Carakasaṃhitā Siddhisthāna Adhyāya 10 – Basti

eSamhita: A Scholarly Digital Initiative of Ayurveda360

Table of Contents

Devanagari Version

महर्षिणा पुनर्वसुनोपदिष्टा, तच्छिष्येणाग्निवेशेन प्रणीता, चरकदृढबलाभ्यां प्रतिसंस्कृता

चरकसंहिता

श्रीचक्रपाणिदत्तविरचितया आयुर्वेददीपिकाव्याख्यया सहिता

सिद्धिस्थानम् - १०. बस्तिसिद्धिः

Only Moolashloka

अथातो बस्तिसिद्धिं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेय||२||

त्रिमर्मीयायां बहुरोगप्रतिपादनाद्बहुरोगहितबस्तिप्रतिपादनार्थं बस्तिसिद्धिरुच्यते| अत्रैव बस्तिशब्देन सिद्धिबस्तयोवक्ष्यमाणा अभिप्रेताः||१-२||

सिद्धानां बस्तीनां शस्तानां तेषु तेषु रोगेषु|
शृण्वग्निवेश ! गदतः सिद्धिं सिद्धिप्रदां भिषजाम्||३||

सिद्धानामिति प्रसिद्धफलानाम्| तेषु तेष्विति वक्ष्यमाणवातगदादिषु| सिद्धिमिति बस्तिनिष्पादिकां, किंवा बस्त्यभिधायकग्रन्थम्||३||

बलदोषकालरोगप्रकृतीः प्रविभज्य योजिताः सम्यक्
स्वैः स्वैरौषधवर्गैः स्वान् स्वान् [१] रोगान्नियच्छन्ति||४||
कर्मान्यद्बस्तिसमं न विद्यते शीघ्रसुखविशोधित्वात्|
आश्वपतर्पणतर्पणयोगाच्च निरत्ययत्वाच्च||५||

बस्तेरितिकर्तव्यतां गुणांश्च प्रतिपादनीयबस्त्यङ्गभूतानाह- बलदोषेत्यादि| अत्र च बलादौ यथाप्रधानमिह गृहीते सर्वपरीक्षावरोधो व्याख्येयः; “परीक्ष्य [२] दोषौषध … ” (सि.अ.३) इत्यादिनोक्तोऽप्ययमर्थः पुनः प्रकरणवशादुच्यते| स्वैः स्वैरौषधवर्गैरिति यथाव्याधिप्रतिपादितैरौषधैः| स्वान् स्वानिति तत्तद्बस्तिविधेयौषधप्रशमनीयान्| आश्वपतपर्णतर्पणयोगादिति अपतर्पणार्थप्रयुक्तो बस्तिरन्यापतर्पणभेषजेभ्यः शीघ्रमपतर्पणं करोति; एवं तर्पणद्रव्ययुक्तोऽपि बस्तिः शीघ्रमितरतर्पणापेक्षया तर्पणं करोति||४-५||

सत्यपि दोषहरत्वे कटुतीक्ष्णोष्णादि भेषजादानात्|
दुःखोद्गारोत्क्लेशाहृद्यत्वकोष्ठरुजा विरेके स्युः||६||
अविरेच्यौ शिशुवृद्धौ तावप्राप्तप्रहीनधातुबलौ|
आस्थापनमेव तयोः सर्वार्थकृदुत्तमं कर्म||७||
बलवर्णहर्षमार्दवगात्रस्नेहान्नृणां ददात्याशु|८|

बस्त्यपेक्ष्या शोधनान्तरेण दोषहरणे दोषमाह- सत्यपीत्यादि| कटुकादिभेषजैर्विरेकदानाद्दुःखं चोद्गारश्चोत्क्लेशश्चाहृद्यत्वं च कोष्ठरुजाश्चैतै सर्वे भवन्ति; तत्र दुःखं कटुकादिना रसेनोद्वेगादेव भवति; एते दोषा बस्तौ न सम्भवन्तीति भावः| विरेकशब्देन वमनविरेकावपि ग्राह्यौ; किंवा वमनं बस्तिना सममत्यन्तभिन्नविषयत्वादेव नोदाहृतं, विरेकस्तु पक्वाशयस्थेऽपि दोषे बस्तिविषये भवतीति कृत्वा विरेकमेव प्रति बस्तेः प्राधान्यमिहोच्यते| अविरेकादिविषये बस्तेर्यौगिकतया प्राधान्यमाह- अविरेच्यावित्यादि| तावित्यादौ यथासङ्ख्यं व्याख्येयम्- अप्राप्तधातुरप्राप्तबलश्च बालः, प्रहीणधातुः प्रहीणबलश्च वृद्धः, एवम्भूतत्वाच्चाविरेच्यावेतौ| सर्वार्थकृदिति निरत्ययदोषहरणबृंहणादिकृत्||६-७||-

अनुवासनं निरूहश्चोत्तरबस्तिश्च स त्रिविधः||८||
शाखावातार्तानां सकुञ्चितस्तब्धभग्नरुग्णानाम् [३] |
विट्सङ्गाध्मानारुचिपरिकर्तिरुगादिषु च शस्तः||९||
उष्णार्तानां शीताञ्छीतार्तानां तथा सुखोष्णांश्च|
तद्योग्यौषधयुक्तान् बस्तीन् सन्तर्क्य [४] विनियुज्यात्||१०||

बस्तेर्भेदानाह- अनुवासनमित्यादि| तद्योग्यौषधयुक्तानिति उष्णार्तिहरेण शीतार्तिहरेण वा औषधेन कल्पितान्||८-१०||

बस्तीन्न बृंहणीयान् दद्याद् [५] व्याधिषु विशोधनीयेषु|
मेदस्विनो विशोध्या येऽपि नराः कुष्ठमेहार्ताः||११||
न क्षीणक्षतदुर्बलमूर्च्छितकृशशुष्कदेहानाम्|
युञ्जाद्विशोधनीयान् दोषनिबद्धायुषो ये च||१२||

विशोधनीयान् व्याधीनुदाहरति- मेदस्विन इत्यादि| विशोध्या येऽपीति भूरिदोषत्वेन ये शोधनार्हा इत्यर्थः| दोषनिबद्धायुष इति दोषे मलादिरूपे देहस्थे निबद्धमायुर्येषां शोष्यतिदुर्बलप्रभृतीनां ते तथा; उक्तं हि ‘शोषी मुञ्चति गात्राणि पुरीषस्रंसनादपि| अबलापेक्षिणीं [६] मात्रां किं पुनर्यो विरिच्यते’ (चि.अ.८) इति||११-१२||

वाजीकरणेऽसृक्पित्तयोश्च मधुघृतपयोयुक्ताः|
शस्ताः सतैलमूत्रारनाललवणाश्च [७] कफवाते||१३||
युञ्जाद्द्रव्याणि बस्तिष्वम्लं मूत्रं पयः सुरां क्वाथान्|
अविरोधाद्धातूनां रसयोनित्वाच्च जलमुष्णम्||१४||

कार्यविशेषापेक्षया बस्तीनां संस्कारविशेषानाह- वाजीकरणे इत्यादि| मधुप्रक्षेपो बस्तौ पूर्वोक्तसामान्यविधानलब्धोऽप्यधिकमात्रया प्रक्षेपार्थमवश्यप्रक्षेपार्थं चेहोच्यते| अविरोधाद्धातूनामिति पूर्वेण सम्बध्यते, तेन यस्मिन् संस्कारे अम्लादिषु [८] मध्ये यद्धातुविरोधि न भवति तद्देयं, यत्तु धातुविरोधि भवति न तद्देयं; व्याधितप्रकृत्यविरुद्धं यद् यस्य भवति तत् तस्य देयमित्यर्थः| रसयोनित्वाच्च जलमुष्णमिति जलं यस्माद्रसयोनिः, तेन तदुष्णं सत् सर्वबस्तिगतरसस्य पोषणार्थं सर्वबस्तिषु देयम्; एतच्च जलं बस्तिषु साक्षात् प्रक्षेपादर्शनात् कल्कादिपेषणे विनियोज्यं; किंवा अत्र तद्वचनप्रामाण्यादेव ज्ञेयं; किंवा जलशब्दोऽयं द्रवोपलक्षणः, तेनाम्लादिद्रवदानस्यैवेयमुपपत्तिः| रसयोनित्वं द्रवसम्बन्धादेवाम्लादीनामुपपन्नम्| अन्ये तु जलमुष्णं प्रतिनियतमेव, चूर्णबस्तावेवेच्छन्ति, चूर्णबस्तिश्च यः केवलद्रवेन दीयते; तन्त्रान्तरेऽप्युक्तं यथा “रास्नावचाबिल्वशताह्वयैलापूतीककृष्णाफलदारुकुष्ठैः| ससैन्धवाम्लोष्णजलः सतैलः शूलघ्न इष्टः खलु चूर्णबस्तिः” इति||१३-१४||

सुरदारुशताह्वैलाकुष्ठमधुकपिप्पलीमधुस्नेहाः|
ऊर्ध्वानुलोमभागाः ससर्षपाः शर्करा लवणम्||१५||
आवापा [९] बस्तीनामतः प्रयोज्यानि येषु यानि स्युः|
युक्तानि सह कषायैस्तान्युत्तरतः प्रवक्ष्यामि||१६||
चिरजातकठिनबलेषु व्याधिषु तीक्ष्णा विपर्यये मृदवः|
सप्रतिवापकषाया योज्यास्त्वनुवासननिरूहाः||१७||

सुरदार्वित्यादिना बस्तिषु दोषाद्यपेक्षया व्यस्तसमस्तविधया प्रक्षेप्यानाह| आवापा बस्तीनामिति बस्तिष्वावाप्या इत्यर्थः| यानीति कषाययुक्तानि| चिरजातकठिनबलेषु तीक्ष्णा इति अत्रोक्ततीक्ष्णद्रव्ययोगेन तीक्ष्णाः| विपर्यये चेति अचिरजाते अकठिनबले च| अनुवासननिरूहा इति अनुवासने कषाययोगः स्नेहसाधनार्थमेव, आवापस्त्वनुवासनेऽपि शताह्वादीनां कर्तव्य एव; यदुक्तमन्यत्र- “पिप्पलीं मदनं कुष्ठं शताह्वां मधुकं वचाम्| योजयेन्मात्रया पिष्ट्वा आवापमनुवासने” इति||१५-१७||

अर्धश्लोकैरतः सिद्धान् नानाव्याधिषु सर्वशः [१०] |
बस्तीन् वीर्यसमैर्भागैर्यथार्हालोडनाञ्छृणु||१८||
बिल्वोऽग्निमन्थः श्योनाकः काश्मर्यः पाटलिस्तथा|
शालपर्णी पृश्निपर्णी बृहत्यौ वर्धमानकः||१९||
यवाः कुलत्थाः कोलानि स्थिरा चेति त्रयोऽनिले|
शस्यन्ते सचतुःस्नेहाः पिशितस्य रसान्विताः||२०||
नलवञ्जुलवानीरशतपत्राणि शैवलम्|
मञ्जिष्ठा सारिवाऽनन्ता पयस्या मधुयष्टिका||२१||
चन्दनं पद्मकोशीरं तुङ्गं ते पैत्तिके त्रयः|
सशर्कराक्षौद्रघृताः सक्षीरा बस्तयो हिताः||२२||
अर्कस्तथैव चालर्क एकाष्ठीला पुनर्नवा|
हरिद्रा त्रिफला मुस्तं पीतदारु कुटन्नटम्||२३||
पिप्पल्यश्चित्रकश्चेति त्रयस्ते श्लेष्मरोगिषु [११] |
सक्षारक्षौद्रगोमूत्रा नातिस्नेहान्विता हिताः||२४||

पूर्वं सिद्धानां बस्तीनामित्यादिना प्रतिज्ञातार्थान् बस्तीनाह- अर्धश्लोकैरित्यादि| व्याधिष्वित्यत्र व्याधिशब्दो दोषेऽपि वर्तनीयः| बहुश इति एकैकस्मिन् व्याधौ दोषे च बहुश इत्यर्थः| वीर्यसमैर्भागैरिति अन्योन्यानुपहतसामर्थ्यैर्द्रव्यभागैः| वर्धमानक एरण्डः| पिशितस्य रसान्विता इति प्रक्षिप्तमांसरसाः| वञ्जुलः वेतसः, वानीरः तद्भेदः| तुङ्गः पुन्नागः| अलर्कः मन्दारः| एकाष्ठीला पाठा| कुटन्नटं कैवर्तमुस्तकम्, अन्ये तगरमाहुः||१८-२४||

फलजीमूतकेक्ष्वाकुधामार्गवकवत्सकाः [१२] |
श्यामा च त्रिफला [१३] चैव स्थिरा दन्ती द्रवन्त्यपि||२५||
प्रकीर्या चोदकीर्या च नीलिनी क्षीरिणी तथा|
सप्तला शङ्खिनी लोध्रं फलं कम्पिल्लकस्य च||२६||
चत्वारो मूत्रसिद्धास्ते पक्वाशयविशोधनाः|
(व्यस्तैरपि समस्तैश्च चतुर्योगा उदाहृताः [१४] )||२७||

क्ष्वेडः कृतवेधनः| द्रवन्ती दन्तीभेदः| प्रकीर्या करञ्जः| नीलिनी नीलवुह्ना, ‘नीलाञ्जनिका’ इत्यन्ये||२५-२७||

काकोली क्षीरकाकोली मुद्गपर्णी [१५] शतावरी|
विदारी मधुयष्ट्याह्वा शृङ्गाटककशेरुके||२८||
आत्मगुप्ताफलं माषाः सगोधूमा यवास्तथा|
जलजानूपजं [१६] मांसमित्येते शुक्रमांसलाः [१७] ||२९||

एते शुक्रमांसला इत्यत्र एते इति चत्वारः पूर्वोक्ताः||२८-२९||

जीवन्ती चाग्निमन्थश्च धातकीपुष्पवत्सकौ|
प्रग्रहः खदिरः कुष्ठं शमी पिण्डीतको यवाः||३०||
प्रियङ्गू रक्तमूली च तरुणी स्वर्णयूथिका|
वटाद्याः किंशुकं लोध्रमिति साङ्ग्राहिका मताः||३१||

पिण्डीतकः मदनः| रक्तमूली समङ्गा| तरुणी आरामतरुणी, नवमालिका वा||३०-३१||

परिस्रावे [१८] शृतं क्षीरं सवृश्चीरपुनर्नवम्|
आखुपर्णिकया वाऽपि तण्डुलीयकयुक्तया||३२||

तण्डुलीयकयुक्तयेत्यन्तेन परिस्रावे द्वावुक्तौ||३२||

कालङ्कतककाण्डेक्षुदर्भपोटगलेक्षुभिः [१९] |
दाहघ्नः सघृतक्षीरो द्वितीयश्चोत्पलादिभिः||३३||

काण्डेक्षुः बृहदिक्षुः; पोटगलः होग्गलः| उत्पलादिभिरिति उत्पलादयो नलिनसौगन्धिकादयो जलजाः पुष्पविशेषाः||३३||

कर्बुदाराढकीनीपविदुलैः क्षीरसाधितैः|
बस्तिः प्रदेयो भिषजा शीतः समधुशर्करः||३४||
परिकर्ते तथा वृन्तैः श्रीपर्णीकोविदारजैः|
(देयो बस्तिः सुवैद्यैस्तु यथावद्विदितक्रियैः [२०] )||३५||

कर्बुदारः काञ्चनारः, विदुलो वेतसः| कोविदारजैरित्यन्तेन द्वितीयः परिकर्ते||३४-३५||

बस्तिः [२१] शाल्मलिवृन्तानां क्षीरसिद्धो घृतान्वितः|
हितः प्रवाहणे तद्वद्वेष्टैः शाल्मलिकस्य च||३६||

वेष्टैः शाल्मलिकस्य चेत्यन्तेन द्वितीयः प्रवाहणे||३६||

अश्वावरोहिकाकाकनासाराजकशेरुकैः|
सिद्धाः क्षीरेऽतियोगे स्युः क्षौद्राञ्जनघृतैर्युताः||३७||
न्यग्रोधाद्यैश्चतुर्भिश्च तेनैव विधिना परः|३८|

अश्वावरोहिका अश्वगन्धा, अश्वकर्णः, इक्षुरको वा; जतूकर्णदर्शनात्तु अश्वावरोहकः अश्वकर्णः| न्यग्रोधाद्याश्चत्वारः न्यग्रोधोदुम्बराश्वत्थप्लक्षाः| तेनैव विधिनेति पूर्वयोगविधिना| एतौ द्वावतियोगे||३७||-

बृहती क्षीरकाकोली पृश्निपर्णी शतावरी||३८||
काश्मर्यबदरीदूर्वास्तथोशीरप्रियङ्गवः|
जीवादाने शृतौ क्षीरे द्वौ घृताञ्जनसंयुतौ||३९||
बस्ती प्रदेयौ भिषजा शीतौ समधुशर्करौ|
गोऽव्यजामहिषीक्षीरैर्जीवनीययुतैस्तथा||४०||
शशैणदक्षमार्जारमहिषाव्यजशोणितैः|
सद्यस्कैर्मृदितैर्बस्तिर्जीवादाने प्रशस्यते||४१||
मधूकमधुकद्राक्षादूर्वाकाश्मर्यचन्दनैः|
तेनैव विधिना बस्तिर्देयः सक्षौद्रशर्करः||४२||

जीवादाने इति जीवशोणितप्रवृत्तौ| गोऽव्यजेत्यादिना जीवादाने प्रशस्यते इत्यन्तेन जीवादाने तृतीयो बस्तिरुच्यते| अयं च यद्यपि श्लोकार्धाविहितो बस्तिः, तथाऽपि श्लोकार्धैरिति प्रतिज्ञा भूरिप्रयोगाणां श्लोकार्धविहितत्वेन ज्ञेया; किंवा अत्रापि गोऽव्यजेत्यादिनाऽर्धश्लोकविहित एव व्यवस्थितः; पूर्वार्धेन तु तस्येतिकर्तव्यतोच्यते; इतिकर्तव्यताभिधानं च श्लोकार्धादतिरेकेणापि भवतीति योगान्तरेष्वपि दृष्टम्||३८-४२||

मञ्जिष्ठासारिवानन्तापयस्यामधुकैस्तथा|
शर्कराचन्दनद्राक्षामधुधात्रीफलोत्पलैः|
रक्तपित्ते, प्रमेहे तु कषायः सोमवल्कजः||४३||

रक्तपित्ते इति च्छेदः| एतौ द्वौ मिलित्वा सङ्ग्रहे पठितौ ‘द्वौ रक्तपित्ते’ इत्यनेन| सोमवल्कः विट्खदिरः||४३||

गुल्मातिसारोदावर्तस्तम्भसङ्कुचितादिषु|
सर्वाङ्गैकाङ्गरोगेषु रोगेष्वेवंविधेषु च||४४||
यथास्वैरौषधैः सिद्धान् बस्तीन् दद्याद्विचक्षणः|
पूर्वोक्तेन विधानेन कुर्वन् योगान् पृथग्विधान्||४५||

अनुक्तबस्तिकल्पनार्थमाह- गुल्मातिसारेत्यादि| यथास्वैरौषधैरिति यथास्वव्याधिप्रत्यनीकैर्भैषजैः| कुर्याद्योगान् पृथग्विधानिति यथोक्तविधिना द्रव्यावापादिना योगान् यथोचितान् गुल्मादिकल्पनीयान् बस्तिषु कुर्यात्||४४-४५||

तत्र श्लोकाः-
त्रिकास्त्रयोऽनिलादीनां चतुष्काश्चापरे त्रयः|
पक्वाशयविशुद्ध्यर्थं वृष्याः साङ्ग्राहिकास्तथा||४६||
परिस्रावे तथा दाहे परिकर्ते प्रवाहणे|
सातियोगे मतौ द्वौ द्वौ जीवादाने तथा त्रयः||४७||
द्वौ रक्तपित्ते मेहे च एकत्रिंशच्च सप्त ते|
सुलभाल्पौषधक्लेशा बस्तयो गुणवत्तमाः||४८||

त्रिकास्त्रय इत्यादिः सङ्ग्रहो व्यक्त एव| अल्पौषधक्लेशा इति अल्पौषधा अल्पक्लेशाश्च||४६-४८||

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृतेऽप्राप्ते दृढबलसम्पूरिते
सिद्धिस्थाने बस्तिसिद्धिर्नाम दशमोऽध्यायः||१०||

इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायामायुर्वेददीपिकायां
सिद्धिस्थाने बस्तिसिद्धिर्नाम दशमोऽध्यायः||१०||

१. ‘तान् तान्’ इति पा.|
२. ‘समीक्ष्य’ इति पा.|
३. ‘… स्तब्धभग्नसन्धीनाम्’ इति पा.|
४. ‘सर्वत्र’ इति पा.|
५. ‘व्याधिषु युञ्ज्याद्विशोधनीयेषु’ इति पा.|
६. ‘अबलापेक्षिकां मात्रां’ इति पा.|
७. ‘…लवणाः कफावृते वाते’ इति पा.|
८. ‘अन्नादिषु मध्ये’ इति पा.|
९. ‘आवापे बस्तीनामतः प्रयोज्यानि तेषु तानि स्युः’ इति पा.|
१०. ‘वर्गशः’ इति पा.|
११. ‘कफरोगिणाम्’ इति पा.|
१२. ‘धामार्गक्ष्वेडवत्सकाः’ इति पा.|
१३. ‘त्रिवृता’ इति पा.|
१४. ‘अयमर्धश्लोको हस्तलिखितपुस्तके न पठ्यते|
१५. ‘पृष्ठपर्णी’ इति पा.|
१६. ‘जाङ्गलानूपजं’ इति पा.|
१७. ‘मांसमिति शुक्रविवर्धनाः’ इति पा.|
१८. ‘पयः शृतं परिस्रावे’ इति पा.|
१९. ‘…दर्भपोटेक्षुवालिभिः’ इति पा.|
२०. अयमर्धश्लोको हस्तलिखितपुस्तके न पठ्यते|
२१. ‘मुष्टिः’ इति पा.|

Moolashloka with Chakrapani Commentary

Pathantara/Pathabheda

Diacritic Version

||maharṣiṇā punarvasunōpadiṣṭā, tacchiṣyēṇāgnivēśēna praṇītā, carakadr̥ḍhabalābhyāṁ pratisaṁskr̥tā||

||śrīcakrapāṇidattaviracitayā āyurvēdadīpikāvyākhyayā sahitā||

siddhisthānam - 10. bastisiddhiḥ

athātō bastisiddhiṁ vyākhyāsyāmaḥ||1||
iti ha smāha bhagavānātrēya||2||

trimarmīyāyāṁ bahurōgapratipādanādbahurōgahitabastipratipādanārthaṁ bastisiddhirucyatē| atraiva bastiśabdēna siddhibastayōvakṣyamāṇā abhiprētāḥ||1-2||

siddhānāṁ bastīnāṁ śastānāṁ tēṣu tēṣu rōgēṣu|
śr̥ṇvagnivēśa ! gadataḥ siddhiṁ siddhipradāṁ bhiṣajām||3||

siddhānāmiti prasiddhaphalānām| tēṣu tēṣviti vakṣyamāṇavātagadādiṣu| siddhimiti bastiniṣpādikāṁ, kiṁvā bastyabhidhāyakagrantham||3||

baladōṣakālarōgaprakr̥tīḥ pravibhajya yōjitāḥ samyak
svaiḥ svairauṣadhavargaiḥ svān svān [1] rōgānniyacchanti||4||
karmānyadbastisamaṁ na vidyatē śīghrasukhaviśōdhitvāt|
āśvapatarpaṇatarpaṇayōgācca niratyayatvācca||5||

bastēritikartavyatāṁ guṇāṁśca pratipādanīyabastyaṅgabhūtānāha- baladōṣētyādi| atra ca balādau yathāpradhānamiha gr̥hītē sarvaparīkṣāvarōdhō vyākhyēyaḥ; “parīkṣya [2] dōṣauṣadha … ” (si.a.3) ityādinōktō’pyayamarthaḥ punaḥ prakaraṇavaśāducyatē| svaiḥ svairauṣadhavargairiti yathāvyādhipratipāditairauṣadhaiḥ| svān svāniti tattadbastividhēyauṣadhapraśamanīyān| āśvapataparṇatarpaṇayōgāditi apatarpaṇārthaprayuktō bastiranyāpatarpaṇabhēṣajēbhyaḥ śīghramapatarpaṇaṁ karōti; ēvaṁ tarpaṇadravyayuktō’pi bastiḥ śīghramitaratarpaṇāpēkṣayā tarpaṇaṁ karōti||4-5||

satyapi dōṣaharatvē kaṭutīkṣṇōṣṇādi bhēṣajādānāt|
duḥkhōdgārōtklēśāhr̥dyatvakōṣṭharujā virēkē syuḥ||6||
avirēcyau śiśuvr̥ddhau tāvaprāptaprahīnadhātubalau|
āsthāpanamēva tayōḥ sarvārthakr̥duttamaṁ karma||7||
balavarṇaharṣamārdavagātrasnēhānnr̥ṇāṁ dadātyāśu|8|

bastyapēkṣyā śōdhanāntarēṇa dōṣaharaṇē dōṣamāha- satyapītyādi| kaṭukādibhēṣajairvirēkadānādduḥkhaṁ cōdgāraścōtklēśaścāhr̥dyatvaṁ ca kōṣṭharujāścaitai sarvē bhavanti; tatra duḥkhaṁ kaṭukādinā rasēnōdvēgādēva bhavati; ētē dōṣā bastau na sambhavantīti bhāvaḥ| virēkaśabdēna vamanavirēkāvapi grāhyau; kiṁvā vamanaṁ bastinā samamatyantabhinnaviṣayatvādēva nōdāhr̥taṁ, virēkastu pakvāśayasthē’pi dōṣē bastiviṣayē bhavatīti kr̥tvā virēkamēva prati bastēḥ prādhānyamihōcyatē| avirēkādiviṣayē bastēryaugikatayā prādhānyamāha- avirēcyāvityādi| tāvityādau yathāsaṅkhyaṁ vyākhyēyam- aprāptadhāturaprāptabalaśca bālaḥ, prahīṇadhātuḥ prahīṇabalaśca vr̥ddhaḥ, ēvambhūtatvāccāvirēcyāvētau| sarvārthakr̥diti niratyayadōṣaharaṇabr̥ṁhaṇādikr̥t||6-7||-

anuvāsanaṁ nirūhaścōttarabastiśca sa trividhaḥ||8||
śākhāvātārtānāṁ sakuñcitastabdhabhagnarugṇānām [3] |
viṭsaṅgādhmānāruciparikartirugādiṣu ca śastaḥ||9||
uṣṇārtānāṁ śītāñchītārtānāṁ tathā sukhōṣṇāṁśca|
tadyōgyauṣadhayuktān bastīn santarkya [4] viniyujyāt||10||

bastērbhēdānāha- anuvāsanamityādi| tadyōgyauṣadhayuktāniti uṣṇārtiharēṇa śītārtiharēṇa vā auṣadhēna kalpitān||8-10||

bastīnna br̥ṁhaṇīyān dadyād [5] vyādhiṣu viśōdhanīyēṣu|
mēdasvinō viśōdhyā yē’pi narāḥ kuṣṭhamēhārtāḥ||11||
na kṣīṇakṣatadurbalamūrcchitakr̥śaśuṣkadēhānām|
yuñjādviśōdhanīyān dōṣanibaddhāyuṣō yē ca||12||

viśōdhanīyān vyādhīnudāharati- mēdasvina ityādi| viśōdhyā yē’pīti bhūridōṣatvēna yē śōdhanārhā ityarthaḥ| dōṣanibaddhāyuṣa iti dōṣē malādirūpē dēhasthē nibaddhamāyuryēṣāṁ śōṣyatidurbalaprabhr̥tīnāṁ tē tathā; uktaṁ hi ‘śōṣī muñcati gātrāṇi purīṣasraṁsanādapi| abalāpēkṣiṇīṁ [6] mātrāṁ kiṁ punaryō viricyatē’ (ci.a.8) iti||11-12||

vājīkaraṇē’sr̥kpittayōśca madhughr̥tapayōyuktāḥ|
śastāḥ satailamūtrāranālalavaṇāśca [7] kaphavātē||13||
yuñjāddravyāṇi bastiṣvamlaṁ mūtraṁ payaḥ surāṁ kvāthān|
avirōdhāddhātūnāṁ rasayōnitvācca jalamuṣṇam||14||

kāryaviśēṣāpēkṣayā bastīnāṁ saṁskāraviśēṣānāha- vājīkaraṇē ityādi| madhuprakṣēpō bastau pūrvōktasāmānyavidhānalabdhō’pyadhikamātrayā prakṣēpārthamavaśyaprakṣēpārthaṁ cēhōcyatē| avirōdhāddhātūnāmiti pūrvēṇa sambadhyatē, tēna yasmin saṁskārē amlādiṣu [8] madhyē yaddhātuvirōdhi na bhavati taddēyaṁ, yattu dhātuvirōdhi bhavati na taddēyaṁ; vyādhitaprakr̥tyaviruddhaṁ yad yasya bhavati tat tasya dēyamityarthaḥ| rasayōnitvācca jalamuṣṇamiti jalaṁ yasmādrasayōniḥ, tēna taduṣṇaṁ sat sarvabastigatarasasya pōṣaṇārthaṁ sarvabastiṣu dēyam; ētacca jalaṁ bastiṣu sākṣāt prakṣēpādarśanāt kalkādipēṣaṇē viniyōjyaṁ; kiṁvā atra tadvacanaprāmāṇyādēva jñēyaṁ; kiṁvā jalaśabdō’yaṁ dravōpalakṣaṇaḥ, tēnāmlādidravadānasyaivēyamupapattiḥ| rasayōnitvaṁ dravasambandhādēvāmlādīnāmupapannam| anyē tu jalamuṣṇaṁ pratiniyatamēva, cūrṇabastāvēvēcchanti, cūrṇabastiśca yaḥ kēvaladravēna dīyatē; tantrāntarē’pyuktaṁ yathā “rāsnāvacābilvaśatāhvayailāpūtīkakr̥ṣṇāphaladārukuṣṭhaiḥ| sasaindhavāmlōṣṇajalaḥ satailaḥ śūlaghna iṣṭaḥ khalu cūrṇabastiḥ” iti||13-14||

suradāruśatāhvailākuṣṭhamadhukapippalīmadhusnēhāḥ|
ūrdhvānulōmabhāgāḥ sasarṣapāḥ śarkarā lavaṇam||15||
āvāpā [9] bastīnāmatḥ prayōjyāni yēṣu yāni syuḥ|
yuktāni saha kaṣāyaistānyuttarataḥ pravakṣyāmi||16||
cirajātakaṭhinabalēṣu vyādhiṣu tīkṣṇā viparyayē mr̥davaḥ|
saprativāpakaṣāyā yōjyāstvanuvāsananirūhāḥ||17||

suradārvityādinā bastiṣu dōṣādyapēkṣayā vyastasamastavidhayā prakṣēpyānāha| āvāpā bastīnāmiti bastiṣvāvāpyā ityarthaḥ| yānīti kaṣāyayuktāni| cirajātakaṭhinabalēṣu tīkṣṇā iti atrōktatīkṣṇadravyayōgēna tīkṣṇāḥ| viparyayē cēti acirajātē akaṭhinabalē ca| anuvāsananirūhā iti anuvāsanē kaṣāyayōgaḥ snēhasādhanārthamēva, āvāpastvanuvāsanē’pi śatāhvādīnāṁ kartavya ēva; yaduktamanyatra- “pippalīṁ madanaṁ kuṣṭhaṁ śatāhvāṁ madhukaṁ vacām| yōjayēnmātrayā piṣṭvā āvāpamanuvāsanē” iti||15-17||

ardhaślōkairataḥ siddhān nānāvyādhiṣu sarvaśaḥ [10] |
bastīn vīryasamairbhāgairyathārhālōḍanāñchr̥ṇu||18||
bilvō’gnimanthaḥ śyōnākaḥ kāśmaryaḥ pāṭalistathā|
śālaparṇī pr̥śniparṇī br̥hatyau vardhamānakaḥ||19||
yavāḥ kulatthāḥ kōlāni sthirā cēti trayō’nilē|
śasyantē sacatuḥsnēhāḥ piśitasya rasānvitāḥ||20||
nalavañjulavānīraśatapatrāṇi śaivalam|
mañjiṣṭhā sārivā’nantā payasyā madhuyaṣṭikā||21||
candanaṁ padmakōśīraṁ tuṅgaṁ tē paittikē trayaḥ|
saśarkarākṣaudraghr̥tāḥ sakṣīrā bastayō hitāḥ||22||
arkastathaiva cālarka ēkāṣṭhīlā punarnavā|
haridrā triphalā mustaṁ pītadāru kuṭannaṭam||23||
pippalyaścitrakaścēti trayastē ślēṣmarōgiṣu [11] |
sakṣārakṣaudragōmūtrā nātisnēhānvitā hitāḥ||24||

pūrvaṁ siddhānāṁ bastīnāmityādinā pratijñātārthān bastīnāha- ardhaślōkairityādi| vyādhiṣvityatra vyādhiśabdō dōṣē’pi vartanīyaḥ| bahuśa iti ēkaikasmin vyādhau dōṣē ca bahuśa ityarthaḥ| vīryasamairbhāgairiti anyōnyānupahatasāmarthyairdravyabhāgaiḥ| vardhamānaka ēraṇḍaḥ| piśitasya rasānvitā iti prakṣiptamāṁsarasāḥ| vañjulaḥ vētasaḥ, vānīraḥ tadbhēdaḥ| tuṅgaḥ punnāgaḥ| alarkaḥ mandāraḥ| ēkāṣṭhīlā pāṭhā| kuṭannaṭaṁ kaivartamustakam, anyē tagaramāhuḥ||18-24||

phalajīmūtakēkṣvākudhāmārgavakavatsakāḥ [12] |
śyāmā ca triphalā [13] caiva sthirā dantī dravantyapi||25||
prakīryā cōdakīryā ca nīlinī kṣīriṇī tathā|
saptalā śaṅkhinī lōdhraṁ phalaṁ kampillakasya ca||26||
catvārō mūtrasiddhāstē pakvāśayaviśōdhanāḥ|
(vyastairapi samastaiśca caturyōgā udāhr̥tāḥ [14] )||27||

kṣvēḍaḥ kr̥tavēdhanaḥ| dravantī dantībhēdaḥ| prakīryā karañjaḥ| nīlinī nīlavuhnā, ‘nīlāñjanikā’ ityanyē||25-27||

kākōlī kṣīrakākōlī mudgaparṇī [15] śatāvarī|
vidārī madhuyaṣṭyāhvā śr̥ṅgāṭakakaśērukē||28||
ātmaguptāphalaṁ māṣāḥ sagōdhūmā yavāstathā|
jalajānūpajaṁ [16] māṁsamityētē śukramāṁsalāḥ [17] ||29||

ētē śukramāṁsalā ityatra ētē iti catvāraḥ pūrvōktāḥ||28-29||

jīvantī cāgnimanthaśca dhātakīpuṣpavatsakau|
pragrahaḥ khadiraḥ kuṣṭhaṁ śamī piṇḍītakō yavāḥ||30||
priyaṅgū raktamūlī ca taruṇī svarṇayūthikā|
vaṭādyāḥ kiṁśukaṁ lōdhramiti sāṅgrāhikā matāḥ||31||

piṇḍītakaḥ madanaḥ| raktamūlī samaṅgā| taruṇī ārāmataruṇī, navamālikā vā||30-31||

parisrāvē [18] śr̥taṁ kṣīraṁ savr̥ścīrapunarnavam|
ākhuparṇikayā vā’pi taṇḍulīyakayuktayā||32||

taṇḍulīyakayuktayētyantēna parisrāvē dvāvuktau||32||

kālaṅkatakakāṇḍēkṣudarbhapōṭagalēkṣubhiḥ [19] |
dāhaghnaḥ saghr̥takṣīrō dvitīyaścōtpalādibhiḥ||33||

kāṇḍēkṣuḥ br̥hadikṣuḥ; pōṭagalaḥ hōggalaḥ| utpalādibhiriti utpalādayō nalinasaugandhikādayō jalajāḥ puṣpaviśēṣāḥ||33||

karbudārāḍhakīnīpavidulaiḥ kṣīrasādhitaiḥ|
bastiḥ pradēyō bhiṣajā śītaḥ samadhuśarkaraḥ||34||
parikartē tathā vr̥ntaiḥ śrīparṇīkōvidārajaiḥ|
(dēyō bastiḥ suvaidyaistu yathāvadviditakriyaiḥ [20] )||35||

karbudāraḥ kāñcanāraḥ, vidulō vētasaḥ| kōvidārajairityantēna dvitīyaḥ parikartē||34-35||

bastiḥ [21] śālmalivr̥ntānāṁ kṣīrasiddhō ghr̥tānvitaḥ|
hitaḥ pravāhaṇē tadvadvēṣṭaiḥ śālmalikasya ca||36||

vēṣṭaiḥ śālmalikasya cētyantēna dvitīyaḥ pravāhaṇē||36||

aśvāvarōhikākākanāsārājakaśērukaiḥ|
siddhāḥ kṣīrē’tiyōgē syuḥ kṣaudrāñjanaghr̥tairyutāḥ||37||
nyagrōdhādyaiścaturbhiśca tēnaiva vidhinā paraḥ|38|

aśvāvarōhikā aśvagandhā, aśvakarṇaḥ, ikṣurakō vā; jatūkarṇadarśanāttu aśvāvarōhakaḥ aśvakarṇaḥ| nyagrōdhādyāścatvāraḥ nyagrōdhōdumbarāśvatthaplakṣāḥ| tēnaiva vidhinēti pūrvayōgavidhinā| ētau dvāvatiyōgē||37||-

br̥hatī kṣīrakākōlī pr̥śniparṇī śatāvarī||38||
kāśmaryabadarīdūrvāstathōśīrapriyaṅgavaḥ|
jīvādānē śr̥tau kṣīrē dvau ghr̥tāñjanasaṁyutau||39||
bastī pradēyau bhiṣajā śītau samadhuśarkarau|
gō’vyajāmahiṣīkṣīrairjīvanīyayutaistathā||40||
śaśaiṇadakṣamārjāramahiṣāvyajaśōṇitaiḥ|
sadyaskairmr̥ditairbastirjīvādānē praśasyatē||41||
madhūkamadhukadrākṣādūrvākāśmaryacandanaiḥ|
tēnaiva vidhinā bastirdēyaḥ sakṣaudraśarkaraḥ||42||

jīvādānē iti jīvaśōṇitapravr̥ttau| gō’vyajētyādinā jīvādānē praśasyatē ityantēna jīvādānē tr̥tīyō bastirucyatē| ayaṁ ca yadyapi ślōkārdhāvihitō bastiḥ, tathā’pi ślōkārdhairiti pratijñā bhūriprayōgāṇāṁ ślōkārdhavihitatvēna jñēyā; kiṁvā atrāpi gō’vyajētyādinā’rdhaślōkavihita ēva vyavasthitaḥ; pūrvārdhēna tu tasyētikartavyatōcyatē; itikartavyatābhidhānaṁ ca ślōkārdhādatirēkēṇāpi bhavatīti yōgāntarēṣvapi dr̥ṣṭam||38-42||

mañjiṣṭhāsārivānantāpayasyāmadhukaistathā|
śarkarācandanadrākṣāmadhudhātrīphalōtpalaiḥ|
raktapittē, pramēhē tu kaṣāyaḥ sōmavalkajaḥ||43||

raktapittē iti cchēdaḥ| ētau dvau militvā saṅgrahē paṭhitau ‘dvau raktapittē’ ityanēna| sōmavalkaḥ viṭkhadiraḥ||43||

gulmātisārōdāvartastambhasaṅkucitādiṣu|
sarvāṅgaikāṅgarōgēṣu rōgēṣvēvaṁvidhēṣu ca||44||
yathāsvairauṣadhaiḥ siddhān bastīn dadyādvicakṣaṇaḥ|
pūrvōktēna vidhānēna kurvan yōgān pr̥thagvidhān||45||

anuktabastikalpanārthamāha- gulmātisārētyādi| yathāsvairauṣadhairiti yathāsvavyādhipratyanīkairbhaiṣajaiḥ| kuryādyōgān pr̥thagvidhāniti yathōktavidhinā dravyāvāpādinā yōgān yathōcitān gulmādikalpanīyān bastiṣu kuryāt||44-45||

tatra ślōkāḥ-
trikāstrayō’nilādīnāṁ catuṣkāścāparē trayaḥ|
pakvāśayaviśuddhyarthaṁ vr̥ṣyāḥ sāṅgrāhikāstathā||46||
parisrāvē tathā dāhē parikartē pravāhaṇē|
sātiyōgē matau dvau dvau jīvādānē tathā trayaḥ||47||
dvau raktapittē mēhē ca ēkatriṁśacca sapta tē|
sulabhālpauṣadhaklēśā bastayō guṇavattamāḥ||48||

trikāstraya ityādiḥ saṅgrahō vyakta ēva| alpauṣadhaklēśā iti alpauṣadhā alpaklēśāśca||46-48||

ityagnivēśakr̥tē tantrē carakapratisaṁskr̥tē’prāptē dr̥ḍhabalasampūritē
siddhisthānē bastisiddhirnāma daśamō’dhyāyaḥ||10||

iti śrīcakrapāṇidattaviracitāyāṁ carakatātparyaṭīkāyāmāyurvēdadīpikāyāṁ
siddhisthānē bastisiddhirnāma daśamō’dhyāyaḥ||10||

1. ‘tān tān’ iti pā.|
2. ‘samīkṣya’ iti pā.|
3. ‘… stabdhabhagnasandhīnām’ iti pā.|
4. ‘sarvatra’ iti pā.|
5. ‘vyādhiṣu yuñjyādviśōdhanīyēṣu’ iti pā.|
6. ‘abalāpēkṣikāṁ mātrāṁ’ iti pā.|
7. ‘…lavaṇāḥ kaphāvr̥tē vātē’ iti pā.|
8. ‘annādiṣu madhyē’ iti pā.|
9. ‘āvāpē bastīnāmataḥ prayōjyāni tēṣu tāni syuḥ’ iti pā.|
10. ‘vargaśaḥ’ iti pā.|
11. ‘kapharōgiṇām’ iti pā.|
12. ‘dhāmārgakṣvēḍavatsakāḥ’ iti pā.|
13. ‘trivr̥tā’ iti pā.|
14. ‘ayamardhaślōkō hastalikhitapustakē na paṭhyatē|
15. ‘pr̥ṣṭhaparṇī’ iti pā.|
16. ‘jāṅgalānūpajaṁ’ iti pā.|
17. ‘māṁsamiti śukravivardhanāḥ’ iti pā.|
18. ‘payaḥ śr̥taṁ parisrāvē’ iti pā.|
19. ‘…darbhapōṭēkṣuvālibhiḥ’ iti pā.|
20. ayamardhaślōkō hastalikhitapustakē na paṭhyatē|
21. ‘muṣṭiḥ’ iti pā.|

Scroll to Top