Aṣṭāṅgahṛdaya Sūtrasthāna Adhyāya 03 – Ritucarya

eSamhita: A Scholarly Digital Initiative of Ayurveda360

Table of Contents

Devanagari Version

श्रीमद्वाग्भटविरचितम्

अष्टाङ्गहृदयम्

श्रीमदरुणदत्तविरचितया 'सर्वाङ्गसुन्दराख्या' व्याख्यया हेमाद्रिप्रणीतया 'आयुर्वेदरसायनाह्वया' टीकया च समुल्लसितम्

सूत्रस्थानम् - ३. ऋतुचर्याध्यायः

Only Moolashloka

अथात ऋतुचर्याध्यायं व्याख्यास्यामः|
इति  स्माहुरात्रेयादयो महर्षयः|
(गद्यसूत्रे|२|

अथ अतः ऋतुचर्या-अध्यायं व्याख्यास्यामः|
इति ह स्म आहुः आत्रेय-आदयः महर्षयः|

मासैर्द्विसंख्यैर्माघाद्यैः क्रमात् षडृतवः स्मृताः|
शिशिरोऽथ वसन्तश्च ग्रीष्मो वर्षाशरद्धिमाः||१||
शिशिराद्यास्त्रिभिस्तैस्तु विद्यादयनमुत्तरम्|
आदानं च, तदादत्ते नृणां प्रतिदिनं बलम्||२||

मासैः द्विः संख्यैः र्माघ-आद्यैः क्रमात् षट्-ऋतवः स्मृताः|
शिशिरः अथ वसन्तः च ग्रीष्मः वर्षा-शरत् हिमाः||
शिशिर-आद्याः त्रिभिः तैः तु विद्यात् अयनम्  उत्तरम्|
आदानं च, तत्  आदत्ते नृणां प्रति-दिनं बलम्||

तस्मिन् ह्यत्यर्थतीक्ष्णोष्णरूक्षा मार्गस्वभावतः|
आदित्यपवनाः सौम्यान् क्षपयन्ति गुणान् भुवः||३||
तिक्तः कषायः कटुको बलिनोऽत्र रसाः क्रमात्|
तस्मादादानमाग्नेयम्—————————|४|

——————————————–|
————————ऋतवो दक्षिणायनम्||४||
वर्षादयो विसर्गश्च———————–|

———————-यद्बलं विसृजत्ययम्|
सौम्यत्वादत्र सोमो हि बलवान् हीयते रविः||५||
मेघवृष्ट्यनिलैः शीतैः शान्ततापे महीतले|
स्निग्धाश्चेहाम्ललवणमधुरा बलिनो रसाः||६||

शीतेऽग्र्यं वृष्टिधर्मेऽल्पं बलं मध्यं तु शेषयोः|
————————————————————|७|

बलिनः शीतसंरोधाद्धेमन्ते प्रबलोऽनलः||७||

भवत्यल्पेन्धनो धातून् स पचेद्वायुनेरितः|

अतो हिमेऽस्मिन्सेवेत स्वाद्वम्ललवणान्रसान्||८||

बलिनः शीत-संरोधात् हेमन्ते प्रबलः अनलः||

भवति अल्प-इन्धनः धातून् स पचेत् वायुना ईरितः|

अतः हिमे अस्मिन् सेवेत स्वादु-अम्ल-लवणान् रसान्||

दैर्घ्यान्निशानामेतर्हि प्रातरेव बुभुक्षितः|

अवश्यकार्यं सम्भाव्य यथोक्तं शीलयेदनु||९||

वातघ्नतैलैरभ्यङ्गं मूर्ध्नि तैलं विमर्दनम्|

नियुद्धं कुशलैः सार्धं पादाघातं च युक्तितः||१०||

दैर्घ्यात् निशानाम् एतर्हि प्रातः एव बुभुक्षितः|

अवश्य-कार्यं सम्भाव्य यथा-उक्तं शीलयेत् अनु||

वातघ्न-तैलैः अभ्यङ्गं मूर्ध्नि तैलं विमर्दनम्|

नियुद्धं कुशलैः सार्धं पाद-आघातं च युक्तितः||

कषायापहृतस्नेहस्ततः स्नातो यथाविधि|

कुङ्कुमेन सदर्पेण प्रदिग्धोऽगुरुधूपितः||११||

रसान् स्निग्धान् पलं पृष्टं गौडमच्छसुरां सुराम्|

गोधूमपिष्टमाषेक्षुक्षीरोत्थविकृतीः शुभाः||१२||

नवमन्नं वसां तैलं, शौचकार्ये सुखोदकम्|

प्रावाराजिनकौशेयप्रवेणीकौचवास्तृतम्||१३||

उष्णस्वभावैर्लघुभिः प्रावृतः शयनं भजेत्|

युक्त्याऽर्ककिरणान् स्वेदं पादत्राणं च सर्वदा||१४||

कषाय-अपहृत-स्नेहः ततः स्नातः यथा-विधि|

कुङ्कुमेन सदर्पेण प्रदिग्धः अगुरु-धूपितः||

रसान् स्निग्धान् पलं पृष्टं गौडम् अच्छ-सुरां सुराम्|

गोधूम-पिष्ट-माष-इक्षु-क्षीरोत्थ-विकृतीः शुभाः||

नवम् अन्नं वसां तैलं, शौच-कार्ये सुख-उदकम्|

प्रावार-अजिन-कौशेय-प्रवेणी-कौचव-आस्तृतम्||

उष्ण-स्वभावैः-लघुभिः प्रावृतः शयनं भजेत्|

युक्त्या अर्क-किरणान् स्वेदं पाद-त्राणं च सर्वदा||

पीवरोरुस्तनश्रोण्यः समदाः प्रमदाः प्रियाः|

हरन्ति शीतमुष्णाङ्ग्यो धूपकुङ्कुमयौवनैः||१५||

पीवर-ऊरु-स्तन-श्रोण्यः समदाः प्रमदाः प्रियाः|

हरन्ति शीतम् उष्ण-अङ्ग्यः धूप-कुङ्कुम-यौवनैः||

अङ्गारतापसन्तप्तगर्भभूवेश्मचारिणः|

शीतपारुष्यजनितो न दोषो जातु जायते||१६||

अङ्गार-ताप-सन्तप्त-गर्भ-भूवेश्म-चारिणः|

शीत-पारुष्य-जनितः न दोषः जातु जायते||

अयमेव विधिः कार्यः शिशिरेऽपि विशेषतः|

तदा हि शीतमधिकं रौक्ष्यं चादानकालजम्||१७||

अयम् एव विधिः कार्यः शिशिरे अपि विशेषतः|

तदा हि शीतम् अधिकं रौक्ष्यं च आदान-कालजम्||

कफश्चितो हि शिशिरे वसन्तेऽर्कांशुतापितः|

हत्वाऽग्निं कुरुते रोगानतस्तं त्वरया जयेत्||१८||

कफः चितः हि शिशिरे वसन्ते अर्का-अंशु-तापितः|

हत्वा अग्निं कुरुते रोगान् अतः तं त्वरया जयेत्||

तीक्ष्णैर्वमननस्याद्यैर्लघुरूक्षैश्च भोजनैः|

व्यायामोद्वर्तनाघातैर्जित्वा श्लेष्माणमुल्बणम्||१९||

स्नातोऽनुलिप्तः कर्पूरचन्दनागुरुकुङ्कुमैः|

पुराणयवगोधूमक्षौद्रजाङ्गलशूल्यभुक्||२०||

सहकाररसोन्मिश्रानास्वाद्य प्रिययाऽर्पितान्|

प्रियास्यसङ्गसुरभीन् प्रियानेत्रोत्पलाङ्कितान्||२१||

सौमनस्यकृतो हृद्यान्वयस्यैः सहितः पिबेत्|

निर्गदानासवारिष्टसीधुमार्द्वीकमाधवान्||२२||

शृङ्गबेराम्बु साराम्बु मध्वम्बु जलदाम्बु च|

तीक्ष्णैः वमन-नस्य-आद्यैः लघु-रूक्षैः च भोजनैः|

व्यायाम-उद्वर्तन-आघातैः जित्वा श्लेष्माणम् उल्बणम्||

स्नातः अनुलिप्तः कर्पूर-चन्दन-अगुरु-कुङ्कुमैः|

पुराण-यव-गोधूम-क्षौद्र-जाङ्गल-शूल्य-भुक्||

सहकार-रसः-उन्मिश्रान्-आस्वाद्य प्रियया अर्पितान्|

प्रिय-आस्य-सङ्ग-सुरभीन् प्रिया-नेत्र-उत्पल-अङ्कितान्||

सौमनस्य-कृतः हृद्यान् वयस्यैः सहितः पिबेत्|

निर्गदान्-आसव-अरिष्ट-सीधु-मार्द्वीक-माधवान्||

शृङ्गवेर-अम्बु सार-अम्बु मधु-अम्बु जलद-अम्बु च|

दक्षिणानिलशीतेषु परितो जलवाहिषु||२३||

अदृष्टनष्टसूर्येषु मणिकुट्टिमकान्तिषु|

परपुष्टविघुष्टेषु कामकर्मान्तभूमिषु||२४||

विचित्रपुष्पवृक्षेषु काननेषु सुगन्धिषु|

गोष्ठीकथाभिश्चित्राभिर्मध्याह्नं गमयेत्सुखी||२५||

दक्षिण-अनिल-शीतेषु परितः जलवाहिषु||

अदृष्ट-नष्ट-सूर्येषु मणि-कुट्टिम् अकान्तिषु|

परपुष्ट-विघुष्टेषु काम-कर्मान्त-भूमिषु||

विचित्र-पुष्प-वृक्षेषु काननेषु सुगन्धिषु|

गोष्ठी-कथाभिः चित्राभिः मध्याह्नं गमयेत् सुखी||

गुरुशीतदिवास्वप्नस्निग्धाम्लमधुरांस्त्यजेत्|

———————————|२६|

गुरु-शीत-दिवास्वप्न-स्निग्ध-अम्ल-मधुरान् त्यजेत्|

———————————|२६|

तीक्ष्णांशुरतितीक्ष्णांशुर्ग्रीष्मे संक्षिपतीव यत्||२६||

प्रत्यहं क्षीयते श्लेष्मा तेन वायुश्च वर्धते|

अतोऽस्मिन्पटुकट्वम्लव्यायामार्ककरांस्त्यजेत्||२७||

तीक्ष्णांशुः अति-तीक्ष्ण-अंशुः ग्रीष्मे संक्षिपति इव यत्||

प्रति-अहं क्षीयते श्लेष्मा तेन वायुः च वर्धते|

अतः अस्मिन् पटु-कटु-अम्ल-व्यायाम-अर्क-करान् त्यजेत्||

भजेन्मधुरमेवान्नं लघु स्निग्धं हिमं द्रवम्|

सुशीततोयसिक्ताङ्गो लिह्यात्सक्तून् सशर्करान्||२८||

भजेत् मधुरम् एव अन्नं लघु स्निग्धं हिमं द्रवम्|

सुशीत-तोय-सिक्त-अङ्गः लिह्यात् सक्तून् सशर्करान्||

मद्यं न पेयं, पेयं वा स्वल्पं, सुबहुवारि वा|

अन्यथाशोषशैथिल्यदाहमोहान् करोति तत्||२९||

मद्यं न पेयं, पेयं वा स्वल्पं, सुबहुवारि वा|

अन्यथा शोष-शैथिल्य-दाह-मोहान् करोति तत्||

पिबेद्रसं नातिघनं रसालां रागखाण्डवौ||३०||

पानकं पञ्चसारं वा नवमृद्भाजने स्थितम्|

मोचचोचदलैर्युक्तं साम्लं मृन्मयशुक्तिभिः||३१||

पाटलावासितं चाम्भः सकर्पूरं सुशीतलम्|३२|

पिबेत् रसं न अति-घनं रसालां राग-खाण्डवौ||

पानकं पञ्च-सारं वा नव-मृत्-भाजने स्थितम्|

मोच-चोच-दलैः युक्तं स-अम्लं मृत्-मय-शुक्तिभिः||

पाटला-वासितं च-अम्भः सकर्पूरं सुशीतलम्|

शशाङ्ककिरणान् भक्ष्यान् रजन्यां भक्षयन् पिबेत्||३२||

ससितं माहिषं क्षीरं चन्द्रनक्षत्रशीतलम्|

शशाङ्क-किरणान् भक्ष्यान् रजन्यां भक्षयन् पिबेत्||

ससितं माहिषं क्षीरं चन्द्र-नक्षत्र-शीतलम्|

सुगन्धिहिमपानीयसिच्यमानपटालिके||३४||

कायमाने चिते चूतप्रवालफललुम्बिभिः|

सुगन्धि-हिम-पानीय-सिच्यमान-पट-आलिके||

कायमाने चिते चूत-प्रवाल-फल-लुम्बिभिः|

कदलीदलकह्लारमृणालकमलोत्पलैः||३५||

कोमलैः कल्पिते तल्पे हसत्कुसुमपल्लवे|

मध्यंदिनेऽर्कतापार्तः स्वप्याद्धारागृहेऽथवा||३६||

पुस्तस्त्रीस्तनहस्तास्यप्रवृत्तोशीरवारिणि|

कदली-दल-कह्लार-मृणाल-कमल-उत्पलैः||

कोमलैः कल्पिते तल्पे हसत्-कुसुम-पल्लवे|

मध्यंदिने अर्क-तापार्तः स्वप्यात् धारा-गृहे अथवा||

पुस्तस्त्री-स्तन-हस्त-आस्य-प्रवृत्त-उशीर-वारिणि|

निशाकरकराकीर्णे सौधपृष्ठे निशासु च||३७||

आसना———————————-|

निशाकर-कर-आकीर्णे सौध-पृष्ठे निशासु च||

आसना———————————-|

———स्वस्थचित्तस्य चन्दनार्द्रस्य मालिनः|

निवृत्तकामतन्त्रस्य सुसूक्ष्मतनुवाससः||३८||

जलार्द्रास्तालवृन्तानि विस्तृताः पद्मिनीपुटाः|

उत्क्षेपाश्च मृदूत्क्षेपा जलवर्षिहिमानिलाः||३९||

कर्पूरमल्लिकामाला हाराः सहरिचन्दनाः|

मनोहरकलालापाः शिशवः सारिकाः शुकाः||४०||

मृणालवलयाः कान्ताः प्रोत्फुल्लकमलोज्ज्वलाः|

जङ्गमा इव पद्मिन्यो हरन्ति दयिताः क्लमम्||४१||

———स्वस्थ-चित्तस्य चन्दन-आर्द्रस्य मालिनः|

निवृत्त-काम-तन्त्रस्य सुसूक्ष्म-तनु-वाससः||

जल-आर्द्राः ताल-वृन्तानि विस्तृताः पद्मिनी-पुटाः|

उत्क्षेपाः च मृदु-उत्क्षेपा जल-वर्षि-हिम-अनिलाः||

कर्पूर-मल्लिका-माला हाराः स-हरि-चन्दनाः|

मनोहर-कलालापाः शिशवः सारिकाः शुकाः||

मृणाल-वलयाः कान्ताः प्रोत्फुल्ल-कमल-उज्ज्वलाः|

जङ्गमा इव पद्मिन्यः हरन्ति दयिताः क्लमम्||

आदानग्लानवपुषामग्निः सन्नोऽपि सीदति|

वर्षासु दोषैर्दुष्यन्ति तेऽम्बुलम्बाम्बुदेऽम्बरे||४२||

सतुषारेण मरुता सहसा शीतलेन च|

भूबाष्पेणाम्लपाकेन मलिनेन च वारिणा||४३||

वह्निनैव च मन्देन, तेष्वित्यन्योन्यदूषिषु|

भजेत्साधारणं सर्वमूष्मणस्तेजनं च यत्||४४||

आदान-ग्लान-वपुषाम् अग्निः सन्नः अपि सीदति|

वर्षासु दोषैः दुष्यन्ति ते अम्बु-लम्ब-अम्बुदे अम्बरे||

सतुषारेण मरुता सहसा शीतलेन च|

भूबाष्पेण-अम्ल-पाकेन मलिनेन च वारिणा||

वह्निना एव च मन्देन, तेषु इति अन्योन्य-दूषिषु|

भजेत् साधारणं सर्वम् ऊष्मणः तेजनं च यत्||

आस्थापनं शुद्धतनुर्जीर्णं धान्यं रसान् कृतान्|

जाङ्गलं पिशितं यूषान् मध्वरिष्टं चिरन्तनम्||४५||

मस्तु सौवर्चलाढ्यं वा पञ्चकोलावचूर्णितम्|

दिव्यं कौपं शृतं चाम्भो भोजनं त्वतिदुर्दिने||४६||

व्यक्ताम्ललवणस्नेहं संशुष्कं क्षौद्रवल्लघु|

आस्थापनं शुद्ध-तनुः जीर्णं धान्यं रसान् कृतान्|

जाङ्गलं पिशितं यूषान् मध्वरिष्टं चिरन्तनम्||

मस्तु सौवर्चलाढ्यं वा पञ्चकोल-अवचूर्णितम्|

दिव्यं कौपं शृतं च अम्भः भोजनं तु अति-दुर्दिने||

व्यक्त-अम्ल-लवण-स्नेहं संशुष्कं क्षौद्रवत् लघु|

अपादचारी सुरभिः सततं धूपिताम्बरः||४७||

हर्म्यपृष्ठे वसेद्बाष्पशीतशीकरवर्जिते|

अपादचारी सुरभिः सततं धूपित-अम्बरः||

हर्म्यपृष्ठे वसेत् बाष्प-शीत-शीकर-वर्जिते|

नदीजलोदमन्थाहःस्वप्नायासातपांस्त्यजेत्||४८||

नदी-जल-उदमन्थ-आहः-स्वप्न-आयास-आतपान् त्यजेत्||

वर्षाशीतोचिताङ्गानां सहसैवार्करश्मिभिः|

तप्तानां सञ्चितं वृष्टौ पित्तं शरदि कुप्यति||४९||

तज्जयाय घृतं तिक्तं विरेको रक्तमोक्षणम्|

वर्षा-शीत-उचित-अङ्गानां सहसा एव अर्क-रश्मिभिः

तप्तानां सञ्चितं वृष्टौ पित्तं शरदि कुप्यति||

तत् जयाय घृतं तिक्तं विरेकः रक्त-मोक्षणम्|

तिक्तं स्वादु कषायं च क्षुधितोऽन्नं भजेल्लघु||५०||

शालिमुद्गसिताधात्रीपटोलमधुजाङ्गलम्|

तिक्तं स्वादु कषायं च क्षुधितः अन्नं भजेत् लघु||

शालि-मुद्ग-सिता-धात्री-पटोल-मधु-जाङ्गलम्|

तप्तं तप्तांशुकिरणैः शीतं शीतांशुरश्मिभिः||५१||

समन्तादप्यहोरात्रमगस्त्योदयनिर्विषम्|

शुचि हंसोदकं नाम निर्मलं मलजिज्जलम्||५२||

नाभिष्यन्ति न वा रूक्षं पानादिष्वमृतोपमम्|

तप्तं तप्ता-अंशु-किरणैः शीतं शीता-अंशु-रश्मिभिः||

समन्तात् अपि अहः-रात्रम् अगस्त्य-उदय-निर्विषम्|

शुचि हंस-उदकं नाम निर्मलं मलजित् जलम्||

न-अभिष्यन्ति न वा रूक्षं पान-आदिषु अमृत-उपमम्|

चन्दनोशीरकर्पूरमुक्तास्रग्वसनोज्ज्वलः||५३||

सौधेषु सौधधवलां चन्द्रिकां रजनीमुखे|

चन्दन-उशीर-कर्पूर-मुक्ता-स्रज्-वसन-उज्ज्वलः||

सौधेषु सौध-धवलां चन्द्रिकां रजनी-मुखे|

शीते वर्षासु चाद्यांस्त्रीन् वसन्तेऽन्त्यान् रसान्भजेत्

स्वादुं निदाघे, शरदि स्वादुतिक्तकषायकान्|

शरद्वसन्तयो रूक्षं शीतं घर्मघनान्तयोः||५६||

अन्नपानं समासेन विपरीतमतोऽन्यदा|

शीते वर्षासु च आद्यान् त्रीन् वसन्ते अन्त्यान् रसान् भजेत्।

स्वादुं निदाघे, शरदि स्वादु-तिक्त-कषायकान्|

शरत् वसन्तयो रूक्षं शीतं घर्म-घन-अन्तयोः||

अन्न-पानं समासेन विपरीतम् अतः अन्यदा|

नित्यं सर्वरसाभ्यासः स्वस्वाधिक्यमृतावृतौ||५७||

नित्यं सर्व-रस-अभ्यासः स्व-स्व-अधिक्यम् ऋतौ ऋतौ||

ऋत्वोरन्त्यादिसप्ताहावृतुसन्धिरिति स्मृतः|

तत्र पूर्वो विधिस्त्याज्यः सेवनीयोऽपरः क्रमात्|५८|

असात्म्यजा हि रोगाः स्युः सहसा त्यागशीलनात्| ५८ १/२|

ऋत्वोः अन्त्य-आदि-सप्त-आहौ ऋतु-सन्धिः-इति स्मृतः|

तत्र पूर्वः विधिः त्याज्यः सेवनीयः अपरः क्रमात्|

असात्म्यजा हि रोगाः स्युः सहसा त्याग-शीलनात्|

इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां सूत्रस्थाने ऋतुचर्या नाम तृतीयोऽध्यायः|३|

Moolashloka with Arunadutta & Hemadri Commentary

ऋतुविशेषवशाच्चाहारविहारसेवनप्रतिपादनार्थमृतुचर्याया आरम्भ इत्याह—-

अथात ऋतुचर्याध्यायं व्याख्यास्यामः|
इति ह स्माहुरात्रेयादयो महर्षयः|
(गद्यसूत्रे|२|


स०- पूर्ववद्व्याख्येयम्|


आ० र० -ऋतुचर्याध्यायं व्याख्यातुं प्रतिजानीते-अथेति| यतः पूर्वाध्याये दैनन्दिनो विहार उक्तः| आर्तवो वक्तव्यः| स चास्मिन्नध्याये| अत एवायमृतुचर्याख्यः|

अथ क ऋतवः ? इत्याह—–


मासैर्द्विसंख्यैर्माघाद्यैः क्रमात् षडृतवः स्मृताः|
शिशिरोऽथ वसन्तश्च ग्रीष्मो वर्षाशरद्धिमाः||१||
शिशिराद्यास्त्रिभिस्तैस्तु विद्यादयनमुत्तरम्|
आदानं च, तदादत्ते नृणां प्रतिदिनं बलम्||२||


स०-मासैरित्यादिना कालोपवर्णनमाह| ननु, कालोपवर्णनं दिनचर्यायां कस्मान्न कृतम् ? उच्यते| ऋतुगौरवोद्भावनार्थम्| ऋतवो हि विशेषेणोपयोगिनः, विप्रतिपत्तेश्च| यथा- एके चातुर्मासिकमृतुं कृत्वा शीतोष्णवृष्टिलक्षणान् हेमन्तग्रीष्मवर्षाख्यांस्त्रीनृतूनिच्छन्ति| अपरे तु द्विमासिकान् शिशिरवसन्तग्रीष्मवर्षाशरद्धेमन्तलक्षणान् षडृतूनिति| द्वे संख्ये येषां ते द्विसंख्याः, तैर्द्विसंख्यैः| माघ आद्यो येषां फाल्गुनादीनां त एवम्| तैर्द्विसंख्यैर्माघाद्यैर्मासैः क्रमात्- परिपाठ्या षडृतव स्मृताः| के ते ? इत्याह- शिशिराद्याः- शिशिरवसन्तग्रीष्मवर्षाशरद्धेमन्ताः| उपचारादेव षट्त्वे लब्धे षड्ग्रहणं परमतक्षेपार्थम्| तथा हि- केचित् त्रय एव ऋतव इति मन्यन्ते| तैस्तु ऋतुभिस्त्रिभिः शिशिरादिभिरुत्तरायणं विद्यात्- जानीयात्| अयनमुत्तरं- सवितुरुत्तरमार्गप्रतिपत्तिः, उत्तरायणम् आदानं जानीयात्| आदानमिति चान्वर्थं नाम इति प्रतिपादयति| तदा- तस्मिन् काले, नृणां प्रतिदिनं- अन्वहं, बलमादत्ते- सारं गृह्णाति| कोऽसौ ? प्रकृतत्वादादित्यः|


आ० र०-तत्र ऋतुविशेषान् लक्षयति- मासैरिति| द्विसंख्यैरिति षट्कृत्वा आवर्त्यैकशेषः कर्तव्यः| तत्र माघफाल्गुनौ-शिशिरः, चैत्रवैशाखौ-वसन्तः, ज्येष्ठाषाढौ-ग्रीष्मः, श्रावणभाद्रपदौ-वर्षाः, आश्विनकार्तिकौ-शरत्, मार्गशीर्षपौषौ-हेमन्तः| ननु सुश्रुतेन भाद्रपदाद्यैर्वर्षादय ऋतव उक्ताः| तद्यथा (सु.सू.अ. ६/१०)- “भाद्रपदाश्वयुजौ-वर्षाः , कार्तिकमार्गशीर्षौ-शरत्,पौषमाघौ- हेमन्तः, फल्गुनचैत्रौ-वसन्तः, वैशाखज्येष्ठौ-ग्रीष्मः, आषाढश्रावणौ-प्रावृट् ” इति| इह त्वन्यथेति विरोधः| मैवम्| न हि फल्गुनचैत्रौ-वसन्तः नापि चैत्रवैशाखौ| किन्तु मीनमेषौ| यदा फाल्गुनादौ मीनसङ्क्रान्तिस्तदा फल्गुनचैत्रौ-वसन्तः,यदा तु फाल्गुणान्ते तदा चैत्रवैशाखौ| एवं वृषमिथुनौ- ग्रीष्मः, कर्कटसिंहौ-वर्षाः, कन्यातुले-शरत्, वृष्चिकधनुषी-हेमन्तः, मकरकुम्भौ-शिशिरः, इति| उक्तं च ज्योतिःशास्त्रे- “मृगादिराशिद्वयभानुभोगात् षडर्तवस्युः शिशिरोवसन्तः| ग्रीष्मश्च वर्षाश्च शरच्च तद्वद्धेमन्तनामा कथितोऽत्र षष्ठः||” वर्षायनर्तुयुगपूर्वकमत्र सौरादिति च| सौरश्च मासस्तत्रैवोक्तः-” दर्शावधिं मासमुशन्ति चान्द्रं, सौरं तथा भास्करराशिभोगात्| त्रिंशद्दिनं सावनसंज्ञमार्या,नाक्षत्रमिन्दोर्भगणभ्रमाच्च|” इति| अवश्यं चैवमङ्गीकर्तव्यम्, अन्यथा अधिमासनिपाते मासत्रयमृतुः स्यात्| सङ्ग्रहे तु (सू.अ.४)-“मासराशिस्वरूपाख्यमृतोर्यल्लक्षणत्रयम्| यथोत्तरं भजेच्चर्यां तत्र तस्य बलादिति” इति| मासलक्षणाद्राशिलक्षणं बलवत्, अतो राशिलक्षणमेवाङ्गीकृतम्, स्वरूपलक्षणस्य ऋतुविपर्ययपर्यवसानात्| उक्तं हि तत्रैव (सङ्ग्रहे सू.अ.४)-ऋतुष्वेवंविधेष्वेव विधिः स्वास्थ्याय देहिनाम्| निर्दिश्यतेऽन्यरूपेषु विरुद्धज्ञानिको विधिः| ” इति| तस्माच्छिशिरषट्कप्रावृट्षट्कयोः संज्ञामात्रेणैव भेदः| संज्ञाभेदं च देशभेदेनाह काश्यपः-“भूयो वर्षति पर्जन्यो गङ्गाया दक्षिणे तटे| अतः प्रावृट् च वर्षाश्च ऋतू तत्र प्रकल्पितौ|| तस्या एवोत्तरे देशे हिमवद्विन्ध्यसङ्कुले| भूयः शीतमतस्तत्र हेमन्तशिशिरावुभौ||” इति| दक्षिणदेशीयैर्वृष्टिसंबन्धिनोर्द्वयोः प्रावृड्वर्षाख्यत्वं कृत्वा, पारिशेष्याच्छीतसम्बन्धिनोर्द्वयोः शरद्धेमन्ताख्यत्वं कृतम्| उत्तरदेशीयैस्तु शीतसम्बन्धिनोर्द्वयोर्हेमन्तशिशिराख्यत्वं कृत्वा, पारिशेष्याद्वृष्टिसम्बन्धिनोर्द्वयोर्वर्षाशरत्संज्ञत्वं कृतमित्यर्थः| वृष्टिशीतबाहुल्योपन्यासस्तत्रान्वर्थसंज्ञार्थः , न च संज्ञासङ्करे लक्षणसङ्करः, दोषाणां दोषधातुमलसंज्ञावत्| अन्ये पुनर्भेदं मन्वानाअन्नरसान् बलं चाधिकृत्य शिशिरषट्कम्, चयादीन् शोधनं चाधिकृत्य प्रावृट्षट्कम्, इति व्यवस्थापयन्ति| तदसत्| चरकखारणादिप्रभृतिभिः शिशिरषट्कमेवाधिकृत्य चयादीनामुक्तत्वात्| शोधनस्यतु चैत्रश्रावणकार्तिकेषु विधान्नान्न ॠत्वपेक्षा| ॠत्वपेक्षायामपि साधारणर्तूनां शिशिरषट्केपि विद्यमानत्वान्न प्रावृट्षट्कापेक्षा| अन्येतु गङ्गाया दक्षिणे वृष्टिबाहुल्यात् प्रावृट्षट्कम्, उत्तरे शीतबाहुल्यात् शिशिरषट्कम्, इति व्यवस्थापयन्ति| तदप्यसत् उभयत्रापि चातुर्मासिकवृष्टिशीतोपलंभात्, आश्विने दिव्योदकग्रहणस्योभयदेशविषयत्वाच्च| भेदपक्षे ह्युत्तरदेशे तदनार्तवं स्यात्| यत्तु सुश्रुतस्य (उ.अ.६४/४५)-“तापात्यये हिता नित्यम्” इत्यादि,वर्षाचर्यायाः पृथक् प्रावृट्चर्याभिधानम्, तदतिदुर्दिनविषयम्| तथा च चरकः (सू.अ.६/३६)-” व्यक्ताम्ललवणस्नेहं वातवर्षाकुलेऽहनि| विशेषशीते भोक्तव्यं वर्षास्वनिलशान्तये|| ” इति| अत एव सुश्रुतेन तापात्ययशब्दः प्रयुक्तः| तापस्य- अर्कप्रकाशस्य, अत्ययः- अत्यन्तापगमः, स चातिदुर्दिन एव, इति सर्वं समञ्जसम्| तस्माद्वाग्भटाचार्याभिमतमभेदपक्षमेवाश्रयध्वमिति|
प्रथमर्तुत्रयस्य संज्ञाद्वयमाह-त्रिभिरिति| तैः-शिशिराद्यैस्त्रिभिः, उत्तरायणमादानं च विद्यात्| आदानसज्ञां निर्वक्ति- तदादत्त इति| तत्-शिशिरादित्रयं, नृणां प्रतिदिनं बलमादत्ते, इति आदानम्| बलविसर्गंप्रति सौम्यत्वस्य हेतुत्वेनोपादानात् बलादानं प्रति आग्नेयत्वस्य हेतुत्वं ज्ञेयम्|

कया युक्त्या बलमादत्ते ? इत्याह———————-
तस्मिन् ह्यत्यर्थतीक्ष्णोष्णरूक्षा मार्गस्वभावतः|
आदित्यपवनाः सौम्यान् क्षपयन्ति गुणान् भुवः||३||
तिक्तः कषायः कटुको बलिनोऽत्र रसाः क्रमात्|
तस्मादादानमाग्नेयम्—————————|४|


स०-आदित्यश्च पवनाश्चादित्यपवनाः, ते तस्मिन् काले यस्मात्सौम्यान्गुणान् भुवः सम्बन्धिनः क्षपयन्ति- विनाशयन्ति| कीदृशास्ते ? अत्यर्थं- अतिशयेन तीक्ष्णाश्चोष्णाश्च रूक्षाश्चात्यर्थ- तीक्ष्णोष्णरूक्षाः| कस्मादेवंविधास्ते ? इत्याह- मार्गस्वभावतः- वर्त्मस्वाभाव्यात्| न च स्वभावः पर्यनुयोगमर्हति| मार्गः- उष्णांशोरुत्तरदिग्गमनम्| यतश्चादित्यपवना रूक्षास्ततस्तिक्तादयो रसा बलिनो भवन्ति| क्रमादित्यनेन यथासंख्यमत्र बोधयति| तेन तिक्तः शिशिरे, वसन्ते कषायो, ग्रीष्मे कटुको, बलीत्यवतिष्ठते, न सर्वे तिक्तादय एकैकस्मिन्नृताविति| तिक्त इत्याद्यसमासकरणं ज्ञापनार्थम्| तिक्तादिरेकैको बली भवति| द्वौ तु स्वप्रमाणावस्थितौ| नैवर्तौ पृथग्भूय तिक्तादेर्बलवत्त्वमित्यर्थः| यत एवं भूमेः सौम्यगुणहानिर्वर्धनं च रूक्षाणां रसानाम्, तस्मात्कारणादादानमाग्नेयम्|


आ०र०-आग्नेयत्वे हेतुमाह- तस्मिन्निति| हि- यस्मात्, तस्मिन्काले, भुवः सौम्यान् गुणनादित्यपवनाः क्षपयन्ति| नन्वादित्यपवनाः सर्वदा सन्तोऽपि तदैव कुतः क्षपयन्ति? इत्यत आह-अत्यर्थतीक्ष्णोष्णरूक्षाः, मन्दादिसौम्यगुणविपरीततीक्ष्णादिगुणोद्रेकादित्यर्थः| तदैवैवं कुतः? इत्याह-मार्गस्वभावतः,- मार्गस्वभावाभ्यां| स्वभावः प्रकृतत्वात्कालस्य| उक्तं हि सङ्ग्रहे(सू.अ.४)-“कालस्वभावमार्गपरिगृहीतः” इति| मार्गो- मकरादिराशिपरिच्छिन्न आकाशभागः| यतश्चात्र-अस्मिन्काले, तिक्तादयो रसा बलिनः, क्रमादिति यथासङ्ख्येनोत्तरोत्तराश्च| तेन शिशिरे तिक्तो बली, ततोपि वसन्ते कषायः, ततोपि ग्रीष्मे कटुक इति| तस्मादिति आग्नेयगुणैर्विपरीतानां सौम्यगुणानां हानेस्तुल्यगुणानां तिक्तादीनां वृद्धेश्चादानमाग्नेयम्|

——————————————–|
————————ऋतवो दक्षिणायनम्||४||
वर्षादयो विसर्गश्च———————–|
——————————————–|५|


स०-त्रयो वर्षादय ऋतवो दक्षिणायनं भगवतो दिवाकरस्य दक्षिणदिग्गमनम्| स च कालो विसर्गाख्यः|


आ० र०-द्वितीयर्तुत्रयस्य संज्ञाद्वयमाह-ऋतव इति| वर्षादयस्त्रय ऋतवो दक्षिणायनं विसर्गश्चोच्यते|

———————-यद्बलं विसृजत्ययम्|
सौम्यत्वादत्र सोमो हि बलवान् हीयते रविः||५||
मेघवृष्ट्यनिलैः शीतैः शान्ततापे महीतले|
स्निग्धाश्चेहाम्ललवणमधुरा बलिनो रसाः||६||


स०-यत्- यस्मात्, बलमयं कालो विसृजति- ददाति दक्षिणायनाख्यः, तस्माद्विसर्गोऽन्वर्थसंज्ञः कालः| हि- यस्मात्, अत्र- विसर्गाख्ये काले, सौम्यत्वात्- सोमभूयिष्ठत्वात्, सोमो बलवान्, तदाश्रितरात्रिवृद्धिदर्शनात्| हीयते रविः- तदाश्रितदिनहान्युपलब्धेर्हीनशक्तिः सम्पद्यते| कदा ? महीतले- भूपृष्ठे, शान्ततापे सति| कैः ? मेघवृष्ट्यनिलैः शीतैः| शीतैरित्युपलक्षणार्थम्, विसर्गकालत्वान्मृदुभिः स्निग्धैरपीति| अत एव स्निग्धा रसा अम्ललवणमधुरा बलिनो भवन्ति| अत्रापि क्रमादित्यनुवर्तते| पूर्ववच्च व्याख्येयम्|


आ० र०-विसर्गसंज्ञां निर्वक्ति-यद्बलमिति| यत्-यस्मात्, अयं कालः सौम्यत्वाद्धेतोर्बलं विसृजति-ददाति, अतो विसर्गाख्यः|

सौम्यत्वे हेतुमाह-अत्र सोम इति| हि-यस्मात्, अत्र-अस्मिन् काले मार्गे च, तद्वशात्सोमो बलवान् भवति| तविश्च हीयते-त्यज्यते, प्रकृतत्वाद्बलेन| न केवलं कालमार्गवशात्, किन्तु शीतैर्मेघवृष्ट्यनिलैश्च| वृष्ट्या विनाऽपि छायाया एव कारणत्वान्मेघानां पृथग्ग्रहणम्| तथा, इह-अस्मिन् काले, अम्लाद्याः स्निग्धा रसा बलिनो भवन्ति| कस्मिन्सति ? तैरेव मेघाद्यैः शान्ततापे महीतले सति| आदाने ह्यादित्यपवनतापितायां भुवि सौम्यगुणक्षयाद्रूक्षा रसा बलिन आसन्| विसर्गे पुनः शान्ततापायां भुवि सौम्यगुणलाभात् स्निग्धा रसा बलिन इत्यर्थः| चकारेण क्रमादित्यनुकृष्यते| तेन वर्षास्वम्लो बली, ततोऽपि शरदि लवणः, ततोऽपि हेमन्ते मधुर इति सिद्धम्| सोमवृद्ध्या, सूर्यहान्या, स्निग्धरसबलित्वेन च विसर्गस्य सौम्यत्वमितिवाक्यार्थः| कालमार्गयोः कारणत्वं सङ्ग्रहेऽप्युक्तम् (सू. अ. ४)- “कालमार्गमेघवातवर्षाभिहतप्रतापे दक्षिणायनगेऽर्के शशिनि चाव्याहतबले” इति| मार्गोऽत्र कर्कटादिराशिषट्कपरिच्छिन्न आकाशभागः|

शीतेऽग्र्यं वृष्टिधर्मेऽल्पं बलं मध्यं तु शेषयोः|
————————————————————|७|


स०-शीतस्वभावे काले हेमन्तशिशिराख्ये नृणामग्र्यं बलं भवति| वृष्टिश्च घर्मश्च तस्मिन्वृष्टिघर्मे- वर्षाग्रेएष्माख्ये कालेऽल्पम्| तुरवधारणे| शेषयोः- शरद्वसन्तयोरृत्वोर्मध्यमेव बलम्| ननु, वसन्ते आदानकालत्वादत्यर्थतीक्ष्णोष्णरूक्षैरादित्यपवनैः शोष्यमाणेषु बलवृद्धिहेतुषु भुवः सौम्येषु गुणेषु, कथं मध्यबलत्वमिति ? अत्र ब्रूमः| वर्षादिषु त्रिष्वृतुषु बलमुपचितं क्रमेणैवापचीयते| यथा- कॄष्णपक्षे चन्द्रः| तस्माद्दीर्घकालानुवृत्तं बलमुपचितं वसन्ते क्रमेणैवापचीयते, इति मध्यबलत्वं युक्तम्| अनेनैव हेतुना शिशिरेऽग्र्यबलत्वम्| यतः सकलेन विसर्गिणा कालेन यदुपचितमतिशयेन बलं तत् शिशिरे प्रारम्भमात्रादानकालेऽपचीयमानमपि बलं न हीनं लक्ष्यते| यथा- कृष्णपक्षादौ चन्द्रः क्षीयमाणः, इति युक्तमुक्तं शीतेऽग्र्यं बलं वसन्ते च मध्यं बलमिति|


आ० र०-येनैव क्रमेण बलमुपचीयते, तेनैव चापचीयत इत्याह-शीतेऽग्र्यमिति| शीते-हेमन्तशिशिरयोः, अग्र्यंभागत्रयपूर्णं बलम्| वृष्टिग़र्मे-प्रावृड्ग्रीष्मयोः, अल्पंभागद्वयोनम्| शेषयोः-शरद्वसन्तयोः, मध्यं-एकभागोनम्| (ये तु शिशिरे चतुर्भागपूर्णस्य बलस्य वसन्ते भागद्वयोनत्वं विधाय मध्यं बलं कल्पयन्ति| तदसत्| क्रमेणापचितौ वसन्ते भागद्वयोनतानुपपत्तेः| उत्कृष्टमध्याल्पतया अत्र मध्यत्वं वेद्यम्| एकभागोनं मध्यं, द्विभागोनमल्पमिति|) यावद्बलं विसर्गस्यान्त्ये दिने तावदादानस्याद्ये, यावद्विसर्गस्योपान्त्ये तावदादानस्य द्वितीये| एवं यावद्विसर्गस्याद्ये तावदादानस्यान्त्ये, इति हेमन्तपर्यन्तं वाच्यम्| इति ऋतुनिर्णयः|

अत एवाह शास्त्रकृत्———
—————————————————-|
बलिनः शीतसंरोधाद्धेमन्ते प्रबलोऽनलः||७||
भवत्यल्पेन्धनो धातून् स पचेद्वायुनेरितः|
अतो हिमेऽस्मिन्सेवेत स्वाद्वम्ललवणात्रसान्||८||


स०-किल विसर्गाभिवर्द्धितबलत्वात्पुमान् बली भवति| तस्य बलिनः पुंसो हेमन्ते काले शीतसंरोधाद्धेतोरनलोऽग्निर्बली भवति| यतः सर्वतः स्रोतोरोधाज्जाठरोऽग्निरान्तरैरेव स्वेरर्चिर्भिरभिवर्धते| वर्धितश्चासौ युक्तमाहारं सम्यक्पचति| पक्वाच्चाहाराद्बलमभ्याधिकं जायते| हेमन्ते इत्यनेन एतत् द्योतयति, अस्मिन्नेव काले शीतसंरोधात् प्रबलोऽग्निर्भवति, न तु ऋत्वन्तरोपजनितशीतसंरोधात्| तथा हि- अन्यर्तुजेन शीतेनाग्निसादो भवति, यथा- वर्षासु| तत्र हि वृष्टिवाताभ्यां भवति शीतम्, न चाग्निदीप्तिः| तथा चाष्टाङ्गसङ्ग्रहे (सू.अ.४)- “वृष्टिवाताकुले त्वह्नि भोजनं क्लेदवातजित्| परिशुष्कं लघुस्निग्धमुष्णाम्ललवणं भजेत्” इति| इह पुनरनेकरूपं गौरवयुक्तं भोजनं शस्यते| वक्ष्यति हि- “अतो हिमेऽस्मिन्” इत्यारभ्य यावत् “रसान् स्निग्धान्पलं पुष्टम्” इत्यादि| तथोक्तम्- “ऊष्मा बहिः प्रतिहतो हिमशीतवातैरन्तः शरीरविवरं प्रतिपद्यमानः| स्वस्थानपिण्डितवपुर्भवति प्रचण्डः शीतेऽनिलानलहरो विधिरिष्यतेऽतः” इति| तथा, यद्यपि “तत्र सत्त्वशरीरोत्थं” इत्यारभ्य यावत् “तथोर्जस्करयोगजम्” इत्यादिना (हृ.शा.अ.३/७८) ग्रन्थेनाहारो युक्तजस्यैकस्यैव बलस्य हेतुरित्युक्तो ग्रन्थकृता| तथाऽपि युक्त्या निरूप्यमाणः सहजकालजयोरपि बलयोराहार एव हेतुः, अनुवृत्तिहेतुत्वात्| तथा ह्याहारं विना शरीरमेव न स्यात्| तदनया युक्त्या त्रिविधमपि बलमाहारजमिति बोद्धव्यम्| ननु, यदि प्रबलोऽनलो भवति, ततः किम् ? इत्याह- अल्पेन्धन इत्यादि| अल्पमिन्धनमाहाराख्यं यस्य सोऽल्पेन्धनः सन्, सोऽनलो, धातून्- रसादीन् पचेत्| कीदृशः ? वायुनेरितः- वातोद्दीपितः| अतः- अस्मादनन्तरोक्ताद्धेतोरल्पेन्धनत्वे सति धातुपाकाख्यात्| अस्मिन् हिमे शीते स्वाद्वम्ललवणाख्यान् रसान् सेवेत| नान्यर्तुसम्भवे हिम इत्यस्यार्थस्य द्योतनाय (अस्मिन्) हिम इत्युक्तम्|


आ० र०-अथ ऋतुचर्यामाह| तां च शिशिराद्युद्देशेऽपि हेमान्तादिक्रमेण, शिशिरचार्याया हेमन्तचर्यामूलत्वात्| तत्र सोपपत्तिकां मधुरादिसेवां विधत्ते-बलिन इति| यतो हेमन्ते अनलः प्रबलो भवति| स चाल्पेन्धनः सन् धातून् पचेत्| अतो मधुरादीन् सेवेत| प्राबल्ये हेतुमाह-शीतसंरोधात्, रोमकूपानावृण्वता शीतेनार्चिषां बहिः प्रचारे वारिते पिण्डितोष्मत्वात् प्रबलः| नन्वेवं वर्षास्वप्यापद्येत इत्यत आह-बलिनः, बलित्वे सति शीतसंरोधात्| वर्षासु पुनर्बलहानिः| ननु, प्रबलश्चेत्तत्किं स्निग्धोष्णवीर्याम्ललवणान् सेवेत ? इत्यत आह-वायुनेरितः,-शीतजनितवायुना सन्धुक्षितः, स धातून् पचेत्| अम्ललवणौ च स्निग्धोष्णवीर्यत्वाच्छीतस्य तज्जनितवायोश्च विपरीतौ| अयं विधिः किं हेमन्तमात्रे ? नेत्याह-हिमे,-शीतयुक्ते| हेमन्ते विशेष्ये सत्यप्यस्मिन्निति पदं हेमन्त एव हिमे एव, अयम् विधिर्नान्यदेति नियमार्थम्| इदं चोपलक्षणम्| तेन यस्यर्तोर्यल्लक्षणं, तद्युक्त एव तस्मिन्नेव तद्विधिरिति| सुश्रुतस्तु (उ. अ. ६४/२२) तिक्तकटुकसेवामप्याह-“हेमन्ते लवणक्षारतिक्ताम्लकटुकोत्कटम्| ससर्पिस्तैलमहिममशनं हितमुच्यते||” इति| साप्युचिता, चीयमानकफप्रत्यनीकत्वात्| हेमन्ते हि वातकफौ चीयते| यदाह खारणादिः-“पित्तं शाम्यते, तच्छैत्याद्वायुः श्लेष्मा च चीयते” इति|

दैर्घ्यान्निशानामेतर्हि प्रातरेव बुभुक्षितः|
अवश्यकार्यं सम्भाव्य यथोक्तं शेएलयेदनु||९||
वातघ्नतैलैरभ्यङ्गं मूर्ध्नि तैलं विमर्दनम्|
नियुद्धं कुशलैः सार्धं पादाघातं च युक्तितः||१०||


स०-एतर्हि- एतस्मिन्काले, बुभुक्षितः प्रातरेव- प्रत्युषसि, नान्यकाले यत्किञ्चिद्दिनातिक्रान्तौ सत्याम्, अवश्यकार्यं- मूत्रोत्सर्गादिकं दिनचर्योक्तं, सम्भाव्य- सम्पाद्य, यथोक्तं- यथानिर्दिष्टम्, अनु- पश्चत्, वातघ्नतैलाभ्यङ्गादिकं शीलयेत्| यद्यपि “बुभुक्षितः, अवश्यकर्यं सम्भाव्य यथोक्तं शीलयेदनु” इत्युक्तम्, तथापि बुभुक्षितेन न तथान्यत्कार्यं कार्यम्, यथा भोजनम्| तथा चोक्तम्- “आहारकाले सम्प्राप्ते यो न भुङ्क्ते बुभुक्षितः| तस्य सीदति कायाग्निर्निरिन्धन इवानलः||” इति| तस्मादौचित्याद्बुभुक्षितेनाहारः कार्य इति वेद्यम्| नन्वन्यस्मिन्नपि काले बुभुक्षितस्यैवाहारानुज्ञानादिह बुभुक्षितग्रहणं न कार्यम्| युक्तमाह भवान्| किन्त्वस्मिन्काले जाठराग्निरत्यग्निच्छायानुकारी भवति| ततोऽस्य जाठराग्नेरत्यग्नेरिवोपचारो युक्तः| यथा (चरके चि.अ.१५/२१९, हृदये चि.अ.१०/८४)- “मुहुर्मुहुरजीर्णेऽपि भोज्यान्यस्योपहारयेत्| निरिन्धनोऽन्तरं लब्ध्वा यथैनं न विपादयेत्||” इति| अबुभुक्षितस्यैव भोजनाधिकारित्वमिति भ्रान्तिनिरासायेह बुभुक्षितग्रहणम्| निशानां दैर्घ्यादिति विशिष्टकालोपलक्षणार्थं कृतम्| यदाऽत्र हेमन्ते शर्वर्यो दीर्घा जायन्ते, तदैष विधिः सर्वोनुष्ठेयो न प्रारब्धमात्र एवास्मिन्निति| नन्वत्र सेवेत शीलयेद्भजेदित्येकार्थाभिधायीनि बहूनि क्रियापदानि किं निर्दिष्टानि ? एकेनैवार्थाधिगतेः| अत्र ब्रूमः| कार्यान्तरसूचनार्थमेतत्पदत्रयं कृतम्| तथा हि- “अतो हिमेऽस्मिन्सेवेत” इत्यत्र यः सेवेतशब्दः स इदं द्योतयति- स्वाद्वम्ललवणरसाः पवनविजयार्थमस्मिन् काले नितरामुपयोक्तव्याः| न कादाचित्क एषामस्मिन्नृतावुपयोगो विधेय इति| अत एव वातघ्नतैलाभ्यङ्गादेः पृथगेषां रसानामुपन्यासः| तथा, “यथोक्तं शीलयेत्” इत्यत्र यः शीलयेदित्येष शब्दः स वातघ्नतैलादेः सर्वस्य तुल्यकक्षतां द्योतयति| तथा, “प्रावाराजिन” इत्यादौ यो भजेच्छब्दः स सकलस्याहारविहारशीलनस्य शयनविधेश्च तुल्यतां प्रथयति| तथा च वक्ष्यति (सू.अ.७/५१)- “आहारशयनाब्रह्मचर्यैर्युक्त्या प्रयोजितैः| शरीरं धार्यते नित्यमागारमिव धारणैः||” इति| वातघ्नतैलैरभ्यङ्गं शीलयेत्| तैलस्य सर्वस्यैव वातघ्नत्वाद्वातघ्नेति विशेषणमतिशयप्रतिपादनार्थम्, तेन बलातैलादिभिरिति बोध्यम्| मूर्ध्नि तैलं-शिरोभ्यङ्गादि| विमर्दनं- शरीरसंवाहनम्, एतदौचित्यादभ्यक्तः सन् शीलयेत्| कुशलैः- तद्विद्भिः सार्धं, नियुद्धं- बाहुयुद्धं, शीलयेत्| पादाघातं- पादेन विमर्दनम्, युक्तित इत्यनेनार्धशक्त्यैव शीलनं द्योतयति| बाहुयुद्धपादाघातयोश्चानभ्यक्तस्यैव शीलनं युक्तम्|


आ० र०-दिनचर्याविहितस्याभ्यङ्गादेविर्शेषमाह-दैर्घ्यादिति| एतर्हि-एतस्मिन्काले, अभ्यङ्गादीन् शीलयेत्| कदा ? प्रातः| किमवश्यकार्यं बाधित्वा ? नेत्याह-यथोक्तमवश्यकार्यं-शौचादिकं, सम्भाव्य-सम्यक् कृत्वा| किमजातान्नपानेच्छ एव ? नेत्याह-बुभुक्षित एव| ननु प्रातः कथं बुभुक्षितः ? इत्यत आह-निशानां दैर्घ्यात्| सम्भाव्येत्यनेन पश्चादर्थे सिद्धे नैरन्तर्यार्थमनुग्रहणम्| अभ्यङ्गसेकपिचवो वस्तिश्चेति चतुर्विधं मूर्धतैलम्| अभ्यङ्गस्य पृथगुपादानमितरावयवार्थम्| विमर्दनं-कराभ्यां पीडनम्| अभ्यङ्गमूर्धतैलविमर्दनानि वातघ्नतैलैर्बलातैलादिभिः शीलयेत्| नियुद्धं-बाहुयुद्धम्| कुशलैः-मल्लैः| पादाघातं-पादाभ्यां मर्दनम्| युक्तितः-मात्राद्यनतिक्रमेण|

कषायापहृतस्नेहस्ततः स्नातो यथाविधि|
कुङ्कुमेन सदर्पेण प्रदिग्धोऽगुरुधूपितः||११||
रसान् स्निग्धान् पलं पृष्टं गौडमच्छसुरां सुराम्|
गोधूमपिष्टमाषेक्षुक्षीरोत्थविकृतीः शुभाः||१२||
नवमन्नं वसां तैलं, शौचकार्ये सुखोदकम्|
प्रावाराजिनकौशेयप्रवेणीकौचवास्तृतम्||१३||
उष्णस्वभावैर्लघुभिः प्रावृतः शयनं भजेत्|
युक्त्याऽर्ककिरणान् स्वेदं पादत्राणं च सर्वदा||१४||


स०-कषायेण- रोध्रादिना, अपहृतः- अपनीतः, स्नेहो यस्य स एवम्| ततः- अनन्तरं, यथाविधि- शास्त्रोदितेन विधानेन, स्नातः| कुङ्कुमेन- काश्मीरेण, प्रदिग्धः- अनुलिप्तः| दर्पः- कस्तूरिका, तेन सह वर्तते यत्कुङ्कुमं तदेवम्| तथा, अगुरुणा- जोङ्गकेन धूपितः| रसान्- मांसरसान्, स्निग्धान् भजेत्| मांसरसानां स्निग्धत्वेऽपि स्निग्धानिति विशेषणमतिशयद्योतनार्थम्| स्निग्धतमान् रसानित्यर्थः| पलं- मांसं, पुष्टं- मेदुरं, भजेत्| तथा, गुडस्येदं गौडं तन्मध्यम्| तथा, अच्छसुरां- सुरामण्डं, सुरां- मदिरां, च भजेत्| अम्लेनान्नेन कषायद्रव्यैश्च या क्रियते सा सुरा भण्यते| ननु, द्विधैव सुरा सेव्यत्वेनेहाभीष्टा, तत्सुराशब्द एव निर्देष्टुं न्याय्यः| तस्मिन्हि सामान्यपदे निर्दिष्टे द्विधैव सुरा निर्दिष्टा भवति| सत्यमेतत्| किन्त्वच्छसुरां नितरां भजेत्, न तथा सुरामिति ज्ञापनार्थं द्वयोरुपादानम्| अत एवाच्छसुरामिति पूर्वं निर्दिष्टम्| गोधूमेत्यादि| गोधूमश्च पिष्टं च माषश्च इक्षुश्च क्षेएरं च तान्येवम्| गोधूमपिष्टमाषेक्षुक्षीरेभ्य उत्थानं यासां विकृतीनां ता एवम्| उत्पूर्वात्तिष्ठतेः सुपेएति योगविभागाद्भावे कः| “उदः स्थास्तम्भोः पूर्वस्य” इति सस्य तकारः| गोधूमपिष्टमाषेक्षुक्षीरोत्थाश्च ता विकृतयश्च, ताः शुभाः- रम्याः, भजेत्| तथा, नवं- अपुराणमन्नं, तथा वसांभजेत्| “शुद्धमांसस्य यः स्नेहः सा वसा परिकीर्तिता”| तथा, तैलं भजेत्- भक्षयेत्| अभ्यङ्गस्तु प्रागनुज्ञात एव| शौचकार्ये- शौचक्रियायां, सुखोदकं- उष्णोदकं, भजेत्| प्रावारः- कार्पासो रोमवान् घनः पटः, स्थूलपटकादिः| अजिनं- सुखस्पर्शरोमचर्म| कौशेयं- पट्टवसनम्| प्रवेणी- सूचीबाणाख्यो वस्त्रविशेषः| कौचवं- राङ्कववस्त्रभेदः, तवरक इत्यन्ये| एतैरास्तृतं- दत्तप्रच्छदपटं, शयनं भजेत्| कीदृक् शयनं भजेत् ? उष्णस्वभावैः- रोमशिकारल्लिकाप्रायैः, प्रावृतः- प्रकर्षेणाच्छादितः| तथा, अर्ककिरणान्भजेत्| कथम् ? युक्त्या- सम्यग्योगलक्षणया| अतिसेविता हि ग्लान्यादीन् कुर्युः| तथा, स्वेदं भजेत्| युक्त्यैवेत्यत्रापि योज्यम्| अतिसेवितो हि स्वेदो ग्लान्यादीन् जनयेत्| पादत्राणं च- पादुकादिकं, सर्वदा भजेत्|


आ० र०-उद्वर्तनादेर्विशेषमाह-कषायेति| कषायापहृतस्नेहादिको भूत्वा रसादीन् भजेत्| कषायेणापहृतः स्नेहःस्नेहापहरणमात्रमुद्वर्तितः, न त्वन्यकालवदुत्पादितरौक्ष्यः| यथाविधि स्नातः, विधिश्चात्र शीतकालोचितत्वात् सर्वाङ्गानामुष्णोदकेन स्नानम्| उक्तं च चरकेण (सू. अ. ६/१४)- “अभ्यङ्गोत्सादने मुर्धतैलं जेन्ताकमातपम्” इति| जेन्ताकंसर्वाङ्गोष्णोदकस्रानमिति बाष्पचन्द्रः| सदर्पेण-सक्स्तूरिकेण| प्रदिग्धो-अनुलिप्तः| रसान्-मांसरसान्| स्निग्धान् घृतादिसंस्कृतान्| पलं-मांसम्| पुष्टं-मेदुरम्| गौडं-गुडकृतं मद्यम्| अच्छसुरां-सुरामण्डम्| सुरां-घनसुराम्| अच्छसुरायाः पृथग्ग्रहणमतिशयभजनार्थम्| गोधूमाद्युत्थाः-गोधूमादिकृता मोदकाद्याः| पिष्टं-शालिपिष्टम्| शुभाःहृद्याः| नवं-अनतिक्रान्तवत्सरम्| अन्नं-धान्यम्| वसां-मांसस्नेहम्| रसादितैलान्तं भोजनोपयोगि| सुखोदकं-कवोष्णमुदकम्, तच्च शौचकार्ये| पाने तु शीतमेव| प्रवारः-कार्पासरोमवान् घनः पटः| अजिनं-चर्म| कौशेयं-कृमिकोशोत्थम्| प्रवेणी-सूचीबाणाख्यं वस्रम्| कुथकः-कम्बलः| उष्णस्वभावैर्लघुभिर्वस्रैः प्रावृतः| अर्ककिरणान् स्वेदं च युक्त्या-सम्यग्योगेन भजेत्| पादत्राणं सर्वदा-बहिश्चरणं विनापि, बहिश्चरणे तु दिनचर्यायामुक्तमेव|

पीवरोरुस्तनश्रोण्यः समदाः प्रमदाः प्रियाः|
हरन्ति शीतमुष्णाङ्ग्यो धूपकुङ्कुमयौवनैः||१५||


स०-ऊरू च स्तनौ च श्रोणिश्च ऊरुस्तनश्रोणि| पीवरं- पीनं, ऊरुस्तनश्रोणि यासां ता एवम्भूताः, प्रमदाः- विलासिन्यः, शीतं हरन्ति- नुदन्ति| पीनत्वेनातिकार्श्यमत्र निषिध्यते| तथा चाह ग्राम्यधर्माधिकारे (हृ.सू.अ.७/६९)- “त्यजेदतिकृशाम्” इति| किम्भूताः ? सह मदेन- यौवनोद्भूतेन सुरादिपानजेन कामोद्रेककारिणा वा, वर्तन्ते ताः समदाः| तथा, प्रियाः- वल्लभाः, शीतं हरन्ति| किम्भूताः ? उष्णाङ्ग्यो धूपकुङ्कुमयौवनैः- अगुर्वादिधूपेनोष्णाङ्ग्यः, तथा कुङ्कुमानुलेपनेनोष्णाङ्ग्यः, तथा यौवनोष्मणा, सहजेनोष्णाङ्ग्य इति योज्यम्|


आ० र०-शीतापहन्तृत्वकथनद्वारा स्त्रीसेवां पिधत्ते पीवरेति| प्रमदाः-स्त्रियः| समदाः-यौवनोत्थं मद्यजं च मदं बिभ्राणाः|

अङ्गारतापसन्तप्तगर्भभूवेश्मचारिणः|
शीतपारुष्यजनितो न दोषो जातु जायते||१६||


स०-अङ्गाराणां तापोऽङ्गारतापः, तेन सन्तप्तं च तद्गर्भेऽभ्यन्तरे भूवेश्म च तत्तस्मिंश्चरति- तिष्ठति नित्यं यस्तस्याङ्गारतापसन्तप्तगर्भभूवेश्मचारिणः पुंसो यतः शीतपारुष्यजनितो दोषो- दुःखं, न जातु- कदाचिज्जायते, ततोऽङ्गारतापसन्तप्तगर्भभूवेश्मचारी स्यादिति भावः|


आ० र०-शीतापहन्तॄत्वकथनद्वारा निवातोष्णगृहसेवां विधत्ते-अङ्गारेति| अङ्गाराणां तापेन सन्तप्तं यद्वेश्म, यच्च गर्भवेश्म-गृहान्तर्वर्तिगृहं, यच्च भूवेश्म-भूम्यन्तर्वर्तिगृहं, तेषु यश्चरति स तथा| शीतेन यत्पारुष्यं तज्जनितो दोषो जातु कदाचित्, तस्य न जायते| तस्मात्तानि भजेदित्यर्थसिद्धम्|

अयमेव विधिः कार्यः शिशिरेऽपि विशेषतः|
तदा हि शेएतमधिकं रौक्ष्यं चादानकालजम्||१७||


स०-अयमेव- हैमन्तः, विधिः- पूर्वोक्तः, शिशिरे च विशेषतः- अतिशयेन कार्यः| कुतः ? इत्याह- यस्मात्तस्मिन् काले शीतमधिकं भवति, कालस्वाभाव्यात्| तथा, आदानकालाज्जातमादानकालजं च रौक्ष्यं भवति| ततो हेतुद्वयाद्विशेषेण हैमन्तिको विधिः सेव्यः| हेमन्ते “रसान् स्निग्धान् शीलयेत्” इत्युक्तम्| शिशिरे तानतिशयेन शीलयेत्| एवं सर्वोऽपि हैमन्तिकौ विधिर्योजनीयः| आदानकालजमित्यनेनैतद्द्योतयति| आदानकाल एव रौक्ष्यस्य कारणम्, नान्यत्| अत एव हेमन्ते शीतेऽपि रौक्ष्यं नास्त्येवेति| आदानस्य च प्रारम्भमात्रत्वे एव शिशिरस्य सम्भव इति शिशिरे किञ्चिदेव रौक्ष्यं वेद्यम्| ननु, यथा रौक्ष्यमादानकालजं तथौष्ण्यमपि| तथा चोक्तम्- “तस्मिन् ह्यत्यर्थतीक्ष्णोष्णरूक्षाः” इति| एवं चौष्ण्यसद्भावाच्छीतस्य हेमन्ततो हानिः प्राप्ता, न त्वाधिक्यम्| तत्कथमुक्तं “तदा हि शीतमधिकम्” इति ? ब्रूमः| रौक्ष्यस्य द्वौ हेतू| एकस्तावद्भगवद्दिवाकरकरैर्जगत्स्नेहादानम्| द्वितीयस्त्वाग्नेयः कालः| तदेवं रौक्ष्येणोभयहेतुजेन शिशिरे काले वाताः शीतस्वभावा आहिताधिकशक्तयो जायन्ते हैमन्तेभ्यो मारुतेभ्यः| तथाविधाश्चौष्ण्येनादानकालजेनादानकालप्राथम्यादप्राप्तबलेन शिशिरे नाभिभूयन्ते| अनभिभूताश्च शीतस्वभावत्वाच्च शीतमेव वर्धयन्ति| अतो युक्तं शीताधिक्यं शिशिर इति|


अ० र०-शिशिरचर्यामाह-अयमेवेति| अयं-हेमन्तोक्तः| स्वयुक्त्या न्यूनाधिकप्रयोगनिषेधार्थमेवशब्दः| विशेषतः-अत्यभ्यासेन| हि-यस्मात्, तदा-तस्मिन्काले, अधिकं शीतम्, आदानकालजं रौक्ष्यं च| चकाराद्वातकोपबलक्षयौ च| यथोक्तं खारणादिन-“स्वभावशैत्याद्रौक्ष्याच्च वातकोपाद्बलक्षयात्| विधिर्विशेषात्स्निग्धोष्णः शिशिरे हैमनोमतः||” इति| वातकोपश्च तेनैवोक्तः-“स वायुः शिशिरे कोपं यात्येवोपचयं कफः|” इति|

सम्प्रति वसन्तचर्यां विवक्षुरिदमाह——————-
कफश्चितो हि शिशिरे वसन्तेऽर्कांशुतापितः|
हत्वाऽग्निं कुरुते रोगानतस्तं त्वरया जयेत्||१८||
तीक्ष्णैर्वमननस्याद्यैर्लघुरूक्षैश्च भोजनैः|
व्यायामोद्वर्तनाघातैर्जित्वा श्लेष्माणमुल्बणम्||१९||
स्नातोऽनुलिप्तः कर्पूरचन्दनागुरुकुङ्कुमैः|
पुराणयवगोधूमक्षौद्रजाङ्गलशूल्यभुक्||२०||
सहकाररसोन्मिश्रानास्वाद्य प्रिययाऽर्पितान्|
प्रियास्यसङ्गसुरभीन् प्रियानेत्रोत्पलाङ्कितान्||२१||
सौमनस्यकृतो हृद्यान्वयस्यैः सहितः पिबेत्|
निर्गदानासवारिष्टसीधुमार्द्वीकमाधवान्||२२||
शृङ्गबेराम्बु साराम्बु मध्वम्बु जलदाम्बु च|
————————————————————|२३|


स०-शिशिरे मधुरस्निग्धादिना आहारेण कालस्वाभाव्याच्च श्लेष्मा सञ्चितोऽतिशयेन स्त्यानत्वादतिकुपितो वसन्ते ऋतावर्कांशुतापितः- सूर्यप्रभाभिर्विलायितो, द्रवस्वरूपत्वाज्जलमिव विपरीतं जाठराग्निं हत्वा, हि- यस्मात्, रोगान्- विकारान्, कुरुते- जनयति| अतः- अस्मात्कारणात्, तं- कफं, त्वरया- शीघ्रमेव, जयेत्| दोषानिति केचित्पठन्ति| अर्कतापित इत्यनेनैव सिद्धे अंशुशब्दोऽत्र रश्मीनां पटिमानं सूचयति, न तथा शीते| तत्र हि (सं.सू.अ.४)- “धूमधूम्ररजोमन्दास्तुषाराविलमण्डलाः| दिगादित्याः” इत्यधिजगे| कैर्जयेत्? तीक्ष्णैर्वमननस्यविरेकादिभिरुपक्रमेत्| तथा, लघूनि रूक्षाणि च यानि भोजनानि, तैश्च| तथा, व्यायामश्चोद्वर्तनं च आघातश्च तैश्च कफं जयेदिति| चशब्दो लुप्तनिर्दिष्टः| ततः कफमुल्बणं- उद्धतं, जित्वाऽनन्तरं स्नातोऽनुलिप्तः- समालिप्तः कर्पूरचन्दनागुरुकुङ्कुमैः| तथा, पुराणं च तद्यवगोधूमं च, तथा, क्षौद्रं- माक्षिकं, तथा जाङ्गलं च तच्छूल्यं च- “शूलेन संस्कृतं मांसं शूल्यम्” भटित्रं च, तत्तानि भुङ्क्ते पुराणयवगोधूमक्षौद्रजाङ्गलशूल्यभुक्| शूल्य इति “शूलोखाद्यत्” इति यत्| एवंविधः सन् वयस्यैः- मित्रैः सहित आसवादीन् पिबेत्| किम्भूतान्? निर्गदान्- निवृत्तगदान्निर्दोषान्, पिबेदिति वक्ष्यमाणेन सम्बन्धोऽत्र दीपकत्वात्| आसवो- यो द्रव्याण्यासुत्य क्रियते| उक्तं च- “मद्याकराधिकद्रव्यमदिराद्यैः कृतस्तु यः| सोऽरिष्टः स्यादासवस्तु द्रव्याण्यासुत्य यः कृतः||” इति| सीधुः- इक्षुरसोद्भवः| मार्द्वीकं- मृदीकारसोद्भवम्| माधवो- मधुना संस्कृतः| किम्भूतानासवादीन्? सहकाररसोन्मिश्रान्- अधिवासितान्| तथा, प्रियया- दयितया, आस्वाद्य- किञ्चित्पीत्वा, अर्पितान्- ढौकितान्| तथा, प्रियास्यसङ्गेन सुरभीन्,-सुगन्धीन्| तथा, प्रियानेत्राण्येवोत्पलानि तैरङ्कितान्-सञ्जातशोभान्| तथा, सौमनस्यकृतः- चित्तप्रसादकृतः| तथा, हृद्यान्- हृदयाय हितान्| तथा, शृङ्गबेराम्बु- शुण्ठीक्वथितजलं पिबेत्| तथा, सारः-असनचन्दनादिजः, तेन क्वथितमम्बु पिबेत्| तथा, मधुना युक्तमम्बु मध्वम्बु| जलदेन- मुस्तया च क्वथितमम्बु पिबेत्| चेति समुच्चये|


आ० र०-अथ वसन्तचर्या| सा च द्विविधा, शोधनी शमनी च| तत्र चयपूर्वके प्रकोपे शोधनी, अचयपुर्वके शमनी| तत्राकृतायां पूर्वर्तुचर्यायां पूर्वर्तुना चितस्य दोषस्योत्तरेण यः प्रकोपः स चयपुर्वकः| स एवापथ्यजः, पूर्वर्तुसेविता पथ्यजातत्वात्| यस्तु कृतायां तस्यां पूर्वेणाचितस्योत्तरेण यः प्रकोपः सोऽचयपूर्वकः| स एव पथ्यजः, पूर्वर्तुसेवितपथ्यजातत्वात्| उक्तं च-“दोषप्रकोपो द्विविधः पथ्यापथ्यनिमित्तजः| तत्रापथ्यनिमित्तो यः स संशोधनमर्हति|| पथ्यजः शमनीयश्च प्राय आगनुत्जश्च यः|” इति| तत्र संशोधनीं विधत्ते-कफश्चित इति| यस्माच्छिशिरे चितः कफो, वसन्ते सूर्यरश्मिभिर्द्रवीकृतः सन्, जलमिव प्रत्यनीकत्वात् वह्निं हत्वा, रोगान् करोति| अतस्तं-चितं अकुपितं कफं, वसन्तारम्भ एव तीक्ष्णद्रव्यकृतैर्वमननस्यधूमगण्डूषाद्यैः शोधनैर्जयेत्| तथा, लघुरूक्षैस्तिक्तकटुकप्रायैः संसर्जनक्रमेण भोजनैश्च| शिशिरशब्देन शीतपर्यायेण शिशिरहेमन्तयोर्ग्रहणम्, द्वयोरपि कफचयात्| यदाह खारणादिः-“हेमन्ते निचितः श्लेष्मा शिशिरेऽपि न कुप्यति| आहारैश्च गुरुस्निग्धै गुरुस्त्रिग्धैर्भृशमेवोपचीयते||” इति|

शमनीं विधत्ते-व्यायामोद्वर्तनाघातैरिति| उल्बणं श्लेष्माणं व्यायामाद्यैर्जित्वा स्नातस्ततः कर्पूराद्यैरनुलिप्तः, पुराणयवादीन् भुञ्जानः, आसवादीन् पिबेत्| प्रकोपे प्रकृतेऽप्युल्बणग्रहणमचर्यपूर्वकप्रकोपार्थम्| आघातः-पद्भ्यां मर्दनम्| कफग्रस्तस्याभ्यङ्गनिषेधाद्रूक्षा एव व्यायामादयः| स्नानशील इति च वचनात्प्राप्तेऽपि स्नाने, स्नात इति श्लेष्मकालीनप्रातःस्नाननिषेधार्थम्| व्यायामादीन्कृत्वैव स्नायान्न पूर्वमित्यर्थः| पुराणत्वं यवगोधूमक्षौद्राणाम्| जाङ्गलं-मृगादिमांसम्, तस्य शूल्यं-भटित्रम्| सहकारः-अतिसुरभिराम्रः, तस्य रसः-तत्फलवृन्तनिर्यासः, तेन उन्मिश्रान्-अधिवासितान्| प्रियया रसविशेषज्ञानार्थं स्वयमास्वाद्यार्पितान्| गन्धविशेषज्ञानार्थं सङ्गतेन सहजसुरभिणा प्रियामुखेन सुरभीकृतान्| वैमल्यादिज्ञानार्थमवलोकयन्त्याः प्रियायाः प्रतिबिम्बिताभ्यां नेत्राभ्यामुत्पलैश्च साक्षन्निक्षिप्तैरङ्कितान्| सौमनस्यकृतः-परिणामेन मनःप्रशान्तिकरान्| हृद्यानास्वादे| निर्गदान्-निर्दोषान्| अक्वथितैरोषधैः कृतं मद्यमासवः| क्वथितैररिष्टः| इक्षुरसेन सीधुः| द्राक्षारसेन मार्द्वीकम्, मधुना माधवः| शृङ्गबेराम्बु-शुण्ठ्या क्वथितं जलम्| असनादिसारैः साराम्बु| मुस्तार्भिर्जलदाम्बु| मधुमिश्रं जलं मध्वम्बु| अनेकद्रवविधानं यस्य यत्सात्म्यं तत्तेन सेवनार्थमित्यर्थः|

————————————————————|
दक्षिणानिलशीतेषु परितो जलवाहिषु||२३||
अदृष्टनष्टसूर्येषु मणिकुट्टिमकान्तिषु|
परपुष्टविघुष्टेषु कामकर्मान्तभूमिषु||२४||
विचित्रपुष्पवृक्षेषु काननेषु सुगन्धिषु|
गोष्ठीकथाभिश्चित्राभिर्मध्याह्नं गमयेत्सुखी||२५||


स०-काननेषु- उपवनेषु, स्थितो मध्याह्नं गमयेत्- अतिवाहयेत्| अह्नो मध्यो मध्याह्नः| “संख्याविसा” इत्यादिज्ञापकात्पूर्वापरेत्यादिना एकदेशिसमासः| “अह्नोऽह्न एतेभ्यः” इत्यह्नादेशः| कथम् ? गोष्ठ्यां- क्रीडायां कथा गोष्टीकथास्ताभिः, चित्राभिः- कमनीयाभिः, न त्वर्थव्यवहारसम्बन्धिनीभिः| कीदृशः सन् ? सुखी- रागद्वेषादिरहितः| किम्भूतेषु काननेषु ? दक्षिणदिक्प्रवृत्तैरनिलैः शीतानि, तेषु दक्षिणानिलशीतेषु| तथा, परितः- समन्ताज्जलं नित्यं वहन्ति यानि तेषु| आभीक्ष्ण्ये णिनिः| तथा, क्वचित्प्रदेशे अदृष्टः- ईषद्दृष्टः, क्वचिदतिघनत्वात् नष्टः- न दृश्यते, सूर्यो येषूपवनेषु तान्येवं तेषु| तथा, मणीनां- वज्रमरकतादीनां, कुट्टिमानि- विशिष्टा भुवः, ताभिः कान्तिः- शोभ, येषां तान्येवं तेषु| तथा, परपुष्टैः- कोकिलैः विघुष्टेषु- कृतशब्देषु| तथा, कामस्य कर्मान्ताः कामकर्मान्ताः- मदनव्यापाराः| अन्तशब्दोऽत्र प्रशंसावचने| यथोद्भटस्य (काव्यालङ्कारसङ्ग्रहे प्रथमसर्गे) वचनम्- “वनान्तदेवतावेण्यः” इति) कामकर्मान्तनिमित्तं भूमयो येषां वनानां तान्येवं तेषु| विचित्राणि- नानारूपाणि, पुष्पाणि येषां ते तथाविधा वृक्षा येषां तान्येवं तेषु| सुष्ठु गन्धो येषां तेषु| “गन्धस्येत्” इतीत्समासान्तः|


आ० र०-भोजनान्तरमुद्यानसेवं विधत्ते-दक्षिणानिलशीतेष्विति| काननेषु मध्याह्नं गमयेत्-अतिवाहयेत्| सुखी-अव्याकुलः सन्| गोष्ठ्यो-लोकवार्ताः| अथाः-शास्त्रवार्ताः| जलवाहिषु-जलाशययुक्तेषु| अदृष्टसूर्येषु-घनच्छायेषु| अनष्टसूर्येषु-प्रकाशबत्सु| मणिमयैः-बद्धभूमिकैः कान्तिमत्सु| परपुष्टैः-कोकिलैर्नादितेषु| कामकर्म-मदनव्यापारं, अन्तन्ति-बध्नन्ति स्वसौन्दर्येणोत्तरोत्तरं वर्धयन्तीति कामक्रर्मान्ताः| “अति बन्धने” इत्यस्मात्कर्मण्यण्|

गुरुशीतदिवास्वप्नस्निग्धाम्लमधुरांस्त्यजेत्|
————————————————————|२६|


स०-अस्मिन्काले कफोपचयदोषभयात् गुरुशीतादींस्त्यजेत्| ननु, लवणमपि श्लेष्माणं करोति, तत्कस्मादिह न निषिद्धम् ? अतो ब्रूमः| लवणः पूर्वं कफमम्लमधुराविव न करोति| किं तर्हि ? निधने चिरन्तनसञ्चितं स्रुतिरूपं श्लेष्माणं विधत्ते, विष्यन्दित्वात्| न च लवणस्य मधुरादेरिव बहुतरस्य प्रयोगः प्रसिद्धः, किं तर्हि ? अल्पस्यैव| तस्माल्लवणस्यात्रानिषेध एव न्याय्यः|


आ० र०-गुर्वादीन्निषेधति-गुरुशीतेति|

अधुना ग्रीष्मचर्यामुपदिदिक्षुराह———— —————————————————-|
तीक्ष्णांशुरतितीक्ष्णांशुर्ग्रीष्मे संक्षिपतीव यत्||२६||
प्रत्यहं क्षीयते श्लेष्मा तेन वायुश्च वर्धते|
अतोऽस्मिन्पटुकट्वम्लव्यायामार्ककरांस्त्यजेत्||२७||


स०-यत्- यस्मात्, तीक्ष्णांशुः- भास्करः, अतितीक्ष्णा अंशवः- कराः, यस्य स एवंभूतः सन्, ग्रीष्मे संक्षिपतीव जगत्स्नेहमित्यत्रानुक्तमप्यर्थाल्लभ्यते| केचित्तु “स्नेहमर्कोऽतितीक्ष्णांशुः” इति पठन्ति| स्नेहस्तेजो बलं सारमित्येकोऽर्थः| तं स्नेहमर्कः संक्षिपतीव- यत्सम्बन्धात् संहरतीव पिबतीव| इवशब्देनैतत्सूचयति- हेतुप्रत्ययपरतन्त्रेषु सर्वभावेषु न कश्चित्क्वचित् तद्बुद्धिपूर्वकं संहरति| अतः- अस्मात्कारणात्, अस्मिन्- ग्रीष्मकाले, पट्वादीस्त्यजेत्| परमार्थतो बलहानिकृत्त्वादेषाम्|


आ० र०-अथ ग्रीष्मचर्या| तत्र सोपपत्तिकं पट्वादीन् निषेधति-तीक्ष्णांशुरिति| यत्-यस्मात्, तीक्ष्णांशुः-सूर्यः, ग्रीष्मेऽतितीक्ष्णांशुः सन्, संक्षिपतीव-संहारप्रवृत्त इवाऽऽभाति| अतः पट्वादींस्त्यजेत्| अस्मिन्-अतिक्लमविह्वललोके ग्रीष्मे, पट्वादीनां क्लमहेतुत्वात्|

किमत्र सेव्यम् ? इत्याह———-
भजेन्मधुरमेवान्नं लघु स्निग्धं हिमं द्रवम्|
————————————————————|२८|


स०-मधुरमेवान्नं भजेत्- बाहुल्येन मधुरमन्नं सेव्यम्, न तथाऽन्यरसाघ्रातम्, इत्येवकाराल्लभ्यते| तथा, लघु स्निग्धं हिमं द्रवं चेति| चश्ब्दो लुप्तनिर्दिष्टो द्रष्टव्यः|


आ० र०-मधुरादिसेवां विधत्ते-भजेदिति| अन्नं मधुरमेव-मधुरैकरसम्| पानं तु मधुराम्लादिरसमपि, “नित्यं सर्वरसाभ्यासः” इति वचनाद्रसालादिविधानाच्च|

सामान्येन भोजनमुक्त्वा विशेषेणाह———-
————————————————————|
सुशीततोयसिक्ताङ्गो लिह्यात्सक्तून् सशर्करान्||२८||


स०-सक्तून् सशर्करान् लिह्यात्| सुष्ठु शीतं सुशीतं च तत्तोयं च, तेन सिक्तं- आप्लुतं, अङ्गं- कायो, यस्य स एवंभूतः सन्|


आ० र०-लोकस्य तीव्रतापश्रान्तत्वाच्छ्रान्तस्य च भोजननिषेधात्पूर्वं श्रमहरं विधत्ते-सुशीतेति| स्नानं सक्तवश्च श्रमहराः|

मद्यं न पेयं, पेयं वा स्वल्पं, सुबहुवारि वा|
————————————————————|२९|


स०-अस्मिन्काले मद्यं न पेयम्| पेयं वा स्वल्पमिति वातश्लेष्मप्रकृतिना श्लेष्मवातक्षयार्थमन्यर्तुवद्बहु न पेयम्, किंतर्हि ? स्वल्पमेव पातव्यम्| सुबहुवारि वेति पित्तश्लेष्मप्रकृतिना मद्योचितेन श्लेष्मक्षयार्थं पित्तप्रतीकारमपीच्छता सुबहुवारि तन्मद्यं पेयम्| इत्यत्रानुक्तोऽप्येवमर्थाद्विषयविभागो बोध्यः| अन्यथा निषेधविध्योर्विरोधः स्यात्|


आ० र०-मद्यस्य श्रमहरेष्वग्र्यत्वात्कामतः प्रसक्तं पानं निषेधति-मद्यमिति| अन्यतः श्रमापनुत्तौ सत्यां मद्यं न पेयम्, तीक्ष्णादिगुणत्वात्| असत्यां पेयं वा , किन्तु स्वल्पम्| स्वल्पेनाप्यसत्यां पूर्णमात्रं न पेयम्, किन्तु सुबहुवारि-बहुतरोदककृतं वा| पानानुग्रहश्च मद्यसात्म्यानामेव|

उक्तविध्यतिक्रमे दोषमाह————
————————————————————|
अन्यथाशोषशैथिल्यदाहमोहान् करोति तत्||२९||


स०-तत्- मद्यम्, अन्येन प्रकारेण पीतं सत् शोफादीन् करोति| शोफः- श्वयथुः| शैथिल्यं- अङ्गानामनैष्ठुर्यम्| दाहः- सर्वाङ्गीणस्तापः| मोहः- अज्ञानं जन्तोः|


आ० र०-उक्तविध्यतिक्रमे दोषमाह-अन्यथेति| शोषोमुखाशेषः| तत्-मद्यम्|

कुन्देन्दुधवलं शालिमश्नीयाज्जाङ्गलैः पलैः|
————————————————————|३०|


स०-कुन्दः- पुष्पविशेषः, इन्दुः- चन्द्रः, तयोर्द्वन्द्वः| कुन्देन्दुवद्धवलं- शुक्लं शालिं जाङ्गलैः पलैः- मांसैः सहाश्नीयात्- अद्यात्| “क्षुण्णः सितः स्मृतः शाली रक्तो व्रीहिरुदाहृतः”|


आ० र०-अन्नं विधत्ते-कुन्देन्द्विति| कुन्दं-पुष्पविशेषः| कुन्देन्दुग्रहणं लघुस्निग्धशीतगुणविशिष्टधवलत्वार्थम्| पलैः-मांसैः सह|

————————————————————|
पिबेद्रसं नातिघनं रसालां रागखाण्डवौ||३०||
पानकं पञ्चसारं वा नवमृद्भाजने स्थितम्|
मोचचोचदलैर्युक्तं साम्लं मृन्मयशुक्तिभिः||३१||
पाटलावासितं चाम्भः सकर्पूरं सुशीतलम्|३२|


स०-रसं नातिघनं पिबेत्| रसशब्देनादिलोपाख्यया तन्त्रयुक्त्या मांसरस उच्यते| तथा, रसालं- मार्जिकाख्यां पिबेत्| तथा, रागखाण्डवौ पानकं च पञ्चसाराख्यम्| एतेषां च लक्षणं तन्त्रान्तरे उक्तम्| यथा- “सितामध्वादिमधुरा रागास्तत्राच्छकान्तयः| ते साम्लाः खाण्डवा लेह्याः पेयाश्चांशुकगालिताः|| स्वाद्वम्लपटुकट्वाद्याः प्रलेहास्तत्र खाण्डवाः| गुडदाडिममांसाद्या रागा अंशुकगालिताः|| हृद्या वृष्या रुचिकरा ग्राहिणो रागखाण्डवाः” इति| तथा- “द्राक्षामधूकखर्जूरकाश्मर्यैः सपरूषकैः| तुल्यांशैः कल्पितं पूतं शीतं कर्पूरवासितम्|| पानकं पञ्चसाराख्यं दाहतृष्णानिवर्तकम्|” अन्यत्र चोक्तम्| यथा- “गुडदाडिमादियुक्ता विज्ञेया रागखाण्डवाः| त्रिजातमरिचाद्यैस्तु संस्कृताः पानकास्तथा ” इति| कीदृशं पानकं पिबेत् ? इत्याह- नवं यन्मृद्भाजनं तत्र स्थितम्| तथा, मोचं- कदलीफलं, चोचं- पनसफलं, तयोर्दलानि, तैर्युक्तम्| तथा, साम्लम्, तित्तिडीकादियोगात् खाण्डवरसानुगतम्| केचित्तु क्षीरं घृतपिप्पलीशशिमाक्षिकशर्करोपेतं पञ्चसारं पानकमित्याहुः| केन पिबेत् ? इत्याह- मृन्मयशुक्तिभिः| पाटलया वासितं- सुरभीकृतं, तथा सकर्पूरं सुशीतलं चाम्भः पिबेत्| मृन्मयशुक्तिभिरित्यत्रापि योज्यम्| सुश्रुते चोक्तम्- “परिपेलवया तुल्या गुडगुग्गुलुमुस्तकाः| चूर्णिताः शशिनोपेता नवभाजनधूपनम्|| कुष्ठमुस्तकसंयुक्तैः पेलवोशीरवालकैः| मृदिता मृत्सुपिष्टैस्तैः खदिराङ्गारपाचिताः|| सहकाररसाभ्यक्ताश्चम्पकोत्पलवालकैः| पद्मकुब्जककुन्दैश्च यथालाभाधिवासिताः|| श्रेष्ठः सलिलवासोऽयं स्मृतः सर्वर्तुको बुधैः”| इति|


आ० र०-पानं विधत्ते-पिबेदिति| रसं-मांसरसम्| नातिघनं-ईषत्सान्द्रम्| रसाला-करमथितं मरिचशर्करादियुक्तं दधि| मधुराम्ललवणकृतं पानकं-रागः| मधुराम्ललवणकटुकषायजं-खाण्डवः| पञ्चसारं पानकं-मध्वादिभिः पञ्चभिः कृतम्| वक्ष्यति हि (हृ. चि. अ. २/१३)- “मधुखर्जूरमृद्वीकापरूषकसिताम्भसा| मन्थो वा पञ्चसारेण सघृतैर्लाजसक्तुभिः|| इति| तच्च नवे मृन्मये पात्रे स्थितम्| मोचं-कदलीफलं, चोचं-नारिकेलं, तयोर्दलैः-शकलैर्युक्तम्| साम्लं-दाडिमाद्यैरम्लीकृतम्| मृन्मयीभिः शुक्तिभिः पिबेत्| तथा, अम्भः पिबेत्| तच्च पाटलापुष्पैरधिवासितं सकर्पूरं सुशीतलं च|

————————————————————|
शशाङ्ककिरणान् भक्ष्यान् रजन्यां भक्षयन् पिबेत्||३२||
ससितं माहिषं क्षीरं चन्द्रनक्षत्रशीतलम्|
————————————————————|३३|


स०-माहिषं क्षीरं ससितं- सशर्करं, रजन्यां- रात्रौ, पिबेत्| किम्भूतम् ? चन्द्रेण नक्षत्रैश्च शीतलम्| रात्रावाकाशे शैत्यार्थं स्थापितमित्यर्थः| किंकुर्वन् पिबेत् ? भक्ष्यान् भक्षयन्- भुञ्जन्| कीदृशान् ? शशाङ्ककिरणान्- कर्पूरनाडिकाख्यान्| [ (हृ.चि.अ.५/४९)- “तालीसचूर्णवटकाः सकर्पूरसितोपलाः| शशाङ्ककिरणाख्यास्तु भक्ष्या रुचिकराः परम्||”]


आ० र०-रात्रिभोजनं विधत्ते-शशाङ्ककिरणानिति| रजन्यां पुनः शशाङ्ककिरणान् भक्ष्यान् भक्षयन् चन्द्रनक्षत्रशीतलं सशर्करं माहिषं क्षीरं पिबेत्| शशाङ्कः-कर्पूरः, कीर्यते-विक्षिप्यते, येषु ते शशाङ्ककिरणाः,- कर्पूरनालिकादयः| चन्द्रेण तस्याभावे नक्षत्रैर्वा शीतलीकृतं चन्द्रनक्षत्रशीतलम्|

————————————————————|
अभ्रङ्कषमहाशालतालरुद्धोष्णरश्मिषु||३३||
वनेषु माधवीश्लिष्टद्राक्षास्तबकशालिषु|
————————————————————|३४|


स०-अभ्रं- आकाशं, कषन्ति- उल्लिखन्ति, अत्युच्चतयाऽभ्रङ्कषाः| महान्तश्च ते शालाश्च तालाश्च महाशालतालाः| अभ्रङ्कषाश्च ते महाशालतालाश्च, तै रुद्धः- स्थगितः, उष्णरश्मिः- दिनकरो येषु वनेषु तेषु, मध्यन्दिने- मध्याह्ने, अर्कतापार्तः सन् स्वप्यात्- शयीत| माधव्यो- लताविशेषा अतिमुक्तकाख्याः, तासु श्लिष्टा माधवीश्लिष्टाः द्राक्षायास्तबकाः- गुच्छका द्राक्षास्तबकाः| माधवीश्लिष्टाश्च ते द्राक्षास्तबकाश्च, तैः शालितुं- श्लाघितुं शीलं येषां वनानां तानि माधवीश्लिष्टद्राक्षास्तबकशालीनि, तेषु वनेषु|


आ० र०-स्थानविशेषे निद्रां विधत्ते-अभ्रङ्कषेति| अभ्रङ्कषाः-अत्युच्चाः| महान्तः-स्थूलाः| माधवीषु-वासन्तीषु, श्लिष्टाः-लग्नाः, द्राक्षास्तबका यासु शालासु-लतागृहेषु, तद्वन्ति यानि वनानि|

कस्मिन् स्वप्यात् ? इत्याह—————
——————————————–|
सुगन्धिहिमपानीयसिच्यमानपटालिके||३४||
कायमाने चिते चूतप्रवालफललुम्बिभिः|
——————————————–|३५|


स०-कायमाने- वेण्वादिनिष्पादिते गृहविशेषे| कीदृशे ? सुगन्धि च तद्धिमं च तत्पानीयं च तत्सुगन्धिहिमपानीयम्| पटानां- वस्त्राणां, आलिः- पङ्क्तिः, पटालिः| सुगन्धिहिमपानीयेन सिच्यमाना पटालिर्यस्मिन्नसौ सुगन्धिहिमपानीयसिच्यमानपटालिकः, तस्मिन् तथाविधे कायमाने| तथा, प्रवालाः- किसलयानि| फलानां लुम्बयः- स्तबकाः| प्रवालाश्च फललुम्बयश्च प्रवालफललुम्बयः| चूतानां प्रवालफललुम्बयस्ताभिः, चिते- परितो व्याप्ते|


आ० र०-पटालिकाः-पङ्क्तिमत्यो नवास्तृणादिरचिता भित्तयः| कायमाने-शिबिरे| प्रवालाः-पल्लवाः| फललुम्बयः-फलस्तबकाः|

ईदृशे कायमाने स्थितो यादृशे शयने शयीत तन्निरूपयन्नाह—————
——————————————–|
कदलीदलकह्लारमृणालकमलोत्पलैः||३५||
कोमलैः कल्पिते तल्पे हसत्कुसुमपल्लवे|
मध्यंदिनेऽर्कतापार्तः स्वप्याद्धारागृहेऽथवा||३६||
पुस्तस्त्रीस्तनहस्तास्यप्रवृत्तोशीरवारिणि|
——————————————–|३७|


स०-कदलीत्यादि| तल्पे- शयने, कल्पिते| कैः ? कदलीदलादिभिः| कदल्याः- रम्भायाः, दलानि- पत्राणि, कह्लारं- सौगन्धिकम्, मृणालं- बिसम्, कमलं- पद्मम्, उत्पलं- कुमुदम्, एतेषां द्वन्द्वः| तैः कदलीदलादिभिः, कोमलैः- सुकुमारस्पर्शैः, कल्पिते- रचिते| किम्भूते ? कुसुमानि च पल्लवाश्च कुसुमपल्लवाः| हसन्त इव कुसुमपल्लवा यत्र तस्मिन्| धारागृहेऽथवा स्वप्यादिति वर्तते| धारागृहं- अविरतं यतो जलधाराः पतन्ति| किम्भूते ? पुस्तस्त्रीस्तनहस्तास्यैः प्रवृत्तमुशीरवारि यत्र तस्मिन्| पुस्तो- दार्वादिमय्याः स्त्र्याद्याकृतेरुपादानकारणं यद्वस्तु तदुच्यते|


आ० र०-कल्हारं-सन्ध्याविकाशि पद्मिनीपुष्पम्| कमलं-दिनविकाशि| उत्पलं-रात्रिविकाशि| मृणालानि-बिसानि| तल्पे-शयने| हसत्कुसुमाः-विकसन्मल्लिकादिपुष्पाः, पल्लवाः-पर्यन्ताः, यस्य तत्तथा| अथवा धारागृहे स्वप्यात्| यत्र यन्त्ररचनाविशेषेण रचिता जलसीकराः प्रसरन्ति, तद्धारागृहम्| पुस्तस्त्रियो-दार्वादिमय्यः पुत्रिकाः, तासां स्तनादिभ्यः प्रवृत्तमुशीरवारि-सेव्योदकं यत्र तत्तथा|

——————————————–|
निशाकरकराकीर्णे सौधपृष्ठे निशासु च||३७||
आसना——————————————–|
——————————————–|३८|


स०-निशासु- रात्रिषु, सौधपृष्ठे- हर्म्यतले, आसना- स्थितिः| कार्येत्यध्याहार्यम्| तत्रासीतेत्यर्थः| किम्भूते सौधपृष्ठे ? निशाकरः- शीतांशुः, तस्य कराः- गभस्तयः, तैराकीर्णे- व्याप्ते|


आ० र०-निशासु पुनश्चन्द्ररश्मव्याप्ते हर्म्यमस्तके स्वप्यात्|

———स्वस्थचित्तस्य चन्दनार्द्रस्य मालिनः|
निवृत्तकामतन्त्रस्य सुसूक्ष्मतनुवाससः||३८||
जलार्द्रास्तालवृन्तानि विस्तृताः पद्मिनीपुटाः|
उत्क्षेपाश्च मृदूत्क्षेपा जलवर्षिहिमानिलाः||३९||
कर्पूरमल्लिकामाला हाराः सहरिचन्दनाः|
मनोहरकलालापाः शिशवः सारिकाः शुकाः||४०||
मृणालवलयाः कान्ताः प्रोत्फुल्लकमलोज्ज्वलाः|
जङ्गमा इव पद्मिन्यो हरन्ति दयिताः क्लमम्||४१||


स०-स्वस्थचित्तस्य- रागाद्यनुपहतमनसः, जलार्द्राः क्लमं हरन्ति| एवं तालवृन्तादयो योज्याः| अन्तर्दीपकत्वादस्य| तथा च कीदृशस्य ? चन्दनार्द्रस्य- चन्दनेनानुलिप्तस्य| तथा, मालिनः- स्रग्विणः| तथा, निवृत्तं कामतन्त्रं- पुष्पधन्वपरिच्छदो यस्य| तथा, सुष्ठु सूक्ष्मे तनुनी स्वच्छे वाससी यस्य स एवम्| जलार्द्राः- पानीयप्लुताः शाटिकाः| तालवृन्तानि- मयूरपिच्छादिकृतानि तालवृन्ताकृतीनि व्यजनानि| तथा, विस्तृताः- महान्तः, पद्मिनीपुटाः- नलिनीपत्राणि, वीजनार्थम्| तथा, उत्क्षेपाः- मयूरपिच्छादिकृता व्यजनविशेषाः| ते च किम्भूताः ? मृदुरुत्क्षेपो येषु ते मृदूत्क्षेपाः| जलवर्षी हिमोऽनिलो येषु उत्क्षेपेषु ते जलवर्षिहिमानिलाः| शीतजलाभ्युक्षितैरेतैर्वातः कार्य इत्यर्थः| कर्पूरेत्यादि| मालाशब्दः प्रत्येकं युज्यते| स्फटिककर्पूरग्रथिता माला मल्लिकामालाश्चेत्यर्थः| तथा, हाराः- मुक्ताफलदामानि| किम्भूताः ? सह हरिचन्दनेन वर्तन्त इति सहरिचन्दनाः| यत् छेदे लोहितमतिसुगन्धि सुष्ठु शीतवीर्यं च, तद्धरिचन्दनमुच्यते| मनोहरेत्यादि| मनोहरो- रम्यः, कलो- मधुरः, आलापो येषां ते मनोहरकलालापाः| शिशवो- बालकाः| तथा, सारिकाः- शरारयः| शुकाः- कीराः| मृणालेत्यादि| मृणालानि- अतिकोमलानि बिसानि, वलयाः- कटकानि, यासां ताः| दयिताः- योषितः| किम्भूताः ? कान्ताः- रम्याः| तथा, प्रोत्फुल्लैः विकसितैः, कमलैरुज्ज्वलाः- शोभिताः| एवम्भूताश्चोत्प्रेक्ष्यन्ते, जङ्गमाः- सञ्चारिण्य इव पद्मिन्यः| क्लमं हरन्तीति योज्यम्| स्वस्थचित्तस्येति प्राधान्यख्यापनार्थं प्रागुपात्तम्| स्वस्थचित्तस्यैवैते जलार्द्रादयः क्लमं हरन्ति, न तथोपतप्तमनसः| [तथा हि- चन्दनार्द्रादिसकलविशेषेण विशेषितस्याप्युपतप्तमनसो न तथा क्लमं हरन्ति|] चित्तायत्ता हि सर्वभावानां शुभाशुभप्रवृत्तयः| तथा च स्निग्धमधुरोऽप्याहार उपयुक्तः, सुखशय्यादिरपि विहारः सेवितः, शोकाविष्टचेतसो न तथा शरीरस्य पुष्टिमादधाति| अत एव “शोकः शोषणानाम्” इत्यग्र्यसङ्ग्रहे (चरके सू.अ.२५/३९, सङ्ग्रहे सू.अ.१३) प्रोक्तम्| तथा, रूक्षोऽप्याहारस्तथाविधो विहारश्च सेवितो निर्वृत्तमनसः पुष्टिमेवादधाति, न कार्श्यम्| तथा चोक्तम् (च.सू.अ.२५/३९, सं.सू.अ.१३)- “निर्वृतिः पुष्टिहेतूनाम्” इति| सुश्रुते च क्लमस्य लक्षणमुक्तम् (शा.अ.४/५१)- “योनायासः श्रमो देहे प्रवृद्धः श्वासवर्जितः| क्लमः स इति विज्ञेय इन्द्रियार्थप्रबाधकः” इति|


आ० र०-क्लमहरत्वकथनद्वारेणासनादीनि विधत्ते-आसनेति| स्वस्थचित्तत्वादिविशिष्टस्य या आसना-आस्या, सा क्लमं हरति| स्वस्थचित्तस्य-निर्वृत्तमनसः| चन्दनार्द्रस्यकर्पूरयुक्तचन्दनार्द्रस्य| तदुक्तम्-“कर्पूरचन्दनार्द्राङ्गो मृदुघर्मोत्तरच्छदः” इति| मालिनः-मालाभूषितस्य| निवृत्तकामतन्त्रस्य-सुरतविमुखस्य| तनु-विरलं, वासो यस्य| जालार्द्रादयो व्यजनविशेषाः क्लमं हरन्ति| जालार्द्राः-वस्त्रमयानि व्यजनानि| तालवृन्तानि-तालवृन्तजयानि| विस्तृताः-ये व्यजनकाले विस्तीर्यन्ते| पद्मिनीपुटाः-पद्मिनीपुटमयानि| उत्क्षेपाः-नलिकाप्रविष्टदण्डत्वादर्ध्वमधश्चाम्भः क्षिपन्ति| ते च सर्वे जलार्द्रादयो मृदूत्क्षेपाः-मन्दान्दोलनाः| जलवर्षी हिमानिलो येषां ते तथा| कर्पूरमालादयः क्लमं हरन्ति| कर्पूरग्रथिता मल्लिकाग्रथिताश्च मालाः| सहरिचन्दनाः-पीतचन्दनमणिमिश्रिताः, हाराः-मुक्तावलयः| मनोहराः-सुन्दराकारः, कलालापः-मधुरालापाश्च, शिशवः शुकाः सारिकाश्च| मृणालादिधारणाज्जङ्गमाः पद्मिन्य इव याश्च स्त्रियः, ताश्च क्लमं हरन्ति|

इदानीं वर्षाचर्यां निर्दिदिक्षुरिदमाह———————
आदानग्लानवपुषामग्निः सन्नोऽपि सीदति|
वर्षासु दोषैर्दुष्यन्ति तेऽम्बुलम्बाम्बुदेऽम्बरे||४२||
सतुषारेण मरुता सहसा शीतलेन च|
भूबाष्पेणाम्लपाकेन मलिनेन च वारिणा||४३||
वह्निनैव च मन्देन, तेष्वित्यन्योन्यदूषिषु|
भजेत्साधारणं सर्वमूष्मणस्तेजनं च यत्||४४||


सं-आदानमुक्तम्, तेनादानाख़्येन कालेन ग्लानं-सक्लमं, वपुः-शरीरं, येषां पुरुषाणां ते आदानग्लानवपुषः, तेषामपचितधातूनामग्निरप्यपचितः सन्नो-मन्दः सन्, पुनर्वर्षासु सीदति-हानिं याति| अपिशब्दः पुनरर्थे, अनेकार्थत्वान्निपातानाम्| वर्षास्विति नित्यबहुत्वाद्बहुवचनम्| केन सीदति ? इत्याह-कालस्वभावाद्दोषैः,-वातपित्तश्लेष्मभिः, दुष्टैरित्यनुक्तमप्यर्थाद्गम्यते| यतोऽग्निसादहेतुत्वमदुष्टानां तेषां न सम्भवति| तस्माद्दुष्टैर्दोषैरग्निः सीदतीत्यर्थाल्लभ्यते| ननु, कथं वर्षासु दोषाणां दुष्टत्वं स्यात् ? इत्याह-दुष्यन्तीत्यादि| ते दोषा दुष्यन्ति| कदा ? अम्बरे-वियति, अम्बुलम्बाम्बुदे-अम्बुना लम्बा अतिनिर्भरत्वादम्बुलम्बा ईदृशा अम्बुदाः-मेग़ाः, यस्मिन्नेवंविधे सति| अनेन च विशेषणेनास्य कालस्य स्वरूपमुपलक्षयन्त्याचार्याः| यदैवंविधो वर्षाकालः सम्पद्यते, तदैवैते दोषा दुष्यन्ति-स्वकर्मण्ययोग्याः सम्पद्यन्ते, न वर्षाकालमात्रेऽनासादितस्वरूपे| तथा, सतुषारेण मरुता-सजलकणेन पवनेन, तथा, सहसा-ग्रीष्मतापसन्तापादनन्तरमेव, शीतलेनाभ्यन्तरो वायुर्दुष्यति| तथा, भुवो बाष्पः-ऊष्मा भूबाष्पस्तेन| तथा, कालस्वाभाव्याच्चाम्लपाकेन वारिणा पित्तं दुष्यति| तथा, मलिनेन वारिणा-लूतादितन्तुविण्मूत्रेत्यादिकलुषेण वर्षाजलेन, कालस्वाभाव्याच्चातिशयेन मन्दत्वं गतेनाग्निना श्लेष्मा दुष्यति| तदेवमस्मिन्काले वातपित्तश्लेष्माणो युगपत्कालस्वाभाव्याद्दुष्यन्ति| नन्विह त्रयाणामपि दोषाणां कोपोऽनुज्ञायते| वक्ष्यति तु (हृ.सू.अ. १२|२४)-“चयप्रकोपप्रशमा वायोर्ग्रीष्मादिषु त्रिषु” इति| तदिमे वचसी परस्परं व्याघ्नाते| अत्रोच्यते| नानयोर्वाक्ययोर्मिथो विरोधः सम्भाव्यते| यस्मादिह दुष्यन्तीत्युक्त्या स्वस्थानस्था एव दुष्टिं प्राप्ता विषादिस्पृष्टद्रव्यवत्कार्यकरणेऽसमर्था जायन्त इत्युक्तम्| चयप्रकोपप्रशमा इत्यत्र प्रकर्षेण कोपः स्थानान्तरगतिलक्षणो गदितः| तदेवमस्मिन् काले वायोः कदाचिद्दुष्टत्वं स्यात् कदाचित्कोपश्च, इति वचनाभ्यामेताभ्यां प्रत्यपादि| पित्तश्लेष्मणोस्तु दुष्टत्वमात्रमेव| इति न किञ्चिदत्रासमञ्जसम्| तेष्वित्यादि| इति-प्रकारे| अन्योन्यं दूषयितुं शीलं येषां वातादीनां त एवम्, तेषु-अनेन प्रकारेण परस्परं दूषणस्वभावेषु सत्सु, भजेत्साधारणं सर्वं-यत्किञ्चिद्वातादीनां युगपत् प्रशमनं प्रशमनं तत्सर्वं सेवेत| यच्चोष्मणो जाठराग्नेः, तेजनं-उद्दीपनं, तद्भजेत्| ऊष्मणस्तेजनस्यात्र चशब्दप्रयुक्तस्योपादानं प्राधान्यख़्यापनार्थम्| अग्निर्हि सर्वभावानां प्रधानम्| तथा च वक्ष्यति (सङ्ग्रहे शा.अ.६)- “शान्तेऽग्नौ म्रियते, युक्ते चिरं जीवत्यनामयः| रोगी स्याद्विकृते, मूलमग्निस्तस्मान्निरुच्यते” इति| तस्मादग्न्युत्तेजनार्थं यत्नः कार्य इति भावः| भजेदिति क्रियापदं आदिदीपकत्वात् “भोजनं त्वतिदुर्दिने” इति यावत्सर्वेषु योज्यम्|


आ० र०-अथ वर्षाचर्या| सा च चयपूर्वके प्रकोपे शोधनी, अचयपूर्वके शमनी| तत्र सोपपत्तिकमुभयचर्या साधारणं विधत्ते-आदानम्लनवपुषामिति| यत्साधारणंसर्वदोषहरं, यच्चोष्मणस्तेजनं-अग्निदीप्तिकरं, तत्सर्वं वर्षासु भजेत्| केषु सत्सु ? तेषु-अग्निदोषेषु, अन्योन्यदूषिषु-कृतपरस्परदूषणेषु सत्सु| सर्वेषां दुष्टत्वार्सर्वसाधारणं भजेदित्यर्थः| कथमन्योन्यदूषणम् ? इति,-अनेन प्रकारेण| आदानेनावसन्नदेहानामग्निरपि देहावयवत्वादवसन्नोऽपि पुनर्दोषैः सीदति-मन्दत्वलक्षणां दुष्टिं याति| ते च दोषा आदानमन्देन वह्निना दुष्यन्ति-दुष्टिं यान्ति| वह्नेः सहकारीण्याह-अम्बुलम्बाम्बुदेऽम्बरे,- जलभरलम्बमानमेग़े नभसि सति, सतुषारेण-सजलकणेन्, सहसा प्रवृत्तेन शीतलेन च वायुना दुष्यन्ति, भूवाष्पेण च दुष्यन्ति, अम्लपाकेन मलिनेन च वारिणा दुष्यन्ति| दुष्टिश्चात्र वायोश्चयपूर्वकः प्रकोपः, “चयप्रकोप्रशमा वायोर्ग्रीष्मादिषु त्रिषु” इति (हृ. सू. अ. १२/२४) वचनात्| पित्तस्य चयलक्षणा दुष्टिः, वर्षादिषु तु पित्तस्य” इति (हृ. सू. अ. १२/२४) वचनात्| कफस्य त्वचयपूर्वकः प्रकोपः| उक्तं हि चरकेण (सू. अ. ६/३३) _”भूवाष्पान्मेग़निष्यन्दात्पाकादम्लाज्जलस्य च| वर्षास्वग्निबले हीने कुप्यन्ति पवनादयः||” इति| चरकवचनेऽपि पित्तप्रकोपशब्देन चयमात्रं लक्ष्यम्, “चयप्रकोपप्रशमाः पित्तादीनां यथाक्रमम्| भवन्त्येकैकशः षट्सु कालेष्वभ्रागमादिषु||” इति (च. सू. अ. १७/११२) स्ववचनविरोधभायात्|

किं तत्साधारणमिति? तदुदाहरणार्थमाह———————-
आस्थापनं शुद्धतनुर्जीर्णं धान्यं रसान् कृतान्|
जाङ्गलं पिशितं यूषान् मध्वरिष्टं चिरन्तनम्||४५||
मस्तु सौवर्चलाढ्यं वा पञ्चकोलावचूर्णितम्|
दिव्यं कौपं शृतं चाम्भो भोजनं त्वतिदुर्दिने||४६||
व्यक्ताम्ललवणस्नेहं संशुष्कं क्षौद्रवल्लघु|
————————————————–|४७|


स०–शुद्धा तनुर्यस्य स एवम्भूतः-कृतविरेकादिः सन्, आस्थापनं-निरूहं, भजेत्| तथा, जीर्णं धान्यं-पुराणयवगोधूमादिकम्| तथा, रसान्-मांसरसान्| किम्भूतान् ? कृतान्,- स्नेहशुण्ठ्यादियुतान्| तथा, जाङ्गलं पिशितं-हरिणैणादिकं मांसम्| तथा, यूषान्-मुद्गदाडिमादिकृतान्| तथा, मधु-मार्द्वीकम्, अरिष्टम्, द्वयमप्येतत् चिरन्तनं-पुराणम्, न तु नवम्, आग्निमान्द्यभयात्| मस्तु सौवर्चलाढ्यं-अक्षलवणसंयुक्तम्| वेति समुच्चये| किम्भुतं मस्तु ? पिप्पलीपिप्पलीमूलचव्यचित्रकनागराः पञ्चकोलम्, तेनावचूर्णितम्| तथा, दिव्यं आकाशजं, तथा कौपं, तथा शृतं-क्वथितं, चाम्भः पिबेत्| चः समुच्चये| दिवि भवं दिव्यम्, दिगादित्वाद्यत्| कूपे भवं कौपम्, प्राग्दीव्यतोऽण्| अतिदुर्दिने-वातवर्षाकुलेऽहनि, व्यक्ताः-प्रधानाः, अम्ललवणस्नेहा यत्र तद्भोजनं भजेत्| तथा, संशुष्कं-शुष्कप्रायम्| तथा, क्षौद्रवत्-समाक्षिकम्| तथा, लघु| ननु, “वातलं मधु” इति (हृ.सू.अ. ५|५२) वक्ष्यति| पवनश्चात्र कुप्यतीत्युक्तम्| अतो माक्षिकस्यात्रोपयोगो न युक्तः| अत्रोच्यते| देहधातवोऽस्मिन् काले क्लेदमुपयान्ति| ततश्च क्लेदसंरक्षणे एवोपक्षीणप्रभवत्वात् मधु मरुत्कोपं विधातुमसमर्थम्| तस्मान्मधूपयोगो न्याय्य एव|


आ० र०-शोधनीं विधत्ते-आस्थापनमिति| शुद्धतनुः-कृतविरेचनः सन्, आस्थापनं-बस्तिकर्म, भजेत्|

शमनीं विधत्ते-जीर्णं धान्यमिति| जीर्णं-पुराणम्| रसान्-मांसरसान्| कृतान्-पटुकट्वम्लस्नेहयुतान्| पिशितं-मांसम्| यूषान्-धान्यक्वाथान्, तानपि कृतान्| मधु-मार्द्वीकम्, अरिष्टं-क्वथितौषधमद्यम्, द्वयमपि चिरन्तनम्| पञ्चकोलावचुर्णितं सौवर्चललवणाढ्यं च मस्तु-दधिमण्डम्| दिव्यं-आन्तरिक्षम्| तच्चातीताश्विनगृहीतं काचादिपात्रस्थम्, वर्षासु ग्रहणनिषेधात्| तदभावे कौपम्, तच्च शृतम्| उक्तं हि सङ्ग्रहे (सू. अ. ४)- “दिव्यं क्वथितकूपोत्थं चौण्ड्यं सारसमेव च|” इति|

वर्षाविशेषे भोजनविशेषमाह-भोजनं त्विति| अतिदुर्र्दिने-वातवर्षाकुलेऽहनि| संशुष्कं-कुल्माषादि| क्षौद्रवत्समाक्षिकम्| वातलमपि मधु क्लेदघ्नत्वात्कालसामर्थ्येन वा अवातलत्वाद्विहितम्| उक्तं हि सङ्ग्रहे (सू. अ. ७)- “वातलं वातकोपेऽपि वर्षासु मधु शस्यते” इति|

अथाऽत्र काले यादृशः पुरुषः स्यात्तं दर्शयति————-
—————————————-|
अपादचारी सुरभिः सततं धूपिताम्बरः||४७||
हर्म्यपृष्ठे वसेद्बाष्पशीतशीकरवर्जिते|
———————————————|४८|


स०-पादाभ्यां चरति नित्यं पादाचारी, नैव यः सोऽपादचारी,-यानयायी स्यात्| तथा, सुरभिः-शोभनगन्धयोगात्| “स्नानशीलः सुसुरभिः” (हृ.सू.अ. २|३१) इत्यनेनैवास्यार्थस्योक्तत्वात् सुरभिग्रहणमतिशयार्थम्| तथा, सततं अविरतं, धूपितेऽम्बरे यस्य स एवम्| तथा, हर्म्यपृष्ठे-धवलगृहतले, वसेत्-तिष्ठेत्| कीदृशे ? बाष्पश्च शीतं च शीकरश्च तैर्वर्जिते|


आ० र०-अपादचारित्वादि विधत्ते-अपादचारीति| अपादचारी-सततं हस्त्यादिवाहनगामी| धूपिताम्बरः-अगुर्वादिधूपितवस्त्रः| सततमिति त्रिष्वपि सम्बन्धनीयम्| अतएव “स्नानशीलः सुसुरभिः” इत्यस्यापौनरुक्त्यम्|

स्थानविशेषे वासं विधत्ते-हर्म्यपृष्ठ इति| हर्म्यपृष्ठे-हर्म्यमस्तके|

——————————————|
नदीजलोदमन्थाहःस्वप्नायासातपांस्त्यजेत्||४८||


स०-तथा, नदीजलादीन् पञ्च त्यजेत्| उदकालोडिताः सक्तवः ससर्पिष्का उदमन्थवाच्या जलावक्षीरीसंज्ञाः| तदत्र काले साम्यत्वात्सक्तवस्तक्रादिसंयोगान्नात्यन्तमनिष्टाः| पानीय संयोगात्तु वातलाः, प्रकृष्टवातले काले नाभीष्टा एव| मुनिना त्वेवमुक्तम् (च. सू.अ. ६|३४)- “उदमन्थं दिवास्वप्नमवश्यायं नदीजलम्| व्यायाममातपं चैव व्यवायं चात्र वर्जयेत्” इति|


अधुना शरच्चर्यां विवक्षुरिदमाह-


आ० र०-नदीजलादीन् निषेधति-नदीजलेति| द्रवालोहिताः सक्तवो मन्थः, स एवोदके द्रवे उदमन्थः| आयासो-व्यायामः|

वर्षाशीतोचिताङ्गानां सहसैवार्करश्मिभिः|
तप्तानां सञ्चितं वृष्टौ पित्तं शरदि कुप्यति||४९||
तज्जयाय घृतं तिक्तं विरेको रक्तमोक्षणम्|
——————————————|५०|


स०-वर्षासु शीतं वर्षाशीतं, तदुचितं-सात्म्यं यस्य, तदेवंविधमङ्गं-वपुर्येषां ते वर्षाशीतोचिताङ्गा नराः, तेषां सहसैव-झटित्येव, शरदि जातायां, अर्करश्मिभिः-भानुभाभिस्तप्तानां सतां पित्तं कुप्यति| किम्भूतम् ? वृष्टौ सञ्चितं,-वर्षासु वृद्धिं गतम्| यतश्चैवं ततश्च तज्जयाय तिक्तं घृतं-कुष्ठचिकित्सितोक्तं, योज्यमिति वाक्यशेषः| यदि वा, तिक्तैर्द्रव्यैः साधितम्| तथा, विरेको योज्यः| तथा, रक्तमोक्षणं च| सर्वोपक्रमेभ्यः पित्ते विरेकस्य ज्यायस्त्वादिह पूर्वमुपन्यासः| तथा ह्याह (चरके सू.अ. २५|३९)- “विरेचनं पित्तहराणाम्” इति| ततो रक्तमोक्षणं, पित्ताधारत्वाद्रक्तस्य| विरेचनाङ्गत्वाच्च तज्जयाय घृतं तिक्तमिति घृतस्य पूर्वमुपन्यासः| न ह्यस्निग्धस्य विरेचनप्राप्तिरस्ति| तथा च वक्ष्यति (हृ. सू. अ. १८|५९)- “स्नेहस्वेदावनभ्यस्य कुर्यात्संशोधनं तु यः| दारु शुष्कमिवानामे शरीरं तस्य दीर्यते” इति| तथा, विरिक्तस्य स्रुतरक्तस्य च पवनप्रकोपभयम्| कालस्वाभाव्याच्च पित्तकोपभयम्| तदेतत्परिहर्तुं तथा देहपुष्ट्यर्थमग्निसन्धुक्षणार्थं च तिक्तघृतोपयोगः कार्यः| इत्यनेककार्यकरणत्वेन प्राधान्याच्च तिक्तघृतस्य पूर्वमुपन्यासः| असमासकरणं च ज्ञापनार्थम्| नैतानि सर्वाण्यवश्यं तिक्तघृतादीनि तदा कार्याणि| किं तर्हि ? देशाद्यनुरोधात् कदाचित्पित्तविजयाय तिक्तं घृतं, कदाचिद्विरेकः, कदाचिद्रक्तमोक्षः, कदाचिद्द्वयं, कदाचित्सकलान्येवेति| विरेकस्तु पित्तविजयार्थमवश्यं शरदि कार्यः| यथा-वसन्ते श्लेष्मविजयाय वमनम्, वर्षासु च पवनविजयाय बस्तिः| अत एव प्राङ्निर्दिष्टं वसन्ते वमनं, वर्षासु चास्थापनं, शरदि विरेक इति|


आ० र०-अथ शरच्चर्या| सा च चयपूर्वके शोधनी, अचयपूर्वके शमनी| तत्र सोपपत्तिकां शोधनीं विधत्तेवर्षाशीतोचिताङ्गानामिति| वर्षासु सञ्चितं पित्तं वार्षिकशीतसात्म्यशरीराणां नृणां शरद्यर्करश्मिभिः सहसैव तप्तानामसात्म्यतापसम्बन्धात्कुप्यति| अतस्यस्य-पित्तस्य, जयाय तिक्तं-तिक्तसंज्ञं कुष्ठचिकित्सितोक्तं, घृतं स्नेहनार्थं योज्यम्| ततो विरेकस्ततो रक्तमोक्षणम्|

———————————————–|
तिक्तं स्वादु कषायं च क्षुधितोऽन्नं भजेल्लघु||५०||
शालिमुद्गसिताधात्रीपटोलमधुजाङ्गलम्|
———————————————–|५१|


स०-क्षुधितोऽन्नं-भोजनं, तिक्तादिगुणयुक्तं भजेत्| क्षुधितग्रहणमतिबुभुक्षितप्रतिपादनार्थम्, अक्षुधितस्य भोजनाधिकाराभावात्| किं तत्तिक्तादिगुणयुक्तम् ? इत्याह-शालीत्यादि| शाल्यादीन् सप्त भजेत्|


आ० र०-शमनीं विधत्ते-तिक्तमिति| क्षुधितः सन् तिक्तादिरसं लघु शाल्यादिकमन्नं भजेत्| क्षुधितग्रहणमतिक्षुधितस्य भोजनार्थम्| तदा हि पित्ताधिक्यादसम्यक्क्षुध्यपि क्षुधितत्वबुद्धिः| उक्तं च चरकेण (सू. अ. ६/४१)- “पित्तपशमनं सेव्यं मात्रया सुप्रकाङ्क्षितैः|” इति| शाल्यादिग्रहणं तत्तुल्यानामेव तिक्तादीनां प्राप्त्यर्थम्| सिताशर्करा| धात्री-आमलकी|

————————————————–|
तप्तं तप्तांशुकिरणैः शीतं शीतांशुरश्मिभिः||५१||
समन्तादप्यहोरात्रमगस्त्योदयनिर्विषम्|
शुचि हंसोदकं नाम निर्मलं मलजिज्जलम्||५२||
नाभिष्यन्ति न वा रूक्षं पानादिष्वमृतोपमम्|
————————————————–|५३|


स०-समन्तात्-सर्वतः, सूर्यप्रभाभिरहनि तप्तं-क्वथितम्, चन्द्रकिरणैर्निशि शीतीकृतम्| तथा, अगस्त्योदयेन निर्विषीकृतम्| तथा, शुचि-पवित्रम्| वर्षासु ह्यशुचीत्युक्तम्| तच्च हंसोपभोग्यतया हंसवदतिनैर्मल्याद्धंसोदकं नाम तन्त्रकारैरायुर्वेदशास्त्रे संज्ञितम्| तथा, निर्मलं-अकलुषम्| तथा, मलान्वातपित्तश्लेष्मणो, जयतीति मलजित्| अगस्त्योदयनिर्विषशब्देन विशेषणेनैतत् प्रतिपादयति, यथा-यदन्तरिक्षप्रभवं सरस्तडागादिस्थं जलं, तदेव प्रायेण शरद्येवंगुणं वेद्यम्| न कूपादिप्रभवम्, तस्य सदा निर्विषत्वात्| तथा चान्तरिक्षप्रभवमेवं पठ्यते (हृ. सू. अ. ५|८)- “लूतादितन्तुविण्मूत्रविषसंश्लेषदूषितम्” इति| तच्च नाभिष्यन्दि-न स्रुतिरूपश्लेष्मकारि, न वा रूक्षं-न वातप्रकोपकारि| वाशब्दश्च शब्दस्यार्थेऽत्र| यतस्तप्तांशुकिरणैस्तप्तम्, यतश्च शीतांशुकरैः शीतं-प्राह्लादितम्, इत्थं स्नेहरौक्ष्ययोरन्तरे वर्तमानं पानादिष्वमृतोपमम्| आदिशब्देन स्नानावगाहयोर्ग्रहः| कुपितदोषशमनादकुपितदोषसाम्यानुवृत्तिहेतुत्वाच्चामृततुल्यमेतज्जलं भजेदिति योज्यम्| अत्रोष्णांशुग्रहणमग्नितापनिवृत्त्यै| किरणग्रहणं साक्षात्तत्स्पर्शसम्भावनार्थम्| तृणदवपलाशादिभिरास्तृतमपि रविस्तापयति न तु तत्तथा गुणवत्| अतः किरणग्रहणेन तद्व्यवधानव्युदासं करोति| ननु च, सर्वं दिनं सूर्यकिरणैस्तापः सम्भवति| चन्द्रकरैस्तु सर्वां रात्रिं कथमिव स्यात् ? यतः सकलस्य चन्द्रमसः पौर्णमास्यामेव सर्वस्यां रात्र्यां सम्भवो नान्यत्र| तस्माच्छीतं चन्द्रकिरणै रात्र्यामिति नैतद्युक्तम्| अत्रोच्यते| विमले व्योमनि यथैव रविचन्द्रौ यथाकालमव्याहतस्वरूपं प्राप्तौ पथ्यतां जलस्यापादयतस्तद्वन्नक्षत्राण्यपि| तस्मान्नक्षत्रैरपि शीतं चन्द्रेणेव श्रेष्ठमेव भवत्युदकम्| एवं चैतदवगच्छेत्, अन्यथैतद्वाक्यमयुक्तमिव स्यात्| चरकमुनिनाप्यनेनैवाऽभिप्रायेण नक्षत्रग्रहणं नाकारि| यथा (च. सू. अ. ६|४५)- “दिवा सूर्यांशुसन्तप्तं निशि चन्द्रांशुशीतलम्|” इति| अष्टाङ्गसङ्ग्रहेऽप्युक्तम् (सू.अ. ४.)- “दिवा दिवाकरकरैर्निशाकरकरैर्निशि” इति| अत्र हि सकलस्याहोरात्रस्य रविशशियोगाय दिवानिशाग्रहणम्, अन्यथैतदनर्थकं स्यात्, व्यभिचाराभावात्|


आ० र०-हंसोदकं विधत्ते-तप्तमिति| किरणरश्मिग्रहणं साक्षात्सम्बन्धार्थम्| समन्तादपि-सर्वेष्वपि प्रदेशेषु| अहोरात्रग्रहणं सर्वदा सम्बन्धार्थम्| सर्वं दिनं सूर्येण तापितं, सर्वां च रात्रिं शीतांशुना शीतलीकृतम्| शीतांशुशब्देन रात्रिदृश्यं ज्योतिश्चक्रमुपलक्ष्यते, यौगिकत्वादुच्यते वा| अगस्त्यो-ज्योतिर्विशेषः| शुचि-स्वत एव निर्मलम्, तच्च शरदि| यदाह सुश्रुतः (सू. अ. ४५/८)- “शरदि सर्वं प्रसन्नत्वात्” इति| तस्माच्छारदमेव हंसोदकम्| तथाऽऽह चरकः (सू. अ. ६/४६)- “हंसोदकमिति ख्यातं शारदं विमलं शुचि” इति| निर्मलं-सूर्यतापादिना अपगतदोषम्| मलजित्-दोषत्रयहरम्| नाभिष्यन्दि-न स्रोतःस्रावि| न वा रूक्षं-न स्रोतःशोषि| पानादिषु-पानस्नानावगाहेषु| अमृतोपमं-यथा देवानाममृतं तथेदं मनुष्याणाम्| सङ्ग्रहे तु (सू. अ. ४)- “हंसौघापक्षविक्षेपभ्रमद्भ्र्मरपङ्क्तिषु| सुसरोरुहसेव्यासु सरसीषु प्लवेत च|| इति|

——————————————-|
चन्दनोशीरकर्पूरमुक्तास्रग्वसनोज्ज्वलः||५३||
सौधेषु सौधधवलां चन्दिकां रजनीमुखे|
——————————————-|५४|


स०-चन्दनं चोशीरं च कर्पूरश्च मुक्ताश्च स्रजश्च वसनानि च, तैरुज्ज्वलः-शोभनः सन्, सौधेषु-धवलगृहपृष्ठेषु, चन्द्रिकां ज्योत्स्नां, भजेत्| कदा ? रजनीमुखे,-प्रदोषे| परतस्तु निदाघ इव न सेव्या, अवश्यायभयात्| अवश्यायो ह्यत्र परिहार्यः|


तथा चाह-


आ० र०-प्रदोषे कौमुदीभजनं विधत्ते-चन्द्रनोशीरेति| चन्दनादिभिरुज्जवलःसन्, सौधेष्ववस्थितः सौधधवलां चन्द्रिकां रजनीमुखे भजेत्| उशीरं-सुगन्धिवालकम्| स्रजः-कुमुदादिमालाः| सौधेषु-सुधाधवलगृहेषु|

——————————————-|
तुषारक्षारसौहित्यदधितैलवसातपान्||५४||
तीक्ष्णमद्यदिवास्वप्नपुरोवातान् परित्यजेत्|
——————————————-||५५||


स०-तुषारादीन् दश परित्यजेत्| तुषारो-अवश्यायः| क्षारो-यवक्षारादिः| सौहित्यं-तृप्तिः| तीक्ष्णं च तन्मद्यं च तीक्ष्णमद्यम्| पुरोवातः-पूर्वदिगागतो वातः|


आ० रं०-तुषारादीन्निषेधति-तुषारक्षारेति| तुषारोअबध्यायः| क्षारो-यवक्षारादिः| सौहित्यं-तृप्तिभोजनम्| तीक्ष्णमद्यं-तीव्रमदमद्यम्| पुरोवातः-पूर्वदिग्वायुः|

व्यासेन ऋतुचर्यामुक्त्वा समासेनाह-
——————————————-|
शीते वर्षासु चाद्यांस्त्रीन् वसन्तेऽन्त्यान् रसान्भजेत्
स्वादुं निदाघे, शरदि स्वादुतिक्तकषायकान्|
शरद्वसन्तयो रूक्षं शीतं घर्मघनान्तयोः||५६||
अन्नपानं समासेन विपरीतमतोऽन्यदा|
——————————————-|५७|


स०-शीते-हेमन्तशिशिरयोः, वर्षासु चाद्यांस्त्रीन्-स्वाद्वम्ललवणाख्यान्, रसान् भजेत्| वसन्ते चान्त्यांस्त्रीन्-तिक्तकटुकषायान् भजेत्| स्वादुं निदाघे-ग्रीष्मे मधुरं, भजेत्| शरदि स्वादुतिक्तकषायान् भजेत्| शरद्वसन्तयो रूक्षमन्नपानं समासेन भजेत्| अतो विपरीतं-स्निग्धम्, अन्यदा-हेमन्तशिशिरग्रीष्मवर्षासु| शीतमन्नपानं घर्मघनान्तयोर्भजेत्| अतो विपरीतं-उष्णमन्नपानम्, अन्यदा-हेमन्तशिशिरवसन्तवर्षाख्ये काले, भजेत्|


आ० र०-व्यासेनोक्तमृतुचर्यां सुखग्रहणार्थं समासेनाह-शीते वर्षासु चेति| हेमन्तशिशिरवर्षासु स्वाद्वम्ललवणस्निग्धोष्णमन्नपानं भजेत्| वसन्ते तिक्तकटुकषायरूक्षोष्णम्| ग्रीष्मे स्वादुशीतस्निग्धम्| शरदि स्वादुतिक्तकषायरूक्षशीतम्| इति मथितार्थः|

सम्प्रति सेव्यत्वेनोपदिष्टस्याहारस्यापवादमाह————-
——————————————-|
नित्यं सर्वरसाभ्यासः स्वस्वाधिक्यमृतावृतौ||५७||


स०-नित्यं-सर्वदा, सर्वेषां-षण्णामपि रसानां, अभ्यासः-शीलनं, कार्यमिति वाक्यशेषः| “सर्वरसाभ्यासो बलकराणाम्” इति (सं. सू. अ. १३) वचनात्| नन्वेवं सति यथर्तुसेव्यत्वेन रसनियमो यः पूर्वं कृतः स विरुद्धः ? नेत्याह-स्वस्वेत्यादि| ऋतावृताविति वीप्सायां द्वित्वम्| स्वं च स्वं च स्वस्वं, तस्याधिक्य-भूयस्त्वं, कार्यमिति शेषः| यथा-शीते वर्षासु चाद्यांस्त्रीनित्युक्तम्| तदेतेषु ऋतुष्वेते रसा भूयसोपयोक्तव्याः, न त्वेत एवेत्यर्थः| तथा, समधातुं प्रति समे देशे चैष नियमो वेद्यः| अन्यत्र तु जाङ्गलेऽनूपे वा देशे विषमधातोश्च धातुसाम्योत्पादनार्थं देशदेहानुगुणमन्यर्तुविहितविधानमन्यस्मिन्नप्यृतावनुष्ठेयमेव|


आ० र०-स्वाद्वादिनियमान्निवारितस्य रसान्तरस्य प्रतिप्रसवं करोति-नित्यमैति| नित्यं-सर्वेषु ऋतुषुम् सर्वेषां रसानामभ्यासः कर्तव्यः| नन्वेवं चेत्तर्हि स्वाद्वादिविधिर्व्यथः स्यादित्यत आह-स्वस्वाधिक्यमिति| यथास्वं विहितानां अस्वाद्वादीनामितरेभ्योऽधिकोऽभ्यासः कर्तव्यः|

किमन्यस्मिन्नृतौ प्राप्ते, पूर्वर्तुचर्या सहसैव त्याज्याऽन्या च सेव्या ? नेत्याह————————————
ऋत्वोरन्त्यादिसप्ताहावृतुसन्धिरिति स्मृतः|
तत्र पूर्वो विधिस्त्याज्यः सेवनीयोऽपरः क्रमात्|५८|
असात्म्यजा हि रोगाः स्युः सहसा त्यागशीलनात्|
५८ १/२|
इति श्रीवैद्यपतिसिंहगुप्तसूनुश्रीमद्वाग्भटविरचितायामष्टाङ्गहृदयसंहितायां सूत्रस्थाने ऋतुचर्या नाम तृतीयोऽध्यायः|३|


स०-ऋत्वोः-शिशिरवसन्तयोर्ग्रीष्मप्रावृषोरित्यादिकयोः, अन्त्यश्चादिश्च यौ सप्ताहौ तावृतुसन्धिरिति स्मृतः-इत्युच्यते| तत्र-सप्ताहद्वयलक्षण ऋतुसन्धौ, पूर्वः-पूर्वर्तुसम्बन्धी, विधिस्त्याज्यः| अपरः-एष्यद्दतुसम्बन्धी, सेवनीयः| कथम् ? क्रमात्,-क्रमेण, “पादेनापथ्यमभ्यस्तम्” (हृ. सू. अ. ७|४७) इत्यादिना| सप्तानामह्नां समाहारः सप्ताहः| सप्ताहश्च सप्ताहश्च सप्ताहौ| “राजाहःसख़िभ्यष्टच्” इति टच् समासान्तः| “न संख़्यादेः समाहारे” इत्यह्नादेशनिषेधः| ननु, किमेवं त्यागः सेवनं च क्रियते ? इत्याह-असात्म्यजा इत्यादि| यस्मात् सहसा त्यागशीलनात् असात्म्यात्-अनुचिताज्जाता असात्म्यजा रोगाः स्युः| ततः सहसा त्यागशीलनं न कार्यमिति भावः|

इति श्रीमृगाङ्कदत्तपुत्रश्रीमदरुणदत्तविरचितायामष्टाङ्गहृदयटीकायां सर्वाङ्गसुन्दराख़्यायां सूत्रस्थाने तृतीयोऽध्यायः समाप्तः|| ३||


आ० र०-पूर्वोत्तरयोऋतुचर्ययोः क्रमेण त्यजनभजने विधत्ते-ऋत्वोरिति| पूर्वस्यर्तोरन्त्यः सप्ताहः, उत्तरस्य च आद्यः सप्ताहः, एवं चतुर्दशाहात् ऋतुसन्धिः स्मृतः| तस्मिन् ऋतुसन्धौ पुर्वर्तुसम्बन्धी विधिः क्रमात् त्याज्यः, उत्तरर्तुसम्बन्धी क्रमात्सेव्यः| सहसा हि त्यागशीलने च क्रियमाणे असात्म्यजा रोगाःस्युः| क्रमो यथा-ऋतुसन्धेः प्रथमे दिने पुर्वस्याहारस्य त्रयः पादाः, उत्तरस्यैकः| द्वितीये पूर्व एवाहारः| तृतीये प्रथमवत्| चतुर्थे पुर्वस्य द्वौ पादौ, उत्तरस्य द्वौ| पञ्च्चमषष्ठयोः प्रथमवत्| सप्तमे चतुर्थवत्| अष्टमे पूर्वस्यैकः, उत्तरस्य त्रयः| नवमदशमैकादशेषु चतुर्थवत्| द्वादशेऽष्टमवत्| त्रयोदशे उत्तर एव आहारः| चतुर्दशेऽष्टमवत्| अतःपरंतूत्तर एवाहारः| अमु च क्रमं “पादेनापथ्यम्” (हृ. सू. अ. ७/४७) इत्यत्रोपपादयिष्यमः| सुश्रुतस्त्वहोरात्रेऽपि षडृतूनाह (सू. अ. ६/१५)- “तत्र पूर्वाह्णे वसन्तस्य लिङ्गम्, मध्याह्ने ग्रीष्मस्य, अपराह्णे प्रावृषः, प्रदोषे वार्षिकम्, शारदमर्धरात्रे, प्रत्युषसि हैमन्तमुपलक्षयेत्| एवमहोरात्रमपि वर्षमिव शीतोष्णवर्षदोषोपचयप्रकोपोपशमैर्जानीयात्” इति| ननु, ततश्चैकस्य दोषस्यैकस्मिन् काले चयप्रकोपोपशमैर्विरुद्धत्वं चापद्यते, वार्षिकाणामाहोरात्रिकाणां च चयादीनां तथा समावेशात्| यथा-वसन्तस्य पूर्वाह्णे कफस्य लिङ्गम्, मध्याह्ने ग्रीष्मस्य| मैवम्| आहोरात्रिकैश्चयादिभिरनवकाशैः सावकाशा वार्षिकाश्चयादयो बाध्यन्ते| आहोरात्रिकः कफस्य हि प्रशमो माध्याह्निकः, तस्यावकाशो मध्याह्न एव| प्रकोपस्तु वासान्तिक, तस्यावकाशाः सायाह्नादयोऽपि, तेषामपि वसन्तत्वात्| न ग्रीष्मादिमध्याह्नो माध्याह्निकस्य प्रशमस्यावकाश इति वाच्यम्, ग्रीष्मे तावद्ग्रीष्मत्वादेव प्रशमे सिद्धे वैयर्थ्यात्| वर्षासु दोषत्रयदुष्टिः, शरद्यपि किञ्चित्कफपकोप इष्टः| “कुर्यात्पित्तं च शरदि तस्य चानुबलः (लं) कफः” इति (हृंइ.अ. २/५१) वचनात्| हेमन्तशिशिरयोः सञ्चयः स्पष्ट एव| एवं चयप्रशमयोरपि वाच्यम्| चयप्रकोपयोस्त्वविरोधः, द्वयोर्वृद्धिरूपत्वात्| यच्च प्रचलितत्वं प्रकोपे विशेषः, तं प्रतिचयहेतोरुदासीनत्वम्| एवं वातपित्तयोरपि वाच्यम्| ननु, “वयोहोरात्रिभुक्तानां तेऽन्तमध्यादिगाः क्रमात्|” इति (हृ.सू.अ. १/८) वाक्ये पित्तकफवातानां मध्याह्नपुर्वरात्रापररात्रेषु प्रकोप उक्तः| सुश्रुतवाक्ये तु वातचयवातप्रकोपकफचया उक्ताः, इति विरोधः| मैवम्| दोषभेदनाविरोधात्| अथर्तुलक्षणं सङ्ग्रहे (सू.अ.४)-“धूमधूम्रा रजोमन्दास्तुषाराविलमण्डलाः| दिगादित्या मरुच्छैत्यादुत्तरो रोमहर्षणः|| रोध्रप्रियङ्गुपुन्नागलवल्यः कुसुमोज्ज्वलः| दृप्ता गजाजमहिषवाजिवायसशूकराः|| हिमानीपटलच्छन्ना लीनमीनविहङ्गमाः| नद्यः सबाष्पाः सोष्माणः कूपापश्च हिमागमे|| देहोष्माणो विशन्तोऽन्तः शीते शीतानिलाहताः| जठरे पिण्डितोष्माणं प्रबलं कुर्वतेऽनलम्|| विसर्गे बलिनां प्रायः स्वभावादिगुरु क्षमम्| बृंहणान्यन्नपानानि योजयेत्तस्य युक्तये|| वसन्ते दक्षिणो वायुराताम्रकिरणो रविः| नवप्रवालत्वक्पत्राः पादपाः ककुभोऽमलाः|| किंशुकाशोकचूतादिवनराजिविराजिताः| कोकिलालिकुलालापकलकोलाहलाकुलाः|| ग्रीष्मेऽतसीपुष्पनिभस्तीक्ष्णांशुर्दवदीपिताः| दिशो ज्वलन्ति भूमिश्च मारुतोनैऋतोऽसुख़ः|| पवनातपसंस्वेदर्जन्तवो ज्वरिता इव| तापार्ततुङ्गमातङ्गमहिषैः कलुषीकृताः|| दिवाकरकराङ्गारनिकरैः क्षपिताम्भसः| प्रवृद्धरोधसो नद्यश्छायाहीना महीरुहाः|| विशीर्णजीर्णपर्णाश्च शुष्कवल्कलताङ्किताः| वर्षासु वारुणो वायुः सर्वसस्यसमुद्भवः|| भिन्नेन्द्रनीलनीलाभ्रवृन्दमन्दाविलं नभः| दीर्ग़िका नववार्योग़मग्नसोपानपङ्क्तयः|| वारिधाराभृशाग़ातविकासितसरोरुहाः| सरितः सागराकारा भूरव्यक्तजलस्थला|| मन्द्रस्तनितजीमूतशिख़िदर्दुरनादिता| इन्द्रगोपधनुःख़ण्डविद्युदुद्योतदीपिता|| परितः श्यामलतॄणा शिलीन्ध्रकुटजोज्ज्वला| शरदि व्योमशुभ्राभ्रं किञ्चित्पङ्काङ्किता मही|| प्रकाशकाशसप्ताह्वकुमुदा शालिशालिनी| विक्षिप्ततीक्ष्णकिरणो मेग़ौग़विगमाद्रविः|| बभ्रुवर्णोऽतिविमलाः क्रौञ्चमालाकुला दिशः| कमलान्तरसंलीनमीनहंसांसग़ट्टनैः|| तरङ्गभङ्गतुङ्गानि सरांसि विमलानि च|” इति|


इति हेमाद्रिटीकायामायुर्वेदरसायने|
ऋतुचर्याप्रकरणं सामस्त्येन निरूपितम्|| ३||

Diacritic Version

śrīmadvāgbhaṭaviracitam

Aṣṭāṅgahr̥dayam

śrīmadaruṇadattaviracitayā 'sarvāṅgasundarākhyā' vyākhyayā hēmādripraṇītayā 'āyurvēdarasāyanāhvayā' ṭīkayā ca samullasitam

sūtrasthānam - 2. dinacaryādhyāyaḥ

r̥tuviśēṣavaśāccāhāravihārasēvanapratipādanārthamr̥tucaryāyā ārambha ityāha—-

athāta r̥tucaryādhyāyaṁ vyākhyāsyāmaḥ|
iti ha smāhurātrēyādayō maharṣayaḥ|
(gadyasūtrē|2|


sa0- pūrvavadvyākhyēyam|


ā0 ra0 -r̥tucaryādhyāyaṁ vyākhyātuṁ pratijānītē-athēti| yataḥ pūrvādhyāyē dainandinō vihāra uktaḥ| ārtavō vaktavyaḥ| sa cāsminnadhyāyē| ata ēvāyamr̥tucaryākhyaḥ|

atha ka r̥tavaḥ ? ityāha—–


māsairdvisaṁkhyairmāghādyaiḥ kramāt ṣaḍr̥tavaḥ smr̥tāḥ|
śiśirō’tha vasantaśca grīṣmō varṣāśaraddhimāḥ||1||
śiśirādyāstribhistaistu vidyādayanamuttaram|
ādānaṁ ca, tadādattē nr̥ṇāṁ pratidinaṁ balam||2||


sa0-māsairityādinā kālōpavarṇanamāha| nanu, kālōpavarṇanaṁ dinacaryāyāṁ kasmānna kr̥tam ? ucyatē| r̥tugauravōdbhāvanārtham| r̥tavō hi viśēṣēṇōpayōginaḥ, vipratipattēśca| yathā- ēkē cāturmāsikamr̥tuṁ kr̥tvā śītōṣṇavr̥ṣṭilakṣaṇān hēmantagrīṣmavarṣākhyāṁstrīnr̥tūnicchanti| aparē tu dvimāsikān śiśiravasantagrīṣmavarṣāśaraddhēmantalakṣaṇān ṣaḍr̥tūniti| dvē saṁkhyē yēṣāṁ tē dvisaṁkhyāḥ, tairdvisaṁkhyaiḥ| māgha ādyō yēṣāṁ phālgunādīnāṁ ta ēvam| tairdvisaṁkhyairmāghādyairmāsaiḥ kramāt- paripāṭhyā ṣaḍr̥tava smr̥tāḥ| kē tē ? ityāha- śiśirādyāḥ- śiśiravasantagrīṣmavarṣāśaraddhēmantāḥ| upacārādēva ṣaṭtvē labdhē ṣaḍgrahaṇaṁ paramatakṣēpārtham| tathā hi- kēcit traya ēva r̥tava iti manyantē| taistu r̥tubhistribhiḥ śiśirādibhiruttarāyaṇaṁ vidyāt- jānīyāt| ayanamuttaraṁ- savituruttaramārgapratipattiḥ, uttarāyaṇam ādānaṁ jānīyāt| ādānamiti cānvarthaṁ nāma iti pratipādayati| tadā- tasmin kālē, nr̥ṇāṁ pratidinaṁ- anvahaṁ, balamādattē- sāraṁ gr̥hṇāti| kō’sau ? prakr̥tatvādādityaḥ|


ā0 ra0-tatra r̥tuviśēṣān lakṣayati- māsairiti| dvisaṁkhyairiti ṣaṭkr̥tvā āvartyaikaśēṣaḥ kartavyaḥ| tatra māghaphālgunau-śiśiraḥ, caitravaiśākhau-vasantaḥ, jyēṣṭhāṣāḍhau-grīṣmaḥ, śrāvaṇabhādrapadau-varṣāḥ, āśvinakārtikau-śarat, mārgaśīrṣapauṣau-hēmantaḥ| nanu suśrutēna bhādrapadādyairvarṣādaya r̥tava uktāḥ| tadyathā (su.sū.a. 6/10)- “bhādrapadāśvayujau-varṣāḥ , kārtikamārgaśīrṣau-śarat,pauṣamāghau- hēmantaḥ, phalgunacaitrau-vasantaḥ, vaiśākhajyēṣṭhau-grīṣmaḥ, āṣāḍhaśrāvaṇau-prāvr̥ṭ ” iti| iha tvanyathēti virōdhaḥ| maivam| na hi phalgunacaitrau-vasantaḥ nāpi caitravaiśākhau| kintu mīnamēṣau| yadā phālgunādau mīnasaṅkrāntistadā phalgunacaitrau-vasantaḥ,yadā tu phālguṇāntē tadā caitravaiśākhau| ēvaṁ vr̥ṣamithunau- grīṣmaḥ, karkaṭasiṁhau-varṣāḥ, kanyātulē-śarat, vr̥ṣcikadhanuṣī-hēmantaḥ, makarakumbhau-śiśiraḥ, iti| uktaṁ ca jyōtiḥśāstrē- “mr̥gādirāśidvayabhānubhōgāt ṣaḍartavasyuḥ śiśirōvasantaḥ| grīṣmaśca varṣāśca śaracca tadvaddhēmantanāmā kathitō’tra ṣaṣṭhaḥ||” varṣāyanartuyugapūrvakamatra saurāditi ca| sauraśca māsastatraivōktaḥ-” darśāvadhiṁ māsamuśanti cāndraṁ, sauraṁ tathā bhāskararāśibhōgāt| triṁśaddinaṁ sāvanasaṁjñamāryā,nākṣatramindōrbhagaṇabhramācca|” iti| avaśyaṁ caivamaṅgīkartavyam, anyathā adhimāsanipātē māsatrayamr̥tuḥ syāt| saṅgrahē tu (sū.a.4)-“māsarāśisvarūpākhyamr̥tōryallakṣaṇatrayam| yathōttaraṁ bhajēccaryāṁ tatra tasya balāditi” iti| māsalakṣaṇādrāśilakṣaṇaṁ balavat, atō rāśilakṣaṇamēvāṅgīkr̥tam, svarūpalakṣaṇasya r̥tuviparyayaparyavasānāt| uktaṁ hi tatraiva (saṅgrahē sū.a.4)-r̥tuṣvēvaṁvidhēṣvēva vidhiḥ svāsthyāya dēhinām| nirdiśyatē’nyarūpēṣu viruddhajñānikō vidhiḥ| ” iti| tasmācchiśiraṣaṭkaprāvr̥ṭṣaṭkayōḥ saṁjñāmātrēṇaiva bhēdaḥ| saṁjñābhēdaṁ ca dēśabhēdēnāha kāśyapaḥ-“bhūyō varṣati parjanyō gaṅgāyā dakṣiṇē taṭē| ataḥ prāvr̥ṭ ca varṣāśca r̥tū tatra prakalpitau|| tasyā ēvōttarē dēśē himavadvindhyasaṅkulē| bhūyaḥ śītamatastatra hēmantaśiśirāvubhau||” iti| dakṣiṇadēśīyairvr̥ṣṭisaṁbandhinōrdvayōḥ prāvr̥ḍvarṣākhyatvaṁ kr̥tvā, pāriśēṣyācchītasambandhinōrdvayōḥ śaraddhēmantākhyatvaṁ kr̥tam| uttaradēśīyaistu śītasambandhinōrdvayōrhēmantaśiśirākhyatvaṁ kr̥tvā, pāriśēṣyādvr̥ṣṭisambandhinōrdvayōrvarṣāśaratsaṁjñatvaṁ kr̥tamityarthaḥ| vr̥ṣṭiśītabāhulyōpanyāsastatrānvarthasaṁjñārthaḥ , na ca saṁjñāsaṅkarē lakṣaṇasaṅkaraḥ, dōṣāṇāṁ dōṣadhātumalasaṁjñāvat| anyē punarbhēdaṁ manvānāannarasān balaṁ cādhikr̥tya śiśiraṣaṭkam, cayādīn śōdhanaṁ cādhikr̥tya prāvr̥ṭṣaṭkam, iti vyavasthāpayanti| tadasat| carakakhāraṇādiprabhr̥tibhiḥ śiśiraṣaṭkamēvādhikr̥tya cayādīnāmuktatvāt| śōdhanasyatu caitraśrāvaṇakārtikēṣu vidhānnānna r̥̄tvapēkṣā| r̥̄tvapēkṣāyāmapi sādhāraṇartūnāṁ śiśiraṣaṭkēpi vidyamānatvānna prāvr̥ṭṣaṭkāpēkṣā| anyētu gaṅgāyā dakṣiṇē vr̥ṣṭibāhulyāt prāvr̥ṭṣaṭkam, uttarē śītabāhulyāt śiśiraṣaṭkam, iti vyavasthāpayanti| tadapyasat ubhayatrāpi cāturmāsikavr̥ṣṭiśītōpalaṁbhāt, āśvinē divyōdakagrahaṇasyōbhayadēśaviṣayatvācca| bhēdapakṣē hyuttaradēśē tadanārtavaṁ syāt| yattu suśrutasya (u.a.64/45)-“tāpātyayē hitā nityam” ityādi,varṣācaryāyāḥ pr̥thak prāvr̥ṭcaryābhidhānam, tadatidurdinaviṣayam| tathā ca carakaḥ (sū.a.6/36)-” vyaktāmlalavaṇasnēhaṁ vātavarṣākulē’hani| viśēṣaśītē bhōktavyaṁ varṣāsvanilaśāntayē|| ” iti| ata ēva suśrutēna tāpātyayaśabdaḥ prayuktaḥ| tāpasya- arkaprakāśasya, atyayaḥ- atyantāpagamaḥ, sa cātidurdina ēva, iti sarvaṁ samañjasam| tasmādvāgbhaṭācāryābhimatamabhēdapakṣamēvāśrayadhvamiti|
prathamartutrayasya saṁjñādvayamāha-tribhiriti| taiḥ-śiśirādyaistribhiḥ, uttarāyaṇamādānaṁ ca vidyāt| ādānasajñāṁ nirvakti- tadādatta iti| tat-śiśirāditrayaṁ, nr̥ṇāṁ pratidinaṁ balamādattē, iti ādānam| balavisargaṁprati saumyatvasya hētutvēnōpādānāt balādānaṁ prati āgnēyatvasya hētutvaṁ jñēyam|

kayā yuktyā balamādattē ? ityāha———————-
tasmin hyatyarthatīkṣṇōṣṇarūkṣā mārgasvabhāvataḥ|
ādityapavanāḥ saumyān kṣapayanti guṇān bhuvaḥ||3||
tiktaḥ kaṣāyaḥ kaṭukō balinō’tra rasāḥ kramāt|
tasmādādānamāgnēyam—————————|4|


sa0-ādityaśca pavanāścādityapavanāḥ, tē tasmin kālē yasmātsaumyānguṇān bhuvaḥ sambandhinaḥ kṣapayanti- vināśayanti| kīdr̥śāstē ? atyarthaṁ- atiśayēna tīkṣṇāścōṣṇāśca rūkṣāścātyartha- tīkṣṇōṣṇarūkṣāḥ| kasmādēvaṁvidhāstē ? ityāha- mārgasvabhāvataḥ- vartmasvābhāvyāt| na ca svabhāvaḥ paryanuyōgamarhati| mārgaḥ- uṣṇāṁśōruttaradiggamanam| yataścādityapavanā rūkṣāstatastiktādayō rasā balinō bhavanti| kramādityanēna yathāsaṁkhyamatra bōdhayati| tēna tiktaḥ śiśirē, vasantē kaṣāyō, grīṣmē kaṭukō, balītyavatiṣṭhatē, na sarvē tiktādaya ēkaikasminnr̥tāviti| tikta ityādyasamāsakaraṇaṁ jñāpanārtham| tiktādirēkaikō balī bhavati| dvau tu svapramāṇāvasthitau| naivartau pr̥thagbhūya tiktādērbalavattvamityarthaḥ| yata ēvaṁ bhūmēḥ saumyaguṇahānirvardhanaṁ ca rūkṣāṇāṁ rasānām, tasmātkāraṇādādānamāgnēyam|


ā0ra0-āgnēyatvē hētumāha- tasminniti| hi- yasmāt, tasminkālē, bhuvaḥ saumyān guṇanādityapavanāḥ kṣapayanti| nanvādityapavanāḥ sarvadā santō’pi tadaiva kutaḥ kṣapayanti? ityata āha-atyarthatīkṣṇōṣṇarūkṣāḥ, mandādisaumyaguṇaviparītatīkṣṇādiguṇōdrēkādityarthaḥ| tadaivaivaṁ kutaḥ? ityāha-mārgasvabhāvataḥ,- mārgasvabhāvābhyāṁ| svabhāvaḥ prakr̥tatvātkālasya| uktaṁ hi saṅgrahē(sū.a.4)-“kālasvabhāvamārgaparigr̥hītaḥ” iti| mārgō- makarādirāśiparicchinna ākāśabhāgaḥ| yataścātra-asminkālē, tiktādayō rasā balinaḥ, kramāditi yathāsaṅkhyēnōttarōttarāśca| tēna śiśirē tiktō balī, tatōpi vasantē kaṣāyaḥ, tatōpi grīṣmē kaṭuka iti| tasmāditi āgnēyaguṇairviparītānāṁ saumyaguṇānāṁ hānēstulyaguṇānāṁ tiktādīnāṁ vr̥ddhēścādānamāgnēyam|

——————————————–|
————————r̥tavō dakṣiṇāyanam||4||
varṣādayō visargaśca———————–|
——————————————–|5|


sa0-trayō varṣādaya r̥tavō dakṣiṇāyanaṁ bhagavatō divākarasya dakṣiṇadiggamanam| sa ca kālō visargākhyaḥ|


ā0 ra0-dvitīyartutrayasya saṁjñādvayamāha-r̥tava iti| varṣādayastraya r̥tavō dakṣiṇāyanaṁ visargaścōcyatē|

———————-yadbalaṁ visr̥jatyayam|
saumyatvādatra sōmō hi balavān hīyatē raviḥ||5||
mēghavr̥ṣṭyanilaiḥ śītaiḥ śāntatāpē mahītalē|
snigdhāścēhāmlalavaṇamadhurā balinō rasāḥ||6||


sa0-yat- yasmāt, balamayaṁ kālō visr̥jati- dadāti dakṣiṇāyanākhyaḥ, tasmādvisargō’nvarthasaṁjñaḥ kālaḥ| hi- yasmāt, atra- visargākhyē kālē, saumyatvāt- sōmabhūyiṣṭhatvāt, sōmō balavān, tadāśritarātrivr̥ddhidarśanāt| hīyatē raviḥ- tadāśritadinahānyupalabdhērhīnaśaktiḥ sampadyatē| kadā ? mahītalē- bhūpr̥ṣṭhē, śāntatāpē sati| kaiḥ ? mēghavr̥ṣṭyanilaiḥ śītaiḥ| śītairityupalakṣaṇārtham, visargakālatvānmr̥dubhiḥ snigdhairapīti| ata ēva snigdhā rasā amlalavaṇamadhurā balinō bhavanti| atrāpi kramādityanuvartatē| pūrvavacca vyākhyēyam|


ā0 ra0-visargasaṁjñāṁ nirvakti-yadbalamiti| yat-yasmāt, ayaṁ kālaḥ saumyatvāddhētōrbalaṁ visr̥jati-dadāti, atō visargākhyaḥ|

saumyatvē hētumāha-atra sōma iti| hi-yasmāt, atra-asmin kālē mārgē ca, tadvaśātsōmō balavān bhavati| taviśca hīyatē-tyajyatē, prakr̥tatvādbalēna| na kēvalaṁ kālamārgavaśāt, kintu śītairmēghavr̥ṣṭyanilaiśca| vr̥ṣṭyā vinā’pi chāyāyā ēva kāraṇatvānmēghānāṁ pr̥thaggrahaṇam| tathā, iha-asmin kālē, amlādyāḥ snigdhā rasā balinō bhavanti| kasminsati ? tairēva mēghādyaiḥ śāntatāpē mahītalē sati| ādānē hyādityapavanatāpitāyāṁ bhuvi saumyaguṇakṣayādrūkṣā rasā balina āsan| visargē punaḥ śāntatāpāyāṁ bhuvi saumyaguṇalābhāt snigdhā rasā balina ityarthaḥ| cakārēṇa kramādityanukr̥ṣyatē| tēna varṣāsvamlō balī, tatō’pi śaradi lavaṇaḥ, tatō’pi hēmantē madhura iti siddham| sōmavr̥ddhyā, sūryahānyā, snigdharasabalitvēna ca visargasya saumyatvamitivākyārthaḥ| kālamārgayōḥ kāraṇatvaṁ saṅgrahē’pyuktam (sū. a. 4)- “kālamārgamēghavātavarṣābhihatapratāpē dakṣiṇāyanagē’rkē śaśini cāvyāhatabalē” iti| mārgō’tra karkaṭādirāśiṣaṭkaparicchinna ākāśabhāgaḥ|

śītē’gryaṁ vr̥ṣṭidharmē’lpaṁ balaṁ madhyaṁ tu śēṣayōḥ|
————————————————————|7|


sa0-śītasvabhāvē kālē hēmantaśiśirākhyē nr̥ṇāmagryaṁ balaṁ bhavati| vr̥ṣṭiśca gharmaśca tasminvr̥ṣṭigharmē- varṣāgrēēṣmākhyē kālē’lpam| turavadhāraṇē| śēṣayōḥ- śaradvasantayōṟutvōrmadhyamēva balam| nanu, vasantē ādānakālatvādatyarthatīkṣṇōṣṇarūkṣairādityapavanaiḥ śōṣyamāṇēṣu balavr̥ddhihētuṣu bhuvaḥ saumyēṣu guṇēṣu, kathaṁ madhyabalatvamiti ? atra brūmaḥ| varṣādiṣu triṣvr̥tuṣu balamupacitaṁ kramēṇaivāpacīyatē| yathā- kr̥̄ṣṇapakṣē candraḥ| tasmāddīrghakālānuvr̥ttaṁ balamupacitaṁ vasantē kramēṇaivāpacīyatē, iti madhyabalatvaṁ yuktam| anēnaiva hētunā śiśirē’gryabalatvam| yataḥ sakalēna visargiṇā kālēna yadupacitamatiśayēna balaṁ tat śiśirē prārambhamātrādānakālē’pacīyamānamapi balaṁ na hīnaṁ lakṣyatē| yathā- kr̥ṣṇapakṣādau candraḥ kṣīyamāṇaḥ, iti yuktamuktaṁ śītē’gryaṁ balaṁ vasantē ca madhyaṁ balamiti|


ā0 ra0-yēnaiva kramēṇa balamupacīyatē, tēnaiva cāpacīyata ityāha-śītē’gryamiti| śītē-hēmantaśiśirayōḥ, agryaṁbhāgatrayapūrṇaṁ balam| vr̥ṣṭigharmē-prāvr̥ḍgrīṣmayōḥ, alpaṁbhāgadvayōnam| śēṣayōḥ-śaradvasantayōḥ, madhyaṁ-ēkabhāgōnam| (yē tu śiśirē caturbhāgapūrṇasya balasya vasantē bhāgadvayōnatvaṁ vidhāya madhyaṁ balaṁ kalpayanti| tadasat| kramēṇāpacitau vasantē bhāgadvayōnatānupapattēḥ| utkr̥ṣṭamadhyālpatayā atra madhyatvaṁ vēdyam| ēkabhāgōnaṁ madhyaṁ, dvibhāgōnamalpamiti|) yāvadbalaṁ visargasyāntyē dinē tāvadādānasyādyē, yāvadvisargasyōpāntyē tāvadādānasya dvitīyē| ēvaṁ yāvadvisargasyādyē tāvadādānasyāntyē, iti hēmantaparyantaṁ vācyam| iti r̥tunirṇayaḥ|

ata ēvāha śāstrakr̥t———
—————————————————-|
balinaḥ śītasaṁrōdhāddhēmantē prabalō’nalaḥ||7||
bhavatyalpēndhanō dhātūn sa pacēdvāyunēritaḥ|
atō himē’sminsēvēta svādvamlalavaṇātrasān||8||


sa0-kila visargābhivarddhitabalatvātpumān balī bhavati| tasya balinaḥ puṁsō hēmantē kālē śītasaṁrōdhāddhētōranalō’gnirbalī bhavati| yataḥ sarvataḥ srōtōrōdhājjāṭharō’gnirāntarairēva svērarcirbhirabhivardhatē| vardhitaścāsau yuktamāhāraṁ samyakpacati| pakvāccāhārādbalamabhyādhikaṁ jāyatē| hēmantē ityanēna ētat dyōtayati, asminnēva kālē śītasaṁrōdhāt prabalō’gnirbhavati, na tu r̥tvantarōpajanitaśītasaṁrōdhāt| tathā hi- anyartujēna śītēnāgnisādō bhavati, yathā- varṣāsu| tatra hi vr̥ṣṭivātābhyāṁ bhavati śītam, na cāgnidīptiḥ| tathā cāṣṭāṅgasaṅgrahē (sū.a.4)- “vr̥ṣṭivātākulē tvahni bhōjanaṁ klēdavātajit| pariśuṣkaṁ laghusnigdhamuṣṇāmlalavaṇaṁ bhajēt” iti| iha punaranēkarūpaṁ gauravayuktaṁ bhōjanaṁ śasyatē| vakṣyati hi- “atō himē’smin” ityārabhya yāvat “rasān snigdhānpalaṁ puṣṭam” ityādi| tathōktam- “ūṣmā bahiḥ pratihatō himaśītavātairantaḥ śarīravivaraṁ pratipadyamānaḥ| svasthānapiṇḍitavapurbhavati pracaṇḍaḥ śītē’nilānalaharō vidhiriṣyatē’taḥ” iti| tathā, yadyapi “tatra sattvaśarīrōtthaṁ” ityārabhya yāvat “tathōrjaskarayōgajam” ityādinā (hr̥.śā.a.3/78) granthēnāhārō yuktajasyaikasyaiva balasya hēturityuktō granthakr̥tā| tathā’pi yuktyā nirūpyamāṇaḥ sahajakālajayōrapi balayōrāhāra ēva hētuḥ, anuvr̥ttihētutvāt| tathā hyāhāraṁ vinā śarīramēva na syāt| tadanayā yuktyā trividhamapi balamāhārajamiti bōddhavyam| nanu, yadi prabalō’nalō bhavati, tataḥ kim ? ityāha- alpēndhana ityādi| alpamindhanamāhārākhyaṁ yasya sō’lpēndhanaḥ san, sō’nalō, dhātūn- rasādīn pacēt| kīdr̥śaḥ ? vāyunēritaḥ- vātōddīpitaḥ| ataḥ- asmādanantarōktāddhētōralpēndhanatvē sati dhātupākākhyāt| asmin himē śītē svādvamlalavaṇākhyān rasān sēvēta| nānyartusambhavē hima ityasyārthasya dyōtanāya (asmin) hima ityuktam|


ā0 ra0-atha r̥tucaryāmāha| tāṁ ca śiśirādyuddēśē’pi hēmāntādikramēṇa, śiśiracāryāyā hēmantacaryāmūlatvāt| tatra sōpapattikāṁ madhurādisēvāṁ vidhattē-balina iti| yatō hēmantē analaḥ prabalō bhavati| sa cālpēndhanaḥ san dhātūn pacēt| atō madhurādīn sēvēta| prābalyē hētumāha-śītasaṁrōdhāt, rōmakūpānāvr̥ṇvatā śītēnārciṣāṁ bahiḥ pracārē vāritē piṇḍitōṣmatvāt prabalaḥ| nanvēvaṁ varṣāsvapyāpadyēta ityata āha-balinaḥ, balitvē sati śītasaṁrōdhāt| varṣāsu punarbalahāniḥ| nanu, prabalaścēttatkiṁ snigdhōṣṇavīryāmlalavaṇān sēvēta ? ityata āha-vāyunēritaḥ,-śītajanitavāyunā sandhukṣitaḥ, sa dhātūn pacēt| amlalavaṇau ca snigdhōṣṇavīryatvācchītasya tajjanitavāyōśca viparītau| ayaṁ vidhiḥ kiṁ hēmantamātrē ? nētyāha-himē,-śītayuktē| hēmantē viśēṣyē satyapyasminniti padaṁ hēmanta ēva himē ēva, ayam vidhirnānyadēti niyamārtham| idaṁ cōpalakṣaṇam| tēna yasyartōryallakṣaṇaṁ, tadyukta ēva tasminnēva tadvidhiriti| suśrutastu (u. a. 64/22) tiktakaṭukasēvāmapyāha-“hēmantē lavaṇakṣāratiktāmlakaṭukōtkaṭam| sasarpistailamahimamaśanaṁ hitamucyatē||” iti| sāpyucitā, cīyamānakaphapratyanīkatvāt| hēmantē hi vātakaphau cīyatē| yadāha khāraṇādiḥ-“pittaṁ śāmyatē, tacchaityādvāyuḥ ślēṣmā ca cīyatē” iti|

dairghyānniśānāmētarhi prātarēva bubhukṣitaḥ|
avaśyakāryaṁ sambhāvya yathōktaṁ śēēlayēdanu||9||
vātaghnatailairabhyaṅgaṁ mūrdhni tailaṁ vimardanam|
niyuddhaṁ kuśalaiḥ sārdhaṁ pādāghātaṁ ca yuktitaḥ||10||


sa0-ētarhi- ētasminkālē, bubhukṣitaḥ prātarēva- pratyuṣasi, nānyakālē yatkiñciddinātikrāntau satyām, avaśyakāryaṁ- mūtrōtsargādikaṁ dinacaryōktaṁ, sambhāvya- sampādya, yathōktaṁ- yathānirdiṣṭam, anu- paścat, vātaghnatailābhyaṅgādikaṁ śīlayēt| yadyapi “bubhukṣitaḥ, avaśyakaryaṁ sambhāvya yathōktaṁ śīlayēdanu” ityuktam, tathāpi bubhukṣitēna na tathānyatkāryaṁ kāryam, yathā bhōjanam| tathā cōktam- “āhārakālē samprāptē yō na bhuṅktē bubhukṣitaḥ| tasya sīdati kāyāgnirnirindhana ivānalaḥ||” iti| tasmādaucityādbubhukṣitēnāhāraḥ kārya iti vēdyam| nanvanyasminnapi kālē bubhukṣitasyaivāhārānujñānādiha bubhukṣitagrahaṇaṁ na kāryam| yuktamāha bhavān| kintvasminkālē jāṭharāgniratyagnicchāyānukārī bhavati| tatō’sya jāṭharāgnēratyagnērivōpacārō yuktaḥ| yathā (carakē ci.a.15/219, hr̥dayē ci.a.10/84)- “muhurmuhurajīrṇē’pi bhōjyānyasyōpahārayēt| nirindhanō’ntaraṁ labdhvā yathainaṁ na vipādayēt||” iti| abubhukṣitasyaiva bhōjanādhikāritvamiti bhrāntinirāsāyēha bubhukṣitagrahaṇam| niśānāṁ dairghyāditi viśiṣṭakālōpalakṣaṇārthaṁ kr̥tam| yadā’tra hēmantē śarvaryō dīrghā jāyantē, tadaiṣa vidhiḥ sarvōnuṣṭhēyō na prārabdhamātra ēvāsminniti| nanvatra sēvēta śīlayēdbhajēdityēkārthābhidhāyīni bahūni kriyāpadāni kiṁ nirdiṣṭāni ? ēkēnaivārthādhigatēḥ| atra brūmaḥ| kāryāntarasūcanārthamētatpadatrayaṁ kr̥tam| tathā hi- “atō himē’sminsēvēta” ityatra yaḥ sēvētaśabdaḥ sa idaṁ dyōtayati- svādvamlalavaṇarasāḥ pavanavijayārthamasmin kālē nitarāmupayōktavyāḥ| na kādācitka ēṣāmasminnr̥tāvupayōgō vidhēya iti| ata ēva vātaghnatailābhyaṅgādēḥ pr̥thagēṣāṁ rasānāmupanyāsaḥ| tathā, “yathōktaṁ śīlayēt” ityatra yaḥ śīlayēdityēṣa śabdaḥ sa vātaghnatailādēḥ sarvasya tulyakakṣatāṁ dyōtayati| tathā, “prāvārājina” ityādau yō bhajēcchabdaḥ sa sakalasyāhāravihāraśīlanasya śayanavidhēśca tulyatāṁ prathayati| tathā ca vakṣyati (sū.a.7/51)- “āhāraśayanābrahmacaryairyuktyā prayōjitaiḥ| śarīraṁ dhāryatē nityamāgāramiva dhāraṇaiḥ||” iti| vātaghnatailairabhyaṅgaṁ śīlayēt| tailasya sarvasyaiva vātaghnatvādvātaghnēti viśēṣaṇamatiśayapratipādanārtham, tēna balātailādibhiriti bōdhyam| mūrdhni tailaṁ-śirōbhyaṅgādi| vimardanaṁ- śarīrasaṁvāhanam, ētadaucityādabhyaktaḥ san śīlayēt| kuśalaiḥ- tadvidbhiḥ sārdhaṁ, niyuddhaṁ- bāhuyuddhaṁ, śīlayēt| pādāghātaṁ- pādēna vimardanam, yuktita ityanēnārdhaśaktyaiva śīlanaṁ dyōtayati| bāhuyuddhapādāghātayōścānabhyaktasyaiva śīlanaṁ yuktam|


ā0 ra0-dinacaryāvihitasyābhyaṅgādēvirśēṣamāha-dairghyāditi| ētarhi-ētasminkālē, abhyaṅgādīn śīlayēt| kadā ? prātaḥ| kimavaśyakāryaṁ bādhitvā ? nētyāha-yathōktamavaśyakāryaṁ-śaucādikaṁ, sambhāvya-samyak kr̥tvā| kimajātānnapānēccha ēva ? nētyāha-bubhukṣita ēva| nanu prātaḥ kathaṁ bubhukṣitaḥ ? ityata āha-niśānāṁ dairghyāt| sambhāvyētyanēna paścādarthē siddhē nairantaryārthamanugrahaṇam| abhyaṅgasēkapicavō vastiścēti caturvidhaṁ mūrdhatailam| abhyaṅgasya pr̥thagupādānamitarāvayavārtham| vimardanaṁ-karābhyāṁ pīḍanam| abhyaṅgamūrdhatailavimardanāni vātaghnatailairbalātailādibhiḥ śīlayēt| niyuddhaṁ-bāhuyuddham| kuśalaiḥ-mallaiḥ| pādāghātaṁ-pādābhyāṁ mardanam| yuktitaḥ-mātrādyanatikramēṇa|

kaṣāyāpahr̥tasnēhastataḥ snātō yathāvidhi|
kuṅkumēna sadarpēṇa pradigdhō’gurudhūpitaḥ||11||
rasān snigdhān palaṁ pr̥ṣṭaṁ gauḍamacchasurāṁ surām|
gōdhūmapiṣṭamāṣēkṣukṣīrōtthavikr̥tīḥ śubhāḥ||12||
navamannaṁ vasāṁ tailaṁ, śaucakāryē sukhōdakam|
prāvārājinakauśēyapravēṇīkaucavāstr̥tam||13||
uṣṇasvabhāvairlaghubhiḥ prāvr̥taḥ śayanaṁ bhajēt|
yuktyā’rkakiraṇān svēdaṁ pādatrāṇaṁ ca sarvadā||14||


sa0-kaṣāyēṇa- rōdhrādinā, apahr̥taḥ- apanītaḥ, snēhō yasya sa ēvam| tataḥ- anantaraṁ, yathāvidhi- śāstrōditēna vidhānēna, snātaḥ| kuṅkumēna- kāśmīrēṇa, pradigdhaḥ- anuliptaḥ| darpaḥ- kastūrikā, tēna saha vartatē yatkuṅkumaṁ tadēvam| tathā, aguruṇā- jōṅgakēna dhūpitaḥ| rasān- māṁsarasān, snigdhān bhajēt| māṁsarasānāṁ snigdhatvē’pi snigdhāniti viśēṣaṇamatiśayadyōtanārtham| snigdhatamān rasānityarthaḥ| palaṁ- māṁsaṁ, puṣṭaṁ- mēduraṁ, bhajēt| tathā, guḍasyēdaṁ gauḍaṁ tanmadhyam| tathā, acchasurāṁ- surāmaṇḍaṁ, surāṁ- madirāṁ, ca bhajēt| amlēnānnēna kaṣāyadravyaiśca yā kriyatē sā surā bhaṇyatē| nanu, dvidhaiva surā sēvyatvēnēhābhīṣṭā, tatsurāśabda ēva nirdēṣṭuṁ nyāyyaḥ| tasminhi sāmānyapadē nirdiṣṭē dvidhaiva surā nirdiṣṭā bhavati| satyamētat| kintvacchasurāṁ nitarāṁ bhajēt, na tathā surāmiti jñāpanārthaṁ dvayōrupādānam| ata ēvācchasurāmiti pūrvaṁ nirdiṣṭam| gōdhūmētyādi| gōdhūmaśca piṣṭaṁ ca māṣaśca ikṣuśca kṣēēraṁ ca tānyēvam| gōdhūmapiṣṭamāṣēkṣukṣīrēbhya utthānaṁ yāsāṁ vikr̥tīnāṁ tā ēvam| utpūrvāttiṣṭhatēḥ supēēti yōgavibhāgādbhāvē kaḥ| “udaḥ sthāstambhōḥ pūrvasya” iti sasya takāraḥ| gōdhūmapiṣṭamāṣēkṣukṣīrōtthāśca tā vikr̥tayaśca, tāḥ śubhāḥ- ramyāḥ, bhajēt| tathā, navaṁ- apurāṇamannaṁ, tathā vasāṁbhajēt| “śuddhamāṁsasya yaḥ snēhaḥ sā vasā parikīrtitā”| tathā, tailaṁ bhajēt- bhakṣayēt| abhyaṅgastu prāganujñāta ēva| śaucakāryē- śaucakriyāyāṁ, sukhōdakaṁ- uṣṇōdakaṁ, bhajēt| prāvāraḥ- kārpāsō rōmavān ghanaḥ paṭaḥ, sthūlapaṭakādiḥ| ajinaṁ- sukhasparśarōmacarma| kauśēyaṁ- paṭṭavasanam| pravēṇī- sūcībāṇākhyō vastraviśēṣaḥ| kaucavaṁ- rāṅkavavastrabhēdaḥ, tavaraka ityanyē| ētairāstr̥taṁ- dattapracchadapaṭaṁ, śayanaṁ bhajēt| kīdr̥k śayanaṁ bhajēt ? uṣṇasvabhāvaiḥ- rōmaśikārallikāprāyaiḥ, prāvr̥taḥ- prakarṣēṇācchāditaḥ| tathā, arkakiraṇānbhajēt| katham ? yuktyā- samyagyōgalakṣaṇayā| atisēvitā hi glānyādīn kuryuḥ| tathā, svēdaṁ bhajēt| yuktyaivētyatrāpi yōjyam| atisēvitō hi svēdō glānyādīn janayēt| pādatrāṇaṁ ca- pādukādikaṁ, sarvadā bhajēt|


ā0 ra0-udvartanādērviśēṣamāha-kaṣāyēti| kaṣāyāpahr̥tasnēhādikō bhūtvā rasādīn bhajēt| kaṣāyēṇāpahr̥taḥ snēhaḥsnēhāpaharaṇamātramudvartitaḥ, na tvanyakālavadutpāditaraukṣyaḥ| yathāvidhi snātaḥ, vidhiścātra śītakālōcitatvāt sarvāṅgānāmuṣṇōdakēna snānam| uktaṁ ca carakēṇa (sū. a. 6/14)- “abhyaṅgōtsādanē murdhatailaṁ jēntākamātapam” iti| jēntākaṁsarvāṅgōṣṇōdakasrānamiti bāṣpacandraḥ| sadarpēṇa-sakstūrikēṇa| pradigdhō-anuliptaḥ| rasān-māṁsarasān| snigdhān ghr̥tādisaṁskr̥tān| palaṁ-māṁsam| puṣṭaṁ-mēduram| gauḍaṁ-guḍakr̥taṁ madyam| acchasurāṁ-surāmaṇḍam| surāṁ-ghanasurām| acchasurāyāḥ pr̥thaggrahaṇamatiśayabhajanārtham| gōdhūmādyutthāḥ-gōdhūmādikr̥tā mōdakādyāḥ| piṣṭaṁ-śālipiṣṭam| śubhāḥhr̥dyāḥ| navaṁ-anatikrāntavatsaram| annaṁ-dhānyam| vasāṁ-māṁsasnēham| rasāditailāntaṁ bhōjanōpayōgi| sukhōdakaṁ-kavōṣṇamudakam, tacca śaucakāryē| pānē tu śītamēva| pravāraḥ-kārpāsarōmavān ghanaḥ paṭaḥ| ajinaṁ-carma| kauśēyaṁ-kr̥mikōśōttham| pravēṇī-sūcībāṇākhyaṁ vasram| kuthakaḥ-kambalaḥ| uṣṇasvabhāvairlaghubhirvasraiḥ prāvr̥taḥ| arkakiraṇān svēdaṁ ca yuktyā-samyagyōgēna bhajēt| pādatrāṇaṁ sarvadā-bahiścaraṇaṁ vināpi, bahiścaraṇē tu dinacaryāyāmuktamēva|

pīvarōrustanaśrōṇyaḥ samadāḥ pramadāḥ priyāḥ|
haranti śītamuṣṇāṅgyō dhūpakuṅkumayauvanaiḥ||15||


sa0-ūrū ca stanau ca śrōṇiśca ūrustanaśrōṇi| pīvaraṁ- pīnaṁ, ūrustanaśrōṇi yāsāṁ tā ēvambhūtāḥ, pramadāḥ- vilāsinyaḥ, śītaṁ haranti- nudanti| pīnatvēnātikārśyamatra niṣidhyatē| tathā cāha grāmyadharmādhikārē (hr̥.sū.a.7/69)- “tyajēdatikr̥śām” iti| kimbhūtāḥ ? saha madēna- yauvanōdbhūtēna surādipānajēna kāmōdrēkakāriṇā vā, vartantē tāḥ samadāḥ| tathā, priyāḥ- vallabhāḥ, śītaṁ haranti| kimbhūtāḥ ? uṣṇāṅgyō dhūpakuṅkumayauvanaiḥ- agurvādidhūpēnōṣṇāṅgyaḥ, tathā kuṅkumānulēpanēnōṣṇāṅgyaḥ, tathā yauvanōṣmaṇā, sahajēnōṣṇāṅgya iti yōjyam|


ā0 ra0-śītāpahantr̥tvakathanadvārā strīsēvāṁ pidhattē pīvarēti| pramadāḥ-striyaḥ| samadāḥ-yauvanōtthaṁ madyajaṁ ca madaṁ bibhrāṇāḥ|

aṅgāratāpasantaptagarbhabhūvēśmacāriṇaḥ|
śītapāruṣyajanitō na dōṣō jātu jāyatē||16||


sa0-aṅgārāṇāṁ tāpō’ṅgāratāpaḥ, tēna santaptaṁ ca tadgarbhē’bhyantarē bhūvēśma ca tattasmiṁścarati- tiṣṭhati nityaṁ yastasyāṅgāratāpasantaptagarbhabhūvēśmacāriṇaḥ puṁsō yataḥ śītapāruṣyajanitō dōṣō- duḥkhaṁ, na jātu- kadācijjāyatē, tatō’ṅgāratāpasantaptagarbhabhūvēśmacārī syāditi bhāvaḥ|


ā0 ra0-śītāpahantr̥̄tvakathanadvārā nivātōṣṇagr̥hasēvāṁ vidhattē-aṅgārēti| aṅgārāṇāṁ tāpēna santaptaṁ yadvēśma, yacca garbhavēśma-gr̥hāntarvartigr̥haṁ, yacca bhūvēśma-bhūmyantarvartigr̥haṁ, tēṣu yaścarati sa tathā| śītēna yatpāruṣyaṁ tajjanitō dōṣō jātu kadācit, tasya na jāyatē| tasmāttāni bhajēdityarthasiddham|

ayamēva vidhiḥ kāryaḥ śiśirē’pi viśēṣataḥ|
tadā hi śēētamadhikaṁ raukṣyaṁ cādānakālajam||17||


sa0-ayamēva- haimantaḥ, vidhiḥ- pūrvōktaḥ, śiśirē ca viśēṣataḥ- atiśayēna kāryaḥ| kutaḥ ? ityāha- yasmāttasmin kālē śītamadhikaṁ bhavati, kālasvābhāvyāt| tathā, ādānakālājjātamādānakālajaṁ ca raukṣyaṁ bhavati| tatō hētudvayādviśēṣēṇa haimantikō vidhiḥ sēvyaḥ| hēmantē “rasān snigdhān śīlayēt” ityuktam| śiśirē tānatiśayēna śīlayēt| ēvaṁ sarvō’pi haimantikau vidhiryōjanīyaḥ| ādānakālajamityanēnaitaddyōtayati| ādānakāla ēva raukṣyasya kāraṇam, nānyat| ata ēva hēmantē śītē’pi raukṣyaṁ nāstyēvēti| ādānasya ca prārambhamātratvē ēva śiśirasya sambhava iti śiśirē kiñcidēva raukṣyaṁ vēdyam| nanu, yathā raukṣyamādānakālajaṁ tathauṣṇyamapi| tathā cōktam- “tasmin hyatyarthatīkṣṇōṣṇarūkṣāḥ” iti| ēvaṁ cauṣṇyasadbhāvācchītasya hēmantatō hāniḥ prāptā, na tvādhikyam| tatkathamuktaṁ “tadā hi śītamadhikam” iti ? brūmaḥ| raukṣyasya dvau hētū| ēkastāvadbhagavaddivākarakarairjagatsnēhādānam| dvitīyastvāgnēyaḥ kālaḥ| tadēvaṁ raukṣyēṇōbhayahētujēna śiśirē kālē vātāḥ śītasvabhāvā āhitādhikaśaktayō jāyantē haimantēbhyō mārutēbhyaḥ| tathāvidhāścauṣṇyēnādānakālajēnādānakālaprāthamyādaprāptabalēna śiśirē nābhibhūyantē| anabhibhūtāśca śītasvabhāvatvācca śītamēva vardhayanti| atō yuktaṁ śītādhikyaṁ śiśira iti|


a0 ra0-śiśiracaryāmāha-ayamēvēti| ayaṁ-hēmantōktaḥ| svayuktyā nyūnādhikaprayōganiṣēdhārthamēvaśabdaḥ| viśēṣataḥ-atyabhyāsēna| hi-yasmāt, tadā-tasminkālē, adhikaṁ śītam, ādānakālajaṁ raukṣyaṁ ca| cakārādvātakōpabalakṣayau ca| yathōktaṁ khāraṇādina-“svabhāvaśaityādraukṣyācca vātakōpādbalakṣayāt| vidhirviśēṣātsnigdhōṣṇaḥ śiśirē haimanōmataḥ||” iti| vātakōpaśca tēnaivōktaḥ-“sa vāyuḥ śiśirē kōpaṁ yātyēvōpacayaṁ kaphaḥ|” iti|

samprati vasantacaryāṁ vivakṣuridamāha——————-
kaphaścitō hi śiśirē vasantē’rkāṁśutāpitaḥ|
hatvā’gniṁ kurutē rōgānatastaṁ tvarayā jayēt||18||
tīkṣṇairvamananasyādyairlaghurūkṣaiśca bhōjanaiḥ|
vyāyāmōdvartanāghātairjitvā ślēṣmāṇamulbaṇam||19||
snātō’nuliptaḥ karpūracandanāgurukuṅkumaiḥ|
purāṇayavagōdhūmakṣaudrajāṅgalaśūlyabhuk||20||
sahakārarasōnmiśrānāsvādya priyayā’rpitān|
priyāsyasaṅgasurabhīn priyānētrōtpalāṅkitān||21||
saumanasyakr̥tō hr̥dyānvayasyaiḥ sahitaḥ pibēt|
nirgadānāsavāriṣṭasīdhumārdvīkamādhavān||22||
śr̥ṅgabērāmbu sārāmbu madhvambu jaladāmbu ca|
————————————————————|23|


sa0-śiśirē madhurasnigdhādinā āhārēṇa kālasvābhāvyācca ślēṣmā sañcitō’tiśayēna styānatvādatikupitō vasantē r̥tāvarkāṁśutāpitaḥ- sūryaprabhābhirvilāyitō, dravasvarūpatvājjalamiva viparītaṁ jāṭharāgniṁ hatvā, hi- yasmāt, rōgān- vikārān, kurutē- janayati| ataḥ- asmātkāraṇāt, taṁ- kaphaṁ, tvarayā- śīghramēva, jayēt| dōṣāniti kēcitpaṭhanti| arkatāpita ityanēnaiva siddhē aṁśuśabdō’tra raśmīnāṁ paṭimānaṁ sūcayati, na tathā śītē| tatra hi (saṁ.sū.a.4)- “dhūmadhūmrarajōmandāstuṣārāvilamaṇḍalāḥ| digādityāḥ” ityadhijagē| kairjayēt? tīkṣṇairvamananasyavirēkādibhirupakramēt| tathā, laghūni rūkṣāṇi ca yāni bhōjanāni, taiśca| tathā, vyāyāmaścōdvartanaṁ ca āghātaśca taiśca kaphaṁ jayēditi| caśabdō luptanirdiṣṭaḥ| tataḥ kaphamulbaṇaṁ- uddhataṁ, jitvā’nantaraṁ snātō’nuliptaḥ- samāliptaḥ karpūracandanāgurukuṅkumaiḥ| tathā, purāṇaṁ ca tadyavagōdhūmaṁ ca, tathā, kṣaudraṁ- mākṣikaṁ, tathā jāṅgalaṁ ca tacchūlyaṁ ca- “śūlēna saṁskr̥taṁ māṁsaṁ śūlyam” bhaṭitraṁ ca, tattāni bhuṅktē purāṇayavagōdhūmakṣaudrajāṅgalaśūlyabhuk| śūlya iti “śūlōkhādyat” iti yat| ēvaṁvidhaḥ san vayasyaiḥ- mitraiḥ sahita āsavādīn pibēt| kimbhūtān? nirgadān- nivr̥ttagadānnirdōṣān, pibēditi vakṣyamāṇēna sambandhō’tra dīpakatvāt| āsavō- yō dravyāṇyāsutya kriyatē| uktaṁ ca- “madyākarādhikadravyamadirādyaiḥ kr̥tastu yaḥ| sō’riṣṭaḥ syādāsavastu dravyāṇyāsutya yaḥ kr̥taḥ||” iti| sīdhuḥ- ikṣurasōdbhavaḥ| mārdvīkaṁ- mr̥dīkārasōdbhavam| mādhavō- madhunā saṁskr̥taḥ| kimbhūtānāsavādīn? sahakārarasōnmiśrān- adhivāsitān| tathā, priyayā- dayitayā, āsvādya- kiñcitpītvā, arpitān- ḍhaukitān| tathā, priyāsyasaṅgēna surabhīn,-sugandhīn| tathā, priyānētrāṇyēvōtpalāni tairaṅkitān-sañjātaśōbhān| tathā, saumanasyakr̥taḥ- cittaprasādakr̥taḥ| tathā, hr̥dyān- hr̥dayāya hitān| tathā, śr̥ṅgabērāmbu- śuṇṭhīkvathitajalaṁ pibēt| tathā, sāraḥ-asanacandanādijaḥ, tēna kvathitamambu pibēt| tathā, madhunā yuktamambu madhvambu| jaladēna- mustayā ca kvathitamambu pibēt| cēti samuccayē|


ā0 ra0-atha vasantacaryā| sā ca dvividhā, śōdhanī śamanī ca| tatra cayapūrvakē prakōpē śōdhanī, acayapurvakē śamanī| tatrākr̥tāyāṁ pūrvartucaryāyāṁ pūrvartunā citasya dōṣasyōttarēṇa yaḥ prakōpaḥ sa cayapurvakaḥ| sa ēvāpathyajaḥ, pūrvartusēvitā pathyajātatvāt| yastu kr̥tāyāṁ tasyāṁ pūrvēṇācitasyōttarēṇa yaḥ prakōpaḥ sō’cayapūrvakaḥ| sa ēva pathyajaḥ, pūrvartusēvitapathyajātatvāt| uktaṁ ca-“dōṣaprakōpō dvividhaḥ pathyāpathyanimittajaḥ| tatrāpathyanimittō yaḥ sa saṁśōdhanamarhati|| pathyajaḥ śamanīyaśca prāya āganutjaśca yaḥ|” iti| tatra saṁśōdhanīṁ vidhattē-kaphaścita iti| yasmācchiśirē citaḥ kaphō, vasantē sūryaraśmibhirdravīkr̥taḥ san, jalamiva pratyanīkatvāt vahniṁ hatvā, rōgān karōti| atastaṁ-citaṁ akupitaṁ kaphaṁ, vasantārambha ēva tīkṣṇadravyakr̥tairvamananasyadhūmagaṇḍūṣādyaiḥ śōdhanairjayēt| tathā, laghurūkṣaistiktakaṭukaprāyaiḥ saṁsarjanakramēṇa bhōjanaiśca| śiśiraśabdēna śītaparyāyēṇa śiśirahēmantayōrgrahaṇam, dvayōrapi kaphacayāt| yadāha khāraṇādiḥ-“hēmantē nicitaḥ ślēṣmā śiśirē’pi na kupyati| āhāraiśca gurusnigdhai gurustrigdhairbhr̥śamēvōpacīyatē||” iti|

śamanīṁ vidhattē-vyāyāmōdvartanāghātairiti| ulbaṇaṁ ślēṣmāṇaṁ vyāyāmādyairjitvā snātastataḥ karpūrādyairanuliptaḥ, purāṇayavādīn bhuñjānaḥ, āsavādīn pibēt| prakōpē prakr̥tē’pyulbaṇagrahaṇamacaryapūrvakaprakōpārtham| āghātaḥ-padbhyāṁ mardanam| kaphagrastasyābhyaṅganiṣēdhādrūkṣā ēva vyāyāmādayaḥ| snānaśīla iti ca vacanātprāptē’pi snānē, snāta iti ślēṣmakālīnaprātaḥsnānaniṣēdhārtham| vyāyāmādīnkr̥tvaiva snāyānna pūrvamityarthaḥ| purāṇatvaṁ yavagōdhūmakṣaudrāṇām| jāṅgalaṁ-mr̥gādimāṁsam, tasya śūlyaṁ-bhaṭitram| sahakāraḥ-atisurabhirāmraḥ, tasya rasaḥ-tatphalavr̥ntaniryāsaḥ, tēna unmiśrān-adhivāsitān| priyayā rasaviśēṣajñānārthaṁ svayamāsvādyārpitān| gandhaviśēṣajñānārthaṁ saṅgatēna sahajasurabhiṇā priyāmukhēna surabhīkr̥tān| vaimalyādijñānārthamavalōkayantyāḥ priyāyāḥ pratibimbitābhyāṁ nētrābhyāmutpalaiśca sākṣannikṣiptairaṅkitān| saumanasyakr̥taḥ-pariṇāmēna manaḥpraśāntikarān| hr̥dyānāsvādē| nirgadān-nirdōṣān| akvathitairōṣadhaiḥ kr̥taṁ madyamāsavaḥ| kvathitairariṣṭaḥ| ikṣurasēna sīdhuḥ| drākṣārasēna mārdvīkam, madhunā mādhavaḥ| śr̥ṅgabērāmbu-śuṇṭhyā kvathitaṁ jalam| asanādisāraiḥ sārāmbu| mustārbhirjaladāmbu| madhumiśraṁ jalaṁ madhvambu| anēkadravavidhānaṁ yasya yatsātmyaṁ tattēna sēvanārthamityarthaḥ|

————————————————————|
dakṣiṇānilaśītēṣu paritō jalavāhiṣu||23||
adr̥ṣṭanaṣṭasūryēṣu maṇikuṭṭimakāntiṣu|
parapuṣṭavighuṣṭēṣu kāmakarmāntabhūmiṣu||24||
vicitrapuṣpavr̥kṣēṣu kānanēṣu sugandhiṣu|
gōṣṭhīkathābhiścitrābhirmadhyāhnaṁ gamayētsukhī||25||


sa0-kānanēṣu- upavanēṣu, sthitō madhyāhnaṁ gamayēt- ativāhayēt| ahnō madhyō madhyāhnaḥ| “saṁkhyāvisā” ityādijñāpakātpūrvāparētyādinā ēkadēśisamāsaḥ| “ahnō’hna ētēbhyaḥ” ityahnādēśaḥ| katham ? gōṣṭhyāṁ- krīḍāyāṁ kathā gōṣṭīkathāstābhiḥ, citrābhiḥ- kamanīyābhiḥ, na tvarthavyavahārasambandhinībhiḥ| kīdr̥śaḥ san ? sukhī- rāgadvēṣādirahitaḥ| kimbhūtēṣu kānanēṣu ? dakṣiṇadikpravr̥ttairanilaiḥ śītāni, tēṣu dakṣiṇānilaśītēṣu| tathā, paritaḥ- samantājjalaṁ nityaṁ vahanti yāni tēṣu| ābhīkṣṇyē ṇiniḥ| tathā, kvacitpradēśē adr̥ṣṭaḥ- īṣaddr̥ṣṭaḥ, kvacidatighanatvāt naṣṭaḥ- na dr̥śyatē, sūryō yēṣūpavanēṣu tānyēvaṁ tēṣu| tathā, maṇīnāṁ- vajramarakatādīnāṁ, kuṭṭimāni- viśiṣṭā bhuvaḥ, tābhiḥ kāntiḥ- śōbha, yēṣāṁ tānyēvaṁ tēṣu| tathā, parapuṣṭaiḥ- kōkilaiḥ vighuṣṭēṣu- kr̥taśabdēṣu| tathā, kāmasya karmāntāḥ kāmakarmāntāḥ- madanavyāpārāḥ| antaśabdō’tra praśaṁsāvacanē| yathōdbhaṭasya (kāvyālaṅkārasaṅgrahē prathamasargē) vacanam- “vanāntadēvatāvēṇyaḥ” iti) kāmakarmāntanimittaṁ bhūmayō yēṣāṁ vanānāṁ tānyēvaṁ tēṣu| vicitrāṇi- nānārūpāṇi, puṣpāṇi yēṣāṁ tē tathāvidhā vr̥kṣā yēṣāṁ tānyēvaṁ tēṣu| suṣṭhu gandhō yēṣāṁ tēṣu| “gandhasyēt” itītsamāsāntaḥ|


ā0 ra0-bhōjanāntaramudyānasēvaṁ vidhattē-dakṣiṇānilaśītēṣviti| kānanēṣu madhyāhnaṁ gamayēt-ativāhayēt| sukhī-avyākulaḥ san| gōṣṭhyō-lōkavārtāḥ| athāḥ-śāstravārtāḥ| jalavāhiṣu-jalāśayayuktēṣu| adr̥ṣṭasūryēṣu-ghanacchāyēṣu| anaṣṭasūryēṣu-prakāśabatsu| maṇimayaiḥ-baddhabhūmikaiḥ kāntimatsu| parapuṣṭaiḥ-kōkilairnāditēṣu| kāmakarma-madanavyāpāraṁ, antanti-badhnanti svasaundaryēṇōttarōttaraṁ vardhayantīti kāmakrarmāntāḥ| “ati bandhanē” ityasmātkarmaṇyaṇ|

guruśītadivāsvapnasnigdhāmlamadhurāṁstyajēt|
————————————————————|26|


sa0-asminkālē kaphōpacayadōṣabhayāt guruśītādīṁstyajēt| nanu, lavaṇamapi ślēṣmāṇaṁ karōti, tatkasmādiha na niṣiddham ? atō brūmaḥ| lavaṇaḥ pūrvaṁ kaphamamlamadhurāviva na karōti| kiṁ tarhi ? nidhanē cirantanasañcitaṁ srutirūpaṁ ślēṣmāṇaṁ vidhattē, viṣyanditvāt| na ca lavaṇasya madhurādēriva bahutarasya prayōgaḥ prasiddhaḥ, kiṁ tarhi ? alpasyaiva| tasmāllavaṇasyātrāniṣēdha ēva nyāyyaḥ|


ā0 ra0-gurvādīnniṣēdhati-guruśītēti|

adhunā grīṣmacaryāmupadidikṣurāha———— —————————————————-|
tīkṣṇāṁśuratitīkṣṇāṁśurgrīṣmē saṁkṣipatīva yat||26||
pratyahaṁ kṣīyatē ślēṣmā tēna vāyuśca vardhatē|
atō’sminpaṭukaṭvamlavyāyāmārkakarāṁstyajēt||27||


sa0-yat- yasmāt, tīkṣṇāṁśuḥ- bhāskaraḥ, atitīkṣṇā aṁśavaḥ- karāḥ, yasya sa ēvaṁbhūtaḥ san, grīṣmē saṁkṣipatīva jagatsnēhamityatrānuktamapyarthāllabhyatē| kēcittu “snēhamarkō’titīkṣṇāṁśuḥ” iti paṭhanti| snēhastējō balaṁ sāramityēkō’rthaḥ| taṁ snēhamarkaḥ saṁkṣipatīva- yatsambandhāt saṁharatīva pibatīva| ivaśabdēnaitatsūcayati- hētupratyayaparatantrēṣu sarvabhāvēṣu na kaścitkvacit tadbuddhipūrvakaṁ saṁharati| ataḥ- asmātkāraṇāt, asmin- grīṣmakālē, paṭvādīstyajēt| paramārthatō balahānikr̥ttvādēṣām|


ā0 ra0-atha grīṣmacaryā| tatra sōpapattikaṁ paṭvādīn niṣēdhati-tīkṣṇāṁśuriti| yat-yasmāt, tīkṣṇāṁśuḥ-sūryaḥ, grīṣmē’titīkṣṇāṁśuḥ san, saṁkṣipatīva-saṁhārapravr̥tta ivā”bhāti| ataḥ paṭvādīṁstyajēt| asmin-atiklamavihvalalōkē grīṣmē, paṭvādīnāṁ klamahētutvāt|

kimatra sēvyam ? ityāha———-
bhajēnmadhuramēvānnaṁ laghu snigdhaṁ himaṁ dravam|
————————————————————|28|


sa0-madhuramēvānnaṁ bhajēt- bāhulyēna madhuramannaṁ sēvyam, na tathā’nyarasāghrātam, ityēvakārāllabhyatē| tathā, laghu snigdhaṁ himaṁ dravaṁ cēti| caśbdō luptanirdiṣṭō draṣṭavyaḥ|


ā0 ra0-madhurādisēvāṁ vidhattē-bhajēditi| annaṁ madhuramēva-madhuraikarasam| pānaṁ tu madhurāmlādirasamapi, “nityaṁ sarvarasābhyāsaḥ” iti vacanādrasālādividhānācca|

sāmānyēna bhōjanamuktvā viśēṣēṇāha———-
————————————————————|
suśītatōyasiktāṅgō lihyātsaktūn saśarkarān||28||


sa0-saktūn saśarkarān lihyāt| suṣṭhu śītaṁ suśītaṁ ca tattōyaṁ ca, tēna siktaṁ- āplutaṁ, aṅgaṁ- kāyō, yasya sa ēvaṁbhūtaḥ san|


ā0 ra0-lōkasya tīvratāpaśrāntatvācchrāntasya ca bhōjananiṣēdhātpūrvaṁ śramaharaṁ vidhattē-suśītēti| snānaṁ saktavaśca śramaharāḥ|

madyaṁ na pēyaṁ, pēyaṁ vā svalpaṁ, subahuvāri vā|
————————————————————|29|


sa0-asminkālē madyaṁ na pēyam| pēyaṁ vā svalpamiti vātaślēṣmaprakr̥tinā ślēṣmavātakṣayārthamanyartuvadbahu na pēyam, kiṁtarhi ? svalpamēva pātavyam| subahuvāri vēti pittaślēṣmaprakr̥tinā madyōcitēna ślēṣmakṣayārthaṁ pittapratīkāramapīcchatā subahuvāri tanmadyaṁ pēyam| ityatrānuktō’pyēvamarthādviṣayavibhāgō bōdhyaḥ| anyathā niṣēdhavidhyōrvirōdhaḥ syāt|


ā0 ra0-madyasya śramaharēṣvagryatvātkāmataḥ prasaktaṁ pānaṁ niṣēdhati-madyamiti| anyataḥ śramāpanuttau satyāṁ madyaṁ na pēyam, tīkṣṇādiguṇatvāt| asatyāṁ pēyaṁ vā , kintu svalpam| svalpēnāpyasatyāṁ pūrṇamātraṁ na pēyam, kintu subahuvāri-bahutarōdakakr̥taṁ vā| pānānugrahaśca madyasātmyānāmēva|

uktavidhyatikramē dōṣamāha————
————————————————————|
anyathāśōṣaśaithilyadāhamōhān karōti tat||29||


sa0-tat- madyam, anyēna prakārēṇa pītaṁ sat śōphādīn karōti| śōphaḥ- śvayathuḥ| śaithilyaṁ- aṅgānāmanaiṣṭhuryam| dāhaḥ- sarvāṅgīṇastāpaḥ| mōhaḥ- ajñānaṁ jantōḥ|


ā0 ra0-uktavidhyatikramē dōṣamāha-anyathēti| śōṣōmukhāśēṣaḥ| tat-madyam|

kundēndudhavalaṁ śālimaśnīyājjāṅgalaiḥ palaiḥ|
————————————————————|30|


sa0-kundaḥ- puṣpaviśēṣaḥ, induḥ- candraḥ, tayōrdvandvaḥ| kundēnduvaddhavalaṁ- śuklaṁ śāliṁ jāṅgalaiḥ palaiḥ- māṁsaiḥ sahāśnīyāt- adyāt| “kṣuṇṇaḥ sitaḥ smr̥taḥ śālī raktō vrīhirudāhr̥taḥ”|


ā0 ra0-annaṁ vidhattē-kundēndviti| kundaṁ-puṣpaviśēṣaḥ| kundēndugrahaṇaṁ laghusnigdhaśītaguṇaviśiṣṭadhavalatvārtham| palaiḥ-māṁsaiḥ saha|

————————————————————|
pibēdrasaṁ nātighanaṁ rasālāṁ rāgakhāṇḍavau||30||
pānakaṁ pañcasāraṁ vā navamr̥dbhājanē sthitam|
mōcacōcadalairyuktaṁ sāmlaṁ mr̥nmayaśuktibhiḥ||31||
pāṭalāvāsitaṁ cāmbhaḥ sakarpūraṁ suśītalam|32|


sa0-rasaṁ nātighanaṁ pibēt| rasaśabdēnādilōpākhyayā tantrayuktyā māṁsarasa ucyatē| tathā, rasālaṁ- mārjikākhyāṁ pibēt| tathā, rāgakhāṇḍavau pānakaṁ ca pañcasārākhyam| ētēṣāṁ ca lakṣaṇaṁ tantrāntarē uktam| yathā- “sitāmadhvādimadhurā rāgāstatrācchakāntayaḥ| tē sāmlāḥ khāṇḍavā lēhyāḥ pēyāścāṁśukagālitāḥ|| svādvamlapaṭukaṭvādyāḥ pralēhāstatra khāṇḍavāḥ| guḍadāḍimamāṁsādyā rāgā aṁśukagālitāḥ|| hr̥dyā vr̥ṣyā rucikarā grāhiṇō rāgakhāṇḍavāḥ” iti| tathā- “drākṣāmadhūkakharjūrakāśmaryaiḥ saparūṣakaiḥ| tulyāṁśaiḥ kalpitaṁ pūtaṁ śītaṁ karpūravāsitam|| pānakaṁ pañcasārākhyaṁ dāhatr̥ṣṇānivartakam|” anyatra cōktam| yathā- “guḍadāḍimādiyuktā vijñēyā rāgakhāṇḍavāḥ| trijātamaricādyaistu saṁskr̥tāḥ pānakāstathā ” iti| kīdr̥śaṁ pānakaṁ pibēt ? ityāha- navaṁ yanmr̥dbhājanaṁ tatra sthitam| tathā, mōcaṁ- kadalīphalaṁ, cōcaṁ- panasaphalaṁ, tayōrdalāni, tairyuktam| tathā, sāmlam, tittiḍīkādiyōgāt khāṇḍavarasānugatam| kēcittu kṣīraṁ ghr̥tapippalīśaśimākṣikaśarkarōpētaṁ pañcasāraṁ pānakamityāhuḥ| kēna pibēt ? ityāha- mr̥nmayaśuktibhiḥ| pāṭalayā vāsitaṁ- surabhīkr̥taṁ, tathā sakarpūraṁ suśītalaṁ cāmbhaḥ pibēt| mr̥nmayaśuktibhirityatrāpi yōjyam| suśrutē cōktam- “paripēlavayā tulyā guḍaguggulumustakāḥ| cūrṇitāḥ śaśinōpētā navabhājanadhūpanam|| kuṣṭhamustakasaṁyuktaiḥ pēlavōśīravālakaiḥ| mr̥ditā mr̥tsupiṣṭaistaiḥ khadirāṅgārapācitāḥ|| sahakārarasābhyaktāścampakōtpalavālakaiḥ| padmakubjakakundaiśca yathālābhādhivāsitāḥ|| śrēṣṭhaḥ salilavāsō’yaṁ smr̥taḥ sarvartukō budhaiḥ”| iti|


ā0 ra0-pānaṁ vidhattē-pibēditi| rasaṁ-māṁsarasam| nātighanaṁ-īṣatsāndram| rasālā-karamathitaṁ maricaśarkarādiyuktaṁ dadhi| madhurāmlalavaṇakr̥taṁ pānakaṁ-rāgaḥ| madhurāmlalavaṇakaṭukaṣāyajaṁ-khāṇḍavaḥ| pañcasāraṁ pānakaṁ-madhvādibhiḥ pañcabhiḥ kr̥tam| vakṣyati hi (hr̥. ci. a. 2/13)- “madhukharjūramr̥dvīkāparūṣakasitāmbhasā| manthō vā pañcasārēṇa saghr̥tairlājasaktubhiḥ|| iti| tacca navē mr̥nmayē pātrē sthitam| mōcaṁ-kadalīphalaṁ, cōcaṁ-nārikēlaṁ, tayōrdalaiḥ-śakalairyuktam| sāmlaṁ-dāḍimādyairamlīkr̥tam| mr̥nmayībhiḥ śuktibhiḥ pibēt| tathā, ambhaḥ pibēt| tacca pāṭalāpuṣpairadhivāsitaṁ sakarpūraṁ suśītalaṁ ca|

————————————————————|
śaśāṅkakiraṇān bhakṣyān rajanyāṁ bhakṣayan pibēt||32||
sasitaṁ māhiṣaṁ kṣīraṁ candranakṣatraśītalam|
————————————————————|33|


sa0-māhiṣaṁ kṣīraṁ sasitaṁ- saśarkaraṁ, rajanyāṁ- rātrau, pibēt| kimbhūtam ? candrēṇa nakṣatraiśca śītalam| rātrāvākāśē śaityārthaṁ sthāpitamityarthaḥ| kiṁkurvan pibēt ? bhakṣyān bhakṣayan- bhuñjan| kīdr̥śān ? śaśāṅkakiraṇān- karpūranāḍikākhyān| [ (hr̥.ci.a.5/49)- “tālīsacūrṇavaṭakāḥ sakarpūrasitōpalāḥ| śaśāṅkakiraṇākhyāstu bhakṣyā rucikarāḥ param||”]


ā0 ra0-rātribhōjanaṁ vidhattē-śaśāṅkakiraṇāniti| rajanyāṁ punaḥ śaśāṅkakiraṇān bhakṣyān bhakṣayan candranakṣatraśītalaṁ saśarkaraṁ māhiṣaṁ kṣīraṁ pibēt| śaśāṅkaḥ-karpūraḥ, kīryatē-vikṣipyatē, yēṣu tē śaśāṅkakiraṇāḥ,- karpūranālikādayaḥ| candrēṇa tasyābhāvē nakṣatrairvā śītalīkr̥taṁ candranakṣatraśītalam|

————————————————————|
abhraṅkaṣamahāśālatālaruddhōṣṇaraśmiṣu||33||
vanēṣu mādhavīśliṣṭadrākṣāstabakaśāliṣu|
————————————————————|34|


sa0-abhraṁ- ākāśaṁ, kaṣanti- ullikhanti, atyuccatayā’bhraṅkaṣāḥ| mahāntaśca tē śālāśca tālāśca mahāśālatālāḥ| abhraṅkaṣāśca tē mahāśālatālāśca, tai ruddhaḥ- sthagitaḥ, uṣṇaraśmiḥ- dinakarō yēṣu vanēṣu tēṣu, madhyandinē- madhyāhnē, arkatāpārtaḥ san svapyāt- śayīta| mādhavyō- latāviśēṣā atimuktakākhyāḥ, tāsu śliṣṭā mādhavīśliṣṭāḥ drākṣāyāstabakāḥ- gucchakā drākṣāstabakāḥ| mādhavīśliṣṭāśca tē drākṣāstabakāśca, taiḥ śālituṁ- ślāghituṁ śīlaṁ yēṣāṁ vanānāṁ tāni mādhavīśliṣṭadrākṣāstabakaśālīni, tēṣu vanēṣu|


ā0 ra0-sthānaviśēṣē nidrāṁ vidhattē-abhraṅkaṣēti| abhraṅkaṣāḥ-atyuccāḥ| mahāntaḥ-sthūlāḥ| mādhavīṣu-vāsantīṣu, śliṣṭāḥ-lagnāḥ, drākṣāstabakā yāsu śālāsu-latāgr̥hēṣu, tadvanti yāni vanāni|

kasmin svapyāt ? ityāha—————
——————————————–|
sugandhihimapānīyasicyamānapaṭālikē||34||
kāyamānē citē cūtapravālaphalalumbibhiḥ|
——————————————–|35|


sa0-kāyamānē- vēṇvādiniṣpāditē gr̥haviśēṣē| kīdr̥śē ? sugandhi ca taddhimaṁ ca tatpānīyaṁ ca tatsugandhihimapānīyam| paṭānāṁ- vastrāṇāṁ, āliḥ- paṅktiḥ, paṭāliḥ| sugandhihimapānīyēna sicyamānā paṭāliryasminnasau sugandhihimapānīyasicyamānapaṭālikaḥ, tasmin tathāvidhē kāyamānē| tathā, pravālāḥ- kisalayāni| phalānāṁ lumbayaḥ- stabakāḥ| pravālāśca phalalumbayaśca pravālaphalalumbayaḥ| cūtānāṁ pravālaphalalumbayastābhiḥ, citē- paritō vyāptē|


ā0 ra0-paṭālikāḥ-paṅktimatyō navāstr̥ṇādiracitā bhittayaḥ| kāyamānē-śibirē| pravālāḥ-pallavāḥ| phalalumbayaḥ-phalastabakāḥ|

īdr̥śē kāyamānē sthitō yādr̥śē śayanē śayīta tannirūpayannāha—————
——————————————–|
kadalīdalakahlāramr̥ṇālakamalōtpalaiḥ||35||
kōmalaiḥ kalpitē talpē hasatkusumapallavē|
madhyaṁdinē’rkatāpārtaḥ svapyāddhārāgr̥hē’thavā||36||
pustastrīstanahastāsyapravr̥ttōśīravāriṇi|
——————————————–|37|


sa0-kadalītyādi| talpē- śayanē, kalpitē| kaiḥ ? kadalīdalādibhiḥ| kadalyāḥ- rambhāyāḥ, dalāni- patrāṇi, kahlāraṁ- saugandhikam, mr̥ṇālaṁ- bisam, kamalaṁ- padmam, utpalaṁ- kumudam, ētēṣāṁ dvandvaḥ| taiḥ kadalīdalādibhiḥ, kōmalaiḥ- sukumārasparśaiḥ, kalpitē- racitē| kimbhūtē ? kusumāni ca pallavāśca kusumapallavāḥ| hasanta iva kusumapallavā yatra tasmin| dhārāgr̥hē’thavā svapyāditi vartatē| dhārāgr̥haṁ- avirataṁ yatō jaladhārāḥ patanti| kimbhūtē ? pustastrīstanahastāsyaiḥ pravr̥ttamuśīravāri yatra tasmin| pustō- dārvādimayyāḥ stryādyākr̥tērupādānakāraṇaṁ yadvastu taducyatē|


ā0 ra0-kalhāraṁ-sandhyāvikāśi padminīpuṣpam| kamalaṁ-dinavikāśi| utpalaṁ-rātrivikāśi| mr̥ṇālāni-bisāni| talpē-śayanē| hasatkusumāḥ-vikasanmallikādipuṣpāḥ, pallavāḥ-paryantāḥ, yasya tattathā| athavā dhārāgr̥hē svapyāt| yatra yantraracanāviśēṣēṇa racitā jalasīkarāḥ prasaranti, taddhārāgr̥ham| pustastriyō-dārvādimayyaḥ putrikāḥ, tāsāṁ stanādibhyaḥ pravr̥ttamuśīravāri-sēvyōdakaṁ yatra tattathā|

——————————————–|
niśākarakarākīrṇē saudhapr̥ṣṭhē niśāsu ca||37||
āsanā——————————————–|
——————————————–|38|


sa0-niśāsu- rātriṣu, saudhapr̥ṣṭhē- harmyatalē, āsanā- sthitiḥ| kāryētyadhyāhāryam| tatrāsītētyarthaḥ| kimbhūtē saudhapr̥ṣṭhē ? niśākaraḥ- śītāṁśuḥ, tasya karāḥ- gabhastayaḥ, tairākīrṇē- vyāptē|


ā0 ra0-niśāsu punaścandraraśmavyāptē harmyamastakē svapyāt|

———svasthacittasya candanārdrasya mālinaḥ|
nivr̥ttakāmatantrasya susūkṣmatanuvāsasaḥ||38||
jalārdrāstālavr̥ntāni vistr̥tāḥ padminīpuṭāḥ|
utkṣēpāśca mr̥dūtkṣēpā jalavarṣihimānilāḥ||39||
karpūramallikāmālā hārāḥ saharicandanāḥ|
manōharakalālāpāḥ śiśavaḥ sārikāḥ śukāḥ||40||
mr̥ṇālavalayāḥ kāntāḥ prōtphullakamalōjjvalāḥ|
jaṅgamā iva padminyō haranti dayitāḥ klamam||41||


sa0-svasthacittasya- rāgādyanupahatamanasaḥ, jalārdrāḥ klamaṁ haranti| ēvaṁ tālavr̥ntādayō yōjyāḥ| antardīpakatvādasya| tathā ca kīdr̥śasya ? candanārdrasya- candanēnānuliptasya| tathā, mālinaḥ- sragviṇaḥ| tathā, nivr̥ttaṁ kāmatantraṁ- puṣpadhanvaparicchadō yasya| tathā, suṣṭhu sūkṣmē tanunī svacchē vāsasī yasya sa ēvam| jalārdrāḥ- pānīyaplutāḥ śāṭikāḥ| tālavr̥ntāni- mayūrapicchādikr̥tāni tālavr̥ntākr̥tīni vyajanāni| tathā, vistr̥tāḥ- mahāntaḥ, padminīpuṭāḥ- nalinīpatrāṇi, vījanārtham| tathā, utkṣēpāḥ- mayūrapicchādikr̥tā vyajanaviśēṣāḥ| tē ca kimbhūtāḥ ? mr̥durutkṣēpō yēṣu tē mr̥dūtkṣēpāḥ| jalavarṣī himō’nilō yēṣu utkṣēpēṣu tē jalavarṣihimānilāḥ| śītajalābhyukṣitairētairvātaḥ kārya ityarthaḥ| karpūrētyādi| mālāśabdaḥ pratyēkaṁ yujyatē| sphaṭikakarpūragrathitā mālā mallikāmālāścētyarthaḥ| tathā, hārāḥ- muktāphaladāmāni| kimbhūtāḥ ? saha haricandanēna vartanta iti saharicandanāḥ| yat chēdē lōhitamatisugandhi suṣṭhu śītavīryaṁ ca, taddharicandanamucyatē| manōharētyādi| manōharō- ramyaḥ, kalō- madhuraḥ, ālāpō yēṣāṁ tē manōharakalālāpāḥ| śiśavō- bālakāḥ| tathā, sārikāḥ- śarārayaḥ| śukāḥ- kīrāḥ| mr̥ṇālētyādi| mr̥ṇālāni- atikōmalāni bisāni, valayāḥ- kaṭakāni, yāsāṁ tāḥ| dayitāḥ- yōṣitaḥ| kimbhūtāḥ ? kāntāḥ- ramyāḥ| tathā, prōtphullaiḥ vikasitaiḥ, kamalairujjvalāḥ- śōbhitāḥ| ēvambhūtāścōtprēkṣyantē, jaṅgamāḥ- sañcāriṇya iva padminyaḥ| klamaṁ harantīti yōjyam| svasthacittasyēti prādhānyakhyāpanārthaṁ prāgupāttam| svasthacittasyaivaitē jalārdrādayaḥ klamaṁ haranti, na tathōpataptamanasaḥ| [tathā hi- candanārdrādisakalaviśēṣēṇa viśēṣitasyāpyupataptamanasō na tathā klamaṁ haranti|] cittāyattā hi sarvabhāvānāṁ śubhāśubhapravr̥ttayaḥ| tathā ca snigdhamadhurō’pyāhāra upayuktaḥ, sukhaśayyādirapi vihāraḥ sēvitaḥ, śōkāviṣṭacētasō na tathā śarīrasya puṣṭimādadhāti| ata ēva “śōkaḥ śōṣaṇānām” ityagryasaṅgrahē (carakē sū.a.25/39, saṅgrahē sū.a.13) prōktam| tathā, rūkṣō’pyāhārastathāvidhō vihāraśca sēvitō nirvr̥ttamanasaḥ puṣṭimēvādadhāti, na kārśyam| tathā cōktam (ca.sū.a.25/39, saṁ.sū.a.13)- “nirvr̥tiḥ puṣṭihētūnām” iti| suśrutē ca klamasya lakṣaṇamuktam (śā.a.4/51)- “yōnāyāsaḥ śramō dēhē pravr̥ddhaḥ śvāsavarjitaḥ| klamaḥ sa iti vijñēya indriyārthaprabādhakaḥ” iti|


ā0 ra0-klamaharatvakathanadvārēṇāsanādīni vidhattē-āsanēti| svasthacittatvādiviśiṣṭasya yā āsanā-āsyā, sā klamaṁ harati| svasthacittasya-nirvr̥ttamanasaḥ| candanārdrasyakarpūrayuktacandanārdrasya| taduktam-“karpūracandanārdrāṅgō mr̥dugharmōttaracchadaḥ” iti| mālinaḥ-mālābhūṣitasya| nivr̥ttakāmatantrasya-suratavimukhasya| tanu-viralaṁ, vāsō yasya| jālārdrādayō vyajanaviśēṣāḥ klamaṁ haranti| jālārdrāḥ-vastramayāni vyajanāni| tālavr̥ntāni-tālavr̥ntajayāni| vistr̥tāḥ-yē vyajanakālē vistīryantē| padminīpuṭāḥ-padminīpuṭamayāni| utkṣēpāḥ-nalikāpraviṣṭadaṇḍatvādardhvamadhaścāmbhaḥ kṣipanti| tē ca sarvē jalārdrādayō mr̥dūtkṣēpāḥ-mandāndōlanāḥ| jalavarṣī himānilō yēṣāṁ tē tathā| karpūramālādayaḥ klamaṁ haranti| karpūragrathitā mallikāgrathitāśca mālāḥ| saharicandanāḥ-pītacandanamaṇimiśritāḥ, hārāḥ-muktāvalayaḥ| manōharāḥ-sundarākāraḥ, kalālāpaḥ-madhurālāpāśca, śiśavaḥ śukāḥ sārikāśca| mr̥ṇālādidhāraṇājjaṅgamāḥ padminya iva yāśca striyaḥ, tāśca klamaṁ haranti|

idānīṁ varṣācaryāṁ nirdidikṣuridamāha———————
ādānaglānavapuṣāmagniḥ sannō’pi sīdati|
varṣāsu dōṣairduṣyanti tē’mbulambāmbudē’mbarē||42||
satuṣārēṇa marutā sahasā śītalēna ca|
bhūbāṣpēṇāmlapākēna malinēna ca vāriṇā||43||
vahninaiva ca mandēna, tēṣvityanyōnyadūṣiṣu|
bhajētsādhāraṇaṁ sarvamūṣmaṇastējanaṁ ca yat||44||


saṁ-ādānamuktam, tēnādānākhyēna kālēna glānaṁ-saklamaṁ, vapuḥ-śarīraṁ, yēṣāṁ puruṣāṇāṁ tē ādānaglānavapuṣaḥ, tēṣāmapacitadhātūnāmagnirapyapacitaḥ sannō-mandaḥ san, punarvarṣāsu sīdati-hāniṁ yāti| apiśabdaḥ punararthē, anēkārthatvānnipātānām| varṣāsviti nityabahutvādbahuvacanam| kēna sīdati ? ityāha-kālasvabhāvāddōṣaiḥ,-vātapittaślēṣmabhiḥ, duṣṭairityanuktamapyarthādgamyatē| yatō’gnisādahētutvamaduṣṭānāṁ tēṣāṁ na sambhavati| tasmādduṣṭairdōṣairagniḥ sīdatītyarthāllabhyatē| nanu, kathaṁ varṣāsu dōṣāṇāṁ duṣṭatvaṁ syāt ? ityāha-duṣyantītyādi| tē dōṣā duṣyanti| kadā ? ambarē-viyati, ambulambāmbudē-ambunā lambā atinirbharatvādambulambā īdr̥śā ambudāḥ-mēghāḥ, yasminnēvaṁvidhē sati| anēna ca viśēṣaṇēnāsya kālasya svarūpamupalakṣayantyācāryāḥ| yadaivaṁvidhō varṣākālaḥ sampadyatē, tadaivaitē dōṣā duṣyanti-svakarmaṇyayōgyāḥ sampadyantē, na varṣākālamātrē’nāsāditasvarūpē| tathā, satuṣārēṇa marutā-sajalakaṇēna pavanēna, tathā, sahasā-grīṣmatāpasantāpādanantaramēva, śītalēnābhyantarō vāyurduṣyati| tathā, bhuvō bāṣpaḥ-ūṣmā bhūbāṣpastēna| tathā, kālasvābhāvyāccāmlapākēna vāriṇā pittaṁ duṣyati| tathā, malinēna vāriṇā-lūtāditantuviṇmūtrētyādikaluṣēṇa varṣājalēna, kālasvābhāvyāccātiśayēna mandatvaṁ gatēnāgninā ślēṣmā duṣyati| tadēvamasminkālē vātapittaślēṣmāṇō yugapatkālasvābhāvyādduṣyanti| nanviha trayāṇāmapi dōṣāṇāṁ kōpō’nujñāyatē| vakṣyati tu (hr̥.sū.a. 12|24)-“cayaprakōpapraśamā vāyōrgrīṣmādiṣu triṣu” iti| tadimē vacasī parasparaṁ vyāghnātē| atrōcyatē| nānayōrvākyayōrmithō virōdhaḥ sambhāvyatē| yasmādiha duṣyantītyuktyā svasthānasthā ēva duṣṭiṁ prāptā viṣādispr̥ṣṭadravyavatkāryakaraṇē’samarthā jāyanta ityuktam| cayaprakōpapraśamā ityatra prakarṣēṇa kōpaḥ sthānāntaragatilakṣaṇō gaditaḥ| tadēvamasmin kālē vāyōḥ kadācidduṣṭatvaṁ syāt kadācitkōpaśca, iti vacanābhyāmētābhyāṁ pratyapādi| pittaślēṣmaṇōstu duṣṭatvamātramēva| iti na kiñcidatrāsamañjasam| tēṣvityādi| iti-prakārē| anyōnyaṁ dūṣayituṁ śīlaṁ yēṣāṁ vātādīnāṁ ta ēvam, tēṣu-anēna prakārēṇa parasparaṁ dūṣaṇasvabhāvēṣu satsu, bhajētsādhāraṇaṁ sarvaṁ-yatkiñcidvātādīnāṁ yugapat praśamanaṁ praśamanaṁ tatsarvaṁ sēvēta| yaccōṣmaṇō jāṭharāgnēḥ, tējanaṁ-uddīpanaṁ, tadbhajēt| ūṣmaṇastējanasyātra caśabdaprayuktasyōpādānaṁ prādhānyakhyāpanārtham| agnirhi sarvabhāvānāṁ pradhānam| tathā ca vakṣyati (saṅgrahē śā.a.6)- “śāntē’gnau mriyatē, yuktē ciraṁ jīvatyanāmayaḥ| rōgī syādvikr̥tē, mūlamagnistasmānnirucyatē” iti| tasmādagnyuttējanārthaṁ yatnaḥ kārya iti bhāvaḥ| bhajēditi kriyāpadaṁ ādidīpakatvāt “bhōjanaṁ tvatidurdinē” iti yāvatsarvēṣu yōjyam|


ā0 ra0-atha varṣācaryā| sā ca cayapūrvakē prakōpē śōdhanī, acayapūrvakē śamanī| tatra sōpapattikamubhayacaryā sādhāraṇaṁ vidhattē-ādānamlanavapuṣāmiti| yatsādhāraṇaṁsarvadōṣaharaṁ, yaccōṣmaṇastējanaṁ-agnidīptikaraṁ, tatsarvaṁ varṣāsu bhajēt| kēṣu satsu ? tēṣu-agnidōṣēṣu, anyōnyadūṣiṣu-kr̥taparasparadūṣaṇēṣu satsu| sarvēṣāṁ duṣṭatvārsarvasādhāraṇaṁ bhajēdityarthaḥ| kathamanyōnyadūṣaṇam ? iti,-anēna prakārēṇa| ādānēnāvasannadēhānāmagnirapi dēhāvayavatvādavasannō’pi punardōṣaiḥ sīdati-mandatvalakṣaṇāṁ duṣṭiṁ yāti| tē ca dōṣā ādānamandēna vahninā duṣyanti-duṣṭiṁ yānti| vahnēḥ sahakārīṇyāha-ambulambāmbudē’mbarē,- jalabharalambamānamēghē nabhasi sati, satuṣārēṇa-sajalakaṇēn, sahasā pravr̥ttēna śītalēna ca vāyunā duṣyanti, bhūvāṣpēṇa ca duṣyanti, amlapākēna malinēna ca vāriṇā duṣyanti| duṣṭiścātra vāyōścayapūrvakaḥ prakōpaḥ, “cayaprakōpraśamā vāyōrgrīṣmādiṣu triṣu” iti (hr̥. sū. a. 12/24) vacanāt| pittasya cayalakṣaṇā duṣṭiḥ, varṣādiṣu tu pittasya” iti (hr̥. sū. a. 12/24) vacanāt| kaphasya tvacayapūrvakaḥ prakōpaḥ| uktaṁ hi carakēṇa (sū. a. 6/33) _”bhūvāṣpānmēghaniṣyandātpākādamlājjalasya ca| varṣāsvagnibalē hīnē kupyanti pavanādayaḥ||” iti| carakavacanē’pi pittaprakōpaśabdēna cayamātraṁ lakṣyam, “cayaprakōpapraśamāḥ pittādīnāṁ yathākramam| bhavantyēkaikaśaḥ ṣaṭsu kālēṣvabhrāgamādiṣu||” iti (ca. sū. a. 17/112) svavacanavirōdhabhāyāt|

kiṁ tatsādhāraṇamiti? tadudāharaṇārthamāha———————-
āsthāpanaṁ śuddhatanurjīrṇaṁ dhānyaṁ rasān kr̥tān|
jāṅgalaṁ piśitaṁ yūṣān madhvariṣṭaṁ cirantanam||45||
mastu sauvarcalāḍhyaṁ vā pañcakōlāvacūrṇitam|
divyaṁ kaupaṁ śr̥taṁ cāmbhō bhōjanaṁ tvatidurdinē||46||
vyaktāmlalavaṇasnēhaṁ saṁśuṣkaṁ kṣaudravallaghu|
————————————————–|47|


sa0–śuddhā tanuryasya sa ēvambhūtaḥ-kr̥tavirēkādiḥ san, āsthāpanaṁ-nirūhaṁ, bhajēt| tathā, jīrṇaṁ dhānyaṁ-purāṇayavagōdhūmādikam| tathā, rasān-māṁsarasān| kimbhūtān ? kr̥tān,- snēhaśuṇṭhyādiyutān| tathā, jāṅgalaṁ piśitaṁ-hariṇaiṇādikaṁ māṁsam| tathā, yūṣān-mudgadāḍimādikr̥tān| tathā, madhu-mārdvīkam, ariṣṭam, dvayamapyētat cirantanaṁ-purāṇam, na tu navam, āgnimāndyabhayāt| mastu sauvarcalāḍhyaṁ-akṣalavaṇasaṁyuktam| vēti samuccayē| kimbhutaṁ mastu ? pippalīpippalīmūlacavyacitrakanāgarāḥ pañcakōlam, tēnāvacūrṇitam| tathā, divyaṁ ākāśajaṁ, tathā kaupaṁ, tathā śr̥taṁ-kvathitaṁ, cāmbhaḥ pibēt| caḥ samuccayē| divi bhavaṁ divyam, digāditvādyat| kūpē bhavaṁ kaupam, prāgdīvyatō’ṇ| atidurdinē-vātavarṣākulē’hani, vyaktāḥ-pradhānāḥ, amlalavaṇasnēhā yatra tadbhōjanaṁ bhajēt| tathā, saṁśuṣkaṁ-śuṣkaprāyam| tathā, kṣaudravat-samākṣikam| tathā, laghu| nanu, “vātalaṁ madhu” iti (hr̥.sū.a. 5|52) vakṣyati| pavanaścātra kupyatītyuktam| atō mākṣikasyātrōpayōgō na yuktaḥ| atrōcyatē| dēhadhātavō’smin kālē klēdamupayānti| tataśca klēdasaṁrakṣaṇē ēvōpakṣīṇaprabhavatvāt madhu marutkōpaṁ vidhātumasamartham| tasmānmadhūpayōgō nyāyya ēva|


ā0 ra0-śōdhanīṁ vidhattē-āsthāpanamiti| śuddhatanuḥ-kr̥tavirēcanaḥ san, āsthāpanaṁ-bastikarma, bhajēt|

śamanīṁ vidhattē-jīrṇaṁ dhānyamiti| jīrṇaṁ-purāṇam| rasān-māṁsarasān| kr̥tān-paṭukaṭvamlasnēhayutān| piśitaṁ-māṁsam| yūṣān-dhānyakvāthān, tānapi kr̥tān| madhu-mārdvīkam, ariṣṭaṁ-kvathitauṣadhamadyam, dvayamapi cirantanam| pañcakōlāvacurṇitaṁ sauvarcalalavaṇāḍhyaṁ ca mastu-dadhimaṇḍam| divyaṁ-āntarikṣam| taccātītāśvinagr̥hītaṁ kācādipātrastham, varṣāsu grahaṇaniṣēdhāt| tadabhāvē kaupam, tacca śr̥tam| uktaṁ hi saṅgrahē (sū. a. 4)- “divyaṁ kvathitakūpōtthaṁ cauṇḍyaṁ sārasamēva ca|” iti|

varṣāviśēṣē bhōjanaviśēṣamāha-bhōjanaṁ tviti| atidurrdinē-vātavarṣākulē’hani| saṁśuṣkaṁ-kulmāṣādi| kṣaudravatsamākṣikam| vātalamapi madhu klēdaghnatvātkālasāmarthyēna vā avātalatvādvihitam| uktaṁ hi saṅgrahē (sū. a. 7)- “vātalaṁ vātakōpē’pi varṣāsu madhu śasyatē” iti|

athā’tra kālē yādr̥śaḥ puruṣaḥ syāttaṁ darśayati————-
—————————————-|
apādacārī surabhiḥ satataṁ dhūpitāmbaraḥ||47||
harmyapr̥ṣṭhē vasēdbāṣpaśītaśīkaravarjitē|
———————————————|48|


sa0-pādābhyāṁ carati nityaṁ pādācārī, naiva yaḥ sō’pādacārī,-yānayāyī syāt| tathā, surabhiḥ-śōbhanagandhayōgāt| “snānaśīlaḥ susurabhiḥ” (hr̥.sū.a. 2|31) ityanēnaivāsyārthasyōktatvāt surabhigrahaṇamatiśayārtham| tathā, satataṁ avirataṁ, dhūpitē’mbarē yasya sa ēvam| tathā, harmyapr̥ṣṭhē-dhavalagr̥hatalē, vasēt-tiṣṭhēt| kīdr̥śē ? bāṣpaśca śītaṁ ca śīkaraśca tairvarjitē|


ā0 ra0-apādacāritvādi vidhattē-apādacārīti| apādacārī-satataṁ hastyādivāhanagāmī| dhūpitāmbaraḥ-agurvādidhūpitavastraḥ| satatamiti triṣvapi sambandhanīyam| ataēva “snānaśīlaḥ susurabhiḥ” ityasyāpaunaruktyam|

sthānaviśēṣē vāsaṁ vidhattē-harmyapr̥ṣṭha iti| harmyapr̥ṣṭhē-harmyamastakē|

——————————————|
nadījalōdamanthāhaḥsvapnāyāsātapāṁstyajēt||48||


sa0-tathā, nadījalādīn pañca tyajēt| udakālōḍitāḥ saktavaḥ sasarpiṣkā udamanthavācyā jalāvakṣīrīsaṁjñāḥ| tadatra kālē sāmyatvātsaktavastakrādisaṁyōgānnātyantamaniṣṭāḥ| pānīya saṁyōgāttu vātalāḥ, prakr̥ṣṭavātalē kālē nābhīṣṭā ēva| muninā tvēvamuktam (ca. sū.a. 6|34)- “udamanthaṁ divāsvapnamavaśyāyaṁ nadījalam| vyāyāmamātapaṁ caiva vyavāyaṁ cātra varjayēt” iti|


adhunā śaraccaryāṁ vivakṣuridamāha-


ā0 ra0-nadījalādīn niṣēdhati-nadījalēti| dravālōhitāḥ saktavō manthaḥ, sa ēvōdakē dravē udamanthaḥ| āyāsō-vyāyāmaḥ|

varṣāśītōcitāṅgānāṁ sahasaivārkaraśmibhiḥ|
taptānāṁ sañcitaṁ vr̥ṣṭau pittaṁ śaradi kupyati||49||
tajjayāya ghr̥taṁ tiktaṁ virēkō raktamōkṣaṇam|
——————————————|50|


sa0-varṣāsu śītaṁ varṣāśītaṁ, taducitaṁ-sātmyaṁ yasya, tadēvaṁvidhamaṅgaṁ-vapuryēṣāṁ tē varṣāśītōcitāṅgā narāḥ, tēṣāṁ sahasaiva-jhaṭityēva, śaradi jātāyāṁ, arkaraśmibhiḥ-bhānubhābhistaptānāṁ satāṁ pittaṁ kupyati| kimbhūtam ? vr̥ṣṭau sañcitaṁ,-varṣāsu vr̥ddhiṁ gatam| yataścaivaṁ tataśca tajjayāya tiktaṁ ghr̥taṁ-kuṣṭhacikitsitōktaṁ, yōjyamiti vākyaśēṣaḥ| yadi vā, tiktairdravyaiḥ sādhitam| tathā, virēkō yōjyaḥ| tathā, raktamōkṣaṇaṁ ca| sarvōpakramēbhyaḥ pittē virēkasya jyāyastvādiha pūrvamupanyāsaḥ| tathā hyāha (carakē sū.a. 25|39)- “virēcanaṁ pittaharāṇām” iti| tatō raktamōkṣaṇaṁ, pittādhāratvādraktasya| virēcanāṅgatvācca tajjayāya ghr̥taṁ tiktamiti ghr̥tasya pūrvamupanyāsaḥ| na hyasnigdhasya virēcanaprāptirasti| tathā ca vakṣyati (hr̥. sū. a. 18|59)- “snēhasvēdāvanabhyasya kuryātsaṁśōdhanaṁ tu yaḥ| dāru śuṣkamivānāmē śarīraṁ tasya dīryatē” iti| tathā, viriktasya srutaraktasya ca pavanaprakōpabhayam| kālasvābhāvyācca pittakōpabhayam| tadētatparihartuṁ tathā dēhapuṣṭyarthamagnisandhukṣaṇārthaṁ ca tiktaghr̥tōpayōgaḥ kāryaḥ| ityanēkakāryakaraṇatvēna prādhānyācca tiktaghr̥tasya pūrvamupanyāsaḥ| asamāsakaraṇaṁ ca jñāpanārtham| naitāni sarvāṇyavaśyaṁ tiktaghr̥tādīni tadā kāryāṇi| kiṁ tarhi ? dēśādyanurōdhāt kadācitpittavijayāya tiktaṁ ghr̥taṁ, kadācidvirēkaḥ, kadācidraktamōkṣaḥ, kadāciddvayaṁ, kadācitsakalānyēvēti| virēkastu pittavijayārthamavaśyaṁ śaradi kāryaḥ| yathā-vasantē ślēṣmavijayāya vamanam, varṣāsu ca pavanavijayāya bastiḥ| ata ēva prāṅnirdiṣṭaṁ vasantē vamanaṁ, varṣāsu cāsthāpanaṁ, śaradi virēka iti|


ā0 ra0-atha śaraccaryā| sā ca cayapūrvakē śōdhanī, acayapūrvakē śamanī| tatra sōpapattikāṁ śōdhanīṁ vidhattēvarṣāśītōcitāṅgānāmiti| varṣāsu sañcitaṁ pittaṁ vārṣikaśītasātmyaśarīrāṇāṁ nr̥ṇāṁ śaradyarkaraśmibhiḥ sahasaiva taptānāmasātmyatāpasambandhātkupyati| atasyasya-pittasya, jayāya tiktaṁ-tiktasaṁjñaṁ kuṣṭhacikitsitōktaṁ, ghr̥taṁ snēhanārthaṁ yōjyam| tatō virēkastatō raktamōkṣaṇam|

———————————————–|
tiktaṁ svādu kaṣāyaṁ ca kṣudhitō’nnaṁ bhajēllaghu||50||
śālimudgasitādhātrīpaṭōlamadhujāṅgalam|
———————————————–|51|


sa0-kṣudhitō’nnaṁ-bhōjanaṁ, tiktādiguṇayuktaṁ bhajēt| kṣudhitagrahaṇamatibubhukṣitapratipādanārtham, akṣudhitasya bhōjanādhikārābhāvāt| kiṁ tattiktādiguṇayuktam ? ityāha-śālītyādi| śālyādīn sapta bhajēt|


ā0 ra0-śamanīṁ vidhattē-tiktamiti| kṣudhitaḥ san tiktādirasaṁ laghu śālyādikamannaṁ bhajēt| kṣudhitagrahaṇamatikṣudhitasya bhōjanārtham| tadā hi pittādhikyādasamyakkṣudhyapi kṣudhitatvabuddhiḥ| uktaṁ ca carakēṇa (sū. a. 6/41)- “pittapaśamanaṁ sēvyaṁ mātrayā suprakāṅkṣitaiḥ|” iti| śālyādigrahaṇaṁ tattulyānāmēva tiktādīnāṁ prāptyartham| sitāśarkarā| dhātrī-āmalakī|

————————————————–|
taptaṁ taptāṁśukiraṇaiḥ śītaṁ śītāṁśuraśmibhiḥ||51||
samantādapyahōrātramagastyōdayanirviṣam|
śuci haṁsōdakaṁ nāma nirmalaṁ malajijjalam||52||
nābhiṣyanti na vā rūkṣaṁ pānādiṣvamr̥tōpamam|
————————————————–|53|


sa0-samantāt-sarvataḥ, sūryaprabhābhirahani taptaṁ-kvathitam, candrakiraṇairniśi śītīkr̥tam| tathā, agastyōdayēna nirviṣīkr̥tam| tathā, śuci-pavitram| varṣāsu hyaśucītyuktam| tacca haṁsōpabhōgyatayā haṁsavadatinairmalyāddhaṁsōdakaṁ nāma tantrakārairāyurvēdaśāstrē saṁjñitam| tathā, nirmalaṁ-akaluṣam| tathā, malānvātapittaślēṣmaṇō, jayatīti malajit| agastyōdayanirviṣaśabdēna viśēṣaṇēnaitat pratipādayati, yathā-yadantarikṣaprabhavaṁ sarastaḍāgādisthaṁ jalaṁ, tadēva prāyēṇa śaradyēvaṁguṇaṁ vēdyam| na kūpādiprabhavam, tasya sadā nirviṣatvāt| tathā cāntarikṣaprabhavamēvaṁ paṭhyatē (hr̥. sū. a. 5|8)- “lūtāditantuviṇmūtraviṣasaṁślēṣadūṣitam” iti| tacca nābhiṣyandi-na srutirūpaślēṣmakāri, na vā rūkṣaṁ-na vātaprakōpakāri| vāśabdaśca śabdasyārthē’tra| yatastaptāṁśukiraṇaistaptam, yataśca śītāṁśukaraiḥ śītaṁ-prāhlāditam, itthaṁ snēharaukṣyayōrantarē vartamānaṁ pānādiṣvamr̥tōpamam| ādiśabdēna snānāvagāhayōrgrahaḥ| kupitadōṣaśamanādakupitadōṣasāmyānuvr̥ttihētutvāccāmr̥tatulyamētajjalaṁ bhajēditi yōjyam| atrōṣṇāṁśugrahaṇamagnitāpanivr̥ttyai| kiraṇagrahaṇaṁ sākṣāttatsparśasambhāvanārtham| tr̥ṇadavapalāśādibhirāstr̥tamapi ravistāpayati na tu tattathā guṇavat| ataḥ kiraṇagrahaṇēna tadvyavadhānavyudāsaṁ karōti| nanu ca, sarvaṁ dinaṁ sūryakiraṇaistāpaḥ sambhavati| candrakaraistu sarvāṁ rātriṁ kathamiva syāt ? yataḥ sakalasya candramasaḥ paurṇamāsyāmēva sarvasyāṁ rātryāṁ sambhavō nānyatra| tasmācchītaṁ candrakiraṇai rātryāmiti naitadyuktam| atrōcyatē| vimalē vyōmani yathaiva ravicandrau yathākālamavyāhatasvarūpaṁ prāptau pathyatāṁ jalasyāpādayatastadvannakṣatrāṇyapi| tasmānnakṣatrairapi śītaṁ candrēṇēva śrēṣṭhamēva bhavatyudakam| ēvaṁ caitadavagacchēt, anyathaitadvākyamayuktamiva syāt| carakamunināpyanēnaivā’bhiprāyēṇa nakṣatragrahaṇaṁ nākāri| yathā (ca. sū. a. 6|45)- “divā sūryāṁśusantaptaṁ niśi candrāṁśuśītalam|” iti| aṣṭāṅgasaṅgrahē’pyuktam (sū.a. 4.)- “divā divākarakarairniśākarakarairniśi” iti| atra hi sakalasyāhōrātrasya raviśaśiyōgāya divāniśāgrahaṇam, anyathaitadanarthakaṁ syāt, vyabhicārābhāvāt|


ā0 ra0-haṁsōdakaṁ vidhattē-taptamiti| kiraṇaraśmigrahaṇaṁ sākṣātsambandhārtham| samantādapi-sarvēṣvapi pradēśēṣu| ahōrātragrahaṇaṁ sarvadā sambandhārtham| sarvaṁ dinaṁ sūryēṇa tāpitaṁ, sarvāṁ ca rātriṁ śītāṁśunā śītalīkr̥tam| śītāṁśuśabdēna rātridr̥śyaṁ jyōtiścakramupalakṣyatē, yaugikatvāducyatē vā| agastyō-jyōtirviśēṣaḥ| śuci-svata ēva nirmalam, tacca śaradi| yadāha suśrutaḥ (sū. a. 45/8)- “śaradi sarvaṁ prasannatvāt” iti| tasmācchāradamēva haṁsōdakam| tathā”ha carakaḥ (sū. a. 6/46)- “haṁsōdakamiti khyātaṁ śāradaṁ vimalaṁ śuci” iti| nirmalaṁ-sūryatāpādinā apagatadōṣam| malajit-dōṣatrayaharam| nābhiṣyandi-na srōtaḥsrāvi| na vā rūkṣaṁ-na srōtaḥśōṣi| pānādiṣu-pānasnānāvagāhēṣu| amr̥tōpamaṁ-yathā dēvānāmamr̥taṁ tathēdaṁ manuṣyāṇām| saṅgrahē tu (sū. a. 4)- “haṁsaughāpakṣavikṣēpabhramadbhrmarapaṅktiṣu| susarōruhasēvyāsu sarasīṣu plavēta ca|| iti|

——————————————-|
candanōśīrakarpūramuktāsragvasanōjjvalaḥ||53||
saudhēṣu saudhadhavalāṁ candikāṁ rajanīmukhē|
——————————————-|54|


sa0-candanaṁ cōśīraṁ ca karpūraśca muktāśca srajaśca vasanāni ca, tairujjvalaḥ-śōbhanaḥ san, saudhēṣu-dhavalagr̥hapr̥ṣṭhēṣu, candrikāṁ jyōtsnāṁ, bhajēt| kadā ? rajanīmukhē,-pradōṣē| paratastu nidāgha iva na sēvyā, avaśyāyabhayāt| avaśyāyō hyatra parihāryaḥ|


tathā cāha-


ā0 ra0-pradōṣē kaumudībhajanaṁ vidhattē-candranōśīrēti| candanādibhirujjavalaḥsan, saudhēṣvavasthitaḥ saudhadhavalāṁ candrikāṁ rajanīmukhē bhajēt| uśīraṁ-sugandhivālakam| srajaḥ-kumudādimālāḥ| saudhēṣu-sudhādhavalagr̥hēṣu|

——————————————-|
tuṣārakṣārasauhityadadhitailavasātapān||54||
tīkṣṇamadyadivāsvapnapurōvātān parityajēt|
——————————————-||55||


sa0-tuṣārādīn daśa parityajēt| tuṣārō-avaśyāyaḥ| kṣārō-yavakṣārādiḥ| sauhityaṁ-tr̥ptiḥ| tīkṣṇaṁ ca tanmadyaṁ ca tīkṣṇamadyam| purōvātaḥ-pūrvadigāgatō vātaḥ|


ā0 raṁ0-tuṣārādīnniṣēdhati-tuṣārakṣārēti| tuṣārōabadhyāyaḥ| kṣārō-yavakṣārādiḥ| sauhityaṁ-tr̥ptibhōjanam| tīkṣṇamadyaṁ-tīvramadamadyam| purōvātaḥ-pūrvadigvāyuḥ|

vyāsēna r̥tucaryāmuktvā samāsēnāha-
——————————————-|
śītē varṣāsu cādyāṁstrīn vasantē’ntyān rasānbhajēt
svāduṁ nidāghē, śaradi svādutiktakaṣāyakān|
śaradvasantayō rūkṣaṁ śītaṁ gharmaghanāntayōḥ||56||
annapānaṁ samāsēna viparītamatō’nyadā|
——————————————-|57|


sa0-śītē-hēmantaśiśirayōḥ, varṣāsu cādyāṁstrīn-svādvamlalavaṇākhyān, rasān bhajēt| vasantē cāntyāṁstrīn-tiktakaṭukaṣāyān bhajēt| svāduṁ nidāghē-grīṣmē madhuraṁ, bhajēt| śaradi svādutiktakaṣāyān bhajēt| śaradvasantayō rūkṣamannapānaṁ samāsēna bhajēt| atō viparītaṁ-snigdham, anyadā-hēmantaśiśiragrīṣmavarṣāsu| śītamannapānaṁ gharmaghanāntayōrbhajēt| atō viparītaṁ-uṣṇamannapānam, anyadā-hēmantaśiśiravasantavarṣākhyē kālē, bhajēt|


ā0 ra0-vyāsēnōktamr̥tucaryāṁ sukhagrahaṇārthaṁ samāsēnāha-śītē varṣāsu cēti| hēmantaśiśiravarṣāsu svādvamlalavaṇasnigdhōṣṇamannapānaṁ bhajēt| vasantē tiktakaṭukaṣāyarūkṣōṣṇam| grīṣmē svāduśītasnigdham| śaradi svādutiktakaṣāyarūkṣaśītam| iti mathitārthaḥ|

samprati sēvyatvēnōpadiṣṭasyāhārasyāpavādamāha————-
——————————————-|
nityaṁ sarvarasābhyāsaḥ svasvādhikyamr̥tāvr̥tau||57||


sa0-nityaṁ-sarvadā, sarvēṣāṁ-ṣaṇṇāmapi rasānāṁ, abhyāsaḥ-śīlanaṁ, kāryamiti vākyaśēṣaḥ| “sarvarasābhyāsō balakarāṇām” iti (saṁ. sū. a. 13) vacanāt| nanvēvaṁ sati yathartusēvyatvēna rasaniyamō yaḥ pūrvaṁ kr̥taḥ sa viruddhaḥ ? nētyāha-svasvētyādi| r̥tāvr̥tāviti vīpsāyāṁ dvitvam| svaṁ ca svaṁ ca svasvaṁ, tasyādhikya-bhūyastvaṁ, kāryamiti śēṣaḥ| yathā-śītē varṣāsu cādyāṁstrīnityuktam| tadētēṣu r̥tuṣvētē rasā bhūyasōpayōktavyāḥ, na tvēta ēvētyarthaḥ| tathā, samadhātuṁ prati samē dēśē caiṣa niyamō vēdyaḥ| anyatra tu jāṅgalē’nūpē vā dēśē viṣamadhātōśca dhātusāmyōtpādanārthaṁ dēśadēhānuguṇamanyartuvihitavidhānamanyasminnapyr̥tāvanuṣṭhēyamēva|


ā0 ra0-svādvādiniyamānnivāritasya rasāntarasya pratiprasavaṁ karōti-nityamaiti| nityaṁ-sarvēṣu r̥tuṣum sarvēṣāṁ rasānāmabhyāsaḥ kartavyaḥ| nanvēvaṁ cēttarhi svādvādividhirvyathaḥ syādityata āha-svasvādhikyamiti| yathāsvaṁ vihitānāṁ asvādvādīnāmitarēbhyō’dhikō’bhyāsaḥ kartavyaḥ|

kimanyasminnr̥tau prāptē, pūrvartucaryā sahasaiva tyājyā’nyā ca sēvyā ? nētyāha————————————
r̥tvōrantyādisaptāhāvr̥tusandhiriti smr̥taḥ|
tatra pūrvō vidhistyājyaḥ sēvanīyō’paraḥ kramāt|58|
asātmyajā hi rōgāḥ syuḥ sahasā tyāgaśīlanāt|
58 1/2|
iti śrīvaidyapatisiṁhaguptasūnuśrīmadvāgbhaṭaviracitāyāmaṣṭāṅgahr̥dayasaṁhitāyāṁ sūtrasthānē r̥tucaryā nāma tr̥tīyō’dhyāyaḥ|3|


sa0-r̥tvōḥ-śiśiravasantayōrgrīṣmaprāvr̥ṣōrityādikayōḥ, antyaścādiśca yau saptāhau tāvr̥tusandhiriti smr̥taḥ-ityucyatē| tatra-saptāhadvayalakṣaṇa r̥tusandhau, pūrvaḥ-pūrvartusambandhī, vidhistyājyaḥ| aparaḥ-ēṣyaddatusambandhī, sēvanīyaḥ| katham ? kramāt,-kramēṇa, “pādēnāpathyamabhyastam” (hr̥. sū. a. 7|47) ityādinā| saptānāmahnāṁ samāhāraḥ saptāhaḥ| saptāhaśca saptāhaśca saptāhau| “rājāhaḥsakhibhyaṣṭac” iti ṭac samāsāntaḥ| “na saṁkhyādēḥ samāhārē” ityahnādēśaniṣēdhaḥ| nanu, kimēvaṁ tyāgaḥ sēvanaṁ ca kriyatē ? ityāha-asātmyajā ityādi| yasmāt sahasā tyāgaśīlanāt asātmyāt-anucitājjātā asātmyajā rōgāḥ syuḥ| tataḥ sahasā tyāgaśīlanaṁ na kāryamiti bhāvaḥ|

iti śrīmr̥gāṅkadattaputraśrīmadaruṇadattaviracitāyāmaṣṭāṅgahr̥dayaṭīkāyāṁ sarvāṅgasundarākhyāyāṁ sūtrasthānē tr̥tīyō’dhyāyaḥ samāptaḥ|| 3||


ā0 ra0-pūrvōttarayōr̥tucaryayōḥ kramēṇa tyajanabhajanē vidhattē-r̥tvōriti| pūrvasyartōrantyaḥ saptāhaḥ, uttarasya ca ādyaḥ saptāhaḥ, ēvaṁ caturdaśāhāt r̥tusandhiḥ smr̥taḥ| tasmin r̥tusandhau purvartusambandhī vidhiḥ kramāt tyājyaḥ, uttarartusambandhī kramātsēvyaḥ| sahasā hi tyāgaśīlanē ca kriyamāṇē asātmyajā rōgāḥsyuḥ| kramō yathā-r̥tusandhēḥ prathamē dinē purvasyāhārasya trayaḥ pādāḥ, uttarasyaikaḥ| dvitīyē pūrva ēvāhāraḥ| tr̥tīyē prathamavat| caturthē purvasya dvau pādau, uttarasya dvau| pañccamaṣaṣṭhayōḥ prathamavat| saptamē caturthavat| aṣṭamē pūrvasyaikaḥ, uttarasya trayaḥ| navamadaśamaikādaśēṣu caturthavat| dvādaśē’ṣṭamavat| trayōdaśē uttara ēva āhāraḥ| caturdaśē’ṣṭamavat| ataḥparaṁtūttara ēvāhāraḥ| amu ca kramaṁ “pādēnāpathyam” (hr̥. sū. a. 7/47) ityatrōpapādayiṣyamaḥ| suśrutastvahōrātrē’pi ṣaḍr̥tūnāha (sū. a. 6/15)- “tatra pūrvāhṇē vasantasya liṅgam, madhyāhnē grīṣmasya, aparāhṇē prāvr̥ṣaḥ, pradōṣē vārṣikam, śāradamardharātrē, pratyuṣasi haimantamupalakṣayēt| ēvamahōrātramapi varṣamiva śītōṣṇavarṣadōṣōpacayaprakōpōpaśamairjānīyāt” iti| nanu, tataścaikasya dōṣasyaikasmin kālē cayaprakōpōpaśamairviruddhatvaṁ cāpadyatē, vārṣikāṇāmāhōrātrikāṇāṁ ca cayādīnāṁ tathā samāvēśāt| yathā-vasantasya pūrvāhṇē kaphasya liṅgam, madhyāhnē grīṣmasya| maivam| āhōrātrikaiścayādibhiranavakāśaiḥ sāvakāśā vārṣikāścayādayō bādhyantē| āhōrātrikaḥ kaphasya hi praśamō mādhyāhnikaḥ, tasyāvakāśō madhyāhna ēva| prakōpastu vāsāntika, tasyāvakāśāḥ sāyāhnādayō’pi, tēṣāmapi vasantatvāt| na grīṣmādimadhyāhnō mādhyāhnikasya praśamasyāvakāśa iti vācyam, grīṣmē tāvadgrīṣmatvādēva praśamē siddhē vaiyarthyāt| varṣāsu dōṣatrayaduṣṭiḥ, śaradyapi kiñcitkaphapakōpa iṣṭaḥ| “kuryātpittaṁ ca śaradi tasya cānubalaḥ (laṁ) kaphaḥ” iti (hr̥.ni.a. 2/51) vacanāt| hēmantaśiśirayōḥ sañcayaḥ spaṣṭa ēva| ēvaṁ cayapraśamayōrapi vācyam| cayaprakōpayōstvavirōdhaḥ, dvayōrvr̥ddhirūpatvāt| yacca pracalitatvaṁ prakōpē viśēṣaḥ, taṁ praticayahētōrudāsīnatvam| ēvaṁ vātapittayōrapi vācyam| nanu, “vayōhōrātribhuktānāṁ tē’ntamadhyādigāḥ kramāt|” iti (hr̥.sū.a. 1/8) vākyē pittakaphavātānāṁ madhyāhnapurvarātrāpararātrēṣu prakōpa uktaḥ| suśrutavākyē tu vātacayavātaprakōpakaphacayā uktāḥ, iti virōdhaḥ| maivam| dōṣabhēdanāvirōdhāt| athartulakṣaṇaṁ saṅgrahē (sū.a.4)-“dhūmadhūmrā rajōmandāstuṣārāvilamaṇḍalāḥ| digādityā marucchaityāduttarō rōmaharṣaṇaḥ|| rōdhrapriyaṅgupunnāgalavalyaḥ kusumōjjvalaḥ| dr̥ptā gajājamahiṣavājivāyasaśūkarāḥ|| himānīpaṭalacchannā līnamīnavihaṅgamāḥ| nadyaḥ sabāṣpāḥ sōṣmāṇaḥ kūpāpaśca himāgamē|| dēhōṣmāṇō viśantō’ntaḥ śītē śītānilāhatāḥ| jaṭharē piṇḍitōṣmāṇaṁ prabalaṁ kurvatē’nalam|| visargē balināṁ prāyaḥ svabhāvādiguru kṣamam| br̥ṁhaṇānyannapānāni yōjayēttasya yuktayē|| vasantē dakṣiṇō vāyurātāmrakiraṇō raviḥ| navapravālatvakpatrāḥ pādapāḥ kakubhō’malāḥ|| kiṁśukāśōkacūtādivanarājivirājitāḥ| kōkilālikulālāpakalakōlāhalākulāḥ|| grīṣmē’tasīpuṣpanibhastīkṣṇāṁśurdavadīpitāḥ| diśō jvalanti bhūmiśca mārutōnair̥tō’sukhaḥ|| pavanātapasaṁsvēdarjantavō jvaritā iva| tāpārtatuṅgamātaṅgamahiṣaiḥ kaluṣīkr̥tāḥ|| divākarakarāṅgāranikaraiḥ kṣapitāmbhasaḥ| pravr̥ddharōdhasō nadyaśchāyāhīnā mahīruhāḥ|| viśīrṇajīrṇaparṇāśca śuṣkavalkalatāṅkitāḥ| varṣāsu vāruṇō vāyuḥ sarvasasyasamudbhavaḥ|| bhinnēndranīlanīlābhravr̥ndamandāvilaṁ nabhaḥ| dīrghikā navavāryōghamagnasōpānapaṅktayaḥ|| vāridhārābhr̥śāghātavikāsitasarōruhāḥ| saritaḥ sāgarākārā bhūravyaktajalasthalā|| mandrastanitajīmūtaśikhidarduranāditā| indragōpadhanuḥkhaṇḍavidyududyōtadīpitā|| paritaḥ śyāmalatr̥̄ṇā śilīndhrakuṭajōjjvalā| śaradi vyōmaśubhrābhraṁ kiñcitpaṅkāṅkitā mahī|| prakāśakāśasaptāhvakumudā śāliśālinī| vikṣiptatīkṣṇakiraṇō mēghaughavigamādraviḥ|| babhruvarṇō’tivimalāḥ krauñcamālākulā diśaḥ| kamalāntarasaṁlīnamīnahaṁsāṁsaghaṭṭanaiḥ|| taraṅgabhaṅgatuṅgāni sarāṁsi vimalāni ca|” iti|


iti hēmādriṭīkāyāmāyurvēdarasāyanē|
r̥tucaryāprakaraṇaṁ sāmastyēna nirūpitam|| 3||

Scroll to Top