Suśrutasaṁhitā Kalpasthāna Adhyāya 02 – Sthavaravishavijnaniya

eSamhita: A Scholarly Digital Initiative of Ayurveda360

Table of Contents

Devanagari Version

काशिराजधन्वन्तरिणोपदिष्टा तच्छिष्यसुश्रुतेन विरचिता

सुश्रुतसंहिता

श्रीडल्हणाचार्यविरचितया निबन्धसङ्ग्रहाख्यव्याख्यया निदानस्थानस्य श्रीगयदासाचार्यविरचितया न्यायचन्द्रिकाख्यपञ्जिकाव्याख्यया च समुल्लसिता

कल्पस्थानम् - २. स्थावरविषविज्ञानीयकल्पः

Only Moolashloka

अथातः स्थावरविषविज्ञानीयमध्यायं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||

अन्ने पाने च प्रायेण स्थावरविषावचारणात्तद्विज्ञानीयारम्भो युज्यत इत्याह- अथात इत्यादि||१-२||

स्थावरं जङ्गमं चैव द्विविधं विषमुच्यते |
दशाधिष्ठानमाद्यं तु द्वितीयं षोडशाश्रयम् ||३||

तत्र विषस्य चिकित्साविशेषार्थं स्वरूपभेदेनाश्रयभेदेन च द्वैविध्यं प्रतिपादयति- स्थावरमित्यादि| आद्यं प्रथमम्; ‘अदनीयम् आद्यं’ इत्यन्ये, तन्नेच्छति गयी||३||

मूलं पत्रं फलं पुष्पं त्वक् क्षीरं सार एव च |
निर्यासो धातवश्चैव कन्दश्च दशमः स्मृतः ||४||

तान्येव स्थावरस्य दशाधिष्ठानानि निर्दिशन्नाह- मूलमित्यादि||४||

तत्र, क्लीतकाश्वमारगुञ्जासुगन्धगर्गरककरघाटविद्युच्छिखाविजयानीत्यष्टौ मूलविषाणि; विषपत्रिकालम्बावरदारुकरम्भमहाकरम्भाणि पञ्च पत्रविषाणि; कुमुद्वतीवेणुकाकरम्भमहाकरम्भकर्कोटकरेणुकखद्योतकचर्मरीभगन्धासर्पघातिनन्दनसारपाकानीति द्वादश फलविषाणि; वेत्रकादम्बवल्लीजकरम्भमहाकरम्भाणि पञ्च पुष्पविषाणि; अन्त्रपाचककर्तरीयसौरीयककरघाटकरम्भनन्दननाराचकानि सप्त त्वक्सारनिर्यासविषाणि; कुमुदघ्नीस्नुहीजालक्षीरीणि त्रीणि क्षीरविषाणि; फेनाश्म(भस्म) हरितालं च द्वे धातुविषे; कालकूटवत्सनाभसर्षपपालककर्दमकवैराटकमुस्तकशृङ्गीविषप्रपुण्डरीकमूलकहालाहलमहाविषकर्कटकानीति त्रयोदश कन्दविषाणि; इत्येवं पञ्चपञ्चाशत् स्थावरविषाणि भवन्ति ||५||

गयी तु गर्गरकस्थाने `अनन्ता’ इति पठति| विषपत्रिकेत्यादि| गयी तु नाराचस्थाने वल्लीजं पठति| कुमुद्वतीत्यादि| गयी तु पालकस्थाने बलाहमिति पठति| मूलादिविषाणां यत्नपरैरपि ज्ञातुमशक्यत्वात्तानि हिमवत्प्रदेशे किरातशबरादिभ्यो ज्ञेयानि||५||

चत्वारि वत्सनाभानि मुस्तके द्वे प्रकीर्तिते |
षट् चैव सर्षपाण्याहुः शेषाण्येकैकमेव तु ||६||

तेषां कन्दविषाणामवान्तरभेदान् दर्शयन्नाह- चत्वारीत्यादि||६||

उद्वेष्टनं मूलविषैः प्रलापो मोह एव च |
जृम्भाङ्गोद्वेष्टनश्वासा ज्ञेयाः पत्रविषेण तु ||७||
मुष्कशोफः फलविषैर्दाहोऽन्नद्वेष एव च |
भवेत् पुष्पविषैश्छर्दिराध्मानं मोह एव च ||८||
त्वक्सारनिर्यासविषैरुपयुक्तैर्भवन्ति हि |
आस्यदौर्गन्ध्यपारुष्यशिरोरुक्कफसंस्रवाः ||९||
फेनागमः क्षीरविषैर्विड्भेदो गुरुजिह्वता |
हृत्पीडनं धातुविषैर्मूर्च्छा दाहश्च तालुनि ||१०||
प्रायेण कालघातीनि विषाण्येतानि निर्दिशेत् |११|

तत्र नवानां मूलाद्यधिष्ठानानां समासेन चिकित्सार्थं सामान्यं लक्षणं निर्दिशन्नाह- उद्वेष्टनमित्यादि| उद्वेष्टनम् अङ्गमोटनम्| जृम्भाङ्गोद्वेष्टनेत्यादि| उद्वेष्टनं पूर्वं व्याख्यातम्| मुष्कशोफ इत्यादि| एषां नवानां सामान्यं धर्ममुद्दिशन्नाह- प्रायेणेत्यादि| उपयोगदिवसादन्यो दिवसपक्षमासादिः कालः, तेषु घ्नन्तीत्येवंशीलानि कालघातीनि||७-१०||-

कन्दजानि तु तीक्ष्णानि तेषां वक्ष्यामि विस्तरम् ||११||
स्पर्शाज्ञानं कालकूटे वेपथुः स्तम्भ एव च |
ग्रीवास्तम्भो वत्सनाभे पीतविण्मूत्रनेत्रता ||१२||
सर्षपे वातवैगुण्यमानाहो ग्रन्थिजन्म च |
ग्रीवादौर्बल्यवाक्सङ्गौ पालकेऽनुमताविह ||१३||
प्रसेकः कर्दमाख्येन विड्भेदो नेत्रपीतता |
वैराटकेनाङ्गदुःखं शिरोरोगश्च जायते ||१४||
गात्रस्तम्भो वेपथुश्च जायते मुस्तकेन तु |
शृङ्गीविषेणाङ्गसाददाहोदरविवृद्धयः ||१५||
पुण्डरीकेण रक्तत्वमक्ष्णोर्वृद्धिस्तथोदरे |
वैवर्ण्यं मूलकैश्छर्दिर्हिक्काशोफप्रमूढताः ||१६||
चिरेणोच्छ्वसिति श्यावो नरो हालाहलेन वै |
महाविषेण हृदये ग्रन्थिशूलोद्गमौ भृशम् ||१७||
कर्कटेनोत्पतत्यूर्ध्वं हसन् दन्तान् दशत्यपि |१८|

कन्दजानीत्यादि| तीक्ष्णानि तीक्ष्णविषाणि, अतः सद्यःप्राणहराणि| विस्तरमिति प्रत्येकं लक्षणं कथयामीति तात्पर्यार्थः| स्पर्शाज्ञानमित्यादि| अङ्गसादः अङ्गग्लानिः| पुण्डरीकेणेत्यादि| प्रमूढता प्रकर्षेणाचैतन्यम्| चिरेणोच्छ्वसितीत्यादि| हासं कुर्वन् पुरुषो दन्तान् खादति||११-१७||-

कन्दजान्युग्रवीर्याणि प्रत्युक्तानि त्रयोदश ||१८||
सर्वाणि कुशलैर्ज्ञेयान्येतानि दशभिर्गुणैः |१९|

मूलादिविषेभ्यः कन्दजानां धर्मान्तरेण विशेषं निर्दिशन्नाह- कन्दजानीत्यादि| उग्रवीर्याणि उत्कटशक्तीनि; गयी तु अग्रवीर्याणीति पठति, व्याख्यानयति च- अग्राणि उरूणि [१] वीर्याणि गुणविशेषा येषां तानि तथाविधानि| प्रत्युक्तानि प्रत्येकमुक्तानि||१८||-

रूक्षमुष्णं तथा तीक्ष्णं सूक्ष्ममाशुव्यवायि च ||१९||
विकाशि विशदं चैव लघ्वपाकि च तत् स्मृतम् |
तद्रौक्ष्यात् कोपयेद्वायुमौष्ण्यात् पित्तं सशोणितम् ||२०||
मतिं च मोहयेत्तैक्ष्ण्यान्मर्मबन्धान् छिनत्ति च |
शरीरावयवान् सौक्ष्म्यात् प्रविशेद्विकरोति च ||२१||
आशुत्वादाशु तद्धन्ति व्यवायात् प्रकृतिं भजेत् |
क्षपयेच्च विकाशित्वाद्दोषान्धातून्मलानपि ||२२||
वैशद्यादतिरिच्येत दुश्चिकित्स्यं च लाघवात् |
दुर्हरं चाविपाकित्वात्तस्मात् क्लेशयते चिरम् ||२३||

तान्येव दशगुणानि निर्दिशन्नाह- रूक्षमित्यादि| तीक्ष्णं राजिकामरिचादिवत्| सूक्ष्मं सूक्ष्ममार्गानुप्रवेशि| आशु शीघ्रं प्रहणनकारि| व्यवायी सकलं देहं व्याप्य पश्चात् पाकयायि| विकाशि प्रसर्पदपसर्पद्धातुबन्धशैथिल्यकारि| विशदम् अपिच्छिलम्| लघु लघुगुणयुक्तम्| अपाकीति आहारवदुदरानलेन पक्तुमशक्यम्| तेष्वपि दशसु गुणेषु मध्ये कुतो गुणात् किं करोतीत्याह- तद्रौक्ष्यादित्यादि| विकरोति शरीरावयवान् विकाराकारं नयतीत्यर्थः| व्यवायात् प्रकृतिं भजेदिति व्यवायात् अखिलदेहव्याप्तिलक्षणात्, प्रकृतिं स्वभावम् अखिलदेहव्याप्तिरूपं भजेत्| विकाशित्वादिति हिंसनशीलत्वात्; क्षपयेद् विनाशयेत्| कसधातुर्गत्यर्थोऽपि विपूर्वो हिंसार्थः| वैशद्यादतिरिच्येत न सज्जेत क्वचिदपि सक्तं न भवेदित्यर्थः| `असक्तगति वैशद्यात्’ इति केचित् पठन्ति, तत्रापि स एवार्थः| दुश्चिकित्स्यं च लाघवादिति इदं हि लघुत्वादुत्प्लुत्य मनो धावति अस्थिरं च भवति, तस्मात् संशमनभेषजाप्राप्त्या दुश्चिकित्स्यं भवति| संशमनेनासाध्यतां विषस्य निर्दिश्य संशोधनेनाप्याह- दुर्हरं चेति|- चकारो भिन्नक्रमे, न परं लाघवात् दुर्हरमपाकित्वाच्च; तस्मादेवापाकित्वाच्चिरं क्लेशयति परं यद्विषं द्वित्रिगुणमदशगुणं वा; पूर्वदशगुणं सद्यो व्यापादकमेव||१९-२३||

स्थावरं जङ्गमं यच्च कृत्रिमं चापि यद्विषम् |
सद्यो व्यापादयेत्तत्तु ज्ञेयं दशगुणान्वितम् ||२४||
यत् स्थावरं जङ्गमकृत्रिमं वा
देहादशेषं यदनिर्गतं तत् |२५|

कन्दजमेव दशगुणान्वितं न भवति किन्त्वन्यदपीति दर्शयन्नाह- स्थावरमित्यादि| स्थावरं जङ्गमं कृत्रिमं वा देहादशेषं यदनिर्हृतं सद्यो व्यापादयेत् तद्दशगुणान्वितं ज्ञेयम्| यद्यपि कन्दजानि परित्यज्यान्येषां गुणसामस्त्याभावेन कालघातित्वमुक्तं, तथाऽप्यमीषां मध्ये येषां दशगुणत्वं तान्याशुघातीनि भवन्ति||२४||-

जीर्णं विषघ्नौषधिभिर्हतं वा दावाग्निवातातपशोषितं वा ||२५||
स्वभावतो वा गुणविप्रहीनं विषं हि दूषीविषतामुपैति |
वीर्याल्पभावान्न निपातयेत्तत् कफावृतं वर्षगणानुबन्धि ||२६||

स्थावरमपि दशगुणमेतैः कारणैर्हतवीर्यं सत् सञ्ज्ञान्तरं लभते इत्याह- जीर्णमित्यादि| जीर्णादिभिर्हेतुभिर्गुणविप्रहीनं गुणैर्द्वित्र्यादिभिर्हीनं दशगुणमेवं वा मन्दशक्तिकं दूषीविषतां प्राप्नोति| तामेव गुणहीनतां कार्येण दर्शयन्नाह- वीर्याल्पेत्यादि| न निपातयेत् न मारयेत् सद्यश्चिरेण वा; मन्दीभूतोष्णादिगुणविशेषेण विलीनश्लेष्मणाऽऽवृतत्वान्न मारयेदित्यर्थः| वर्षगणानुबन्धि चिरकालानुबन्धीत्यर्थः||२५-२६||

तेनार्दितो भिन्नपुरीषवर्णो विगन्धवैरस्यमुखः पिपासी |
मूर्च्छन् वमन् गद्गदवाग्विषण्णो भवेच्च दुष्योदरलिङ्गजुष्टः ||२७||
आमाशयस्थे कफवातरोगी पक्वाशयस्थेऽनिलपित्तरोगी |
भवेन्नरो ध्वस्तशिरोरुहाङ्गो विलूनपक्षस्तु यथा विहङ्गः ||२८||
स्थितं रसादिष्वथवा यथोक्तान् करोति धातुप्रभवान् विकारान् |
कोपं च शीतानिलदुर्दिनेषु यात्याशु,… |३०|

तेन गरेण ये दोषा भवन्ति तान् दर्शयन्नाह- तेनार्दित इत्यादि| केचित् `वमन्’ इत्यत्र `भ्रमन्’ इति पठन्ति| गद्गदवाक्यः अस्पष्टवचनः| एतत् सर्वस्थानगतस्य सामान्यं लक्षणम्| स्थानविशेषेण विशिष्टं निर्दिशन्नाह- आमाशयस्थ इत्यादि| व्यस्तशिरोरुहाङ्गो व्यस्तकेशशरीरः| `भवेत् समुद्ध्वस्तशिरोरुहाङ्ग’ इति केचित्; तत्र सम्यक् उद्ध्वस्तशिरोरुहाण्यङ्गानि यस्य स तथा| यथोक्तान् व्याधिसमुद्देशीयोक्तान्| धातुप्रभवान् विकारान् अन्नाश्रद्धारोचकादीन् करोति||२७-२८||-

…पूर्वं शृणु तत्र रूपम् ||२९||
निद्रा गुरुत्वं च विजृम्भणं च विश्लेषहर्षावथवाऽङ्गमर्दः |३०|

निद्रेत्यादि| विश्लेषः सन्धीनां प्रसारणादावप्रवृत्तिः| हर्षो रोमहर्षः| अङ्गमर्दो वेदनाविशेषः||२९||-

ततः करोत्यन्नमदाविपाकावरोचकं मण्डलकोठमोहान् ||३०||
धातुक्षयं पादकरास्यशोफं दकोदरं छर्दिमथातिसारम् |
वैवर्ण्यमूर्च्छाविषमज्वरान् वा कुर्यात् प्रवृद्धां प्रबलां तृषां वा ||३१||
उन्मादमन्यज्जनयेत्तथाऽन्यदानाहमन्यत् क्षपयेच्च शुक्रम् |
गाद्गद्यमन्यज्जनयेच्च कुष्ठं तांस्तान् विकाराश्चं बहुप्रकारान् ||३२||

तत इत्यादि| ततः पूर्वरूपात् परतः| अन्नमदाविपाकाविति अन्नेन भुक्तेन मदो हर्षक्षयोऽन्नमदः, अविपाकः पाकाभावः| तांस्तान् विकारान् पूर्वोक्तान् आमाशये कफवातजान्, पक्वाशये पित्तानिलजान्, रसादिधातुगतांश्च विकारान् जनयेत्||३०-३२||

दूषितं देशकालान्नदिवास्वप्नैरभीक्ष्णशः |
यस्माद्दूषयते धातून् तस्माद्दूषीविषं स्मृतम् ||३३||

दूषीविषनिरुक्तिमुद्दिशन्नाह- दूषितमित्यादि| देश आनूपः प्रभूतानिलशीतवर्षः, कालः शीतानिलदुर्दिनादिः, अन्नं सुरातिलकुलत्थादि, अन्नस्योपलक्षणत्वाद् व्यवायव्यायामक्रोधादिभिरपीत्यर्थः| अभीक्ष्णशः पुनः पुनः||३३||

स्थावरस्योपयुक्तस्य वेगे तु प्रथमे नृणाम् |
श्यावा जिह्वा भवेत्स्तब्धा मूर्च्छा श्वासश्च जायते ||३४||
द्वितीये वेपथुः सादो दाहः कण्ठरुजस्तथा |
विषमामाशयप्राप्तं कुरुते हृदि वेदनाम् ||३५||
तालुशोषं तृतीये तु शूलं चामाशये भृशम् |
दुर्वर्णे हरिते शूने जायेते चास्य लोचने ||३६||
पक्वामाशययोस्तोदो हिक्का कासोऽन्त्रकूजनम् |
चतुर्थे जायते वेगे शिरसश्चातिगौरवम् ||३७||
कफप्रसेको वैवर्ण्यं पर्वभेदश्च पञ्चमे |
सर्वदोषप्रकोपश्च पक्वाधाने च वेदना ||३८||
षष्ठे प्रज्ञाप्रणाशश्च भृशं चाप्यतिसार्यते |
स्कन्धपृष्ठकटीभङ्गः सन्निरोधश्च सप्तमे ||३९||

स्थावरस्य प्रथमादिवेगलक्षणं दर्शयन्नाह- स्थावरस्योपयुक्तस्येत्यादि| सन्निरोधः सम्यङ्निरोधः, `उच्छ्वासस्य’ इति शेषः||३४-३९||

प्रथमे विषवेगे तु वान्तं शीताम्बुसेचितम् |
अगदं मधुसर्पिर्भ्यां पाययेत समायुतम् ||४०||
द्वितीये पूर्ववद्वान्तं पाययेत्तु विरेचनम् |
तृतीयेऽगदपानं तु हितं नस्यं तथाऽञ्जनम् ||४१||
चतुर्थे स्नेहसम्मिश्रं पाययेतागदं भिषक् |
पञ्चमे क्षौद्रमधुकक्वाथयुक्तं प्रदापयेत् ||४२||
षष्ठेऽतीसारवत् सिद्धिरवपीडश्च सप्तमे |
मूर्ध्नि काकपदं कृत्वा सासृग्वा पिशितं क्षिपेत् ||४३||

तेषामेव यथाक्रमं चिकित्सितमुद्दिशन्नाह- प्रथम इत्यादि| अगदं मधुसर्पिर्भ्यामित्यत्रान्यत्र चाविशेषेणागदश्रुत्या दूषीविषारिरेव प्रयोक्तव्यः| द्वितीय इत्यादि| तच्च विरेचनं घृतमधुशीतविषघ्नौषधिसम्पृक्तं; गयी तु वान्तं नरं विरेचनं पाययेत् पूर्ववत्, तेन मधुयुक्तमेवेति व्याख्यानयति| तृतीय इत्यादि| अगदोऽत्र दूषीविषारिर्मधुसर्पिर्युक्तो दातव्यः| नस्यं विषघ्नं सञ्ज्ञाप्रबोधनं च| अञ्जनमपि विषघ्नं चक्षुष्यं सञ्ज्ञाप्रबोधनं तथा अतीक्ष्णं [२] च| चतुर्थ इत्यादि| अगदोऽत्रापि दूषीविषारिः| स्नेहोऽत्र गव्यं घृतं, विषघ्नत्वात्तस्य; स्नेहग्रहणेन पूर्वप्रस्तुतं मधु निवर्तते| पञ्चम इत्यादि| अगदमिह दूषीविषारिनामाध्याहरणीयम्| षष्ठ इत्यादि| सप्तमे वेगेऽसाध्यरूपेऽपि प्रत्याख्याय प्रतिक्रियां कुर्यात्| चकारोऽयं भिन्नक्रमे, तेन सप्तमे चेति योजनात् षष्ठेऽप्यवपीडः| वाशब्दश्चानुक्तसमुच्चये, तेनानुक्तं सशोणितचर्मदानं शाखाललाटसिराताडनादिजङ्गमविषोक्तं च समुच्चीयते||४०-४३||

वेगान्तरे त्वन्यतमे कृते कर्मणि शीतलाम् |
यवागूं सघृतक्षौद्रामिमां दद्याद्विषापहाम् ||४४||
कोषातक्योऽग्निकः पाठासूर्यवल्ल्यमृताभयाः |
शिरीषः किणिही शेलुर्गिर्याह्वा रजनीद्वयम् ||४५||
पुनर्नवे हरेणुश्च त्रिकटुः सारिवे बला |
एषां यवागूर्निष्क्वाथे कृता हन्ति विषद्वयम् ||४६||

इदानीं वेगान्तरेषु कालघातिनः प्रतीकारविधिमाह- वेगान्तर इत्यादि| प्रकृताद्वेगादन्यो वेगो वेगान्तरम्| अन्यतमे एकतमे| कृते कर्मणि प्रथमादिवेगेषूक्ते इत्यर्थः| कोशातक्य इत्यादि| कोशातकी घोषकः; अग्निकः अजमोदः, `मोरट’ इत्यन्ये; सूर्यवल्ली पटोलसदृशपत्रा, यस्याः पत्ररसेनाक्तं मांसं स्विन्नमिव भवति, अन्ये सूर्यावर्तमाहुः; किणिही कटभी, शेलुः श्लेष्मातकः, गिर्याह्वा श्वेतस्यन्दः, पुनर्नवे सितपीतपुष्पे, कोशातक्यादीनां क्वाथेन षडङ्गकल्पनाकल्पितेन यवागूः कल्पनीया| `सारिवे बला’ इत्यत्र `सारिवोत्पले’ इत्यन्ये पठन्ति||४४-४६||

मधुकं तगरं कुष्ठं भद्रदारु हरेणवः |
पुन्नागैलैलवालूनि नागपुष्पोत्पलं सिता ||४७||
विडङ्गं चन्दनं पत्रं प्रियङ्गुर्ध्यामकं तथा |
हरिद्रे द्वे बृहत्यौ च सारिवे च स्थिरा सहा ||४८||
कल्कैरेषां घृतं सिद्धमजेयमिति विश्रुतम् |
विषाणि हन्ति सर्वाणि शीघ्रमेवाजितं क्वचित् ||४९||

मधुकमित्यादि| पुन्नागः तुङ्गः पूर्वदेशे प्रसिद्धः; एलवालुकं स्वनामप्रसिद्धं; नागपुष्पं नागकेशरं; ध्यामकं कत्तृणं; स्थिरा शालपर्णी| मधुकादीनां कल्कं पादिकं, चतुर्गुणं जलं दत्त्वा घृतं साधयेत्, तस्याजेयमिति सञ्ज्ञा| सर्वाणि स्थावरजङ्गमकृत्रिमाणि| अजितं क्वचिन्न जितमजितं; क्वचित् कस्मिन्नपि स्थावरादावित्यर्थः||४७-४९||

दूषीविषार्तं सुस्विन्नमूर्ध्वं चाधश्च शोधितम् |
पाययेतागदं नित्यमिमं दूषीविषापहम् ||५०||
पिप्पल्यो ध्यामकं मांसी शावरः परिपेलवम् |
सुवर्चिका ससूक्ष्मैला तोयं कनकगैरिकम् ||५१||
क्षौद्रयुक्तोऽगदो ह्येष दूषीविषमपोहति |
नाम्ना दूषीविषारिस्तु न चान्यत्रापि वार्यते ||५२||

धातुदूषकस्य दूषीविषस्य चिकित्सां वक्तुमाह- दूषीविषार्तमित्यादि| दूषीविषस्य विषत्वेऽपि स्वेदो न निषिध्यते; येन मन्दवीर्यतया कफावरणाद्विषवेगेनानुबन्धित्वमस्य [३] , अतः स्वेदेन कफस्यावरकस्योपशान्तावपहार्यं [४] विषं कोष्ठगतं शोधनेन सकलमेव ह्रियते| अन्ये `दूषीविषार्तं सुस्निग्धं’ इति पठन्ति; तेषामपि स्निग्धश्रुत्या स्वेदोऽप्याक्षिप्तः| कथञ्चिदेवानिर्हृतस्य विषावशेषस्य संशमनार्थमन्यत्रापि स्थावरजङ्गमविषदूषितधातूनां वा प्रसादनार्थं संशमनमुद्दिशन्नाह- पाययेतेत्यादि| ध्यामकं कत्तृणं; शावरो रोध्रः; परिपेलवं वन्यकः, कैवर्तमुस्तकमन्ये; तोयं बालकं; सुवर्णगैरिकं दक्षिणापथे प्रसिद्धम्| अन्यत्रापि स्थावरजङ्गमयोस्तीक्ष्णयोरपीत्यर्थः; अन्येषु वक्ष्यमाणेषु ज्वरादिष्वपीत्यन्ये||५०-५२||

ज्वरे दाहे च हिक्कायामानाहे शुक्रसङ्क्षये |
शोफेऽतिसारे मूर्च्छायां हृद्रोगे जठरेऽपि च ||५३||
उन्मादे वेपथौ चैव ये चान्ये स्युरुपद्रवाः |
यथास्वं तेषु कुर्वीत विषघ्नैरौषधैः क्रियाम् ||५४||

दूषीविषेण ये उपद्रवाः स्युस्तच्चिकित्सितमाह- ज्वर इत्यादि| ये चान्ये उपद्रवास्तज्जाः| यथास्वं यद्यस्य विहितं तदित्यर्थः| तच्च विषघ्नैरोषधैर्युक्तं कर्तव्यम्||५३-५४||

साध्यमात्मवतः सद्यो याप्यं संवत्सरोत्थितम् |
दूषीविषमसाध्यं तु क्षीणस्याहितसेविनः ||५५||

इदानीं साध्ययाप्यप्रत्याख्येयत्वं दर्शयन्नाह- साध्यमित्यादि||५५||

इति सुश्रुतसंहितायां कल्पस्थाने स्थावरविषविज्ञानीयो नाम द्वितीयोऽध्यायः ||२||

इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां कल्पस्थाने द्वितीयोऽध्यायः||२||

१. `भूरीणि’ इति पा.|
२. `अभीक्ष्णं’ इति पा.|
३. `कफावरणाद्वर्षगणानुबन्धित्वमस्य’ इति पा.|
४. `पित्तदूषितधातूनां वा प्रसादनार्थं’ इति पा.|

Moolashloka with Dalhana & Gayadas Commentary

Pathantara/Pathabheda

१. `भूरीणि’ इति पा.|
२. `अभीक्ष्णं’ इति पा.|
३. `कफावरणाद्वर्षगणानुबन्धित्वमस्य’ इति पा.|
४. `पित्तदूषितधातूनां वा प्रसादनार्थं’ इति पा.|

Diacritic Version

kāśirājadhanvantariṇōpadiṣṭā tacchiṣyasuśrutēna viracitā

Suśrutasaṁhitā

śrīḍalhaṇācāryaviracitayā nibandhasaṅgrahākhyavyākhyayā nidānasthānasya śrīgayadāsācāryaviracitayā nyāyacandrikākhyapañjikāvyākhyayā ca samullasitā

kalpasthānam - 2. sthāvaraviṣavijñānīyakalpaḥ

athātaḥ sthāvaraviṣavijñānīyamadhyāyaṁ vyākhyāsyāmaḥ ||1||
yathōvāca bhagavān dhanvantariḥ ||2||

annē pānē ca prāyēṇa sthāvaraviṣāvacāraṇāttadvijñānīyārambhō yujyata ityāha- athāta ityādi||1-2||

sthāvaraṁ jaṅgamaṁ caiva dvividhaṁ viṣamucyatē |
daśādhiṣṭhānamādyaṁ tu dvitīyaṁ ṣōḍaśāśrayam ||3||

tatra viṣasya cikitsāviśēṣārthaṁ svarūpabhēdēnāśrayabhēdēna ca dvaividhyaṁ pratipādayati- sthāvaramityādi| ādyaṁ prathamam; ‘adanīyam ādyaṁ’ ityanyē, tannēcchati gayī||3||

mūlaṁ patraṁ phalaṁ puṣpaṁ tvak kṣīraṁ sāra ēva ca |
niryāsō dhātavaścaiva kandaśca daśamaḥ smr̥taḥ ||4||

tānyēva sthāvarasya daśādhiṣṭhānāni nirdiśannāha- mūlamityādi||4||

tatra, klītakāśvamāraguñjāsugandhagargarakakaraghāṭavidyucchikhāvijayānītyaṣṭau mūlaviṣāṇi; viṣapatrikālambāvaradārukarambhamahākarambhāṇi pañca patraviṣāṇi; kumudvatīvēṇukākarambhamahākarambhakarkōṭakarēṇukakhadyōtakacarmarībhagandhāsarpaghātinandanasārapākānīti dvādaśa phalaviṣāṇi; vētrakādambavallījakarambhamahākarambhāṇi pañca puṣpaviṣāṇi; antrapācakakartarīyasaurīyakakaraghāṭakarambhanandananārācakāni sapta tvaksāraniryāsaviṣāṇi; kumudaghnīsnuhījālakṣīrīṇi trīṇi kṣīraviṣāṇi; phēnāśma(bhasma) haritālaṁ ca dvē dhātuviṣē; kālakūṭavatsanābhasarṣapapālakakardamakavairāṭakamustakaśr̥ṅgīviṣaprapuṇḍarīkamūlakahālāhalamahāviṣakarkaṭakānīti trayōdaśa kandaviṣāṇi; ityēvaṁ pañcapañcāśat sthāvaraviṣāṇi bhavanti ||5||

gayī tu gargarakasthānē `anantā’ iti paṭhati| viṣapatrikētyādi| gayī tu nārācasthānē vallījaṁ paṭhati| kumudvatītyādi| gayī tu pālakasthānē balāhamiti paṭhati| mūlādiviṣāṇāṁ yatnaparairapi jñātumaśakyatvāttāni himavatpradēśē kirātaśabarādibhyō jñēyāni||5||

catvāri vatsanābhāni mustakē dvē prakīrtitē |
ṣaṭ caiva sarṣapāṇyāhuḥ śēṣāṇyēkaikamēva tu ||6||

tēṣāṁ kandaviṣāṇāmavāntarabhēdān darśayannāha- catvārītyādi||6||

udvēṣṭanaṁ mūlaviṣaiḥ pralāpō mōha ēva ca |
jr̥mbhāṅgōdvēṣṭanaśvāsā jñēyāḥ patraviṣēṇa tu ||7||
muṣkaśōphaḥ phalaviṣairdāhō’nnadvēṣa ēva ca |
bhavēt puṣpaviṣaiśchardirādhmānaṁ mōha ēva ca ||8||
tvaksāraniryāsaviṣairupayuktairbhavanti hi |
āsyadaurgandhyapāruṣyaśirōrukkaphasaṁsravāḥ ||9||
phēnāgamaḥ kṣīraviṣairviḍbhēdō gurujihvatā |
hr̥tpīḍanaṁ dhātuviṣairmūrcchā dāhaśca tāluni ||10||
prāyēṇa kālaghātīni viṣāṇyētāni nirdiśēt |11|

tatra navānāṁ mūlādyadhiṣṭhānānāṁ samāsēna cikitsārthaṁ sāmānyaṁ lakṣaṇaṁ nirdiśannāha- udvēṣṭanamityādi| udvēṣṭanam aṅgamōṭanam| jr̥mbhāṅgōdvēṣṭanētyādi| udvēṣṭanaṁ pūrvaṁ vyākhyātam| muṣkaśōpha ityādi| ēṣāṁ navānāṁ sāmānyaṁ dharmamuddiśannāha- prāyēṇētyādi| upayōgadivasādanyō divasapakṣamāsādiḥ kālaḥ, tēṣu ghnantītyēvaṁśīlāni kālaghātīni||7-10||-

kandajāni tu tīkṣṇāni tēṣāṁ vakṣyāmi vistaram ||11||
sparśājñānaṁ kālakūṭē vēpathuḥ stambha ēva ca |
grīvāstambhō vatsanābhē pītaviṇmūtranētratā ||12||
sarṣapē vātavaiguṇyamānāhō granthijanma ca |
grīvādaurbalyavāksaṅgau pālakē’numatāviha ||13||
prasēkaḥ kardamākhyēna viḍbhēdō nētrapītatā |
vairāṭakēnāṅgaduḥkhaṁ śirōrōgaśca jāyatē ||14||
gātrastambhō vēpathuśca jāyatē mustakēna tu |
śr̥ṅgīviṣēṇāṅgasādadāhōdaravivr̥ddhayaḥ ||15||
puṇḍarīkēṇa raktatvamakṣṇōrvr̥ddhistathōdarē |
vaivarṇyaṁ mūlakaiśchardirhikkāśōphapramūḍhatāḥ ||16||
cirēṇōcchvasiti śyāvō narō hālāhalēna vai |
mahāviṣēṇa hr̥dayē granthiśūlōdgamau bhr̥śam ||17||
karkaṭēnōtpatatyūrdhvaṁ hasan dantān daśatyapi |18|

kandajānītyādi| tīkṣṇāni tīkṣṇaviṣāṇi, ataḥ sadyaḥprāṇaharāṇi| vistaramiti pratyēkaṁ lakṣaṇaṁ kathayāmīti tātparyārthaḥ| sparśājñānamityādi| aṅgasādaḥ aṅgaglāniḥ| puṇḍarīkēṇētyādi| pramūḍhatā prakarṣēṇācaitanyam| cirēṇōcchvasitītyādi| hāsaṁ kurvan puruṣō dantān khādati||11-17||-

kandajānyugravīryāṇi pratyuktāni trayōdaśa ||18||
sarvāṇi kuśalairjñēyānyētāni daśabhirguṇaiḥ |19|

mūlādiviṣēbhyaḥ kandajānāṁ dharmāntarēṇa viśēṣaṁ nirdiśannāha- kandajānītyādi| ugravīryāṇi utkaṭaśaktīni; gayī tu agravīryāṇīti paṭhati, vyākhyānayati ca- agrāṇi urūṇi [1] vīryāṇi guṇaviśēṣā yēṣāṁ tāni tathāvidhāni| pratyuktāni pratyēkamuktāni||18||-

rūkṣamuṣṇaṁ tathā tīkṣṇaṁ sūkṣmamāśuvyavāyi ca ||19||
vikāśi viśadaṁ caiva laghvapāki ca tat smr̥tam |
tadraukṣyāt kōpayēdvāyumauṣṇyāt pittaṁ saśōṇitam ||20||
matiṁ ca mōhayēttaikṣṇyānmarmabandhān chinatti ca |
śarīrāvayavān saukṣmyāt praviśēdvikarōti ca ||21||
āśutvādāśu taddhanti vyavāyāt prakr̥tiṁ bhajēt |
kṣapayēcca vikāśitvāddōṣāndhātūnmalānapi ||22||
vaiśadyādatiricyēta duścikitsyaṁ ca lāghavāt |
durharaṁ cāvipākitvāttasmāt klēśayatē ciram ||23||

tānyēva daśaguṇāni nirdiśannāha- rūkṣamityādi| tīkṣṇaṁ rājikāmaricādivat| sūkṣmaṁ sūkṣmamārgānupravēśi| āśu śīghraṁ prahaṇanakāri| vyavāyī sakalaṁ dēhaṁ vyāpya paścāt pākayāyi| vikāśi prasarpadapasarpaddhātubandhaśaithilyakāri| viśadam apicchilam| laghu laghuguṇayuktam| apākīti āhāravadudarānalēna paktumaśakyam| tēṣvapi daśasu guṇēṣu madhyē kutō guṇāt kiṁ karōtītyāha- tadraukṣyādityādi| vikarōti śarīrāvayavān vikārākāraṁ nayatītyarthaḥ| vyavāyāt prakr̥tiṁ bhajēditi vyavāyāt akhiladēhavyāptilakṣaṇāt, prakr̥tiṁ svabhāvam akhiladēhavyāptirūpaṁ bhajēt| vikāśitvāditi hiṁsanaśīlatvāt; kṣapayēd vināśayēt| kasadhāturgatyarthō’pi vipūrvō hiṁsārthaḥ| vaiśadyādatiricyēta na sajjēta kvacidapi saktaṁ na bhavēdityarthaḥ| `asaktagati vaiśadyāt’ iti kēcit paṭhanti, tatrāpi sa ēvārthaḥ| duścikitsyaṁ ca lāghavāditi idaṁ hi laghutvādutplutya manō dhāvati asthiraṁ ca bhavati, tasmāt saṁśamanabhēṣajāprāptyā duścikitsyaṁ bhavati| saṁśamanēnāsādhyatāṁ viṣasya nirdiśya saṁśōdhanēnāpyāha- durharaṁ cēti|- cakārō bhinnakramē, na paraṁ lāghavāt durharamapākitvācca; tasmādēvāpākitvācciraṁ klēśayati paraṁ yadviṣaṁ dvitriguṇamadaśaguṇaṁ vā; pūrvadaśaguṇaṁ sadyō vyāpādakamēva||19-23||

sthāvaraṁ jaṅgamaṁ yacca kr̥trimaṁ cāpi yadviṣam |
sadyō vyāpādayēttattu jñēyaṁ daśaguṇānvitam ||24||
yat sthāvaraṁ jaṅgamakr̥trimaṁ vā
dēhādaśēṣaṁ yadanirgataṁ tat |25|

kandajamēva daśaguṇānvitaṁ na bhavati kintvanyadapīti darśayannāha- sthāvaramityādi| sthāvaraṁ jaṅgamaṁ kr̥trimaṁ vā dēhādaśēṣaṁ yadanirhr̥taṁ sadyō vyāpādayēt taddaśaguṇānvitaṁ jñēyam| yadyapi kandajāni parityajyānyēṣāṁ guṇasāmastyābhāvēna kālaghātitvamuktaṁ, tathā’pyamīṣāṁ madhyē yēṣāṁ daśaguṇatvaṁ tānyāśughātīni bhavanti||24||-

jīrṇaṁ viṣaghnauṣadhibhirhataṁ vā dāvāgnivātātapaśōṣitaṁ vā ||25||
svabhāvatō vā guṇaviprahīnaṁ viṣaṁ hi dūṣīviṣatāmupaiti |
vīryālpabhāvānna nipātayēttat kaphāvr̥taṁ varṣagaṇānubandhi ||26||

sthāvaramapi daśaguṇamētaiḥ kāraṇairhatavīryaṁ sat sañjñāntaraṁ labhatē ityāha- jīrṇamityādi| jīrṇādibhirhētubhirguṇaviprahīnaṁ guṇairdvitryādibhirhīnaṁ daśaguṇamēvaṁ vā mandaśaktikaṁ dūṣīviṣatāṁ prāpnōti| tāmēva guṇahīnatāṁ kāryēṇa darśayannāha- vīryālpētyādi| na nipātayēt na mārayēt sadyaścirēṇa vā; mandībhūtōṣṇādiguṇaviśēṣēṇa vilīnaślēṣmaṇā”vr̥tatvānna mārayēdityarthaḥ| varṣagaṇānubandhi cirakālānubandhītyarthaḥ||25-26||

tēnārditō bhinnapurīṣavarṇō vigandhavairasyamukhaḥ pipāsī |
mūrcchan vaman gadgadavāgviṣaṇṇō bhavēcca duṣyōdaraliṅgajuṣṭaḥ ||27||
āmāśayasthē kaphavātarōgī pakvāśayasthē’nilapittarōgī |
bhavēnnarō dhvastaśirōruhāṅgō vilūnapakṣastu yathā vihaṅgaḥ ||28||
sthitaṁ rasādiṣvathavā yathōktān karōti dhātuprabhavān vikārān |
kōpaṁ ca śītāniladurdinēṣu yātyāśu,… |30|

tēna garēṇa yē dōṣā bhavanti tān darśayannāha- tēnārdita ityādi| kēcit `vaman’ ityatra `bhraman’ iti paṭhanti| gadgadavākyaḥ aspaṣṭavacanaḥ| ētat sarvasthānagatasya sāmānyaṁ lakṣaṇam| sthānaviśēṣēṇa viśiṣṭaṁ nirdiśannāha- āmāśayastha ityādi| vyastaśirōruhāṅgō vyastakēśaśarīraḥ| `bhavēt samuddhvastaśirōruhāṅga’ iti kēcit; tatra samyak uddhvastaśirōruhāṇyaṅgāni yasya sa tathā| yathōktān vyādhisamuddēśīyōktān| dhātuprabhavān vikārān annāśraddhārōcakādīn karōti||27-28||-

…pūrvaṁ śr̥ṇu tatra rūpam ||29||
nidrā gurutvaṁ ca vijr̥mbhaṇaṁ ca viślēṣaharṣāvathavā’ṅgamardaḥ |30|

nidrētyādi| viślēṣaḥ sandhīnāṁ prasāraṇādāvapravr̥ttiḥ| harṣō rōmaharṣaḥ| aṅgamardō vēdanāviśēṣaḥ||29||-

tataḥ karōtyannamadāvipākāvarōcakaṁ maṇḍalakōṭhamōhān ||30||
dhātukṣayaṁ pādakarāsyaśōphaṁ dakōdaraṁ chardimathātisāram |
vaivarṇyamūrcchāviṣamajvarān vā kuryāt pravr̥ddhāṁ prabalāṁ tr̥ṣāṁ vā ||31||
unmādamanyajjanayēttathā’nyadānāhamanyat kṣapayēcca śukram |
gādgadyamanyajjanayēcca kuṣṭhaṁ tāṁstān vikārāścaṁ bahuprakārān ||32||

tata ityādi| tataḥ pūrvarūpāt parataḥ| annamadāvipākāviti annēna bhuktēna madō harṣakṣayō’nnamadaḥ, avipākaḥ pākābhāvaḥ| tāṁstān vikārān pūrvōktān āmāśayē kaphavātajān, pakvāśayē pittānilajān, rasādidhātugatāṁśca vikārān janayēt||30-32||

dūṣitaṁ dēśakālānnadivāsvapnairabhīkṣṇaśaḥ |
yasmāddūṣayatē dhātūn tasmāddūṣīviṣaṁ smr̥tam ||33||

dūṣīviṣaniruktimuddiśannāha- dūṣitamityādi| dēśa ānūpaḥ prabhūtānilaśītavarṣaḥ, kālaḥ śītāniladurdinādiḥ, annaṁ surātilakulatthādi, annasyōpalakṣaṇatvād vyavāyavyāyāmakrōdhādibhirapītyarthaḥ| abhīkṣṇaśaḥ punaḥ punaḥ||33||

sthāvarasyōpayuktasya vēgē tu prathamē nr̥ṇām |
śyāvā jihvā bhavētstabdhā mūrcchā śvāsaśca jāyatē ||34||
dvitīyē vēpathuḥ sādō dāhaḥ kaṇṭharujastathā |
viṣamāmāśayaprāptaṁ kurutē hr̥di vēdanām ||35||
tāluśōṣaṁ tr̥tīyē tu śūlaṁ cāmāśayē bhr̥śam |
durvarṇē haritē śūnē jāyētē cāsya lōcanē ||36||
pakvāmāśayayōstōdō hikkā kāsō’ntrakūjanam |
caturthē jāyatē vēgē śirasaścātigauravam ||37||
kaphaprasēkō vaivarṇyaṁ parvabhēdaśca pañcamē |
sarvadōṣaprakōpaśca pakvādhānē ca vēdanā ||38||
ṣaṣṭhē prajñāpraṇāśaśca bhr̥śaṁ cāpyatisāryatē |
skandhapr̥ṣṭhakaṭībhaṅgaḥ sannirōdhaśca saptamē ||39||

sthāvarasya prathamādivēgalakṣaṇaṁ darśayannāha- sthāvarasyōpayuktasyētyādi| sannirōdhaḥ samyaṅnirōdhaḥ, `ucchvāsasya’ iti śēṣaḥ||34-39||

prathamē viṣavēgē tu vāntaṁ śītāmbusēcitam |
agadaṁ madhusarpirbhyāṁ pāyayēta samāyutam ||40||
dvitīyē pūrvavadvāntaṁ pāyayēttu virēcanam |
tr̥tīyē’gadapānaṁ tu hitaṁ nasyaṁ tathā’ñjanam ||41||
caturthē snēhasammiśraṁ pāyayētāgadaṁ bhiṣak |
pañcamē kṣaudramadhukakvāthayuktaṁ pradāpayēt ||42||
ṣaṣṭhē’tīsāravat siddhiravapīḍaśca saptamē |
mūrdhni kākapadaṁ kr̥tvā sāsr̥gvā piśitaṁ kṣipēt ||43||

tēṣāmēva yathākramaṁ cikitsitamuddiśannāha- prathama ityādi| agadaṁ madhusarpirbhyāmityatrānyatra cāviśēṣēṇāgadaśrutyā dūṣīviṣārirēva prayōktavyaḥ| dvitīya ityādi| tacca virēcanaṁ ghr̥tamadhuśītaviṣaghnauṣadhisampr̥ktaṁ; gayī tu vāntaṁ naraṁ virēcanaṁ pāyayēt pūrvavat, tēna madhuyuktamēvēti vyākhyānayati| tr̥tīya ityādi| agadō’tra dūṣīviṣārirmadhusarpiryuktō dātavyaḥ| nasyaṁ viṣaghnaṁ sañjñāprabōdhanaṁ ca| añjanamapi viṣaghnaṁ cakṣuṣyaṁ sañjñāprabōdhanaṁ tathā atīkṣṇaṁ [2] ca| caturtha ityādi| agadō’trāpi dūṣīviṣāriḥ| snēhō’tra gavyaṁ ghr̥taṁ, viṣaghnatvāttasya; snēhagrahaṇēna pūrvaprastutaṁ madhu nivartatē| pañcama ityādi| agadamiha dūṣīviṣārināmādhyāharaṇīyam| ṣaṣṭha ityādi| saptamē vēgē’sādhyarūpē’pi pratyākhyāya pratikriyāṁ kuryāt| cakārō’yaṁ bhinnakramē, tēna saptamē cēti yōjanāt ṣaṣṭhē’pyavapīḍaḥ| vāśabdaścānuktasamuccayē, tēnānuktaṁ saśōṇitacarmadānaṁ śākhālalāṭasirātāḍanādijaṅgamaviṣōktaṁ ca samuccīyatē||40-43||

vēgāntarē tvanyatamē kr̥tē karmaṇi śītalām |
yavāgūṁ saghr̥takṣaudrāmimāṁ dadyādviṣāpahām ||44||
kōṣātakyō’gnikaḥ pāṭhāsūryavallyamr̥tābhayāḥ |
śirīṣaḥ kiṇihī śēlurgiryāhvā rajanīdvayam ||45||
punarnavē harēṇuśca trikaṭuḥ sārivē balā |
ēṣāṁ yavāgūrniṣkvāthē kr̥tā hanti viṣadvayam ||46||

idānīṁ vēgāntarēṣu kālaghātinaḥ pratīkāravidhimāha- vēgāntara ityādi| prakr̥tādvēgādanyō vēgō vēgāntaram| anyatamē ēkatamē| kr̥tē karmaṇi prathamādivēgēṣūktē ityarthaḥ| kōśātakya ityādi| kōśātakī ghōṣakaḥ; agnikaḥ ajamōdaḥ, `mōraṭa’ ityanyē; sūryavallī paṭōlasadr̥śapatrā, yasyāḥ patrarasēnāktaṁ māṁsaṁ svinnamiva bhavati, anyē sūryāvartamāhuḥ; kiṇihī kaṭabhī, śēluḥ ślēṣmātakaḥ, giryāhvā śvētasyandaḥ, punarnavē sitapītapuṣpē, kōśātakyādīnāṁ kvāthēna ṣaḍaṅgakalpanākalpitēna yavāgūḥ kalpanīyā| `sārivē balā’ ityatra `sārivōtpalē’ ityanyē paṭhanti||44-46||

madhukaṁ tagaraṁ kuṣṭhaṁ bhadradāru harēṇavaḥ |
punnāgailailavālūni nāgapuṣpōtpalaṁ sitā ||47||
viḍaṅgaṁ candanaṁ patraṁ priyaṅgurdhyāmakaṁ tathā |
haridrē dvē br̥hatyau ca sārivē ca sthirā sahā ||48||
kalkairēṣāṁ ghr̥taṁ siddhamajēyamiti viśrutam |
viṣāṇi hanti sarvāṇi śīghramēvājitaṁ kvacit ||49||

madhukamityādi| punnāgaḥ tuṅgaḥ pūrvadēśē prasiddhaḥ; ēlavālukaṁ svanāmaprasiddhaṁ; nāgapuṣpaṁ nāgakēśaraṁ; dhyāmakaṁ kattr̥ṇaṁ; sthirā śālaparṇī| madhukādīnāṁ kalkaṁ pādikaṁ, caturguṇaṁ jalaṁ dattvā ghr̥taṁ sādhayēt, tasyājēyamiti sañjñā| sarvāṇi sthāvarajaṅgamakr̥trimāṇi| ajitaṁ kvacinna jitamajitaṁ; kvacit kasminnapi sthāvarādāvityarthaḥ||47-49||

dūṣīviṣārtaṁ susvinnamūrdhvaṁ cādhaśca śōdhitam |
pāyayētāgadaṁ nityamimaṁ dūṣīviṣāpaham ||50||
pippalyō dhyāmakaṁ māṁsī śāvaraḥ paripēlavam |
suvarcikā sasūkṣmailā tōyaṁ kanakagairikam ||51||
kṣaudrayuktō’gadō hyēṣa dūṣīviṣamapōhati |
nāmnā dūṣīviṣāristu na cānyatrāpi vāryatē ||52||

dhātudūṣakasya dūṣīviṣasya cikitsāṁ vaktumāha- dūṣīviṣārtamityādi| dūṣīviṣasya viṣatvē’pi svēdō na niṣidhyatē; yēna mandavīryatayā kaphāvaraṇādviṣavēgēnānubandhitvamasya [3] , ataḥ svēdēna kaphasyāvarakasyōpaśāntāvapahāryaṁ [4] viṣaṁ kōṣṭhagataṁ śōdhanēna sakalamēva hriyatē| anyē `dūṣīviṣārtaṁ susnigdhaṁ’ iti paṭhanti; tēṣāmapi snigdhaśrutyā svēdō’pyākṣiptaḥ| kathañcidēvānirhr̥tasya viṣāvaśēṣasya saṁśamanārthamanyatrāpi sthāvarajaṅgamaviṣadūṣitadhātūnāṁ vā prasādanārthaṁ saṁśamanamuddiśannāha- pāyayētētyādi| dhyāmakaṁ kattr̥ṇaṁ; śāvarō rōdhraḥ; paripēlavaṁ vanyakaḥ, kaivartamustakamanyē; tōyaṁ bālakaṁ; suvarṇagairikaṁ dakṣiṇāpathē prasiddham| anyatrāpi sthāvarajaṅgamayōstīkṣṇayōrapītyarthaḥ; anyēṣu vakṣyamāṇēṣu jvarādiṣvapītyanyē||50-52||

jvarē dāhē ca hikkāyāmānāhē śukrasaṅkṣayē |
śōphē’tisārē mūrcchāyāṁ hr̥drōgē jaṭharē’pi ca ||53||
unmādē vēpathau caiva yē cānyē syurupadravāḥ |
yathāsvaṁ tēṣu kurvīta viṣaghnairauṣadhaiḥ kriyām ||54||

dūṣīviṣēṇa yē upadravāḥ syustaccikitsitamāha- jvara ityādi| yē cānyē upadravāstajjāḥ| yathāsvaṁ yadyasya vihitaṁ tadityarthaḥ| tacca viṣaghnairōṣadhairyuktaṁ kartavyam||53-54||

sādhyamātmavataḥ sadyō yāpyaṁ saṁvatsarōtthitam |
dūṣīviṣamasādhyaṁ tu kṣīṇasyāhitasēvinaḥ ||55||

idānīṁ sādhyayāpyapratyākhyēyatvaṁ darśayannāha- sādhyamityādi||55||

iti suśrutasaṁhitāyāṁ kalpasthānē sthāvaraviṣavijñānīyō nāma dvitīyō’dhyāyaḥ ||2||

iti śrīḍalha(hla)ṇaviracitāyāṁ nibandhasaṅgrahākhyāyāṁ suśrutavyākhyāyāṁ kalpasthānē dvitīyō’dhyāyaḥ||2||

1. `bhūrīṇi’ iti pā.|
2. `abhīkṣṇaṁ’ iti pā.|
3. `kaphāvaraṇādvarṣagaṇānubandhitvamasya’ iti pā.|
4. `pittadūṣitadhātūnāṁ vā prasādanārthaṁ’ iti pā.|

Scroll to Top