Table of Contents
Devanagari Version
महर्षिणा पुनर्वसुनोपदिष्टा, तच्छिष्येणाग्निवेशेन प्रणीता, चरकदृढबलाभ्यां प्रतिसंस्कृता
चरकसंहिता
श्रीचक्रपाणिदत्तविरचितया आयुर्वेददीपिकाव्याख्यया सहिता
सूत्रस्थानम् - ७. नवेगान्धारणीयोऽध्यायः
Only Moolashloka
अथातो नवेगान्धारणीयमध्यायं व्याख्यास्यामः||१||
इति ह स्माह भगवानात्रेयः||२||
पूर्वाध्यायाभ्यां स्वस्थहित आहारः प्राधान्येनोक्तः, तस्य चाहारस्य स्वस्थहितत्वमाहारपाकजमूत्रपुरीषाणामविधारितवेगानां बहिर्गमने सति भवतीति मूत्रादिवेगाविधारणोपदेशकं न वेगान्धारणीयमाह| इहापि नवेगधारणशब्दस्याभावान्मात्राशितीयवत् पर्यायशब्देन सञ्ज्ञा बोद्धव्या||१-२||
न वेगान् धारयेद्धीमाञ्जातान् मूत्रपुरीषयोः|
न रेतसो न वातस्य न छर्द्याः [१] क्षवथोर्न च||३||
नोद्गारस्य न जृम्भाया न वेगान् क्षुत्पिपासयोः|
न बाष्पस्य न निद्राया निःश्वासस्य श्रमेण च||४||
जातानिति जातमात्रान्| वेगः प्रवृत्त्युन्मुखत्वं मूत्रपुरीषादीनाम्| मूत्रग्रहणमादौ मूत्रस्य पुरीषाद्यपेक्षया बहुवेगत्वात्| मूत्रपुरीषयोरिति क्षुत्पिपासयोरिति च समासकरणं प्रायशोऽनयोः सहोत्पाददर्शनार्थम्| प्रतिनिषेध्यं नकारकरणं निषेध्यगौरवोपदर्शनार्थम्| निःश्वासस्य श्रमेण चेति श्रमोत्थस्य निःश्वासस्याविधार्यत्वं दर्शयति, यतोऽनन्तरं वक्ष्यति “श्रमनिःश्वासधारणात्” इति; सुश्रुतेऽप्युक्तं- “श्रान्तस्य निःश्वासविनिग्रहेण हृद्रोग मूर्च्छे अथवाऽपि गुल्मः” (सू.उ.अ.५५) इति||३-४||
एतान् धारयतो जातान् वेगान् रोगा भवन्ति ये|
पृथक्पृथक्चिकित्सार्थं तान्मे निगदतः शृणु||५||
बस्तिमेहनयोः शूलं मूत्रकृच्छ्रं शिरोरुजा [२] |
विनामो वङ्क्षणानाहः स्याल्लिङ्गं मूत्रनिग्रहे||६||
स्वेदावगाहनाभ्यङ्गान् सर्पिषश्चावपीडकम् [३] |
मूत्रे प्रतिहते कुर्यात्त्रिविधं बस्तिकर्म च||७||
पक्वाशयशिरःशूलं वातवर्चोऽप्रवर्तनम् [४] |
पिण्डिकोद्वेष्टनाध्मानं पुरीषे स्याद्विधारिते||८||
स्वेदाभ्यङ्गावगाहाश्च वर्तयो बस्तिकर्म च|
हितं प्रतिहते वर्चस्यन्नपानं प्रमाथि च||९||
मेढ्रे वृषणयोः शूलमङ्गमर्दो हृदि व्यथा|
भवेत् प्रतिहते शुक्रे विबद्धं मूत्रमेव च||१०||
तत्राभ्यङ्गोऽवगाहश्च मदिरा चरणायुधाः|
शालिः पयो निरूहश्च शस्तं मैथुनमेव च||११||
सङ्गो [५] विण्मूत्रवातानामाध्मानं वेदना क्लमः|
जठरे वातजाश्चान्ये रोगाः स्युर्वातनिग्रहात्||१२||
स्नेहस्वेदविधिस्तत्र वर्तयो भोजनानि च|
पानानि बस्तयश्चैव शस्तं वातानुलोमनम्||१३||
कण्डूकोठारुचिव्यङ्गशोथपाण्ड्वामयज्वराः|
कुष्ठहृल्लासवीसर्पाश्छर्दिनिग्रहजा गदाः||१४||
भुक्त्वा प्रच्छर्दनं धूमो लङ्घनं रक्तमोक्षणम्|
रूक्षान्नपानं व्यायामो विरेकश्चात्र शस्यते||१५||
मन्यास्तम्भः शिरःशूलमर्दितार्धावभेदकौ|
इन्द्रियाणां च दौर्बल्यं क्षवथोः स्याद्विधारणात्||१६||
तत्रोर्ध्वजत्रुकेऽभ्यङ्गः स्वेदो धूमः सनावनः|
हितं वातघ्नमाद्यं च घृतं चौत्तरभक्तिकम्||१७||
हिक्का श्वासोऽरुचिः [६] कम्पो विबन्धो हृदयोरसोः|
उद्गारनिग्रहात्तत्र हिक्कायास्तुल्यमौषधम्||१८||
विनामाक्षेपसङ्कोचाः सुप्तिः कम्पः प्रवेपनम्|
जृम्भाया निग्रहात्तत्र सर्वं वातघ्नमौषधम्||१९||
कार्श्यदौर्बल्यवैवर्ण्यमङ्गमर्दोऽरुचिर्भ्रमः|
क्षुद्वेगनिग्रहात्तत्र स्निग्धोष्णं लघु भोजनम्||२०||
कण्ठास्यशोषो बाधिर्यं श्रमः सादो [७] हृदि व्यथा|
पिपासानिग्रहात्तत्र शीतं तर्पणमिष्यते||२१||
प्रतिश्यायोऽक्षिरोगश्च हृद्रोगश्चारुचिर्भ्रमः|
बाष्पनिग्रहणात्तत्र [८] स्वप्नो मद्यं प्रियाः कथाः||२२||
जृम्भाऽङ्गमर्दस्तन्द्रा च शिरोरोगोऽक्षिगौरवम्|
निद्राविधारणात्तत्र स्वप्नः संवाहनानि च||२३||
गुल्महृद्रोगसम्मोहाः श्रमनिःश्वासधारणात्|
जायन्ते तत्र विश्रामो वातघ्न्यश्च क्रिया हिताः||२४||
वेगनिग्रहजा रोगा य एते परिकीर्तिताः|
इच्छंस्तेषामनुत्पत्तिं वेगानेतान्न धारयेत्||२५||
यद्वेगविधारणे ये रोगास्तेषां यच्चिकित्सितं तदल्पवक्तव्यत्वात् प्रकरणागतत्वाच्च ब्रूते- बस्तिमेहनयोरित्यादि| मेहनं शिश्नः [९] | विनमनं शरीरस्य विनामः| अवपीडको बहुमात्रप्रयोगः, मात्राधिकत्वेन हि भेषजं दोषान् पीडयतीति कृत्वा; अन्यत्राप्युक्तम्- “अवपीडकसर्पिर्भिः कोष्णैर्घृततैलिकैस्तथाऽभ्यङ्गैः” इति| त्रिविधमिति निरूहानुवासनोत्तरबस्त्यात्मकम्| पिण्डिका जानुजङ्घामध्यमांसपिण्डिका| वर्तयः फलवर्तयः| प्रमाथि अनुलोमनम्| चरणायुधः कुक्कुटः| रुजा जठर इति सम्बन्धः| ‘भोजनानि’ ‘पानानि’ ‘बस्तय’ इति त्रयं वातानुलोमनं शस्तमिति योज्यम्| कोठो वरटीदष्टाकारः शोथः| व्यङ्गः श्यामवर्णं मण्डलं मुखे| हृल्लासः उत्क्लेशः| अर्धावभेदः अर्धमस्तकवेदना| आद्यं खाद्यं भोजनमित्यर्थः| चकारात् स्वेदादयोऽपि वातघ्ना इति सूचयति| यद्यपि सुश्रुते मूत्रादीनां त्रयोदशानां विधारणात्त्रयोदशोदावर्ता अभिधीयन्ते, तथाऽपीहाष्टोदरीये मूत्रपुरीषवातशुक्रवमिक्षवथुविघातजा एव परं षडुदावर्ता अभिधातव्याः; उद्गारादिनिरोधजानां वातनिरोधज एवोदावर्तेऽन्तर्भावाभिप्रायात्; यदि वा मूत्रादिविघातज एव विकारे चरकाचार्यस्य उदावर्तसञ्ज्ञाऽभिप्रेता, नान्यत्रेति न विरोधः| मुहुर्मुहुरङ्गानामाक्षेपणमाक्षेपः; पर्वणामाकुञ्चनं सङ्कोचः| सुप्तिः स्पर्शाज्ञानम्| भ्रमणं भ्रमो येन चक्रस्थितमिवात्मानं मन्यते| सादः अङ्गावसादः| तर्पयतीति तर्पणम्| संवाहनं पाणिना पादादिप्रदेशे सुखमभिहननमुन्मर्दनं च||५-२५||
इमांस्तु धारयेद्वेगान् हितार्थी [१०] प्रेत्य चेह च|
साहसानामशस्तानां मनोवाक्कायकर्मणाम्||२६||
वेगानामविधार्यत्वेनोक्तत्वाल्लोभादीनामपि वेगा अविधार्याः स्युरित्याह- इमांस्त्वित्यादि| प्रेत्य जन्मान्तरे| इहेति इह जन्मनि| सहसा आत्मशक्तिमनालोच्य क्रियत इति साहसं, तत्तु गजाभिमुखधावनादि| अशस्तानाम् अप्रशस्तानामनिष्टफलानामिति [११] यावत्| मनोवाक्कायकर्मणामित्यत्र कर्मशब्दो व्यापारवचनः||२६||
लोभशोकभयक्रोधमानवेगान् विधारयेत्|
नैर्लज्ज्येर्ष्यातिरागाणामभिध्यायाश्च बुद्धिमान्||२७||
अशस्तं मनसः कर्म दर्शयति- लोभेत्यादि| लोभः विषयेऽनुचिता प्रार्थना, शोकः पुत्रादिविनाशजं दैन्यम्, भयम् अपकारकानुसन्धानजं दैन्यम्, क्रोधः प्रद्वेषो येन प्रज्वलितमिवात्मानं मन्यते, मानः सदसद्गुणाध्यारोपेणात्मन्युत्कर्षप्रत्ययः| जुगुप्सितगोपनेच्छा लज्जा, तदभावो नैर्लज्ज्यं; समाने द्रव्ये परसम्बन्धप्रतिषेधेच्छा ईर्ष्या; अतिराग उचित एव विषये पुनः पुनः प्रवर्तनेच्छा| अभिध्या मनसा पराभिद्रोहचिन्तनं, यदि वा परद्रव्यविषये स्पृहा||२७||
परुषस्यातिमात्रस्य सूचकस्यानृतस्य च|
वाक्यस्याकालयुक्तस्य धारयेद्वेगमुत्थितम्||२८||
अशस्तं वचनकर्माह- परुषस्येत्यादि| परुषं परोद्वेजकं वचनम्| अतिमात्रं बहु| सूचकं परानिष्टजनकाभिधायकम् [१२] | अनृतम् अपार्थकम्| अकालयुक्तम् अप्रस्तावागतम्||२८||
देहप्रवृत्तिर्या काचिद्विद्यते परपीडया|
स्त्रीभोगस्तेयहिंसाद्या तस्यावेगान्विधारयेत्||२९||
अशस्तं देहकर्माह- देहेत्यादि| परपीडया परपीडानिमित्तमित्यर्थः| स्त्रीभोगः परस्त्रीभोगः, स्तेयं परद्रव्यग्रहणं, हिंसा विधिरहिता प्राणिपीडा; आदिग्रहणाद्गुर्वाद्यभिमुखपादप्रसारणादि गृह्यते||२९||
पुण्यशब्दो विपापत्वान्मनोवाक्कायकर्मणाम्|
धर्मार्थकामान् पुरुषः सुखी भुङ्क्ते चिनोति च||३०||
एवं कृते यद्भवति तद्दर्शयति- पुण्येत्यादि| पुण्यः पावनः शब्दो यस्यासौ पुण्यशब्दः| भुङ्क्ते चिनोति चेति उत्पन्नादविरोधतः फलोपयोगेन [१३] भुङ्क्ते; चिनोति चोत्पादयति चापरानित्यर्थः||३०||
शरीरचेष्टा या चेष्टा स्थैर्यार्था बलवर्धिनी|
देहव्यायामसङ्ख्याता मात्रया तां समाचरेत्||३१||
अविधार्यप्रवृत्तीन्मूत्रादीन् विधार्यप्रवृत्तीन् साहसादींश्च दर्शयित्वा विधार्याविधार्यप्रवृत्तिं व्यायाममाह- शरीरेत्यादि| देहस्य व्यायामो देहव्यायामः, देहग्रहणान्मनोव्यायामं चिन्तनादि निराकरोति; सङ्ख्याता सञ्ज्ञिता| या च इष्टा अभिप्रेता, एतेन भारहरणाद्याऽनिष्टा कार्यवशात् क्रियमाणा चेष्टा निरस्यते, चङ्क्रमणरूपा तु क्रिया प्राप्यते| स्थैर्यं स्थिरता शरीरस्य, तदर्था| मात्रया अनपायिपरिमाणेन; एतावती चेयं शरीरचेष्टा मात्रावती यावत्या लाघवादयो वक्ष्यमाणा भवन्ति, चेष्टातियोगवक्ष्यमाणाश्च श्रमभ्रमादयो [१४] न भवन्ति| सुश्रुतेऽप्युक्तं- “यत्तु चङ्क्रमणं नातिदेहपीडाकरं भवेत्| तदायुर्बलमेधाग्निप्रदमिन्द्रियबोधनम्” (सु.चि.अ.२४) इति||३१||
लाघवं कर्मसामर्थ्यं स्थैर्यं दुःखसहिष्णुता [१५] |
दोषक्षयोऽग्निवृद्धिश्च व्यायामादुपजायते||३२||
श्रमः क्लमः क्षयस्तृष्णा रक्तपित्तं प्रतामकः|
अतिव्यायामतः कासो ज्वरश्छर्दिश्च जायते||३३||
(स्वेदागमः [१६] श्वासवृद्धिर्गात्राणां लाघवं तथा|
हृदयाद्युपरोधश्च इति व्यायामलक्षणम्||१||)|
यथोक्तव्यायामगुणानाह- लाघवमित्यादि| दोषक्षयोऽत्र श्लेष्मक्षयोऽभिप्रेतः; यदि वाऽग्निकर्तृत्वेन त्रिदोषक्षयोऽपि| उक्तं हि- “शमप्रकोपौ दोषाणां सर्वेषामग्निसंश्रितौ” इति| व्यायामातिप्रवृत्तिदोषमाह- श्रम इत्यादि| क्लम इह मन-इन्द्रियग्लानिः| क्षयो धातुक्षयः| प्रतमक एव प्रतामकः श्वासविशेषः||३२-३३||
व्यायामहास्यभाष्याध्वग्राम्यधर्मप्रजागरान्|
नोचितानपि सेवेत बुद्धिमानतिमात्रया||३४||
इदानीं व्यायामतुल्यत्वेनान्यानप्यतिमात्रत्वेन निषेद्धुमाह- व्यायामेत्यादि| यद्यप्यतिव्यायामो निषिद्धस्तथाऽपीह पुनरभिधीयते अतिभाष्यादिष्वपि तद्दोषश्रमक्लमादिप्राप्त्यर्थं; यदि वा पूर्वमनभ्यस्तव्यायामातिसेवा निषिद्धा, इह तु अभ्यस्तस्यापि निषेधः| यदाह- नोचितानपि; उचितानप्यभ्यस्तानपीत्यर्थः| अपिशब्दादनभ्यस्तानां नितरां निषेधो लभ्यते| भाषणं भाष्यम्, अध्वशब्देनाध्वगमनं, ग्राम्यधर्मो मैथुनम्||३४||
एतानेवंविधांश्चान्यान् योऽतिमात्रं निषेवते|
गजं सिंह इवाकर्षन् सहसा स विनश्यति||३५||
(अतिव्यवायभाराध्वकर्मभिश्चातिकर्शिताः [१७] |
क्रोधशोकभयायासैः क्रान्ता ये चापि मानवाः||१||
बालवृद्धप्रवाताश्च ये चोच्चैर्बहुभाषकाः|
ते वर्जयेयुर्व्यायामं क्षुधितास्तृषिताश्च ये||२||)|
एवंशब्देन गुरुभारहरणदर्पशिलाचालनादि गृह्यते| सिंहः किल स्वल्पप्रमाणः स्वबलोद्रेकाद्गजं कर्षन् पाटयन् स्वदेहानुचितव्यायामात् पश्चाद्वातक्षोभेण विपद्यते, तेनायं दृष्टान्तः सङ्गतार्थः; यदि वा सिंहोऽष्टापदोऽभिप्रेतः, स च किल गजं व्यापाद्य पृष्ठे क्षिपति, ततस्तत्कोथाद्विपद्यते, तेन दृष्टान्तो व्याख्येयः||३५||
उचितादहिताद्धीमान् क्रमशो विरमेन्नरः|
हितं क्रमेण सेवेत क्रमश्चात्रोपदिश्यते||३६||
प्रक्षेपापचये ताभ्यां क्रमः पादांशिको भवेत्|
एकान्तरं ततश्चोर्ध्वं द्व्यन्तरं त्र्यन्तरं तथा||३७||
हितस्य सेवनमहितस्य परित्यागः कर्तव्य इति पूर्वमुक्तं, तच्च हितसेवनमहितपरिवर्जनं चाक्रमेण क्रियमाणमक्रमाचरितव्यायामादिवत् प्रत्यवायकरं परं भवति, अतस्तत्क्रममाह- उचितादित्यादि| उचितात् अभ्यस्तात्| क्रमशो वक्ष्यमाणेन क्रमेण| हितम् अनभ्यस्तहितम्| कोऽसौ क्रम इत्याह- क्रमश्चेत्यादि| प्रक्षेपो हितस्य, अपचयोऽहितस्य, ताभ्यां हिताहिताभ्याम्| पादः चतुर्थो भागः, तद्रूपोंऽशः पादांशः, तेन कृतः क्रमः पादांशिकः; अन्ये तु पादस्यांशः पादांश इति षोडशं भागं वर्णयन्ति [१८] | स च हिताहितयोर्युगपत्प्रक्षेपापचये पादांशिकः क्रमः, प्रथममेकान्तरमेकाहमन्तरा कृत्वेत्यर्थः; ततः प्रथमहितपादप्रक्षेपाहितपादापचयाभ्यासादूर्ध्वं द्वितीयपादप्रक्षेपापचये द्व्यन्तरं द्व्यहमन्तरीकृत्य क्रमो भवेत्; तथा द्वितीयपादाभ्यासादूर्ध्वं तृतीयपादप्रक्षेपापचये त्र्यहमन्तरीकृत्य क्रमो भवेत्; चतुर्थपादप्रक्षेपापचये तु कालनियमो नास्ति, अत ऊर्ध्वं प्रक्षेपापचयाभावाच्चतुष्पादसम्पूर्णस्य पथ्यस्यानवधिसेव्यत्वात्| अयं पिण्डार्थः- अपथ्या यवकादयोऽभ्यस्तास्ते त्याज्याः, रक्तशाल्यादयः पथ्या अनभ्यस्तास्ते सेव्याः; तत्र प्रथमदिने यवकपादत्रयं रक्तशालीनामेकः पादः [१९] ; द्वितीये दिवसे द्वौ पथ्यस्य पादौ द्वावपथ्यस्य, एवं तृतीये, एवं द्वितीयपादाभ्यासो द्व्यन्तरो भवति; चतुर्थे त्रयः पादाः पथ्यस्य एकोऽपथ्यस्य, एवं पञ्चमे षष्ठे च, एवं तृतीयपादाभ्यासस्त्र्यन्तरो भवति; सप्तदिनप्रभृति तु चतुष्पादपथ्याभ्यासः| यदि [२०] वाऽन्तरशब्दो व्यवधिवचनः, तथाशब्दाच्चतुरन्तरमिति च लभ्यते; तेनायमर्थः- प्रथमे दिवसेऽपथ्यपादत्रयं पथ्यस्यैकः पादः, द्वितीये सर्वमपथ्यं, तृतीये द्वौ पथ्यस्य द्वावपथ्यस्य, एवं चतुर्थे; पञ्चमे तु दिने पथ्यस्य भाग एकस्त्रयोऽपथ्यस्य, एवं द्व्यन्तरीकृतौ भवतः; षष्ठे पथ्यभागत्रयमपथ्यभाग एकः, एवं सप्तमेऽष्टमे च; ततो नवमे भागद्वयं पथ्यस्य चापथ्यस्य च, एवं त्रीण्यहान्यन्तरीकृतानि भवन्ति; ततो दशमे सर्वं पथ्यम्, एवमेकादशे द्वादशे त्रयोदशे च, चतुर्दशे तु पथ्यभागत्रयमेकोऽपथ्यभागः; एवं चतुरन्तरता तथाशब्दसूचिता भवति; पञ्चदशाहात् प्रभृति सम्पूर्णपथ्यतैव||३६-३७||
क्रमेणापचिता दोषाः क्रमेणोपचिता गुणाः|
सन्तो यान्त्यपुनर्भावमप्रकम्प्या भवन्ति च||३८||
एवं कृते किं स्यादित्याह- क्रमेणेत्यादि| क्रमेणेति क्रमेणैव| दोषा इति दोषजनकान्यभ्यस्तान्यपथ्यानि| गुणा इति गुणजनकानि पथ्यानि| अपुनर्भावं यान्ति दोषा इति सम्बन्धः| अक्रमेण तु सहसाऽपथ्यत्यागे दोषा भवन्त्येव| यदुक्तम्- “असात्म्यजा हि रोगाः स्युः सहसा त्यागशीलनात्” (वा.सू.अ.३) इति| अप्रकम्प्या अप्रचाल्या भवन्ति गुणा इति सम्बन्धः| पथ्यमपि ह्यनभ्यस्तं सहसोपयुज्यमानमरुच्यग्निवधादीञ्जनयति||३८||
समपित्तानिलकफाः केचिद्गर्भादि मानवाः|
दृश्यन्ते वातलाः केचित्पित्तलाः श्लेष्मलास्तथा||३९||
तेषामनातुराः पूर्वे वातलाद्याः सदातुराः|
दोषानुशयिता ह्येषां देहप्रकृतिरुच्यते||४०||
इह स्वस्थहितं सामान्येनैव रक्तशाल्यादि प्रतिपादितं, स्वस्थश्च प्रकृतिभेदेन नानाप्रकारः, अतस्तेषां हितमपि [२१] नानाप्रकारमेव, तेन तत्प्रतिपादनार्थं प्रकृतिभेदमेव तावदाह- समपित्तानिलेत्यादि| समा अवैकारिकमानावस्थिताः पित्तानिलकफा यस्य स तथा| गर्भादि गर्भाधानादि, शुक्रशोणितजीवसम्मूर्च्छनादीति यावत् [२२] | वातला वातप्रधानाः, एवं पित्तलाः श्लेष्मलाश्च| सर्वत्र गर्भादीति योज्यम्| अत्र पित्तग्रहणमादौ छन्दोऽनुरोधात्, यदि वा पित्तसमानस्य वह्नेर्गौरवप्रदर्शनार्थं; यदि वा प्रकृत्यारम्भे वातस्याप्राधान्यख्यापनार्थं, वातप्रकृतिर्हि सर्वत्र प्रत्यवरो भवति| इह च प्रत्येकदोषप्रकृतिग्रहणेनैव द्वन्द्वप्रकृतिरपि ग्राह्यः, संयोगस्य संयोगिनामान्तरीयकत्वात्, निदान इव वातादिज्वराभिधानेन द्वन्द्वजज्वराभिधानं, तेन रोगभिषग्जितीयोक्ता द्वन्द्वजा अपि तिस्रः प्रकृतयो गृहीता भवन्ति; अन्ये तु द्वितीयकेचिद्ग्रहणाद्ग्रन्थाधिक्येन तद्ग्रहणं वर्णयन्ति| तेषामिति समवातपित्तश्लेष्मप्रकृत्यादीनां च मध्ये| पूर्वे इति समप्रकृतयः| सदातुरा इति स्वस्थव्यवहारभाजोऽपि स्फुटिताङ्गत्वविषमाग्नित्वादियुक्ता यस्मादित्यर्थः| स्वस्था अप्येते कस्माद्रोगिण इत्याह- दोषानुशयितेत्यादि| दोषानुशयिता उल्बणवातादिभाविताऽव्यभिचारिणीति यावत्| देहप्रकृतिः देहस्वास्थ्यमिति यावत्| एतेनैतेषां वातलादीनां मुख्यं स्वास्थ्यं नास्ति, किं तर्हि उपचारस्वस्था एत इति दर्शयति| ननु, गर्भादीत्यनेन शुक्रशोणितजीवानां संसर्गे यथाभूता वातादयः समा विकृता वा तथाभूतैव प्रकृतिर्भवति, सा च प्रकृतिर्यावज्जीवमनुवर्तते रिष्टं विना, यदुक्तं सुश्रुते- “प्रकोपो वाऽन्यभावो वा क्षयो वा नोपजायते| प्रकृतीनां स्वभावेन, जायते तु गतायुषि” (सु.शा. अ. ४) इति; तत्र यदा समप्रकृतेर्वातप्रकृतेर्वाऽऽक्षेपकादिर्वातविकारो भवति, तदा वातस्य प्रकृतिभूतस्याधिक्यं भवत्येव; यदा च वातप्रकृतेः पित्तविकारो भवति, तदा वातप्रकृतेरन्यथाभावः पित्तप्रकृतित्वं भवति; यदा तु समप्रकृतेरन्यतरदोषक्षयो भवति प्राकृतस्वकर्महानिलक्षणस्तदाऽसौ प्रकृतिक्षयो भवति; यदुक्तं दोषक्षयलक्षणे- “कर्मणः प्राकृताद्धानिर्वृद्धिर्वाऽपि विरोधिनाम्” (सू. अ.१८) इति| अत्रोच्यते- प्रकृतिसमानरोगोत्पत्तौ न प्रकृतिभूतस्य वृद्धिः, किं तर्हि हेत्वन्तरजनितस्य वातादेस्तत्र विकारकारित्वं [२३] , प्रकृतिभूतस्तु दोषस्तत्रोपदर्शको भवति, यदुक्तं- “कालदूष्यप्रकृतिभिर्दोषस्तुल्यो हि सन्ततम्| निष्प्रत्यनीकः कुरुते तस्माज्ज्ञेयः सुदुःसहः” (चि. अ.३) इति; वातप्रकृतेस्तु पित्तविकारोत्पत्तौ वातः प्रकृतिभूतस्तथैव करचरणस्फुटनादिकं कुर्वन्नास्ते, न तस्यागन्तुना पित्तविकारेण किञ्चित् क्रियते; वातादीनां तु स्वमानात् क्षयः प्राकृतकर्महानिलक्षणो न शुक्रशोणितसंसर्गकालजस्य प्रकृतिभूतस्य दोषस्य बीजभूतस्य क्षयमावहतीति न प्रकृतिभूतदोषक्षयः; यदि वा, प्रकृतेः प्रकोपान्यथाभावक्षया न भवन्तीति प्रकृतित्वेनेति ब्रूमः; तेन समप्रकृतिर्वातप्रकृतिर्न भवति, वातप्रकृतिः पित्तप्रकृतिर्न भवति समप्रकृतिर्वा; विकारावस्था तु हीनाधिकवातत्वादिलक्षणा भवतीत्यर्थः| नच वाच्यं- प्रकृतिभूतानां वातादीनां दूषणात्मकानां कथं न शरीरबाधकत्वं, सहजातत्वेन [२४] तथाविधविनाशकविकाराकर्तृत्वात्; यदुक्तं सुश्रुते- “विषजातो यथा कीटो विषेण न विपद्यते| तद्वत्प्रकृतिभिर्देहस्तज्जातत्वान्न बाध्यते” (सु.शा. अ.४) इति; न बाध्यते नातिबाध्यत इति बोद्धव्यं, वातादिप्रकृतेर्नित्यवातादिविकारगृहीतत्वात्| तदुक्तमिह “वातलाद्याः सदातुराः” इति| उक्तं चाश्ववैद्यके- “सर्वान् प्राणभृतो हन्ति नूनं कायगतं विषम्| अस्मिंश्चापि समुत्पन्ना दृश्यन्ते कृमयो यथा|| तथा च विषमो दोषः प्रकृतिं नातिबाधते” इति| नच वातादयो वृद्धाः शुक्रशोणितसंसर्गे यथा दुष्टत्वाद्वातविकारवन्तं गर्भं कुर्वन्ति तथा गर्भजनकत्वमेव शुक्रशोणितयोः कस्मान्न निघ्नन्तीति वाच्यं, वातादिप्रकोपाणामेव हीनमध्योत्तमानां नानाशक्तित्वात्; प्रबला वातादयो विनाशयन्ति, हीनास्तु विकृतिमात्रं जनयन्ति||३९-४०||
विपरीतगुणस्तेषां स्वस्थवृत्तेर्विधिर्हितः|
समसर्वरसं सात्म्यं समधातोः प्रशस्यते||४१||
तेषामिति सदातुराणां वातलादीनाम्| विपरीतगुणो वातादिगतरौक्ष्यादिविपरीतस्नेहादिगुण [२५] इत्यर्थः| समाः सर्वे रसा यत्र तत्तथा; समत्वं चेहानुरूपत्वमभिप्रेतं, नतु तुल्यमानत्वं; न हि स्वस्थभोजने यावान्मधुर उपयुज्यते, तावन्मानाः कट्वादयोऽपीति; यदि वा समशब्दोऽविरुद्धवचनः, तेनोपोदिकामत्स्यादिप्रतिपादनीयविरुद्धरसवर्जितं सर्वरसमित्यर्थः| एवं च प्रकृत्यपेक्षः समधातुं प्रति सर्वरसोपयोगः ऋतुविहितेन तस्मात्तुषारसमये स्निग्धाम्ललवणान् रसान् (सू. अ.६) इत्यादिना विशेषविधानेन युक्तः सन् सर्वरसमेवाम्ललवणरसोत्कटं [२६] भोजनं हेमन्ते फलति; वातप्रकृतेस्तु कटुतिक्तकषायवर्जितं प्रभूतमधुराम्ललवणभोजनं [२७] हेमन्ते भवति; एवमन्यत्रापि देहप्रकृत्यृतुस्वभावपर्यालोचनयाऽनुगुणं [२८] तर्कणीयम्| यदुक्तं वाग्भटेन- “नित्यं सर्वरसाभ्यासः स्वस्वाधिक्यमृतावृतौ” (वा.सू.अ.३) इति||४१||
द्वे अधः सप्त शिरसि खानि स्वेदमुखानि [२९] च|
मलायनानि बाध्यन्ते दुष्टैर्मात्राधिकैर्मलैः||४२||
मलवृद्धिं गुरुतया लाघवान्मलसङ्क्षयम्|
मलायनानां बुध्येत सङ्गोत्सर्गादतीव च||४३||
स्वास्थ्योत्पत्तिकारणमभिधाय स्वास्थ्यप्रतिबन्धकदोषसञ्चयनिर्हरणमभिधातुं दोषसञ्चयस्य लक्षणान्येव तावद्वक्तुमाह- द्वे अध इत्यादि| द्वे गुदलिङ्गे| खानि छिद्राणि [३०] | सप्त शिरसीति द्वे श्रोत्रे, द्वौ नासापुटौ, द्वे अक्षिणी, मुखं च; स्वेदमुखानीति लोमकूपानि; एतानि सर्वाणि मलस्यायनानि| दुष्टैरिति गोबलीवर्दन्यायेन क्षीणैः, मात्राधिकैरिति वृद्धैः; येनोत्तरत्र क्षयवृद्ध्योरपि लक्षणं वदति| मलवृद्धिं गुरुतया मलायनगुरुतयेत्यर्थः, लाघवान्मलायनानां सङ्क्षयं मलस्य स्वमानादपि क्षयमित्यर्थः; यदि वा दुष्टैरिति मात्राधिकैरित्यस्य विशेषणम्, एवं सति लाघवान्मलसङ्क्षयमिति प्रकृतिस्थाल्लाघवान्मलक्षयमित्यधिकस्य मलस्य क्षयं प्रकृतिस्थत्वमित्यर्थो व्याख्येयः| सङ्गोत्सर्गादतीव चेति अतीवसङ्गादप्रवृत्तेर्मलक्षयम्, अतीवोत्सर्गान्मलवृद्धिं जानीयादित्यर्थः||४२-४३||
तान् दोषलिङ्गैरादिश्य व्याधीन् साध्यानुपाचरेत्|
व्याधिहेतुप्रतिद्वन्द्वैर्मात्राकालौ विचारयन्||४४||
तानिति मलवृद्धिक्षयात्मकान् मलवृद्धिक्षयजनितानिति यावत्, दोषाणां वातादीनां, लिङ्गैः क्षयवृद्धिसम्बन्धैः, आदिश्य बुद्ध्वा, ये साध्यास्तानुपाचरेत्| व्याधिप्रतिद्वन्द्वैः व्याधिप्रत्यनीकैः, हेतुप्रतिद्वन्द्वैः हेतुप्रत्यनीकैः; प्रतिद्वन्द्वशब्देन च विपरीतार्थकारिणामपि ग्रहणम्| मात्राकालग्रहणं च प्राधान्यात्; तेन, दोषभेषजादीनामपि ग्रहणं बोद्धव्यं; यदि वा कालग्रहण एव दोषादीनामवरोधो व्याख्येयः||४४||
विषमस्वस्थवृत्तानामेते रोगास्तथाऽपरे|
जायन्तेऽनातुरस्तस्मात् स्वस्थवृत्तपरो भवेत्||४५||
माधवप्रथमे मासि नभस्यप्रथमे पुनः|
सहस्यप्रथमे चैव हारयेद्दोषसञ्चयम्||४६||
स्निग्धस्विन्नशरीराणामूर्ध्वं चाधश्च नित्यशः|
बस्तिकर्म ततः कुर्यान्नस्यकर्म [३१] च बुद्धिमान्||४७||
यथाक्रमं यथायोग्यमत ऊर्ध्वं प्रयोजयेत्|
रसायनानि सिद्धानि वृष्ययोगांश्च कालवित्||४८||
रोगास्तथा न जायन्ते प्रकृतिस्थेषु धातुषु|
धातवश्चाभिवर्धन्ते जरा मान्द्यमुपैति च||४९||
विधिरेष विकाराणामनुत्पत्तौ निदर्शितः|
निजानामितरेषां तु पृथगेवोपदेक्ष्यते||५०||
विषमेत्यादि| अनातुरशब्देनातुर्यात् प्रागेवानागताबाधेन स्वस्थपरेण भवितव्यमिति [३२] शिक्षयति| माधवो वैशाखस्तस्य प्रथमश्चैत्रः, एवं नभस्यस्य भाद्रस्य प्रथमः श्रावणः, तथा सहस्यस्य पौषस्य प्रथमो मार्गशीर्षः; एते च मासाश्चैत्रश्रावणमार्गशीर्षा रोगभिषग्जितीये विमाने (वि.अ.८) शोधनार्थं वक्ष्यमाणप्रावृडाद्यृतुक्रमेण वसन्तप्रावृट्शरदन्तर्गता भवन्ति| दृढबलसंस्कारेऽपि पठ्यते- “प्रावृट् शुक्रनभौ ज्ञेयौ शरदूर्जसहौ पुनः| तपस्यश्च मधुश्चैव वसन्तः शोधनं प्रति” (सि.अ.६) इति, सुश्रुतेऽपि ऋतुचर्याध्याये दोषोपचयप्रकोपोपशमननिमित्तमीदृश एव ऋतुक्रमः पठितः| तेन, शोधनमभिधीयमानं शोधनार्थोक्तर्तुक्रमेणैव व्याख्येयम्| वसन्तादीनामन्तमासेषु तु वमनाद्यभिधानं सम्पूर्णप्रकोपे भूते निर्हरणोपदेशार्थं; प्रथमेषु हि मासेषु फाल्गुनाषाढकार्तिकेषु प्रकोपः प्रकर्षप्राप्तो न भवति, चितस्य ह्यसम्यक्प्रकुपितस्याविलीनस्य सम्यङ्निर्हरणं न भवतीति| अत एव कपिलबलेऽपि पठ्यते- “मधौ सहे नभसि च मासि दोषान् प्रवाहयेत्| वमनैश्च विरेकैश्च निरूहैः सानुवासनैः” इति| हरिचन्द्रेण तु, सहशब्दोऽयमकारान्तो मार्गशीर्षवचनस्तस्य सहस्य प्रथमे कार्तिके इति व्याख्यातम्| तन्मतानुसारिणा वाग्भटेन चोक्तं- “श्रावणे कार्तिके चैत्रे मासि साधारणे क्रमात्| ग्रीष्मवर्षाहिमचितान् वाय्वादीनाशु निर्हरेत्” (वा.सू.अ.३) इति| “कार्तिके श्रावणे चैत्रे मासि साधारणे क्रमात्| वर्षादिसञ्चितान् दोषान् त्रिमासान्तरितान् हरेत्”- इत्यस्य तु श्लोकस्य केनापि पठितस्याविरुद्धान्वेषणे बुद्धिमतां न व्यापारः| ऊर्ध्वं चेति वमनेन, अध इति विरेकेण, बस्तिकर्मशब्देनास्थापनानुवासने; एतच्च सर्वं वमनादि यथायोग्यतया, न यथासङ्ख्येन; तेन वमनं मधौ प्रधानं, सहस्यप्रथमे विरेकः, नभस्यप्रथमे बस्तिरिति भवति| यथाक्रमं यथानुपूर्वं, यथायोग्यं यद्यस्य युज्यते; एतच्च पूर्वेण वमनादिना, उत्तरेण च रसायनादि प्रयोजयेदित्यनेन योज्यम्| सिद्धानीति दृष्टफलानि| रोगास्तथा न जायन्त इति वमनादीनाचरतः; धातवश्चाभिवर्धन्त इति रसायनवृष्ययोगानुपयोजयत इति योजनीयम्| निजानामिति छेदः| इतरेषामित्यागन्तूनाम्| आगन्तवश्चेह भूतविषवातादिजन्यास्तथा मानसाश्चाभिप्रेताः; येनैतद्द्वितयमप्यभिधायाऽऽगन्तूनामनुत्पत्तावित्याद्युपसंहारमागन्तुकत्वेनैव करिष्यति||४५-५०||
ये भूतविषवाय्वग्निसम्प्रहारादिसम्भवाः|
नृणामागन्तवो रोगाः प्रज्ञा तेष्वपराध्यति||५१||
ईर्ष्याशोकभयक्रोधमानद्वेषादयश्च ये|
मनोविकारास्तेऽप्युक्ताः सर्वे प्रज्ञापराधजाः||५२||
ये भूतेत्यादि| भूताः पिशाचादयः, आदिग्रहणात् पातबन्धनादीनां ग्रहणम्| प्रज्ञा बुद्धिस्तदपराधोऽज्ञानदुर्ज्ञाने, एतन्मूलाश्चैते भूताभिषङ्गादय ईर्ष्यादयश्च| यद्यपि च निजा अपि प्रज्ञापराधमूला एव; यदुक्तं- “प्रज्ञापराधाद्ध्यहितानर्थान् पञ्च निषेवते” (सू.अ.२८) इति, तथाऽपि ते प्राधान्यात् प्रज्ञापराधजनितबाह्यवातादिरूक्षभोजनादिजन्यत्वेन तथाऽन्तरा वातादिजन्यत्वेन पृथक्त्वेनोच्यन्ते [३३] ||५१-५२||
त्यागः प्रज्ञापराधानामिन्द्रियोपशमः स्मृतिः|
देशकालात्मविज्ञानं सद्वृत्तस्यानुवर्तनम्||५३||
आगन्तूनामनुत्पत्तावेष मार्गो निदर्शितः|
प्राज्ञः प्रागेव तत् कुर्याद्धितं विद्याद्यदात्मनः||५४||
आगन्तुमानसपरिहारे [३४] हेतुमाह- त्याग इत्यादि| इन्द्रियोपशमः इन्द्रियाणां स्वविषयेऽलम्पटत्वं, स्मृतिः पुत्रादीनां विनश्वरत्वस्वभावाद्यनुस्मरणं; यदुक्तम्- “स्मृत्वा स्वभावं भावानां स्मरन् दुःखाद्विमुच्यते” (शा.अ.१); एतच्च द्वयं मानसरोगप्रतिघातकम्| देशज्ञानाच्छून्यगृहाटव्युपसर्गगृहीतदेशवर्जनादि भवति, कालज्ञानात् पौर्णमास्यादिवक्ष्यमाणभूताद्यभिघातकालादिवर्जनम् [३५] , आत्मज्ञानात् स्वशक्तिपर्यालोचनया प्रचरतो बलवदग्निघातादिपरिवर्जनादि व्याख्येयम्| सद्वृत्तमिन्द्रियोपक्रमणीये वक्ष्यमाणम्| प्रागेवेति अनुत्पन्नेष्वेव रोगेषु||५३-५४||
आप्तोपदेशप्रज्ञानं [३६] प्रतिपत्तिश्च कारणम्|
विकाराणामनुत्पत्तावुत्पन्नानां च शान्तये||५५||
अथ किं हितमित्याह- आप्तोपदेश इत्यादि| आप्ता ज्ञानवन्तो रागद्वेषरहिताः पुरुषाः, यद्वक्ष्यति- “रजस्तमोभ्यां निर्मुक्ताः” (सू.अ.११) इत्यादि; प्रतिपत्तिरुपदिष्टार्थस्य सम्यगवबोधः; एतद्द्वयं कारणं विकाराणामनुत्पत्तौ हेतुवर्जनेन, उत्पन्नानां च शान्तये कारणं तच्चिकित्सानुष्ठानेनेत्यर्थः||५५||
पापवृत्तवचःसत्त्वाः सूचकाः कलहप्रियाः|
मर्मोपहासिनो लुब्धाः परवृद्धिद्विषः शठाः||५६||
परापवादरतयश्चपला [३७] रिपुसेविनः|
निर्घृणास्त्यक्तधर्माणः परिवर्ज्या नराधमाः||५७||
बुद्धिविद्यावयःशीलधैर्यस्मृतिसमाधिभिः|
वृद्धोपसेविनो वृद्धाः स्वभावज्ञा गतव्यथाः||५८||
सुमुखाः सर्वभूतानां प्रशान्ताः शंसितव्रताः|
सेव्याः सन्मार्गवक्तारः पुण्यश्रवणदर्शनाः||५९||
आप्तोपदेशग्रहणार्थमनाप्तान् वर्ज्यान् पापवृत्तेत्यादिना, सेव्यांश्चाप्तान् बुद्धीत्यादिना दर्शयति| वृत्तं चेष्टितं शरीरव्यापारः, सत्त्वं मनः; एषां पापत्वं पापहेतुत्वात्| शठाः क्रूराः| निर्घृणा निष्कृपाः| बुद्ध्यादिभिर्वृद्धाः प्रभूतप्रशस्तबुद्ध्यादियुक्ता इत्यर्थः| गतव्यथा गतशोकादय इत्यर्थः| सुमुखाः प्रसन्नमुखाः| शंसितव्रताः कथितव्रताः [३८] ||५६-५९||
आहाराचारचेष्टासु सुखार्थी प्रेत्य चेह च|
परं प्रयत्नमातिष्ठेद्बुद्धिमान् हितसेवने||६०||
आहाराचारचेष्टास्विति निर्धारणे सप्तमी, तेनाहाराचारचेष्टानां मध्ये यद्धितं तस्य सेवने प्रयत्नमातिष्ठेदिति फलति; आचारः शास्त्रविहितमनुष्ठानम्||६०||
न नक्तं दधि भुञ्जीत न चाप्यघृतशर्करम्|
नामुद्गयूषं नाक्षौद्रं नोष्णं नामलकैर्विना [३९] ||६१||
ज्वरासृक्पित्तवीसर्पकुष्ठपाण्ड्वामयभ्रमान्|
प्राप्नुयात्कामलां चोग्रां विधिं हित्वा दधिप्रियः||६२||
दध्नोऽनेकप्रकारनिषिद्धत्वाद्दिङ्मात्रोदाहरणार्थं दधिभोजनविधिमाह- न नक्तमित्यादि| अत्र न नक्तमित्यत्र नोष्णमित्यत्र च नकारः क्रियया सम्बध्यते, तेन निशि उष्णं दधि सर्वथैव न सेव्यम्| अघृतशर्करमित्यादौ च निषेधो नञा सम्बध्यते, तेनोभयप्रतिषेधात् सशर्करं भुञ्जीतेत्यादि वाक्यार्थो भवति| तेन घृतादीनां मध्येऽन्यतमसम्बन्धेनापि दध्युपयोज्यं भवति| न नक्तमित्यादिवदिहापि नकारस्य क्रियासम्बन्धे मुद्गसूपसहितस्याप्यघृतशर्करत्वमस्त्येव दध्न इत्यनुपादेयत्वं स्यात्| जतूकर्णे- नापि घृतादीनां मिलितानामयोगाद्दध्यसेव्यमुक्तम्| यदुक्तं- “नाश्नीयाद्दधि नक्तमुष्णं वा न घृतमधुशर्करामुद्गामलकैर्विना वा” इति||६१-६२||
तत्र श्लोकाः-
वेगा वेगसमुत्थाश्च रोगास्तेषां च भेषजम्|
येषां वेगा विधार्याश्च यदर्थं यद्धिताहितम्||६३||
उचिते चाहिते वर्ज्ये सेव्ये चानुचिते क्रमः|
यथाप्रकृति चाहारो मलायनगदौषधम्||६४||
भविष्यतामनुत्पत्तौ रोगाणामौषधं च यत्|
वर्ज्याः सेव्याश्च पुरुषा धीमताऽऽत्मसुखार्थिना||६५||
विधिना दधि सेव्यं च येन यस्मात्तदत्रिजः|
नवेगान्धारणेऽध्याये सर्वमेवावदन्मुनिः||६६||
अध्यायार्थसङ्ग्रहे हिताहितमिति सेव्यासेव्यं व्यायामहास्यादि| भविष्यतामनुत्पत्तौ भेषजमिति माधवप्रथमे मासीत्यादिनोत्पन्नानां च शान्तय इत्यन्तेन||६३-६६||
इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने नवेगान्धारणीयो नाम सप्तमोऽध्यायः||७||
इति श्रीचक्रपाणिदत्तविरचितायां चरकतात्पर्यटीकायुर्वेददीपिकाख्यायां द्वितीये स्वस्थचतुष्के नवेगान्धारणीयो नाम सप्तमोऽध्यायः||७||
१. ‘वम्याः’ इति पा.|
२. ‘शिरोरुक्कृच्छ्रमूत्रता’ इति पा.|
३. ‘मूत्रजेषु तु पाने च प्राग्भक्तं शस्यते घृतम्| जीर्णान्तिकं चोत्तमया मात्रया योजनाद्वयम्|| अवपीडकमेतच्च सञ्ज्ञितं’ वाग्भटः (सू.अ.४)|
४. ‘वातवर्चोनिरोधनम्’ इति पा.|
५. ‘वातमूत्रपुरीषाणां सङ्गो ध्मानं क्लमो रुजा’ इति पा.|
६. ‘कासोऽरुचिः’ इति पा.|
७. ‘श्वासः’ इति पा.|
८. ‘बाष्पस्य निग्रहात्तत्र’ इति पा.|
९. ‘शेफः’ इति पा.|
१०. ‘हितैषी’ इति पा.|
११. ‘निष्फलानां’ इति पा.|
१२. ‘परात्ययाभिधायकं’ इति पा.|
१३. ‘उत्पन्नानविरोधतः फलभोगेन’ इति पा.|
१४. ‘भ्रमक्लमादयः’ इति पा.|
१५. ‘क्लेशसहिष्णुता’ इति पा.|
१६. योगीन्द्रनाथसेनसम्मतोऽयं पाठः|
१७. योगीन्द्रनाथसेनसम्मतोऽयं पाठः|
१८. ‘पादेनापथ्यमभ्यस्तं पादपादेन वा त्यजेत्’ इति वाग्भटः (सू. अ. ७)| ‘यदि तु तदपथ्यमभ्यस्तं तथा सात्मीभूतं यस्मिंश्चतुर्थांशेनापि त्यजमाने शरीरबाधा शक्यते वह्निमान्द्यं वा, तदा पादपादेन वा षोडशांशेन त्यजेदिति वाशब्दार्थः’ इत्यरुणदत्तः|
१९. ‘रक्तशालीनामेकपादयोगवद्भोजनं’ इति पा.|
२०. “यदि पुनरन्तरशब्दो व्यवधिवचनस्तदाऽयमर्थः- प्रथमदिने अपथ्यस्य त्रयः पादाः पथ्यस्य चैकः| द्वितीयदिने सर्वमपथ्यं, एवमेकेन अह्ना पथ्यपादसहितोऽपथ्यपादोऽन्तरीकृतः| ततस्तृतीयदिने अपथ्यस्य द्वौ पादौ, द्वौ च पथ्यस्य| ततश्चतुर्थे पञ्चमे च सर्वमपथ्यं, एवं पथ्यपादद्वयसहितमपथ्यपादद्वयं द्वाभ्यामहोभ्यामन्तरीकृतम्| ततः पुनः षष्ठे दिवसे अपथ्यस्य एकः पादः, त्रयश्च पथ्यस्य| सप्तमे अष्टमे नवमे च सर्वमपथ्यम्| एवं त्रिभिरहोभिः पथ्यपादत्रयसहितोऽपथ्यस्य च एकः पादोऽन्तरीकृतो भवति| ततो दशमदिने सर्वं पथ्यं सेवनीयम्’ इति चरकोपस्कारे योगीन्द्रनाथसेनः| ‘यत् त्वन्तरशब्दस्य व्यवधानार्थत्वेन प्रथमदिने पथ्यपादापथ्यत्रिपादमानेन भोजनं, ततः परमेकदिनं न तथा भोक्तव्यं, किन्त्वपथ्यमभ्यस्तं यत्तदेव भोक्तव्यं, तदेकदिनं व्यवधाय तृतीयदिने पथ्यपादद्वयापथ्यपादद्वयं भोक्तव्यं, तदुत्तरं दिनद्वयं न तथा भुक्त्वा किन्त्वभ्यस्तमपथ्यमेव भोक्तव्यं, तद्दिनद्वयं व्यवधाय षष्ठे दिने पथ्यपादत्रयापथ्यैकपादमानेन भोज्यं, तदुत्तरं दिनत्रयं न तथा भोक्तव्यं, किन्त्वपथ्यमात्रमेवेति, तद्दिनत्रयं व्यवधाय दशमे दिने पथ्यचतुष्पादभोजनमपथ्यपादचतुष्टयत्यागः सुतरामिति व्याख्यायते| षोडशांशिकक्रमवादेऽप्येवं च बोध्यमिति| तदसम्यक्, अहितस्याभ्यासानुवृत्तेः” इति जल्पकल्पतरौ गङ्गाधरः| अत्राष्टाङ्गसङ्ग्रहव्याख्यायां चत्वारि मतानि प्रदर्शितानि, तानि तत्रैव द्रष्टव्यानि| चक्रदत्तव्याख्यानं तु तत्र प्रदर्शितेन तृतीयमतेन समानम्|
२१. ‘हितानामपि नानाप्रकारत्वमुच्यते’ इति पा.|
२२. ‘शुक्रशोणितजीवसम्मूर्च्छनात् प्रभृतीति यावत्’ इति पा.|
२३. ‘विकारित्वं’ इति पा.|
२४. ‘सहजत्वेन’ इति पा.|
२५. ‘….स्नेहादिकर्मप्रयुक्तः’ इति पा.|
२६. ‘….अम्ललवणरसातिरिक्तं’ इति पा.|
२७. ‘प्रभूततराम्ललवणभोजनं’ इति पा.|
२८. ‘आत्मगुणं’ इति पा.|
२९. ‘स्वेदवहानि’ इति पा.|
३०. ‘स्रोतांसि’ इति पा.|
३१. ‘नस्तः कर्म’ इति पा.|
३२. ‘चरितव्यं’ इति पा.|
३३. ‘प्रपञ्चेनोच्यते’ इति पा.|
३४. ‘आगन्तुमूलकारणपरिहारे’ इति पा.|
३५. ‘…भिघातादिवर्जनम्’ इति पा.|
३६. ‘आप्तोपदेशः प्रज्ञानं’ इति पा.|
३७. ‘परनारीप्रवेशिनः’ इति पा.|
३८. ‘अवलम्बितनियमाः’ इति पा.|
३९. अस्याग्रे- “अलक्ष्मीदोषयुक्तत्वान्नक्तं तु दधि वर्जितम्| श्लेष्मलं स्यात् ससर्पिष्कं दधि मारुतसूदनम्|| न च सन्धुक्षयेत् पित्तमाहारं च विपाचयेत्| शर्करासंयुतं दद्यात्तृष्णादाहनिवारणम्|| मुद्गसूपेन संयुक्तं दद्याद्रक्तानिलापहम्| सुरसं चाल्पदोषं च क्षौद्रयुक्तं भवेद्दधि| उष्णं पित्तास्रकृद्दोषान् धात्रीयुक्तं तु निर्हरेत्”|| इति क्वचिदधिकः पाठ उपलभ्यते|
Moolashloka with Chakrapani Commentary

Pathantara/Pathabheda

Diacritic Version
||maharṣiṇā punarvasunōpadiṣṭā, tacchiṣyēṇāgnivēśēna praṇītā, carakadr̥ḍhabalābhyāṁ pratisaṁskr̥tā||
||śrīcakrapāṇidattaviracitayā āyurvēdadīpikāvyākhyayā sahitā||
sūtrasthānam - 7. navēgāndhāraṇīyō'dhyāyaḥ
athātō navēgāndhāraṇīyamadhyāyaṁ vyākhyāsyāmaḥ||1||
iti ha smāha bhagavānātrēyaḥ||2||
pūrvādhyāyābhyāṁ svasthahita āhāraḥ prādhānyēnōktaḥ, tasya cāhārasya svasthahitatvamāhārapākajamūtrapurīṣāṇāmavidhāritavēgānāṁ bahirgamanē sati bhavatīti mūtrādivēgāvidhāraṇōpadēśakaṁ na vēgāndhāraṇīyamāha| ihāpi navēgadhāraṇaśabdasyābhāvānmātrāśitīyavat paryāyaśabdēna sañjñā bōddhavyā||1-2||
na vēgān dhārayēddhīmāñjātān mūtrapurīṣayōḥ|
na rētasō na vātasya na chardyāḥ [1] kṣavathōrna ca||3||
nōdgārasya na jr̥mbhāyā na vēgān kṣutpipāsayōḥ|
na bāṣpasya na nidrāyā niḥśvāsasya śramēṇa ca||4||
jātāniti jātamātrān| vēgaḥ pravr̥ttyunmukhatvaṁ mūtrapurīṣādīnām| mūtragrahaṇamādau mūtrasya purīṣādyapēkṣayā bahuvēgatvāt| mūtrapurīṣayōriti kṣutpipāsayōriti ca samāsakaraṇaṁ prāyaśō’nayōḥ sahōtpādadarśanārtham| pratiniṣēdhyaṁ nakārakaraṇaṁ niṣēdhyagauravōpadarśanārtham| niḥśvāsasya śramēṇa cēti śramōtthasya niḥśvāsasyāvidhāryatvaṁ darśayati, yatō’nantaraṁ vakṣyati “śramaniḥśvāsadhāraṇāt” iti; suśrutē’pyuktaṁ- “śrāntasya niḥśvāsavinigrahēṇa hr̥drōga mūrcchē athavā’pi gulmaḥ” (sū.u.a.55) iti||3-4||
ētān dhārayatō jātān vēgān rōgā bhavanti yē|
pr̥thakpr̥thakcikitsārthaṁ tānmē nigadataḥ śr̥ṇu||5||
bastimēhanayōḥ śūlaṁ mūtrakr̥cchraṁ śirōrujā [2] |
vināmō vaṅkṣaṇānāhaḥ syālliṅgaṁ mūtranigrahē||6||
svēdāvagāhanābhyaṅgān sarpiṣaścāvapīḍakam [3] |
mūtrē pratihatē kuryāttrividhaṁ bastikarma ca||7||
pakvāśayaśiraḥśūlaṁ vātavarcō’pravartanam [4] |
piṇḍikōdvēṣṭanādhmānaṁ purīṣē syādvidhāritē||8||
svēdābhyaṅgāvagāhāśca vartayō bastikarma ca|
hitaṁ pratihatē varcasyannapānaṁ pramāthi ca||9||
mēḍhrē vr̥ṣaṇayōḥ śūlamaṅgamardō hr̥di vyathā|
bhavēt pratihatē śukrē vibaddhaṁ mūtramēva ca||10||
tatrābhyaṅgō’vagāhaśca madirā caraṇāyudhāḥ|
śāliḥ payō nirūhaśca śastaṁ maithunamēva ca||11||
saṅgō [5] viṇmūtravātānāmādhmānaṁ vēdanā klamaḥ|
jaṭharē vātajāścānyē rōgāḥ syurvātanigrahāt||12||
snēhasvēdavidhistatra vartayō bhōjanāni ca|
pānāni bastayaścaiva śastaṁ vātānulōmanam||13||
kaṇḍūkōṭhārucivyaṅgaśōthapāṇḍvāmayajvarāḥ|
kuṣṭhahr̥llāsavīsarpāśchardinigrahajā gadāḥ||14||
bhuktvā pracchardanaṁ dhūmō laṅghanaṁ raktamōkṣaṇam|
rūkṣānnapānaṁ vyāyāmō virēkaścātra śasyatē||15||
manyāstambhaḥ śiraḥśūlamarditārdhāvabhēdakau|
indriyāṇāṁ ca daurbalyaṁ kṣavathōḥ syādvidhāraṇāt||16||
tatrōrdhvajatrukē’bhyaṅgaḥ svēdō dhūmaḥ sanāvanaḥ|
hitaṁ vātaghnamādyaṁ ca ghr̥taṁ cauttarabhaktikam||17||
hikkā śvāsō’ruciḥ [6] kampō vibandhō hr̥dayōrasōḥ|
udgāranigrahāttatra hikkāyāstulyamauṣadham||18||
vināmākṣēpasaṅkōcāḥ suptiḥ kampaḥ pravēpanam|
jr̥mbhāyā nigrahāttatra sarvaṁ vātaghnamauṣadham||19||
kārśyadaurbalyavaivarṇyamaṅgamardō’rucirbhramaḥ|
kṣudvēganigrahāttatra snigdhōṣṇaṁ laghu bhōjanam||20||
kaṇṭhāsyaśōṣō bādhiryaṁ śramaḥ sādō [7] hr̥di vyathā|
pipāsānigrahāttatra śītaṁ tarpaṇamiṣyatē||21||
pratiśyāyō’kṣirōgaśca hr̥drōgaścārucirbhramaḥ|
bāṣpanigrahaṇāttatra [8] svapnō madyaṁ priyāḥ kathāḥ||22||
jr̥mbhā’ṅgamardastandrā ca śirōrōgō’kṣigauravam|
nidrāvidhāraṇāttatra svapnaḥ saṁvāhanāni ca||23||
gulmahr̥drōgasammōhāḥ śramaniḥśvāsadhāraṇāt|
jāyantē tatra viśrāmō vātaghnyaśca kriyā hitāḥ||24||
vēganigrahajā rōgā ya ētē parikīrtitāḥ|
icchaṁstēṣāmanutpattiṁ vēgānētānna dhārayēt||25||
yadvēgavidhāraṇē yē rōgāstēṣāṁ yaccikitsitaṁ tadalpavaktavyatvāt prakaraṇāgatatvācca brūtē- bastimēhanayōrityādi| mēhanaṁ śiśnaḥ [9] | vinamanaṁ śarīrasya vināmaḥ| avapīḍakō bahumātraprayōgaḥ, mātrādhikatvēna hi bhēṣajaṁ dōṣān pīḍayatīti kr̥tvā; anyatrāpyuktam- “avapīḍakasarpirbhiḥ kōṣṇairghr̥tatailikaistathā’bhyaṅgaiḥ” iti| trividhamiti nirūhānuvāsanōttarabastyātmakam| piṇḍikā jānujaṅghāmadhyamāṁsapiṇḍikā| vartayaḥ phalavartayaḥ| pramāthi anulōmanam| caraṇāyudhaḥ kukkuṭaḥ| rujā jaṭhara iti sambandhaḥ| ‘bhōjanāni’ ‘pānāni’ ‘bastaya’ iti trayaṁ vātānulōmanaṁ śastamiti yōjyam| kōṭhō varaṭīdaṣṭākāraḥ śōthaḥ| vyaṅgaḥ śyāmavarṇaṁ maṇḍalaṁ mukhē| hr̥llāsaḥ utklēśaḥ| ardhāvabhēdaḥ ardhamastakavēdanā| ādyaṁ khādyaṁ bhōjanamityarthaḥ| cakārāt svēdādayō’pi vātaghnā iti sūcayati| yadyapi suśrutē mūtrādīnāṁ trayōdaśānāṁ vidhāraṇāttrayōdaśōdāvartā abhidhīyantē, tathā’pīhāṣṭōdarīyē mūtrapurīṣavātaśukravamikṣavathuvighātajā ēva paraṁ ṣaḍudāvartā abhidhātavyāḥ; udgārādinirōdhajānāṁ vātanirōdhaja ēvōdāvartē’ntarbhāvābhiprāyāt; yadi vā mūtrādivighātaja ēva vikārē carakācāryasya udāvartasañjñā’bhiprētā, nānyatrēti na virōdhaḥ| muhurmuhuraṅgānāmākṣēpaṇamākṣēpaḥ; parvaṇāmākuñcanaṁ saṅkōcaḥ| suptiḥ sparśājñānam| bhramaṇaṁ bhramō yēna cakrasthitamivātmānaṁ manyatē| sādaḥ aṅgāvasādaḥ| tarpayatīti tarpaṇam| saṁvāhanaṁ pāṇinā pādādipradēśē sukhamabhihananamunmardanaṁ ca||5-25||
imāṁstu dhārayēdvēgān hitārthī [10] prētya cēha ca|
sāhasānāmaśastānāṁ manōvākkāyakarmaṇām||26||
vēgānāmavidhāryatvēnōktatvāllōbhādīnāmapi vēgā avidhāryāḥ syurityāha- imāṁstvityādi| prētya janmāntarē| ihēti iha janmani| sahasā ātmaśaktimanālōcya kriyata iti sāhasaṁ, tattu gajābhimukhadhāvanādi| aśastānām apraśastānāmaniṣṭaphalānāmiti [11] yāvat| manōvākkāyakarmaṇāmityatra karmaśabdō vyāpāravacanaḥ||26||
lōbhaśōkabhayakrōdhamānavēgān vidhārayēt|
nairlajjyērṣyātirāgāṇāmabhidhyāyāśca buddhimān||27||
aśastaṁ manasaḥ karma darśayati- lōbhētyādi| lōbhaḥ viṣayē’nucitā prārthanā, śōkaḥ putrādivināśajaṁ dainyam, bhayam apakārakānusandhānajaṁ dainyam, krōdhaḥ pradvēṣō yēna prajvalitamivātmānaṁ manyatē, mānaḥ sadasadguṇādhyārōpēṇātmanyutkarṣapratyayaḥ| jugupsitagōpanēcchā lajjā, tadabhāvō nairlajjyaṁ; samānē dravyē parasambandhapratiṣēdhēcchā īrṣyā; atirāga ucita ēva viṣayē punaḥ punaḥ pravartanēcchā| abhidhyā manasā parābhidrōhacintanaṁ, yadi vā paradravyaviṣayē spr̥hā||27||
paruṣasyātimātrasya sūcakasyānr̥tasya ca|
vākyasyākālayuktasya dhārayēdvēgamutthitam||28||
aśastaṁ vacanakarmāha- paruṣasyētyādi| paruṣaṁ parōdvējakaṁ vacanam| atimātraṁ bahu| sūcakaṁ parāniṣṭajanakābhidhāyakam [12] | anr̥tam apārthakam| akālayuktam aprastāvāgatam||28||
dēhapravr̥ttiryā kācidvidyatē parapīḍayā|
strībhōgastēyahiṁsādyā tasyāvēgānvidhārayēt||29||
aśastaṁ dēhakarmāha- dēhētyādi| parapīḍayā parapīḍānimittamityarthaḥ| strībhōgaḥ parastrībhōgaḥ, stēyaṁ paradravyagrahaṇaṁ, hiṁsā vidhirahitā prāṇipīḍā; ādigrahaṇādgurvādyabhimukhapādaprasāraṇādi gr̥hyatē||29||
puṇyaśabdō vipāpatvānmanōvākkāyakarmaṇām|
dharmārthakāmān puruṣaḥ sukhī bhuṅktē cinōti ca||30||
ēvaṁ kr̥tē yadbhavati taddarśayati- puṇyētyādi| puṇyaḥ pāvanaḥ śabdō yasyāsau puṇyaśabdaḥ| bhuṅktē cinōti cēti utpannādavirōdhataḥ phalōpayōgēna [13] bhuṅktē; cinōti cōtpādayati cāparānityarthaḥ||30||
śarīracēṣṭā yā cēṣṭā sthairyārthā balavardhinī|
dēhavyāyāmasaṅkhyātā mātrayā tāṁ samācarēt||31||
avidhāryapravr̥ttīnmūtrādīn vidhāryapravr̥ttīn sāhasādīṁśca darśayitvā vidhāryāvidhāryapravr̥ttiṁ vyāyāmamāha- śarīrētyādi| dēhasya vyāyāmō dēhavyāyāmaḥ, dēhagrahaṇānmanōvyāyāmaṁ cintanādi nirākarōti; saṅkhyātā sañjñitā| yā ca iṣṭā abhiprētā, ētēna bhāraharaṇādyā’niṣṭā kāryavaśāt kriyamāṇā cēṣṭā nirasyatē, caṅkramaṇarūpā tu kriyā prāpyatē| sthairyaṁ sthiratā śarīrasya, tadarthā| mātrayā anapāyiparimāṇēna; ētāvatī cēyaṁ śarīracēṣṭā mātrāvatī yāvatyā lāghavādayō vakṣyamāṇā bhavanti, cēṣṭātiyōgavakṣyamāṇāśca śramabhramādayō [14] na bhavanti| suśrutē’pyuktaṁ- “yattu caṅkramaṇaṁ nātidēhapīḍākaraṁ bhavēt| tadāyurbalamēdhāgnipradamindriyabōdhanam” (su.ci.a.24) iti||31||
lāghavaṁ karmasāmarthyaṁ sthairyaṁ duḥkhasahiṣṇutā [15] |
dōṣakṣayō’gnivr̥ddhiśca vyāyāmādupajāyatē||32||
śramaḥ klamaḥ kṣayastr̥ṣṇā raktapittaṁ pratāmakaḥ|
ativyāyāmataḥ kāsō jvaraśchardiśca jāyatē||33||
(svēdāgamaḥ [16] śvāsavr̥ddhirgātrāṇāṁ lāghavaṁ tathā|
hr̥dayādyuparōdhaśca iti vyāyāmalakṣaṇam||1||)|
yathōktavyāyāmaguṇānāha- lāghavamityādi| dōṣakṣayō’tra ślēṣmakṣayō’bhiprētaḥ; yadi vā’gnikartr̥tvēna tridōṣakṣayō’pi| uktaṁ hi- “śamaprakōpau dōṣāṇāṁ sarvēṣāmagnisaṁśritau” iti| vyāyāmātipravr̥ttidōṣamāha- śrama ityādi| klama iha mana-indriyaglāniḥ| kṣayō dhātukṣayaḥ| pratamaka ēva pratāmakaḥ śvāsaviśēṣaḥ||32-33||
vyāyāmahāsyabhāṣyādhvagrāmyadharmaprajāgarān|
nōcitānapi sēvēta buddhimānatimātrayā||34||
idānīṁ vyāyāmatulyatvēnānyānapyatimātratvēna niṣēddhumāha- vyāyāmētyādi| yadyapyativyāyāmō niṣiddhastathā’pīha punarabhidhīyatē atibhāṣyādiṣvapi taddōṣaśramaklamādiprāptyarthaṁ; yadi vā pūrvamanabhyastavyāyāmātisēvā niṣiddhā, iha tu abhyastasyāpi niṣēdhaḥ| yadāha- nōcitānapi; ucitānapyabhyastānapītyarthaḥ| apiśabdādanabhyastānāṁ nitarāṁ niṣēdhō labhyatē| bhāṣaṇaṁ bhāṣyam, adhvaśabdēnādhvagamanaṁ, grāmyadharmō maithunam||34||
ētānēvaṁvidhāṁścānyān yō’timātraṁ niṣēvatē|
gajaṁ siṁha ivākarṣan sahasā sa vinaśyati||35||
(ativyavāyabhārādhvakarmabhiścātikarśitāḥ [17] |
krōdhaśōkabhayāyāsaiḥ krāntā yē cāpi mānavāḥ||1||
bālavr̥ddhapravātāśca yē cōccairbahubhāṣakāḥ|
tē varjayēyurvyāyāmaṁ kṣudhitāstr̥ṣitāśca yē||2||)|
ēvaṁśabdēna gurubhāraharaṇadarpaśilācālanādi gr̥hyatē| siṁhaḥ kila svalpapramāṇaḥ svabalōdrēkādgajaṁ karṣan pāṭayan svadēhānucitavyāyāmāt paścādvātakṣōbhēṇa vipadyatē, tēnāyaṁ dr̥ṣṭāntaḥ saṅgatārthaḥ; yadi vā siṁhō’ṣṭāpadō’bhiprētaḥ, sa ca kila gajaṁ vyāpādya pr̥ṣṭhē kṣipati, tatastatkōthādvipadyatē, tēna dr̥ṣṭāntō vyākhyēyaḥ||35||
ucitādahitāddhīmān kramaśō viramēnnaraḥ|
hitaṁ kramēṇa sēvēta kramaścātrōpadiśyatē||36||
prakṣēpāpacayē tābhyāṁ kramaḥ pādāṁśikō bhavēt|
ēkāntaraṁ tataścōrdhvaṁ dvyantaraṁ tryantaraṁ tathā||37||
hitasya sēvanamahitasya parityāgaḥ kartavya iti pūrvamuktaṁ, tacca hitasēvanamahitaparivarjanaṁ cākramēṇa kriyamāṇamakramācaritavyāyāmādivat pratyavāyakaraṁ paraṁ bhavati, atastatkramamāha- ucitādityādi| ucitāt abhyastāt| kramaśō vakṣyamāṇēna kramēṇa| hitam anabhyastahitam| kō’sau krama ityāha- kramaścētyādi| prakṣēpō hitasya, apacayō’hitasya, tābhyāṁ hitāhitābhyām| pādaḥ caturthō bhāgaḥ, tadrūpōṁ’śaḥ pādāṁśaḥ, tēna kr̥taḥ kramaḥ pādāṁśikaḥ; anyē tu pādasyāṁśaḥ pādāṁśa iti ṣōḍaśaṁ bhāgaṁ varṇayanti [18] | sa ca hitāhitayōryugapatprakṣēpāpacayē pādāṁśikaḥ kramaḥ, prathamamēkāntaramēkāhamantarā kr̥tvētyarthaḥ; tataḥ prathamahitapādaprakṣēpāhitapādāpacayābhyāsādūrdhvaṁ dvitīyapādaprakṣēpāpacayē dvyantaraṁ dvyahamantarīkr̥tya kramō bhavēt; tathā dvitīyapādābhyāsādūrdhvaṁ tr̥tīyapādaprakṣēpāpacayē tryahamantarīkr̥tya kramō bhavēt; caturthapādaprakṣēpāpacayē tu kālaniyamō nāsti, ata ūrdhvaṁ prakṣēpāpacayābhāvāccatuṣpādasampūrṇasya pathyasyānavadhisēvyatvāt| ayaṁ piṇḍārthaḥ- apathyā yavakādayō’bhyastāstē tyājyāḥ, raktaśālyādayaḥ pathyā anabhyastāstē sēvyāḥ; tatra prathamadinē yavakapādatrayaṁ raktaśālīnāmēkaḥ pādaḥ [19] ; dvitīyē divasē dvau pathyasya pādau dvāvapathyasya, ēvaṁ tr̥tīyē, ēvaṁ dvitīyapādābhyāsō dvyantarō bhavati; caturthē trayaḥ pādāḥ pathyasya ēkō’pathyasya, ēvaṁ pañcamē ṣaṣṭhē ca, ēvaṁ tr̥tīyapādābhyāsastryantarō bhavati; saptadinaprabhr̥ti tu catuṣpādapathyābhyāsaḥ| yadi [20] vā’ntaraśabdō vyavadhivacanaḥ, tathāśabdāccaturantaramiti ca labhyatē; tēnāyamarthaḥ- prathamē divasē’pathyapādatrayaṁ pathyasyaikaḥ pādaḥ, dvitīyē sarvamapathyaṁ, tr̥tīyē dvau pathyasya dvāvapathyasya, ēvaṁ caturthē; pañcamē tu dinē pathyasya bhāga ēkastrayō’pathyasya, ēvaṁ dvyantarīkr̥tau bhavataḥ; ṣaṣṭhē pathyabhāgatrayamapathyabhāga ēkaḥ, ēvaṁ saptamē’ṣṭamē ca; tatō navamē bhāgadvayaṁ pathyasya cāpathyasya ca, ēvaṁ trīṇyahānyantarīkr̥tāni bhavanti; tatō daśamē sarvaṁ pathyam, ēvamēkādaśē dvādaśē trayōdaśē ca, caturdaśē tu pathyabhāgatrayamēkō’pathyabhāgaḥ; ēvaṁ caturantaratā tathāśabdasūcitā bhavati; pañcadaśāhāt prabhr̥ti sampūrṇapathyataiva||36-37||
kramēṇāpacitā dōṣāḥ kramēṇōpacitā guṇāḥ|
santō yāntyapunarbhāvamaprakampyā bhavanti ca||38||
ēvaṁ kr̥tē kiṁ syādityāha- kramēṇētyādi| kramēṇēti kramēṇaiva| dōṣā iti dōṣajanakānyabhyastānyapathyāni| guṇā iti guṇajanakāni pathyāni| apunarbhāvaṁ yānti dōṣā iti sambandhaḥ| akramēṇa tu sahasā’pathyatyāgē dōṣā bhavantyēva| yaduktam- “asātmyajā hi rōgāḥ syuḥ sahasā tyāgaśīlanāt” (vā.sū.a.3) iti| aprakampyā apracālyā bhavanti guṇā iti sambandhaḥ| pathyamapi hyanabhyastaṁ sahasōpayujyamānamarucyagnivadhādīñjanayati||38||
samapittānilakaphāḥ kēcidgarbhādi mānavāḥ|
dr̥śyantē vātalāḥ kēcitpittalāḥ ślēṣmalāstathā||39||
tēṣāmanāturāḥ pūrvē vātalādyāḥ sadāturāḥ|
dōṣānuśayitā hyēṣāṁ dēhaprakr̥tirucyatē||40||
iha svasthahitaṁ sāmānyēnaiva raktaśālyādi pratipāditaṁ, svasthaśca prakr̥tibhēdēna nānāprakāraḥ, atastēṣāṁ hitamapi [21] nānāprakāramēva, tēna tatpratipādanārthaṁ prakr̥tibhēdamēva tāvadāha- samapittānilētyādi| samā avaikārikamānāvasthitāḥ pittānilakaphā yasya sa tathā| garbhādi garbhādhānādi, śukraśōṇitajīvasammūrcchanādīti yāvat [22] | vātalā vātapradhānāḥ, ēvaṁ pittalāḥ ślēṣmalāśca| sarvatra garbhādīti yōjyam| atra pittagrahaṇamādau chandō’nurōdhāt, yadi vā pittasamānasya vahnērgauravapradarśanārthaṁ; yadi vā prakr̥tyārambhē vātasyāprādhānyakhyāpanārthaṁ, vātaprakr̥tirhi sarvatra pratyavarō bhavati| iha ca pratyēkadōṣaprakr̥tigrahaṇēnaiva dvandvaprakr̥tirapi grāhyaḥ, saṁyōgasya saṁyōgināmāntarīyakatvāt, nidāna iva vātādijvarābhidhānēna dvandvajajvarābhidhānaṁ, tēna rōgabhiṣagjitīyōktā dvandvajā api tisraḥ prakr̥tayō gr̥hītā bhavanti; anyē tu dvitīyakēcidgrahaṇādgranthādhikyēna tadgrahaṇaṁ varṇayanti| tēṣāmiti samavātapittaślēṣmaprakr̥tyādīnāṁ ca madhyē| pūrvē iti samaprakr̥tayaḥ| sadāturā iti svasthavyavahārabhājō’pi sphuṭitāṅgatvaviṣamāgnitvādiyuktā yasmādityarthaḥ| svasthā apyētē kasmādrōgiṇa ityāha- dōṣānuśayitētyādi| dōṣānuśayitā ulbaṇavātādibhāvitā’vyabhicāriṇīti yāvat| dēhaprakr̥tiḥ dēhasvāsthyamiti yāvat| ētēnaitēṣāṁ vātalādīnāṁ mukhyaṁ svāsthyaṁ nāsti, kiṁ tarhi upacārasvasthā ēta iti darśayati| nanu, garbhādītyanēna śukraśōṇitajīvānāṁ saṁsargē yathābhūtā vātādayaḥ samā vikr̥tā vā tathābhūtaiva prakr̥tirbhavati, sā ca prakr̥tiryāvajjīvamanuvartatē riṣṭaṁ vinā, yaduktaṁ suśrutē- “prakōpō vā’nyabhāvō vā kṣayō vā nōpajāyatē| prakr̥tīnāṁ svabhāvēna, jāyatē tu gatāyuṣi” (su.śā. a. 4) iti; tatra yadā samaprakr̥tērvātaprakr̥tērvā”kṣēpakādirvātavikārō bhavati, tadā vātasya prakr̥tibhūtasyādhikyaṁ bhavatyēva; yadā ca vātaprakr̥tēḥ pittavikārō bhavati, tadā vātaprakr̥tēranyathābhāvaḥ pittaprakr̥titvaṁ bhavati; yadā tu samaprakr̥tēranyataradōṣakṣayō bhavati prākr̥tasvakarmahānilakṣaṇastadā’sau prakr̥tikṣayō bhavati; yaduktaṁ dōṣakṣayalakṣaṇē- “karmaṇaḥ prākr̥tāddhānirvr̥ddhirvā’pi virōdhinām” (sū. a.18) iti| atrōcyatē- prakr̥tisamānarōgōtpattau na prakr̥tibhūtasya vr̥ddhiḥ, kiṁ tarhi hētvantarajanitasya vātādēstatra vikārakāritvaṁ [23] , prakr̥tibhūtastu dōṣastatrōpadarśakō bhavati, yaduktaṁ- “kāladūṣyaprakr̥tibhirdōṣastulyō hi santatam| niṣpratyanīkaḥ kurutē tasmājjñēyaḥ suduḥsahaḥ” (ci. a.3) iti; vātaprakr̥tēstu pittavikārōtpattau vātaḥ prakr̥tibhūtastathaiva karacaraṇasphuṭanādikaṁ kurvannāstē, na tasyāgantunā pittavikārēṇa kiñcit kriyatē; vātādīnāṁ tu svamānāt kṣayaḥ prākr̥takarmahānilakṣaṇō na śukraśōṇitasaṁsargakālajasya prakr̥tibhūtasya dōṣasya bījabhūtasya kṣayamāvahatīti na prakr̥tibhūtadōṣakṣayaḥ; yadi vā, prakr̥tēḥ prakōpānyathābhāvakṣayā na bhavantīti prakr̥titvēnēti brūmaḥ; tēna samaprakr̥tirvātaprakr̥tirna bhavati, vātaprakr̥tiḥ pittaprakr̥tirna bhavati samaprakr̥tirvā; vikārāvasthā tu hīnādhikavātatvādilakṣaṇā bhavatītyarthaḥ| naca vācyaṁ- prakr̥tibhūtānāṁ vātādīnāṁ dūṣaṇātmakānāṁ kathaṁ na śarīrabādhakatvaṁ, sahajātatvēna [24] tathāvidhavināśakavikārākartr̥tvāt; yaduktaṁ suśrutē- “viṣajātō yathā kīṭō viṣēṇa na vipadyatē| tadvatprakr̥tibhirdēhastajjātatvānna bādhyatē” (su.śā. a.4) iti; na bādhyatē nātibādhyata iti bōddhavyaṁ, vātādiprakr̥tērnityavātādivikāragr̥hītatvāt| taduktamiha “vātalādyāḥ sadāturāḥ” iti| uktaṁ cāśvavaidyakē- “sarvān prāṇabhr̥tō hanti nūnaṁ kāyagataṁ viṣam| asmiṁścāpi samutpannā dr̥śyantē kr̥mayō yathā|| tathā ca viṣamō dōṣaḥ prakr̥tiṁ nātibādhatē” iti| naca vātādayō vr̥ddhāḥ śukraśōṇitasaṁsargē yathā duṣṭatvādvātavikāravantaṁ garbhaṁ kurvanti tathā garbhajanakatvamēva śukraśōṇitayōḥ kasmānna nighnantīti vācyaṁ, vātādiprakōpāṇāmēva hīnamadhyōttamānāṁ nānāśaktitvāt; prabalā vātādayō vināśayanti, hīnāstu vikr̥timātraṁ janayanti||39-40||
viparītaguṇastēṣāṁ svasthavr̥ttērvidhirhitaḥ|
samasarvarasaṁ sātmyaṁ samadhātōḥ praśasyatē||41||
tēṣāmiti sadāturāṇāṁ vātalādīnām| viparītaguṇō vātādigataraukṣyādiviparītasnēhādiguṇa [25] ityarthaḥ| samāḥ sarvē rasā yatra tattathā; samatvaṁ cēhānurūpatvamabhiprētaṁ, natu tulyamānatvaṁ; na hi svasthabhōjanē yāvānmadhura upayujyatē, tāvanmānāḥ kaṭvādayō’pīti; yadi vā samaśabdō’viruddhavacanaḥ, tēnōpōdikāmatsyādipratipādanīyaviruddharasavarjitaṁ sarvarasamityarthaḥ| ēvaṁ ca prakr̥tyapēkṣaḥ samadhātuṁ prati sarvarasōpayōgaḥ r̥tuvihitēna tasmāttuṣārasamayē snigdhāmlalavaṇān rasān (sū. a.6) ityādinā viśēṣavidhānēna yuktaḥ san sarvarasamēvāmlalavaṇarasōtkaṭaṁ [26] bhōjanaṁ hēmantē phalati; vātaprakr̥tēstu kaṭutiktakaṣāyavarjitaṁ prabhūtamadhurāmlalavaṇabhōjanaṁ [27] hēmantē bhavati; ēvamanyatrāpi dēhaprakr̥tyr̥tusvabhāvaparyālōcanayā’nuguṇaṁ [28] tarkaṇīyam| yaduktaṁ vāgbhaṭēna- “nityaṁ sarvarasābhyāsaḥ svasvādhikyamr̥tāvr̥tau” (vā.sū.a.3) iti||41||
dvē adhaḥ sapta śirasi khāni svēdamukhāni [29] ca|
malāyanāni bādhyantē duṣṭairmātrādhikairmalaiḥ||42||
malavr̥ddhiṁ gurutayā lāghavānmalasaṅkṣayam|
malāyanānāṁ budhyēta saṅgōtsargādatīva ca||43||
svāsthyōtpattikāraṇamabhidhāya svāsthyapratibandhakadōṣasañcayanirharaṇamabhidhātuṁ dōṣasañcayasya lakṣaṇānyēva tāvadvaktumāha- dvē adha ityādi| dvē gudaliṅgē| khāni chidrāṇi [30] | sapta śirasīti dvē śrōtrē, dvau nāsāpuṭau, dvē akṣiṇī, mukhaṁ ca; svēdamukhānīti lōmakūpāni; ētāni sarvāṇi malasyāyanāni| duṣṭairiti gōbalīvardanyāyēna kṣīṇaiḥ, mātrādhikairiti vr̥ddhaiḥ; yēnōttaratra kṣayavr̥ddhyōrapi lakṣaṇaṁ vadati| malavr̥ddhiṁ gurutayā malāyanagurutayētyarthaḥ, lāghavānmalāyanānāṁ saṅkṣayaṁ malasya svamānādapi kṣayamityarthaḥ; yadi vā duṣṭairiti mātrādhikairityasya viśēṣaṇam, ēvaṁ sati lāghavānmalasaṅkṣayamiti prakr̥tisthāllāghavānmalakṣayamityadhikasya malasya kṣayaṁ prakr̥tisthatvamityarthō vyākhyēyaḥ| saṅgōtsargādatīva cēti atīvasaṅgādapravr̥ttērmalakṣayam, atīvōtsargānmalavr̥ddhiṁ jānīyādityarthaḥ||42-43||
tān dōṣaliṅgairādiśya vyādhīn sādhyānupācarēt|
vyādhihētupratidvandvairmātrākālau vicārayan||44||
tāniti malavr̥ddhikṣayātmakān malavr̥ddhikṣayajanitāniti yāvat, dōṣāṇāṁ vātādīnāṁ, liṅgaiḥ kṣayavr̥ddhisambandhaiḥ, ādiśya buddhvā, yē sādhyāstānupācarēt| vyādhipratidvandvaiḥ vyādhipratyanīkaiḥ, hētupratidvandvaiḥ hētupratyanīkaiḥ; pratidvandvaśabdēna ca viparītārthakāriṇāmapi grahaṇam| mātrākālagrahaṇaṁ ca prādhānyāt; tēna, dōṣabhēṣajādīnāmapi grahaṇaṁ bōddhavyaṁ; yadi vā kālagrahaṇa ēva dōṣādīnāmavarōdhō vyākhyēyaḥ||44||
viṣamasvasthavr̥ttānāmētē rōgāstathā’parē|
jāyantē’nāturastasmāt svasthavr̥ttaparō bhavēt||45||
mādhavaprathamē māsi nabhasyaprathamē punaḥ|
sahasyaprathamē caiva hārayēddōṣasañcayam||46||
snigdhasvinnaśarīrāṇāmūrdhvaṁ cādhaśca nityaśaḥ|
bastikarma tataḥ kuryānnasyakarma [31] ca buddhimān||47||
yathākramaṁ yathāyōgyamata ūrdhvaṁ prayōjayēt|
rasāyanāni siddhāni vr̥ṣyayōgāṁśca kālavit||48||
rōgāstathā na jāyantē prakr̥tisthēṣu dhātuṣu|
dhātavaścābhivardhantē jarā māndyamupaiti ca||49||
vidhirēṣa vikārāṇāmanutpattau nidarśitaḥ|
nijānāmitarēṣāṁ tu pr̥thagēvōpadēkṣyatē||50||
viṣamētyādi| anāturaśabdēnāturyāt prāgēvānāgatābādhēna svasthaparēṇa bhavitavyamiti [32] śikṣayati| mādhavō vaiśākhastasya prathamaścaitraḥ, ēvaṁ nabhasyasya bhādrasya prathamaḥ śrāvaṇaḥ, tathā sahasyasya pauṣasya prathamō mārgaśīrṣaḥ; ētē ca māsāścaitraśrāvaṇamārgaśīrṣā rōgabhiṣagjitīyē vimānē (vi.a.8) śōdhanārthaṁ vakṣyamāṇaprāvr̥ḍādyr̥tukramēṇa vasantaprāvr̥ṭśaradantargatā bhavanti| dr̥ḍhabalasaṁskārē’pi paṭhyatē- “prāvr̥ṭ śukranabhau jñēyau śaradūrjasahau punaḥ| tapasyaśca madhuścaiva vasantaḥ śōdhanaṁ prati” (si.a.6) iti, suśrutē’pi r̥tucaryādhyāyē dōṣōpacayaprakōpōpaśamananimittamīdr̥śa ēva r̥tukramaḥ paṭhitaḥ| tēna, śōdhanamabhidhīyamānaṁ śōdhanārthōktartukramēṇaiva vyākhyēyam| vasantādīnāmantamāsēṣu tu vamanādyabhidhānaṁ sampūrṇaprakōpē bhūtē nirharaṇōpadēśārthaṁ; prathamēṣu hi māsēṣu phālgunāṣāḍhakārtikēṣu prakōpaḥ prakarṣaprāptō na bhavati, citasya hyasamyakprakupitasyāvilīnasya samyaṅnirharaṇaṁ na bhavatīti| ata ēva kapilabalē’pi paṭhyatē- “madhau sahē nabhasi ca māsi dōṣān pravāhayēt| vamanaiśca virēkaiśca nirūhaiḥ sānuvāsanaiḥ” iti| haricandrēṇa tu, sahaśabdō’yamakārāntō mārgaśīrṣavacanastasya sahasya prathamē kārtikē iti vyākhyātam| tanmatānusāriṇā vāgbhaṭēna cōktaṁ- “śrāvaṇē kārtikē caitrē māsi sādhāraṇē kramāt| grīṣmavarṣāhimacitān vāyvādīnāśu nirharēt” (vā.sū.a.3) iti| “kārtikē śrāvaṇē caitrē māsi sādhāraṇē kramāt| varṣādisañcitān dōṣān trimāsāntaritān harēt”- ityasya tu ślōkasya kēnāpi paṭhitasyāviruddhānvēṣaṇē buddhimatāṁ na vyāpāraḥ| ūrdhvaṁ cēti vamanēna, adha iti virēkēṇa, bastikarmaśabdēnāsthāpanānuvāsanē; ētacca sarvaṁ vamanādi yathāyōgyatayā, na yathāsaṅkhyēna; tēna vamanaṁ madhau pradhānaṁ, sahasyaprathamē virēkaḥ, nabhasyaprathamē bastiriti bhavati| yathākramaṁ yathānupūrvaṁ, yathāyōgyaṁ yadyasya yujyatē; ētacca pūrvēṇa vamanādinā, uttarēṇa ca rasāyanādi prayōjayēdityanēna yōjyam| siddhānīti dr̥ṣṭaphalāni| rōgāstathā na jāyanta iti vamanādīnācarataḥ; dhātavaścābhivardhanta iti rasāyanavr̥ṣyayōgānupayōjayata iti yōjanīyam| nijānāmiti chēdaḥ| itarēṣāmityāgantūnām| āgantavaścēha bhūtaviṣavātādijanyāstathā mānasāścābhiprētāḥ; yēnaitaddvitayamapyabhidhāyā”gantūnāmanutpattāvityādyupasaṁhāramāgantukatvēnaiva kariṣyati||45-50||
yē bhūtaviṣavāyvagnisamprahārādisambhavāḥ|
nr̥ṇāmāgantavō rōgāḥ prajñā tēṣvaparādhyati||51||
īrṣyāśōkabhayakrōdhamānadvēṣādayaśca yē|
manōvikārāstē’pyuktāḥ sarvē prajñāparādhajāḥ||52||
yē bhūtētyādi| bhūtāḥ piśācādayaḥ, ādigrahaṇāt pātabandhanādīnāṁ grahaṇam| prajñā buddhistadaparādhō’jñānadurjñānē, ētanmūlāścaitē bhūtābhiṣaṅgādaya īrṣyādayaśca| yadyapi ca nijā api prajñāparādhamūlā ēva; yaduktaṁ- “prajñāparādhāddhyahitānarthān pañca niṣēvatē” (sū.a.28) iti, tathā’pi tē prādhānyāt prajñāparādhajanitabāhyavātādirūkṣabhōjanādijanyatvēna tathā’ntarā vātādijanyatvēna pr̥thaktvēnōcyantē [33] ||51-52||
tyāgaḥ prajñāparādhānāmindriyōpaśamaḥ smr̥tiḥ|
dēśakālātmavijñānaṁ sadvr̥ttasyānuvartanam||53||
āgantūnāmanutpattāvēṣa mārgō nidarśitaḥ|
prājñaḥ prāgēva tat kuryāddhitaṁ vidyādyadātmanaḥ||54||
āgantumānasaparihārē [34] hētumāha- tyāga ityādi| indriyōpaśamaḥ indriyāṇāṁ svaviṣayē’lampaṭatvaṁ, smr̥tiḥ putrādīnāṁ vinaśvaratvasvabhāvādyanusmaraṇaṁ; yaduktam- “smr̥tvā svabhāvaṁ bhāvānāṁ smaran duḥkhādvimucyatē” (śā.a.1); ētacca dvayaṁ mānasarōgapratighātakam| dēśajñānācchūnyagr̥hāṭavyupasargagr̥hītadēśavarjanādi bhavati, kālajñānāt paurṇamāsyādivakṣyamāṇabhūtādyabhighātakālādivarjanam [35] , ātmajñānāt svaśaktiparyālōcanayā pracaratō balavadagnighātādiparivarjanādi vyākhyēyam| sadvr̥ttamindriyōpakramaṇīyē vakṣyamāṇam| prāgēvēti anutpannēṣvēva rōgēṣu||53-54||
āptōpadēśaprajñānaṁ [36] pratipattiśca kāraṇam|
vikārāṇāmanutpattāvutpannānāṁ ca śāntayē||55||
atha kiṁ hitamityāha- āptōpadēśa ityādi| āptā jñānavantō rāgadvēṣarahitāḥ puruṣāḥ, yadvakṣyati- “rajastamōbhyāṁ nirmuktāḥ” (sū.a.11) ityādi; pratipattirupadiṣṭārthasya samyagavabōdhaḥ; ētaddvayaṁ kāraṇaṁ vikārāṇāmanutpattau hētuvarjanēna, utpannānāṁ ca śāntayē kāraṇaṁ taccikitsānuṣṭhānēnētyarthaḥ||55||
pāpavr̥ttavacaḥsattvāḥ sūcakāḥ kalahapriyāḥ|
marmōpahāsinō lubdhāḥ paravr̥ddhidviṣaḥ śaṭhāḥ||56||
parāpavādaratayaścapalā [37] ripusēvinaḥ|
nirghr̥ṇāstyaktadharmāṇaḥ parivarjyā narādhamāḥ||57||
buddhividyāvayaḥśīladhairyasmr̥tisamādhibhiḥ|
vr̥ddhōpasēvinō vr̥ddhāḥ svabhāvajñā gatavyathāḥ||58||
sumukhāḥ sarvabhūtānāṁ praśāntāḥ śaṁsitavratāḥ|
sēvyāḥ sanmārgavaktāraḥ puṇyaśravaṇadarśanāḥ||59||
āptōpadēśagrahaṇārthamanāptān varjyān pāpavr̥ttētyādinā, sēvyāṁścāptān buddhītyādinā darśayati| vr̥ttaṁ cēṣṭitaṁ śarīravyāpāraḥ, sattvaṁ manaḥ; ēṣāṁ pāpatvaṁ pāpahētutvāt| śaṭhāḥ krūrāḥ| nirghr̥ṇā niṣkr̥pāḥ| buddhyādibhirvr̥ddhāḥ prabhūtapraśastabuddhyādiyuktā ityarthaḥ| gatavyathā gataśōkādaya ityarthaḥ| sumukhāḥ prasannamukhāḥ| śaṁsitavratāḥ kathitavratāḥ [38] ||56-59||
āhārācāracēṣṭāsu sukhārthī prētya cēha ca|
paraṁ prayatnamātiṣṭhēdbuddhimān hitasēvanē||60||
āhārācāracēṣṭāsviti nirdhāraṇē saptamī, tēnāhārācāracēṣṭānāṁ madhyē yaddhitaṁ tasya sēvanē prayatnamātiṣṭhēditi phalati; ācāraḥ śāstravihitamanuṣṭhānam||60||
na naktaṁ dadhi bhuñjīta na cāpyaghr̥taśarkaram|
nāmudgayūṣaṁ nākṣaudraṁ nōṣṇaṁ nāmalakairvinā [39] ||61||
jvarāsr̥kpittavīsarpakuṣṭhapāṇḍvāmayabhramān|
prāpnuyātkāmalāṁ cōgrāṁ vidhiṁ hitvā dadhipriyaḥ||62||
dadhnō’nēkaprakāraniṣiddhatvāddiṅmātrōdāharaṇārthaṁ dadhibhōjanavidhimāha- na naktamityādi| atra na naktamityatra nōṣṇamityatra ca nakāraḥ kriyayā sambadhyatē, tēna niśi uṣṇaṁ dadhi sarvathaiva na sēvyam| aghr̥taśarkaramityādau ca niṣēdhō nañā sambadhyatē, tēnōbhayapratiṣēdhāt saśarkaraṁ bhuñjītētyādi vākyārthō bhavati| tēna ghr̥tādīnāṁ madhyē’nyatamasambandhēnāpi dadhyupayōjyaṁ bhavati| na naktamityādivadihāpi nakārasya kriyāsambandhē mudgasūpasahitasyāpyaghr̥taśarkaratvamastyēva dadhna ityanupādēyatvaṁ syāt| jatūkarṇē- nāpi ghr̥tādīnāṁ militānāmayōgāddadhyasēvyamuktam| yaduktaṁ- “nāśnīyāddadhi naktamuṣṇaṁ vā na ghr̥tamadhuśarkarāmudgāmalakairvinā vā” iti||61-62||
tatra ślōkāḥ-
vēgā vēgasamutthāśca rōgāstēṣāṁ ca bhēṣajam|
yēṣāṁ vēgā vidhāryāśca yadarthaṁ yaddhitāhitam||63||
ucitē cāhitē varjyē sēvyē cānucitē kramaḥ|
yathāprakr̥ti cāhārō malāyanagadauṣadham||64||
bhaviṣyatāmanutpattau rōgāṇāmauṣadhaṁ ca yat|
varjyāḥ sēvyāśca puruṣā dhīmatā”tmasukhārthinā||65||
vidhinā dadhi sēvyaṁ ca yēna yasmāttadatrijaḥ|
navēgāndhāraṇē’dhyāyē sarvamēvāvadanmuniḥ||66||
adhyāyārthasaṅgrahē hitāhitamiti sēvyāsēvyaṁ vyāyāmahāsyādi| bhaviṣyatāmanutpattau bhēṣajamiti mādhavaprathamē māsītyādinōtpannānāṁ ca śāntaya ityantēna||63-66||
ityagnivēśakr̥tē tantrē carakapratisaṁskr̥tē ślōkasthānē navēgāndhāraṇīyō nāma saptamō’dhyāyaḥ||7||
iti śrīcakrapāṇidattaviracitāyāṁ carakatātparyaṭīkāyurvēdadīpikākhyāyāṁ dvitīyē svasthacatuṣkē navēgāndhāraṇīyō nāma saptamō’dhyāyaḥ||7||
1. ‘vamyāḥ’ iti pā.|
2. ‘śirōrukkr̥cchramūtratā’ iti pā.|
3. ‘mūtrajēṣu tu pānē ca prāgbhaktaṁ śasyatē ghr̥tam| jīrṇāntikaṁ cōttamayā mātrayā yōjanādvayam|| avapīḍakamētacca sañjñitaṁ’ vāgbhaṭaḥ (sū.a.4)|
4. ‘vātavarcōnirōdhanam’ iti pā.|
5. ‘vātamūtrapurīṣāṇāṁ saṅgō dhmānaṁ klamō rujā’ iti pā.|
6. ‘kāsō’ruciḥ’ iti pā.|
7. ‘śvāsaḥ’ iti pā.|
8. ‘bāṣpasya nigrahāttatra’ iti pā.|
9. ‘śēphaḥ’ iti pā.|
10. ‘hitaiṣī’ iti pā.|
11. ‘niṣphalānāṁ’ iti pā.|
12. ‘parātyayābhidhāyakaṁ’ iti pā.|
13. ‘utpannānavirōdhataḥ phalabhōgēna’ iti pā.|
14. ‘bhramaklamādayaḥ’ iti pā.|
15. ‘klēśasahiṣṇutā’ iti pā.|
16. yōgīndranāthasēnasammatō’yaṁ pāṭhaḥ|
17. yōgīndranāthasēnasammatō’yaṁ pāṭhaḥ|
18. ‘pādēnāpathyamabhyastaṁ pādapādēna vā tyajēt’ iti vāgbhaṭaḥ (sū. a. 7)| ‘yadi tu tadapathyamabhyastaṁ tathā sātmībhūtaṁ yasmiṁścaturthāṁśēnāpi tyajamānē śarīrabādhā śakyatē vahnimāndyaṁ vā, tadā pādapādēna vā ṣōḍaśāṁśēna tyajēditi vāśabdārthaḥ’ ityaruṇadattaḥ|
19. ‘raktaśālīnāmēkapādayōgavadbhōjanaṁ’ iti pā.|
20. “yadi punarantaraśabdō vyavadhivacanastadā’yamarthaḥ- prathamadinē apathyasya trayaḥ pādāḥ pathyasya caikaḥ| dvitīyadinē sarvamapathyaṁ, ēvamēkēna ahnā pathyapādasahitō’pathyapādō’ntarīkr̥taḥ| tatastr̥tīyadinē apathyasya dvau pādau, dvau ca pathyasya| tataścaturthē pañcamē ca sarvamapathyaṁ, ēvaṁ pathyapādadvayasahitamapathyapādadvayaṁ dvābhyāmahōbhyāmantarīkr̥tam| tataḥ punaḥ ṣaṣṭhē divasē apathyasya ēkaḥ pādaḥ, trayaśca pathyasya| saptamē aṣṭamē navamē ca sarvamapathyam| ēvaṁ tribhirahōbhiḥ pathyapādatrayasahitō’pathyasya ca ēkaḥ pādō’ntarīkr̥tō bhavati| tatō daśamadinē sarvaṁ pathyaṁ sēvanīyam’ iti carakōpaskārē yōgīndranāthasēnaḥ| ‘yat tvantaraśabdasya vyavadhānārthatvēna prathamadinē pathyapādāpathyatripādamānēna bhōjanaṁ, tataḥ paramēkadinaṁ na tathā bhōktavyaṁ, kintvapathyamabhyastaṁ yattadēva bhōktavyaṁ, tadēkadinaṁ vyavadhāya tr̥tīyadinē pathyapādadvayāpathyapādadvayaṁ bhōktavyaṁ, taduttaraṁ dinadvayaṁ na tathā bhuktvā kintvabhyastamapathyamēva bhōktavyaṁ, taddinadvayaṁ vyavadhāya ṣaṣṭhē dinē pathyapādatrayāpathyaikapādamānēna bhōjyaṁ, taduttaraṁ dinatrayaṁ na tathā bhōktavyaṁ, kintvapathyamātramēvēti, taddinatrayaṁ vyavadhāya daśamē dinē pathyacatuṣpādabhōjanamapathyapādacatuṣṭayatyāgaḥ sutarāmiti vyākhyāyatē| ṣōḍaśāṁśikakramavādē’pyēvaṁ ca bōdhyamiti| tadasamyak, ahitasyābhyāsānuvr̥ttēḥ” iti jalpakalpatarau gaṅgādharaḥ| atrāṣṭāṅgasaṅgrahavyākhyāyāṁ catvāri matāni pradarśitāni, tāni tatraiva draṣṭavyāni| cakradattavyākhyānaṁ tu tatra pradarśitēna tr̥tīyamatēna samānam|
21. ‘hitānāmapi nānāprakāratvamucyatē’ iti pā.|
22. ‘śukraśōṇitajīvasammūrcchanāt prabhr̥tīti yāvat’ iti pā.|
23. ‘vikāritvaṁ’ iti pā.|
24. ‘sahajatvēna’ iti pā.|
25. ‘….snēhādikarmaprayuktaḥ’ iti pā.|
26. ‘….amlalavaṇarasātiriktaṁ’ iti pā.|
27. ‘prabhūtatarāmlalavaṇabhōjanaṁ’ iti pā.|
28. ‘ātmaguṇaṁ’ iti pā.|
29. ‘svēdavahāni’ iti pā.|
30. ‘srōtāṁsi’ iti pā.|
31. ‘nastaḥ karma’ iti pā.|
32. ‘caritavyaṁ’ iti pā.|
33. ‘prapañcēnōcyatē’ iti pā.|
34. ‘āgantumūlakāraṇaparihārē’ iti pā.|
35. ‘…bhighātādivarjanam’ iti pā.|
36. ‘āptōpadēśaḥ prajñānaṁ’ iti pā.|
37. ‘paranārīpravēśinaḥ’ iti pā.|
38. ‘avalambitaniyamāḥ’ iti pā.|
39. asyāgrē- “alakṣmīdōṣayuktatvānnaktaṁ tu dadhi varjitam| ślēṣmalaṁ syāt sasarpiṣkaṁ dadhi mārutasūdanam|| na ca sandhukṣayēt pittamāhāraṁ ca vipācayēt| śarkarāsaṁyutaṁ dadyāttr̥ṣṇādāhanivāraṇam|| mudgasūpēna saṁyuktaṁ dadyādraktānilāpaham| surasaṁ cālpadōṣaṁ ca kṣaudrayuktaṁ bhavēddadhi| uṣṇaṁ pittāsrakr̥ddōṣān dhātrīyuktaṁ tu nirharēt”|| iti kvacidadhikaḥ pāṭha upalabhyatē|