Table of Contents
Devanagari Version
काशिराजधन्वन्तरिणोपदिष्टा तच्छिष्यसुश्रुतेन विरचिता
सुश्रुतसंहिता
श्रीडल्हणाचार्यविरचितया निबन्धसङ्ग्रहाख्यव्याख्यया निदानस्थानस्य श्रीगयदासाचार्यविरचितया न्यायचन्द्रिकाख्यपञ्जिकाव्याख्यया च समुल्लसिता
चिकित्सास्थानम् - ५. महावातव्याधिचिकित्सितम्
Only Moolashloka
अथातो महावातव्याधिचिकित्सितं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
द्विविधं वातशोणितमुत्तानमवगाढं चेत्येके भाषन्ते; तत्तु न सम्यक्, तद्धि कुष्ठवदुत्तानं भूत्वा कालान्तरेणावगाढीभवति, तस्मान्न द्विविधम् ||३||
प्रतिज्ञाऽनन्तरं तन्त्रान्तरोक्तद्वैविध्यनिराकरणमाह- द्विविधमित्यादि| उत्तानं त्वङ्मांसाश्रयम्, अवगाढमन्तराश्रयम्||१-३||
तत्र बलवद्विग्रहादिभिः प्रकुपितस्य वायोर्गुरूष्णाध्यशनशीलस्य प्रदुष्टं शोणितं मार्गमावृत्य वातेन सहैकीभूतं युगपद्वातरक्तनिमित्तां वेदनां जनयतीति वातरक्तम् |
तत्तु पूर्वं हस्तपादयोरवस्थानं कृत्वा पश्चाद्देहं व्याप्नोति |
तस्य पूर्वरूपाणितोददाहकण्डूशोफस्तम्भत्वक्पारुष्यसिरास्नायुधमनीस्पन्दनसक्थिदौर्बल्यानि श्यावारुणमण्डलोत्पत्तिश्चाकस्मात् पाणिपादतलाङ्गुलिगुल्फमणिबन्धप्रभृतिषु, तत्राप्रतिकारिणोऽपचारिणश्च रोगो व्यक्ततरः, तस्य लक्षणमुक्तं; तत्राप्रतिकारिणो वैकल्यं भवति ||४||
तस्येदानीं सम्प्राप्तिपूर्विकां निरुक्तिं निर्दिशन्नाह- तत्रेत्यादि| बलवद्विग्रहादयो व्रणप्रश्नोक्ताः, गुरूष्णाध्यशनादयश्च तत्रेवोक्ताः| युगपत् एककालम्| तस्येत्यादि| मणिबन्धः पाणिमूलम्| तत्र बलवद्विग्रहादिभिरित्यारभ्य यावदपचारिणश्चेत्यत्र ग्रन्थस्यार्थो निदानपरिपठितोऽपि वातरक्तस्य दुःसाध्यत्वज्ञापनायात्रापि पठनीयः| तत्रेत्यादि| तत्रेति पूर्वरूपे| अपचारिणः अयथार्थकारिणः| रोगो व्यक्ततरः विकारः प्रकटो भवतीत्यर्थः| तत्रेति रोगव्यक्तौ| वैकल्यं विकलता| एतेनासाध्यत्वमुक्तम्||४||
भवति चात्र-
प्रायशः सुकुमाराणां मिथ्याहारविहारिणाम् |
स्थूलानां सुखिनां चापि वातरक्तं प्रकुप्यति ||५||
इदानीं विशेषेण वातशोणिताश्रयं निर्दिशन्नाह- प्रायश इत्यादि| असुकुमाराणामस्थूलानां दुःखितानां च प्रायेण व्यायामाश्रयत्वात्, व्यायामेन मिथ्याहारविहारयोरप्यदोषत्वादल्पदोषत्वाद्वा विकारासम्भवः||५||
तत्र प्राणमांसक्षयपिपासाज्वरमूर्च्छाश्वासकासस्तम्भारोचकाविपाकविसरणसङ्कोचनैरनुपद्रुतं बलवन्तमात्मवन्तमुपकरणवन्तं चोपक्रमेत् ||६||
कीदृश उपक्रम्यस्तदाह- तत्रेत्यादि| बलवन्तमिति उपचयशक्तिलक्षणोभयबलयुक्तं; प्राणमांसक्षयशब्देनोभयलक्षणस्य निवृत्तिविषयत्वादेव प्रवृत्तिविषयमप्युभयलक्षणमेव बलम्||६||
तत्र, आदावेव बहुवातरूक्षम्लानाङ्गादृते मार्गावरणाद्दुष्टशोणितमसकृदल्पाल्पमवसिञ्चेद्वातकोपभयात् |
ततो वमनादिभिरुपक्रमैरुपपाद्य प्रतिसंसृष्टभक्तं वातप्रबले पुराणघृतं पाययेत् |
अजाक्षीरं वाऽर्धतैलं मधुकाक्षययुक्तं, शृगालविन्नासिद्धं वा शर्करामधुमधुरं, शुण्ठीशृङ्गाटककशेरुकसिद्धं वा, श्यामारास्नासुषवीशृगालविन्नापीलुशतावरीश्वदंष्ट्राद्विपञ्चमूलीसिद्धं वा |
द्विपञ्चमूलीक्वाथाष्टगुणसिद्धेन पयसा मधुकमेषशृङ्गीश्वदंष्ट्रासरलभद्रदारुवचासुरभिकल्कप्रतीवापं तैलं पाचयित्वा पानादिषूपयुञ्जीत, शतावरीमयूरककिणिह्यजमोदामधुकक्षीरविदारीबलातिबलातृणपञ्चमूलीक्वाथसिद्धं वा काकोल्यादिप्रतिवापं, बलातैलं शतपाकं वेति |
वातहरमूलसिद्धेन च पयसा परिषेचनमम्लैर्वा कुर्वीत |
यवमधुकैरण्डतिलवर्षाभूभिर्वा प्रदेहः कार्यः |
तत्र चूर्णितेषु यवगोधूमतिलमुद्गमाषेषु प्रत्येकशः काकोलीक्षीरकाकोलीजीवकर्षभकबलातिबलाबिसमृणालशृगालविन्नामेषशृङ्गी- प्रियालशर्कराकशेरुकसुरभिवचाकल्कमिश्रेषूपनाहार्थं सर्पिस्तैलवसामज्जदुग्धसिद्धाः पञ्च पायसा व्याख्याताः, स्नैहिकफलसारोत्कारिका वा, चूर्णितेषु यवगोधूमतिलमुद्वमाषेषु मत्स्यपिशितवेशवारो वा, बिल्वपेशिकातगरदेवदारुसरलारास्नाहरेणुकुष्ठशतपुष्पैलासुरादधिमस्तुयुक्त उपनाहः, मातुलुङ्गाम्लसैन्धवघृतमिश्रं मधुशिग्रुमूलमालेपस्तिलकल्को वेति वातप्रबले ||७||
तत्र दोषदूष्ययोः पूर्वं दूष्यचिकित्सितमेव निर्दिशन्नाह- तत्रेत्यादि| बहुवातत्वेन हेतुना रूक्षमस्निग्धं, म्लानं शुष्यदङ्गं, यस्य देहिनस्तस्मादृते इत्यर्थः| मार्गावरणं मार्गावरोधनं, तस्माद्दुष्टशोणितं प्रकुपितरुधिरम्| असकृत् अनेकवारान्| अवसिञ्चेत् स्रावयेदित्यर्थः| दोषचिकित्सितमाह- ततो वमनादिभिरित्यादि| आदिशब्दाद्विरेचनास्थापनानुवासनादिभिरुपक्रमैश्चिकित्साधिकारोक्तैः| उपपाद्य योजयित्वा| प्रतिसंसृष्टभक्तमिति प्रतिसंसृष्टं पेयादिक्रमेण त्य(यु)क्तं भक्तं यस्य पुरुषस्येत्यर्थः| वातप्रबले वातरक्ते| पुराणघृतं कालेनैव पक्वम्| तत्र पाणिगतं वातरक्तमूर्ध्वगतदोषेण, पादगतं वातरक्तमधोगतेन दोषेण भवति; तत्र पाणिगते कफपित्तानुबन्धे वमनविरेचने, तत्रैव जीर्णघृतपानं; पादगते वातानुबन्धे आस्थापनपूर्वकमनुवासनम्| तत्रैकं शुद्धिदिनम्, अन्नसंसर्जनदिनानि षट्, अष्टमे स्नेहाङ्गभोजनं, नवमे पुराणघृतपानमिति| अजाक्षीरमर्धतैलं यष्टिमधुकर्षयुक्तं; तदेव पृश्निपर्ण्यादिसिद्धं, शुण्ठ्यादिसिद्धं, श्यामादिसिद्धं वा, इत्येवं चतुर्षु योगेष्वजाक्षीरमर्धतैलमभिसम्बध्यते; तत्रार्धतैलमिति अजाक्षीरस्य भागद्वयं तैलस्यैक इत्यर्थः| शृगालविन्ना पृश्निपर्णी, तया सिद्धं क्षीरपाककल्पनया| श्यामा त्रिवृद्विशेषः, ‘वृद्धदारुक’ इत्यन्ये| रास्ना सुरसा [१] | सुषवी पानीयवल्ली| पुराणघृततैलं निर्दिश्य पक्वतैलं निर्दिशन्नाह- द्विपञ्चमूलीत्यादि| द्विपञ्चमूलीं कषायकल्पेन विपाच्य पादशेषेण तेनाष्टगुणेन क्षीरं साधयेत्, क्षीरशेषमवतार्य तेन मधुकादिकल्कयुक्तं तैलं साधयेदिति| सुरभिः रास्ना| प्रतिवापः प्रक्षेपः| पानादिष्वित्यादिशब्दादभ्यङ्गपरिषेकादयः| शतावरीत्यादि ‘सिद्धं तैलम्’ इति शेषः| मयूरकोऽपामार्गः| क्षीरविदारी दीर्घकन्दा भृशं मधुरा| तृणपञ्चमूली “कुशकाशनलदर्भकाण्डेक्षुका” (सू. ३८) इति तृणसञ्ज्ञा| शतपाकमिति बलाक्वाथकल्काभ्यां शतशः कृत्वा विपाच्य प्रयोज्यं; श्रीजेज्जटस्तु बलातैलं मूढगर्भोक्तमाह, शतपाकं तु सहस्रपाकतुल्यमेवाह| एते च योगा दोषादीनवेक्ष्य यथावस्थं योज्याः| अन्तःपरिमार्जनमभिधाय बहिःपरिमार्जनं निर्दिशन्नाह- वातहरेत्यादि| वातहरं दशमूलम्| अम्लैरिति सुरासौवीरकतुषोदकादिभिः| प्रदेहः प्रलेपः| तत्रेत्यादि तत्र चूर्णितेषु यवादिषु पञ्चसु प्रत्येकं काकोल्यादिवचान्तकल्कमिश्रेषूपनाहार्थं सर्पिस्तैलवसामज्जदुग्धसिद्धाः पञ्च पायसा व्याख्याताः| ते तु नातिद्रवा नातिसान्द्राः प्रदेहयोग्या योज्याः| पयसा संस्कृताः पायसाः| यद्यपि सर्पिरादीनि संस्कारकत्वेनोपन्यस्तानि तथाऽपि पय एव प्रधानमिति तद्व्यपदेशः| स्नैहिकफलानि तिलैरण्डातसीबिभीतकादीनि, तेषां यथासम्भवं सारो मज्जा| अत्रानुक्तमपि क्षीरं स्नेहफलकल्कपाकनिष्पत्तये कल्पनीयम्| उत्कारिका लप्सिका| चूर्णितेष्वित्यादि| पिशितवेशवारः मांसमयो वेशवारः खानिष्कापरपर्यायः| अन्ये तु ‘नलमीनमत्स्यामिषवेशवारो वा’ इति पठन्ति, व्याख्यानयन्ति च- नलमीनो रोहितभेदः, पामरेषु ‘मिउक्व’ इति प्रसिद्धः, तीरभुक्तौ तु जनास्तं तिलपित्तमाहुः; तद्ग्रहणं विशेषार्थं, मत्स्यशब्देन तु सर्वे एव गृह्यन्ते| अन्ये तु ‘आनूपमत्स्यामिषवेशवारैः’ इति पठन्ति, आमिषशब्देनानूपमांसमाहुः| तथा च वातरक्ते चरकः- “औदकप्रसहानूपवेशवाराः सुसंस्कृताः| जीवनीयौषधस्नेहयुक्ताः स्युरुपनाहने” (च. चि. २९)- इति| ‘विचित्रमत्स्यपिशितवेशवारो वा’ इति क्वचित् [२] | बिल्वेत्यादि बिल्वपेशिकादि पेष्यं, सुरादि तस्य पेषणाय द्रवद्रव्यं; बिल्वपेशिका बालबिल्वगिरः, सरला त्रिवृत्| मातुलुङ्गेत्यादि| मातुलुङ्गादिभिः सह शोभाञ्जनकमूलं ससैन्धवमालेपः| तिलकल्को वेति तिलानां मातुलुङ्गादिरसपिष्टानां पूर्ववदेवालेप इत्येके, केवल एव तिलकल्क इत्यन्ये||७||
पित्तप्रबले द्राक्षारेवतकट्फलपयस्यामधुकचन्दनकाश्मर्यकषायं शर्करामधुमधुरं पाययेत्, शतावरीमधुकपटोलत्रिफलाकटुरोहिणीकषायं [३] , गुडूचीकषायं वा, पित्तज्वरहरं वा चन्दनादिकषायं शर्करामधुमधुरं, मधुरतिक्तकषायसिद्धं वा सर्पिः; बिसमृणालभद्रश्रियपद्मककषायेणार्धक्षीरेण परिषेकः, क्षीरेक्षुरसैर्मधुकशर्करातण्डुलोदकैर्वा द्राक्षेक्षुकषायमिश्रैर्वा मस्तुमद्यधान्याम्लैः; जीवनीयसिद्धेन वा सर्पिषाऽभ्यङ्गः, शतधौतघृतेन वा, काकोल्यादिकल्ककषायविपक्वेन वा सर्पिषा; शालिषष्टिकनलवञ्जुलतालीसशृङ्गाटकगलोड्यगौरीगैरिकशैवलपद्मकपद्मपत्रप्रभृतिभिर्धान्याम्लपिष्टैः प्रदेहो घृतमिश्रः, वातप्रबलेऽप्येष सुखोष्णः प्रदेहः कार्यः ||८||
पित्तानुबन्धस्य चिकित्सां निर्दिशन्नाह- पित्तेत्यादि| आरेवतकः किरमालकः| पयसा अर्कपुष्पी, क्षीरविदारिकेत्यन्ये| शतावरीत्यादि| मधुराणि काकोल्यादीनि, तिक्तानि पटोलादीनि, कषायाणि त्रिफलादीनि, तेषां कषायकल्काभ्यां सिद्धं घृतं पाययेदित्यर्थः| बिसेत्यादि| बिसं भिषण्टकमिति [४] लोके, मृणालं पद्मनालं, भद्रश्रियं शुक्लचन्दनम्| परिषेकः सर्वतो धारासेचनम्| क्षीरेत्यादि| क्षीरेक्षुरसाभ्यामेको योगः, मधुकादिभिर्द्वितीयो योगः, द्राक्षादिकषायमिश्रैर्मस्त्वादिभिस्तृतीयः| जीवनीयेत्यादि| काकोल्यादिकषायकल्कविपक्वेन सर्पिषाऽभ्यङ्गः, शतधौतघृतेन वाऽभ्यङ्ग इत्यर्थः| शालीत्यादि| वञ्जुलो वेतसः, गलोड्यं पद्मबीजं, गौरी हरिद्रा, शैवलं शैवालम्| धान्याम्लं काञ्जिकम्| अयं च प्रदेहः शीतोऽबहुलश्च कर्तव्यः (वातप्रबलेऽप्येष प्रदेहः सुखोष्णः कार्यः [५] ) ||८||
रक्तप्रबलेऽप्येवं, बहुशश्च शोणितमवसेचयेत्, शीततमाश्च प्रदेहाः कार्या इति ||९||
पित्तप्रबलचिकित्सितमुक्तमन्यत्राप्यतिदिशन्नाह- रक्तेत्यादि||९||
श्लेष्मप्रबले त्वामलकहरिद्राकषायं मधुमधुरं पाययेत्, त्रिफलाकषायं वा [६] ; मधुकशृङ्गवेरहरीतकीतिक्तरोहिणीकल्कं वा सक्षौद्रं, मूत्रतोययोरन्यतरेण गुडहरीतकीं वा भक्षयेत्; तैलमूत्रक्षारोदकसुराशुक्तकफघ्नौषधनिःक्वाथैश्च परिषेकः, आरग्वधादिकषायैर्वोष्णैः; मस्तुमूत्रसुराशुक्तमधुकसारिवापद्मकसिद्धं वा घृतमभ्यङ्गः; तिलसर्षपातसीयवचूर्णानि श्लेष्मातककपित्थमधुशिग्रुमिश्राणि क्षारमूत्रपिष्टानि प्रदेहः; श्वेतसर्षपकल्कः, तिलाश्वगन्धाकल्कः, प्रियालसेलुकपित्थकल्कः, मधुशिग्रुपुनर्नवाकल्कः, व्योषतिक्तापृथक्पर्णीबृहतीकल्क इत्येतेषां पञ्च प्रदेहाः सुखोष्णाः क्षारोदकपिष्टाः, शालिपर्णी पृश्निपर्णी बृहत्यौ वा क्षीरपिष्टास्तर्पणमिश्राः ||१०||
रोहिणीकल्कमित्यत्रापि चूर्णमित्येके, तत् सक्षौद्रम्| मूत्रतोययोरन्यतरेण गुडहरीतकीं वा भक्षयेत्| तैलेत्यादि तैलादिभिः कोष्णैः परिषेकः| आरग्वधादीत्यादि ‘परिषेक’ इति शेषः| मस्त्वित्यादि| प्रत्येकं मस्त्वादिभिश्चतुर्भिर्घृतसमैर्मधुकादिभिस्त्रिभिः पादकल्कैः पक्वेन सर्पिषाऽभ्यङ्गः| तिलेत्यादि| श्लेष्मातकः शेलुः ‘लिसोडा’ [७] इति लोके| अपरान् पञ्च प्रदेहानाह- श्वेतेत्यादि| प्रथम एकाङ्गः, द्वितीयो द्व्यङ्गः, तृतीयस्त्र्यङ्गः, चतुर्थो द्व्यङ्गः, पञ्चमः षडङ्ग इति| अपरमेकं प्रदेहमाह- शालिपर्णीत्यादि| तर्पणमिश्रा यवशक्तुयुताः||१०||
संसर्गे सन्निपाते च क्रियापथमुक्तं मिश्रं कुर्यात् ||११||
अनुबन्धभूतदोषद्वयत्रयजन्मनो वातशोणितस्य चिकित्सितं दर्शयन्नाह- संसर्ग इत्यादि| तत्र संसर्गे द्वयोर्द्वयोर्दोषयोर्मिश्रीकृत्य, सन्निपाते तु त्रयाणामप्येते चोपक्रमाः||११||
सर्वेषु च गुडहरीतकीमासेवेत; पिप्पलीर्वा क्षीरपिष्टा वारिपिष्टा वा पञ्चाभिवृद्ध्या दशाभिवृद्ध्या वा पिबेत् क्षीरौदनाहारो दशरात्रं, भूयश्चापकर्षयेत्, एवं यावत् पञ्च दश वेति; तदेतत् पिप्पलीवर्धमानकं वातशोणितविषमज्वरारोचकपाण्डुरोगप्लीहोदरार्शःकासश्वासशोफशोषाग्निसादहृद्रोगोदराण्यपहन्ति; जीवनीयप्रतीवापं सर्पिः पयसा पाचयित्वाऽभ्यज्यात्; सहासहदेवाचन्दनमूर्वामुस्ताप्रियालशतावरीकशेरुपद्मकमधुकशतपुष्पाविदारीकुष्ठानि क्षीरपिष्टः प्रदेहो घृतमण्डयुक्तः, सैरेयकाटरूषकबलातिबलाजीवन्तीसुषवीकल्को वा च्छागक्षीरपिष्टः, गोक्षीरपिष्टः काश्मर्यमधुकतर्पणकल्को वा; मधूच्छिष्टमञ्जिष्ठासर्जरससारिवाक्षीरसिद्धं पिण्डतैलमभ्यङ्गः; सर्वेषु च पुराणघृतमामलकरसविपक्वं वा पानार्थे; जीवनीयसिद्धं परिषेकार्थे, काकोल्यादिक्वाथकल्कसिद्धं वा; सुषवीक्वाथकल्कसिद्धं वा, कारवेल्लकक्वाथमात्रसिद्धं वा; बलातैलं वा परिषेकावगाहबस्तिभोजनेषु; शालिषष्टिकयवगोधूमान्नमनवं भुञ्जीत पयसा जाङ्गलरसेन वा मुद्गयूषेण वाऽनम्लेन; शोणितमोक्षं चाभीक्ष्णं कुर्वीत; उच्छ्रितदोषे च वमनविरेचनास्थापनानुवासनकर्म कर्तव्यम् ||१२||
(पटोलत्रिफलाभीरुगुडूचीकटुकाकृतम् |
क्वाथं पीत्वा जयत्याशु वातशोणितजां रुजम् [८] ) ||१३||
शुद्धदेहस्य सामान्यं चिकित्सितं रोगमात्रप्रत्यनीकं निर्दिशन्नाह- सर्वेष्वित्यादि| पिप्पलीवर्धमानके ‘त्र्यभिवृद्ध्या, सप्ताभिवृद्ध्या वा’ इति क्वचित्पाठः, स तु नातिप्रसिद्धः| सहेत्यादि| सहा माषपर्णी, सहदेवा गाङ्गेरुकीति प्रसिद्धा, मूर्वा चोरस्नायुः, प्रियालश्चारः, घृतमण्डो घृतस्योपरिर्यच्छो भागः| सैरेयकेत्यादि सैरेयः कण्टशेलुवाकः, सुषवी पानीयवल्ली| मधूच्छिष्टेत्यादि| क्षीरमत्र चतुर्गुणम्| पिण्डतैलमिति अपरीस्रुतं किट्टयुक्तं; केचित् पिण्डतैले शतावरीत्यधीयते| सर्वेष्वित्यादि सर्वेषु पञ्चस्वपि वातरक्तेषु एक- त्रिदोषजेषु, प्रयोगप्रभावोऽयम्| काकोल्यादिक्वाथकल्कमात्रसिद्धं “घृतम्’ इति शेषः| कारवेल्लकक्वाथमात्रसिद्धं वा ‘घृतम्’ इति शेषः| बलेत्यादि बलातैलं मूढगर्भोक्तम्| शालीत्यादि| पयसा पित्तोत्तरे, जाङ्गलरसेन वातोत्तरे, मुद्गरसेन कफोत्तरे; सात्म्यापेक्षया वा| शोणितेत्यादि| अभीक्ष्णम् अनवरतम्| स्निग्धादिभिर्निर्जिते वाते निश्चिते तु शोणितावरणे पुरुषव्याधिबलकालमवलोक्य कुर्वीत| वमनेत्यादि वमनादिकं यद्यपि सामान्येनोक्तं, तथाऽपि कफोत्कटे वमनं, विरेचनं पित्तरक्तोत्कटे, अनुवासनास्थापनकर्मणी वातोत्कटे च कर्तव्ये||१२-१३||
भवन्ति चात्र-
एवमाद्यैः क्रियायोगैरचिरोत्पतितं सुखम् |
वातासृक् साध्यते वैद्यैर्याप्यते तु चिरोत्थितम् ||१४||
एवमाद्यैः एवम्प्रकारैः| क्रियायोगैः उपायैः| अचिरोत्पतितम् अल्पकालोत्पन्नम्||१४||
उपनाहपरीषेकप्रदेहाभ्यञ्जनानि च |
शरणान्यप्रवातानि मनोज्ञानि महान्ति च ||१५||
मृदुगण्डोपधानानि शयनानि सुखानि च |
वातरक्ते प्रशस्यन्ते मृदुसंवाहनानि च ||१६||
क्रियायोगानुक्ताननुक्तांश्च सङ्ग्रहार्थं निर्दिशन्नाह- उपनाहेत्यादि| शरणानि गृहाणि| अप्रवातानि निवातानि| मनोज्ञानि हर्षदानि| महान्ति विशालानि| गण्डोपधानानि गल्लमसू(स्त)रिकादीनि; गण्डपदेन मस्तकादीनामप्युपधानानि बोध्यानि| सुखानि चेति चकारान्मृदूनि च| संवाहनानि करमर्दनानि||१५-१६||
व्यायामं मैथुनं कोपमुष्णाम्ललवणाशनम् |
दिवास्वप्नमभिष्यन्दि गुरु चान्नं विवर्जयेत् ||१७||
आहाराचारं निषिद्धं दर्शयन्नाह- व्यायाममित्यादि| व्यायाममैथुने कायकर्मणी, कोपो मानसं कर्म| उष्णम् उष्णवीर्यं; तेनानूपमांसं मधुरतिक्तं काकमाच्यादि कटु च यत्किञ्चिदुष्णवीर्यं तद्गृह्यते| अम्ललवणे तु विशेषार्थं पृथगेव पठिते| अभिष्यन्दि दोषधातुमलस्रोतसां क्लेदप्राप्तिजननम्||१७||
अपतानकिनमस्रस्ताक्षमवक्रभ्रुवमस्तब्धमेढ्रमस्वेदनमवेपनमप्रलापिनमखट्वापातिनमबहिरायामिनं चोपक्रमेत् |
तत्र प्रागेव स्नेहाभ्यक्तं स्विन्नशरीरमवपीडनेन तीक्ष्णेनोपक्रमेत शिरःशुद्ध्यर्थं; अनन्तरं विदारिगन्धादिक्वाथमांसरसक्षीरदधिपक्वं सर्पिरच्छं पाययेत्, तथा हि नातिमात्रं वायुः प्रसरति; ततो भद्रदार्वादिवातघ्नगणमाहृत्य सयवकोलकुलत्थं सानूपौदकमांसं पञ्चवर्गमेकतः प्रक्वाथ्य तमादाय कषायमम्लक्षीरैः सहोन्मिश्र्य सर्पिस्तैलवसामज्जभिः सह विपचेन्मधुरकप्रतीवापं, तदेतत्त्रैवृतमपतानकिनां परिषेकावगाहाभ्यङ्गपानभोजनानुवासननस्येषु विदध्यात्; यथोक्तैश्च स्वेदविधानैः स्वेदयेत्, बलीयसि वाते सुखोष्णतुषबुसकरीषपूर्णे कूपे निदध्यादामुखात्, तप्तायां वा रथकारचुल्ल्यां [९] तप्तायां वा शिलायां सुरापरिषिक्तायां पलाशदलच्छन्नायां शाययेत्, कृशरावेशवारपायसैर्वा स्वेदयेत् |
मूलकोरुबूस्फूर्जार्जकार्कसप्तलाशङ्खिनीस्वरससिद्धं तैलमपतानकिनां परिषेकादिषूपयोज्यम् |
अभुक्तवता पीतमम्लं दधि मरिचवचायुक्तमपतानकं हन्ति; तैलसर्पिर्वसाक्षौद्राणि वा |
एतच्छुद्धवातापतानकविधानमुक्तं, संसृष्टे संसृष्टं कर्तव्यम् |
वेगान्तरेषु चावपीडं दद्यात्; ताम्रचूडकर्कटकृष्णमत्स्यशिशुमारवराहवसाश्चासेवेत, क्षीराणि वा वातहरसिद्धानि, यवकोलकुलत्थमूलकदधिघृततैलसिद्धा वा यवागूः; स्नेहविरेचनास्थापनानुवासनैश्चैनं दशरात्राहृतवेगमुपक्रमेत [१०] ; वातव्याधिचिकित्सितं चावेक्षेत; रक्षाकर्म च कुर्यादिति ||१८||
अपतानकचिकित्सामाह- अपतानकिनमित्यादि| अस्रस्ताक्षम् अनतिपतितनयनम् [११] | अप्रलापिनं नासम्बद्धभाषिणम्| अखट्वापातिनं खट्वाया न पततीति अखट्वापातिनम्; अयमर्थः- अपतानकवेगेन पतन्नेव पाणिभ्यां भूतलमवलम्बते, हस्तपादद्वयेन खट्वापादकल्पेन पतनशीलः खट्वापाती, नैतादृग्विध इत्यर्थः| अबहिरायामिनम् अपश्चान्मुखगामिनम्| शिरोविरेचनद्रव्याणि पिष्ट्वा अवपीड्य दीयत इत्यवपीडः| शुद्धवातापतानकेऽप्यत्र शिरोविरेचनं वायोः कफस्थानगतत्वेन सद्यः सञ्ज्ञाप्रबोधार्थम्| अनन्तरमिति शिरोविरेचनस्योर्ध्वमित्यर्थः| घृतं च विदारिगन्धादिक्वाथादिभिश्चतुर्भिर्द्रवैर्विदारिगन्धादिकल्कपादिकं साधनीयमिति| पानार्हं घृतमुक्त्वा सर्वकार्योपयोगिनं महास्नेहमाह- भद्रेत्यादि| भद्रदार्वादिः भद्रदारुकुष्ठहरिद्रावरुणेत्यादिः| भद्रदार्वादियवकोलाद्यानूपौदकपञ्चवर्गक्वाथस्य काञ्जिकक्षीरयोश्च प्रत्येकं चत्वारो भागा इत्येके; गयदासस्त्वत्र क्षीरं स्नेहसमं मन्यते| आनूपौदकमांसं पञ्चवर्गमिति कूलचराः, प्लवाः, कोशस्थाः, पादिनो, मत्स्याश्चेति जेज्जटः; गयदासस्तु ‘सानूपौदकमांसवर्गम्’ इत्येवं पाठं मन्यते; सानूपौदकमित्यनेन परेषां पञ्चानामपि वर्गाणां ग्रहणात्| अम्लानि सुरासौवीरकधान्याम्लादीनि| सर्पिर्विपचेत् तैलवसामज्जभिः सह, तैलादि प्रत्येकं घृततुल्यं दत्त्वा| मधुरकप्रतिवापं काकोल्यादिकल्कप्रक्षेपम्| त्रैवृतमिति सर्पिषोऽत्र त्रिभिर्वृतत्वात् त्रैवृतम्| स्वेदविधानैरिति स्वेदावचारणीयाभिहितैः| निदध्यात् स्थापयेत्; ऊष्मस्वेदोऽयम्| रथकारो लोहकारः| कृशरेत्यादि अयमुपनाहस्वेदः| उरुबूकः शुक्लैरण्डः, स्फूर्जकः फणिज्जकाकारः प्रायशः पारियात्रे भवति, अर्जकः कुठेरकः, शङ्खिनी यवतिक्ताभेदः; मूलकादीनां स्नेहचतुर्गुणेन रसेन सिद्धं; मूलकादिपादकल्कमकल्कं वा पक्त्वा सुखोष्णं परिषेके द्रवस्वेदे इत्यर्थः; आदिशब्दादभ्यङ्गादिषु| मरिचवचायुक्तमिति अल्पवचामरिचम्| संसृष्टे संसृष्टं कर्तव्यमिति अनुबन्धभूतयोः पित्तकफयोः संसर्गमुपलभ्य पित्तकफहरं संसृष्टं तदेव कर्तव्यं; जेज्जटस्तु संसृष्टे वातरक्तवच्चिकित्सा कर्तव्येत्याह| वेगान्तरेषु वेगोपरमेषु| ताम्रचूडः कुक्कुटः, कृष्णमत्स्यः कुलीरमत्स्याकारोऽशल्कः| ताम्रचूडादिवसा पाने; तदुक्तं वृद्धवाग्भटे- “कुक्कुटकुलीरशिशुमारवराहवसाः पाययेत्”- (अ. सं. चि. २३) इति||१८||
पक्षाघातोपद्रुतमम्लानगात्रं सरुजमात्मवन्तमुपकरणवन्तं चोपक्रमेत् |
तत्र प्रागेव स्नेहस्वेदोपपन्नं मृदुना शोधनेन संशोध्यानुवास्यास्थाप्य च यथाकालमाक्षेपकविधानेनोपचरेत्; वैशेषिकश्चात्र मस्तिष्क्यः शिरोबस्तिः [१२] , अणुतैलमभ्यङ्गार्थे, साल्वणमुपनाहार्थे, बलातैलमनुवासनार्थे; एवमतन्द्रितस्त्रींश्चतुरो वा मासान् क्रियापथमुपसेवेत ||१९||
पक्षाघातचिकित्सितमाह- पक्षाघातेत्यादि| अम्लानगात्रम् अहीनगात्रम्| सरुजमिति सह रुजया वर्तते यः सः तम्| यस्य तु पक्षार्धमचेतनमवेदनं च सोऽसाध्यः, यदा तु पुनरीषत्कर्मण्यमीषच्चेतनं च तदा कृच्छ्रसाध्यः| यथाकालं कालस्यानतिक्रमेण; तद्यथा- वान्तस्य पक्षाद्विरेचनं, विरिक्तस्य सप्तरात्रादनुवासनम्, अनुवासितस्य स्नेहलक्षणे सत्यास्थापनम्, आस्थापितस्य सद्यः पुनरनुवासनमिति| आक्षेपकविधानेन अपतानकविधानेनेत्यर्थः, आक्षेपकापतानकयोरेकविषयत्वात्| वैशेषिकमित्यादि| मस्तिष्क्यः शिरोबस्तिविशेषः, स च स्नेहाक्तपिचुप्लोतादिधारणेन योजनीयः| एवमित्यादि| अतन्द्रितः अनलसः||१९||
मन्यास्तम्भेऽप्येतदेव विधानं, विशेषतो वातश्लेष्महरैर्नस्यै रूक्षस्वेदैश्चोपचरेत् ||२०||
अत्र मन्यास्तम्भचिकित्सितं कैश्चिदधीयते- मन्यास्तम्भे इत्यादि||२०||
अपतन्त्रकातुरं नापतर्पयेत्, वमनानुवासनास्थापनानि न निषेवेत, वातश्लेष्मोपरुद्धोच्छ्वासं तीक्ष्णैः प्रध्मापनैर्मोक्षयेत्, तुम्बुरुपुष्कराह्वहिङ्ग्वम्लवेतसपथ्यालवणत्रयं यवक्वाथेन पातुं प्रयच्छेत्, पथ्याशतार्धे सौवर्चलद्विपले चतुर्गुणे पयसि सर्पिः प्रस्थं सिद्धं; वातश्लेष्मापनुच्च कर्म कुर्यात् ||२१||
अपतन्त्रचिकित्सितमपि कैश्चिदभिधीयते- अपतन्त्रकातुरमित्यादि| तुम्बुर्वादिचूर्णाक्षं यवक्वाथपलद्वयेन प्रयच्छेत्| पथ्याशतार्ध इति पथ्याफलानां शतार्धे सर्पिःप्रस्थं सिद्धं पातुं प्रयच्छेदिति सम्बन्धः| न केवलमेतद्धृतमेव पातुं प्रयच्छेदित्याह- वातश्लेष्मेत्यादि|- वातं श्लेष्माणं च यत् कर्म नुदति हन्ति तच्च कुर्यात्||२१||
अर्दितातुरं बलवन्तमात्मवन्तमुपकरणवन्तं च वातव्याधिविधानेनोपचरेत्, वैशेषिकैश्च मस्तिष्क्यशिरोबस्तिनस्यधूमोपनाहस्नेहनाडीस्वेदादिभिः; ततः सतृणं महापञ्चमूलं काकोल्यादिं विदारिगन्धादिमौदकानूपमांसं तथैवौदककन्दांश्चाहृत्य द्विगुणोदके क्षीरद्रोणे निःक्वाथ्य क्षीरावशिष्टमवतार्य [१३] परिस्राव्य तैलप्रस्थेनोन्मिश्र्य पुनरग्नावधिश्रयेत्, ततस्तैलं क्षीरानुगतमवतार्य शीतीभूतमभिमथ्नीयात्, तत्र यः स्नेह उत्तिष्ठेत्तमादाय मधुरौषधसहाक्षीरयुक्तं विपचेत्, एतत् क्षीरतैलमर्दितातुराणां पानाभ्यङ्गादिषूपयोज्यं, तैलहीनं वा क्षीरसर्पिरक्षितर्पणमिति ||२२||
अर्दितचिकित्सामाह- अर्दितातुरमित्यादि| नस्यधूमावत्र स्नेहनौ| तत इत्यादि| “कुशकाशनलदर्भकाण्डेक्षुका” (सू. ३८)| इति तृणसञ्ज्ञम्| महापञ्चमूलं बिल्वादि| औदकमांसं मत्स्यकर्कटकशिशुमारप्रभृतीनाम्; आनूपं मांसं प्रधानकल्पनया वराहादीनाम्| औदकाः कन्दाः कशेरुशृङ्गाटकशालूकादयः| अन्ये- “आनूपमांसान्यौदकान् कन्दांश्च संहृत्य”- इति पठन्ति| सर्वद्रव्याणां समभागानामाढकं क्षीरद्रोणेन जलद्विद्रोणसहितेन विपचेत्| तैलप्रस्थेनेति तैलप्रस्थेन द्वात्रिंशत्पलात्मकेन| क्षीरानुगतं क्षीरेण सहैकावयवीभूतम्| मधुरौषधानि काकोल्यादीनि, सहा माषपर्णी, क्षीरं चतुर्गुणम्| केचिन्मधुरौषधसहास्थाने पूर्वोक्तक्वाथ्यद्रव्याणामेव पादिकं कल्कं प्रक्षिपन्ति, न तु मधुरकादीनि||२२||
गृध्रसीविश्वाचीक्रोष्टुकशिरःखञ्जपङ्गुलवातकण्टकपाददाहपादहर्षावबाहुकबाधिर्यधमनीगतवातरोगेषु [१४] यथोक्तं यथोद्देशं च सिराव्यधं कुर्यात्, अन्यत्रावबाहुकात्; वातव्याधिचिकित्सितं चावेक्षेत ||२३||
गृध्रस्यादीनां चिकित्साविधानमाह- गृध्रसीत्यादि| वातव्याधिचिकित्सितं चेति चकारेण क्रोष्टुकशीर्षकवातशोणितचिकित्सावेक्षणं च| धातुक्षयनिमित्तवातकोपजनितोऽवबाहुकः, अतोऽन्यात्रावबाहुकादिति वाक्येन सिराव्यधो निषिध्यते| गयी तु, अन्यत्रावबाहुकाद् वातव्याधिचिकित्सितमवेक्षेतेति सम्बध्नाति; तथाहि वातव्याधिचिकित्सिते यत् स्नेहस्वेदादिकं तदवबाहुके कफस्थानसम्भवत्वेन कफावृतवातजे विरुद्धं, तत्र हि स्वेदनस्यादिकं विधेयं रूक्षमेवः, न तु ‘सिराव्यधं कुर्यादन्यत्रावबाहुकात्’ इति सम्बन्धः, यतोंऽसशोषेऽवबाहुके च सिरामोक्षस्य सिराव्यधविधाने चोक्तत्वात्| गृध्रस्यादिषु वातव्याधिचिकित्सिते कृते पश्चाच्छोणितावरणं निश्चित्य सिराव्यधो विधेय इति||२३||
कर्णशूले तु शृङ्गवेररसं तैलमधुसंसृष्टं सैन्धवोपहितं सुखोष्णं कर्णे दद्यात्, अजामूत्रमधुतैलानि वा, मातुलुङ्गदाडिमतिन्तिडीकस्वरसमूत्रसिद्धं तैलं, शुक्तसुरातक्रमूत्रलवणसिद्धं वा; नाडीस्वेदैश्च स्वेदयेत्, वातव्याधिचिकित्सां चावेक्षेत; भूयश्चोत्तरे वक्ष्यामः ||२४||
कर्णशूलचिकित्सामाह- कर्णशूल इत्यादि| शृङ्गवेररसम् आर्द्रकरसम्| शुक्तं चुक्रम्| नाडीत्यादि नलादिशुषिरनाडीस्वेदः| वातव्याधिचिकित्सां चेति चकारेण पित्तरक्तावरणे तु वातरक्तचिकित्सितमनुक्तं समुच्चिनोति| भूयश्चेत्यादि| कर्णरोगेषूत्तरतन्त्रे पुनरपि वदिष्यामः||२४||
तूनीप्रतून्योः स्नेहलवणमुष्णोदकेन पाययेत्, पिप्पल्यादिचूर्णं वा, हिङ्गुयवक्षारप्रगाढं वा सर्पिः, बस्तिभिश्चैनमुपक्रमेत् ||२५||
तूनीप्रतूनीचिकित्सामाह- तूनीत्यादि| सामान्यबस्तिग्रहणात्त्रिविधबस्त्यवबोधः||२५||
आध्माने त्वपतर्पणपाणिताप(दीपनचूर्ण [१५] )फलवर्तिक्रियापाचनीयदीपनीयबस्तिभिरुपाचरेत्; लङ्घनानन्तरं चान्नकाले धान्यकजीरकादिदीपनसिद्धान्यन्नानि |
प्रत्याध्माने छर्दनापतर्पणदीपनानि कुर्यात् ||२६||
आध्मानचिकित्सामाह- आध्मान इत्यादि| पाचनीयानि पञ्चकोलादीनि| प्रत्याध्मानचिकित्सामाह- प्रत्याध्मान इत्यादि||२६||
अष्ठीलाप्रत्यष्ठीलयोर्गुल्माभ्यन्तरविद्रधिवत् क्रियाविभाग इति ||२७||
अष्ठीलाचिकित्सामाह- अष्ठीलेत्यादि||२७||
हिङ्गुत्रिकटुवचाजमोदाधान्याजगन्धादाडिमतिन्तिडीकपाठाचित्रकयवक्षारसैन्धवविडसौर्वचल- स्वर्जिकापिप्पलीमूलाम्लवेतसशटीपुष्करमूलहपुषाचव्याजाजीपथ्याश्चूर्णयित्वा मातुलुङ्गाम्लेन बहुशः परिभाव्याक्षमात्रा गुटिकाः कारयेत्, ततः प्रातरेकैकां वातविकारी भक्षयेत्, एष योगः कासश्वासगुल्मोदरारोचकहृद्रोगाध्मानपार्श्वोदरबस्तिशूलानाहमूत्रकृच्छ्रप्लीहार्शस्तूनीप्रतूनीरपहन्ति ||२८||
हिङ्ग्वादिमुत्पादयति- हिङ्ग्वित्यादिना| अजगन्धा ‘बोवयिका’ इति; गयी तु ‘अजगन्धा क्षेत्रयवानी’ इत्याह| मातुलुङ्गाम्लः बीजपूरकरसः| एतच्चूर्णं गुटिका च, परतन्त्रप्रत्ययात्; हिङ्ग्वादिगुटिका वातगुल्मिनां कृते द्विगुणक्षारहिङ्ग्वम्लवेतसाः कार्याः, उक्तं च- “यच्चूर्णं गुटिका याश्च कर्तव्या वातगुल्मिनाम्| द्विगुणक्षारहिङ्ग्वम्लवेतसास्ता हिता” इति||२८||
भवन्ति चात्र-
केवलो दोषयुक्तो वा धातुभिर्वाऽऽवृतोऽनिलः |
विज्ञेयो लक्षणोहाभ्यां चिकित्स्यश्चाविरोधतः ||२९||
शुद्धवातचिकित्सामभिधाय संसृष्टावृतस्य चिकित्सामाह- भवन्तीत्यादि| केवलो दोषाद्यसंसृष्टः| अत्र हि संयुक्तस्यैव चिकित्साविधिरुच्यते न तु केवलस्य, उक्तत्वात् ‘अविरोधतः’ इति वचनाच्च; न हि केवलस्य वायोश्चिकित्सायां विरोधोऽस्ति, एकमुख्यत्वात्| दोषैर्वातपित्तकफैर्युक्तो दोषयुक्तः; अनेन संयोगमात्रमभिहितं, नावरकत्वम्| धातवो रसरक्तमांसमेदोमज्जशुक्राणि स्वेदविण्मूत्राणि वातपित्तकफाश्चोच्यन्ते, तेषामपि शरीरधारकत्वात्; तैरावृतः| तस्य द्विविधस्यापि विज्ञानोपायं दर्शयन्नाह- लक्षणोहाभ्यामिति|- वातस्य लक्षणं तोदादिकं कृष्णारुणत्वं कम्पादिकं च; पित्तस्य चोषादिपीतादिदाहादिकं; कफस्य कण्ड्वादिशुक्लादिप्रसेकादिकम्| ऊहः पुनरश्रुतस्य परिकल्पना| ननु, पित्तकफाभ्यां धातुभिश्चामूत्रैरावरणं युज्यते, कथं वातेनेत्याह- प्राणादीनां पञ्चानां वायूनां परस्परमावार्यावरकभेदेन विंशतिरावरणानि चरकाचार्येणोक्तानि| तथा च- “मारुतानां तु पञ्चानामन्योन्यावरणं शृणु| लिङ्गं व्याससमासाभ्यामुच्यमानं मयाऽनघ|| प्राणो वृणोत्युदानाद्यान् प्राणं वृण्वन्ति तेऽपि च| उदानाद्यास्तथाऽन्योन्यं सर्व एव यथाक्रमम्|| विंशत्यावरणान्येतान्युल्बणानां परस्परम्| मारुतानां तु पञ्चानां तानि सम्यक् प्रतर्कयेत्” (च. चि. २८) इति; गयदासेनाप्युक्तं- “अष्टावाद्ये द्वितीये षट् तृतीये च चतुष्टयम्| द्वे चतुर्थेऽनिलेऽप्येवं पञ्चधाऽऽवृतिविंशतिः”- इति| आवरणेषु वातानां प्राणोदानयोरेव गुरुतरमावरणं द्रष्टव्यं, धात्वावरणेषु मेदोवृतवातस्य| तत्रोर्ध्वं गच्छन्नुदानः प्राणो वाऽपानस्याधोगामिनो गतिनिरोधं कुर्वन्नावरक इत्युच्यते; अथवा द्वयोर्मारुतयोरभिमुखमभिसर्पतोर्बलवता दुर्बलोऽभिभूतः प्रत्यावृत्तः सन् ‘आवृतः’ इत्युच्यते||२९||
रुजावन्तं घनं शीतं शोफं मेदोयुतोऽनिलः |
करोति यस्य तं वैद्यः शोथवत् समुपाचरेत् ||३०||
मेदोवृतवातस्य लक्षणं चिकित्सितं च निर्दिशन्नाह- रुजावन्तमित्यादि| शोफमिति अपक्वशोफम्||३०||
कफमेदोवृतो वायुर्यदोरू प्रतिपद्यते |
तदाऽङ्गमर्दस्तैमित्य [१६] रोमहर्षरुजाज्वरैः ||३१||
निद्रया चार्दितौ स्तब्धौ [१७] शीतलावप्रचेतनौ |
गुरुकावस्थिरावूरू न स्वाविव च मन्यते ||३२||
तमूरुस्तम्भमित्याहुराढ्यवातमथापरे |३३|
मेदोवृतवातप्रसङ्गेन स्थानविशेषाश्रयं कफमेदोवृतं वातं निर्दिशन्नाह- कफेत्यादि| अस्थिरौ अकठिनौ| न स्वाविव च मन्यते अन्यस्येव मन्यते, स्पर्शाज्ञानात् परकीयाविव||३१-३२||-
स्नेहवर्जं पिबेत्तत्र चूर्णं षड्धरणं नरः ||३३||
हितमुष्णाम्बुना तद्वत् पिप्पल्यादिगणैः कृतम् |
लिह्याद्वा त्रैफलं चूर्णं क्षौद्रेण कटुकान्वितम् ||३४||
मूत्रैर्वा गुग्गुलं श्रेष्ठं पिबेद्वाऽपि शिलाजतु |
ततो हन्ति कफाक्रान्तं समेदस्कं प्रभञ्जनम् ||३५||
हृद्रोगमरुचिं गुल्मं तथाऽभ्यन्तरविद्रधिम् |३६|
तस्य चिकित्सामाह- स्नेहेत्यादि| स्नेहवर्जं चतुःस्नेहरहितं, कफमेदसोरतिरूक्षणीयत्वात्; अन्यदपि क्षीरमांसवर्जं स्निग्धं वर्जनीयमेव| पिप्पल्यादिगणैः कृतं ‘चूर्णम्’ इति शेषः| प्रभञ्जनं वातमित्यर्थः||३३-३५||-
सक्षारमूत्रस्वेदांश्च रूक्षाण्युत्सादनानि च ||३६||
कुर्याद्दिह्याच्च मूत्राढ्यैः करञ्जफलसर्षपैः |३७|
अभ्यन्तरचिकित्सामुपदिश्य बहिराश्रयामुपदिशति- सक्षारेत्यादि| उत्सादनानि उद्वर्तनानि सयवक्षारगोमूत्राणि| दिह्यात् लेपयेत्, करञ्जफलश्वेतसर्षपैर्गोमूत्रपिष्टैरुष्णैः||३६||-
भोज्याः पुराणश्यामाककोद्रवोद्दालशालयः ||३७||
शुष्कमूलकयूषेण पटोलस्य रसेन वा |
जाङ्गलैरघृतैर्मांसैः शाकैश्चालवणैर्हितैः ||३८||
उद्दाल आरण्यकोद्रवः| अघृतैर्घृतरहितैः| सर्षपतैलं पुनरुष्णत्वात् कफमेदोहरत्वाच्च देयमपीति न प्रतिषिद्धं न विहितं च| अलवणैर्लवणरहितैः शाकैः; तदर्थं तु यवक्षारादिक्षाराणां रौक्ष्येण कफमेदोहरत्वादवचारणम्||३७-३८||
यदा स्यातां परिक्षीणे भूयिष्ठे कफमेदसी |
तदा स्नेहादिकं कर्म पुनरत्रावचारयेत् ||३९||
अवस्थायां स्नेहावचारणस्य प्रतिप्रसवं निर्दिशन्नाह- यदेत्यादि| परिक्षीणे सर्वतः क्षीणे||३९||
सुगन्धिः सुलघुः सूक्ष्मस्तीक्ष्णोष्णः कटुको रसे |
कटुपाकः सरो हृद्यो गुग्गुलुः स्निग्धपिच्छिलः ||४०||
स नवो बृंहणो वृष्यः पुराणस्त्वपकर्षणः |
तैक्ष्ण्यौष्ण्यात्कफवातघ्नः सरत्वान्मलपित्तनुत् ||४१||
सौगन्ध्यात् पूतिकोष्ठघ्नः सौक्ष्म्याच्चानलदीपनः |
तं प्रातस्त्रिफलादार्वीपटोलकुशवारिभिः ||४२||
पिबेदावाप्य वा मूत्रैः क्षारैरुष्णोदकेन वा |
जीर्णे यूषरसैः क्षीरैर्भुञ्जानो हन्ति मासतः [१८] ||४३||
गुल्मं मेहमुदावर्तमुदरं सभगन्दरम् |
कृमिकण्ड्वरुचिश्वित्राण्यर्बुदं ग्रन्थिमेव च ||४४||
नाड्याढ्यवातश्वयथून् कुष्ठदुष्टव्रणांश्च सः |
कोष्ठसन्ध्यस्थिगं वायुं वृक्षमिन्द्राशनिर्यथा ||४५||
अस्मादनन्तरमूरुस्तम्भस्योपयोगार्हत्वाद्गुग्गुलुकल्पमाह- सुगन्धिरित्यादि| सूक्ष्ममार्गावगाहित्वात् सूक्ष्मः| अत्र त्रिफलादार्वीपटोलैः त्रिभिर्द्रव्यैरेको योगः, कुशेनेति द्वितीयः| वारिशब्दोऽत्र क्वाथे वर्तते, तर्हि द्विवचनमेव कथं न दत्तं? सत्यं, बहुवचनाच्चतुर्भिरपि द्रव्यैरन्यो योगो मन्तव्य इति| क्षारैरिति क्षारोदकैः; ‘क्षीरैः’ इत्यन्ये पठन्ति| पानं भोजनं च वातपित्तकफरोगापेक्षया प्रकृत्यपेक्षया सात्म्यापेक्षया वा| सुगन्धिरित्यादि पाठं जेज्जटाचार्योऽनार्षं वर्णयति, गयदासेन व्याख्यातत्वान्मयाऽपि व्याख्यातः||४०-४५||
इति सुश्रुतसंहितायां चिकित्सास्थाने महावातव्याधिचिकित्सितं नाम पञ्चमोऽध्यायः ||५||
इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां चिकित्सास्थाने पञ्चमोऽध्यायः||५||
१. ‘सुरभी’ इति पा.|
२. ‘केचित्’ इति पा.|
३. ‘कटुरोहिणीकल्कं’ इति पा.|
४. ‘बिशण्डकमिति’ इति पा.|
५. अयं पाठः क्वचित्पुस्तके न पठ्यते|
६. ‘वा सक्षौद्रमूत्रं तोयेन गुडहरीतकीं वा’ इति हाराणचन्द्रः पठति|
७. ‘लसाटक’ इति पा.|
८. अयं पाठो हस्तलिखितपुस्तके न पठ्यते|
९. ‘अङ्गारचुल्ल्यां’ इति पा.|
१०. ‘दशरात्राद्गतवेगं’ इति पा.|
११. ‘अनधिपतितशल्यम्’ इति पा.|
१२. ‘मास्तिष्कं शिरोबस्तिश्च शिरःशुद्ध्यर्थं’ इति पा.| ‘मस्तिष्कहितत्वान्मास्तिष्कं स्नेहपिचुधारणम्’ इति हाराणचन्द्रः|
१३. ‘पादावशिष्टं’ इति पा.|
१४. ‘जिह्वागतवातरोगेषु’ इति पा.|
१५. ‘दीपनचूर्ण’ इति हस्तलिखितपुस्तके न पठ्यते|
१६. ‘शैथिल्य’ इति पा.|
१७. ‘स्निग्धौ’ इति पा.|
१८. ‘मारुतम्’ इति पा.|
Moolashloka with Dalhana & Gayadas Commentary

Pathantara/Pathabheda

Diacritic Version
kāśirājadhanvantariṇōpadiṣṭā tacchiṣyasuśrutēna viracitā
Suśrutasaṁhitā
śrīḍalhaṇācāryaviracitayā nibandhasaṅgrahākhyavyākhyayā nidānasthānasya śrīgayadāsācāryaviracitayā nyāyacandrikākhyapañjikāvyākhyayā ca samullasitā
cikitsāsthānam - 5. mahāvātavyādhicikitsitam
athātō mahāvātavyādhicikitsitaṁ vyākhyāsyāmaḥ ||1||
yathōvāca bhagavān dhanvantariḥ ||2||
dvividhaṁ vātaśōṇitamuttānamavagāḍhaṁ cētyēkē bhāṣantē; tattu na samyak, taddhi kuṣṭhavaduttānaṁ bhūtvā kālāntarēṇāvagāḍhībhavati, tasmānna dvividham ||3||
pratijñā’nantaraṁ tantrāntarōktadvaividhyanirākaraṇamāha- dvividhamityādi| uttānaṁ tvaṅmāṁsāśrayam, avagāḍhamantarāśrayam||1-3||
tatra balavadvigrahādibhiḥ prakupitasya vāyōrgurūṣṇādhyaśanaśīlasya praduṣṭaṁ śōṇitaṁ mārgamāvr̥tya vātēna sahaikībhūtaṁ yugapadvātaraktanimittāṁ vēdanāṁ janayatīti vātaraktam |
tattu pūrvaṁ hastapādayōravasthānaṁ kr̥tvā paścāddēhaṁ vyāpnōti |
tasya pūrvarūpāṇitōdadāhakaṇḍūśōphastambhatvakpāruṣyasirāsnāyudhamanīspandanasakthidaurbalyāni śyāvāruṇamaṇḍalōtpattiścākasmāt pāṇipādatalāṅguligulphamaṇibandhaprabhr̥tiṣu, tatrāpratikāriṇō’pacāriṇaśca rōgō vyaktataraḥ, tasya lakṣaṇamuktaṁ; tatrāpratikāriṇō vaikalyaṁ bhavati ||4||
tasyēdānīṁ samprāptipūrvikāṁ niruktiṁ nirdiśannāha- tatrētyādi| balavadvigrahādayō vraṇapraśnōktāḥ, gurūṣṇādhyaśanādayaśca tatrēvōktāḥ| yugapat ēkakālam| tasyētyādi| maṇibandhaḥ pāṇimūlam| tatra balavadvigrahādibhirityārabhya yāvadapacāriṇaścētyatra granthasyārthō nidānaparipaṭhitō’pi vātaraktasya duḥsādhyatvajñāpanāyātrāpi paṭhanīyaḥ| tatrētyādi| tatrēti pūrvarūpē| apacāriṇaḥ ayathārthakāriṇaḥ| rōgō vyaktataraḥ vikāraḥ prakaṭō bhavatītyarthaḥ| tatrēti rōgavyaktau| vaikalyaṁ vikalatā| ētēnāsādhyatvamuktam||4||
bhavati cātra-
prāyaśaḥ sukumārāṇāṁ mithyāhāravihāriṇām |
sthūlānāṁ sukhināṁ cāpi vātaraktaṁ prakupyati ||5||
idānīṁ viśēṣēṇa vātaśōṇitāśrayaṁ nirdiśannāha- prāyaśa ityādi| asukumārāṇāmasthūlānāṁ duḥkhitānāṁ ca prāyēṇa vyāyāmāśrayatvāt, vyāyāmēna mithyāhāravihārayōrapyadōṣatvādalpadōṣatvādvā vikārāsambhavaḥ||5||
tatra prāṇamāṁsakṣayapipāsājvaramūrcchāśvāsakāsastambhārōcakāvipākavisaraṇasaṅkōcanairanupadrutaṁ balavantamātmavantamupakaraṇavantaṁ cōpakramēt ||6||
kīdr̥śa upakramyastadāha- tatrētyādi| balavantamiti upacayaśaktilakṣaṇōbhayabalayuktaṁ; prāṇamāṁsakṣayaśabdēnōbhayalakṣaṇasya nivr̥ttiviṣayatvādēva pravr̥ttiviṣayamapyubhayalakṣaṇamēva balam||6||
tatra, ādāvēva bahuvātarūkṣamlānāṅgādr̥tē mārgāvaraṇādduṣṭaśōṇitamasakr̥dalpālpamavasiñcēdvātakōpabhayāt |
tatō vamanādibhirupakramairupapādya pratisaṁsr̥ṣṭabhaktaṁ vātaprabalē purāṇaghr̥taṁ pāyayēt |
ajākṣīraṁ vā’rdhatailaṁ madhukākṣayayuktaṁ, śr̥gālavinnāsiddhaṁ vā śarkarāmadhumadhuraṁ, śuṇṭhīśr̥ṅgāṭakakaśērukasiddhaṁ vā, śyāmārāsnāsuṣavīśr̥gālavinnāpīluśatāvarīśvadaṁṣṭrādvipañcamūlīsiddhaṁ vā |
dvipañcamūlīkvāthāṣṭaguṇasiddhēna payasā madhukamēṣaśr̥ṅgīśvadaṁṣṭrāsaralabhadradāruvacāsurabhikalkapratīvāpaṁ tailaṁ pācayitvā pānādiṣūpayuñjīta, śatāvarīmayūrakakiṇihyajamōdāmadhukakṣīravidārībalātibalātr̥ṇapañcamūlīkvāthasiddhaṁ vā kākōlyādiprativāpaṁ, balātailaṁ śatapākaṁ vēti |
vātaharamūlasiddhēna ca payasā pariṣēcanamamlairvā kurvīta |
yavamadhukairaṇḍatilavarṣābhūbhirvā pradēhaḥ kāryaḥ |
tatra cūrṇitēṣu yavagōdhūmatilamudgamāṣēṣu pratyēkaśaḥ kākōlīkṣīrakākōlījīvakarṣabhakabalātibalābisamr̥ṇālaśr̥gālavinnāmēṣaśr̥ṅgī- priyālaśarkarākaśērukasurabhivacākalkamiśrēṣūpanāhārthaṁ sarpistailavasāmajjadugdhasiddhāḥ pañca pāyasā vyākhyātāḥ, snaihikaphalasārōtkārikā vā, cūrṇitēṣu yavagōdhūmatilamudvamāṣēṣu matsyapiśitavēśavārō vā, bilvapēśikātagaradēvadārusaralārāsnāharēṇukuṣṭhaśatapuṣpailāsurādadhimastuyukta upanāhaḥ, mātuluṅgāmlasaindhavaghr̥tamiśraṁ madhuśigrumūlamālēpastilakalkō vēti vātaprabalē ||7||
tatra dōṣadūṣyayōḥ pūrvaṁ dūṣyacikitsitamēva nirdiśannāha- tatrētyādi| bahuvātatvēna hētunā rūkṣamasnigdhaṁ, mlānaṁ śuṣyadaṅgaṁ, yasya dēhinastasmādr̥tē ityarthaḥ| mārgāvaraṇaṁ mārgāvarōdhanaṁ, tasmādduṣṭaśōṇitaṁ prakupitarudhiram| asakr̥t anēkavārān| avasiñcēt srāvayēdityarthaḥ| dōṣacikitsitamāha- tatō vamanādibhirityādi| ādiśabdādvirēcanāsthāpanānuvāsanādibhirupakramaiścikitsādhikārōktaiḥ| upapādya yōjayitvā| pratisaṁsr̥ṣṭabhaktamiti pratisaṁsr̥ṣṭaṁ pēyādikramēṇa tya(yu)ktaṁ bhaktaṁ yasya puruṣasyētyarthaḥ| vātaprabalē vātaraktē| purāṇaghr̥taṁ kālēnaiva pakvam| tatra pāṇigataṁ vātaraktamūrdhvagatadōṣēṇa, pādagataṁ vātaraktamadhōgatēna dōṣēṇa bhavati; tatra pāṇigatē kaphapittānubandhē vamanavirēcanē, tatraiva jīrṇaghr̥tapānaṁ; pādagatē vātānubandhē āsthāpanapūrvakamanuvāsanam| tatraikaṁ śuddhidinam, annasaṁsarjanadināni ṣaṭ, aṣṭamē snēhāṅgabhōjanaṁ, navamē purāṇaghr̥tapānamiti| ajākṣīramardhatailaṁ yaṣṭimadhukarṣayuktaṁ; tadēva pr̥śniparṇyādisiddhaṁ, śuṇṭhyādisiddhaṁ, śyāmādisiddhaṁ vā, ityēvaṁ caturṣu yōgēṣvajākṣīramardhatailamabhisambadhyatē; tatrārdhatailamiti ajākṣīrasya bhāgadvayaṁ tailasyaika ityarthaḥ| śr̥gālavinnā pr̥śniparṇī, tayā siddhaṁ kṣīrapākakalpanayā| śyāmā trivr̥dviśēṣaḥ, ‘vr̥ddhadāruka’ ityanyē| rāsnā surasā [1] | suṣavī pānīyavallī| purāṇaghr̥tatailaṁ nirdiśya pakvatailaṁ nirdiśannāha- dvipañcamūlītyādi| dvipañcamūlīṁ kaṣāyakalpēna vipācya pādaśēṣēṇa tēnāṣṭaguṇēna kṣīraṁ sādhayēt, kṣīraśēṣamavatārya tēna madhukādikalkayuktaṁ tailaṁ sādhayēditi| surabhiḥ rāsnā| prativāpaḥ prakṣēpaḥ| pānādiṣvityādiśabdādabhyaṅgapariṣēkādayaḥ| śatāvarītyādi ‘siddhaṁ tailam’ iti śēṣaḥ| mayūrakō’pāmārgaḥ| kṣīravidārī dīrghakandā bhr̥śaṁ madhurā| tr̥ṇapañcamūlī “kuśakāśanaladarbhakāṇḍēkṣukā” (sū. 38) iti tr̥ṇasañjñā| śatapākamiti balākvāthakalkābhyāṁ śataśaḥ kr̥tvā vipācya prayōjyaṁ; śrījējjaṭastu balātailaṁ mūḍhagarbhōktamāha, śatapākaṁ tu sahasrapākatulyamēvāha| ētē ca yōgā dōṣādīnavēkṣya yathāvasthaṁ yōjyāḥ| antaḥparimārjanamabhidhāya bahiḥparimārjanaṁ nirdiśannāha- vātaharētyādi| vātaharaṁ daśamūlam| amlairiti surāsauvīrakatuṣōdakādibhiḥ| pradēhaḥ pralēpaḥ| tatrētyādi tatra cūrṇitēṣu yavādiṣu pañcasu pratyēkaṁ kākōlyādivacāntakalkamiśrēṣūpanāhārthaṁ sarpistailavasāmajjadugdhasiddhāḥ pañca pāyasā vyākhyātāḥ| tē tu nātidravā nātisāndrāḥ pradēhayōgyā yōjyāḥ| payasā saṁskr̥tāḥ pāyasāḥ| yadyapi sarpirādīni saṁskārakatvēnōpanyastāni tathā’pi paya ēva pradhānamiti tadvyapadēśaḥ| snaihikaphalāni tilairaṇḍātasībibhītakādīni, tēṣāṁ yathāsambhavaṁ sārō majjā| atrānuktamapi kṣīraṁ snēhaphalakalkapākaniṣpattayē kalpanīyam| utkārikā lapsikā| cūrṇitēṣvityādi| piśitavēśavāraḥ māṁsamayō vēśavāraḥ khāniṣkāparaparyāyaḥ| anyē tu ‘nalamīnamatsyāmiṣavēśavārō vā’ iti paṭhanti, vyākhyānayanti ca- nalamīnō rōhitabhēdaḥ, pāmarēṣu ‘miukva’ iti prasiddhaḥ, tīrabhuktau tu janāstaṁ tilapittamāhuḥ; tadgrahaṇaṁ viśēṣārthaṁ, matsyaśabdēna tu sarvē ēva gr̥hyantē| anyē tu ‘ānūpamatsyāmiṣavēśavāraiḥ’ iti paṭhanti, āmiṣaśabdēnānūpamāṁsamāhuḥ| tathā ca vātaraktē carakaḥ- “audakaprasahānūpavēśavārāḥ susaṁskr̥tāḥ| jīvanīyauṣadhasnēhayuktāḥ syurupanāhanē” (ca. ci. 29)- iti| ‘vicitramatsyapiśitavēśavārō vā’ iti kvacit [2] | bilvētyādi bilvapēśikādi pēṣyaṁ, surādi tasya pēṣaṇāya dravadravyaṁ; bilvapēśikā bālabilvagiraḥ, saralā trivr̥t| mātuluṅgētyādi| mātuluṅgādibhiḥ saha śōbhāñjanakamūlaṁ sasaindhavamālēpaḥ| tilakalkō vēti tilānāṁ mātuluṅgādirasapiṣṭānāṁ pūrvavadēvālēpa ityēkē, kēvala ēva tilakalka ityanyē||7||
pittaprabalē drākṣārēvatakaṭphalapayasyāmadhukacandanakāśmaryakaṣāyaṁ śarkarāmadhumadhuraṁ pāyayēt, śatāvarīmadhukapaṭōlatriphalākaṭurōhiṇīkaṣāyaṁ [3] , guḍūcīkaṣāyaṁ vā, pittajvaraharaṁ vā candanādikaṣāyaṁ śarkarāmadhumadhuraṁ, madhuratiktakaṣāyasiddhaṁ vā sarpiḥ; bisamr̥ṇālabhadraśriyapadmakakaṣāyēṇārdhakṣīrēṇa pariṣēkaḥ, kṣīrēkṣurasairmadhukaśarkarātaṇḍulōdakairvā drākṣēkṣukaṣāyamiśrairvā mastumadyadhānyāmlaiḥ; jīvanīyasiddhēna vā sarpiṣā’bhyaṅgaḥ, śatadhautaghr̥tēna vā, kākōlyādikalkakaṣāyavipakvēna vā sarpiṣā; śāliṣaṣṭikanalavañjulatālīsaśr̥ṅgāṭakagalōḍyagaurīgairikaśaivalapadmakapadmapatraprabhr̥tibhirdhānyāmlapiṣṭaiḥ pradēhō ghr̥tamiśraḥ, vātaprabalē’pyēṣa sukhōṣṇaḥ pradēhaḥ kāryaḥ ||8||
pittānubandhasya cikitsāṁ nirdiśannāha- pittētyādi| ārēvatakaḥ kiramālakaḥ| payasā arkapuṣpī, kṣīravidārikētyanyē| śatāvarītyādi| madhurāṇi kākōlyādīni, tiktāni paṭōlādīni, kaṣāyāṇi triphalādīni, tēṣāṁ kaṣāyakalkābhyāṁ siddhaṁ ghr̥taṁ pāyayēdityarthaḥ| bisētyādi| bisaṁ bhiṣaṇṭakamiti [4] lōkē, mr̥ṇālaṁ padmanālaṁ, bhadraśriyaṁ śuklacandanam| pariṣēkaḥ sarvatō dhārāsēcanam| kṣīrētyādi| kṣīrēkṣurasābhyāmēkō yōgaḥ, madhukādibhirdvitīyō yōgaḥ, drākṣādikaṣāyamiśrairmastvādibhistr̥tīyaḥ| jīvanīyētyādi| kākōlyādikaṣāyakalkavipakvēna sarpiṣā’bhyaṅgaḥ, śatadhautaghr̥tēna vā’bhyaṅga ityarthaḥ| śālītyādi| vañjulō vētasaḥ, galōḍyaṁ padmabījaṁ, gaurī haridrā, śaivalaṁ śaivālam| dhānyāmlaṁ kāñjikam| ayaṁ ca pradēhaḥ śītō’bahulaśca kartavyaḥ (vātaprabalē’pyēṣa pradēhaḥ sukhōṣṇaḥ kāryaḥ [5] ) ||8||
raktaprabalē’pyēvaṁ, bahuśaśca śōṇitamavasēcayēt, śītatamāśca pradēhāḥ kāryā iti ||9||
pittaprabalacikitsitamuktamanyatrāpyatidiśannāha- raktētyādi||9||
ślēṣmaprabalē tvāmalakaharidrākaṣāyaṁ madhumadhuraṁ pāyayēt, triphalākaṣāyaṁ vā [6] ; madhukaśr̥ṅgavēraharītakītiktarōhiṇīkalkaṁ vā sakṣaudraṁ, mūtratōyayōranyatarēṇa guḍaharītakīṁ vā bhakṣayēt; tailamūtrakṣārōdakasurāśuktakaphaghnauṣadhaniḥkvāthaiśca pariṣēkaḥ, āragvadhādikaṣāyairvōṣṇaiḥ; mastumūtrasurāśuktamadhukasārivāpadmakasiddhaṁ vā ghr̥tamabhyaṅgaḥ; tilasarṣapātasīyavacūrṇāni ślēṣmātakakapitthamadhuśigrumiśrāṇi kṣāramūtrapiṣṭāni pradēhaḥ; śvētasarṣapakalkaḥ, tilāśvagandhākalkaḥ, priyālasēlukapitthakalkaḥ, madhuśigrupunarnavākalkaḥ, vyōṣatiktāpr̥thakparṇībr̥hatīkalka ityētēṣāṁ pañca pradēhāḥ sukhōṣṇāḥ kṣārōdakapiṣṭāḥ, śāliparṇī pr̥śniparṇī br̥hatyau vā kṣīrapiṣṭāstarpaṇamiśrāḥ ||10||
rōhiṇīkalkamityatrāpi cūrṇamityēkē, tat sakṣaudram| mūtratōyayōranyatarēṇa guḍaharītakīṁ vā bhakṣayēt| tailētyādi tailādibhiḥ kōṣṇaiḥ pariṣēkaḥ| āragvadhādītyādi ‘pariṣēka’ iti śēṣaḥ| mastvityādi| pratyēkaṁ mastvādibhiścaturbhirghr̥tasamairmadhukādibhistribhiḥ pādakalkaiḥ pakvēna sarpiṣā’bhyaṅgaḥ| tilētyādi| ślēṣmātakaḥ śēluḥ ‘lisōḍā’ [7] iti lōkē| aparān pañca pradēhānāha- śvētētyādi| prathama ēkāṅgaḥ, dvitīyō dvyaṅgaḥ, tr̥tīyastryaṅgaḥ, caturthō dvyaṅgaḥ, pañcamaḥ ṣaḍaṅga iti| aparamēkaṁ pradēhamāha- śāliparṇītyādi| tarpaṇamiśrā yavaśaktuyutāḥ||10||
saṁsargē sannipātē ca kriyāpathamuktaṁ miśraṁ kuryāt ||11||
anubandhabhūtadōṣadvayatrayajanmanō vātaśōṇitasya cikitsitaṁ darśayannāha- saṁsarga ityādi| tatra saṁsargē dvayōrdvayōrdōṣayōrmiśrīkr̥tya, sannipātē tu trayāṇāmapyētē cōpakramāḥ||11||
sarvēṣu ca guḍaharītakīmāsēvēta; pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivr̥ddhyā daśābhivr̥ddhyā vā pibēt kṣīraudanāhārō daśarātraṁ, bhūyaścāpakarṣayēt, ēvaṁ yāvat pañca daśa vēti; tadētat pippalīvardhamānakaṁ vātaśōṇitaviṣamajvarārōcakapāṇḍurōgaplīhōdarārśaḥkāsaśvāsaśōphaśōṣāgnisādahr̥drōgōdarāṇyapahanti; jīvanīyapratīvāpaṁ sarpiḥ payasā pācayitvā’bhyajyāt; sahāsahadēvācandanamūrvāmustāpriyālaśatāvarīkaśērupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradēhō ghr̥tamaṇḍayuktaḥ, sairēyakāṭarūṣakabalātibalājīvantīsuṣavīkalkō vā cchāgakṣīrapiṣṭaḥ, gōkṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalkō vā; madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṁ piṇḍatailamabhyaṅgaḥ; sarvēṣu ca purāṇaghr̥tamāmalakarasavipakvaṁ vā pānārthē; jīvanīyasiddhaṁ pariṣēkārthē, kākōlyādikvāthakalkasiddhaṁ vā; suṣavīkvāthakalkasiddhaṁ vā, kāravēllakakvāthamātrasiddhaṁ vā; balātailaṁ vā pariṣēkāvagāhabastibhōjanēṣu; śāliṣaṣṭikayavagōdhūmānnamanavaṁ bhuñjīta payasā jāṅgalarasēna vā mudgayūṣēṇa vā’namlēna; śōṇitamōkṣaṁ cābhīkṣṇaṁ kurvīta; ucchritadōṣē ca vamanavirēcanāsthāpanānuvāsanakarma kartavyam ||12||
(paṭōlatriphalābhīruguḍūcīkaṭukākr̥tam |
kvāthaṁ pītvā jayatyāśu vātaśōṇitajāṁ rujam [8] ) ||13||
śuddhadēhasya sāmānyaṁ cikitsitaṁ rōgamātrapratyanīkaṁ nirdiśannāha- sarvēṣvityādi| pippalīvardhamānakē ‘tryabhivr̥ddhyā, saptābhivr̥ddhyā vā’ iti kvacitpāṭhaḥ, sa tu nātiprasiddhaḥ| sahētyādi| sahā māṣaparṇī, sahadēvā gāṅgērukīti prasiddhā, mūrvā cōrasnāyuḥ, priyālaścāraḥ, ghr̥tamaṇḍō ghr̥tasyōpariryacchō bhāgaḥ| sairēyakētyādi sairēyaḥ kaṇṭaśēluvākaḥ, suṣavī pānīyavallī| madhūcchiṣṭētyādi| kṣīramatra caturguṇam| piṇḍatailamiti aparīsrutaṁ kiṭṭayuktaṁ; kēcit piṇḍatailē śatāvarītyadhīyatē| sarvēṣvityādi sarvēṣu pañcasvapi vātaraktēṣu ēka- tridōṣajēṣu, prayōgaprabhāvō’yam| kākōlyādikvāthakalkamātrasiddhaṁ “ghr̥tam’ iti śēṣaḥ| kāravēllakakvāthamātrasiddhaṁ vā ‘ghr̥tam’ iti śēṣaḥ| balētyādi balātailaṁ mūḍhagarbhōktam| śālītyādi| payasā pittōttarē, jāṅgalarasēna vātōttarē, mudgarasēna kaphōttarē; sātmyāpēkṣayā vā| śōṇitētyādi| abhīkṣṇam anavaratam| snigdhādibhirnirjitē vātē niścitē tu śōṇitāvaraṇē puruṣavyādhibalakālamavalōkya kurvīta| vamanētyādi vamanādikaṁ yadyapi sāmānyēnōktaṁ, tathā’pi kaphōtkaṭē vamanaṁ, virēcanaṁ pittaraktōtkaṭē, anuvāsanāsthāpanakarmaṇī vātōtkaṭē ca kartavyē||12-13||
bhavanti cātra-
ēvamādyaiḥ kriyāyōgairacirōtpatitaṁ sukham |
vātāsr̥k sādhyatē vaidyairyāpyatē tu cirōtthitam ||14||
ēvamādyaiḥ ēvamprakāraiḥ| kriyāyōgaiḥ upāyaiḥ| acirōtpatitam alpakālōtpannam||14||
upanāhaparīṣēkapradēhābhyañjanāni ca |
śaraṇānyapravātāni manōjñāni mahānti ca ||15||
mr̥dugaṇḍōpadhānāni śayanāni sukhāni ca |
vātaraktē praśasyantē mr̥dusaṁvāhanāni ca ||16||
kriyāyōgānuktānanuktāṁśca saṅgrahārthaṁ nirdiśannāha- upanāhētyādi| śaraṇāni gr̥hāṇi| apravātāni nivātāni| manōjñāni harṣadāni| mahānti viśālāni| gaṇḍōpadhānāni gallamasū(sta)rikādīni; gaṇḍapadēna mastakādīnāmapyupadhānāni bōdhyāni| sukhāni cēti cakārānmr̥dūni ca| saṁvāhanāni karamardanāni||15-16||
vyāyāmaṁ maithunaṁ kōpamuṣṇāmlalavaṇāśanam |
divāsvapnamabhiṣyandi guru cānnaṁ vivarjayēt ||17||
āhārācāraṁ niṣiddhaṁ darśayannāha- vyāyāmamityādi| vyāyāmamaithunē kāyakarmaṇī, kōpō mānasaṁ karma| uṣṇam uṣṇavīryaṁ; tēnānūpamāṁsaṁ madhuratiktaṁ kākamācyādi kaṭu ca yatkiñciduṣṇavīryaṁ tadgr̥hyatē| amlalavaṇē tu viśēṣārthaṁ pr̥thagēva paṭhitē| abhiṣyandi dōṣadhātumalasrōtasāṁ klēdaprāptijananam||17||
apatānakinamasrastākṣamavakrabhruvamastabdhamēḍhramasvēdanamavēpanamapralāpinamakhaṭvāpātinamabahirāyāminaṁ cōpakramēt |
tatra prāgēva snēhābhyaktaṁ svinnaśarīramavapīḍanēna tīkṣṇēnōpakramēta śiraḥśuddhyarthaṁ; anantaraṁ vidārigandhādikvāthamāṁsarasakṣīradadhipakvaṁ sarpiracchaṁ pāyayēt, tathā hi nātimātraṁ vāyuḥ prasarati; tatō bhadradārvādivātaghnagaṇamāhr̥tya sayavakōlakulatthaṁ sānūpaudakamāṁsaṁ pañcavargamēkataḥ prakvāthya tamādāya kaṣāyamamlakṣīraiḥ sahōnmiśrya sarpistailavasāmajjabhiḥ saha vipacēnmadhurakapratīvāpaṁ, tadētattraivr̥tamapatānakināṁ pariṣēkāvagāhābhyaṅgapānabhōjanānuvāsananasyēṣu vidadhyāt; yathōktaiśca svēdavidhānaiḥ svēdayēt, balīyasi vātē sukhōṣṇatuṣabusakarīṣapūrṇē kūpē nidadhyādāmukhāt, taptāyāṁ vā rathakāracullyāṁ [9] taptāyāṁ vā śilāyāṁ surāpariṣiktāyāṁ palāśadalacchannāyāṁ śāyayēt, kr̥śarāvēśavārapāyasairvā svēdayēt |
mūlakōrubūsphūrjārjakārkasaptalāśaṅkhinīsvarasasiddhaṁ tailamapatānakināṁ pariṣēkādiṣūpayōjyam |
abhuktavatā pītamamlaṁ dadhi maricavacāyuktamapatānakaṁ hanti; tailasarpirvasākṣaudrāṇi vā |
ētacchuddhavātāpatānakavidhānamuktaṁ, saṁsr̥ṣṭē saṁsr̥ṣṭaṁ kartavyam |
vēgāntarēṣu cāvapīḍaṁ dadyāt; tāmracūḍakarkaṭakr̥ṣṇamatsyaśiśumāravarāhavasāścāsēvēta, kṣīrāṇi vā vātaharasiddhāni, yavakōlakulatthamūlakadadhighr̥tatailasiddhā vā yavāgūḥ; snēhavirēcanāsthāpanānuvāsanaiścainaṁ daśarātrāhr̥tavēgamupakramēta [10] ; vātavyādhicikitsitaṁ cāvēkṣēta; rakṣākarma ca kuryāditi ||18||
apatānakacikitsāmāha- apatānakinamityādi| asrastākṣam anatipatitanayanam [11] | apralāpinaṁ nāsambaddhabhāṣiṇam| akhaṭvāpātinaṁ khaṭvāyā na patatīti akhaṭvāpātinam; ayamarthaḥ- apatānakavēgēna patannēva pāṇibhyāṁ bhūtalamavalambatē, hastapādadvayēna khaṭvāpādakalpēna patanaśīlaḥ khaṭvāpātī, naitādr̥gvidha ityarthaḥ| abahirāyāminam apaścānmukhagāminam| śirōvirēcanadravyāṇi piṣṭvā avapīḍya dīyata ityavapīḍaḥ| śuddhavātāpatānakē’pyatra śirōvirēcanaṁ vāyōḥ kaphasthānagatatvēna sadyaḥ sañjñāprabōdhārtham| anantaramiti śirōvirēcanasyōrdhvamityarthaḥ| ghr̥taṁ ca vidārigandhādikvāthādibhiścaturbhirdravairvidārigandhādikalkapādikaṁ sādhanīyamiti| pānārhaṁ ghr̥tamuktvā sarvakāryōpayōginaṁ mahāsnēhamāha- bhadrētyādi| bhadradārvādiḥ bhadradārukuṣṭhaharidrāvaruṇētyādiḥ| bhadradārvādiyavakōlādyānūpaudakapañcavargakvāthasya kāñjikakṣīrayōśca pratyēkaṁ catvārō bhāgā ityēkē; gayadāsastvatra kṣīraṁ snēhasamaṁ manyatē| ānūpaudakamāṁsaṁ pañcavargamiti kūlacarāḥ, plavāḥ, kōśasthāḥ, pādinō, matsyāścēti jējjaṭaḥ; gayadāsastu ‘sānūpaudakamāṁsavargam’ ityēvaṁ pāṭhaṁ manyatē; sānūpaudakamityanēna parēṣāṁ pañcānāmapi vargāṇāṁ grahaṇāt| amlāni surāsauvīrakadhānyāmlādīni| sarpirvipacēt tailavasāmajjabhiḥ saha, tailādi pratyēkaṁ ghr̥tatulyaṁ dattvā| madhurakaprativāpaṁ kākōlyādikalkaprakṣēpam| traivr̥tamiti sarpiṣō’tra tribhirvr̥tatvāt traivr̥tam| svēdavidhānairiti svēdāvacāraṇīyābhihitaiḥ| nidadhyāt sthāpayēt; ūṣmasvēdō’yam| rathakārō lōhakāraḥ| kr̥śarētyādi ayamupanāhasvēdaḥ| urubūkaḥ śuklairaṇḍaḥ, sphūrjakaḥ phaṇijjakākāraḥ prāyaśaḥ pāriyātrē bhavati, arjakaḥ kuṭhērakaḥ, śaṅkhinī yavatiktābhēdaḥ; mūlakādīnāṁ snēhacaturguṇēna rasēna siddhaṁ; mūlakādipādakalkamakalkaṁ vā paktvā sukhōṣṇaṁ pariṣēkē dravasvēdē ityarthaḥ; ādiśabdādabhyaṅgādiṣu| maricavacāyuktamiti alpavacāmaricam| saṁsr̥ṣṭē saṁsr̥ṣṭaṁ kartavyamiti anubandhabhūtayōḥ pittakaphayōḥ saṁsargamupalabhya pittakaphaharaṁ saṁsr̥ṣṭaṁ tadēva kartavyaṁ; jējjaṭastu saṁsr̥ṣṭē vātaraktavaccikitsā kartavyētyāha| vēgāntarēṣu vēgōparamēṣu| tāmracūḍaḥ kukkuṭaḥ, kr̥ṣṇamatsyaḥ kulīramatsyākārō’śalkaḥ| tāmracūḍādivasā pānē; taduktaṁ vr̥ddhavāgbhaṭē- “kukkuṭakulīraśiśumāravarāhavasāḥ pāyayēt”- (a. saṁ. ci. 23) iti||18||
pakṣāghātōpadrutamamlānagātraṁ sarujamātmavantamupakaraṇavantaṁ cōpakramēt |
tatra prāgēva snēhasvēdōpapannaṁ mr̥dunā śōdhanēna saṁśōdhyānuvāsyāsthāpya ca yathākālamākṣēpakavidhānēnōpacarēt; vaiśēṣikaścātra mastiṣkyaḥ śirōbastiḥ [12] , aṇutailamabhyaṅgārthē, sālvaṇamupanāhārthē, balātailamanuvāsanārthē; ēvamatandritastrīṁścaturō vā māsān kriyāpathamupasēvēta ||19||
pakṣāghātacikitsitamāha- pakṣāghātētyādi| amlānagātram ahīnagātram| sarujamiti saha rujayā vartatē yaḥ saḥ tam| yasya tu pakṣārdhamacētanamavēdanaṁ ca sō’sādhyaḥ, yadā tu punarīṣatkarmaṇyamīṣaccētanaṁ ca tadā kr̥cchrasādhyaḥ| yathākālaṁ kālasyānatikramēṇa; tadyathā- vāntasya pakṣādvirēcanaṁ, viriktasya saptarātrādanuvāsanam, anuvāsitasya snēhalakṣaṇē satyāsthāpanam, āsthāpitasya sadyaḥ punaranuvāsanamiti| ākṣēpakavidhānēna apatānakavidhānēnētyarthaḥ, ākṣēpakāpatānakayōrēkaviṣayatvāt| vaiśēṣikamityādi| mastiṣkyaḥ śirōbastiviśēṣaḥ, sa ca snēhāktapicuplōtādidhāraṇēna yōjanīyaḥ| ēvamityādi| atandritaḥ analasaḥ||19||
manyāstambhē’pyētadēva vidhānaṁ, viśēṣatō vātaślēṣmaharairnasyai rūkṣasvēdaiścōpacarēt ||20||
atra manyāstambhacikitsitaṁ kaiścidadhīyatē- manyāstambhē ityādi||20||
apatantrakāturaṁ nāpatarpayēt, vamanānuvāsanāsthāpanāni na niṣēvēta, vātaślēṣmōparuddhōcchvāsaṁ tīkṣṇaiḥ pradhmāpanairmōkṣayēt, tumburupuṣkarāhvahiṅgvamlavētasapathyālavaṇatrayaṁ yavakvāthēna pātuṁ prayacchēt, pathyāśatārdhē sauvarcaladvipalē caturguṇē payasi sarpiḥ prasthaṁ siddhaṁ; vātaślēṣmāpanucca karma kuryāt ||21||
apatantracikitsitamapi kaiścidabhidhīyatē- apatantrakāturamityādi| tumburvādicūrṇākṣaṁ yavakvāthapaladvayēna prayacchēt| pathyāśatārdha iti pathyāphalānāṁ śatārdhē sarpiḥprasthaṁ siddhaṁ pātuṁ prayacchēditi sambandhaḥ| na kēvalamētaddhr̥tamēva pātuṁ prayacchēdityāha- vātaślēṣmētyādi|- vātaṁ ślēṣmāṇaṁ ca yat karma nudati hanti tacca kuryāt||21||
arditāturaṁ balavantamātmavantamupakaraṇavantaṁ ca vātavyādhividhānēnōpacarēt, vaiśēṣikaiśca mastiṣkyaśirōbastinasyadhūmōpanāhasnēhanāḍīsvēdādibhiḥ; tataḥ satr̥ṇaṁ mahāpañcamūlaṁ kākōlyādiṁ vidārigandhādimaudakānūpamāṁsaṁ tathaivaudakakandāṁścāhr̥tya dviguṇōdakē kṣīradrōṇē niḥkvāthya kṣīrāvaśiṣṭamavatārya [13] parisrāvya tailaprasthēnōnmiśrya punaragnāvadhiśrayēt, tatastailaṁ kṣīrānugatamavatārya śītībhūtamabhimathnīyāt, tatra yaḥ snēha uttiṣṭhēttamādāya madhurauṣadhasahākṣīrayuktaṁ vipacēt, ētat kṣīratailamarditāturāṇāṁ pānābhyaṅgādiṣūpayōjyaṁ, tailahīnaṁ vā kṣīrasarpirakṣitarpaṇamiti ||22||
arditacikitsāmāha- arditāturamityādi| nasyadhūmāvatra snēhanau| tata ityādi| “kuśakāśanaladarbhakāṇḍēkṣukā” (sū. 38)| iti tr̥ṇasañjñam| mahāpañcamūlaṁ bilvādi| audakamāṁsaṁ matsyakarkaṭakaśiśumāraprabhr̥tīnām; ānūpaṁ māṁsaṁ pradhānakalpanayā varāhādīnām| audakāḥ kandāḥ kaśēruśr̥ṅgāṭakaśālūkādayaḥ| anyē- “ānūpamāṁsānyaudakān kandāṁśca saṁhr̥tya”- iti paṭhanti| sarvadravyāṇāṁ samabhāgānāmāḍhakaṁ kṣīradrōṇēna jaladvidrōṇasahitēna vipacēt| tailaprasthēnēti tailaprasthēna dvātriṁśatpalātmakēna| kṣīrānugataṁ kṣīrēṇa sahaikāvayavībhūtam| madhurauṣadhāni kākōlyādīni, sahā māṣaparṇī, kṣīraṁ caturguṇam| kēcinmadhurauṣadhasahāsthānē pūrvōktakvāthyadravyāṇāmēva pādikaṁ kalkaṁ prakṣipanti, na tu madhurakādīni||22||
gr̥dhrasīviśvācīkrōṣṭukaśiraḥkhañjapaṅgulavātakaṇṭakapādadāhapādaharṣāvabāhukabādhiryadhamanīgatavātarōgēṣu [14] yathōktaṁ yathōddēśaṁ ca sirāvyadhaṁ kuryāt, anyatrāvabāhukāt; vātavyādhicikitsitaṁ cāvēkṣēta ||23||
gr̥dhrasyādīnāṁ cikitsāvidhānamāha- gr̥dhrasītyādi| vātavyādhicikitsitaṁ cēti cakārēṇa krōṣṭukaśīrṣakavātaśōṇitacikitsāvēkṣaṇaṁ ca| dhātukṣayanimittavātakōpajanitō’vabāhukaḥ, atō’nyātrāvabāhukāditi vākyēna sirāvyadhō niṣidhyatē| gayī tu, anyatrāvabāhukād vātavyādhicikitsitamavēkṣētēti sambadhnāti; tathāhi vātavyādhicikitsitē yat snēhasvēdādikaṁ tadavabāhukē kaphasthānasambhavatvēna kaphāvr̥tavātajē viruddhaṁ, tatra hi svēdanasyādikaṁ vidhēyaṁ rūkṣamēvaḥ, na tu ‘sirāvyadhaṁ kuryādanyatrāvabāhukāt’ iti sambandhaḥ, yatōṁ’saśōṣē’vabāhukē ca sirāmōkṣasya sirāvyadhavidhānē cōktatvāt| gr̥dhrasyādiṣu vātavyādhicikitsitē kr̥tē paścācchōṇitāvaraṇaṁ niścitya sirāvyadhō vidhēya iti||23||
karṇaśūlē tu śr̥ṅgavērarasaṁ tailamadhusaṁsr̥ṣṭaṁ saindhavōpahitaṁ sukhōṣṇaṁ karṇē dadyāt, ajāmūtramadhutailāni vā, mātuluṅgadāḍimatintiḍīkasvarasamūtrasiddhaṁ tailaṁ, śuktasurātakramūtralavaṇasiddhaṁ vā; nāḍīsvēdaiśca svēdayēt, vātavyādhicikitsāṁ cāvēkṣēta; bhūyaścōttarē vakṣyāmaḥ ||24||
karṇaśūlacikitsāmāha- karṇaśūla ityādi| śr̥ṅgavērarasam ārdrakarasam| śuktaṁ cukram| nāḍītyādi nalādiśuṣiranāḍīsvēdaḥ| vātavyādhicikitsāṁ cēti cakārēṇa pittaraktāvaraṇē tu vātaraktacikitsitamanuktaṁ samuccinōti| bhūyaścētyādi| karṇarōgēṣūttaratantrē punarapi vadiṣyāmaḥ||24||
tūnīpratūnyōḥ snēhalavaṇamuṣṇōdakēna pāyayēt, pippalyādicūrṇaṁ vā, hiṅguyavakṣārapragāḍhaṁ vā sarpiḥ, bastibhiścainamupakramēt ||25||
tūnīpratūnīcikitsāmāha- tūnītyādi| sāmānyabastigrahaṇāttrividhabastyavabōdhaḥ||25||
ādhmānē tvapatarpaṇapāṇitāpa(dīpanacūrṇa [15] )phalavartikriyāpācanīyadīpanīyabastibhirupācarēt; laṅghanānantaraṁ cānnakālē dhānyakajīrakādidīpanasiddhānyannāni |
pratyādhmānē chardanāpatarpaṇadīpanāni kuryāt ||26||
ādhmānacikitsāmāha- ādhmāna ityādi| pācanīyāni pañcakōlādīni| pratyādhmānacikitsāmāha- pratyādhmāna ityādi||26||
aṣṭhīlāpratyaṣṭhīlayōrgulmābhyantaravidradhivat kriyāvibhāga iti ||27||
aṣṭhīlācikitsāmāha- aṣṭhīlētyādi||27||
hiṅgutrikaṭuvacājamōdādhānyājagandhādāḍimatintiḍīkapāṭhācitrakayavakṣārasaindhavaviḍasaurvacala- svarjikāpippalīmūlāmlavētasaśaṭīpuṣkaramūlahapuṣācavyājājīpathyāścūrṇayitvā mātuluṅgāmlēna bahuśaḥ paribhāvyākṣamātrā guṭikāḥ kārayēt, tataḥ prātarēkaikāṁ vātavikārī bhakṣayēt, ēṣa yōgaḥ kāsaśvāsagulmōdarārōcakahr̥drōgādhmānapārśvōdarabastiśūlānāhamūtrakr̥cchraplīhārśastūnīpratūnīrapahanti ||28||
hiṅgvādimutpādayati- hiṅgvityādinā| ajagandhā ‘bōvayikā’ iti; gayī tu ‘ajagandhā kṣētrayavānī’ ityāha| mātuluṅgāmlaḥ bījapūrakarasaḥ| ētaccūrṇaṁ guṭikā ca, paratantrapratyayāt; hiṅgvādiguṭikā vātagulmināṁ kr̥tē dviguṇakṣārahiṅgvamlavētasāḥ kāryāḥ, uktaṁ ca- “yaccūrṇaṁ guṭikā yāśca kartavyā vātagulminām| dviguṇakṣārahiṅgvamlavētasāstā hitā” iti||28||
bhavanti cātra-
kēvalō dōṣayuktō vā dhātubhirvā”vr̥tō’nilaḥ |
vijñēyō lakṣaṇōhābhyāṁ cikitsyaścāvirōdhataḥ ||29||
śuddhavātacikitsāmabhidhāya saṁsr̥ṣṭāvr̥tasya cikitsāmāha- bhavantītyādi| kēvalō dōṣādyasaṁsr̥ṣṭaḥ| atra hi saṁyuktasyaiva cikitsāvidhirucyatē na tu kēvalasya, uktatvāt ‘avirōdhataḥ’ iti vacanācca; na hi kēvalasya vāyōścikitsāyāṁ virōdhō’sti, ēkamukhyatvāt| dōṣairvātapittakaphairyuktō dōṣayuktaḥ; anēna saṁyōgamātramabhihitaṁ, nāvarakatvam| dhātavō rasaraktamāṁsamēdōmajjaśukrāṇi svēdaviṇmūtrāṇi vātapittakaphāścōcyantē, tēṣāmapi śarīradhārakatvāt; tairāvr̥taḥ| tasya dvividhasyāpi vijñānōpāyaṁ darśayannāha- lakṣaṇōhābhyāmiti|- vātasya lakṣaṇaṁ tōdādikaṁ kr̥ṣṇāruṇatvaṁ kampādikaṁ ca; pittasya cōṣādipītādidāhādikaṁ; kaphasya kaṇḍvādiśuklādiprasēkādikam| ūhaḥ punaraśrutasya parikalpanā| nanu, pittakaphābhyāṁ dhātubhiścāmūtrairāvaraṇaṁ yujyatē, kathaṁ vātēnētyāha- prāṇādīnāṁ pañcānāṁ vāyūnāṁ parasparamāvāryāvarakabhēdēna viṁśatirāvaraṇāni carakācāryēṇōktāni| tathā ca- “mārutānāṁ tu pañcānāmanyōnyāvaraṇaṁ śr̥ṇu| liṅgaṁ vyāsasamāsābhyāmucyamānaṁ mayā’nagha|| prāṇō vr̥ṇōtyudānādyān prāṇaṁ vr̥ṇvanti tē’pi ca| udānādyāstathā’nyōnyaṁ sarva ēva yathākramam|| viṁśatyāvaraṇānyētānyulbaṇānāṁ parasparam| mārutānāṁ tu pañcānāṁ tāni samyak pratarkayēt” (ca. ci. 28) iti; gayadāsēnāpyuktaṁ- “aṣṭāvādyē dvitīyē ṣaṭ tr̥tīyē ca catuṣṭayam| dvē caturthē’nilē’pyēvaṁ pañcadhā”vr̥tiviṁśatiḥ”- iti| āvaraṇēṣu vātānāṁ prāṇōdānayōrēva gurutaramāvaraṇaṁ draṣṭavyaṁ, dhātvāvaraṇēṣu mēdōvr̥tavātasya| tatrōrdhvaṁ gacchannudānaḥ prāṇō vā’pānasyādhōgāminō gatinirōdhaṁ kurvannāvaraka ityucyatē; athavā dvayōrmārutayōrabhimukhamabhisarpatōrbalavatā durbalō’bhibhūtaḥ pratyāvr̥ttaḥ san ‘āvr̥taḥ’ ityucyatē||29||
rujāvantaṁ ghanaṁ śītaṁ śōphaṁ mēdōyutō’nilaḥ |
karōti yasya taṁ vaidyaḥ śōthavat samupācarēt ||30||
mēdōvr̥tavātasya lakṣaṇaṁ cikitsitaṁ ca nirdiśannāha- rujāvantamityādi| śōphamiti apakvaśōpham||30||
kaphamēdōvr̥tō vāyuryadōrū pratipadyatē |
tadā’ṅgamardastaimitya [16] rōmaharṣarujājvaraiḥ ||31||
nidrayā cārditau stabdhau [17] śītalāvapracētanau |
gurukāvasthirāvūrū na svāviva ca manyatē ||32||
tamūrustambhamityāhurāḍhyavātamathāparē |33|
mēdōvr̥tavātaprasaṅgēna sthānaviśēṣāśrayaṁ kaphamēdōvr̥taṁ vātaṁ nirdiśannāha- kaphētyādi| asthirau akaṭhinau| na svāviva ca manyatē anyasyēva manyatē, sparśājñānāt parakīyāviva||31-32||-
snēhavarjaṁ pibēttatra cūrṇaṁ ṣaḍdharaṇaṁ naraḥ ||33||
hitamuṣṇāmbunā tadvat pippalyādigaṇaiḥ kr̥tam |
lihyādvā traiphalaṁ cūrṇaṁ kṣaudrēṇa kaṭukānvitam ||34||
mūtrairvā guggulaṁ śrēṣṭhaṁ pibēdvā’pi śilājatu |
tatō hanti kaphākrāntaṁ samēdaskaṁ prabhañjanam ||35||
hr̥drōgamaruciṁ gulmaṁ tathā’bhyantaravidradhim |36|
tasya cikitsāmāha- snēhētyādi| snēhavarjaṁ catuḥsnēharahitaṁ, kaphamēdasōratirūkṣaṇīyatvāt; anyadapi kṣīramāṁsavarjaṁ snigdhaṁ varjanīyamēva| pippalyādigaṇaiḥ kr̥taṁ ‘cūrṇam’ iti śēṣaḥ| prabhañjanaṁ vātamityarthaḥ||33-35||-
sakṣāramūtrasvēdāṁśca rūkṣāṇyutsādanāni ca ||36||
kuryāddihyācca mūtrāḍhyaiḥ karañjaphalasarṣapaiḥ |37|
abhyantaracikitsāmupadiśya bahirāśrayāmupadiśati- sakṣārētyādi| utsādanāni udvartanāni sayavakṣāragōmūtrāṇi| dihyāt lēpayēt, karañjaphalaśvētasarṣapairgōmūtrapiṣṭairuṣṇaiḥ||36||-
bhōjyāḥ purāṇaśyāmākakōdravōddālaśālayaḥ ||37||
śuṣkamūlakayūṣēṇa paṭōlasya rasēna vā |
jāṅgalairaghr̥tairmāṁsaiḥ śākaiścālavaṇairhitaiḥ ||38||
uddāla āraṇyakōdravaḥ| aghr̥tairghr̥tarahitaiḥ| sarṣapatailaṁ punaruṣṇatvāt kaphamēdōharatvācca dēyamapīti na pratiṣiddhaṁ na vihitaṁ ca| alavaṇairlavaṇarahitaiḥ śākaiḥ; tadarthaṁ tu yavakṣārādikṣārāṇāṁ raukṣyēṇa kaphamēdōharatvādavacāraṇam||37-38||
yadā syātāṁ parikṣīṇē bhūyiṣṭhē kaphamēdasī |
tadā snēhādikaṁ karma punaratrāvacārayēt ||39||
avasthāyāṁ snēhāvacāraṇasya pratiprasavaṁ nirdiśannāha- yadētyādi| parikṣīṇē sarvataḥ kṣīṇē||39||
sugandhiḥ sulaghuḥ sūkṣmastīkṣṇōṣṇaḥ kaṭukō rasē |
kaṭupākaḥ sarō hr̥dyō gugguluḥ snigdhapicchilaḥ ||40||
sa navō br̥ṁhaṇō vr̥ṣyaḥ purāṇastvapakarṣaṇaḥ |
taikṣṇyauṣṇyātkaphavātaghnaḥ saratvānmalapittanut ||41||
saugandhyāt pūtikōṣṭhaghnaḥ saukṣmyāccānaladīpanaḥ |
taṁ prātastriphalādārvīpaṭōlakuśavāribhiḥ ||42||
pibēdāvāpya vā mūtraiḥ kṣārairuṣṇōdakēna vā |
jīrṇē yūṣarasaiḥ kṣīrairbhuñjānō hanti māsataḥ [18] ||43||
gulmaṁ mēhamudāvartamudaraṁ sabhagandaram |
kr̥mikaṇḍvaruciśvitrāṇyarbudaṁ granthimēva ca ||44||
nāḍyāḍhyavātaśvayathūn kuṣṭhaduṣṭavraṇāṁśca saḥ |
kōṣṭhasandhyasthigaṁ vāyuṁ vr̥kṣamindrāśaniryathā ||45||
asmādanantaramūrustambhasyōpayōgārhatvādguggulukalpamāha- sugandhirityādi| sūkṣmamārgāvagāhitvāt sūkṣmaḥ| atra triphalādārvīpaṭōlaiḥ tribhirdravyairēkō yōgaḥ, kuśēnēti dvitīyaḥ| vāriśabdō’tra kvāthē vartatē, tarhi dvivacanamēva kathaṁ na dattaṁ? satyaṁ, bahuvacanāccaturbhirapi dravyairanyō yōgō mantavya iti| kṣārairiti kṣārōdakaiḥ; ‘kṣīraiḥ’ ityanyē paṭhanti| pānaṁ bhōjanaṁ ca vātapittakapharōgāpēkṣayā prakr̥tyapēkṣayā sātmyāpēkṣayā vā| sugandhirityādi pāṭhaṁ jējjaṭācāryō’nārṣaṁ varṇayati, gayadāsēna vyākhyātatvānmayā’pi vyākhyātaḥ||40-45||
iti suśrutasaṁhitāyāṁ cikitsāsthānē mahāvātavyādhicikitsitaṁ nāma pañcamō’dhyāyaḥ ||5||
iti śrīḍalha(hla)ṇaviracitāyāṁ nibandhasaṅgrahākhyāyāṁ suśrutavyākhyāyāṁ cikitsāsthānē pañcamō’dhyāyaḥ||5||
1. ‘surabhī’ iti pā.|
2. ‘kēcit’ iti pā.|
3. ‘kaṭurōhiṇīkalkaṁ’ iti pā.|
4. ‘biśaṇḍakamiti’ iti pā.|
5. ayaṁ pāṭhaḥ kvacitpustakē na paṭhyatē|
6. ‘vā sakṣaudramūtraṁ tōyēna guḍaharītakīṁ vā’ iti hārāṇacandraḥ paṭhati|
7. ‘lasāṭaka’ iti pā.|
8. ayaṁ pāṭhō hastalikhitapustakē na paṭhyatē|
9. ‘aṅgāracullyāṁ’ iti pā.|
10. ‘daśarātrādgatavēgaṁ’ iti pā.|
11. ‘anadhipatitaśalyam’ iti pā.|
12. ‘māstiṣkaṁ śirōbastiśca śiraḥśuddhyarthaṁ’ iti pā.| ‘mastiṣkahitatvānmāstiṣkaṁ snēhapicudhāraṇam’ iti hārāṇacandraḥ|
13. ‘pādāvaśiṣṭaṁ’ iti pā.|
14. ‘jihvāgatavātarōgēṣu’ iti pā.|
15. ‘dīpanacūrṇa’ iti hastalikhitapustakē na paṭhyatē|
16. ‘śaithilya’ iti pā.|
17. ‘snigdhau’ iti pā.|
18. ‘mārutam’ iti pā.|