल्पपक्ष्माणि हिमप्रियाणि|
क्रोधेन मद्येन रवेश्च भासा
रागं व्रजन्त्याशु विलोचनानि||९४||
मध्यायुषो मध्यबलाः पण्डिताः क्लेशभीरवः|
व्याघ्रर्क्षकपिमार्जारयक्षानूकाश्च पैत्तिकाः||९५||
धन्वन्तरिमतेन पित्तमेव वह्निः पाकादिकर्मकरणात्| अथवा वह्निजं-वह्नेर्जातं, अग्न्याधारत्वात्| यदस्मात्-यतश्चैवमतो हेतोः, पित्ताधिकः पुरुषस्तीव्रतृष्णाबुभुक्षो भवति| तथाविधात्कारणादुत्पन्नत्वात् अब्धात् रसधातुश्च तस्य द्रागेव शुष्यतीतिभावः| तथा, गौर उष्णाङ्गश्च| तथा, ताम्रवर्णं हस्ताङ्रिवक्रं यस्य स एवम्| तथा,शूरो मानी च| तथा, कपिलकेशोऽल्परोमा च| शालिनीवृत्तम्| दयितानि माल्यादीनि यस्य स एवम्| तथा, सुचरितः-शोभनचेष्टितः| तथा, शुचिः-कायवाङ्मनोव्यापारैर्मलिनैरसंस्पृष्टः| आश्रितानां वत्सलः-प्रियकृत्, विभवादियुक्तश्च| तथा, भीषु-भयेषु, द्विषतामपिगतिः शरण्यत्वाद्भवति| अपिशब्दात्सुहृदां मध्यस्थानां किमु स गतिर्न भवति ? इति द्योतयति| द्रुतविलम्बितं वृत्तम्| मेधावीति प्रशंसार्थे “अस्मायामेधास्रजो विनिः” इति विनिः| सन्धिबन्धाश्च मांसानि च, तानि प्रशिथिलानि यस्य स एवम्| तथा, स्त्रीणामनभीष्टः| अल्पौ शुक्रकामौ यस्य स एवम्| पलितादीनामावासः-तान्यस्य बहूनि सन्तीत्यर्थः| स च मधुराद्यन्नं भुङ्क्ते| प्रहर्षिणीवृत्तम्| घर्मद्वेषीति “बहुलमाभीक्ष्ण्ये” णिनिः| स्विद्यतीति स्वेदनः| पूतिर्गन्धो यस्य स पूतिगन्धिः| “गन्धस्येदुत्पूति” इत्यादिना इदादेशः| भुरयः-प्रभूताः, उच्चारादयो यस्य स एवम्| स च पैत्तिकः सुप्तः सन् कर्णिकारादीन् पश्येत्| शालिनीवृत्तम्| एषां च-पैत्तिकानां विलोचनानि तनुत्वादिगुणयुक्तानि भवन्ति| तानि च क्रोधाद्यैर्द्रागेव लौहित्यं यान्ति| उपजातिवृत्तम्| ते च पैत्तिका मध्यायुष्ट्वादियुक्ता भवन्ति| व्याघ्रादीनामिवानूकं येषां त एवम्|
अथ श्लेष्मप्रकृतिलक्षणार्थमाह-
श्लेष्मा सोमः श्लेष्मलस्तेन सौम्यो
गूढस्निग्धश्लिष्टसन्ध्यस्थिमांसः|
क्षुत्तृड्दुःखक्लेशघर्मैरतप्तो
बुद्ध्या युक्तः सात्विकः सत्यसन्धः||९६||
प्रियङ्गुदूर्वाशरकाण्डशस्त्र-
गोरोचनापद्मसुवर्णवर्णः|
प्रलम्बबाहुः पृथुपीनवक्षा
महाललाटो घननीलकेशः||९७||
मृद्वङ्गः समसुविभक्तचारुदेहो
बह्नोजोरतिरसशुक्रपुत्रभृत्यः|
धर्मात्मा वदति न निष्ठुरं च जातु
प्रच्छन्नं वहति दृढं चिरं च वैरम्||९८||
समदद्विरदेन्द्रतुल्ययातो
जलदाम्भोधिमृदङ्गसिंहघोषः|
स्मृतिमानभियोगवान् विनीतो
न च बाल्येऽप्यतिरोदनो न लोलः||९९||
तिक्तं कषायं कटुकोष्णरूक्ष-
मल्पं स भुङ्क्ते बलवांस्तथाऽपि|
रक्तान्तसुस्निग्धविशालदीर्घ-
सुव्यक्तशुक्लासितपक्ष्मलाक्षः||१००||
अल्पव्याहारक्रोधपानाशनेहः
प्राज्यायुर्वित्तो दीर्घदर्शी वदान्यः|
श्राद्धो गम्भीरः स्थूललक्षः क्षमावा-
नार्यो निद्रालुर्दीर्घसूत्रः कृतज्ञः||१०१||
ऋजुर्विपश्चित्सुभगः सुलज्जो
भक्तो गुरूणां स्थिरसौहृदश्च|
स्वप्ने सपद्मान्सविहङ्गमालां-
स्तोयाशयान् पश्यति तोयदांश्च||१०२||
ब्रह्मरुद्रेन्द्रवरुणतार्क्ष्यहंसगजाधिपैः|
श्लेष्मप्रकृतयस्तुल्यास्तथा सिंहाश्वगोवृषैः||१०३||
यस्माच्छ्लेष्मा सोमः, तेन हेतुना श्लेष्मलो नरः सौम्यो भवति| कारणानुविधायित्वात्कार्याणाम्| सोम इव सौम्यः, शाखादित्वाद्यञ्| तथा, गूढस्निग्धश्लिष्टानि सन्ध्यस्थिमांसानि यस्य स एवम्| तथा, क्षुद्रादिभिरतप्तः-अक्षोभितो भवति| तथा, बुध्द्याऽन्वितः प्रशस्तसत्वश्च| तथा, सत्यं सन्दधाति प्रतिजानीते, इति सत्यसन्धः| “आतश्चोपसर्गे” इत्यड्| शालिनीवृत्तम्| प्रियङ्ग्वादितुल्येन वर्णेन एकैकेन युक्तः| कश्चित्प्रियङ्गुसमानवर्णः कश्चिद्दूर्वासदृशवर्णः कश्चिच्छरस्तम्बसदृशवर्णः कश्चिहच्छस्त्रतुल्यवर्णः कश्चिद्गोरोचनातुल्यवर्णः कश्चित्पद्मतुल्यवर्णः, कश्चित्सुवर्णसदृशवर्णः| तथा, प्रलम्बबाहुः दीर्घभुजः| तथा, विस्तीर्णपीवरवक्षाः| तथा, महल्ललाटम् अलिकं, यस्य स तथा| तथा, घननीलकेशः| उपजातिवृत्तम्| मृद्वङ्गः-कोमलावयवः| समः सुष्ठु विभक्तो-विभक्तावयवः, चारुर्देहो यस्य स एवम्| बहवस्तेजोरतिरसादयो यस्य स एवम्| तथा, धर्मस्वभावः| निष्ठुरं न कदाचिद्वदति| प्रच्छन्नं-गूढं कृत्वा, वैरं दृढं चिरं वहति-न तु शिथिलयति| प्रहर्षिणीवृत्तम्| समदस्य द्विरदेन्द्रस्य तुल्यं यातं-गमनं, यस्य स एवम्| तथा, जलदादिसदृशशब्दः| तथा, प्रशस्तस्मृतिः शोभनाभियोगी विनयी च भवति| बाल्येऽपि-बालत्वेऽपि नातिरोदनो न च लोलुपः| औपच्चन्दसिकं वृत्तम्| स चान्नं तिक्तादिरसयुक्तं बलक्षेपकं भुङ्क्ते, तथाऽल्पमपि भुङ्क्ते, तथाऽपि स्वभावाद्बली भवति| रक्तावन्तौ ययोस्ते रक्तान्ते, तथा सुस्निग्धे विशाले दीर्घे च, तथा सुव्यक्तौ शुक्लासितौ ययोस्ते सुव्यक्तशुक्लासिते, तथा पक्ष्मले, एवंभूते अक्षिणि यस्य स एवम्| इन्द्रवज्रावृतम्| अल्पा व्याहारादयो यस्य स एवम्| [ *व्याहारो-भाषणम्| पानं-पानीयादि| अशनं-भोजनम्| ईहा-कायिका चेष्टा| ] प्राज्ये-प्रभूते, आयुर्वित्ते यस्य स एवम्| दीर्घदर्शी-भावि कार्यं पश्यति, इदं कुर्वत इदमवश्यं सम्पद्यत इति| वदान्यो-वल्गुभाषी दाता च| श्राद्धो-दानादौ श्रद्धावान्| गम्भीरो-महाचित्तः| स्थूललक्षो-भूरिदाता| क्षमावान्-क्षान्तियुक्तः| आर्यः-सज्जनः| निद्रालुः-बहुनिद्रः| दीर्घसूत्रः-चिरकारी| कृतं जानातीति कृतज्ञः| वैश्वदेवीवृत्तम्| ऋजुः-अकुटिलचित्तः| विपश्चित्-पण्डितः| सुभगो-जनप्रियः| सुष्ठु लज्जत इति सुलज्जः| गुरूणां-पित्रादीनां, भक्तः-सेवकः| तथा, स्थिरं-दृढं, सौहृदं-मैत्री, यस्य स एवम्| स्वप्ने तोयाशयान्-तडागादीन्, सजलजान् पक्षिपङ्क्तियुक्तांश्च पश्यति, तोयदांश्च पश्यति| उपजातिवृत्तम्| ब्रह्मादिभिः श्लेष्मप्रकृतयः समानाः, सिंहादिभिश्च| [*तार्क्ष्यो-गरुडः| गजाधिपः-एरावतः|]
एवं पृथग्वातादिप्रकृतीस्तिस्रोऽभिधाय द्वन्द्वसर्वदोषप्रकृतिलक्षणाभिधित्सयेदमाह-
प्रकृतीर्द्वयसर्वात्था द्वन्द्वसर्वगुणोदये|
—————————————————|१०४|
द्वयात्-संसर्गात्, उद्भूतास्तिस्रः प्रकृतयः, सर्वोत्था-सर्वदोषोद्भूता, एका प्रकृतिः, एवं प्रकृतयो द्वयसर्वोत्थाश्चतस्रः| गुणशब्दोऽत्र धर्मवचनो लिङ्गवचनो वा| द्वन्द्वशब्देन दोषद्वयं सर्वशब्देन च दोषत्रयं लक्ष्यते| द्वन्द्वं च सर्वे च द्वन्द्वसर्वे, तेषां गुणाः-दोषद्वयदोषत्रयाणां धर्मा लिङ्गानि वा, तेषामुदयः-प्रादुर्भावो, द्वन्द्वसर्वगुणोदयः, तस्मिन् द्वन्द्वसर्वगोणोदये सति, द्वयसर्वोत्थाः प्रकृतीर्वदेत्-आदिशेत्| द्वयं च सर्वे च द्वयसर्वे, तेभ्य उत्थः-उत्थानं, यासां ताः| एवं द्वन्द्वदोषगुणोदये द्वन्द्वोत्थाः प्रकृतीर्वदेत्, सर्वदोषगुणोदये सर्वोत्थां प्रकृतिं वदेत्| उत्थ इत्युत्पूर्वात्तिष्ठतेः
“सुपि स्थः” इति योगविभागात्कः| “उदः स्थास्तम्भोः पूर्वस्य” इति पूर्वसवर्णादेशः| “अत्राद्यास्त्रयो नित्यातुरा दोषानुशयितशरीरत्वात्| विशेषतश्च द्वन्द्वप्रकृतयः| तेषु हि गुणमिश्रविकारकारिषु क्षुत्पिपासादिष्विवारोग्यव्यपदेशः” (सं. शा. अ. ८)|
एवं वातादिप्रकृतीर्निर्दिश्य, सत्त्वादिप्रकृतीर्निर्दिदिक्षुराह-
—————————————————|
शौचास्तिक्यादिभिश्चैवं गुणैर्गुणमयीर्वदेत्||१०४||
चशब्दो भिन्नक्रमे, गुणमयीश्चेत्यत्र द्रष्टव्यः| एवं-वातादिप्रकृतिवत्, पृतग्द्वन्द्वसर्वोत्थाः शौचास्तिक्यादिभिः सत्त्वादिगुणैः (श्लो. ७) सप्त सत्त्वादिगुणमयीश्च प्रकृतीर्वदेत्| आदिग्रहणात् शुक्लधर्मरुच्यादिभिः सत्त्वादीनां गुणैर्यथायथं सत्त्वादिप्रकृतीर्वातादिप्रकृतयः परस्परमनुरुध्यन्ते, सत्त्वादिप्रकृतयश्च वातादिप्रकृतीरनुरुध्यन्ते| एवं वातादिप्रकृतयः सप्त, सत्त्वादिप्रकृतयोऽपि सप्तैव| जातिकुलदेशकालवयोबलप्रत्यात्मसंश्रयाश्च सप्तैव| तथा हि-दृश्यन्ते पुरुषाणां जात्यादिनियतास्ते ते भावविशेषाः परस्परविलक्षणाः सत्त्वाद्यसङ्ख्येयभेदावेशाच्च रूपस्वरचरितानुकरणमप्यनूकशब्दवाच्यमसङ्ख्यभेदं भवति| सत्त्वाद्यावेशस्त्वनन्तरजन्माभ्यासवासनया जन्यते| तस्माद्देवमानुषतिर्यक्प्रेतनारकाणां तत्तद्विशेषाणां च यथायथमेवानूकं पुरुषस्यान्वीक्षेत| यस्माच्चरीरं सत्त्वादीननुरुध्यते, सत्त्वादयोऽपि शरीरम्| प्रकृतिविभागश्चायं तदनुरूपचिकित्साप्रवृत्तये वैद्यस्योपयुज्यते| तत्राद्यास्त्रयो नित्यतुराः, दोषानुशयितशरीरत्वात्| विशेषतश्च द्वन्द्वप्रकृतयः| तस्माद्विपरीतगुणेन विधिना दोषोपक्रमणीयोक्तेन तानुपाचरेत्| समधातुप्रकृतिस्तु सर्वरसेन सात्म्येनोपचरणीयः| तथा च मुनिः (च.सू. अ.७/४१)- “समसर्वरसं सात्म्यं समधातोः प्रशस्यते|” इति|
एवं वातादिप्रकृतीः सत्त्वादिप्रकृतीश्च परस्परानुरोधिनीर्निर्दिश्य, वयोज्ञानार्थमाह-
वयस्त्वाषोडशाद्वालं तत्र धात्विन्द्रियौजसाम्|
वृद्धिरासप्ततेर्मध्यं तत्रावृद्धिः परं क्षयः||१०५||
कालकृता शरीरावस्था-वयः| तच्च त्रिधा, बालमध्यवृद्धभेदेन| वयः पुनराषोडशाद्वर्षात्-षोडशं वर्षं यावत्, बालम्| तदपि त्रिविधम्,-क्षीरक्षीरान्नान्नवृत्त्या| तत्र-बाले वयसि, धातूनां-रसादीनां, इन्द्रियाणां चक्षुरादीनां तथा सर्वधात्वाप्यायकस्य-ओजोसो, वृद्धिः| श्लेष्माधिक्याच्च बालस्य स्नेहमार्दवसौकुमार्याल्पक्रोधत्वसौभाग्यानि भवन्ति| आसप्ततेर्मध्यं वयः| आङत्र मर्यादायाम्, नाभिविधौ| ततश्चैकोनसप्ततिं यावन्मध्यं वयः| तदपि त्रिविधम्,-यौवनं सम्पूर्णत्वमपरिहानिश्च| तस्मिन् पित्तोद्रेकः, तेन दीप्ताग्निता प्रज्ञापरिपाको व्यवसायश्चेति भवति| तत्रात्रिंशतो यौवनम्, आचत्वारिंशतः सर्वधात्विन्द्रियबलवीर्यपौरुषस्मरणवचनविज्ञानप्रश्रयगुणसम्पूर्णत्वम्, अतःपरमपरिहानिः| तत्रेत्यादि| [ तत्र- ] तस्मिन्मध्ये वयसि, धात्वादीनामवृद्धिः-अवर्धनं, भवति| परं क्षयः| परं-एकोनसप्ततेराजीवितं यावत्, धात्विन्द्रियौजसां क्रमेण क्षयः, तथा बलवीर्यपौरुषवचनस्मरणविज्ञानप्रश्रयगुणानां च| तथा, “वलीपलितकासश्वासाग्निसादादिभिरभिभूयमानं जीर्णं भवनमिवाभिवृष्टं सीदति| तस्मिन्मारुतोद्रेकः, तेन श्लथासारमांससन्ध्यस्थिता त्वक्पारुष्यमवनामः कायस्य वेपथुः श्लेष्मसिङ्घाणकोदीरणं धातुक्षयश्च” (सं. शा. अ. ८)| इति|
स्वं स्वं हस्तत्रयं सार्द्धं वपुः पात्रं सुखायुषोः|
न च यद्युक्तमुद्रिक्तैरष्टाभिर्निन्दितैर्निजैः||१०६||
अरोमशासितस्थूलदीर्घत्वैः सविपर्ययैः|
—————————————————|१०७|
स्वंस्वं-आत्मीयमात्मीयं, हस्तत्रयं सार्द्धं प्रमाणतो यद्वपुः-शरीरं, तत्सुखायुषोः पात्रं-भाजनम्| एवंभूतमपि यत्-वपुः, उद्रिक्तैः-अधिकैर्निमित्तैः, निन्दितैः-अप्रशस्तैः, निजैः-सहजैः, अष्टाभिर्न युक्तम्| कैः ? अरोमशादिभिः| तेनारोमशं यद्वपुस्तत्सुखायुषोर्न पात्रम्| तथा, यदतिरोमशं तच्च सुखायुषोर्न पात्रम्| असितादिष्वप्येवं योज्यम्| एवमीषद्रोमादियुक्तं यत्पुनर्हस्तत्रयं सार्द्धं तत्सुखायुषोः पात्रम्|
—————————————————|
सुस्निग्धा मृदवः सूक्ष्मा नैकमूलाः स्थिराः कचाः||१०७||
ललाटमुन्नतं श्लिष्टशङ्खमर्धेन्दुसन्निभम्|
कर्णौ नीचोन्नतौ पश्चान्महान्तौ श्लिष्टमांसलौ||१०८||
नेत्रे व्यक्तासितसिते सुबद्धघनपक्ष्मणी|
उन्नताग्रा महोच्छ्वासा पीनर्जुर्नासिका समा||१०९||
ओष्ठौ रक्तावनुद्दृत्तौ, महत्यौ नोल्बणे हनू|
महदास्यं, घना दन्ताः स्निग्धाः श्लक्ष्णाः सिताःसमाः||११०||
जिह्वा रक्ताऽऽयता तन्वी, मांसलं चिबुकं महत्|
ग्रीवा ह्रस्वा घना वृत्ता, स्कन्धावुन्नतपीवरौ||१११||
उदरं दक्षिणावर्तगूढनाभि समुन्नतम्|
तनुरक्तोन्नतनखं स्निग्धमाताम्रमांसलम्||११२||
दीर्घाच्छिद्राङ्गुलि महत्पाणिपादं प्रतिष्ठितम्|
गूढवंशं बृहत्पृष्ठं, निगूढाः सन्धयो दृढाः||११३||
धीरः स्वरोऽनुनादी च, वर्णः स्निग्धः स्थिरप्रभः|
—————————————————|११४|
केशाः सुस्निग्धादिगुणयुक्ताः ‘श्रेष्ठाः’ इत्यनुक्तमप्यर्थाद्गम्यते| तथा चैवंगुणविशिष्टैरेतैर्युक्तं वपुः सुखायुषोः पात्रं भवति| एवं ललाटादिष्वपि चिन्त्यम्|
ललाटमुन्नतं-ऊर्ध्वं गतम्| तथा, श्लिष्टौ-अनुल्बणौ, शङ्खौ यस्मिंस्तदेवम्| तथा, अर्धेन्दुसन्निभं-अर्धचन्द्राकारम्|
कर्णौ नीचोन्नतौ,-अधो नीचौ-ह्रस्वौ, ऊर्ध्वमुन्नतौ| पश्चान्महान्तौ-विस्तीर्णौ| तथा, श्लिष्टौ च तौ मांसलौ च, श्लिष्टौरम्यौ, मांसलौ-उपचितमांसौ|
नेत्रे-व्यक्तौ स्फुटौ, असितसितौ वर्णौ ययोस्त एवम्| कृष्णो भागः कृष्ण एव शुक्लः शुक्ल एव, न वर्णान्तरव्यामिश्रे| तथा, सुबद्धे-सुसन्धिनी, घने-संहते, पक्ष्मणी ययोस्त एवम्|
नासिका-घ्राणम्| उन्नतमग्रं यस्याः सैवम्| तथा, महानुच्छ्वासो यस्याः सैवम्| तथा, पीना-अशिथिला| तथा, ऋजुः-अवक्रा| तथा, समा-अनिम्नोन्नता|
ओष्टौ रक्तौ| तथा, अनुदृत्तौ-बहिरनिर्गतौ|
द्वे हनू महत्यौ| नोल्बणे-नोन्नते| हनुशब्दस्य स्त्रीत्वमत्र चिन्त्यम्|
आस्यं-मुखम्, महत्|
दन्ताः-द्विजाः| घनाः-अविरलाः| श्लक्ष्णाः-कोमलस्पर्शाः| स्निग्धाः-स्निग्धरुचयः| सिताः-शुक्लाः| समाः-समपङ्क्तयः|
जिह्वा-रसना, रक्ता| तथा, आयता-दीर्घा| तथा, तन्वी-न स्थूला|
चिबुकं मांसलं महच्च|
ग्रीवा-शिरोधरा, ह्रस्वा-अदीर्घा, घना-निबिडा, वृत्तावर्तुला च|
स्कन्धौ-अंसौ| उन्नतौ च तौ पीवरौ च|
दक्षिण आवर्तो यस्या नाभेः सा दक्षिणावर्ता| दक्षिणावर्ता गूढा-निम्ना [ च ], नार्भिर्यस्य तद्दक्षिणावर्तगूढनाभि जठरम्| तथा, समुन्नतं-सम्यगुन्नतं श्रेष्ठत्वेनोन्नतम्|
तनवो रक्ता उन्नता नखा यस्य तदेवंभूतं पाणिपादं प्रतिष्ठितं-प्रशस्तं, भवति| तथा, स्निग्धं-स्निग्धच्छायम्| तथा, आताम्रं च तन्मांसलं च,-आताम्रमाम्सलम्| समन्तात्ताम्रंआताम्रम्| मांसलं-उपचितमांसम्| तथा, दीर्घाः-आयताः, अच्छिद्राः-परस्परं संश्लिष्टाः, अङ्गुलयो यस्य तदेवम्| तथा, महत्-विस्तीर्णम्|
तथा, गूढः-अदृश्यो, वंशो यस्य तदेवंविधं पृष्ठं प्रशस्तम्| तथा, बृहत्-विस्तीर्णम्|
सन्धयो निगूढाः-अन्तर्गताः, दृढाः-अत्रुटनशीलाः|
धीरः-अकृपणः| स्वरः-शब्दः| अनुनादी-घण्टादिवदनुरणनन्यायेन|
वर्णः स्निग्धः-अरूक्षः| स्थिरा प्रभा-कान्तिः, यस्य स एवं प्रशस्तः|
—————————————————|
स्वभाजं स्थिरं सत्त्वमविकारि विपत्स्वपि||११४||
सत्त्वं स्वभावाज्जातं स्वभवजम्,-अनाहार्यं प्राकृतमबाह्यहेतुजं न मद्यादिहेतुजम्| स्थिरं-अहार्यम्| अत एव विपत्स्वप्यविकारि-अक्षोभि| अपिशब्दात् किमुत सम्पत्सु न स्यादेवंविधं सत्त्वं स्वभावजमहार्यं च ?|
उत्तरोत्तरसुक्षेत्रं वपुर्गर्भादिनीरुजम्|
आयामज्ञानविज्ञानैर्वर्द्धमानं शनैः शुभम्||११५||
क्षेत्रमिव क्षेत्रम्, शोभनं क्षेत्रं सुक्षेत्रम्| वपुः-शरीरम्| तस्य यथावत्प्रशस्तं प्रमाणलक्षणं “स्वं स्वं हस्तत्रयं सार्द्धं” इत्यादिग्रन्थोक्तम्| तथा, तदवयवानां ललाटादीनां यथावत्प्रशस्तं गुणलक्षणं “ललाटमुन्नतं” (श्लो.१०८) इत्यादिग्रन्थोक्तम्| तथा, प्रशस्तं सत्त्वलक्षणं “स्वभावजंस्थिरं” इत्यादिग्रन्थोक्तम्| उत्तरोत्तरं सुक्षेत्रं यस्मिन्वपुषि तदुर्ररोत्तरसुक्षेत्रं प्रशस्तलक्षणभूमिकं वपुः शुभमित्यत्र योज्यम्| एतदुक्तं भवति,-योथोक्तं प्रमाणं सुक्षेत्रं वपुः शुभम्, ततोऽपि यथोक्तलक्षणललाताद्यवयवं सुक्षेत्रं वपुः शुभतरम्, ततोऽपि यथोक्तसत्त्वलक्षणगुणं सुक्षेत्रं वपुःशुभतमम्, इत्युत्तरोत्तरसुक्षेत्रशब्दस्यार्थः| तथा, गर्भादिनीरुजम्| गर्भ आदिर्येषां-बालल्यौवनादीनां वयोवस्थाविशेषाणां, त एवम्| गर्भदयो नीरुजा यस्य-वपुषः, तद्गर्भादिनीरुजं वपुः शुभम्| आयामेत्यादि| आयामो-दैर्घ्यम्, ज्ञानं-लौकिको व्यवहारलेशः, विज्ञानं-विशिष्टं ज्ञानं शास्त्राभ्यासादिसमुत्थितं परमार्थावबोधपर्यन्तम्, तैर्यद्वपुः शनैर्वर्द्धमानं-वृद्धिमाप्नुवन्न सहसा, तच्छुभम्|
इति सर्वगुणोपेते शरीरे शरदां शतम्|
आयुरैश्वर्यमिष्टाश्च सर्वे भावाः प्रतिष्ठिताः||११६||
इति-एवं प्रकारेण यथोक्तेन| सर्वगुणैरुपेते-युक्ते, शरीरे शरदां-समानां, शतमायुः-जीवितम्, तथैश्वर्यं, तथेष्टाः-शुभा ये केचिद्भावास्ते, तत्र तथाभूते देहे सर्वे प्रतिष्ठिताःव्यवस्थिता वर्षशतानुबन्धिनः|
एवं वपुषः प्रशस्तलक्षणमुक्त्वा बलप्रमाणज्ञानार्थमाह —-
त्वग्रक्तादीनि सत्त्वान्तान्यग्र्याण्यष्टौ यथोत्तरम्|
बलप्रमाणज्ञानार्थं साराण्युक्तानि देहिनाम्||११७||
सारैरुपेतः सर्वैः स्यात्परं गौरवसंयुतः|
सर्वारम्भेषु चाशावान्सहिष्णुः सन्मतिः स्थिरः||११८||
त्वग्रक्तादीनि सत्त्वान्तानि देहिनां साराणि यथोत्तरमग्र्याणिउत्तरोत्तरश्रेष्ठानि, अष्टावुक्तानि| तेन त्वग्रक्तमांसमेदोस्थिमज्जशुक्रसत्त्वानीति बोध्यम्| “एवं वर्षशतमायुःप्रमाणमस्मिन् काले| सन्ति च पुनः कर्मविशेषादूनाधिकवर्षशतजीविनो मनुष्याः| तेषां यथोक्तैः प्रकृतिविशेषैरायुःप्रमाणमुपलभ्य वयस्त्रिधा विभजेत्|” (सं. शा. अ. ८) इति| किमर्थं साराण्युक्तानि ? बलप्रमाणज्ञानार्थम्| तथा च देहमात्रदर्शनादेवं भिषङ् [न] मुह्येत्,-अयमुपचयेन महाशरीरत्वाद्बलवान्, अयं कृशत्वादल्पशरीरत्वादल्पबलः, इति| तच्चोभयमप्यन्यथा दृष्टं गजसिंहे| सर्वैः-अष्टभिरेतैः, सारैर्युक्तः परं-अतिशयेन, गौरवेण संयुतः स्यात्| सर्वेत्यादि| सर्वारम्मेषु-अशेषचिकीर्षितकार्येषु, आशावान् स्यात्| अस्मात्कर्तव्यात् कृतादिदमिदं सम्पद्यत इत्याशाशब्दार्थः| तथा, सहिष्णुः-सहनशीलः| अत एव शारीरमानसैर्दुःखैर्नासावभिभूयत इति यावत्| तथा, सन्मतिः-सुधीः| तथा, स्थिरः-कर्तव्येषु स्थिरबुद्धिः| मुनिना च लक्षणमुक्तम् (च. वि. अ. ८/१४-७-११)- तद्यथा| त्वग्रक्तमांसमेदोऽस्थिमज्जशुक्रसत्त्वानि| तत्र स्निग्धश्लक्ष्णमृदुप्रसन्नसूक्ष्माल्पगम्भीरसुकुमारलोमा सप्रमेव च त्वक् त्वक्साराणाम्| सा सारता सुखसौभाग्यैश्वर्योपभोगबुद्धिविद्यारोग्य प्रहर्षान्ययुष्यानि त्वरमाचष्टे|| कर्णाक्षिमुखजिह्वानासौष्ठपाणिपादतलनखललाटमेहनं स्निग्धं रक्तं श्रीमद्भ्राजिष्णु रक्तसाराणाम्| सा सारता सुखमुदग्रतां मेधां मनस्वित्वं सौकुमार्यमनतिबलमक्लेशसहिष्णुतां चाचष्टे|| शङ्खललाटकृकाटिकाक्षिगण्डहनुग्रीवास्कन्धोदरवक्षःकक्षापाणिपादसन्धयः स्थिरगुरुमांसोपचिता मांससाराणाम्| सा सारता क्षमां धृतिमलौल्यं वित्तं विद्यां सुखमार्जवमारोग्यं बलमायुश्च दीर्घमाचष्टे|| वर्णस्वरनेत्रकेशलोमनखदन्तौष्टमूत्रपूरिषेषु विशेषेण स्नेहो मेदः साराणाम्| सा सारता वित्तैश्वर्यसुखोपभोगप्रदानात्यार्जवं सुकुमारोपचारतां चाचष्टे|| पार्ष्णिगुल्फजान्वरत्निजत्रुचिबुकशिरःपर्वस्थूलाः स्थूलास्थिनखदन्ताश्चास्थिसाराः| ते महोत्साहाः क्रियावन्तः क्लेशसहाः सारस्थिरशरीरा भवन्त्यायुष्मन्तश्च|| तन्वङ्गा बलवन्तश्च स्निग्धवर्णस्वराः स्थूलदीर्घवृत्तसन्धयश्च मज्जसाराः| ते दीर्घायुषो बलवन्तः श्रुतविज्ञानवित्तापत्यसन्मानभाजनाश्च सदा भवन्ति|| सौम्याः सौम्यप्रेक्षिणः क्षीरपूर्णलोचना इव प्रहर्षबहुलाः स्निग्धवृत्तसारसमसंहतशिखरदशनाः प्रसन्नस्निग्धवर्णास्वरा भ्राजिष्णवो महास्फिजश्च शुक्रसाराः| ते स्त्रीप्रियोपभोगा बलवन्तः सुखाभोग्यवित्तैश्वर्यसमानाः फलभाजश्च भवन्ति|| स्मृतिमन्तो भक्तिमन्तः कृतज्ञाः प्राज्ञाः शुचयो महोत्साहा दक्षा धीराः समरविक्रान्तयोधिनस्त्यक्तविषादाः स्ववस्थितगतिगम्भीरबुद्धिचेष्टाः कल्याणाभिनेवेशिनश्च सत्वसाराः| तेषां स्वलक्षणैरेव गुणा व्याख्याताः|| तत्र सर्वैः सारैरुपेताः पुरुषा भवन्त्यतिबलाः परमगौरवयुक्ताः क्लेशसहाः सर्वारम्भेष्वात्मनि जातप्रत्ययाः कल्याणाभिनिवेशिनः स्थिरसमाहितशरीराः सुसमाहितगतयः सानुनादस्निग्धगम्भीरमहास्वराः सुखैश्वर्यवित्तोपभोगसन्मानभाजो मन्दजरसो मन्दविकाराः प्रायस्तुल्यगुणविस्तीर्णापत्याश्चिरजीविनश्च भवन्ति|| अतो विपरीतास्त्वसाराः||” इति| सङ्ग्रहे च प्रमाणमप्युक्तम्| यथा (शा. अ.८)-“स्वाङ्गुलैः पादाङ्गुष्ठप्रदेशिन्यौद्व्यङ्गुलायते| तिस्रोऽन्याः क्रमेणोत्तरोत्तरं पञ्चमभागहीनास्तन्नखहीना वा| चतुरङ्गुलायताः पृथक्प्रपदपादतलपार्ष्णयः षट्पञ्चचतुरङुलविस्तृताः| चतुर्दशैवायामेन पादश्चतुर्दशैव परिणाहेन| तथा गुल्फौ जङ्घामध्यं च| चतुरङ्गुलोत्सेधः पादः| अष्टादशायामा जङ्घा षोडश परिणाहेन| चतुरङ्गुलं जानु षोडशाङ्गुलपरिणाहम्| ऊरु त्रिंशत्परिणाहावष्टादशायामौ| वृषणौ षडायामौ परिणाहेन चाष्टाङ्गुलौ| मेढ्रः षडङ्गुलायामोऽर्द्धपञ्चपरिणाहः| षोडशविस्तारा कटी पञ्चाशत्परिणाहा| दशाङ्गुलं बस्तिशिरः| द्वादशाङ्गुलमुदरम्| दशविस्तारे द्वादशायामे पार्श्वे| द्वादशोत्सेधं त्रिकम्| अष्टादशोत्सेधं पृष्ठम्| द्वादशकं स्तनान्तरम्| द्व्यङ्गुलः स्तनपर्यन्तः| चतुर्विंशत्यङ्गुलविशालं द्वादशोत्सेधमुरः| द्व्यङ्गुलं हृदयम्| अष्टकौ स्कन्धौ कक्षे च| षट्कावंसौ| षोडशाकौ प्रबाहू| पञ्चदशकौ प्रपाणी| दशाङ्गुलौ पाणी| तत्रापि पञ्चाङ्गुला मध्यमाङ्गुलिः| ततोऽर्धाङ्गुलहीने प्रदेशिन्यनामिके| सार्धव्यङ्गुलौ कनिष्ठिकाङ्गुष्टौ| चतुरुत्सेधा द्वाविंशतिपरिणाहा शिरोधरा| द्वादशोत्सेधं चतुर्विंशतिपरिणाहमाननम्| पञ्चाङ्गुलमास्यम्| चतुरङ्गुलं पृथक् चिबुकौष्ठनासादृष्ठ्यन्तरकर्णललाटम्| शङ्खगण्डाश्चतुरङ्गुलाः| त्रिभागाङ्गुलविस्तारा नासापुटमर्यादा| द्वयङ्गुलायतमङ्गुष्ठोदरविस्तृतं नेत्रम्| तत्र शुक्लात्तृतीयांशः कृष्णः| कृष्णान्नवमांशा मसूरदलमात्रा दृष्टिः| षडङ्गुलोत्सेधं द्वात्रिंशत्परिणाहं शिर इति| सर्वं पुनः शरीरमङ्गुलानि चतुरशीतिः| तदायामविस्तारसमं सममुच्यते| तत्र यथोक्तपरिमाणमिष्टम्| तथा स्नातानुलिप्तमापादानुपूर्व्या शुष्यद्वरम्| अनिष्टं हीनमधिकं वा यथोक्तप्रमाणादिति|” इति|
सत्त्वादिप्रकृतीनां तिसृणां कथं सुखदुःखानुभवः स्यात् ? इत्याह-
अनुत्सेकमदैन्यं च सुखं दुःखं च सेवते|
सत्ववांस्तप्यमानस्तु राजसो नैव तामसः||११९||
अनुत्सेकं कृत्वा-अभिमानं हित्वा, सत्त्ववान् पुरुषः सुखं सेवते-अनुभवति| तथा, अदैन्यं-कार्पण्यं हित्वा, दुःखं सेवते-अनुभवति| तप्यमानस्त्विति| तुर्व्यतिरेके भिन्नक्रमे| राजसः पुनः पुरुषः तप्यमानोऽहमेवामुना प्रकृष्टेनानन्यसाधारणेन सुखेन सुखित्येवं सुखं सेवते| अहङ्काराक्रान्तमानसोऽहमेवेदं दुःखं सोढुं शक्त इत्येवं राजसो नरो दुःखमनुभवति| तामसः पुनः पुरुषो नैव सुखं सेवते, न दुःखम्, अत्यन्तमूढत्वात्| नासौ सुखेन सुखी, न च दुःखेन दुःखी, प्राप्ततृतीयावस्थो यथा पुरुषः| एवं द्वन्द्वप्रकृतिरपि सुखं न सेवते नापि दुःखम्, अत्यन्तमूढत्वात्| समसत्त्वादिप्रकृतिस्त्वनुत्सिक्तोऽदीनः सन् सुखदुःखे सेवते|
इदानीं प्रधानफलदायि यत्प्रधानं प्रश्स्तं लक्षणं वपुषः, तद्दर्शयितुमाह —-
दानशीलदयासत्यब्रह्मचर्यकृतज्ञताः|
रसायनानि मैत्री च पुण्यायुर्वृद्धिकृद्गणः|१२०|
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचिता
यामष्टाङ्गहृदयसंहितायां द्वितीये शारीरस्था-
नेऽङ्गविभागो नाम तृतीयोऽध्यायः|३|
दानं-धनादित्यागः, तच्छीलयति-अभ्यस्यति दानशीलः| “शीलिकामि” इत्यादिना णः| दया-दीनेष्वभ्युपपत्तिः| मैत्री-सर्वसत्त्वानामात्मभावनम्| न केवलं पूर्वोक्तं (श्लो-१०६)- “स्वं स्वं हस्तत्रयं” इत्यादि “वर्द्धमानं शनैः” इत्येतत्पर्यन्तं यल्लक्षणं, तच्छरीरस्यायुर्वृद्ध्यादिहेतुः| यावदयं दानशीलादिगणो मैत्र्यवसानः पुण्यायुर्वृद्धिकृत्| दानादयश्च यथासम्भवं केचित्पुण्यकृतः, केचिदायुर्वृद्धिकृतः, केचिदुभयकृतश्च| अन्येभ्यश्च महापुरुषलक्षणेभ्योऽस्यैव गणस्य ज्यायस्त्वं प्रतिपादयता शास्त्रकृताऽध्यायावसाने ग्रन्थस्यास्य निर्देशः कृत इति|
इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदय-
टीकायां सर्वाङ्गसुन्दराख्यायां द्वितीये शारीरस्थानेऽङ्ग
विभागो नाम तृतीयोऽध्यायः समाप्तः|| ३||
Moolashloka with Arunadutta & Hemadri Commentary

Diacritic Version
śrīmadvāgbhaṭaviracitam
Aṣṭāṅgahr̥dayam
śrīmadaruṇadattaviracitayā 'sarvāṅgasundarākhyā' vyākhyayā hēmādripraṇītayā 'āyurvēdarasāyanāhvayā' ṭīkayā ca samullasitam
śārīrasthānam - 3. aṅgavibhāgaśārīrōdhyāyaḥ
garbhavyāpadō’nantaramaṅgavibhāga ucyatē| aṅgapratyaṅgavijñānē hi sati samyaggarbhasyāharaṇādikaṁ kartuṁ śakyatē, nānyathā| itīdamāha-
athātō’ṅgavibhāgaṁ śārīraṁ vyākhyāsyāmaḥ|
iti ha smāhurātrēyādayō maharṣayaḥ|
gadyasūtrē||2||
aṅgasya-śarīrasya, vibhāgō-vibhajanaṁ, aṅgapratyaṅgādinā pr̥thakkaraṇaṁ-aṅgavibhāgaḥ| athētyādi pūrvavat|
atha tānyēvāṅgāni vibhaktukāma āha —-
śirō’ntarādhirdvau bāhū sakthinīti samāsataḥ|
ṣaḍaṅgamaṅgaṁ pratyaṅgaṁ tasyākṣihr̥dayādikam||1||
ṣaḍaṅgaṁ-ṣaḍavayavaṁ, aṅgaṁ-śarīram| tānyēva ṣaḍaṅgānyāhaśiraḥ, tathā’ntarādhiḥ, tathā dvau bāhū-vāmadakṣiṇau, tathā sakthinī dvē-vāmadakṣiṇē, iti-ēvaṁ, samāsataḥ-saṅkṣēpēṇa, ṣaḍaṅgam| vistarēṇa punaranēkāvayavam| antarādhiśabdēna śirōbāhusakthivarjaḥ sarvō madhyabhāga ucyatē| ādhīyantē-nibadhyantē yathāyathaṁ śarīrasyāntaḥ sthāpyantē prākkr̥tēna karmaṇā śiraḥprabhr̥tayaḥ pañcāvayavā yasmin sō’ntarādhiḥ| tasya-ṣaḍavayavasyāṅgasya, akṣihr̥dayādikaṁ pratyaṅgam| ādiśabdēna karṇanāsāpāṇipādādiparigrahaḥ| avayavamavayavaṁ prati yō’vayavaḥ, tatpratyaṅgamucyatē| śarīraṁ vyōmavāyvādipañcamahābhūtātmakaṁ cētanādīnāmadhiṣṭhānam|
atastamēva pratyēkaṁ mahābhūtaguṇamāha —-
śabdaḥ sparśaśca rūpaṁ ca rasō gandhaḥ kramādṅguṇāḥ|
khānilāgnyabbhuvām—————————————|2|
śabdādayaḥ pañca guṇāḥ kramāt-kramēṇa, khādīnāṁ pañcānāṁ bhavanti| khaṁ cānilaścāgniścāpaśca bhūśca khānilagnyabbhuvaḥ, tāsām| tatra śabdaḥ khasya-ākāśasya guṇaḥ, suṣirē’tirēktasparśādiguṇacatuṣṭayāyōgitvēna śabdamātrasyaivōpalambhāt| sparśō vāyōḥ| rūpamagnēḥ| rasō’pāṁ-pānīyasya| gandhō bhūmēḥ| ētēṣāṁ guṇānāṁ khādyāśritatvāttēṣāṁ guṇā ityucyantē|
kimēkaika ēvākāśasyēva vāyvādīnāṁ yathōktō guṇaḥ ? utānyē’pi santi ? ityāha —-
———————————————|
——————–ēkaguṇavr̥dhdyanvayaḥ parē||2||
ēkēna guṇēna vr̥ddhiḥ, tayā’nvayaḥ-sambandhaḥ| parē-vāyvādau mahābhūtē| athavā, ēkasya guṇasya vr̥ddhiḥ, tayā’nvayaḥ-anugamastadbhāvitvaṁ para iti| caturṇāṁ mahābhūtānāṁ paratvōktibhāktvamākāśāpēkṣayā| tēna vāyvādau mahābhūtē ēkaguṇavr̥dhdyanvayaḥ| ākāśastvēkaguṇa ēva| tasya paratvāsambhavānna tasyaikaguṇavr̥dhdyanvayaḥ| ākāśātparē-anantarē mahābhūtē vāyvākhyē, ēkaguṇa vr̥dhdyanvayēna dviguṇatvāt śabdasparśaguṇatvam| tataḥ parē mahābhūtē’gnyākhyē, ēkaguṇavr̥ddhyanvayēna triguṇatvāt śabdasparśarūpaguṇatvam| tataḥ parē-jalākhyē mahābhūtē, ēkaguṇavr̥dhdyanvayēna caturguṇatvāt śabdasparśarūparasaguṇatvam| tataḥ parē-pr̥thivyākhyē mahābhūtē, ēkaguṇavr̥dhdyanvayēna pañcaguṇatvāt śabdasparśarūparasagandhaguṇatvam| ēvaṁ pañcānāṁ khādīnāmēkaguṇavr̥dhdyaikadvitricatuḥ pañcaguṇatvaṁ bōdhyam|
idānīṁ yathākramanirdiṣṭēbhyō bhūtēbhyō yē bhāvā bhavanti, tān darśayati-
idānīṁ yathākramanirdiṣṭēbhyō bhūtēbhyō yē bhāvā bhavanti, tān darśayati —-
tatra khāt khāni dēhē’smin śrōtraṁ śabdō viviktatā|
vātātsparśatvagucchvāsā vahnērdr̥grūpapaktayaḥ||3||
āpyā jihvārasaklēdā ghrāṇagandhāsthi pārthivam|
———————————————|4|
[tatra-] tēṣu pañcasu mahābhūtēṣu madhyē, asmin dēhē-manuṣyādau sthūlatayā pariṇatē, nānyasminnatīndriyē bhūtādau| khāt-ākāśāt satvabahulāt, khāni-chidrāṇi, ‘bhavanti’ iti śēṣaḥ| ēvaṁ śrōtrēndriyādhiṣṭhānaṁ-śrōtram| tathā, śabdō-ghōṣaḥ| tathā, viviktatā-śūnyatā riktatā, khādēva cidraviśēṣaḥ| yadyapi chidrādiṣu sarvabhūtānāmēva vyāpāraḥ, tathā’pyākāśasyaivātra viśiṣṭaṁ kāraṇatvam| yathā-ghaṭādau mr̥ddaṇḍacakrasalilasūtrādikāraṇasamudāyaniṣpannē’pi mr̥da ēva viśiṣṭakāraṇatvam| ata ēvāsau mr̥nmaya ēvōcyatē| ēvaṁ sarvēṣu vakṣyamāṇēṣu vātādijēṣu sparśādiṣu bōdhyam| vātāt-anilādrajōbahulāt, sparśādayō bhavanti| sparśaḥ-sparśanam| tvagiha sparśanēndriyādhiṣṭhānam| tathā, ucchvāsaḥ-prāṇākhyaḥ| vahnēḥ satvarajōbahulāddr̥gādayō bhavanti| ddr̥k-ddr̥ṣṭiḥ, cakṣurindriyādhiṣṭhānam| tathā, rūpākhyō guṇaḥ| paktiḥ-pākaḥ| upalakṣaṇaṁ cēdam| tējaḥpittōṣmamēdhāvarṇaśauryādayō’pi vahnērēva vēdyāḥ| abhdyaḥ satvatamōbahulābhyō jātā āpyā jihvādayō bhavanti| jihvāśabdēnātra jihvāyā viśiṣṭa ēkadēśō rasanēndriyādhiṣṭhānaṁ vivakṣitaḥ, na sarvaiva jihvā| tathā, rasākhyō guṇaḥ| tathā, klēdākhyō bhāvaḥ| upalakṣaṇaṁ cēdam| svēdasnēhamūtrādayō’pyāpyā ēva| ghrāṇādi pārthivaṁ bhavati| ghrāṇaṁ-nāsāyā viśiṣṭa ēkadēśō ghrāṇēndriyādhiṣṭhānam| gandhō guṇaḥ| tathā, asthi bhāvaḥ| ētāni sarvāṇi pr̥thivyākhyāttamōbahulānmahābhūtājjātāni|
dēhē’smin kiṁ mātr̥jam ? kiṁ pitr̥jam ? ityāha —-
———————————————|
mr̥dvatra mātr̥jaṁ raktamāṁsamajjagudādikam||4||
paitr̥kaṁ tu sthiraṁ śukradhamanyasthikacādikam|
caitanaṁ cittamakṣāṇi nānāyōniṣu janma ca||5||
atra-asmin dēhē, anēkasāmagrīkē’pi yanmr̥du vastu tanmātr̥jam| māturādhikyēna kāraṇabhāva ityarthaḥ| mātr̥jamiti “pañcamyāmajātau” iti janērḍaḥ| kiṁ punastanmr̥du ? ityāha-raktētyādi| ādiśabdēna nābhīhr̥dayayakr̥tplīhāmāśayādīnāṁ grahaṇam| nanu, gudasya māṁsaprāyatvānmāṁsagrahaṇēnaiva siddhaṁ grahaṇam| tat kiṁ gudagrahaṇēna ? brūmaḥ| māṁsatvasyāpyasyāniścayāt pr̥thagupādānaṁ kr̥tam| tathā ca vakṣyati (hr̥.śā.a.4/45)-“māṁsamarma gudō’nyēṣāṁ” iti| yadvastu sthiraṁ tat paitr̥kaṁ-pitr̥jam| kiṁ tat ? ityāha-śukrādikam| ādiśabdēna śirāsnāyurōmādīnāṁ grahaṇam| paitr̥kamiti “pituryacca” iti ṭhak| “isusuktāntātkaḥ” iti kādēśaḥ| cētanā-ātmaiva, prākkr̥taśubhāśubhakarmabījakṣētramityarthaḥ| tatō jātaṁ caitanam| kiṁ tat ? ityāhacittamityādi| cittaṁ-indriyasārathiḥ| tathā, akṣāṇi-śrōtrādīni| nanu, caitanānyakṣāṇītyētatpūrvāparavyāhatamiva manyāmahē| yataḥ pūrvamuktam (ślō.3)-“khātkhāni dēhē’smin” iti| tatkathamiha caitanānyakṣāṇītyucyantē ? brūmaḥ| nātra tatra vā’vadhāraṇaṁ kr̥tam| yathā caitanānyēvākṣāṇi khādēva khānīti| tasmādākāśaṁ cētanā ca dvayamapyakṣāṇāṁ kāraṇamityavēhi| tathā, nānāyēniṣu-gajājavājibastaśaśaśambaraprabhr̥tiṣu, yajjanma-sambhavaḥ, tadapi caitanam| upalakṣaṇaṁ cēdam| kāmakrōdhalōbhabhayaharṣadharmādharmaśīlatāsmr̥tibuddhīcchādvēṣaprayatnāhaṅkārasukhaduḥkhāyuḥsvaraviśēśādayō’pi hi caitanā ēva|
———————————————|
sātmyajaṁ tvāyurārōgyamanālasyaṁ prabhā balam|6|
sātmyaṁ trividham, vyādhisātmyaṁ dēśasātmyaṁ dēhasātmyaṁ ca| tatrēha vyādhisātmyaṁ na gr̥hyatē| yatō dēhasya sambhavataḥ sambhūtamātrasya cēyaṁ vicāraṇā prastutā, kutaḥ kiṁ sambhavati? iti| atō vyādhicarcēhāprastāvānnōpayujyatē| [tasmāddēśasātmyaṁ dēhasātmyaṁ ca gr̥hyatē| dēhasya hi sambhavataḥ sambhūtamātrasya ca mātrāhāravihārādi yadapathyamapyatiśayēna śīlitaṁ tadapyasya dēhasyōcitatāṁ gacchatsukhanubandhatvēna sātmyamucyatē|] tasmāddēśasātmyaṁ dēhasātmyam ca grahītuṁ yuktam| sātmyājjātaṁ-sātmyajam| kiṁ tat ? āyuḥ,-jīvitam| tathā, ārōgyaṁ-dhātusāmyam| tathā, anālasyaṁ-sarvacēṣṭāsūdyōgaḥ,-utsāhaḥ| tathā, prabhākāntiḥ| tathā, balaṁ-śaktiḥ| upalakṣaṇaṁ cēdam| alōlupatvēndriyaprasādasvaravarṇavīryaujaḥsampatpraharṣādyapi hi sātmyajamēva|
———————————————|
rasajaṁ vapuṣō janma vr̥ttirvr̥ddhiralōlatā||6||
rasāt-āhārarasāt pariṇatājjātaṁ rasajam| kiṁ tat ? janma,-sambhavaḥ| kasya ? vapuṣaḥ,-sakalasya śarīrasya| tathā, vr̥ttiḥ-vartanaṁ, jīvitānubandhaḥ| rasaṁ hi vinā jīvitasyāpyabhāvaḥ| tathā, vr̥ddhiḥ-āyāmavistarābhyāṁ yathāsaṁsthānasya śarīrasyādhikyam| tathā, alōlitā-alaulyam| alōlatā rasajēti liṅgavipariṇāmē sati sambandhaḥ| udāharaṇamātraṁ cēdam| utsāhapuṣṭitr̥ptayō’pi hi rasajā ēva|
sātivikaṁ śaucamāstikyaṁ śukladharmarucirmatiḥ|
rājasaṁ bahubhāṣitvaṁ mānakr̥ddambhamatsaram||7||
tāmasaṁ bhayamajñānaṁ nidrā”lasyaṁ viṣāditā|
———————————————|8|
satvajaṁ śaucādikam| śaucaṁ-vākkāyamanasāṁ śuddhiḥ satyavākyādyabhidhāyitvaṁ-vākśuddhiḥ, mr̥jjalādinā kṣālanādi śāstrōditaṁ-kāyikaṁ śaucam| mānasaṁ tu śaucaṁ-jagadbandhutā karuṇāśuddhasantānatvamāstikyādi| śaucamiti “igāntācca laghupūrvāt” ityaṇ| āstikyamiti asti paralōka iti matirasyētyāstikaḥ| “asti nāsti” ityādinā ṭhak| āstikasya bhāva āstikyam| brāhmāṇāditvāt ṣyañ| tathā, śuklē dharmē nirvyājē, ruciḥ-bhaktiḥ| matiḥ-prajñā| upalakṣaṇaṁ cēdam| kr̥tajñatādākṣiṇyavyavasāyaśauryagāmbhīryasmr̥timēdhādayō’pi hi sāttvikā ēva| rājasāni bahubhāṣitvādīni| upalakṣaṇaṁ cēdam| śauryadurupacāratālōlupatvaharṣakāmādayō’pi rājasā ēva| tāmasāni bhayādīni| upalakṣaṇaṁ cēdam| pramādaśōkādīnyapi tāmasānyēva| tatra satvaṁ-manaḥ, tasyōpaplavō rajastamaścēti| suśrutē (saṅgrahē) cōktam (sū.a.20)-“vayvākāśadhātubhyāṁ vāyuḥ, āgnēyaṁ pittam, ambhaḥpr̥thivībhyāṁ ślēṣmā|” iti| āyurvēdāvatārē tūktam-“śītōṣṇaśamavr̥ddhyā”pyaṁ na pittaṁ drutatāmravat| karakāmbhaḥ kaphō bhaumau nānilānalasaṁhataḥ||(?) iti|
adhunā dēhāśritasarvabhāvōpasaṁhāraṁ kurvan pradhānō yō bhāvō dēhasya, tasya prādhānyaṁ darśayannidamāha —-
———————————————|
iti bhūtamayō dēhaḥ—————————-|8|
sarvēbhyō dēhāśritabhāvēbhyō mahābhūtānāmēva prādhānyam, tanmayatvāddēhasya sarvabhāvādhārabhūtasya
ityēvamanēna granthēna dēhasya bhūtamayatvamabhidhāya, idānīṁ dēhasya pratibhāgaśō nirūpayannāha —-
———————————————|
——————–tatra sapta tvacō’sr̥jaḥ||8||
pacyamānātprajāyantē kṣīrātsantānikā iva|
———————————————|9|
tatra-tasmin mahābhūtamayē dēhē, asr̥jō-raktāt saptatvagutpādanasamarthēna dhātūṣmaṇā pacyamānāt, sapta tvacaḥ prakarṣēṇa jāyantē| kutaḥ kā iva ? yathā kṣīrāt pacyamānācchītībhūtāttadupari ghanabhāgasvabhāvāḥ santānikāḥ-jālikāḥ, jāyantē tadvadasr̥jaḥ pacyamānātsapta tvacō bhavanti| tatra “bhāsinī lōhinī śvētā tāmrā tvagvēdinī tathā| syādrōhiṇī māṁsadharā saptamī parikīrtitā|| 1|| vrīhēraṣṭādaśāṁśā”dyā dvitīyā ṣōḍaśāṁśikā| dvādaśāṁśā tr̥tīyā tu caturthyaṣṭāṁśamātrikā|| 2|| pañcamī pañcamāṁśā tu ṣaṣṭhī vrīhipramāṇikā| vrīhidvayapramāṇā tu saptamī bhiṣajāṁ matā|| 3|| khādicchāyāpañcakasya bhāsinyādhāratāṁ gatā| manyantē ṣaṭ tvacaḥ kēcittāsāṁ bāhyōdakāśrayā|| 4|| dvitīyā’sr̥gdharā sidhmaśvitrādhārā tr̥tīyakā| caturthī sarvakuṣṭhānāmadhiṣṭhānatvamāgatā|| 5|| vidradhyalajyadhiṣṭhānā pañcamī rōgakāriṇī| ṣaṣṭhyatra yasyāṁ cchinnāyāṁ tāmyatyandhaṁ tamō viśēt|| 6|| yāmadhiṣṭhāya jāyantē sthūlamūlāni parvasu| arūṁṣi kr̥ṣṇaraktāni duścikitsyatamāni ca|| 7|| ” iti|
idānīṁ kalā āha —-
———————————————|
dhātvāśayāntaraklēdō vipakvaḥ svaṁsvamūṣmaṇā||9||
ślēṣmasnāyvaparācchannaḥ kalākhyaḥ kāṣṭhasāravat|
tāḥ sapta————————————–|10|
dhātūnāṁ-rasādīnāṁ, āśayāḥ-ādhārāḥ, jalāśayavattēṣāmantarāṇyantarālāni, tēṣu dhātvāśayāntarēṣu klēdō dhātvāśayāntaraklēdaḥ| sa vipakvaḥ kalākhya ucyatē-kalāsaṁjñāṁ labhatē| kēna vipakvaḥ ? svaṁsvamūṣmaṇā,-ātmīyēnātmīyēna vahninā| yathā rasadhātvāśayāntarasthaḥ klēdō rasadhātūṣmaṇā vipakvaḥ kalaikā bhavati| yāvacchukradhātvāśayāntarasthaḥ śukradhātūṣmaṇā vipakvaḥ saptamī kalā bhavati| kīdr̥śō vipakvaḥ ? ślēṣmaṇā snāyvā’parayā ca-jarāyvākhyayā, channaḥ-chāditaḥ| “vā dāntaśānta” ityādau chadērṇyantāt channaśabdō nipātitaḥ| kiṁvat ? kāṣṭhasāravat| yathā kāṣṭhasya sāraḥ, tathā’yaṁ dhātusāraśēṣō’lpatvātkalāsaṁjñaḥ| dhātvāśayāntaramaryādāḥ sapta kalāḥ| tatra-“ādyā maṁsadharā yasyāṁ dhamanyaḥ snāyavaḥ sirāḥ| srōtāṁsi ca prarōhanti pratānairvyāpibhiḥ kalā|| 1|| dvitīyā’sr̥gdharā’syāṁ tu māṁsāntaḥ śōṇitaṁ sthitam| viśēṣataḥ sirāplīhayakr̥tsu kṣatajaṁ kṣatāt|| 2||māṁsātpravartatē kṣīraṁ kṣīrivr̥kṣādiva kṣatāt| mēdōdharā tr̥tīyā’tra mēdā’sthnāmudarē sthitam|| 3|| bhavatyaṇuṣu majjā’ntaḥ sthūlāsthiṣvatha mūrddhani| mastuluṅgakapālāntaścaturthī tu kaphāśrayā|| 4|| tatsthaḥ kaphō draḍhayati sandhīnasthnāṁ śarīrajān| pañcamyāsāṁ viḍādhārā sā”mapakvāśayāśrayā|| 5|| undukasthaṁ vibhajatē malaṁ, pittadharā punaḥ| ṣaṣṭhī pakvāśayāntasthā vahnayadhiṣṭhānabhāvataḥ|| 6|| pakvāśayōnmukhaṁ kr̥tvā balātpittasya tējasā| śōṣayantī pacatyannaṁ tadēva ca vimucyati|| 7|| dōṣaduṣṭā’tha daurbalyādāmamēva nirasyati| labhatē grahaṇīsaṁjñāmasyāścāgnibalaṁ balam|| 8|| śarīraṁ dhārayatyagnibalōpaṣṭambhabr̥ṁhitā| antyā kalā śukradharā mūtramārgamupāśritā|| 9|| dvayaṅgulē dakṣiṇē pārśvē bastidvārasya cāpyadhaḥ| śarīraṁ vyāpya sakalaṁ sā śukraṁ vartayatyapi|| 10||” iti|
kalākhyaṁ bhāvamākhyāya, ādhārākhyān bhāvānāha—–
—————————————–|
sapta cādhārā raktasyādyaḥ kramāt parē||10||
kaphāmapittapakvānāṁ vāyōrmūtrasya ca smr̥tāḥ|
garbhāśayō’ṣṭamaḥ strīṇāṁ pittapakvāśayāntarē||11||
na kēvalaṁ kalāḥ sapta yāvadādhārā api sapta| raktādīnāmasmin dēhē sambhavantīti vākyaśēṣaḥ| raktasyādyō-rasākhyōdhātuḥ, parē-anyē yē dhātavaḥ ṣaṭ, tē kramāt-yathākramaṁ, kaphādīnāmādhārāḥ smr̥tāḥ-uktāḥ| āmasyānnasya ya ādhāraḥ sō’trāmaśabdēnōktaḥ| tathā pakvasyānnasya-purīṣatāṁ prāptasya, ya ādhāraḥ sa pakvaśabdēnōcyatē| garbhāśayō-garbhādhārō, yaḥ sō’ṣṭamaḥ strīṇāmēva dēhē sambhavati na puṁsām| kva śarīradēśē strīṇāṁ sambhavati ? ityāha-pittapakvāśayāntara iti| pakvaśabdēnēha pakvānnamucyatē| pittaṁ ca pakvaṁ ca pittapakkē, tayōrāśayau ādhārau, pittapakvāśayayōrantaraṁ-madhyaṁ, pittapakvāśayāntaram| tasmin garbhasyāśayaḥ|
kōṣṭhāṅgāni sthitānyēṣu hr̥dayaṁ klōma phupphusam|
yakr̥tplīhōndukaṁ vr̥kkau nābhiḍimbhāntrabastayaḥ||12||
ēṣu-raktādyādhārēṣu, kōṣṭāṅgāni-udarāvayavā hr̥dayādīni, sthitāni-āśritāni| tatra-“kapharaktaprasādātsyāddhr̥dayaṁ sthāna mōjasaḥ| cētanānugabhāvānāṁ paramaṁ cintitasya ca|| 1||
māṁsapēśīcayō raktapadmākāramadhōmukham| tasya dakṣiṇataḥ klōma yakr̥tphupphusamāsthitam|| 2|| samānavāyupradhmātādraktāddēhōṣmapācitāt| kiñciducchritarūpastu jāyatē klōmasaṁjñakaḥ|| 3|| tattulyahētujē plīhayakr̥tī bhiṣajāṁ matē| raktakiṭṭādundukaṁ syātphupphusō raktaphēnajaḥ|| 4|| mēdōsr̥jaḥ pacyamānāt syātāṁ vr̥kkau prasādajau| nābhiḥ sarvaśirāṇāṁ syādādhāraḥ, śakr̥taḥ punaḥ|| 5|| ḍimbhaṁ syādraktamāṁsasya prasādādantrasambhavaḥ| sārdhatrivyāmamantrāṇi puruṣāṇāṁ tu tāni ca|| 6|| strīṇāṁ trivyāmamātrāṇi, bastirmūtrasya cāśayaḥ|” iti| saṅgrahē cōktam (śā.a.5)-“kapharaktavāhisrōtasāṁ mahābhūtānāṁ ca prasādādindriyāṇi| tēṣvapi nētrē ślēṣmaṇaḥ prasādācchuklamaṇḍalam, tatpitr̥jam| asr̥jaḥ kr̥ṣṇamaṇḍalam, tanmātr̥jam| madhyē ddr̥ṣṭimaṇḍalam, tadubhayātmakam| pakṣmavartmaśuklakr̥ṣṇaddr̥ṣṭyākhyāni pañca maṇḍalāni| tatsandhayaścatvārō dvau cāpāṅgakanīnayōriti [ tē ṣaṭ ] ṣaṭ [ ca ] paṭalāni| dvē vartmanī| bāhyaṁ cāśritamagnyambhasī, dvitīyaṁ māṁsaṁ, tr̥tiyaṁ mēdaḥ, caturthamasthi, tēṣāṁ bahalatā ddr̥ṣṭēḥ pañcamāṁśēna| bandhanaguṇāstu catvāraḥ sirākaṇḍarāmēdaḥkaphātmakāḥ| ślēṣmā tu paraṁ sarvasandhibandhanamityuktaṁ prāk| nētrāśritaṁ tējō bāhyatējasā svayōninā yōgācchastramivāśmanā karmaṇyaṁ bhavati| atiyōgādupahanyatē| tacca vaidyutavadvaḍavāmukhavaccāmbhō madhyagamapi vīryōkarṣāttējastvaṁ na jahāti|” iti|
adhunā yāni viśēṣēṇa jīvitasya sthānāni-dēhāvayavāḥ, tānyāha-
daśa jīvitadhāmāni śirōrasanabandhanam|
kaṇṭhō’sraṁ hr̥dayaṁ nābhirbastiḥ śukraujasī gudam||13||
śiraśca rasanaṁ ca śirōrasanam| rasanaṁ-jihvā| badhyatē’nēnēti bandhanam| śirōrasanasya bandhanaṁ śirōrasanabandhanam| śirōrasanabandhanādīni daśa jīvitasya sthānāni| ētēṣu sthānēṣu viśēṣēṇa jīvitaṁ-śarīrēndriyasatvātmasaṁyōgalakṣaṇaṁ, avatiṣṭhatē|
jālāni kaṇḍarāścāṅgē pr̥thak ṣōḍaśa nirdiśēt|
ṣaṭ kūrcāḥ sapta sīvanyō mēḍhrajihvāśirōgatāḥ||14||
śastrēṇa tāḥ pariharēccatasrō māṁsarajjavaḥ|
caturdaśāsthisaṅghātāḥ, sīmantā dviguṇā nava||15||
asthnāṁ śatāni ṣaṣṭiśca trīṇi dantanakhaiḥ saha|
———————————————|16|
jālānīva jālāni śarīrē ṣōḍaśa ādiśēt| kaṇḍarāśca pr̥thagēva ṣōḍaśa ādiśēt-brūyāt| ācārya iti śēṣaḥ| tathā, ṣaṭ kūrcā aṅgē syuḥ| tathā sīvanyaḥ saptasaṅkhyā mēḍhrādisthitāḥ| tāḥ śastrēṇa pariharēt, pratyavāyabhayāt| na tāsu śastraṁ pātayēdityarthaḥ| tatra-“śirāsnāyvasthipiśitaiścatvāri māṇibandhanē| ēkatraikatra gulphē ca jālānyēvaṁ tu ṣōḍaśa|| 1|| hastayōrdvē pādayōrdvē grīvābhāgē’tha pr̥ṣṭhataḥ| pratyēkaṁ tu catasraḥ syuḥ kaṇḍarā iti ṣōḍaśa|| 2|| karayōrdvau pādayōrdvau grīvāyāṁ mēhanē tathā| ēkaikamiti ṣaṭ kūrcāḥ, sīvanyaḥ sapta kīrtitāḥ|| 3|| ēkā mēḍhrē’tha jihvāyāṁ bhavēyuḥ paśca mūrddhani| pr̥ṣṭhavaṁśē hyubhayataścatasrō māṁsarajjavaḥ|| 4|| bāhyē dvē antarē dvē ca, gulphē jānuni vaṅkṣaṇē| trikē śirasi kakṣāyāṁ kūrparē maṇibandhanē|| 5|| asthnāṁ bhavēyuḥ saṅghātā amī atra caturdaśa| sīmantāḥ pañca mūrdhni syurgulphādiṣvasthisaṅghavat|| 6|| asthnāṁ śatāni ṣaṣṭiśca trīṇi dantanakhaiḥ saha| pañca pādanakhāḥ sakthni pratyaṅgulya sthikatrayam|| 7|| ēvaṁ pañcadaśaitāni śalākāḥ pañca tu smr̥tāḥ| ēkastatpratibandhaśca jaṅghāyāṁ kūrcagulphakē|| 8|| dvē dvē iti ṣaḍēva syuḥ pārṣṇāvūrau ca jānuni| ēkaikamityē kasakthni pañcatriṁśattathā’parē|| 9|| bhujayōḥ sakthitulyāni bhēdā ēṣāṁ tu nāmataḥ| pāṇiḥ syātpādavatatra hastamūlaṁ ca pārṣṇivat|| 10|| maṇibandhō gulphatulyaḥ kūrcatulyō dvayē’pi ca| prakōṣṭhau jaṅghayā tulyau jānuvatkūrparō bhavēt|| 11|| ūruvadvāhupr̥ṣṭhaṁ syāndantarādhau tu parśukāḥ| caturviṁśatirētēṣu sthālakānyarbudāni ca|| 12|| tāvanti pr̥ṣṭhē triṁśatsyururasyaṣṭau trikē bhagē| ēkaikaṁ syādakṣakayōraṁsayōstatphalākhyayōḥ|| 13|| nitambē tu bhavētāṁ dvē śatamētatsaviṁśati| gaṇḍayōḥ karṇayōrdvē dvē śaṅkhayōścātha tāluni|| 14|| tathā jatruṇyēkamēkaṁ grīvāyāṁ tu trayōdaśa| kaṇṭhanāḍyāṁ tu catvāri hanubandhē dvayaṁ bhavēt|| 15|| dvātriṁśadēva dantāḥ syustatsaṅkhyōlūkhalāni ca| trīṇi ghrāṇē ṣaṭ śirasi śatamūrdhvamiti smr̥tam|| 16|| śākhāntarādhyūrdhvabhēdādēvaṁ ṣaṣṭiśatatrayam| kapālaṁ rucakaṁ caiva taruṇaṁ valayaṁ tathā|| 17|| nalakaṁ pañcadhēti syurnitambē gaṇḍajānuni| tālumadhyē śirasyaṁsē kapālākhyāni nirdiśēt|| 18|| daśanā rucakākhyāḥ syurghrāṇē karṇē’kṣikōśakē| taruṇāni pr̥ṣṭhapārrśvē caraṇē valayāni tu|| 19|| śēṣāṇi nalakākhyāni nāmākhyātākr̥tīni ca|” iti|
———————————————|
dhanvantaristu trīṇyāha, sandhīnāṁ ca śatadvayam||16||
daśōttaraṁ————————————–|
———————————————|17|
dhanvantarisaṁjñaḥ punastantrakr̥dasthnāṁ śatāni trīṇyēvāha, nādhikāni| tathā, asthisandhīnāṁ śatadvayaṁ daśōttaraṁ dhanvantarirāhēti yōjyam| “saṅkhyāyantē sandhayō’tra catasrō’ṅgulayaḥ padē| catasr̥ṣvaṅgulīṣu syuḥ pratyēkaṁ traya ēva tu|| 1|| dvāvaṅguṣṭhē vaṅkṣaṇē syādēkō gulphē’tha jānuni| sakthyēkasmin saptadaśa tāvantō’pi dvitīyakē|| 2|| bhujayōḥ sakthitulyāni antarādhau tvimē matāḥ| trayaḥ kaṭīkapālēṣu viṁśatiścaturuttarā|| 3|| pr̥ṣṭhē tadvatpārśvayōśca, urasyaṣṭau tathōrdhvataḥ| śirōdharāyāmaṣṭa syuḥ kaṇṭhanāḍyāṁ trayaḥ smr̥tāḥ|| 4|| hr̥dayaklōmayakr̥tāṁ nāḍīṣvaṣṭādaśa smr̥tāḥ| dvātriṁśaddantamūlēṣu ēkaikē ghrāṇakākalē|| 5|| mūrdhni ca, dvau karṇaśaṅkhē gaṇḍanētrē ca vartmani| hanusandhau ca vijñēyau dvau bhruvōścōpari smr̥tau|| 6|| pañca mūrddhakapālēṣu ūrdhvamēvaṁ tryaśītikāḥ| saṁjñayaitē’ṣṭadhā jñēyā maṇibandhē’tha jānuni|| 7||gulphē’ṅgulau kōrasaṁjñā dvijamūlēṣu vaṅkṣaṇē| kakṣāyāṁ cōlūkhalākhyā aṁsapīṭhē gudē bhagē|| 8|| nitambē caiva sāmudgā grīvāyāṁ pr̥ṣṭhavaṁśakē| pratarāḥ, syurmūrddhakaṭīkapālē tunnasīvanāḥ|| 9|| hanūbhayē kākatuṇḍāḥ, kaṇṭhasya yakr̥tastathā| hr̥dayaklōmanētrāṇāṁ nāḍyāṁ maṇḍalanāmakāḥ|| 10|| śrōtraśr̥ṅgāṭakākhyēṣu śaṅkhāvartā iti smr̥tāḥ|” iti|
athātrēyamataṁ brūtē—-
—–sahasrē dvē nijagādātrinandanaḥ|
———————————————|17|
atrinandanō dvē sahasrē sandhīnāṁ nijagāda-prōvāca| sa hi snāyupēśīsirāśritaiḥ sandhibhiḥ saha gaṇayati| ētacca bāhulyēnōktam| tathā hi-navasu snāyuśatēṣu navaśatāni sandhīnām, pañcasu pēśīśatēṣu pañcaśatāni,, saptasu sirāśatēṣu saptaśatāni, ityēkaviṁśatiśatāni prāyēṇa prāpnuvantīti manyāmahē|
———————————————|
snāvnāṁ navaśatī—————————–|17|
snāyūnāmasmin dēhē navaśatī| navānāṁ śatānāṁ samāhārō navaśatī, “dvigōḥ” iti ṅīp, navaśatānityarthaḥ| tatra “padē pañca syuraṅgulyaḥ pratyaṅguli tu tāni ṣaṭ| triṁśadēvaṁ, daśa daśa kūrcē pādatalē tathā|| 1|| gulphē cēti, triṁśadēva jaṅghāyāṁ, daśa jānuni| catvāriṁśatsyurūrau ca, vaṅkṣaṇē daśa, sakthini|| 2|| sārdhaṁ śataṁ, dvitīyē’pi tadvadbāhvōśca sakthivat| śākhāsvēvaṁ ṣaṭśatāni, kaṭyāṁ dvē viṁśatī smr̥tē|| 3|| viṁśatirmuṣkayōrmēḍhrabastyantrēṣu ca kīrtitāḥ| aśītiḥ pr̥ṣṭhabhāgē syuḥ, pārśvayōḥ ṣaṣṭirakṣayōḥ|| 4|| catvāryurasyaṣṭadaśa, aṣṭāvaṁsayugē smr̥tāḥ| madhyē śatadvayaṁ triṁśadvē dvē manyāvaṭau smr̥tē|| 5|| nētrauṣṭhatāluni tathā, grīvāyāṁ triṁśadīritāḥ| jatruṇi trīṇi, catvāri hanvōḥ pañca tu kīrtitāḥ|| 6|| jihvāyāṁ, dantamāṁsēṣu dvādaśaivātha mūrdhni ṣaṭ| ēvaṁ śatāni snāyūnāṁ navaitēṣu vinirdēśēt|| 7|| āmapakvāśayāntrēṣu bastau ca suṣirāṇi tu| pratānavanti śākhāsu mahāsnāvāni kaṇḍārāḥ|| 8|| vr̥ttāni, pārśva pr̥ṣṭhōraḥśirasi syuḥ pr̥thūni ca| sirādibhyō’pyasthitō’pi rakṣētsnāvāni yatnataḥ|| 9||” iti| tathā cōktam (suśrutē śā. a. 5/35)- “na hyasthīni tathā hiṁsyurna pēśyō na ca sandhayaḥ| vyāpāditā api sirā yathā snāyūni dēhinām|| snāyūni yō vētti samyagbāhyānyābhyantarāṇi ca| sa gūḍhaṁ śalyamāhartuṁ dēhācchaknōti dēhinaḥ||” iti|
———————————————|
——————-pañca puṁsāṁ pēśīśatāni tu||17||
adhikā viṁśatiḥ strīṇāṁ yōnistanasamāśritāḥ|
———————————————|18|
“pēśyaḥ samprati bhaṇyantē pañcāṅgulyō’tha tāsu tāḥ| pratyēkaṁ tisra ityēvaṁ tāḥ pañcadaśa kīrtitāḥ|| 1|| daśa pādatalē gulphē tathā pādasya cōpari| kūrcē tu (ca) viṁśatiḥ syāttu jaṅghāyāṁ, pañca jānuni|| 2|| ūrau viṁśatirityēvaṁ śataṁ sakthyēkatō bhavēt| śataṁ dvitīyē’pi tathā, sakthivadgujayōrmatāḥ|| 3|| catvāryēvaṁ śatāni syuḥ śākhāsvēkaiva mēhanē| sīvanyāṁ ca, vr̥ṣaṇayōrdvē, sphijōstu daśa smr̥tāḥ|| 4|| tisrō gudē, bastimūrdhni dvē, catasrastu kōṣṭagāḥ| nābhyāmēkā’tha, hr̥dyēkā, syādēkā”māśayē’pi, ṣaṭ|| 5|| yakr̥tplīhōndukēṣu, syuścatasraḥ, pr̥ṣṭhatō daśa| pārśvayōrvakṣasi daśa, catasraścākṣakāṁsayōḥ|| 6|| ityantarādhau ṣaṣṭiḥ, syurgrīvāyāṁ daśa, gaṇḍayōḥ| aṣṭau, hanupradēśē’ṣṭāvēkaikā kākalē tathā|| 7|| jihvāyāṁ mūrdhni galakē, dvē lalāṭē’tha tāluni (dvē dvē tālulalāṭayōḥ)| dvē ōṣṭhayōḥ, karṇayōrdvē, nāsāyāṁ dvē ca kīrtitē|| 8|| puruṣāṇāṁ bhavēdētatpēśīnāṁ śatapañcakam| daśādhikāḥ syuḥ stanayōrdaśa yōnau ca yōṣitām|| 9|| pratyēkaṁ stanayōḥ pañca, tāsāṁ vr̥ddhistu yauvanē| yōnyantarāśritē dvē tu dvē ca vr̥ttē mukhāśritē|| 10|| garbhamārgāśrayāstisrō yatra garbhō’vatiṣṭhatē| śaṅkhanābhyākr̥tiryōnistryāvartā jāyatē striyāḥ|| 11|| tasyāstr̥tīya āvartē rōhitasyākr̥tirbhavēt| garbhaśayyā’tha tisraśca bhavēyuḥ sampravēśikāḥ|| 12|| śukrasya cārtavasyaivaṁ pēśīstantravidō viduḥ|” iti| (saṅgrahē cōktam śā.a.5)- “ētābhirhi śarīrē tanubahalasthūlāṇuvakravr̥ttahrasvadīrghasthiramr̥duślakṣṇakarkaśābhiḥ sandhyasthisirāsnāvāni pracchāditāni| sirādhamanīnāṁ cāṇuśō vibhajyamānānāmēkōnatriṁśacchatasahasrāṇi nava ca śatāṇi ṣaṭpañcāśāni bhavanti| tābhiridaṁ śarīraṁ gavākṣitaṁ pinaddhamātataṁ ca| tāvanti ca kēśaśmaśrulōmāni| tāsāṁ hi mukhāni tatpratibaddhāni| atastāni tābhirāpyāyyantē| taiśca tāḥ svēdamabhivahanti| tathā’bhyaṅgālēpādivīryaṁ tvacivipakvamantarnayanti| sparśa ca gr̥hṇanti| srōtāṁsi punarasaṅkhyēyānyēva|” iti| anyē tvāhuḥ-“śarīrē rōmṇāṁ dvāsaptatiḥ kōṭhyō bhavanti|” iti|
idānīṁ sirāḥ saṅkhyātumāha—-
——————————————|
daśa mūlasirā hr̥tsthāstāḥ sarvaṁ sarvatō vapuḥ||18||
rasātmakaṁ vahantyōjastannibaddhaṁ hi cēṣṭitam|
———————————————|19|
hr̥di tiṣṭhantīti hr̥tsthāḥ, daśa mūlasirāḥ| yatō’nyāsāṁ sirāṇaṁ sarvāsāṁ mūlabhūtatvēnaivaitāḥ sthitāḥ, tataḥ pradhānabhūtā ityarthaḥ| hr̥tsthāḥ-hr̥dayasambaddhāḥ| tāḥ sarvaṁ vapuḥ-sakalaṁ dēhaṁ, ōjō vahanti-prāpayanti| katham ? sarvataḥ,-sarvadikkam| vapurōjō vahantīti vahērdvikarmakatvāt vapurōjaśca karma| kimbhūtamōjaḥ ? rasātmakaṁ,-rasasvabhāvam, āhārātsārakiṭṭatayā pariṇatāt sāram| tannivaddhaṁ hi cēṣṭitam| tāsu-daśasu sirāsu, nibaddhaṁ-niścayēna sthitaṁ, cēṣṭitaṁ-vākkāyamanōvyāpāraḥ| hiśabdō yasmādarthē| yasmāttannibaddhaṁ cēṣṭitamatastā mūlasirāḥ|
idānīm saṁsthānamāsāṁ nirdiśati—-
——————————————|
sthūlamūlāḥ susūkṣmāgrāḥ patrarēkhāpratānavat||19||
bhidyantē tāstataḥ saptaśatanyāsāṁ bhavanti tu|
———————————————|20|
sthūlaṁ mūlaṁ yāsāṁ tā ēvam| suṣṭu sūkṣmamagraṁ-prāntō yāsāṁ tā ēvam| sthūlamūlatvēna tāsāṁ vyānavāyuvikṣiptō rasaḥ śīghramēva cāntaḥ praviśati| sūkṣmaprāntatvēna rōmarājyāmapyantaḥ praviśya tēṣāṁ rōmṇāṁ vr̥ddhihētuḥ sampadyatē| tataścāsmin dēhē sthūlamūlāḥ susūkṣmāgrāḥ patrarēkāpratānavat bhidyantē-anēkadhā sampadyantē| yathā, vr̥kṣasya palāśarēkānāṁ pratānāḥ-samūhāḥ, sthūlamūlāḥ susūkṣmāgrā anēkadhā jāyantē tathaivaitāḥ sirāḥ sthūlamūlāḥ sūkṣmāgrā anēkadhā sampadyantē nānārūpā yataḥ, tataḥ-tasmāddhētōḥ, palāśarēkhāpratānavadanēkadhā gamanādāsāṁ sirāṇāṁ saptaśatāni bhavanti| tuśabdō’vadhāraṇē bhinnakramaḥ, saptaiva śatāni|
———————————————|
tatraikaikaṁ ca śākhāyāṁ śataṁ, tasminna vēdhayēt||20||
sirāṁ jālandharāṁ nāma tisraścābhyantarāśritāḥ|
———————————————|21|
tāsāmēkaikasmin sakthni śatam| tasmin-sirāśatē, sirāṁ jālandharāṁ nāma-yā jālāni dhārayati tāṁ, na vidhyēt| tisraścēti| yāścānyāstisraḥ sirā abhyantarāśritāḥ-antarmukhāḥ, tā api na vēdhyā iti caśabdārthaḥ| ēvaṁ sakthnyāśritē sirāśatē catasraḥ sirā na vēdhyāḥ| dvitīyē’pi sakthni catasra ēva| sakthivadbāhvōrapi| ēvaṁ caturṣu sirāśatēṣu śākhāsvāśritēṣu ṣōḍaśa sirā na vēdhyāḥ|
———————————————|
ṣōḍaśadviguṇāḥ śrōṇyāṁ, tāsāṁdvē dvē tu vaṅkṣaṇē||21||
dvē dvē kaṭikataruṇē śastrēṇāṣṭau spr̥śēnna tāḥ|
———————————————|22|
ṣaṭtriṁśacchatamantarādhau| tatra ṣōḍaśadviguṇāḥ śrōṇyāṁ-dvātriṁśaccrōṇyavayavāśritā sirāḥ| tāsāṁ madhyē dvē dvē tu vaṅkṣaṇēdvayōrvaṅkṣaṇayōḥ pratyēkaṁ dvē sirē| dvē dvē kaṭīkataruṇē-dvayōḥ kaṭīkataruṇayōḥ pratyēkaṁ dvē sirē| ēvaṁ śrōṇyāśritā aṣṭau sirāḥ śastrēṇa n spr̥śēt|
———————————————|
pārśvayōḥ ṣōḍaśaikaikāmūrdhvagāṁ varjayēttayōḥ||22||
pārśvayōḥ ṣōḍaśa sirāḥ| tāsāmēkaikāmūrdhvagāṁ pārśvasandhisaṁjñāṁ pratyēkaṁ varjayēt|
dvādaśadviguṇāḥ pr̥ṣṭhē pr̥ṣṭhavaṁśasya pārśvayōḥ|
dvē dvē tatrōrdhvagāminyau na śastrēṇa parāmr̥śēt||23||
dvādaśadviguṇāḥ pr̥ṣṭhē-caturviṁśatiḥ sirāḥ pr̥ṣṭhamāśritāḥ| tāsāṁ pr̥ṣṭhavaṁśasya pārśvayōḥ-pr̥ṣṭhavaṁśamubhayataḥ, dvē dvē tatrōrdhvagāminyau| ēvaṁ catasraḥ śastrēṇa na parāmr̥śēt|
pr̥ṣṭhavajjaṭharē tāsāṁ mēhanasyōpari sthitē|
rōmarājīmubhayatō dvē dvē śastrēṇa na spr̥śēt||24||
pr̥ṣṭhavajjaṭharē-pr̥ṣṭhēna tulyāḥ sirā udarē, tatsaṅkhyā caturviṁśatirityarthaḥ| tāsāṁ-udarāśritānāṁ śirāṇāṁ madhyāt, mēhanasya mēḍhrasyōpari sthitē, rōmarājīmubhayataḥ-ubhayapārśvayōḥ, dvē dvē sirē| ēvaṁ catasraḥ sirāḥ| tāḥ śastrēṇa na parāmr̥śēt|
catvāriṁśadurasyāsāṁ caturdaśa na vēdhayēt|
stanarōhitatanmūlahr̥dayē tu pr̥thagdvayam||25||
apastambhākhyayōrēkāṁ tathā’pālāpayōrapi|
———————————————|26|
catvāriṁśadurasi sirāḥ| tāsāṁ madhyāt caturdaśa sirā na vēdhayēt| tā ēva darśayati-stanarōhitētyādi| tayōḥ-stanayōrmūlē tanmūlē| tatra stanarōhitayōḥ, tathā stanamūlayōḥ tathā hr̥dayē, pr̥thak-pratyēkaṁ, dvayaṁ-dvē dvē sirē, na vidhyēt| apastambhākhyayōḥ pratyēkamēkāṁ sirāṁ, tathā’pālāpayōḥ pratyēkamēkāṁ sirāṁ na vidhyēt|
———————————————|
grīvāyāṁ pr̥ṣṭhavattāsāṁ nīlē manyē kr̥kāṭikē||26||
vidhurē mātr̥kāścāṣṭau ṣōḍaśēti parityajēt|
———————————————|27|
grīvāyāṁ pr̥ṣṭhavat sirāṇāṁ saṅkhyā-caturviṁśatiḥ sirāḥ| tāsāṁ sirāṇāṁ madhyānnīlē dvē, manyē dvē, kr̥kāṭikē dvē, vidhurē dvē, aṣṭau ca mātr̥kāḥ-mātr̥kākhyāni marmāṇi, iti-ēvaṁ, ṣōḍaśa parityajēt-na śastraṁ tāsu pātayēt|
———————————————|
hanvōḥ ṣōḍaśa, tāsāṁ dvē sandhibandhanakarmaṇī||27||
hanvōrdvayōḥ ṣōḍaśa sirāḥ saṁśritāḥ| tāsāṁ sirāṇāṁ madhyādvēsirē parityajēt| kiṁkarmaṇī tē āha ? sandhibandhanakarmaṇī| badhyatē’nēnēti bandhanam| samdhērbandhanaṁ sandhibandhanam| arthāddhanusambandhinaḥ sandhērbandhanaṁ karma-kriyā, yayōḥ sirayōstē sandhibandhanakarmaṇī sirē|
jihvāyāṁ hanuvattāsāmadhō dvē rasabōdhanē|
dvē ca vācaḥpravartinyau——————–|28|
jihvāyāṁ hanuvat sirāsaṅkhyā-ṣōḍaśaiva sirāḥ| tāsāṁ madhyāt jihvāyā adhō yē dvē sthitē rasabōdhanē-yābhyāṁ rasō jñāyatē madhurādirasabōdhinyau, dvē ca vācaḥpravartinyau yē sirē, ēvaṁ catasrō jihvāśritāḥ sirāḥ parityajēt|
———————————————|
————————-nāsāyāṁ caturuttarā||28||
viṁśatirgandhavēdinyau tāsāmēkāṁ ca tālugām|
———————————————|29|
nāsāyāṁ caturuttarā viṁśatiḥ sirāṇām, ēvaṁ caturviṁśatiḥ sirā nāsāśritāḥ| tāsāṁ madhyādvē gandhavēdinyau-gandhaṁ vēdituṁ śīlaṁ yayōstē gandhavēdinyau sirē, tathaikāṁ tālugāṁ sirām, ēvaṁ nāsāśritāḥ sirāstisraḥ parityajēt|
———————————————|
ṣaṭpañcāśannayanayōrnimēṣōnmēṣakarmaṇī||29||
dvē dvē, apāṅgayōrdvē ca tāsāṁ ṣaḍiti varjayēt|
———————————————|30|
ṣaṭpañcāśannayanayōḥ sirāḥ| tāsāṁ madhyānnimēṣōnmēṣakarmaṇī| nimēṣōnmēṣau-nimilanōnmīlanē, karmaṇī yayōstē nimēṣōnmēṣakarmaṇī sirē dvē dvē pratyēkam, tathā’pāṅgayōrdvē sirē, ēvaṁ ṣaṭ sirā varjayēt-tatra śstraṁ na pātayēt|
———————————————|
nāsānētrāśritāḥ ṣaṣṭirlalāṭē, sthapanīśritām||30||
tatraikāṁ, dvē tathā”vartau, catastraśca kacāntagāḥ|
saptaivaṁ varjayēttāsām————————-|31|
nāsānētragatā yāḥ sirā uktāḥ| tāsāṁ madhyāllalāṭē ṣaṣṭiḥ sirā bhavanti| tatra-tāsāṁ madhyāt, sthapanīśritāṁ-sthapanīnāmamarmaviśēṣastatrasthāṁ, ēkāṁ sirāṁ na vidhyēt| dvē tathā”vartaumarmaṇī, tayōrāvartayōḥ sthitē dvē sirē na vidhyēt| catasraśca kacāntagāḥ-kēśāntasthāḥ sirāḥ, na vidhyēt| ēvaṁ sapta sirā lalāṭē varjayēt|
———————————————|
———————-karṇayōḥ ṣōḍaśātra tu||31||
dvē śabdabōdhanē śaṅkhau sirāstā ēva cāśritāḥ|
dvē śaṅkhasandhigē tāsām————————|32|
karṇayōrdvayōḥ ṣōḍaśa sirāḥ| atra tu-asmin ṣōḍaśasaṅkhyē sirōddēśē, karṇayōrāsthitē dvē sirē śabdabōdhanē-yābhyāṁ śabdō budhyatē-jñāyatē tē, varjayēt| śaṅkhau sirāstā ēva karṇāśritāḥ| tāsāṁ madhyādvē sirē śaṅkhasandhigē-śaṅkhasandhyāśritē, varjayēt|
———————————————|
——————-mūrdhni dvādaśa tatra tu||32||
ēkaikāṁ pr̥thagutkṣēpasīmantādhipatisthitām|
———————————————|33|
mūrdhni viṣayē dvādaśa sirāḥ| tatra tu-tāsu dvādaśasu sirāsu madhyē’ṣṭau sirāḥ śastrēṇa varjayēt| tā ēvāha-ēkaikāmiti| ēvaṁ pratyēkamutkṣēpayōrdvayōrēkaikāṁ, sīmantēṣu pañcasvēkaikāṁ, adhipatāvēkāṁ, ityaṣṭau|
———————————————|
ityavēdhyavibhāgārthaṁ pratyaṅgaṁ varṇitāḥ sirāḥ||33||
iti-samaptau prakārē vā| avēṣyasirāvibhāgavijñānārthaṁ tannimittaṁ, pratyaṅgaṁ-śirasyantarādhau bāhvādiṣu, yāḥ sirāstā varṇitāḥ-uktāḥ tā varṇayituṁ samāptā iti, athavā’nēna prakārēṇa pūrvōktēna varṇitāḥ|
avēdhyāstatra kārtsnēna dēhē’ṣṭānavatistathā|
saṅhkīrṇā grathitāḥ kṣudrā vakrāḥ sandhiṣu cāśritāḥ||34||
tatra-tāsu sirāsu madhyē, kārtsnēna- sākalyēna, aṣṭānavatiḥ sirā avōdhyā varṇitāḥ| dēhē-śarīrē| na kēvalamēta ēvāvēdhyāḥ, yāvatsaṅkīrṇādayaścēti tathāśabdasyārthaḥ| saṅkīrṇāḥ-parasparaṁ nibaddhāḥ| grathitā iva-grathitāḥ| kṣudrāḥ-alpāḥsūkṣmā na mahatyaḥ| vakrāḥ-kuṭilāḥ| tathā sandhiṣu-asthisandhiṣu, yā āśritāstā api na vēdhyāḥ|
tāsāṁ śatānāṁ saptānāṁ pādō’sraṁ vahatē pr̥thak|
vātapittakaphairjuṣṭaṁ śuddhaṁ caivaṁ sthitā malāḥ||35||
śarīramanugr̥hṇanti pīḍayantyanyathā punaḥ|
———————————————|36|
tāsāṁ sirāṇāṁ sambandhīni yāni saptaśatāni, tēṣāṁ pādaḥ-pañcasaptatyadhikaṁ śataṁ, asraṁ vahatē, asmin dēhē| kimbhūtaṁ tadraktam ? vātapittakaphairjuṣṭaṁ-sēvitaṁ, śuddhaṁ ca-rairanākrāntamajuṣṭaṁ kr̥tvā| pr̥that-pratyēkaṁ kr̥tvā, pādō’sraṁ vahatē| ēvaṁ vātajuṣṭaṁ raktaṁ sirāśataṁ pañcasaptatyadhikaṁ vahatē| pittajuṣṭaṁ pañcasaptatyadhikaṁ śataṁ, tathā kaphajuṣṭaṁ pañcasaptyadhikaṁ śataṁ, tathā śuddhaṁ raktaṁ pañca saptyadhikaṁ śataṁ vahatē| ēvaṁ-pūrvōktēna prakārēṇa, malāḥsthitāḥ śarīramanugr̥hṇanti-vartayanti| anyathā punaḥ-vyatyayēna sthitāḥ, pīḍayanti-vikārēṇa yōjayanti|
kiṁlakṣaṇāḥ sirā vātādijuṣṭamasraṁ vahanti ? ityāha—-
——————————————|
tatra śyāvāruṇāḥ sūkṣmāḥ pūrṇariktāḥ kṣaṇātsirāḥ||36||
praspandinyaśca vātāsraṁ vahantē——————–|
—————————————————|37|
tatra-tāsu sirāsu madhyē, śyāvāruṇā varṇēna yāḥ sirāstā vātāsraṁ-vātaraktaṁ, vahantē| tathā sūkṣmāḥ| tathā pūrṇariktāḥ vāyōścalatvāt kṣaṇātpūrṇāḥ kṣaṇādriktāḥ-śūnyā ēva| tathā praspandinyaḥ| kila spandanaṁ sarvāsāṁ vidyatē, prakarṣēṇa tu vātaraktavāhinīnāmiti praśabdēna dyōtyatē|
———————————-pittaśōṇitam|
sparśōṣṇāḥ śīghravāhinyō nīlapītāḥ————-|37|
sirāḥ pittaśōṇitaṁ vahantē| kiṁvidhāḥ ? sparśōṣṇāḥsparśēnōṣṇāḥ, na śītāḥ| tathā, śīghravāhinyaḥ| tathā, nīlapītā varṇēna|
———————————————|
———————————kaphaṁ punaḥ||37||
gauryaḥ snigdhāḥ sthirāḥ śītāḥ————-|
———————————————|38|
kaphaṁ punargauryō vahantē| tathā snigdhādiviśēṣaṇāḥ| kaphamiti kaphaśōṇitam, śōṇitaśabdalōpāt| snigdhāḥ-snigdhacchāyāḥ| tathā, sthirāḥ-na tu capalāḥ| tathā, śītāḥ sparśēna|
——————-saṁsr̥ṣṭaṁ liṅgasaṅkarē|
———————————————|38|
liṅgasaṅkarē-yathā nirdiṣṭasya lakṣaṇasya saṅkīrṇatvē, saṁsr̥ṣṭaṁ-kapāvātajuṣṭaṁ vātapittajuṣṭaṁ kaphapittajuṣṭaṁ tribhirapi dōśairjuṣṭaṁ, raktaṁ sirā vahanti-sakalaṁ śarīraṁ prāpayanti|
———————————————|
gūḍhāḥ samasthitāḥ snigdhā rōhiṇyaḥ śuddhaśōṇitam||38||
gūḍhāḥ-antargatāḥ, tathā samaṁ kr̥tvā sthitāḥ-samasthitāḥ, tathā snigdhāḥ-snigdhacchāyāḥ, rōhiṇyaḥ-sirāparasaṁjñā lōhitābhāsā vā prasaraṇaśīlā vā, śuddhaśōṇitaṁ dēhē’smin vahanti|
dhamanyō nābhisambaddhā viṁśatiścaturuttarā|
tābhiḥ parivr̥tā nābhiścakranābhirivārakaiḥ||39||
tābhiścōrdhvamadhastiryagdēhō’yamanugr̥hyatē|
———————————————|40|
dhamanyō nābhisambaddhā viṁśatiścaturuttarā-caturviṁśatirityarthaḥ| tābhiḥ-dhamanībhiḥ, nābhiḥ parivr̥tā-parivēṣṭitā| katham ? cakranābhirivārakaiḥ,-yathā rathāṅgasya madhyamabhāgō nābhiśabdavācyō’rakaiḥ parivriyatē tadvannābhiḥ-śarīramadhyabhāgō, dhamanībhiḥ| dhmānāddhamanyaḥ srōtōviśēṣā ucyantē| tābhiḥ dhamanībhiḥ, ayaṁ dēha ūrdhvamadhastiryak cānugr̥hyatē-rasādiprāpaṇakarmaṇā tāḥ kāyasyānugrahaṁ kurvanti| tābhirayaṁ dēha āyyāyatē, ārāma iva jalahāriṇībhiḥ kēdāra iva kulyābhiḥ| saṅgrahē cōktam (śā. a.6)-“tāsāṁ khalu dhamanīnāṁ madhyāddaśa dhamanya ūrdhvaṁ prasr̥tā daśādhaḥ prasr̥tāstiryak catasraḥ| tābhiryathāsvamaṅgāvayavā ūrdhvādhastiryak samāśritā dhāryantē āpyāyyantē ca| tāsāmūrdhvagā hr̥dayamabhiprapannāḥ pratyēkaṁ tridhā jāyantē| ēvaṁ tāstriṁśat| triṁśatō madhyādvē dvē vātapittakapharaktarasān vahataḥ| ēvaṁ daśa| dvē dvē śabdarūparasagandhān gr̥hṇītaḥ| ēvamaṣṭābhiḥ śabdarūparasagandhā gr̥hyantē| dvābhyāṁ dvābhyāṁ bhāṣatē ghōṣaṁ karōti svapiti pratibudhyatē ca| ēvamaṣṭau dvē cāśru vahataḥ| tathaiva dvē stanāśritē nāryāḥ stanyaṁ narasya śukram| adhōgamāḥ pakvāśayasthā daśa tridhā jāyantē| ēvaṁ tā api triṁśat| tatrādyāḥ pūrvavaddaśa dvē dvē vātapittakapharaktarasān vahataḥ| dvē vahatō’nnamantrāśrayēṇa, dvē tōyaṁ dvē mūtram| dvē śukraṁ vahatō dvē ca muñcataḥ| ta ēva nārīṇāmārtavaṁ vahataḥ| dvē varcōnirasanyau sthūlāntrapratibaddhē| ēvaṁ dvādaśa| śēṣāstvaṣṭau dhamanyastiraścīnāḥ svēdamabhivarddhayanti| tiryaggāminyastu catusrō bhidyamānāḥ subahudhā bhavanti|” iti|
idānīm strīpuruṣāṇāṁ dr̥śyāni srōtāṁsi nirupayitumāha—-
————————————————|
srōtāṁsi nāsikē karṇau nētrē pāyvāsyamēhanam||40||
stanau raktapathaścēti nārīṇāmadhikaṁtrayam|
—————————————————|41|
srōtāṁsi puṁsāṁ nava,-dvau nāsāpuṭau, dvau karṇau, dvē nētrē, pāyuḥ- gudam, āsyaṁ-mukham, mēhanaṁ-mūtraniṣkramaṇadvāram| strīṇāmētāni tathā’nyāni trīṇi,-dbau stanau, tathaikō raktapathō-raktamārgaḥ, pratimāsaṁ yatō yōnau raktaṁ pravartatē| tadēvaṁ strīṇāṁ trīṇisrōtāṁsi puṁbhyō’dhikāni|
ēvaṁ srōtāṁsi dr̥śyānyabhidhāya śarīrē yānyadr̥śyāni srōtāṁsi tānyāha-
—————————————————|
jīvitāyatanānyantaḥ srōtāṁsyāhustrayōdaśa||41||
prāṇadhātumalābbhōnnavāhīni————————–|
—————————————————|42|
antaḥ-śarīrābhyantarē, trayōdaśa srōtāṁsi vadanti| ‘ ācāryāḥ’ iti śēṣaḥ| tāni ca srōtāṁsi jīvitāyatanāni-viśēṣēṇa jīvitasyādhiṣṭhānāni| kimbhūtāni ? prāṇadhātumalambhōnnavāhīni| prāṇākhyaṁ vātaṁ vahanti yāni tāni-prāṇavāhīni| dhātuvāhīni-rasādidhātun yani vahanti| malavāhīni-mūtraśakr̥tsvēdān yāni vahanti| tathā, ambhōvāhīni-udakavāhīni| tathā, annavāhīni-annamabhyavahr̥taṁ yāni vahanti| ēvaṁ trayōdaśa| saṅgrahē cōktam (śā.a.6)-“tatra prāṇavāhināṁ hr̥dayaṁ mūlaṁ mahāsrōtaśca| tāni kṣayaraukṣyapipāsākṣudvyāyāmavēgavidhāraṇādibhirduṣyanti| tatō’tisr̥ṣṭaṁ pratibaddhaṁ kupitamalpālpamabhīkṣṇaṁ vā saśabdaśūlamucchvasanaṁ kurvanti| tatra śvāsavatsādhanam| udakavāhināṁ tālu mūlaṁ klōma ca| tānyāmabhayātipānōṣṇaśuṣkānnatr̥ḍvigrahādibhirduṣyanti| tatō’titr̥ṣṇā mukhaśōṣaḥ karṇakṣvēḍanaṁ tamōdarśanaṁ ca| tatra tr̥ṣṇōktamauṣadham| annavāhināmāmāśayō mūlaṁ vāmapārśvaṁ ca| tēṣāṁ duṣṭau sarvaṁ mātrāśitīyōktamavagadhcchēt| rasavāhināṁ hr̥dayaṁ mūlaṁ daśa dhamanyaśca| raktavāhināṁ yakr̥t plīhā ca| māṁsavāhināṁ snāvānitvak ca| mēdōvāhināṁ vr̥kkau māṁsaṁ ca| asthivāhināṁ jaghanaṁ mēdaśca| majjavāhināṁ parvāṇyasthīni ca| śukravāhināṁ stahau muṣkau majjā ca| mūtravāhināṁ bastirvaṅkṣaṇau ca| śakr̥dvāhināṁ pakvāśayaḥ sthūlāntraṁ ca| svēdavāhināṁ mēdō rōmakūpāśca| srōtasāmēva viśēṣāḥ sirā dhamanyaḥ| aparē tvanyatvamicchanti sirādhamanīsrōtasām| saraṇāt sirāḥ| dhmānāddhamahyaḥ| sravaṇātsrōtāṁsi| kēvalaṁ parasparasannikarṣāt saddr̥śakarmatvāt saukṣmyācca vibhaktakarmaṇāmapyavibhāga iva lakṣyatē| anyē punarēvamācakṣatē| srōtāṁsi sirā dhamanyō rasāyanyō vāhinyō nāḍyaḥ panthānō’yanāni mārgāḥ śarīracchidrāṇi saṁvr̥tāni sthānānyāśayā kṣayā nikētāścēti śarīrē dhātvavakāśānāṁ lakṣyālakṣyāṇaṁ paryayēṇa nāmānīti|” iti|
———————————–ahitasēvanāt|
tāni duṣṭāni rōgāya, viśuddhāni sukhāya ca||42||
ahitānāmāhāravihārādīnāṁ sēvanāt-śīlanāt, tāni,-srōtāṁsi, duṣṭāni rōgāya sampadyantē| tēṣāṁ vijñānārthaṁ dōṣādivijñānīyōktamavagacchēt| viśuddhāni-aduṣṭāni srōtāṁsi, sukhāya ārōgyāya, sampadyantē|
svadhātusamavarṇāni vr̥ttasthūlānyaṇūni ca|
srōtāṁsi dīrghāṇyākr̥tyā pratānasaddr̥śāni ca||43||
svō dhātuḥ svadhātuḥ,-yō yō yasya yasya srōtasa ādhārasyādhēyatvēna sthitō dhātuḥ, tēna tēna svadhātunā samaḥ-samānō, varṇō yēṣāṁ srōtasāṁ tāni svadhātusamavarṇāni| yathā,-rasadhātutulyavarṇāni rasavāhisrōtāṁsi, yāvacchukradhātusaddr̥śavarṇāni śukravāhisrōtāṁsi| tathā, sarvasrōtasāṁ madhyē kāniciddr̥ttāni-vartulāni, kānicitsthūlāni, kānicidaṇūni-sukṣmāṇi srōtāṁsi| tathā, ākr̥tyā-saṁsthānēna, dīrghāṇi sarvāṇyēva| tathā, pratāna sadr̥śāni-patrarēkhātulyāni| patrarēkhātulyarupatvēna śākhā praśākhatayā’nēkadhā dūraṁ pravisr̥tānīti gamayati|
yataścāhitāhāravihārasēvanaṁ srōtōduṣṭikāraṇam, atastāni tadduṣṭikāraṇāni vakti —-
āhāraśca vihāraśca yaḥ syāddōṣaguṇaiḥ samaḥ|
dhātubhirviguṇō yaśca srōtasāṁ sa pradūṣakaḥ||44||
āhāraḥ-pānāśanādilakṣaṇaḥ, dōṣaguṇaiḥ-vātapittaślēṣmaguṇairaukṣyādibhiḥ yaḥ samaḥ-tulyaḥ samānaguṇaḥ, sa srōtasāṁ pradūṣakaḥ| vihārō’pi-yō vāgdēhamanaścēṣṭālakṣaṇaḥ, sō’pi dōṣaguṇaiḥ samānaguṇō yathāyathaṁ srōtasāṁ pradūṣakaḥ| yaścāhārastathāvihārō dhātubhiḥ-rasādibhiḥ, viguṇō-viruddhaguṇō rasasamānaguṇarviparītaguṇaḥ, sa yathāyathamēva srōtasāṁ pradūṣakaḥ|
srōtāsāṁ duṣṭiḥ kathaṁ jñāyatē ? ityāha —-
atipravr̥ttiḥ saṅgō vā sirāṇāṁ granthayō’pi vā|
vimārgatō vā gamanaṁ srōtasāṁ duṣṭilakṣaṇam||45||
atiśayēna pravr̥ttiḥ, yathā-mūtravāhisrōtasāṁ pramēhavadbahumūtratā| saṅgaḥ-apravr̥ttiḥ, kiñcidvā pravr̥ttirmūtrakr̥cchravat| śakr̥dvāhināṁ srōtasāmatīsāravatpurīṣātisaraṇaṁ-atipravr̥ttiḥ| saṅgaḥ stōkaṁ stōkaṁ kr̥tvāpurīṣasya pravr̥ttiḥ, athavā sarvasarvikayōdāvartavatpurīṣasyāpravr̥ttiḥ| ēvaṁ mūtravāhisrōtasāṁ mūtrātipravr̥ttya pravr̥ttī tatsrōtōduṣṭērlakṣaṇam| tathaiva purīṣavāhināṁ purīṣāti pravr̥ttyapravr̥ttī purīśavāhisrōduṣṭērlakṣaṇam| ēvamanyēṣāmapi srōtasāṁ yathāyathaṁ vastuvāhināṁ yathāsvaṁ vastvatipravr̥ttyapravr̥ttī tēṣāṁ duṣṭērlakṣaṇam| athavā sirāṇāṁ-srōtasāṁ, granthayaḥ-kuṭilabhāvatvaṁ, duṣṭērlakṣaṇam| vimārgatō vēti| athavā svaṁ mārgamujjhitvā mārgāntarāsādanaṁ srōtasāṁ duṣṭērlakṣaṇam|
bisānāmiva sūkṣmāṇi dūraṁ pravisr̥tāni ca|
dvārāṇi srōtasāṁ dēhē rasō yairupacīyatē||46||
bisānāṁ-mr̥ṇālānāṁ, yathā sūkṣmāṇi dvārāṇi-chidrāṇi, dūraṁ pravisr̥tāni-sakalaṁ bisaṁ gatāni, tathaiva srōtasāṁ dvārāṇi mukhāni, sūkṣmāṇi dēhē dūraṁ pravisr̥tāni-kr̥tsnaṁ dēhaṁ prakarṣēṇa gatāni| yaiḥ-dvāraicchidraiḥ, dēhē-śarīrē, abhyavahr̥tasyāhārasya kāyāgninā pacyamānasya prasādabhāvō yaḥ samudbhavati sa rasaḥ prasādākhya upacīyatē-vr̥ddhiṁ nīyatē|
vyadhē tu srōtasāṁ mōhakampādhmānavamijvarāḥ|
pralāpaśūlaviṇmūtrarōdhā maraṇamēva vā||47||
srōtōviddhamatō vaidyaḥ pratyākhyāya prasādhayēt|
uddhr̥tya śalyaṁ yatnēna sadyaḥkṣatavidhānataḥ||48||
srōtasāṁ tu vyadhē-tāḍanē sati, mōhādayō bhavanti| mōhādīnāmatirētaradvandvaḥ pralāpādīnāṁ ca| viṇmūtrayō rōdhēna sambandhaḥ| athavā maraṇamēva bhavati| ataḥ-asmājjīvita saṁśayāddhētōḥ, vaidyaḥ pratyākhyāya-“akriyāyāṁ dhruvō mr̥tyuḥ” (hr̥.ci. a.11/44) ityādyuktvā, śalyamuddhr̥tya-bahirniṣkāsya, prasādhayēt| katham ? yatnēna-nāvahēlayā| kēna prasādhayēt ? sadyaḥkṣatavidhānataḥ-sadyōvraṇapratiṣēdōktavidhinā|
annasya paktā pittaṁ tu pācakākhyaṁ purēritam|
dōṣadhātumalādīnāmūṣmētyātrēyaśāsanam||49||
turavadhāraṇē| anēkavidhasyāhārasyābhyavahr̥tasya pittamēva paktā| kimbhūtaṁ pittam ? pācakākhyaṁ purēritaṁ,-pūrvaṁ dōṣabhēdīyē’dhyāya uktam| yathā (hr̥.sū. a.12/10)-“pakvāmāśayamadhyagam” ityārabhya yāvat “pācakaṁ nāma tatsmr̥tam|” iti| tadīddr̥śa pittamāhāraṁ pācayatīti dhanvantarimatam| dōṣadhātviti| ōtrēyasya-atriputrasya, śāsanaṁ-ājñā, iti-ēvaṁ, dōṣādīnāmūṣmā’gniriti| dōṣāḥ-vātādayaḥ, dhātavō-rasādayaḥ, malāḥ-mūtrapurīṣasvēdāḥ, ādiśabdēna dūṣikādayaḥ| tēṣāṁ dōṣādīnāṁ sambandhī ūṣmā-agniḥ, yaḥ sa ēvānnasya paktā, na tu pittaṁ pācakākhyamiti|
tadadhiṣṭhānamannasya grahaṇādgrahaṇī matā|
saiva dhanvantarimatē kalā pittadharāhvayā||50||
āyūrārōgyavīryaujōbhūtadhātvagnipuṣṭayē|
sthitā pakvāśayadvāri bhuktamārgārgalēva sā||51||
bhuktamāmāśayē rudhvā sā vipācya nayatyadhaḥ|
balavatyabalā tvannamāmamēva vimuñcati||52||
bhuktaṁ-abhyavahr̥tamannaṁ, āmāśayē-āmānnasthānē yatrāmamannaṁ tatra, sā-grahaṇī, ruddhvā-avaṣṭabhya, adhō nayati| kiṁ kr̥tvā ? pipācya,-vividhaiḥ prakāraiḥ pācayitvā| balavatīti| balavatī bhuktaṁ vipācyādhō nayati| abalā punaḥ satī sā āmamēva-apakvamēva vimuñcati| nanu, jāṭhārāgnirannaṁ grahaṇīsthaṁ pacati, na grahaṇī| tataśca kathamuktam ? “sā vipācya nayatyadhaḥ” iti| atrōcyatē| agnigrahaṇyōrādhārādhēyabhāvēna sthitatvādyujyata ēvaitadvaktum| grahaṇī hyagnērādhāraḥ| tathā ca prāguktam (ślō.50)-“kalā pittadharāhvayā” iti| pittaṁ ca vahniḥ| tathā cādhunaiva vakṣyati (ślō.90)-“pittaṁ vahniḥ” ityādi| tadēvaṁ vahnayādhārā yā kalā sā’nnagrahaṇādgrahaṇītyucyatē| tataścādhāratayā grahaṇīmāśrityāgniḥ pākakaraṇasamarthō bhavati, nādhāramantarēṇa kēvala ēva| tadēvamagnyādhārasya grahaṇyākhyasya pākanirvartanaṁ prati kartr̥tvaṁ yuktamēvēti| ataḥ “sā vipācya nayatyadhaḥ” ityētadupapannamēva|
agnigrahaṇyōrādhārādhēyabhāvatayā’vasthānāt parasparabalādhānēnōpakaryōpakārakabhāvaḥ sambhāvyata ityāha —-
grahaṇyā balamagnirhi sa cāpi grahaṇībalaḥ|
dūṣitē’gnāvatō duṣṭā grahaṇī rōgakāriṇī||53||
hi yasmādarthē| yasmādgrahaṇyā yadbalaṁ-sāmarthyaṁ, tasya hēturagniḥ| agnitō grahaṇyā balamutpadyatē| sa cāpyagnirgrahaṇībalaḥ, grahaṇī balaṁ yasyāgnēḥ sa ēvam| apiśabdānna kēvalamagnirgrahaṇyā balam, grahaṇyapyargnērbalam| atō hētōrdūṣitē’gnau duṣṭāgrahaṇī rōgakāriṇī sampadyatē| ēvaṁ cārthād grahaṇyāmapi duṣṭāyāmagnirduṣyati| duṣṭaśca sō’pi rōgakārī sampadyatē| ēvaṁ yā pittadharā kalā sā’duṣṭā satyāyurādīnāṁ puṣṭayē bhavatītyuktam| annagrahaṇādbhahaṇyā ēvaṁrūpatā|
taccānnaṁ vipakvamēva dēhadhātvādipōṣaṇam, nāpakvam|
tasya cānnapākasya hēturagniḥ, ata āha—-
yadannaṁ dēhadhātvōjōbalavarṇādipōṣaṇam|
tatrāgnirhēturāhārānna hyapakvādrasādayaḥ||54||
yadannaṁ-āhārō, dēhadhātvādipōṣaṇaṁ bhavati, tatrāgnirhētuḥ| kutaḥ ? ityāha-na hītyādi| hi-yasmāt, apakvādāhārādrasarudhirādayō na sambhavanti| atō dēhadhātvādipōṣaṇē sarvatrāgniḥ kāraṇam, pākakriyānirvartanāt| tadēvamanvayavyatirēkābhyāmavagamyatē, annaṁ dēhadhātvādihēturagniprabhāvādēva, tasmādagniḥ pākakāraṇam, pakvamannaṁ dēhādipōṣaṇam| iti parasparakāraṇtvamanayōḥ|
“na hyapakvādrasādayaḥ” ityuktam|
ataḥ pākasyaivētikartavyatāṁ nirupayannāha—-
annaṁ kālē’bhyavahr̥taṁ kōṣṭhaṁ prāṇānilāhr̥tam|
dravairvibhinnasaṅghātaṁ nītaṁ snēhēna mārdvam||55||
sandhukṣitaḥ samānēna pacatyāmāśayasthitam|
audaryō’gniryathā bāhyaḥ sthālīsthaṁ tōyataṇḍulam||56||
kālē-“prasr̥ṣṭē viṇmūtrē” (hr̥.sū. a.8/55) ityādinā granthēna prāṅnirūpitē| annamabhyavahr̥taṁ kōṣṭhaṁ-hr̥dayādyaṅganibandhanaṁ sthānaṁ, praṇākhyēna vāyunā”hr̥taṁ-ānītam| “ṣṭhīvanakṣavathūdgāra” (hr̥.sū.a.12/5) ityādinaiva prāṇānilāhr̥tatvē labdhē punaruktaṁ spaṣṭārtham| tacca dravaiḥ-dravaguṇōpalakṣitaistōyavyañjanamadyakṣīrādibhiḥ, vibhinnasaṅghātaṁ-apanītapiṇḍitabhāvam| tathā, snēhēna-ghr̥tādinā, mr̥dutvaṁ prāpitam| tathā, āmāśayasthitamagniḥ pacati| “nābhistanāntaraṁ jantōrāmāśaya iti smr̥taḥ|” iti vyākhyāta āmāśayastantrāntarē (carakē vi. a. 2/23)| kimbhūtō’gniḥ ? audaryō-jaṭharabhavaḥ| tathā samānākhyēna vāyunā sandhukṣitaḥ-uddīpataḥ| kālagrahaṇasyōpalakṣaṇārthatvānmātrādisahāyēna jāṭharāgninā samanōddīpitēna pakvamannaṁ dēhadhātvādipōṣaṇam| nanu, audaryō’gniradr̥śyatvānna jñāyatē kathaṁ pacati ? atastadarthaṁ bāhyaṁ dr̥ṣṭāntaṁ nirupayituṁ granthakr̥dāha yathētyādi| yathā bāhyō’gniḥ sthālīsthaṁ tōyataṇḍulaṁ pacati| tōyaṁ ca taṇḍulāśca tōyataṇḍulam, dvandvaikavadbhāvaḥ| tathaivāsāvaudaryō’gniḥ sandhukṣitaḥ samānēnāmāśayasthitaṁ caturvidhamannaṁ-aśitapītalīḍhakhāditabhēdabhinnaṁ, prāṇānilāhr̥taṁ pacati| nanu, dōṣabhēdīyē’dhyāyē pūrvamuktam (hr̥.sū.a. 12/4)-“prāṇō’tra mūrdhagaḥ| ityārabhya yāvat “niśvāsānnapravēśakr̥t|” iti| annasya pravēśaṁ-āharaṇaṁ, karōtītyannapravēśakr̥t| prāṇānilā hr̥tamityanēnāpyayamarthaḥ pratyapādi| tatkimētēna ? atrōcyatē| annapravēśakr̥dityanēnānnapravēśakaraṇamātramuktam, na tu kōṣṭhaprāpaṇamiti| prāṇasya hi vāryōrmūrdhāśritasyōrō yāvatsaṁcāra uktaḥ, na tatō’dhaḥ| ēvamannapravēśakaraṇaṁ tāvatprāptaṁ yāvaduraḥ, na kōṣṭhamiti| kōṣṭhaṁ prāṇānilāhr̥tamityanēna tu kōṣṭhaprāpaṇākhyō’rthaviśēṣa uktaḥ| iti dvayamapyētadvaktuṁ yuktam| [ nanu, ] ‘sandhukṣitaḥ samānēna’ iti ca na vācyam| yataḥ prāguktam (hr̥.sū.a.12/8)-“samānō’gnisamīpasthaḥ kōṣṭhē carati sarvataḥ|” iti| ēvaṁ jāṭharēṇāgninā sahacaraḥ samanō vāyuḥ sandhukṣayatītyarthō’vatiṣṭhatē| tasmāt “sandhukṣitaḥ samānēna ” ityanēna nārthaḥ| ucyatē| arthaviśēṣasampratyayārthamētaduktam| tathā hi-“samānō’gnisamīpasthaḥ kōṣṭhē carati sarvataḥ| annaṁ gr̥hṇāti pacati ” iti samānasayaiva pākakriyāṁ prati vahnisandhukṣaṇadvārēṇa kartr̥tvamuktam, nāgnēḥ| iha punaḥ sandhukṣitaḥ samānēnāgniḥ pacati, na samānō vāyuḥ, ityapaunaruktyamēva| yadyapi caikapratyayajanitaṁ na kiñcidasti, tathā’pyannapākakriyāṁ pratyagnērēva kartr̥tvam, na samānādēḥ| samānādayō hyupakārakā ēva| atō yuktamidaṁ ‘agniḥ pacati’ iti|
tasyānnasyēdānīmagnisamīpasthasya yā avasthāstāḥ kathayan punastamēva pākaṁ nirdiśati—-
ādau ṣaḍrasamapyannaṁ madhurībhūtamīrayēt|
phēnībhūtaṁ kaphaṁ, yātaṁ vidāhādamlatāṁ tataḥ||57||
pittamāmāśayātkuryācyavamānaṁ, cyutaṁ punaḥ|
agninā śōṣitaṁ pakvaṁ piṇḍitaṁ kaṭu mārutam||58||
ādau-prathamaṁ, ṣaḍrasamapi, apiśabdādvitrādirasamapi, annaṁ-abhyavahr̥tamaśitapītādikaṁ, tatpacyamānaṁ madhurībhutaṁ-amadhuraṁ madhuraṁ sampannaṁ sat, kaphamīrayēt| kimbhūtaṁ kapham ? phēnībhūtam| pānīyādērapi pacyamānasya prathamaṁ phēnōtpattidarśanādēvamuktam| vidāhāditi| tataḥ-prathamāvasthātō mādhuryaprāyāyā anantaraṁ, madhyamāvasthāṁ prāpya jāṭharēṇa vahninā pakvaṁ ṣaḍrasamapyannamabhyavahr̥tamamlatāṁ yātaṁ-anamlamamlaṁ sampannaṁ, pittaṁ vidadhyāt| kasmātpunaramlatāṁ yāti ? ityāha-vidāhāt| viruddhō viṣamō vā dāhō-vidāhaḥ| tatō vidāhāddhētōramlatāṁ yātam| kimbhūtamannam ? āmāśayāccyavamānaṁ,-nāmāśayasthitamēva| cyutaṁpunaḥ-tata āmaśayātpakvāśayaṁ prāptaṁ, jāṭharāgninā pakvaṁ śōṣitamannaṁ, tathā piṇḍitaṁ-tadānīm piṇḍaṁ sañjātaṁ saṁhataṁ sampannaṁ, tathā kaṭukaṁ jātaṁ, anyāṁ(ntyāṁ) tr̥tīyāmavasthāṁ prāpya mārutaṁ kuryāditi yōjyam| ētacca sarvaṁ svabhavasiddhaṁ svasaṁvēdyaprāyaṁ kāryānumēyaṁ ca| ata ēva rasaṣaṭkē’pi yaddravyāṇāṁ vipākatraividhyaṁ madhurāmlakaṭukalakṣaṇamuktaṁ, tadanayā rītyōpapannataraṁ bhavati| tathā hi-ṣaḍrasasyāpyannasya jāṭharāgninā pacyamānasya rasatrayōpalakṣitēna madhurāmlakaṭukasvabhāvēnāvasthātrayēṇa pariṇāmō bhavati| atha (nanu,) annamityatra kasmāt “adō jagdhirlyaptikiti” iti jagdhyādēśō na bhavati ?| brūmaḥ| anna iti nipātanāt “bahulaṁ chandasi” iti bahulavacanādvā jagdhyādēśābhāvaḥ| nanu, vidāhādamlatāṁ gatamiti sāmānyēnōktama yuktamivābhāti| yatō drākṣēkṣuśarkarādīnāmavidāhitvaṁ śrūyatē| api ca vidāhādīni ca varjayēditi tantrakāraḥ (hr̥.sū.a. 8/32) paṭhati| anayā ca rītyā avadāhidravyābhāva ēva syāt| tasmātsāmānyēna vidāhitvamabhyupagamyamānamanyāyyamiva manyāmahē| ucyatē| vidāhasya dvaividhyādadōṣaḥ| iha hi dvividhō vidāhaḥ prathitō dōṣasthānakr̥tō dravyakr̥taśca| tatra hi dōṣasthānakr̥tasya grahaṇam| [nanu,] āmāśayācyutamagninā pakvamiti kathamuktam ? yataḥ pakvāśayasthasyāgninā pākō’nupapannaḥ| dūravyavadhānō hyagnirāmāśayasthaḥ| tasmātpakvāśayasthasyānnasya pakvatvamanupapannam| atrōcyatē| pakvāśayē’pyasti pākaḥ, tantrakāravacanāt| tathā hi prāgbastividhāvabhyadhāt (hr̥.sū.a.19/34)-“yathā vā snēhapaktiḥ syādatō’tyulbaṇamārutān| vyāyāmanityān dīptāgnīn” ityādi| tadēvaṁ pakvāśayasthasyāpyanuvāsanasya snēhapākō’bhihitaḥ| tathā pakvāśayē’pyagninā pakvasya punaḥ pākō yukta ēva| tantrāntarēṣu māṁsādīnāmapi viklēdadarśanādanyatrāpi pākō’nujñāta ēva|
jāṭharasyāgnēḥ karmābhidhāya, idānīmanyēṣāmapyagnīnāṁ karmābhidhātumāha —-
bhaumāpyāgnēyavāyavyāḥ pañcōṣmāṇaḥ sanābhasāḥ|
pañcāhāraguṇānsvān svān pārthivādīn pacantyanu||59||
bhūmērayaṁ bhaumaḥ| āpya iti cintyam| āgnēya iti “agrērḍhak” iti ḍhak| vāyavya iti “sā’sya dēvatā” ityarthē “vāyvr̥tupitruṣasō yat” iti yat| tadatraupamyarthō bōdhyaḥ, vāyavya iva vāyavya iti| kē punastē ? ityāha-pañcōṣmāṇa iti| kimbhūtāḥ ? sanabhasāḥ| saha nābhasēnōṣmaṇā pañcōṣmāṇaḥpañcāgnayaḥ| bhauma ūṣmā yāvannābhasa ūṣmēti| tadētē’gnayaḥ pañcāhāraguṇān anu-paścāt, pacanti| kutō’nu ? prakr̥tatvā daudāryāgninirvartitādannapākāt| kimbhūtānāhāraguṇān ? svānkhān pārthivādīn| yō yasya māhābhutōṣmaṇaḥ pārthivādērātmīyō guṇaḥ, taṁ guṇaṁ sa ēva pārthivādyūṣmā pacati|
anayā cōktyā āhāraḥ śarīragatānāṁ bhāvānāṁ samānaguṇānāṁ guṇadvārēṇa varddhanahētuḥ,viparīta guṇānāṁ ca kṣayahētuḥ iti pratipādayati —-
yathāsvaṁ tē ca puṣṇanti pakvā bhūtaguṇān pr̥thak|
pārthivāḥ pārthivānēva śēṣāḥ śēṣāṁśca dēhagān||60||
tē ca-guṇāḥ, pañcamahābhūtāśritāḥ| yathāsvaṁ yē yēṣāṁ mahābhūtānāmātmīyā guṇāḥ, tē yathāsvamātmīyēna vahninā pakvā ātmīyānēva dēhasthān mahābhūtaguṇān puṣṇanti| kathaṁ puṣṇanti ? ityāha-pr̥thak,-pratyēkaṁ kr̥tvā, naikaṁ sarvē, na sarvānēkaḥ|
tāmēva pratyēkaṁ bhūtaguṇapuṣṭiṁ pañcōṣmapakvāhāraguṇakr̥tāṁ spaṣṭī kurvannāha-
pārthivā mahābhūtaguṇāḥ pārthivānēva mahābhūtaguṇān dēhagān puṣṇanti-vr̥ddhiṁ nayanti| śēṣāḥ-pārthivaguṇēbhyō yē’nyē mahābhūtaguṇā āpyāstaijasā vāyavyā nābhasāśca, tē śēṣān pārthivaguṇavyatiriktānāpyādimahābhūtaguṇān, puṣṇanti-āpyāyayanti| guṇānāṁ ca nirādhārāṇāmasambhavāt sahādhārēṇa pr̥thivyādinā mahābhūtēna saha pakvā ētē mahābhūtaguṇāstathāvidhānēva mahābhūtaguṇān puṣṇantīti sāmarthyalabhyō’rthaḥ| atra cōdayanti| nanu, pr̥thivyādimahābhūtacatuṣṭayavyatiriktasyōddēśamātratvādākāśasya sattaiva durghaṭā| kutaḥ punastasyōṣmaṇaḥ sambhavaḥ ? iti| atrōcyatē| ākāśasya sattā tāvat dravyanirṇayaprastāva prāk (hr̥.sū. a.9/1) pratipāditaiva| tathā nāsikāśrōtrāsyādiṣu suṣirēṣu sthānēṣu sthita ūṣmā dāhapākādīn kurvan nābhasa ūṣmētyupacaryatē| ityaupacārika ūṣmā’pyasyōpapanna ēva| ēvaṁ pañca bhautikā agnaya ētē, ēka udarāgniḥ, sapta ca dhātvagnayō vakṣyamāṇāḥ, iti trayōdaśāgnayaḥ| nanu, pārthivādyūṣmabhiḥ pakvasya punardhātūṣmabhiḥ pākakālē dhātūnāmapi pāñcabhautikatvāttatrāpi pārthivādyūṣmabhāvaḥ| taiśca pārthivādyūṣmabhiḥ punaḥ pākaḥ, ityēvamaṣṭādaśa prāpnuvanti| satyamēvatat| kintu ta ēva pañcōṣmāṇaḥ pārthivādayaḥ sthānantaraprāptā dhātūṣmāṇa iti vyapadēśa māsādayanti| yathā-udakaṁ sthānāntaragataṁ lasīkādivyapadēśaṁ labhatē| tathā cōktam-“taccharīragataṁ lasīkādivyapadēśaṁ prāpnōti|” iti| anyē tvēvamāhuḥ-ētē trayōdaśāgnayaḥ, tathā saptasu sirāśatēṣu saptāgniśatāni, pañcasu māṁsapēśī śataṣu ca pañcāgniśatāni “| iti| ēvaṁ pañcamahābhūtātmakādāhārādyathāsvamagninā pakvādrasa āhārasāraḥ| tatrasthairmahābhūtaguṇairdēhagā mahābhūtaguṇā rasadhātvāśritā yathāsvamabhivarddhantē|
kiṭṭaṁ sāraśca tatpakvamannaṁ sambhavati dvidhā|
————————————————-|61|
tadannaṁ pakvaṁ dvidhā sambhavati-dviprakāraṁ jāyatē, kiṭṭarūpaprasādarūpatayā|
kiṭṭamapi yadētannasya pakvasya, tadapyacchānacchabhēdēna dvidhētyāha—-
————————————————|
tatrācchaṁ kiṭṭamannasya mūtraṁ vidyāddhanaṁ śakr̥t||61||
tatra-tayōracchānacchabhēdabhinnayōḥ kiṭṭayārmadhyāt, yadacchamannasya kiṭṭaṁ tanmūtraṁ vidyāt| yad ghanaṁ-saṁhataṁ, annasya kiṭṭaṁ tat śakr̥t-purīṣaṁ, jānīyāt|
sārastu saptabhirbhūyō yathāsvaṁ pacyatē’gnibhiḥ|
—————————————————|62|
sāraḥ punaḥ-prasādākhyō bhāgō, bhūyaḥ saptabhiragnibhiḥ pacyatē| udarāgninā pañcabhiśca bhūtāgnibhiḥ pūrvaṁ pakvaḥ san pāścātsārībhūtō dhātūṣmabhiḥ pacyata iti pratipādanarthaṁ bhūyō grahaṇam| kathaṁ pacyatē ? yathāsvaṁ,-yasya sārasya rasādisapta dhātusthasya yō’gniḥ sa ātmiyaḥ, tēna tēna sa sa sāraḥ pacyata ityarthaḥ| rasadhātusthaḥ sārō rasadhātvagninā pacyata iti bhāvaḥ| caturvidhō’pyāhārā’bhyavahr̥tō jaṭharāgninā bhūtasahāyēna pakvaḥ kiṭṭasāratāṁ yāti| tatō yaḥ sāraḥ prasādākhyaḥ sa pūrvaṁ hr̥dayaṁ yāti| tatō hr̥dayāntaḥsthēna vyānēna vikṣiptastatsthābhiḥ sirābhirdaśabhirmūlabhūtābhiḥ kr̥tsnaṁ śarīramuhyamānō rasadhātunā sahaikatāṁ prāptō rasadhātvaśayasthēna vahninā bhūtāgnisahāyēna pacyamānō raktadhātusāratayā pariṇamiti| raktadhātusāratayā pariṇatō māṁsadhātusāratayā pariṇamati| yāvatsa ēvāhārarasaḥ kramēṇa garbhatayā pariṇamitīti|
amumarthaṁ dyōtayitumuvāca—-
————————————————|
rasādraktaṁ tatō māṁsaṁ māṁsānmēdastatō’sthi ca||62||
asthnō majjā tataḥ śukraṁ śukrādgarbhaḥ prajāyatē|
—————————————————|63|
rasāt-dhāturasādāhārarasēna sahaikatāmāpannāt, raktaṁ prajāyatē-sa dhāturasastathābhūtō raktatayā sampadyatē| tāvadyāvatsa ēva garbhatvēnēti yōjyam| atra cōdayanti| nanu, yadyāhārarasō vyānavikṣiptō rasadhātunā sahaikatāṁ pariṇaman kramēṇa raktādīn bhāvān garbhāvasānān pariṇamati| tarhi kathamuktaṁ “sārastu saptabhirbhūyō yathāsvaṁ pacyatē’gnibhiḥ|” iti ? atrōcyatē| kāryē kāraṇōpacāradētaduktamityavēhi| sārakāryēṣu rasaraktādiṣu saptabhirdhātvagnibhiḥ pacyamānēṣu “sārastu saptabhirbhūyō yathāsvaṁ pacyatē’gnibhiḥ|” ityuktam| tasmādrasādidhātava ēva sārākhyānmūlakāraṇādutthitāḥ paramārthēna pacyanta iti bōdhyam| nanu, yadi kramēṇāhārarasādrasō rasādraktaṁ raktānmāmsamityādikrama āśrīyatē, tatkathamuktaṁ (ślō.68)-“vyānēna rasadhāturhi vikṣēpōcita karmaṇā|” iti? atra hi yugapaditi ca nirdiśyatē| yugapat-ēkakālaṁ, vyānēna rasō dēhē vikṣipyatē| vikṣiptācca rasāt sarvadhātūtpattiriti pratyajñāyi| iha ca rasaraktamāṁsādikramēṇāhārarasāddhātuniṣpattirityucyatē| tadētat parasparaṁ viruddhamiva lakṣyatē| brūmaḥ| yugapacchabdō’tra śīghrakramārthaḥ| tathā cōvāca sāṅkhyē (sāṁ.kā. 3)- “yugapaccatuṣṭayasya tu vr̥ttiḥ kramaśaśca tasya nirdiṣṭā|” iti| asyārthaḥ-manōbuddhyahaṅkārāstrayaścakṣuḥśrōtrādīnāṁ madhyādanyatama ityēvaṁ catuṣṭayamētat| asya ca vr̥ttēryugapannirdiṣṭā kramēṇa ca| tatra yugapadvr̥ttirutpalapatraśatasūcībhēdananyāyēna| kramēṇa ca vr̥ttiryathā,-cakṣurādi rūpādikaṁ paśyati, manastatra saṁśētē, buddhirniścinōti, ahaṁ karōmītyahaṅkāra udyamayati| tadvadatrāpi yugapatkramēṇa ca vikṣēpō na viruddhaḥ| astvētat| rasadhāturityētatkathamuktam ? yatō rasākhyō dhātustēna na vikṣipyata, kintarhi ? āhārarasaḥ| ata ēva dhātuśabdōpādānamanarthakam| brūmaḥ| dhātuśabda ādhārābhidhēyatvēnēhōpāttō rasasya dēhadhāraṇatvaṁ darśayitum| sarvēṣāṁ hi dhātūnāṁ yaddēhadhāraṇasvabhāvatvaṁ tadāhārarasāpyāyitānāmēṣāṁ, na tvanāpyāyitānām| ataḥ sa āhārarasō dhātunāmādhāraḥ udbhavasthānam| yathā,-lōkē hēmādīnā ya ādhāraḥ pratiniyatā viśiṣṭā mr̥t sa dhātusaṁjñayā bhaṇyatē| iyaṁ mr̥ddhēmadhāturiyaṁ rajatadhāturiti| ēvamāhārarasā vyānēna vikṣipyata, na rasākhyō dhātuḥ, iti sthitamētat| kiñca, āhārarasādēkakālaṁ saptasudhātusrōtaḥsu pravēśitādrasaraktādayō dhātava utpadyantē, iti yadyēṣa ēkakāladhātupōṣaṇapakṣa āśrīyatē, tadānīmidaṁ virudhyatē-“pūrvō dhātuḥ paraṁ kuryādvr̥ddhaḥ kṣīṇāśca tadvidham|” (hr̥.sū. a. 11/35) iti| yataḥ sarvē dhātava āhārarasēna yugapadvyānavikṣiptēna svē svē srōtasyavatiṣṭhamānāḥ svātantryēṇāhārarasāpyāyitāḥ puṣyanti, anāpyāyitāḥ kṣayaṁ yānti| tadēvaṁ kathaṁ pūrvasya dhātōrvr̥ddhau parasya vr̥ddhiḥ pūrvasya dhātōḥ kṣayē parasya kṣayaḥ syāt ? na hi kadāciddhaṭatē maitrē tr̥ptē caitraḥ suhitaḥ syāt, atr̥ptē vā’suhitaḥ syāt| tathā sthūlasya mēda ēvōpacīyata iti dr̥ṣṭam| na ca samaṁ kr̥tvā saptasu dhātusrōtaḥsu vinikṣiptē rasē mēdasō’dhikā vr̥ddhiḥ kathañcidupapadyatē| kramapariṇāmapakṣē tu sthūlasyāhārarasō rasadhātutayā pariṇamiti| rasadhātū raktatayā, raktadhāturmāṁsatayā, māṁsadhāturmēdastayā pariṇamati| mēdasa āhārapūrṇasya sa āhārarasō mēdastvaṁ prāptaḥ punaḥ pratisrōtōnyāyēna māṁsasya viśēṣavatīm vr̥ddhiṁ karōti, anantaraṁ raktasya, anantaraṁ rasasya| punaśca rasadhāturatipūrṇō raktasya vr̥ddhiṁ vidhattē, raktadhāturmāṁsasya, māṁsadhāturmēdasaḥ, ityēvamatisthūlasya mēdōvadrasādayō māṁsāvasānā apyupacīyantē| asthyādayaścāsthyādisrōtasāṁ mēdasā”vr̥tatvānna tathōpacīyantē| tasmādāhārarasēna mēdōbhāvēna pariṇamatā udakaparipūrṇābhinavamr̥tkumbhajalalavasyandananyāyēnāsthyādayō dhātavaḥ kēvalamāpyāyyantē, na tu tathōpacīyantē| tathā ca muniḥ (ca. sū. a. 21/4)- “sthūlasya mēda ēvōpacīyatē, na tathētarē dhātavaḥ|” iti| asya hyayamarthaḥ,-mēdasō yē’nyē’sthyādayaḥ śukrāvasānastē na tathōpacīyantē, na punaḥ pūrvē rasādayō dhātavaḥ sthūlasya nōpacīyanta iti| ata ēvāha muniḥ (ca. sū. a.21/9)- “mēdōmāṁsātivr̥ddhatvāccalasphigudarastanaḥ| ayathōpacayōtsāhō narō’tisthūla ucyatē||” iti| api ca, yadi kramapariṇāmapakṣō nōrarīkriyēta tadānīṁ garbhasya śukradhātusārōtpannasya rasādayō majjāvasānā dhātavō na syuḥ| kāraṇānuvidhāyīni hi kāryāṇi bhavantītyuktam| kramapariṇāmapakṣē punaḥ śukraprasādasya sarvadhātuprasādarūpatayā pariṇatatvāt sa śukraprasādō garbhatayā pariṇamaṁstathārupa ēva pariṇamati| kāraṇānurūpatvātkāryāṇām| tathā ca bījakāraṇē vaṭadhavaprarōhādau sakalānyavaśyaṁ tatpadārthajātāni tathārūpāṇyavyaktarūpatayā tānyavatiṣṭhantē| yāni kāryarūpatayā pariṇamanti, sarvāṇyabhivyaktiṁ yānti kāryē dr̥śyantē| nanu, kramapariṇāmapakṣē dhātōrdhātvantarōtpattāvāśrīyamāṇāyāṁ yō yō dhāturdhātvantarabhāvēna dēhē pariṇamati| tasya tasya dhātōrdhātvantarabhāvēna pariṇātatvādabhāvaḥ prāpnōti pūrvasya pūrvasya| tataśca śukraprasādasyaiva dēhē sadbhāvaḥ syāt, na rasādīnāṁ dhātūnām| tathā caivamāhāravinivr̥ttāvapi strīgamanasāmarthyaṁ syāt, śukrasya vidyamānatvāt| atrōcyatē| anavacchinnapravāhasantānakramēṇāṁśāṁśikatayā dhātūnāṁ dhātvantarabhāvāpattiḥ, na tulya kālaṁ sarvairavayavairutpattiḥ| iti kr̥tvā yō yō dhāturdhātvantarabhāvēna dēhē pariṇamati na tasya tasya dhātōḥ pūrvasyābhāvaḥ prāpnōti, sarvairavayavairapariṇatatvāt| tadēvaṁ sarvathā kramapariṇāmapakṣa ēvāśrayituṁ nyāyyaḥ| tathā cāṣṭāṅgasaṅgrahē’pyadhītam (śā. a. 6)- “tatrāhārarasō vyānavikṣiptō yathāsvaṁ saptasu dhātvagniṣu kramātpacyamānaḥ svātmabhāvapracyutisamanantaramēva prāptaraktādisaṁjñaḥ kālavadaskhalitaprayāṇō dēhamūrjayan” ityādi| tathā carakasaṁhitāyāṁ dr̥ḍhabalō’pyāha (ci. a. 15/14)- “rasādraktaṁ tatō māsaṁ māṁsānmēdastatō’sthi ca| asthnō majjā tataḥ śukraṁ śukrādgarbhaḥ prasādajaḥ|| ityuktavantamācāryaṁ śiṣyastivadamacōdayat| rasādraktaṁ visadr̥śātkathaṁ dēhē’bhijāyatē|| rasasya na ca rāgō’sti sa kathaṁ yāti raktatām| rasādraktāt sthiraṁ māṁsaṁ kathaṁ tajjāyatē nr̥ṇām|| rasādraktāttathā māṁsānmēdasaḥ śvētatā katham| ślakṣṇābhyāṁ māṁsamēdōbhyāṁ kharatvaṁ kathamasthiṣu|| kharēṣvasthiṣu majjā ca kēna snigdhō mr̥dustathā| majjñaśca pariṇāmēna yadi śukraṁ prajāyatē|| kathaṁ sarvagataṁ śukraṁ pravadanti manīṣiṇaḥ|| atha prasādānmajjñaśca śukraṁ bhavati dēhinām|| chidraṁ na dr̥śyatē’sthnāṁ ca tanniḥsarati vā katham| ēvamuktastu śiṣyēṇa guruḥ prāhēdamuttaram|| tējō rasānāṁ sarvēṣāmambujānāṁ yaducyatē| pittōṣmaṇaḥ sa rāgēṇa rasō raktatvamr̥cchati|| vāyvagnitējasāyuktaṁ raktaṁ māṁsatvamr̥cch gati| ślēṣmāṇaṁ ca samāśritya māṁsa snēhābhisaṁyutam|| sthiratāṁ prāpya śauklyaṁ ca mēdō dēhē’bhijāyatē| pr̥thivyagnyanilādīnāṁ saṅghātaḥ ślēṣmaṇā vr̥taḥ|| kharatvaṁ prakarōtyasya jāyatē’sthi tatō nr̥ṇām| karōti tatra sauṣiryamasthnāṁ madhyē samīraṇaḥ|| mēdasā tāni pūryantē snēhō majjā tataḥ smr̥taḥ| tasmānmajjñaśca yaḥ snēhaḥ śukraṁ sañjāyatē tataḥ|| vāyvākāśādibhirbhāvaiḥ sauṣiryaṁ jāyatē’sthiṣu| yēna sravati tacchukraṁ navātkumbhādivōdakam|| srōtōbhiḥ syandatē dēhātsamantāccukravāhibhiḥ| harṣēṇōdīritaṁ rāgātsaṅkalpācca manōbhavāt|| [vilīnaṁ ghr̥tavaḍyāyāmōṣmaṇā sthānavicyutam|] bastau sambhr̥tya niryāti sthalānnimnamivōdakam|” iti| tathā carakamunirapi sākṣādadhijagē (ci. a.8/37)-“srōtasā ca yathāsvēna dhātuḥ puṣyati dhātunā|” iti| tathā (ca.sū. a.28/3)-“dhātavō hi dhātvāhārāḥ prakr̥timanuvartantē|” iti| nagnajidapyāha-“tatrāhārarasātpūrvaṁ rasadhāturvivaddhatē| raktadhātū rasāccaiva raktākhyānmāṁsamēva ca|| mēdōdhātustatō māṁsādasthyākhyō mēdasastathā| majjadhātustatō’sthyākhyānmajjñaḥ śukrākhya ēva ca|| śukrātparaṁ ca garbhasya sambhavaḥ parikīrtitaḥ|” iti| tasmātkramapariṇāmapakṣa ēva yuktaḥ|
ēvaṁ rasādīnāṁ dhātūnāṁ prasādaṁ darśayitvā, kiṭṭaṁ yathākramaṁ darśayitumāha—-
————————————————|
kaphaḥ pittaṁ malāḥ khēṣu prasvēdō nakharōma ca||63||
snēhō’kṣitvagviśāmōjō dhātūnāṁ kramaśō malāḥ|
—————————————————|64|
kaphādayō dhātūnāṁ kramēṇa malāḥ| rasasya kaphō malaḥ| raktasya pittaṁ malaḥ| khēṣu nāsikāvivarādiṣu yō malō’ntaḥ sambhavati sa māṁsasya malaḥ| yaḥ śarīrē prasvēdō-rōmabhyaḥ salilasambhavaḥ, sa mēdasō malaḥ| nakhā rōmāṇi cāsthnāṁ malaḥ| majjñaḥ snēhō malaḥ| snēhaḥ kēṣāṁ sambandhī ? nētrayōstvacō viśaḥ-purīṣasya, ca| yattadōjaḥ-sarvadhātūnāṁ tējaḥ śarīrasambhavaṁ, sa śukrasya malaḥ|
na kēvalāmāhārasya prasādakiṭṭatayā dvaividhyam, yāvaddhātūnāmapyāhārarasāpyāyitānāṁ prasādakiṭṭatayā dvaividhyamiti darśayannāha—-
————————————————|
prasādakiṭṭau dhātūnāṁ pākādēvaṁ dvidhacchataḥ||64||
dhātūnāṁ-rasādīnāṁ, ēvaṁ-anēna prakārēṇa yathādarśitēna pākādagnyāhitāt, prasādakiṭṭau dvidhā r̥cchataḥ-dvaividhyaṁ vrajataḥ| kiṭṭaśabdasyātra puṁstvaṁ lōkāśrayatvālliṅgasyēti bōdhyam, ardharcādiṣu tvapāṭha ēvāsya|
parasparōpasaṁstambhāddhātusnēhaparamparā|
——————————————|65|
dhātūnāṁ snēhaḥ-sārō dhātusnēhaḥ| āhārarasasya dhātvātmanāpariṇamatō yathāyathaṁ dhātvagnibhiḥ pacyamānasya kṣīrasyēva śr̥tasya sāraḥ-tathāpākavaśāddhātūnāṁ yathōttaraṁ yathārūpaḥ snēhō jāyatē, tasya dhātusnēhasya paramparā-āhārarasāpyāyitā yā’vyucchinnaprabandhapravr̥ttatayā viśiṣṭaiva yathōttaraṁ dhātusnēhōtkarṣakramapariṇatiḥ sā dhātusnēhaparamparā, parasparamupasaṁstambhāt-upasaṁślēṣāt, jāyatē| ata ēva śōṇitaprabhr̥tīnāṁ dhātūnāmuttarōttaraṁ gauravaṁ yathōttaraṁ snēhōtkarṣaḥ|
idānīṁ pariṇatikālamāhārasya nirupayannāha —-
—————————————|
kēcidāhurahōrātrātṣāḍahādaparē, parē||65||
māsēna yāti śukratvamannaṁ pākakramādibhiḥ|
——————————————|66|
kēcidācāryāḥ ahōrātrāt-rātriṁdinēna, annaṁ śukratvaṁ yātītyāhuḥ| kaiḥ ? pākakramādibhiḥ| pākasya jāṭharāgninā bhūtāgnibhirdhātvagnibhī rasaraktādiparipāṭyētyēvaṁprakāraḥ kramaḥ, sa ādiryēṣāṁ-vīryaprabhāvādīnāṁ, taiḥ| aparē-anyē ācāryāḥ, ṣaḍahātṣaḍbhirdinaiḥ, anna pākakramādibhiḥ śukratvaṁ yātīti vadanti| parē anyē, tvāhuḥ,-ahōrātrātprabhr̥ti māsaḥ paraḥ pramāṇāvadhirannasya rasādipākakramādinā pariṇamataḥ śukratvagamanē, na tata ūrdhvaṁ kadācidapi| tathā ca parāśarō’ṣṭarātrēṇānnaṁ pariṇamacchukratvaṁ yātīti saṅgiratē| tathā ca tadvanthaḥ-“āhārō’dyatanō yaśca ścō rasatvaṁ sa gacchati| śōṇitatvaṁ tr̥tīyē’hni, caturthē māṁsatāmapi|| mēdastvaṁ pañcamē, ṣaṣṭhē asthitvaṁ, saptamē vrajēt| majjatāṁ, śukratāmēti divasē tvaṣṭamē nr̥ṇām|| tasmaddhi pathyāpathyābhyāmāhārābhyāṁ nr̥ṇāṁ dhruvam| saptarātrēṇa śudhyanti praduṣyanti ca dhātavaḥ||” iti
athaitadannaṁ rasādibhāvēna pariṇamacchukratvaṁ yāti|
kiñcicchinnaṁ kr̥tvā’tha kālavadanavarataṁ kr̥tvā pākakramēṇa ? ata āha —-
—————————————|
santtatā bhōjyadhātūnāṁ parivr̥ttistu cakravat||66||
bhōjyāśca tē dhātavaśca bhōjyadhātavaḥ| bhōjyaśabdēnēha yasya dhātōrya āhārastasya sarvasya grahaṇam| uktaṁ hi (ca.sū. a.28|13)-“dhātavō hi dhātvāhārāḥ|” iti| ētaduktaṁ bhavati,-yasya dhātōryasmādutpattiḥ sa yasyāhāra iti| bhōjyadhātūnāṁ parivr̥ttiḥ-parivartanaṁ bhramaṇaṁ gatiḥ, sa cakravatsantatā avyuccinnaprabandhasvarūpā, āhārarasēnāpyāyitatvāt|
ēvaṁ pūrvōktēna kālāvadhinā vr̥ṣyādyapi yadvastujātaṁ tadapi śukratvaṁ yātītyāśaṅkāyāmidamāha—-
vr̥ṣyādīni prabhāvēṇa sadyaḥ śukrādi kurvatē|
————————————————-|67|
vr̥ṣyāṇi kṣīrarasamadhukamāṣakūṣmāṇḍahaṁsādipakṣyaṇḍaprāyāṇi| tathā, ādigrahaṇādviṣagarapraśamanamūḍhagarbhajarāyuniṣkramaṇakriyāprāyāṇi| sadyaḥ-tatkṣaṇādēva, susūkṣmaṁ durlakṣyaṁ tathāvidhaṁ prabhāvamāsādya tāni pariṇamanti śukrabalādi kurvatē nāpariṇamanti|
—————————————————|
prāyaḥ karōtyahōrātrātkarmānyadapi bhēṣajam||67||
vr̥ṣyādidravyavyatiriktamanyadapi bhēṣajaṁ-cūrṇaguṭikādi dīpanādikriyaṁ, ahōrātrēṇa prāyaḥ svaṁ svaṁ karma karōti| prāyōgrahaṇaṁ kiñcidbhēṣajamahōrātrādapyūrdhvaṁ kiñcittatō’pyavāk vīryādivaśāt karma karōtīti dyōtanārtham|
āhārarasō rasadhātunā sahaikatamāpannō rasaraktādibhāvēna pariṇamati yāvaccukraprasādō garbhatvēnētyuktam|
tatkathaṁ kadācidēkadēśē rōgakr̥dgudhiramāṁsādyēkadēśavr̥ddhikṣayavikārakr̥ttvādbhavati ? iti saṁśayāpanōdārthamidamāha —-
vyānēna rasadhāturhi vikṣēpōcitakarmaṇā|
yugatpasarvatō’jasraṁ dēhē vikṣipyatē sadā||68||
kṣipyamāṇaḥ khavaiguṇyādrrasaḥ sajjati yatra saḥ|
tasminvikāraṁ kurutē khē varṣamiva tōyadaḥ||69||
āhārarasō jaṭharāgninā pakvaḥ prasādō dhātvākāratvāddhātuvācyō yasmādvyānēna sadā sarvataḥ-sarvasmin dēhē, vikṣipyatē viśēṣēṇa prēryatē| sarvata ityādyāditvāttasiḥ| kimbhūtēna ? vikṣēpaḥ-prēraṇamēva, ucitaṁ-yōgyaṁ, karma yasya, tēna vikṣēpōcitakarmaṇā| kathaṁ vikṣipyatē ? yugapat-ēkakālam, tathā’jasraṁ-anavaratam| saḥ-rasadhāturāhārarasaprasādākhyō, vyānēna vikṣipyamāṇaḥ khavaiguṇyāt srōtōduṣṭēḥ, yatra pradēśē svarupāpracyutō’pi sajjati-saktaḥ sampadyatē, tasmin pradēśē dēhasya vikāraṁ kurutē, na sarvatra| ētadēva dr̥ṣṭāntadvārēṇa spaṣṭayati| khē varṣamityādi| yathā khē-viyati, tōyadō-mēghō, vātavaśāt kṣipyatē varṣaṁ-vr̥ṣṭiṁ, kvacidēva dēśē kurutē, na sarvatra| khasya vaiguṇyaṁ khavaiguṇyamiti ṣaṣṭhīsamāsaḥ| “pūraṇaguṇa” ityādinā cātra yathā samāsaniṣēdhō na bhavati, tathā “śirōrtīndriyadaurbalya” (hr̥.sū. a. 4/9) ityatra pratipāditamēva| tasmin vikāraṁ kuruta ityatrātmanēpadaṁ na prāpnōti, rasasya kartrabhiprāyābhāvāt| na hi tasya citramutpadyata iti karōtīti prāpnōti| brūmaḥ| aupacārikō’tra kartrabhiprāyaḥ kalpyaḥ| anēnaiva nyāyēna ‘vrīhīnātapaḥ śōṣayati’ ityādyapyupapannam| vyānō rasadhātuṁ yatra nayati tatra vikāraḥ, iti tāvadrasasya vikṣēpaḥ|
dōṣāṇāmapi caivaṁ syādēkadēśaprakōpaṇam|
annabhautikadhātvagnikarmēti paribhāṣitam||70||
ēvamiti dōṣaprakōpatramātidēśārtham| yathā rasaḥ kṣipyamāṇaḥ khavaiguṇyādyatra sajjati tasmin vikāraṁ kurutē, ēvaṁ-anēna nyāyēna, dōṣāṇāmapi-vātādīnāṁ vyānēna vikṣipyamāṇānāṁ, ēkadēśaprakōpaṇaṁ-vikārakaraṇaṁ, syāt| ata ēva sidhmadadruśvayathvādyēkadēśē jāyatē| ēvaṁ kṣēpyāṇāṁ svabhāvasthānāmapyasvātantryādvikārakāritvaṁ bhavati|
bhūtamēva bhautikam| vinayādibhyaṣṭak| annaṁ ca bhautikaṁ ca dhātavaścānnabhautikadhātavaḥ, tēṣāmagnirannabhautikadhātvagniḥ, tasya karma annabhātikadhātvagnikarma| iti prakārē| iti-pūrvōktēna prakārēṇa, annabhautikadhātvagnikarma paribhāṣitaṁ-uktaṁ niścayīkr̥tam| tatra “annaṁ kālē’bhyavahr̥taṁ” (ślō.55) ityādinā “kaṭu mārutam” ityantēna granthēna| tathā, annaṁ sārakiṭṭatayā yatpariṇamati tadētajjāṭhārāgnēḥ karma| “bhaumāpyāgnēya” (ślō.59) ityārabhya” śēṣāḥ śēṣāṁśca dēhagān” ityēvamantēna granthēna yannirdēṣṭaṁ tadbhūtāgnēḥ karma| “sārastu saptabhirbhūyō” (ślō 62) ityārabhya “prasādakiṭṭau dhātūnā” ityēvamantēna yannirdiṣṭaṁ taddhātvagnikarmēti|
annasya paktā sarvēṣāṁ paktr̥̄ṇāmadhikō mataḥ|
tanmūlāstē hi tadvr̥ddhikṣayavr̥ddhikṣayātmakāḥ||71||
tasmāttaṁ vidhivadyuktairannapānēndhanairhitaiḥ|
pālayētprayatastasya sthitau hyāyurbalasthitiḥ||72||
sarvēṣāṁ paktr̥̄ṇāṁ madhyē yō’nnasya paktā-pācakō jāṭharāgniḥ, sō’dhikō mataḥ-balīyānabhiprētaḥ| tantrakr̥tāmiti śēṣaḥ| kutaḥ śrēṣṭhaḥ ? ityāha-tanmūlā ityādi| saḥ jāṭharānalō, mūlaṁ pradhānaṁ, yēṣāṁ-bhūtāgnyādīnāṁ tē yasmāttanmūlāḥ| mūlamiva mūlam| yathā, vr̥kṣādīnāṁ pradhānamavayavō mūlaṁ, sarvēṣāṁ hi tadavayavānāṁ janmādiṣu tatkāraṇam, tēna vinā tēṣāṁ janmādyasambhavāt| yasmāccaivaṁ mūlaṁ-sarvāvayavēbhyaḥ pradhānamavayavaḥ| tasmāttē-bhūtadhātvagnayaḥ, taddr̥ddhikṣyavr̥ddhikṣayātmakāḥ,-vr̥ddhiśca kṣayaśca vr̥ddhikṣayau, tasya-jāṭharāgnēḥ, vr̥ddhikṣayau-cayāpacayau, tābhyāṁ vr̥ddhikṣayau tadvr̥ddhikṣayavr̥ddhikṣayau, tāvātmā-svabhāvō, yēṣāṁ tē tadvr̥ddhikṣayavr̥ddhikṣayātmakāḥ| ētaduktaṁ bhavati,-jāṭharānalavr̥ddhyā parēṣāmagnīnāṁ vr̥ddhiḥ tatkṣayēṇa tēṣāṁ kṣayaḥ| tasmāttaṁ pācakamagniṁ, vidhivat-praśastēna vidhānēna, yuktaiḥ-yōjitaiḥ, annapānēndhanairhitaiḥ-pathyaiḥ, pālayēt| annapānānyēvēndhanāni, taiḥ| kathaṁ pālayēt ? prayataḥ-yatnavān nāvahēlayā| hi-yasmāt, tasya-annasya paktuḥ, sthitau-sadbhāvē, āyurbalasthitiḥ-tatsthitāvāyuravatiṣṭhatē balaṁ ca| tathā cōktam (saṅgrahē ci. a.12)- “agnimūlaṁ balaṁ puṁsāṁ balamūlaṁ hi jīvitam|” iti|
jāṭharāgnimadhunā caturvidhaṁ vakti —-
samaḥ samānē sthānasthē viṣamō’gnirvimārgagē|
pittābhimūrccitē tīkṣṇō mandō’sminkaphapīḍitē||73||
samānē vāyau sthānasthē-khāśayasthitē sati, samō’gnirbhavati| vimārgagē-mārgamujjhitvōtpathapravr̥tē samānē sati, viṣamō’gnirbhavati| pittēnābhimūrccitē-ēkalōlībhūtē samānē, tīkṣṇō’gnirbhavati| asmin-samānē, kaphapīḍitē-ślēṣmābhibhūtē, mandō’gnirbhavati|
samō’gnirviṣamastīkṣṇō mandaścaivaṁ caturvidhaḥ|
yaḥ pacētsamyagēvānnaṁ bhuktaṁ samyak samastvasau||74||
viṣamō’samyagapyāśu samyagvā’pi cirātpacēt|
tīkṣṇō vahniḥ pacēccīghramasamyagapi bhōjanam||75||
mandastu samyagapyannamupayuktaṁ cirātpacēt|
kr̥tvā”syaśōṣāṭōpāntrakūjanādhmānagauravam||76||
ēvaṁ-samādibhēdēna, caturvidhō’gnirbhavati|
idānīmasya caturvidhasyāgnērlakṣaṇaṁ vakti-
vahniriti vakṣyamāṇēna sambandhaḥ| yō vahniḥ samyak-yathāvidhi, bhuktamannaṁ samyagēva pacēt, sa sama ēva bhavati, iti tuśabdō’vadhārayati| annamiti prakr̥tam| yō’samayagapidēśakālamātrāvidhibhraṣṭamapi, annaṁ bhuktamāśu pacēt, samyagvā’nnaṁ bhuktaṁ cirātpacēt, sa viṣamaḥ| yō’samyagapyannaṁ bhuktaṁ drāk pacēt, sa tīkṣṇaḥ| yastu samyagapyannamupayuktamāsyaśōṣādīn kr̥tvā cirātpacēt, sa mandaḥ| āṭōpaḥ-kṣōbhaḥ| mandē’gnau ca sabhaktamēvauṣadhaṁ prāyēṇōpayōktuṁ yujyatē| tathā ca saṅgrahē papāṭha (sū. a. 11)- “yāmaiścaturbhirdvābhyāṁ ca bhōjyabhēṣajyayōḥ samē| pākō’gnau yuktayōrdrāk ca tīkṣṇē, mandē punaścirāt|| sabhaktamauṣadhaṁ tasmānmandāgnēravacārayēt|” iti|
ēvamagnimuktvā, agnyāyattatvādbalasya balatraividhyaṁ darśayati-
sahajaṁ kālajaṁ yuktikr̥taṁ dēhabalaṁ tridhā|
—————————————————|77|
saha jāyata iti sahajam, kālājjātaṁ kālajam, yuktibhirūpajātaṁ yuktijam, iti dēhabalaṁ-śarīrabalaṁ, tridhā|
—————————————————|
tatra sattvaśarīrōtthaṁ prākr̥taṁ sahajaṁ balam||77||
vayaskr̥tamr̥tūtthaṁ ca kālajaṁ, yuktijaṁ punaḥ|
vihārāhārajanitaṁ tathōrjaskarayōgajam||78||
tatra-tēṣu balēṣu madhyē, sattvarajastamaḥsamutthaṁ śarīrōdbhūtaṁ ca yadbalaṁ tatprākr̥taṁ-svabhāvikam| sattvaśabdēna guṇatrayamupalakṣyatē| śarīraṁ-tvagraktādisāramayaṁ yadvastujātaṁ tat| vayō-bālyayauvanādi, tēna kr̥taṁ vayaskr̥tam,-vayōnusārēṇa niṣpāditam, r̥tubhyō-hēmantādibhya udbhūtamr̥tūttham, ētadubhayamapi kālajaṁ balam| vayaskr̥tamityatra “ataḥ kr̥kami” ityanēna saḥ| yuktijaṁ punarbalaṁ,-viharaṇaṁ-vihārō vāṅgmanaścēṣṭālakṣaṇō’nēkaprakāraḥ, āhāraḥ-pūrvamuktaḥ, tābhyāṁ vihārāhārābhyāṁ janitaṁ vihārāhārajanitaṁ yadvalaṁ tadyuktijam| yuktiḥ-yōga itikartavyatā, tatō jātaṁ yuktijam| tathā, ūrjaskarāstvimē yōgāḥ-“tadyathā,-balavatpuruṣē dēśē janma [ tadvidhē ca kālē ] sukhaśca kālayōgō bījakṣētraguṇaśarīrāhārasatvasampattayaśca” (saṁ. śā. a. 8)| tathā yē yōgā rasāyanavājīkaraṇōktāḥ, tēbhyō jātamūrjaskarayōgajaṁ yadvalaṁ tadapi yuktijam|
samprati dēśatraividhyaṁ darśayati-
dēśō’lpavāridrunagō jāṅgalaḥ svalparōgadaḥ|
ānūpō viparītō’smātsamaḥ sādhāraṇaḥ smr̥taḥ||79||
stōkajalavr̥kṣaśailākrāntaḥ svalparōgadō jāṅgalō dēśaḥ śuddhasrōtastayā| tathā ca-marudēśōdbhavā alparōgāścirajīvinaśca dr̥śyantē| asmāt-jāṅgalāt, viparītō-bahūdakatarugirisamadhiṣṭhitō bahurōgadaśca, ānūpaḥ| samastu dēśō yō nātyambuvr̥kṣaparvatō, na cātyalpavāritarugiriḥ, sa sādhāraṇō madhyastharōgārōgyaḥ|
ēvaṁ bhūmilakṣaṇaṁ dēśamuktvā majjādīnāṁ parimāṇārthamāha —-
majjamēdōvasāmūtrapittaślēṣmaśakr̥ntyasr̥k|
rasō jalaṁ ca dēhē’sminnēkaikāñjalivarddhitam||80||
majjādidravyaṁ jalāvasānaṁ, asmin-pauruṣē dēhē, ēkaikāñjalivarddhitam| tēna majjña ēkō’ñjaliḥ, dvau mēdasaḥ, yāvajjalasya dēhāśritasya daśāñjalayaḥ|
pr̥thak svaprasr̥taṁ prōktamōjōmastiṣkarētasām|
dvāvañjalī tu stanyasya catvārō rajasaḥ striyāḥ||81||
ōjōmastiṣkaśukrāṇāṁ dēhagānāṁ pr̥thak-prētyēkaṁ, svaprasr̥taṁ pramāṇam| striyāḥ stanyasya dvāvañjalī, rajasō-raktasyārtavasya catvārō’ñjalayaḥ| svēna mānēnāñjaliprasr̥tāviha hastasaṁsthānaviśēṣavācyau gr̥hyētē, na tu catuṣpaladvipalaparimāṇau mānavācyau, svaśabdaprayōgāt| prasr̥taśabdē tu mānavācini gr̥hyamāṇē svaśabdō’narthaka ēvēha syāt| nanu, yathā majjādīnāṁ samatvādhikyahānayō vidyantē, tathā pavanasyāpi| tathā ca prāgabhyadhāyi (hr̥. sū. a. 11/1)- “utsāhōcchvāsaniḥśvāsa” ityādi| tathā (hr̥. sū. a. 11/5)- “vr̥ddhastu kurutē’nilaḥ| kārśya” ityādi| tathā (hr̥. sū. a. 11/15)- “liṅgaṁ kṣīṇē’nilē’ṅgasya” ityādi| tasmādvāyōrapi pramāṇaṁ vācyaṁ syāt| tatkathamiha nōktam ? atrōcyatē| pavanasyāmūrttatvātpramāṇaṁ vaktumayuktam| tathā ca carakaḥ (?)-“na mānōnmānatā vāyōrarūpatvāttu yujyatē|” iti| tasmālliṅgairēva samatvādhikyahānayō’nilasya vaktuṁ yuktāḥ|
samadhātōridaṁ mānaṁ vidyādvr̥ddhikṣayāvataḥ||82||
samadhātōḥ-samaprakr̥tēḥ, ētanmānaṁ vidyāt, naikadōṣādhikaprakr̥tīnāṁ dvidōṣādhikaprakr̥tīnāṁ vā| tēṣāṁ hyata ēva yathōktādañjalipramāṇādikādyathāyathaṁ majjādīnāṁ vr̥ddhikṣayau vidyāt|
adhunā yadukramāyuṣkāmīyādhyāyē (hr̥. sū. a. 1/9)- “śukrārtavasthairjanmādau viṣēṇēva viṣakrimēḥ|
(taiśca tisraḥ prakr̥tayaḥ” ityādi sūtrasyaiva vivaraṇamāha —-
śukrāsr̥ggarbhiṇībhōjyacēṣṭāgarbhāśayartuṣu|
yaḥ syāddōṣō’dhikastēna prakr̥tiḥ saptadhōditā||83||
śukraṁ cāsr̥k cētyādidvandvaḥ| garbhiṇī-sampadyamānā garbhāmātā, tasyā bhōjyacēṣṭē-āhāravihārau, ētēṣu yō’dhikō dōśō-vātādiḥ, tēna prakr̥tiḥ saptadhā-saptaprakārā, [ uditā- ] abhihitā, sūtrasthānē (a.1/10)| ya iti jātāvēka vacanam| tēna yō dōṣō, yau dōṣau, yē dōṣāḥ, ityarthō’vatiṣṭhatē| ēkadōṣadvidōṣatridōṣaprakr̥tiṣu yathāsaṅkhyamēkō dōśō dvau dōṣō trayō dōṣā adhikā ityarthaḥ| nanu, samadhātōrvātādīnāṁ samatvāt kathamivādhikyaṁ syāt ? brūmaḥ| samadhātōrapi samānāṁ trayāṇāmapi tasmin kālē svapramāṇatō yathāsvaṁ tulyē nādhikatvaṁ bhavatīti yuktaṁ tatrāpyādhikyam| yadi vā dōṣō’dhika iti bāhulyēnōktam| tēna ṣaṭsvēva prakr̥tiṣu dōṣādhikabhāvaḥ, na tu samadhātāviti vēdyam|
adhunā vātasya prādhānyaṁ ṣaḍbhiḥ kāraṇaiḥ pradarśya vātaprakr̥ti prāgabhidhattē-
vibhutvādāśukāritvādvalitvādanyakōpanāt|
svātantryādbahurōgatvāddōṣāṇāṁ pravalō’nilaḥ||84||
vibhutvāt-vyāpitvāt| tathā, āśukāritvāt| tathā, balitvāt, yathā hi vāyurvyāpyāśukārī balī ca, na tathā pittaślēṣmāṇau| tathā, anyakōpanāt, svajātīyāpēkṣayā’nyaupittaślēṣmāṇau, anēna yathā kōpyētē, na tābhyāṁ tathā’yam| tathā, svātantryāt-prērakatvāt, tathā hi nāsāvanyēna prēryatē’taḥ svatantrō’sau| tathā, bahurōgatvāt| tathā cōktam-“aśītirvātajā rōgāścatvāriśacca pittajāḥ| viṁśatiḥ ślēṣmajāśca” iti| ēvaṁ trayāṇāṁ dōṣāṇaṁ madhyē’nilaḥ prabalaḥ-pradhānam|
prāyō’ta ēva pavanādhyuṣitā manuṣyā
dōṣātmakāḥ sphuṭitadhūsarakēśagātrāḥ|
śītadviṣaścaladhr̥tismr̥tibuddhicēṣṭā-
sauhārdadr̥ṣṭigatayō’tibahupralāpāḥ||85||
alpavittabalajīvitanidrāḥ
sannasaktacalajarjaravācaḥ|
nāstikā bahubhujaḥ savilāsā
gītahāsamr̥gayākalilōlāḥ||86||
madhurāmlapaṭūṣṇasātmyakāṅkṣāḥ
kr̥śadīrghākr̥tayaḥ saśabdayātāḥ|
na dr̥ḍhā na jitēndriyā na cāryā
na ca kāntādayitā bahuprajā vā||87||
nētrāṇi caiṣāṁ kharadhūsarāṇi
vr̥ttānyacārūṇi mr̥tōpamāni|
unmīlitānīva bhavanti suptē
śailadrumāṁstē gaganaṁ ca yānti||88||
adhnyā matsarādhmātāḥ stēnāḥ prōdbaddhapiṇḍikāḥ|
śvaśr̥gālōṣṭragr̥dhrākhukākānūkāśca vātikāḥ||89||
prāyōgrahaṇaṁ kvacidvyabhicārartham| ata ēva-asmādēva kāraṇāt, pavanādhyuṣitāḥ-vāyunā’dhiṣṭhitāḥ, manuṣyāḥ prāya ēvaṁrūpā bhavanti| kāraṇānuvidhāyitvāt kāryāṇām| dōṣātmakāḥ-na tu guṇasvabhāvāḥ, na śubhasvabhāvā bhavanti| śukrārtavarūpāvasthāmārabhyājīvitaṁ pavanādhyuṣitā mānavāḥ sphuṭitadhūsarakēśagātrāḥ| sphuṭitāni dhūsarāṇi ca kēśagātrāṇi yēṣāṁ ta ēvam| tathā, śītaṁ dviṣantīti śītadviṣaḥ, uṣṇābhilāṣitvāt| tathā, calā dhr̥tyādayō gatyantā yēṣāṁ tē tathōktāḥ| tathā, atiśayēna bahuḥ pralāpaḥ-sambhāṣaṇaṁ, yēṣāṁ ta ēvam| vasantatilakāvr̥ttam| alpāḥ vittādayō nidrāntā yēṣāṁ ta ēvam| tathā, sannā saktā calā jarjārā vāk yēṣāṁ ta ēvam| kēṣāñcitsannā-avasādaṁ nītā, kēṣāñcitsaktā-bhāṣaṇē vilambya vilambya pravr̥ttā, kēṣāñciccalā, kēṣāñcijjarjarā-bhinnakāṁsyasvanasadr̥śī vāgiti| tathā nāsti paralōka ityēvaṁ matiryēṣāṁ tē nāstikāḥ| “asti nāsti diṣṭaṁ matiḥ” iti ṭhak| tathā, bahubhujaḥ-analpāśanāḥ| tathā, savilāsāḥ-salīlāḥ| tathā, gītahāsādilōlāḥ tatpriyāḥ| svāgatāvr̥ttam| tathā, madhurāmlapaṭūṣṇasātmyā madhurādyabhilāṣiṇaśca| kr̥śāśca tē dīrghākr̥tayaśca, tē kr̥śadīrghākārāḥ| tathā, saśabdaṁ yātaṁ-gamanaṁ, yēṣāṁ tē saśabdayātāḥ| na dr̥ḍhāḥ-na dr̥ḍhaśarīrāḥ| na jitēndriyāḥ| na cāryāḥ-asantaḥ| kāntānāṁ strīṇāṁ, na ca dayitāḥ-[na] abhimatāḥ| na ca bahuprajāḥ-api tu svalpasantatayaḥ| “yā(ryā)vantaḥ(ntaṁ)śēṣaṁ(ṣa)pūrvasāmyādaupacchandasikaṁ vadanti santaḥ|” ēṣāṁ ca-vātaprakr̥tīnāṁ, nētrāṇī kharāṇi-paruṣāṇi, tathā dhūsarāṇi-pāṁsunēvāvakīrṇāni, vr̥ttānivartulāni, acārūṇi, mr̥tōpamāni ca, tathā suptē-svapnē, unmīlitānīva-uddhāṭitānīva, bhavanti| tē-vātaprākr̥tayaḥ, svapnē sati śailadrumān gaganaṁ ca gacchanti| indravajrāvr̥ttam| tē ca, adhanyāḥ-abhavyāḥ, matsarēṇādhmātāḥ-dvēṣapūrṇāḥ| tathā, stēnāḥ-caurāḥ| prōdbaddhapiṇḍikāḥ-jaṅghāyāḥ paścimādbhāgāt prakarṣēṇōnnatāḥ piṇḍikā yēṣāṁ ta ēvam| aṇukaṁ-svabhāvaḥ, svararūpacēṣṭānukaraṇam| śvādīnāmivānūkaṁ yēṣāṁ-vātikānāṁ, ta ēvam| vātikā iti bhūmni matvarthīyaṣṭhak, vātabhūyiṣṭhā ityarthaḥ|
adhunā pittaprakr̥tilakṣaṇaṁ prastauti-pittaṁ vahnirvahnijaṁ vā yadasmā—-
tpittōdriktastīkṣṇatr̥ṣṇābubhukṣaḥ|
gaurōṣṇāṅgastāmrahastāṅghrivakraḥ
śūrō mānī piṅgakēśō’lparōmā||90||
dayitamālyavilēpanamaṇḍanaḥ
sucaritaḥ śucirāśritavatsalaḥ|
vibhavasāhasabuddhibalānvitō
bhavati bhīṣu gatirdviṣatāmapi||91||
mēdhāvī praśithilasandhibandhamāṁsō
nārīṇāmanabhimatō’lpaśukrakāmaḥ|
āvāsaḥ palitataraṅganīlikānāṁ
bhuṅktē’nnaṁ madhurakaṣāyatiktaśītam||92||
gharmadvēṣī svēdanaḥ pūtigandhi
rbhūryuccārakrōdhapānāśanērṣyaḥ|
suptaḥ paśyētkarṇikāranpalāśān
digdāhōlkāvidyudarkānalāṁśca||93||
tanūni piṅgāni calāni caiṣāṁ
tanvalpapakṣmāṇi himapriyāṇi|
krōdhēna madyēna ravēśca bhāsā
rāgaṁ vrajantyāśu vilōcanāni||94||
madhyāyuṣō madhyabalāḥ paṇḍitāḥ klēśabhīravaḥ|
vyāghrarkṣakapimārjārayakṣānūkāśca paittikāḥ||95||
dhanvantarimatēna pittamēva vahniḥ pākādikarmakaraṇāt| athavā vahnijaṁ-vahnērjātaṁ, agnyādhāratvāt| yadasmāt-yataścaivamatō hētōḥ, pittādhikaḥ puruṣastīvratr̥ṣṇābubhukṣō bhavati| tathāvidhātkāraṇādutpannatvāt abdhāt rasadhātuśca tasya drāgēva śuṣyatītibhāvaḥ| tathā, gaura uṣṇāṅgaśca| tathā, tāmravarṇaṁ hastāṅrivakraṁ yasya sa ēvam| tathā,śūrō mānī ca| tathā, kapilakēśō’lparōmā ca| śālinīvr̥ttam| dayitāni mālyādīni yasya sa ēvam| tathā, sucaritaḥ-śōbhanacēṣṭitaḥ| tathā, śuciḥ-kāyavāṅmanōvyāpārairmalinairasaṁspr̥ṣṭaḥ| āśritānāṁ vatsalaḥ-priyakr̥t, vibhavādiyuktaśca| tathā, bhīṣu-bhayēṣu, dviṣatāmapigatiḥ śaraṇyatvādbhavati| apiśabdātsuhr̥dāṁ madhyasthānāṁ kimu sa gatirna bhavati ? iti dyōtayati| drutavilambitaṁ vr̥ttam| mēdhāvīti praśaṁsārthē “asmāyāmēdhāsrajō viniḥ” iti viniḥ| sandhibandhāśca māṁsāni ca, tāni praśithilāni yasya sa ēvam| tathā, strīṇāmanabhīṣṭaḥ| alpau śukrakāmau yasya sa ēvam| palitādīnāmāvāsaḥ-tānyasya bahūni santītyarthaḥ| sa ca madhurādyannaṁ bhuṅktē| praharṣiṇīvr̥ttam| gharmadvēṣīti “bahulamābhīkṣṇyē” ṇiniḥ| svidyatīti svēdanaḥ| pūtirgandhō yasya sa pūtigandhiḥ| “gandhasyēdutpūti” ityādinā idādēśaḥ| bhurayaḥ-prabhūtāḥ, uccārādayō yasya sa ēvam| sa ca paittikaḥ suptaḥ san karṇikārādīn paśyēt| śālinīvr̥ttam| ēṣāṁ ca-paittikānāṁ vilōcanāni tanutvādiguṇayuktāni bhavanti| tāni ca krōdhādyairdrāgēva lauhityaṁ yānti| upajātivr̥ttam| tē ca paittikā madhyāyuṣṭvādiyuktā bhavanti| vyāghrādīnāmivānūkaṁ yēṣāṁ ta ēvam|
atha ślēṣmaprakr̥tilakṣaṇārthamāha-
ślēṣmā sōmaḥ ślēṣmalastēna saumyō
gūḍhasnigdhaśliṣṭasandhyasthimāṁsaḥ|
kṣuttr̥ḍduḥkhaklēśagharmairataptō
buddhyā yuktaḥ sātvikaḥ satyasandhaḥ||96||
priyaṅgudūrvāśarakāṇḍaśastra-
gōrōcanāpadmasuvarṇavarṇaḥ|
pralambabāhuḥ pr̥thupīnavakṣā
mahālalāṭō ghananīlakēśaḥ||97||
mr̥dvaṅgaḥ samasuvibhaktacārudēhō
bahnōjōratirasaśukraputrabhr̥tyaḥ|
dharmātmā vadati na niṣṭhuraṁ ca jātu
pracchannaṁ vahati dr̥ḍhaṁ ciraṁ ca vairam||98||
samadadviradēndratulyayātō
jaladāmbhōdhimr̥daṅgasiṁhaghōṣaḥ|
smr̥timānabhiyōgavān vinītō
na ca bālyē’pyatirōdanō na lōlaḥ||99||
tiktaṁ kaṣāyaṁ kaṭukōṣṇarūkṣa-
malpaṁ sa bhuṅktē balavāṁstathā’pi|
raktāntasusnigdhaviśāladīrgha-
suvyaktaśuklāsitapakṣmalākṣaḥ||100||
alpavyāhārakrōdhapānāśanēhaḥ
prājyāyurvittō dīrghadarśī vadānyaḥ|
śrāddhō gambhīraḥ sthūlalakṣaḥ kṣamāvā-
nāryō nidrālurdīrghasūtraḥ kr̥tajñaḥ||101||
r̥jurvipaścitsubhagaḥ sulajjō
bhaktō gurūṇāṁ sthirasauhr̥daśca|
svapnē sapadmānsavihaṅgamālāṁ-
stōyāśayān paśyati tōyadāṁśca||102||
brahmarudrēndravaruṇatārkṣyahaṁsagajādhipaiḥ|
ślēṣmaprakr̥tayastulyāstathā siṁhāśvagōvr̥ṣaiḥ||103||
yasmācchlēṣmā sōmaḥ, tēna hētunā ślēṣmalō naraḥ saumyō bhavati| kāraṇānuvidhāyitvātkāryāṇām| sōma iva saumyaḥ, śākhāditvādyañ| tathā, gūḍhasnigdhaśliṣṭāni sandhyasthimāṁsāni yasya sa ēvam| tathā, kṣudrādibhirataptaḥ-akṣōbhitō bhavati| tathā, budhdyā’nvitaḥ praśastasatvaśca| tathā, satyaṁ sandadhāti pratijānītē, iti satyasandhaḥ| “ātaścōpasargē” ityaḍ| śālinīvr̥ttam| priyaṅgvāditulyēna varṇēna ēkaikēna yuktaḥ| kaścitpriyaṅgusamānavarṇaḥ kaściddūrvāsadr̥śavarṇaḥ kaściccharastambasadr̥śavarṇaḥ kaścihacchastratulyavarṇaḥ kaścidgōrōcanātulyavarṇaḥ kaścitpadmatulyavarṇaḥ, kaścitsuvarṇasadr̥śavarṇaḥ| tathā, pralambabāhuḥ dīrghabhujaḥ| tathā, vistīrṇapīvaravakṣāḥ| tathā, mahallalāṭam alikaṁ, yasya sa tathā| tathā, ghananīlakēśaḥ| upajātivr̥ttam| mr̥dvaṅgaḥ-kōmalāvayavaḥ| samaḥ suṣṭhu vibhaktō-vibhaktāvayavaḥ, cārurdēhō yasya sa ēvam| bahavastējōratirasādayō yasya sa ēvam| tathā, dharmasvabhāvaḥ| niṣṭhuraṁ na kadācidvadati| pracchannaṁ-gūḍhaṁ kr̥tvā, vairaṁ dr̥ḍhaṁ ciraṁ vahati-na tu śithilayati| praharṣiṇīvr̥ttam| samadasya dviradēndrasya tulyaṁ yātaṁ-gamanaṁ, yasya sa ēvam| tathā, jaladādisadr̥śaśabdaḥ| tathā, praśastasmr̥tiḥ śōbhanābhiyōgī vinayī ca bhavati| bālyē’pi-bālatvē’pi nātirōdanō na ca lōlupaḥ| aupaccandasikaṁ vr̥ttam| sa cānnaṁ tiktādirasayuktaṁ balakṣēpakaṁ bhuṅktē, tathā’lpamapi bhuṅktē, tathā’pi svabhāvādbalī bhavati| raktāvantau yayōstē raktāntē, tathā susnigdhē viśālē dīrghē ca, tathā suvyaktau śuklāsitau yayōstē suvyaktaśuklāsitē, tathā pakṣmalē, ēvaṁbhūtē akṣiṇi yasya sa ēvam| indravajrāvr̥tam| alpā vyāhārādayō yasya sa ēvam| [ *vyāhārō-bhāṣaṇam| pānaṁ-pānīyādi| aśanaṁ-bhōjanam| īhā-kāyikā cēṣṭā| ] prājyē-prabhūtē, āyurvittē yasya sa ēvam| dīrghadarśī-bhāvi kāryaṁ paśyati, idaṁ kurvata idamavaśyaṁ sampadyata iti| vadānyō-valgubhāṣī dātā ca| śrāddhō-dānādau śraddhāvān| gambhīrō-mahācittaḥ| sthūlalakṣō-bhūridātā| kṣamāvān-kṣāntiyuktaḥ| āryaḥ-sajjanaḥ| nidrāluḥ-bahunidraḥ| dīrghasūtraḥ-cirakārī| kr̥taṁ jānātīti kr̥tajñaḥ| vaiśvadēvīvr̥ttam| r̥juḥ-akuṭilacittaḥ| vipaścit-paṇḍitaḥ| subhagō-janapriyaḥ| suṣṭhu lajjata iti sulajjaḥ| gurūṇāṁ-pitrādīnāṁ, bhaktaḥ-sēvakaḥ| tathā, sthiraṁ-dr̥ḍhaṁ, sauhr̥daṁ-maitrī, yasya sa ēvam| svapnē tōyāśayān-taḍāgādīn, sajalajān pakṣipaṅktiyuktāṁśca paśyati, tōyadāṁśca paśyati| upajātivr̥ttam| brahmādibhiḥ ślēṣmaprakr̥tayaḥ samānāḥ, siṁhādibhiśca| [*tārkṣyō-garuḍaḥ| gajādhipaḥ-ērāvataḥ|]
ēvaṁ pr̥thagvātādiprakr̥tīstisrō’bhidhāya dvandvasarvadōṣaprakr̥tilakṣaṇābhidhitsayēdamāha-
prakr̥tīrdvayasarvātthā dvandvasarvaguṇōdayē|
—————————————————|104|
dvayāt-saṁsargāt, udbhūtāstisraḥ prakr̥tayaḥ, sarvōtthā-sarvadōṣōdbhūtā, ēkā prakr̥tiḥ, ēvaṁ prakr̥tayō dvayasarvōtthāścatasraḥ| guṇaśabdō’tra dharmavacanō liṅgavacanō vā| dvandvaśabdēna dōṣadvayaṁ sarvaśabdēna ca dōṣatrayaṁ lakṣyatē| dvandvaṁ ca sarvē ca dvandvasarvē, tēṣāṁ guṇāḥ-dōṣadvayadōṣatrayāṇāṁ dharmā liṅgāni vā, tēṣāmudayaḥ-prādurbhāvō, dvandvasarvaguṇōdayaḥ, tasmin dvandvasarvagōṇōdayē sati, dvayasarvōtthāḥ prakr̥tīrvadēt-ādiśēt| dvayaṁ ca sarvē ca dvayasarvē, tēbhya utthaḥ-utthānaṁ, yāsāṁ tāḥ| ēvaṁ dvandvadōṣaguṇōdayē dvandvōtthāḥ prakr̥tīrvadēt, sarvadōṣaguṇōdayē sarvōtthāṁ prakr̥tiṁ vadēt| uttha ityutpūrvāttiṣṭhatēḥ
“supi sthaḥ” iti yōgavibhāgātkaḥ| “udaḥ sthāstambhōḥ pūrvasya” iti pūrvasavarṇādēśaḥ| “atrādyāstrayō nityāturā dōṣānuśayitaśarīratvāt| viśēṣataśca dvandvaprakr̥tayaḥ| tēṣu hi guṇamiśravikārakāriṣu kṣutpipāsādiṣvivārōgyavyapadēśaḥ” (saṁ. śā. a. 8)|
ēvaṁ vātādiprakr̥tīrnirdiśya, sattvādiprakr̥tīrnirdidikṣurāha-
—————————————————|
śaucāstikyādibhiścaivaṁ guṇairguṇamayīrvadēt||104||
caśabdō bhinnakramē, guṇamayīścētyatra draṣṭavyaḥ| ēvaṁ-vātādiprakr̥tivat, pr̥tagdvandvasarvōtthāḥ śaucāstikyādibhiḥ sattvādiguṇaiḥ (ślō. 7) sapta sattvādiguṇamayīśca prakr̥tīrvadēt| ādigrahaṇāt śukladharmarucyādibhiḥ sattvādīnāṁ guṇairyathāyathaṁ sattvādiprakr̥tīrvātādiprakr̥tayaḥ parasparamanurudhyantē, sattvādiprakr̥tayaśca vātādiprakr̥tīranurudhyantē| ēvaṁ vātādiprakr̥tayaḥ sapta, sattvādiprakr̥tayō’pi saptaiva| jātikuladēśakālavayōbalapratyātmasaṁśrayāśca saptaiva| tathā hi-dr̥śyantē puruṣāṇāṁ jātyādiniyatāstē tē bhāvaviśēṣāḥ parasparavilakṣaṇāḥ sattvādyasaṅkhyēyabhēdāvēśācca rūpasvaracaritānukaraṇamapyanūkaśabdavācyamasaṅkhyabhēdaṁ bhavati| sattvādyāvēśastvanantarajanmābhyāsavāsanayā janyatē| tasmāddēvamānuṣatiryakprētanārakāṇāṁ tattadviśēṣāṇāṁ ca yathāyathamēvānūkaṁ puruṣasyānvīkṣēta| yasmāccarīraṁ sattvādīnanurudhyatē, sattvādayō’pi śarīram| prakr̥tivibhāgaścāyaṁ tadanurūpacikitsāpravr̥ttayē vaidyasyōpayujyatē| tatrādyāstrayō nityaturāḥ, dōṣānuśayitaśarīratvāt| viśēṣataśca dvandvaprakr̥tayaḥ| tasmādviparītaguṇēna vidhinā dōṣōpakramaṇīyōktēna tānupācarēt| samadhātuprakr̥tistu sarvarasēna sātmyēnōpacaraṇīyaḥ| tathā ca muniḥ (ca.sū. a.7/41)- “samasarvarasaṁ sātmyaṁ samadhātōḥ praśasyatē|” iti|
ēvaṁ vātādiprakr̥tīḥ sattvādiprakr̥tīśca parasparānurōdhinīrnirdiśya, vayōjñānārthamāha-
vayastvāṣōḍaśādvālaṁ tatra dhātvindriyaujasām|
vr̥ddhirāsaptatērmadhyaṁ tatrāvr̥ddhiḥ paraṁ kṣayaḥ||105||
kālakr̥tā śarīrāvasthā-vayaḥ| tacca tridhā, bālamadhyavr̥ddhabhēdēna| vayaḥ punarāṣōḍaśādvarṣāt-ṣōḍaśaṁ varṣaṁ yāvat, bālam| tadapi trividham,-kṣīrakṣīrānnānnavr̥ttyā| tatra-bālē vayasi, dhātūnāṁ-rasādīnāṁ, indriyāṇāṁ cakṣurādīnāṁ tathā sarvadhātvāpyāyakasya-ōjōsō, vr̥ddhiḥ| ślēṣmādhikyācca bālasya snēhamārdavasaukumāryālpakrōdhatvasaubhāgyāni bhavanti| āsaptatērmadhyaṁ vayaḥ| āṅatra maryādāyām, nābhividhau| tataścaikōnasaptatiṁ yāvanmadhyaṁ vayaḥ| tadapi trividham,-yauvanaṁ sampūrṇatvamaparihāniśca| tasmin pittōdrēkaḥ, tēna dīptāgnitā prajñāparipākō vyavasāyaścēti bhavati| tatrātriṁśatō yauvanam, ācatvāriṁśataḥ sarvadhātvindriyabalavīryapauruṣasmaraṇavacanavijñānapraśrayaguṇasampūrṇatvam, ataḥparamaparihāniḥ| tatrētyādi| [ tatra- ] tasminmadhyē vayasi, dhātvādīnāmavr̥ddhiḥ-avardhanaṁ, bhavati| paraṁ kṣayaḥ| paraṁ-ēkōnasaptatērājīvitaṁ yāvat, dhātvindriyaujasāṁ kramēṇa kṣayaḥ, tathā balavīryapauruṣavacanasmaraṇavijñānapraśrayaguṇānāṁ ca| tathā, “valīpalitakāsaśvāsāgnisādādibhirabhibhūyamānaṁ jīrṇaṁ bhavanamivābhivr̥ṣṭaṁ sīdati| tasminmārutōdrēkaḥ, tēna ślathāsāramāṁsasandhyasthitā tvakpāruṣyamavanāmaḥ kāyasya vēpathuḥ ślēṣmasiṅghāṇakōdīraṇaṁ dhātukṣayaśca” (saṁ. śā. a. 8)| iti|
svaṁ svaṁ hastatrayaṁ sārddhaṁ vapuḥ pātraṁ sukhāyuṣōḥ|
na ca yadyuktamudriktairaṣṭābhirninditairnijaiḥ||106||
arōmaśāsitasthūladīrghatvaiḥ saviparyayaiḥ|
—————————————————|107|
svaṁsvaṁ-ātmīyamātmīyaṁ, hastatrayaṁ sārddhaṁ pramāṇatō yadvapuḥ-śarīraṁ, tatsukhāyuṣōḥ pātraṁ-bhājanam| ēvaṁbhūtamapi yat-vapuḥ, udriktaiḥ-adhikairnimittaiḥ, ninditaiḥ-apraśastaiḥ, nijaiḥ-sahajaiḥ, aṣṭābhirna yuktam| kaiḥ ? arōmaśādibhiḥ| tēnārōmaśaṁ yadvapustatsukhāyuṣōrna pātram| tathā, yadatirōmaśaṁ tacca sukhāyuṣōrna pātram| asitādiṣvapyēvaṁ yōjyam| ēvamīṣadrōmādiyuktaṁ yatpunarhastatrayaṁ sārddhaṁ tatsukhāyuṣōḥ pātram|
—————————————————|
susnigdhā mr̥davaḥ sūkṣmā naikamūlāḥ sthirāḥ kacāḥ||107||
lalāṭamunnataṁ śliṣṭaśaṅkhamardhēndusannibham|
karṇau nīcōnnatau paścānmahāntau śliṣṭamāṁsalau||108||
nētrē vyaktāsitasitē subaddhaghanapakṣmaṇī|
unnatāgrā mahōcchvāsā pīnarjurnāsikā samā||109||
ōṣṭhau raktāvanuddr̥ttau, mahatyau nōlbaṇē hanū|
mahadāsyaṁ, ghanā dantāḥ snigdhāḥ ślakṣṇāḥ sitāḥsamāḥ||110||
jihvā raktā”yatā tanvī, māṁsalaṁ cibukaṁ mahat|
grīvā hrasvā ghanā vr̥ttā, skandhāvunnatapīvarau||111||
udaraṁ dakṣiṇāvartagūḍhanābhi samunnatam|
tanuraktōnnatanakhaṁ snigdhamātāmramāṁsalam||112||
dīrghācchidrāṅguli mahatpāṇipādaṁ pratiṣṭhitam|
gūḍhavaṁśaṁ br̥hatpr̥ṣṭhaṁ, nigūḍhāḥ sandhayō dr̥ḍhāḥ||113||
dhīraḥ svarō’nunādī ca, varṇaḥ snigdhaḥ sthiraprabhaḥ|
—————————————————|114|
kēśāḥ susnigdhādiguṇayuktāḥ ‘śrēṣṭhāḥ’ ityanuktamapyarthādgamyatē| tathā caivaṁguṇaviśiṣṭairētairyuktaṁ vapuḥ sukhāyuṣōḥ pātraṁ bhavati| ēvaṁ lalāṭādiṣvapi cintyam|
lalāṭamunnataṁ-ūrdhvaṁ gatam| tathā, śliṣṭau-anulbaṇau, śaṅkhau yasmiṁstadēvam| tathā, ardhēndusannibhaṁ-ardhacandrākāram|
karṇau nīcōnnatau,-adhō nīcau-hrasvau, ūrdhvamunnatau| paścānmahāntau-vistīrṇau| tathā, śliṣṭau ca tau māṁsalau ca, śliṣṭauramyau, māṁsalau-upacitamāṁsau|
nētrē-vyaktau sphuṭau, asitasitau varṇau yayōsta ēvam| kr̥ṣṇō bhāgaḥ kr̥ṣṇa ēva śuklaḥ śukla ēva, na varṇāntaravyāmiśrē| tathā, subaddhē-susandhinī, ghanē-saṁhatē, pakṣmaṇī yayōsta ēvam|
nāsikā-ghrāṇam| unnatamagraṁ yasyāḥ saivam| tathā, mahānucchvāsō yasyāḥ saivam| tathā, pīnā-aśithilā| tathā, r̥juḥ-avakrā| tathā, samā-animnōnnatā|
ōṣṭau raktau| tathā, anudr̥ttau-bahiranirgatau|
dvē hanū mahatyau| nōlbaṇē-nōnnatē| hanuśabdasya strītvamatra cintyam|
āsyaṁ-mukham, mahat|
dantāḥ-dvijāḥ| ghanāḥ-aviralāḥ| ślakṣṇāḥ-kōmalasparśāḥ| snigdhāḥ-snigdharucayaḥ| sitāḥ-śuklāḥ| samāḥ-samapaṅktayaḥ|
jihvā-rasanā, raktā| tathā, āyatā-dīrghā| tathā, tanvī-na sthūlā|
cibukaṁ māṁsalaṁ mahacca|
grīvā-śirōdharā, hrasvā-adīrghā, ghanā-nibiḍā, vr̥ttāvartulā ca|
skandhau-aṁsau| unnatau ca tau pīvarau ca|
dakṣiṇa āvartō yasyā nābhēḥ sā dakṣiṇāvartā| dakṣiṇāvartā gūḍhā-nimnā [ ca ], nārbhiryasya taddakṣiṇāvartagūḍhanābhi jaṭharam| tathā, samunnataṁ-samyagunnataṁ śrēṣṭhatvēnōnnatam|
tanavō raktā unnatā nakhā yasya tadēvaṁbhūtaṁ pāṇipādaṁ pratiṣṭhitaṁ-praśastaṁ, bhavati| tathā, snigdhaṁ-snigdhacchāyam| tathā, ātāmraṁ ca tanmāṁsalaṁ ca,-ātāmramāmsalam| samantāttāmraṁātāmram| māṁsalaṁ-upacitamāṁsam| tathā, dīrghāḥ-āyatāḥ, acchidrāḥ-parasparaṁ saṁśliṣṭāḥ, aṅgulayō yasya tadēvam| tathā, mahat-vistīrṇam|
tathā, gūḍhaḥ-adr̥śyō, vaṁśō yasya tadēvaṁvidhaṁ pr̥ṣṭhaṁ praśastam| tathā, br̥hat-vistīrṇam|
sandhayō nigūḍhāḥ-antargatāḥ, dr̥ḍhāḥ-atruṭanaśīlāḥ|
dhīraḥ-akr̥paṇaḥ| svaraḥ-śabdaḥ| anunādī-ghaṇṭādivadanuraṇananyāyēna|
varṇaḥ snigdhaḥ-arūkṣaḥ| sthirā prabhā-kāntiḥ, yasya sa ēvaṁ praśastaḥ|
—————————————————|
svabhājaṁ sthiraṁ sattvamavikāri vipatsvapi||114||
sattvaṁ svabhāvājjātaṁ svabhavajam,-anāhāryaṁ prākr̥tamabāhyahētujaṁ na madyādihētujam| sthiraṁ-ahāryam| ata ēva vipatsvapyavikāri-akṣōbhi| apiśabdāt kimuta sampatsu na syādēvaṁvidhaṁ sattvaṁ svabhāvajamahāryaṁ ca ?|
uttarōttarasukṣētraṁ vapurgarbhādinīrujam|
āyāmajñānavijñānairvarddhamānaṁ śanaiḥ śubham||115||
kṣētramiva kṣētram, śōbhanaṁ kṣētraṁ sukṣētram| vapuḥ-śarīram| tasya yathāvatpraśastaṁ pramāṇalakṣaṇaṁ “svaṁ svaṁ hastatrayaṁ sārddhaṁ” ityādigranthōktam| tathā, tadavayavānāṁ lalāṭādīnāṁ yathāvatpraśastaṁ guṇalakṣaṇaṁ “lalāṭamunnataṁ” (ślō.108) ityādigranthōktam| tathā, praśastaṁ sattvalakṣaṇaṁ “svabhāvajaṁsthiraṁ” ityādigranthōktam| uttarōttaraṁ sukṣētraṁ yasminvapuṣi tadurrarōttarasukṣētraṁ praśastalakṣaṇabhūmikaṁ vapuḥ śubhamityatra yōjyam| ētaduktaṁ bhavati,-yōthōktaṁ pramāṇaṁ sukṣētraṁ vapuḥ śubham, tatō’pi yathōktalakṣaṇalalātādyavayavaṁ sukṣētraṁ vapuḥ śubhataram, tatō’pi yathōktasattvalakṣaṇaguṇaṁ sukṣētraṁ vapuḥśubhatamam, ityuttarōttarasukṣētraśabdasyārthaḥ| tathā, garbhādinīrujam| garbha ādiryēṣāṁ-bālalyauvanādīnāṁ vayōvasthāviśēṣāṇāṁ, ta ēvam| garbhadayō nīrujā yasya-vapuṣaḥ, tadgarbhādinīrujaṁ vapuḥ śubham| āyāmētyādi| āyāmō-dairghyam, jñānaṁ-laukikō vyavahāralēśaḥ, vijñānaṁ-viśiṣṭaṁ jñānaṁ śāstrābhyāsādisamutthitaṁ paramārthāvabōdhaparyantam, tairyadvapuḥ śanairvarddhamānaṁ-vr̥ddhimāpnuvanna sahasā, tacchubham|
iti sarvaguṇōpētē śarīrē śaradāṁ śatam|
āyuraiśvaryamiṣṭāśca sarvē bhāvāḥ pratiṣṭhitāḥ||116||
iti-ēvaṁ prakārēṇa yathōktēna| sarvaguṇairupētē-yuktē, śarīrē śaradāṁ-samānāṁ, śatamāyuḥ-jīvitam, tathaiśvaryaṁ, tathēṣṭāḥ-śubhā yē kēcidbhāvāstē, tatra tathābhūtē dēhē sarvē pratiṣṭhitāḥvyavasthitā varṣaśatānubandhinaḥ|
ēvaṁ vapuṣaḥ praśastalakṣaṇamuktvā balapramāṇajñānārthamāha —-
tvagraktādīni sattvāntānyagryāṇyaṣṭau yathōttaram|
balapramāṇajñānārthaṁ sārāṇyuktāni dēhinām||117||
sārairupētaḥ sarvaiḥ syātparaṁ gauravasaṁyutaḥ|
sarvārambhēṣu cāśāvānsahiṣṇuḥ sanmatiḥ sthiraḥ||118||
tvagraktādīni sattvāntāni dēhināṁ sārāṇi yathōttaramagryāṇiuttarōttaraśrēṣṭhāni, aṣṭāvuktāni| tēna tvagraktamāṁsamēdōsthimajjaśukrasattvānīti bōdhyam| “ēvaṁ varṣaśatamāyuḥpramāṇamasmin kālē| santi ca punaḥ karmaviśēṣādūnādhikavarṣaśatajīvinō manuṣyāḥ| tēṣāṁ yathōktaiḥ prakr̥tiviśēṣairāyuḥpramāṇamupalabhya vayastridhā vibhajēt|” (saṁ. śā. a. 8) iti| kimarthaṁ sārāṇyuktāni ? balapramāṇajñānārtham| tathā ca dēhamātradarśanādēvaṁ bhiṣaṅ [na] muhyēt,-ayamupacayēna mahāśarīratvādbalavān, ayaṁ kr̥śatvādalpaśarīratvādalpabalaḥ, iti| taccōbhayamapyanyathā dr̥ṣṭaṁ gajasiṁhē| sarvaiḥ-aṣṭabhirētaiḥ, sārairyuktaḥ paraṁ-atiśayēna, gauravēṇa saṁyutaḥ syāt| sarvētyādi| sarvārammēṣu-aśēṣacikīrṣitakāryēṣu, āśāvān syāt| asmātkartavyāt kr̥tādidamidaṁ sampadyata ityāśāśabdārthaḥ| tathā, sahiṣṇuḥ-sahanaśīlaḥ| ata ēva śārīramānasairduḥkhairnāsāvabhibhūyata iti yāvat| tathā, sanmatiḥ-sudhīḥ| tathā, sthiraḥ-kartavyēṣu sthirabuddhiḥ| muninā ca lakṣaṇamuktam (ca. vi. a. 8/14-7-11)- tadyathā| tvagraktamāṁsamēdō’sthimajjaśukrasattvāni| tatra snigdhaślakṣṇamr̥duprasannasūkṣmālpagambhīrasukumāralōmā sapramēva ca tvak tvaksārāṇām| sā sāratā sukhasaubhāgyaiśvaryōpabhōgabuddhividyārōgya praharṣānyayuṣyāni tvaramācaṣṭē|| karṇākṣimukhajihvānāsauṣṭhapāṇipādatalanakhalalāṭamēhanaṁ snigdhaṁ raktaṁ śrīmadbhrājiṣṇu raktasārāṇām| sā sāratā sukhamudagratāṁ mēdhāṁ manasvitvaṁ saukumāryamanatibalamaklēśasahiṣṇutāṁ cācaṣṭē|| śaṅkhalalāṭakr̥kāṭikākṣigaṇḍahanugrīvāskandhōdaravakṣaḥkakṣāpāṇipādasandhayaḥ sthiragurumāṁsōpacitā māṁsasārāṇām| sā sāratā kṣamāṁ dhr̥timalaulyaṁ vittaṁ vidyāṁ sukhamārjavamārōgyaṁ balamāyuśca dīrghamācaṣṭē|| varṇasvaranētrakēśalōmanakhadantauṣṭamūtrapūriṣēṣu viśēṣēṇa snēhō mēdaḥ sārāṇām| sā sāratā vittaiśvaryasukhōpabhōgapradānātyārjavaṁ sukumārōpacāratāṁ cācaṣṭē|| pārṣṇigulphajānvaratnijatrucibukaśiraḥparvasthūlāḥ sthūlāsthinakhadantāścāsthisārāḥ| tē mahōtsāhāḥ kriyāvantaḥ klēśasahāḥ sārasthiraśarīrā bhavantyāyuṣmantaśca|| tanvaṅgā balavantaśca snigdhavarṇasvarāḥ sthūladīrghavr̥ttasandhayaśca majjasārāḥ| tē dīrghāyuṣō balavantaḥ śrutavijñānavittāpatyasanmānabhājanāśca sadā bhavanti|| saumyāḥ saumyaprēkṣiṇaḥ kṣīrapūrṇalōcanā iva praharṣabahulāḥ snigdhavr̥ttasārasamasaṁhataśikharadaśanāḥ prasannasnigdhavarṇāsvarā bhrājiṣṇavō mahāsphijaśca śukrasārāḥ| tē strīpriyōpabhōgā balavantaḥ sukhābhōgyavittaiśvaryasamānāḥ phalabhājaśca bhavanti|| smr̥timantō bhaktimantaḥ kr̥tajñāḥ prājñāḥ śucayō mahōtsāhā dakṣā dhīrāḥ samaravikrāntayōdhinastyaktaviṣādāḥ svavasthitagatigambhīrabuddhicēṣṭāḥ kalyāṇābhinēvēśinaśca satvasārāḥ| tēṣāṁ svalakṣaṇairēva guṇā vyākhyātāḥ|| tatra sarvaiḥ sārairupētāḥ puruṣā bhavantyatibalāḥ paramagauravayuktāḥ klēśasahāḥ sarvārambhēṣvātmani jātapratyayāḥ kalyāṇābhinivēśinaḥ sthirasamāhitaśarīrāḥ susamāhitagatayaḥ sānunādasnigdhagambhīramahāsvarāḥ sukhaiśvaryavittōpabhōgasanmānabhājō mandajarasō mandavikārāḥ prāyastulyaguṇavistīrṇāpatyāścirajīvinaśca bhavanti|| atō viparītāstvasārāḥ||” iti| saṅgrahē ca pramāṇamapyuktam| yathā (śā. a.8)-“svāṅgulaiḥ pādāṅguṣṭhapradēśinyaudvyaṅgulāyatē| tisrō’nyāḥ kramēṇōttarōttaraṁ pañcamabhāgahīnāstannakhahīnā vā| caturaṅgulāyatāḥ pr̥thakprapadapādatalapārṣṇayaḥ ṣaṭpañcacaturaṅulavistr̥tāḥ| caturdaśaivāyāmēna pādaścaturdaśaiva pariṇāhēna| tathā gulphau jaṅghāmadhyaṁ ca| caturaṅgulōtsēdhaḥ pādaḥ| aṣṭādaśāyāmā jaṅghā ṣōḍaśa pariṇāhēna| caturaṅgulaṁ jānu ṣōḍaśāṅgulapariṇāham| ūru triṁśatpariṇāhāvaṣṭādaśāyāmau| vr̥ṣaṇau ṣaḍāyāmau pariṇāhēna cāṣṭāṅgulau| mēḍhraḥ ṣaḍaṅgulāyāmō’rddhapañcapariṇāhaḥ| ṣōḍaśavistārā kaṭī pañcāśatpariṇāhā| daśāṅgulaṁ bastiśiraḥ| dvādaśāṅgulamudaram| daśavistārē dvādaśāyāmē pārśvē| dvādaśōtsēdhaṁ trikam| aṣṭādaśōtsēdhaṁ pr̥ṣṭham| dvādaśakaṁ stanāntaram| dvyaṅgulaḥ stanaparyantaḥ| caturviṁśatyaṅgulaviśālaṁ dvādaśōtsēdhamuraḥ| dvyaṅgulaṁ hr̥dayam| aṣṭakau skandhau kakṣē ca| ṣaṭkāvaṁsau| ṣōḍaśākau prabāhū| pañcadaśakau prapāṇī| daśāṅgulau pāṇī| tatrāpi pañcāṅgulā madhyamāṅguliḥ| tatō’rdhāṅgulahīnē pradēśinyanāmikē| sārdhavyaṅgulau kaniṣṭhikāṅguṣṭau| caturutsēdhā dvāviṁśatipariṇāhā śirōdharā| dvādaśōtsēdhaṁ caturviṁśatipariṇāhamānanam| pañcāṅgulamāsyam| caturaṅgulaṁ pr̥thak cibukauṣṭhanāsādr̥ṣṭhyantarakarṇalalāṭam| śaṅkhagaṇḍāścaturaṅgulāḥ| tribhāgāṅgulavistārā nāsāpuṭamaryādā| dvayaṅgulāyatamaṅguṣṭhōdaravistr̥taṁ nētram| tatra śuklāttr̥tīyāṁśaḥ kr̥ṣṇaḥ| kr̥ṣṇānnavamāṁśā masūradalamātrā dr̥ṣṭiḥ| ṣaḍaṅgulōtsēdhaṁ dvātriṁśatpariṇāhaṁ śira iti| sarvaṁ punaḥ śarīramaṅgulāni caturaśītiḥ| tadāyāmavistārasamaṁ samamucyatē| tatra yathōktaparimāṇamiṣṭam| tathā snātānuliptamāpādānupūrvyā śuṣyadvaram| aniṣṭaṁ hīnamadhikaṁ vā yathōktapramāṇāditi|” iti|
sattvādiprakr̥tīnāṁ tisr̥ṇāṁ kathaṁ sukhaduḥkhānubhavaḥ syāt ? ityāha-
anutsēkamadainyaṁ ca sukhaṁ duḥkhaṁ ca sēvatē|
satvavāṁstapyamānastu rājasō naiva tāmasaḥ||119||
anutsēkaṁ kr̥tvā-abhimānaṁ hitvā, sattvavān puruṣaḥ sukhaṁ sēvatē-anubhavati| tathā, adainyaṁ-kārpaṇyaṁ hitvā, duḥkhaṁ sēvatē-anubhavati| tapyamānastviti| turvyatirēkē bhinnakramē| rājasaḥ punaḥ puruṣaḥ tapyamānō’hamēvāmunā prakr̥ṣṭēnānanyasādhāraṇēna sukhēna sukhityēvaṁ sukhaṁ sēvatē| ahaṅkārākrāntamānasō’hamēvēdaṁ duḥkhaṁ sōḍhuṁ śakta ityēvaṁ rājasō narō duḥkhamanubhavati| tāmasaḥ punaḥ puruṣō naiva sukhaṁ sēvatē, na duḥkham, atyantamūḍhatvāt| nāsau sukhēna sukhī, na ca duḥkhēna duḥkhī, prāptatr̥tīyāvasthō yathā puruṣaḥ| ēvaṁ dvandvaprakr̥tirapi sukhaṁ na sēvatē nāpi duḥkham, atyantamūḍhatvāt| samasattvādiprakr̥tistvanutsiktō’dīnaḥ san sukhaduḥkhē sēvatē|
idānīṁ pradhānaphaladāyi yatpradhānaṁ praśstaṁ lakṣaṇaṁ vapuṣaḥ, taddarśayitumāha —-
dānaśīladayāsatyabrahmacaryakr̥tajñatāḥ|
rasāyanāni maitrī ca puṇyāyurvr̥ddhikr̥dgaṇaḥ|120|
iti śrīvaidyapatisiṁhaguptasūnuśrīmadvāgbhaṭaviracitā
yāmaṣṭāṅgahr̥dayasaṁhitāyāṁ dvitīyē śārīrasthā-
nē’ṅgavibhāgō nāma tr̥tīyō’dhyāyaḥ|3|
dānaṁ-dhanādityāgaḥ, tacchīlayati-abhyasyati dānaśīlaḥ| “śīlikāmi” ityādinā ṇaḥ| dayā-dīnēṣvabhyupapattiḥ| maitrī-sarvasattvānāmātmabhāvanam| na kēvalaṁ pūrvōktaṁ (ślō-106)- “svaṁ svaṁ hastatrayaṁ” ityādi “varddhamānaṁ śanaiḥ” ityētatparyantaṁ yallakṣaṇaṁ, taccharīrasyāyurvr̥ddhyādihētuḥ| yāvadayaṁ dānaśīlādigaṇō maitryavasānaḥ puṇyāyurvr̥ddhikr̥t| dānādayaśca yathāsambhavaṁ kēcitpuṇyakr̥taḥ, kēcidāyurvr̥ddhikr̥taḥ, kēcidubhayakr̥taśca| anyēbhyaśca mahāpuruṣalakṣaṇēbhyō’syaiva gaṇasya jyāyastvaṁ pratipādayatā śāstrakr̥tā’dhyāyāvasānē granthasyāsya nirdēśaḥ kr̥ta iti|
iti śrīmr̥gāṅkadattaputraśrīmadaruṇadattaviracitāyāmaṣṭāṅgahr̥daya-
ṭīkāyāṁ sarvāṅgasundarākhyāyāṁ dvitīyē śārīrasthānē’ṅga
vibhāgō nāma tr̥tīyō’dhyāyaḥ samāptaḥ|| 3||