Suśrutasaṁhitā Sharirasthāna Adhyāya 06 – Pratyekamarmanirdesha

eSamhita: A Scholarly Digital Initiative of Ayurveda360

Table of Contents

Devanagari Version

काशिराजधन्वन्तरिणोपदिष्टा तच्छिष्यसुश्रुतेन विरचिता

सुश्रुतसंहिता

श्रीडल्हणाचार्यविरचितया निबन्धसङ्ग्रहाख्यव्याख्यया निदानस्थानस्य श्रीगयदासाचार्यविरचितया न्यायचन्द्रिकाख्यपञ्जिकाव्याख्यया च समुल्लसिता

शारीरस्थानम् - ६. प्रत्येकमर्मनिर्देशशारीरम्

Only Moolashloka

अथातः प्रत्येकमर्मनिर्देशं शारीरं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||

शरीरसङ्ख्याव्याकरणे हि मांससिरादिव्याकरणमभिहितं, मर्माणि च मांससिरादिसंश्रितानि, अतस्तदनन्तरं मर्मणां निर्देशो युज्यत इत्याह- अथात इत्यादि| प्रत्येकशब्दादग्रे मांसादिशब्दो लुप्तो द्रष्टव्यः, तेन प्रत्येकं मांसादिमर्मणां निर्देशो विवरणं यस्मिन् तं तथा||१-२||

सप्तोत्तरं मर्मशतम् |
तानि मर्माणि पञ्चात्मकानि भवन्ति; तद्यथा- मांसमर्माणि, सिरामर्माणि, स्नायुमर्माणि, अस्थिमर्माणि, सन्धिमर्माणि चेति |
न खलु मांससिरास्नाय्वस्थिसन्धिव्यतिरेकेणान्यानि मर्माणि भवन्ति, यस्मान्नोपलभ्यन्ते ||३||

तेषां सङ्ख्यामाह- सप्तोत्तरमित्यादि| पञ्चात्मकानि पञ्चप्रकाराणि| तान्येव पञ्चप्रकाराण्याह- तद्यथेत्यादि| ननु, कथं मांसादीनि पञ्चैव मर्माणि नाधिकानीति दर्शयन्नाह- न खल्वित्यादि| ननु, स्रोतःप्रभृतीनामपि मारणात्मकत्वान्मर्मत्वमस्त्येव, तत् कथं मांसादिव्यतिरेकेणान्यानि मर्माणि नोपलभ्यन्त इत्युक्तम्? उच्यते- मारयन्तीति मर्माण्युच्यन्ते, स्रोतसि च क्षतेऽपि नावश्यतया मरणं; यतो वक्ष्यति- “स्रोतोविद्धं तु प्रत्याख्यायोपचरेत्” (शा.९) इति| यद्येवं तर्हि रुक्करवैकल्यकरणाममारणात्मकत्वान्मर्मत्वं न स्यादिति चेत्? तन्न, रुक्करवैकल्यकरेष्वप्यग्नीषोमादिप्राणानां मध्ये कस्यचित् प्राणस्य हानेः; अथवा स्रोतःप्रभृतीनि मांसादीन्यव्यतिरिच्य वर्तन्ते, यतो मांसादिष्वेव स्रोतःप्रभृतीनि सन्ति, तस्मान्मांसादीनि पञ्चैव मर्माणीति||३||

तत्रैकादश मांसमर्माणि, एकचत्वारिंशत् सिरामर्माणि, सप्तविंशतिः स्नायुमर्माणि, अष्टावस्थिमर्माणि, विंशतिः सन्धिमर्माणि चेति |
तदेतत् सप्तोत्तरं मर्मशतम् ||४||

इदानीं मांसादिभेदेन मर्मसङ्ख्यां निर्दिशन्नाह- तत्रेत्यादि| एकादशेति चत्वारि तलहृदयानि, तावन्त्येवेन्द्रबस्तीनि, गुदमेकं, द्वे स्तनरोहिते, एवमेकादश मांसमर्माणि| एकचत्वारिंशदिति चतस्रो धमन्यः, अष्टौ मातृकाः, चत्वारि शृङ्गाटकानि, द्वे अपाङ्गे, एका स्थपनी, द्वे फणे [१] , द्वे स्तनमूले, द्वावपस्तम्भौ [२] , द्वावपलापौ, एकं हृदयं, एका नाभिः, द्वौ पार्श्वसन्धी, द्वे बृहत्यौ, चत्वारि लोहिताक्षाणि, चतस्र उर्व्यः, एवमेकचत्वारिंशत् सिरामर्माणि| सप्तविंशतिरिति चतस्र आण्यः [३] , द्वौ विटपौ, द्वौ कक्षधरौ, चत्वारः कूर्चाः, चत्वारि कूर्चशिरांसि, एको बस्तिः, चत्वारि क्षिप्राणि, द्वावंसौ, द्वे विधुरे, द्वावुत्क्षेपौ, एवं सप्तविंशतिः स्नायुमर्माणि| अष्टाविति द्वे कटीकतरुणे, द्वौ नितम्बौ, द्वे अंसफलके, द्वौ शङ्खौ, एवमष्टावस्थिमर्माणि| विंशतिरिति द्वे जानुनी, द्वौ कूर्परौ, पञ्च सीमन्ताः, एकोऽधिपतिः, द्वौ गुल्फौ, द्वौ मणिबन्धौ, द्वे कुकुन्दरे, द्वावावर्तौ, द्वे कृकाटिके, एवं विंशतिः सन्धिमर्माणि| पुनः सप्तोत्तरं मर्मशतमिति वचनमुपसंहारे प्रयुक्तमतो न पौनरुक्त्यम्||४||

तेषामेकादशैकस्मिन् सक्थ्नि भवन्ति, एतेनेतरसक्थि बाहू च व्याख्यातौ, उदरोरसोर्द्वादश, चतुर्दश पृष्ठे, ग्रीवां प्रत्यूर्ध्वं सप्तत्रिंशत् ||५||

मांसादिमर्मणां सप्तोत्तरशतसङ्ख्याकानां प्रदेशविशेषज्ञापनार्थं सङ्ख्यया विभज्य शाखाद्याश्रयं निर्दिशन्नाह- तेषामित्यादि||५||

तत्र सक्थिमर्माणि क्षिप्रतलहृदयकूर्चकूर्चशिरोगुल्फेन्द्रबस्तिजान्वाण्युर्विलोहिताक्षाणि विटपं चेति, एतेनेतरत्सक्थि व्याख्यातम् |
उदरोरसोस्तु गुदबस्तिनाभिहृदयस्तनमूलस्तनरोहितापलापान्यपस्तम्भौ [४] [५] चेति |
पृष्ठमर्माणि तु कटीकतरुणकुकुन्दरनितम्बपार्श्वसन्धिबृहत्यंसफलकान्यंसौ चेति |
बाहुमर्माणि तु शिप्रतलहृदयकूर्चकूर्चशिरोमणिबन्धेन्द्रबस्तिकूर्पराण्युर्वीलोहिताक्षाणि कक्षधरं चेति; एतेनेतरो बाहुर्व्याख्यातः |
जत्रुण ऊर्ध्वं चतस्रो धमन्योऽष्टौ मातृका द्वे कृकाटिके द्वे विधुरे द्वे फणे [६] द्वावपाङ्गौ द्वावावर्तौ द्वावुत्क्षेपौ द्वौ शङ्खावेका स्थपनी पञ्च सीमन्ताश्चत्वारि शृङ्गाटकान्येकोऽधिपतिरिति ||६||

शाखादिषु सङ्ख्यया विभक्तानां मर्मणां नामान्याह- तत्रेत्यादि| अत्र क्षिप्राद्येकैकं गणयितव्यम्, एवमेकादश| क्षिप्रादीनां लक्षणमाचार्यः स्वयमेवाग्रे करिष्यति, अतोऽत्रेमानि न व्याख्यातानि| उदरेत्यादि गुदादिहृदयान्तमेकैकं गणयितव्यं, स्तनमूलादीनि द्वे द्वे, एवं द्वादश| पृष्ठेत्यादि कटीकतरुणादीनि द्वे द्वे, एवं चतुर्दश| बाह्वित्यादि अत्रापि क्षिप्रादिकमेकैकं गणयितव्यम्||६||

तत्र तलहृदयेन्द्रबस्तिगुदस्तनरोहितानि मांसमर्माणि, नीलधमनीमातृकाशृङ्गाटकापाङ्गस्थपनीफणस्तनमूलापलापापस्तम्भहृदयनाभिपार्श्वसन्धिबृहतीलोहिताक्षोर्व्यः सिरामर्माणि, आणी(णि)विटपकक्षधरकूर्चकूर्चशिरोबस्तिक्षिप्रांसविधुरोत्क्षेपाः [७] स्नायुमर्माणि, कटीकतरुणनितम्बांसफलकशङ्खास्त्वस्थिमर्माणि, जानुकूर्परसीमन्ताधिपतिगुल्फमणिबन्धकुकुन्दरावर्तकृकाटिकाश्चेति सन्धिमर्माणि ||७||

तत्रैकादश मांसमर्माणीत्यादिवाक्यैः प्रागुद्दिष्टानां मांसादिमर्मणां नामान्याह- तत्रेत्यादि| एतेषां मांसादिमर्मणां सङ्ख्या प्रागत्रैवाध्याये व्याख्याता, तेनात्र न व्याख्यायते||७||

तान्येतानि पञ्चविकल्पानि [८] भवन्ति; तद्यथा- सद्यःप्राणहराणि, कालान्तरप्राणहराणि, विशल्यघ्नानि, वैकल्यकराणि, रुजाकराणि चेति |
तत्र सद्यःप्राणहराण्येकोनविंशतिः, कालान्तरप्राणहराणि त्रयस्त्रिंशत्, त्रीणि विशल्यघ्नानि, चतुश्चत्वारिंशद्वैकल्यकराणि, अष्टौ रुजाकराणीति ||८||
भवन्ति चात्र-
शृङ्गाटकान्यधिपतिः शङ्खौ कण्ठसिरा गुदम् |
हृदयं बस्तिनाभ्यौ(भी) च घ्नन्ति सद्यो [९] हतानि तु ||९||
वक्षोमर्माणि सीमन्ततलक्षिप्रेन्द्रबस्तयः |
कटीकतरुणे सन्धी पार्श्वजौ [१०] बृहती च या ||१०||
नितम्बाविति चैतानि कालान्तरहराणि तु |
उत्क्षेपौ स्थपनी चैव विशल्यघ्नानि निर्दिशेत् ||११||
लोहिताक्षाणि जानूर्वीकूर्चविटपकूर्पराः |
कुकुन्दरे कक्षधरे विधुरे सकृकाटिके ||१२||
अंसांसफलकापाङ्गा नीले मन्ये फणौ तथा |
वैकल्यकरणान्याहुरावर्तौ द्वौ तथैव च ||१३||
गुल्फौ द्वौ मणिबन्धौ द्वौ द्वे द्वे कूर्चशिरांसि च |
रुजाकराणि जानीयादष्टावेतानि बुद्धिमान् |
क्षिप्राणि विद्धमात्राणि घ्नन्ति कालान्तरेण च ||१४||

तान्येव सुखपाठार्थं श्लोकैर्दर्शयन्नाह,- भवन्तीत्यादि| चत्वारि शृङ्गाटकानि, एकोऽधिपतिः; शङ्खौ द्वौ, कण्ठसिरा अष्टौ मातृकाः, गुदं हृदयं बस्तिर्नाभी चेत्येकैकम्, एवमेकोनविंशतिः सद्योघ्नानि| वक्षोमर्माणीति स्तनमूले द्वे, स्तनरोहिते द्वे, अपलापौ द्वौ, अपस्तम्भौ [११] द्वौ, एवमष्टौ वक्षोमर्माणि; सीमन्ताः पञ्च, तलानि चत्वारि, क्षिप्राणि चत्वारि, इन्द्रबस्तयश्चत्वारः, द्वे कटीकतरुणे, द्वौ पार्श्वसन्धी, द्वे बृहत्यौ, द्वौ नितम्बौ, एवं त्रयस्त्रिंशत् कालान्तरप्राणहराणि| उत्क्षेपाविति उत्क्षेपौ द्वौ, एका स्थपनी, एवं त्रीणि विशल्यघ्नानि| लोहितेत्यादि चत्वारि लोहिताक्षनामधेयानि, आणयश्चतस्रः, जानुनी द्वे, चतस्र उर्व्यः, चत्वारः कूर्चाः, विटपादीनामावर्तान्तानां त्रयोदशानां प्रत्येकं द्वौ द्वौ, इति चतुश्चत्वारिंशद्वैकल्यकरणानि| गुल्फावित्यादि द्वौ गुल्फौ, द्वौ मणिबन्धौ; द्वे द्वे कूर्चशिरांसि चेति द्वे कूर्चशिरसी हस्तयोः, द्वे कूर्चशिरसी पादयोः, एवं चत्वारि कूर्चशिरांसि, इत्यष्टौ रुजाकराणि| भेदेन यत् पञ्चप्रकारत्वमुक्तं तद्यद्यपि वक्ष्यमाणेन ‘मर्माणि शल्यविषयार्धमुदाहरन्ति’ इत्यादिश्लोकप्रतिपादितेन प्राणहरवैकल्यकरेति द्वित्वेन बाध्यते, तथाऽपि न दोषो भिषजामादरख्यापनार्थत्वाद्द्वित्वस्येति||८-१४||

मर्माणि मांससिरास्नाय्वस्थिसन्धिसन्निपाताः; तेषु स्वभावत एव विशेषेण प्राणास्तिष्ठन्ति; तस्मान्मर्मस्वभिहतास्तांस्तान् भावानापद्यन्ते ||१५||

इदानीं प्राणहरादिकं कर्म मर्मणां सयुक्तिकं दर्शयन्नाह- मर्माणीत्यादि| सन्निपातः संश्लेषोऽत्यन्तमिश्रीभाव इति यावत्| सर्वेषां सर्वत्र मर्मणि संश्लेषेऽपि मांसमर्म सिरामर्मादिव्यवहार आधिक्यमाश्रित्य, पार्थिवादिव्यवहारवत्| स्वभावत इति हेत्वन्तरनिरपेक्षतया| प्राणा अग्न्यादयः| तांस्तानिति ‘इन्द्रियार्थेष्वसम्प्राप्तिर्मनोबुद्धिविपर्यय’ इत्यादिकानत्रैवोक्तान्| अन्ये तु “भ्रमः प्रलापः पतनं प्रमोह” (सू.२५) इत्यादिकान् सूत्रस्थानोक्तानाहुः||१५||

तत्र सद्यःप्राणहराण्याग्नेयानि, अग्निगुणेष्वाशु क्षीणेषु क्षपयन्ति; कालान्तरप्राणहराणि सौम्याग्नेयानि, अग्निगुणेष्वाशु क्षीणेषु क्रमेण च सोमगुणेषु कालान्तरेण क्षपयन्ति; विशल्यप्राणहराणि वायव्यानि, शल्यमुखावरुद्धो यावदन्तर्वायुस्तिष्ठति तावज्जीवति, उद्धृतमात्रे तु शल्ये मर्मस्थानाश्रितो वायुर्निष्क्रामति, तस्मात् सशल्यो जीवत्युद्धृतशल्यो म्रियते (पाकात्पतितशल्यो [१२] वा जीवति); वैकल्यकराणि सौम्यानि, सोमो हि स्थिरत्वाच्छैत्याच्च प्राणावलम्बनं करोति; रुजाकराण्यग्निवायुगुणभूयिष्ठानि, विशेषतश्च [१३] तौ रुजाकरौ; पाञ्चभौतिकीं च रुजामाहुरेके ||१६||

कस्मात् पुनरत्र समानेऽपि प्राणोपघाते सद्यःप्राणहरकालान्तरप्राणहरादिविशेष इत्याह- तत्रेत्यादि| आग्नेयानीति यद्यपि “सोममारुततेजांसि रजःसत्त्वतमांसि च| मर्मसु प्रायशः पुंसां भूतात्मा चावतिष्ठते” इत्युक्तं, तथाऽप्याग्नेयेषु मर्मस्वधिकं तेजः, सौम्येषु सोम इत्यादि ज्ञेयम्| अग्निगुणेष्वाशुक्षीणेष्विति अग्नेराशुकारित्वादित्यर्थः| ताविति अग्निवायू विशेषेण रुजाकरौ; सामान्येन पुनः सोमोऽपि, कफव्रणे वेदनासम्भवात्| रुजायामेव द्वितीयमेकीयमतं दर्शयन्नाह- पाञ्चभौतिकीमित्यादि||१६||

केचिदाहुर्मांसादीनां पञ्चानामपि समस्तानां विवृद्धानां [१४] समवायात् सद्यःप्राणहराणि, एकहीनानामल्पानां वा [१५] कालान्तरप्राणहराणि, द्विहीनानां विशल्यप्राणहराणि [१६] , त्रिहीनानां वैकल्यकराणि, एकस्मिन्नेव रुजाकराणीति |
नैवं, यतोऽस्थिमर्मस्वप्यभिहतेषु [१७] शोणितागमनं भवति ||१७||

सद्यःप्राणहरादिविशेषस्य द्वितीयदर्शने व्यवस्थां दर्शयन्नाह- केचिदित्यादि| यद्यपि गुदबस्तिनाभिहृदयेषु सद्यःप्राणहरमर्मस्वस्थीनि न व्यक्तानि तथाऽप्यव्यक्तानामस्थ्नां शक्तिरूपेणावस्थानात् पञ्चानां समवाय उत्पद्यत एव [१८] | एकहीनानामित्यत्र हीनशब्दोऽत्यन्ताभावे वर्तते, न तु न्यूनत्वे| एकहीनानि पुनः स्तनमूलापलापापस्तम्भस्रीमन्तकटीकतरुणपार्श्वसन्धिबृहतीनितम्बानि मांसहीनानि, स्तनरोहिततलहृदयक्षिप्रेन्द्रबस्तयोऽस्थिहीनाः; द्विहीनानि पुनरुत्क्षेपौ मांससन्धिहीनौ; त्रिहीनानि पुनर्लोहिताक्षाणि स्नायुसन्ध्यस्थिहीनानि, स्थपनी मांससिरास्नायुहीना, जानुनी मांससिरास्नायुहीने, उर्व्योऽस्थिमांसस्नायुहीनाः, विटपे मांससिरास्थिहीने, कूर्परौ मांससिरास्नायुहीनौ, कुकुन्दरे मांसस्नायुसिराहीने [१९] , कक्षधरे सिरास्थिसन्धिहीने, विधुरे मांससिरासन्धिहीने, कृकाटिके मांससिरास्नायुहीने, अंसौ मांससिरासन्धिहीनौ, अंसफलके मांसस्नायुसन्धिहीने, नीले मन्ये फणे च मांससन्ध्यस्थिहीने, आवर्तौ मांससिरास्नायुहीनौ, अपाङ्गौ मांसस्नायुसन्धिहीनौ| एकस्मिन्निति मांसादिसन्ध्यन्तादेकस्मिन्नवशिष्टे [२०] रुजाकराणि भवन्ति, गुल्फमणिबन्धास्तथा कूर्चशिरांसि मांससिरास्नाय्वस्थिहीनानि| नैवमिति स्वदर्शने सर्वमर्मणां मांससिरास्नाय्वस्थिसन्धिसन्निपातत्वादेव द्वित्र्यादिहीनमसम्यगित्यर्थः| कुतः स्वदर्शने सर्वाणि सर्वत्र सन्तीत्याह- यत इत्यादि| यतश्चास्थिविद्धेष्वपि [२१] शोणितदर्शनं भवत्यतः प्रत्यक्षात् प्रमाणात् सर्वाणि मांसादीनि सर्वत्र मर्मणि भवन्तीति ज्ञातव्यम्||१७||

चतुर्विधा यास्तु सिराः शरीरे प्रायेण ता मर्मसु सन्निविष्टाः |
स्नाय्वस्थिमांसानि तथैव सन्धीन् सन्तर्प्य देहं प्रतियापयन्ति [२२] ||१८||

एतदेव दर्शयन्नाह- चतुरित्यादि| चतुर्विधा इति वातपित्तश्लेष्मरक्तवहाः| मर्मस्वित्यादि| एतेन सिराणां स्नाय्वस्थिमांससन्धिगतत्वं बोधितम्, अत एवास्थिविद्धेऽपि शोणितागमनमित्यर्थः||१८||

ततः क्षते मर्मणि ताः प्रवृद्धः समन्ततो वायुरभिस्तृणोति |
विवर्धमानस्तु स मातरिश्वा रुजः सुतीव्राः प्रतनोति काये ||१९||
रुजाभिभूतं तु ततः [२३] शरीरं प्रलीयते नश्यति चास्य सञ्ज्ञा |
अतो हि शल्यं विनिहर्तुमिच्छन्मर्माणि यत्नेन परीक्ष्य कर्षेत् ||२०||

इदानीं यथैकदेशजेऽपि प्रहारे मर्मविद्धस्य क्रमेण सकलशरीरे वातादिदोषव्याप्त्या रुजावेगेन चेतनाधातोर्वियोगस्तथा दर्शयन्नाह- तत इत्यादि| ताः सिराः, प्रवृद्धो वायुः, समन्ततः सर्वतः, अभिस्तृणोति सञ्छादयति| शरीरं प्रलीयते प्रलयं गच्छति शरीरयन्त्रं विघट्टयतीत्यर्थः| तस्मिन् पाञ्चभौतिके शरीरे प्रलीने सञ्ज्ञाषष्ठश्चेतनाधातुरपि नश्यति| ‘ताः प्रवृद्ध’ इत्यत्र ‘तासु वृद्ध’ इति केचित् पठन्ति व्याख्यानयन्ति च- तासु सिरासु वृद्धो वायुः समन्ततः सकलं शरीरमभिस्तृणोति सञ्छादयतीत्यर्थः||१९-२०||

एतेन शेषं व्याख्यातम् ||२१||

एतेनेति रुगादिरूपेण वायोर्लक्षणेन, शेषमिति दाहादि स्रोतोनिरोधादि च पित्तश्लेष्मणोर्लक्षणं व्याख्यातमेवेत्यर्थः||२१||

तत्र सद्यःप्राणहरमन्ते विद्धं कालान्तरेण मारयति, कालान्तरप्राणहरमन्ते विद्धं वैकल्यमापादयति, विशल्यघ्नं वैकल्यकरं च भवति, वैकल्यकरं कालान्तरेण क्लेशयति [२४] रुजां च करोति, रुजाकरमतीव्रवेदनं भवति ||२२||

तेषां सद्यःप्राणहरादीनां स्वकर्म यन्नियतं तत्कारणविकल्पाद् [२५] व्यभिचारयन्नाह- तत्रेत्यादि| अन्ते विद्धं समीपे विद्धं, मध्ये विद्धं तु सद्य एवेत्यर्थः; एतेन पूर्वं पूर्वं मर्म कारणवैकल्यात् परस्य परस्य कार्यं करोति, एवं परं परमपि मर्मातिविद्धादिकारणवशात् पूर्वस्य पूर्वस्य कर्म करोति| अत एव तेष्वित्यादिना क्षिप्राणि कदाचिदाशु मारयन्तीत्यग्रे वक्ष्यति||२२||

तत्र सद्यःप्राणहराणि सप्तरात्राभ्यन्तरान्मारयन्ति, कालान्तरप्राणहराणि पक्षान्मासाद्वा, तेष्वपि तु क्षिप्राणि कदाचिदाशु मारयन्ति, विशल्यप्राणहराणि वैकल्यकराणि च कदाचिदत्यभिहतानि मारयन्ति ||२३||

इदानीं सद्यःप्राणहरादिमर्मणां मारणे कालावधिं दर्शयन्नाह- तत्र सद्य इत्यादि| यद्यपि सद्यःशब्दस्तत्क्षणवाची तथाऽपि सद्यःप्राणहराणीत्यत्र सद्यःशब्दः सप्ताहाभ्यन्तरपरो ज्ञातव्यः, सप्तरात्रान्मारयन्तीत्युक्तत्वात्| तेष्वपीति कालान्तरप्राणहरेष्वपीत्यर्थः| कदाचिदाशु मारयन्ति ‘अतिहतानि’ इति शेषः, अनतिहतानि तु कालान्तरेणैव मारयन्ति; एतच्चोपलक्षणं, तेन रुजाकराण्येवं वैकल्यं जनयन्ति; एवं वैकल्यादिष्वपि स्वनियतकर्मव्यभिचारः||२३||

अत ऊर्ध्वं सक्थिमर्माणि [२६] व्याख्यास्यामः- तत्र पादस्याङ्गुष्ठाङ्गुल्योर्मध्ये क्षिप्रं [२७] नाम मर्म, तत्र विद्धस्याक्षेपकेण मरणं; मध्यमाङ्गुलीमनुपूर्वेण मध्ये पादतलस्य तलहृदयं नाम [२८] , तत्र रुजाभिर्मरणं; क्षिप्रस्योपरिष्टादुभयतः कूर्चो नाम, तत्र पादस्य भ्रमणवेपने भवतः; गुल्फसन्धेरध उभयतः कूर्चशिरः, तत्र रुजाशोफौ; पादजङ्घयोः [२९] सन्धाने गुल्फः, तत्र रुजः स्तब्धपादता खञ्जता वा; पार्ष्णिं प्रति जङ्घामध्ये इन्द्रबस्तिः, तत्र शोणितक्षयेण मरणं; जङ्घोर्वोः सन्धाने जानु, तत्र खञ्जता; जानुन [३०] ऊर्ध्वमुभयतस्त्र्यङ्गुलमाणी [३१] , तत्र शोफाभिवृद्धिः स्तब्धसक्थिता च; ऊरुमध्ये उर्वी, तत्र शोणितक्षयात् सक्थिशोषः; उर्व्या ऊर्ध्वमधो वङ्क्षणसन्धेरूरुमूले [३२] लोहिताक्षं, तत्र लोहितक्षयेण मरणं पक्षाघातो वा; वङ्क्षणवृषणयोरन्तरे विटपं, तत्र षाण्ढ्यमल्पशुक्रता वा भवति; एवमेतान्येकादश सक्थिमर्माणि व्याख्यातानि |
एतेनेतरसक्थि बाहू च व्याख्यातौ |
विशेषतस्तु यानि सक्थ्नि गुल्फजानुविटपानि, तानि बाहौ मणिबन्धकूर्परकक्षधराणि [३३] ; यथा वङ्क्षणवृषणयोरन्तरे विटपमेवं [३४] वक्षःकक्षयोर्मध्ये कक्षधरं, तस्मिन् विद्धे त एवोपद्रवाः; विशेषतस्तु मणिबन्धे कुण्ठता, कूर्पराख्ये कुणिः, कक्षधरे पक्षाघातः |
एवमेतानि चतुश्चत्वारिंशच्छाखासु मर्माणि व्याख्यातानि ||२४||

अत ऊर्ध्वमित्यादि| तत्र पादाङ्गुष्ठेत्यादि स्नायुमर्मेदमर्धाङ्गुलं कालान्तरप्राणहरं च| मध्यमाङ्गुलीमित्यादि मध्यमाङ्गुलिमनुलक्षीकृत्य क्रमेण पादतलस्य मध्ये तलहृदयं, मांसमर्मेदमर्धाङ्गुलं कालान्तरप्राणहरं च| उपरिष्टादित्यत्र ‘द्व्यङ्गुले’ इति शेषः, उभयत इति ऊर्ध्वमधश्च, तत्र कूर्चे, ‘विद्धे’ इति शेषः; स्नायुमर्मेदं चतुरङ्गुलं वैकल्यकरं च| गुल्फेत्यादि इदमपि स्नायुमर्म एकाङ्गुलं वैकल्यकरं च| पादेत्यादि| सन्धिमर्मेदं द्व्यङ्गुलप्रमाणं वैकल्यकरं च| पार्ष्णिमित्यादि| मांसमर्मेदमर्धाङ्गुलं पार्ष्णिं प्रति त्रयोदशाङ्गुले स्थितं कालान्तरप्राणहरं च; भोजस्तु द्व्यङ्गुलप्रमाणमाह, भोजदर्शनाद्गयदासोऽपि मर्ममानसूत्रे “द्व्यङ्गुलमिन्द्रबस्तिमर्म” इति पठित्वा व्याख्यायति| जङ्घेत्यादि सन्धिमर्मेदं त्र्यङ्गुलप्रमाणं वैकल्यकरं च| जानुन इत्यादि जानुन ऊर्ध्वं त्र्यङ्गुले उभयत ऊर्ध्वमधश्च, स्नायुमर्मेदमर्धाङ्गुलं वैकल्यकरं च, गयी तु त्र्यङ्गुलमानमेतदाह- ऊरुमध्ये इत्यादि| सिरामर्मेदमेकाङ्गुलं वैकल्यकरं च| वङ्क्षणेत्यादि स्नायुमर्मेदमेकाङ्गुलं वैकल्यकरं च| एवमित्यादि| एतेनैकादशमर्मनिर्देशेन| विशेषत इत्यादि| मणिबन्धः पाणिमूलं, कर्पूरः कफोणिः ‘कुहुणी’ इति लोके| तस्मिन्नित्यादि| तस्मिन्निति मणिबन्धादौ| त एवेति गुल्फादिवधजाताः| विशेषतस्त्वित्यादि| कुण्ठता करस्याकर्मण्यत्वम्| कुणिः सङ्कुचितबाहुमध्यः| एतेनेतरो बाहुर्व्याख्यातः| उपसंहारमाह- एवमित्यादि||२४||

अत ऊर्ध्वमुदरोरसोर्मर्माण्यनुव्याख्यास्यामः [३५] – तत्र वातवर्चोनिरसनं स्थूलान्त्रप्रतिबद्धं गुदं नाम मर्म, तत्र सद्योमरणं; अल्पमांसशोणितोऽभ्यन्तरतः कट्यां मूत्राशयो बस्तिः, तत्रापि सद्योमरणमश्मरीव्रणादृते, तत्राप्युभयतो भिन्ने न जीवति, एकतो भिन्ने मूत्रस्रावी व्रणो भवति, स तु यत्नेनोपक्रान्तो रोहति; पक्वामाशययोर्मध्ये सिराप्रभवा नाभिः, तत्रापि सद्यो मरणं; स्तनयोर्मध्यमधिष्ठायोरस्यामाशयद्वारं सत्त्वरजस्तमसामधिष्ठानं हृदयं, तत्रापि सद्य एव मरणं; स्तनयोरधस्ताद् [३६] द्व्यङ्गुलमुभयतः स्तनमूले, तत्र कफपूर्णकोष्ठतया (कासश्वासाभ्यां [३७] ) म्रियते; स्तनचूचुकयोरूर्ध्वं द्व्यङ्गुलमुभयतः [३८] स्तनरोहितौ [३९] , तत्र लोहितपूर्णकोष्ठतया कासश्वासाभ्यां च म्रियते; अंसकूटयोरधस्तात् पार्श्वोपरिभागयोरपलापौ नाम, तत्र रक्तेन पूयभावं गतेन मरणं; उभयत्रोरसो नाड्यौ वातवहे अपस्तम्भौ नाम, तत्र वातपूर्णकोष्ठतया कासश्वासाभ्यां च मरणम्; एवमेतान्युदरोरसोर्द्वादश मर्माणि व्याख्यातानि ||२५||

अत इत्यादि| निरसनं प्रेरकं, मांसमर्मेदं चतुरङ्गुलं सद्योघाति च| अल्पेत्यादि कट्यामित्युपलक्षणं, तेन नाभिपृष्ठमुष्कगुदवङ्क्षणशेफांसि गृह्यन्ते; तदुक्तं- “नाभिपृष्ठकटीमुष्कगुदवङ्क्षणशेफसाम्| एकद्वारस्तनुत्वक्को मध्ये बस्तिरधोमुखः” (नि.३) इति| सद्योमरणमश्मरीव्रणादृते भवतीति सम्बन्धः| तत्रापीति अश्मरीनिमित्ते इत्यर्थः| उभयतो भिन्ने ‘बस्तौ’ इति शेषः| स्नायुमर्मेदं चतुरङ्गुलं सद्योघाति च| पक्वेत्यादि सिरामर्मेदं चतुरङ्गुलं च| स्तनयोरित्यादि सिरामर्मेदं कमलमुकुलाकारमधोमुखं चतुरङ्गुलं च| स्तनयोरधस्तादित्यादि उभयतः स्तनयोरधस्ताद् द्व्यङ्गुलप्रदेशे स्तनमूले मर्मणी, उभयतोग्रहणात् पृथक् पृथक् स्तनस्याधः स्तनमूलं मर्मेति गम्यते, अन्यथा स्तनयोरधस्तादित्युक्ते मिलितयोरेव स्तनयोरधस्तादितीदृशेऽर्थे स्तनयुगमध्यस्याधस्तात् स्तनमूलाख्यं मर्मद्वयमित्यनिष्टं स्यात्, इमे सिरामर्मणी द्व्यङ्गुले कालान्तरप्राणहरे च| स्तनचूचुकयोरित्यादि स्तनयोश्चूचुके स्तनचूचुके; पूर्ववाक्यात् ‘द्व्यङ्गुले’ इत्यनुवर्तते, तेन स्तनचूचुकयोरूर्ध्वं द्व्यङ्गुले स्तनरोहिते द्वे मर्मणी; तदुक्तं- “स्तनचूचुकयोरूर्ध्वं द्व्यङ्गुलात् [४०] स्तनरोहिते| अर्धाङ्गुलमिते मांसमर्मणी परिकीर्तिते|| रक्तपूरितकोष्ठस्य कालान्मरणकारिणी” इति; वृद्धवाग्भटेन “स्तनचूचुकयोरूर्ध्वं द्व्यङ्गुलमुभयतः [४१] स्तनरोहिते” (अ.सं.शा.७) इत्युक्तं; मांसमर्मणी सद्योघातिनी| अंसेत्यादि सिरामर्मणी अर्धाङ्गुले कालान्तरप्राणहरे च| उभयत्रोरस इति उरसो द्वयोः पार्श्वयोरित्यर्थः, सिरामर्मणी अर्धाङ्गुलप्रमाणे कालान्तरप्राणहरे च||२५||

अत ऊर्ध्वं पृष्ठमर्माणि व्याख्यास्यामः [४२] – तत्र पृष्ठवंशमुभयतः प्रतिश्रोणिकाण्डमस्थिनी कटीकतरुणे, तत्र शोणितक्षयात् पाण्डुर्विवर्णो हीनरूपश्च [४३] म्रियते; पार्श्वयोर्जघनबहिर्भागे पृष्ठवंशमुभयतो कुकुन्दरे, तत्र स्पर्शाज्ञानमधःकाये चेष्टोपघातश्च; श्रोणीकाण्डयोरुपर्याशयाच्छादनौ पार्श्वान्तरप्रतिबद्धौ नितम्बौ, तत्राधःकायशोषो दौर्बल्याच्च मरणं; अधःपार्श्वान्तरप्रतिबद्धौ जघनपार्श्वमध्ययोस्तिर्यगूर्ध्वं च जघनात् पार्श्वसन्धी, तत्र लोहितपूर्णकोष्ठतया म्रियते; स्तनमूलादृजूभयतः पृष्ठवंशस्य बृहती, तत्र शोणितातिप्रवृत्तिनिमित्तैरुपद्रवैर्म्रियते; पृष्ठोपरि पृष्ठवंशमुभयतस्त्रिकसम्बद्धे अंसफलके, तत्र बाह्वोः स्वापशोषौ [४४] ; बाहुमूर्धग्रीवामध्येंऽसपीठस्कन्धबन्धनावंसौ, तत्र स्तब्धबाहुता; एवमेतानि चतुर्दश पृष्ठमर्माणि व्याख्यातानि ||२६||

अत ऊर्ध्वमित्यादि| तत्र पृष्ठेत्यादि| प्रतिश्रोणिकाण्डमित्यत्र ‘प्रतिश्रोणिकर्णौ’ इति केचित् पठन्ति, तत्र श्रोणिकर्णौ लक्षीकृत्य त्रिकसन्निधाने श्रोण्यामुपरि; अस्थिमर्मणी अर्धाङ्गुले कालान्तरप्राणहरे च| पार्श्वेत्यादि| पार्श्वयोर्वामदक्षिणसञ्ज्ञकयोः, जघनबहिर्भाग इति कट्याः पश्चाद्भागे, गयी तु ‘पार्श्वजघनभागे’ इति पठित्वा पार्श्वयोर्जघनभागेऽधोभागे नितम्बे निम्ने [४५] कुकुन्दरे इति व्याख्याति, सन्धिमर्मणी अर्धाङ्गुले ईषन्निम्नाकारे वैकल्यकरे च| श्रोणीत्यादि| पूर्वोक्तयोः श्रोणिकाण्डयोरुपरि, आशयाच्छादनौ आमाशयपिधायकौ [४६] , पार्श्वान्तरप्रतिबद्धौ पार्श्वमध्ये प्रतिबद्धौ नितम्बौ; अस्थिमर्मणी अर्धाङ्गुले कालान्तरप्राणहरे च| अध इत्यादि अधःपार्श्वान्तरप्रतिबद्धाविति अधोभागे यत् पार्श्वयोरन्तरं मध्यं तत्र प्रतिबद्धौ, जघनपार्श्वमध्ययोरिति पश्चाद्भागपार्श्वभागयोर्यौ मध्यौ वामदक्षिणौ तयोः; कथं स्थितावित्याह- तिर्यगूर्ध्वं चेति, उपर्युपरि पर्शुकानां [४७] क्रमवृद्धेः सन्धेरपि तिर्यगूर्ध्वत्वं [४८] ; जघनादिति ल्यपि लुप्ते पञ्चमीयं, तेन जघनपश्चाद्भागमाश्रित्य स्थितौ पार्श्वसन्धी, सिरामर्मणि अर्धाङ्गुले कालान्तरमृत्युप्रदे च| स्तनमूलादित्यादि सिरामर्मणी अर्धाङ्गुले कालान्तरप्राणहरे च| पृष्ठोपरीत्यादि पृष्ठवंशस्यायतत्वात् प्रदेशनियमार्थं पृष्ठोपरीत्युक्तं, त्रिकसम्बद्धे इति ग्रीवाया अंसद्वयस्य च यः संयोगः स त्रिकः, तत्र सम्बद्धे अंसफलके; अस्थिमर्मणी अर्धाङ्गुले वैकल्यकारिणी च| बाह्वित्यादि| बाहुमूर्धा बाहुशिरः, ग्रीवा तु कन्धरा, तयोर्मध्ये अंसफलकभुजशिखरयोर्बन्धनौ अंसौ, स्नायुमर्मणी अर्धाङ्गुले वैकल्यकारिणी च||२६||

अत ऊर्ध्वमूर्ध्वजत्रुगतानि व्याख्यास्यामः- तत्र कण्ठनाडीमुभयतश्चतस्रो धमन्यो द्वे नीले द्वे च मन्ये व्यत्यासेन [४९] , तत्र मूकता स्वरवैकृतमरसग्राहिता च; ग्रीवायामुभयतश्चतस्रः [५०] सिरा मातृकाः, तत्र सद्योमरणं; शिरोग्रीवयोः सन्धाने कृकाटिके, तत्र चलमूर्धता; कर्णपृष्ठतोऽधःसंश्रिते विधुरे, तत्र बाधिर्यं; घ्राणमार्गमुभयतः स्रोतोमार्गप्रतिबद्धे अभ्यन्तरतः फणे, तत्र गन्धाज्ञानं; भ्रूपुच्छान्तयोरधोऽक्ष्णोर्बाह्यतोऽपाङ्गौ, तत्रान्ध्यं दृष्टयुपघातो वा; भ्रुवोरुपरि निम्नयोरावर्तौ नाम, तत्राप्यान्ध्यं दृष्टयुपघातो वा; भ्रुवोरन्तयोरुपरि [५१] कर्णललाटयोर्मध्ये शङ्खौ, तत्र सद्योमरणं; शङ्खयोरुपरि केशान्त उत्क्षेपौ, तत्र सशल्यो जीवेत् पाकात् पतितशल्यो वा नोद्धृतशल्यः; भ्रुवोर्मध्ये स्थपनी, तत्रोत्क्षेपवत्; पञ्च सन्धयः शिरसि विभक्ताः सीमन्ता नाम, तत्रोन्मादभयचित्तनाशैर्मरणं; घ्राणश्रोत्राक्षिजिह्वासन्तर्पणीनां सिराणां मध्ये सिरासन्निपातः शृङ्गाटकानि [५२] , तानि चत्वारि मर्माणि, तत्रापि सद्योमरणं [५३] ; मस्तकाभ्यन्तरोपरिष्ठात् सिरासन्धिसन्निपातो रोमावर्तोऽधिपतिः, तत्रापि सद्य एव [५४] |
एवमेतानि सप्तत्रिंशदूर्ध्वजत्रुगतानि मर्माणि व्याख्यातानि ||२७||

अत ऊर्ध्वमित्यादि| व्यत्यासेन वैपरीत्येन, एका नीला एका मन्या चैकस्मिन् पार्श्वे, अन्या नीला अन्या मन्या चापरस्मिन् पार्श्वे; सिरामर्मणी चतुरङ्गुले वैकल्यकारिणी च| ग्रीवायामित्यादि उभयतश्चतस्र इति एकस्मिन् एकस्मिन् पार्श्वे चतस्रश्चतस्र इत्यर्थः; सिरामर्माणि चतुरङ्गुलप्रमाणानि मातृकाः| शिर इत्यादि सन्धिमर्मणी अर्धाङ्गुले वैकल्यकारिणी च| कर्णेत्यादि स्नायुमर्मणी किञ्चिन्निम्नाकारे वैकल्यकारिणी च| घ्राणेत्यादि घ्राणमार्गस्य द्वयोः पार्श्वयोरभ्यन्तरविवरसम्बद्धे [५५] फणे, सिरामर्मणी अर्धाङ्गुले वैकल्यकारिणी च| भ्रूपुच्छेत्यादि सिरामर्मणी अर्धाङ्गुले वैकल्यकारिणी च| भ्रुवोरुपरीत्यादि भ्रुवोरुपरि निम्नयोरिति प्रदेशकथनं, सन्धिमर्मणी अर्धाङ्गुले वैकल्यकारिणी च| भ्रुवोरित्यादि अस्थिमर्मणी अर्धाङ्गुले| शङ्खयोरित्यादि केशान्ते केशपर्यन्ते, स्नायुमर्मणी अर्धाङ्गुले विशल्यप्राणहरे च| भ्रुवोर्मध्ये इत्यादि तत्रोत्क्षेपवदिति सशल्यः स्वयं पतितशल्यो वा जीवत्युद्धृतशल्यो म्रियत इत्यर्थः, सिरामर्म अर्धाङ्गुलं विशल्यघ्नं च| पञ्चेत्यादि पञ्च सन्धयो ये शिरसि विभक्ताः शरीरसङ्ख्याव्याकरणे ते सीमन्ता इत्यर्थः, इमानि सन्धिमर्माणी चतुरङ्गुलप्रमाणानि कालान्तरप्राणहराणि च| घ्राणश्रोत्रेत्यादि घ्राणादीन्द्रियचतुष्कतर्पणीनां सिराणां सिरामुखानां सन्निपातः संयोगस्थानं शृङ्गाटकानि, तानि चत्वारि घ्राणादितर्पणसिराणां चतुर्भेदात्; इमानि सिरामर्माणि चतुरङ्गुलप्रमाणानि| मस्तकेत्यादि मस्तकाभ्यन्तरोपरिष्ठादिति मस्तकस्याभ्यन्तरोर्ध्वमित्यर्थः, सिरासन्ध्योः सन्निपातो रोमावर्तः, बहिरस्य लक्षणमुपरिष्ठाद्रोमावर्तः; एतत् सन्धिमर्म अर्धाङ्गुलप्रमाणं च||२७||

भवन्ति चात्र श्लोकाः-
उर्व्यः शिरांसि विटपे च सकक्षपार्श्वे
एकैकमङ्गुलमितं स्तनपूर्वमूलम् |
विद्ध्यङ्गुलद्वयमितं मणिबन्धगुल्फं
त्रीण्येव जानु सपरं सह कूर्पराभ्याम् ||२८||
हृद्बस्तिकूर्चगुदनाभि वदन्ति मूर्ध्नि
चत्वारि पञ्च च गले दश यानि च द्वे |
तानि स्वपाणितलकुञ्चितसम्मितानि
शेषाण्यवेहि परिविस्तरतोऽङ्गुलार्धम् ||२९||

इदानीं सर्वेषामेव मर्मणां सूत्रेण मानमाह- भवन्ति चात्रेत्यादिना| शिरांसि कूर्चशिरांसि| कक्षपार्श्वे कक्षधरे इत्यर्थः| एकैकमङ्गुलमितमिति एकैकं यथा भवति तथोर्व्यादयो मर्मविशेषा अङ्गुलमिता ज्ञेयाः| स्तनपूर्वमूलमित्यादि मणिबन्धगुल्फं स्तनमूलं चाङ्गुलद्वयमितं विद्धि जानीहीति सम्बन्धः| त्रीण्येव जानु सपरमिति सपरं द्वितीयजानुसहितं जानु त्रीणि त्र्यङ्गुलानि विद्धीत्यर्थः| मूर्ध्नि चत्वारि पञ्च चेति यानि मूर्ध्नि चत्वारि मर्माणि शृङ्गाटकसञ्ज्ञकानि, तथा तत्रैव पञ्च सीमन्तसञ्ज्ञकानि, गले दश यानि च द्वे इति गले कण्ठे यानि दश द्वे च कथितानि तत्राष्टौ मातृकाः द्वे नीले द्वे च मन्ये, एतानि मर्माणि स्वपाणितलकुञ्चितसम्मितानि चतुरङ्गुलप्रमाणानीत्यर्थः| शेषाणि षट्पञ्चाशन्मर्माणि| अवेहि जानीहि| अन्ये तु, इमानि षट्पञ्चाशन्मर्माणि तलप्रमाणान्याहुः| गयी तु, अन्यादृशं सूत्रं पठित्वा स्तनमूले द्वे गुल्फे च, इन्द्रबस्तयश्चत्वारो, द्वौ मणिबन्धाविति दश मर्माणि द्व्यङ्गुलानि भोजदर्शनाद्व्याख्याति, तथा जानु सपरमित्यत्र सह परेण परप्रदेशावस्थितेनाणिमर्मणा वर्तते यत् तत् सपरं; तेन जानुनि द्वे, आणयश्चतस्रः, कूर्परे द्वे, इत्यष्टौ त्र्यङ्गुलानि व्याख्याति| शेषं समम्||२८-२९||

एतत्प्रमाणमभिवीक्ष्य वदन्ति तज्ज्ञाः शस्त्रेण कर्मकरणं परिहृत्य कार्यम् |
पार्श्वाभिघातितमपीह निहन्ति मर्म तस्माद्धि मर्मसदनं परिवर्जनीयम् ||३०||

मानकथनप्रयोजनमाह- एतदित्यादिना| मर्मसदनमिति मर्मस्थानम्||३०||

छिन्नेषु पाणिचरणेषु सिरा [५६] नराणां सङ्कोचमीयुरसृगल्पमतो निरेति |
प्राप्यामितव्यसनमुग्रमतो मनुष्याः सञ्च्छिन्नशाखतरुवन्निधनं न यान्ति ||३१||
क्षिप्रेषु तत्र सतलेषु हतेषु रक्तं गच्छत्यतीव पवनश्च रुजं करोति |
एवं विनाशमुपयान्ति हि तत्र विद्धा वृक्षा इवायुधनिपातनिकृत्तमूलाः ||३२||
तस्मात्तयोरभिहतस्य तु पाणिपादं छेत्तव्यमाशु मणिबन्धनगुल्फदेशे |३३|

करचरणच्छेदे जीवन्ति तदवयवभूतमर्मच्छेदे तु न जीवन्तीति विशेषं दर्शयन्नाह- छिन्नेष्वित्यादि| सङ्कोचमीयुः सङ्कोचं जग्मुरतोऽल्पं रुधिरं प्रवर्तते| क्षिप्रेष्वित्यादि तत्र पाण्योश्चरणयोर्वा| गयी तु, वृक्षा इवायुधनिपातेत्यादिस्थाने ‘किञ्जल्कपत्रमथनादिव पङ्कजानि’ इति पठति||३१-३२||-

मर्माणि शल्यविषयार्धमुदाहरन्ति यस्माच्च मर्मसु हता न भवन्ति सद्यः ||३३||
जीवन्ति तत्र यदि वैद्यगुणेन केचित्ते प्राप्नुवन्ति विकलत्वमसंशयं हि |३४|

मर्ममानकथनप्रयोजनं पूर्वतरवाक्ये प्रतिपाद्य मर्मस्थानविषयं निर्दिशन्नाह- मर्माणीत्यादि| शल्यस्य मनःशरीराबाधकरस्य विषयः शल्यविषयः; स च शस्त्रादिप्रणिधानान्मरणामरणकारकत्वेन द्विविधः; तत्र मरणकारकः शल्यविषयो मर्माख्यः शरीरदेशः, यस्मात्तत्र हताः सद्य एव न भवन्ति सप्ताहाभ्यन्तर एव म्रियन्त इत्यर्थः, तस्मान्मरणकारकत्वेन मर्माणि शल्यविषयार्धमुदाहरन्ति, ‘पूर्वाचार्याः’ इति शेषः| ननु, केचिन्मर्महता अपि जीवन्तो दृश्यन्ते तत् कथं मरणकारकत्वेन मर्माणि शल्यविषयार्धमित्याशङ्क्याह- जीवन्तीत्यादि||३३||-

सम्भिन्नजर्जरितकोष्ठशिरःकपाला जीवन्ति शस्त्रनिहतैश्च शरीरदेशैः ||३४||
छिन्नैश्च सक्थिभुजपादकरैरशेषैर्येषां [५७] न मर्मसु [५८] कृता विविधाः प्रहाराः |३५|

प्रसङ्गतोऽपरं शल्यविषयार्धं प्रतिपादयितुकामोऽमर्महतास्तु विविधैरपि छेदभेदादिभिर्न म्रियन्त इति दर्शयन्नाह- सम्भिन्नेत्यादि||३४||

सोममारुततेजांसि रजःसत्त्वतमांसि च |
मर्मसु प्रायशः पुंसां भूतात्मा चावतिष्ठते ||३५||
मर्मस्वभिहतास्तस्मान्न जीवन्ति शरीरिणः |३६|

इदानीं मर्मणां शरीरमनोदोषनिवासभूतानां शरीरमनोदोषैरेव मर्मविद्धकुपितैर्मनः शरीरं च नश्यति, तयोराधारभूतयोर्नाशादाधेयभूतो भूतात्माऽपि नश्यतीति दर्शयितुमाह- सोमेत्यादि||३५||-

इन्द्रियार्थेष्वसम्प्राप्तिर्मनोबुद्धिविपर्ययः [५९] ||३६||
रुजश्च विविधास्तीव्रा भवन्त्याशुहरे हते |
हते कालान्तरघ्ने तु ध्रुवं धातुक्षयो नृणाम् ||३७||
ततो धातुक्षयाज्जन्तुर्वेदनाभिश्च नश्यति |
हते वैकल्यजनने केवलं वैद्यनैपुणात् ||३८||
शरीरं क्रियया युक्तं विकलत्वमवाप्नुयात् |
विशल्यघ्ने तु विज्ञेयं पूर्वोक्तं यच्च कारणम् ||३९||
रुजाकराणि मर्माणि क्षतानि विविधा रुजः |
कुर्वन्त्यन्ते च वैकल्यं कुवैद्यवशगो यदि ||४०||

सद्यःप्राणहरादिमर्मपञ्चकस्य लक्षणं निर्दिशन्नाह- इन्द्रियार्थेष्वित्यादि| आशुहरे सद्यःप्राणहरे| पूर्वोक्तमिति ‘शल्यमुखावरुद्धो यावदन्तर्वायुस्तिष्ठति तावज्जीवति’ इत्याद्युक्तमेव कारणं ज्ञेयं लक्षणत्वेनेत्यर्थः||३६-४०||

छेदभेदाभिघातेभ्यो दहनाद्दारणादपि |
उपघातं विजानीयान्मर्मणां तुल्यलक्षणम् ||४१||

इदानीं मर्मघाततुल्यं मर्मसमीपस्यापि देशस्य घातं महानर्थकरं दर्शयन्नाह- छेदेत्यादि| उपघातं समीपघातम्||४१||

मर्माभिघातस्तु न कश्चिदस्ति योऽल्पात्ययो वाऽपि निरत्ययो वा |
प्रायेण मर्मस्वभिताडितास्तु वैकल्यमृच्छन्त्यथवा म्रियन्ते ||४२||

मर्माभिघाते वैद्यस्य यत्नपरतां दर्शयन्नाह- मर्माभिघात इत्यादि| अल्पात्यय इति अल्पव्यापत्| निरत्यय इति निर्गतव्यापत्| गयी त्वेतद्वाक्यं न पठति||४२||

मर्माण्यधिष्ठाय हि ये विकारा मूर्च्छन्ति काये विविधा नराणाम् |
प्रायेण ते कृच्छ्रतमा भवन्ति नरस्य यत्नैरपि साध्यमानाः ||४३||

शरीरदोषेणापि मर्मणां मर्मसमीपदेशस्यापि नियतं महानर्थं दर्शयन्नाह- मर्माण्यधिष्ठायेत्यादि| मूर्च्छन्ति समुच्छ्रायं गच्छन्ति| यस्मादेवंविधो मर्माभिघातस्तस्माद्वैद्येन यत्नः कार्य इति सूचितम्||४३||

इति सुश्रुतसंहितायां शारीरस्थाने प्रत्येकमर्मनिर्देशशारीरं नाम षष्ठोऽध्यायः ||६||

इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां
शारीरस्थाने षष्ठोऽध्यायः||६||

१. ‘द्वौ फणौ’ इति पा.|
२. ‘द्वावपस्तम्बौ’ इति पा.|
३. ‘आणयः’ इति पा.|
४. ‘…स्तनरोहितापस्तम्भावपलापौ चेति’ इति पा.|
५. ‘… न्यपस्तम्बौ’ इति पा.|
६. ‘द्वौ फणौ’ इति पा.|
७. ‘इमे सिरामर्मणी, ‘ग्रीवायां षोडशाव्यध्याः’ इत्यत्र डल्हणेनैव विधुरयोः षोडशसङ्ख्यायामेव परिगणनं कृतं, स्नायुमर्मसु गणनं तु प्रतिसंस्कर्तृदोषदूषितं प्रतिभाति’ (रसयोगसागर, उपोद्धात, पृ.१५६)|
८. ‘पञ्चविधानि’ इति ता.|
९. ‘सद्योहराणि’ इति पा.|
१०. ‘पार्श्वगौ’ इति, ‘पार्श्वयोः’ इति च पा.|
११. ‘अपस्तम्बौ’ इति पा.|
१२. अयं पाठो हस्तलिखितपुस्तकेषु नोपलभ्यते|
१३. ‘विशेषेण’ इति पा.|
१४. ‘समवृद्धानां’ इति पा.|
१५. ‘च’ इति पा.|
१६. ‘विशल्यघ्नानि’ इति पा.|
१७. ‘यतश्चैवमतो’ इति पा.|
१८. ‘उत्पद्यत एवं स्थापना’ इति पा.|
१९. ‘मांससन्धिसिराहीने’ इति पा.|
२०. ‘मांसादिसङ्घातात्’ इति पा.|
२१. ‘यतश्चैव…’ इति पा.|
२२. ‘प्रतिपालयन्ति’ इति पा.|
२३. ‘पुनः’ इति पा.|
२४. ‘विशल्यप्राणहरमन्ते विद्धं क्लेशयति कालान्तरेण च रुजां करोति’ इति पा.|
२५. ‘कारणवैकल्यात्’ इति पा.|
२६. ‘प्रत्येकशो मर्मस्थानानि’ इति पा.|
२७. ‘क्षिप्रमिति मर्म’ इति पा.|
२८. अत्र ‘नाम’ इति हस्तलिखितपुस्तके नोपलभ्यते, एवमग्रेऽपि|
२९. ‘जङ्घापादयोः’ इति पा.|
३०. ‘जानुसन्धेरुभयतस्त्रयङ्गुले’ इति पा.|
३१. ‘आणिः’ इति पा.|
३२. ‘ऊरुमध्ये लोहिताख्यं’ इति पा.|
३३. अस्याग्रे ‘यथा पादजङ्घयोर्मध्ये गुल्फो नाम मर्म, एवं हस्ततलप्रकोष्ठयोः सन्धौ मणिबन्धो नाम मर्म| यथा जङ्घोर्वोः सन्धाने जानुर्नाम मर्म, एवं हस्तबाह्वोः सन्धाने कूर्परो नाम’ इत्यधिकः पाठ उपलभ्यते ता. पुस्तके|
३४. ‘विटप एवं’ इति पा.|
३५. मर्मस्थानान्यनुव्याख्यास्यामः’ इति पा.|
३६. स्तनमूललक्षणे ‘स्तनयोरूर्ध्वं, इति, स्तनरोहितलक्षणे च ‘स्तनचूचुकयोरधस्तात्’ इति च रसयोगसागरस्योपोद्धाते (पृ.१५८) संशोधितः पाठः| विशेषविवरणं तु तत्रैव द्रष्टव्यम्|
३७. ‘कासश्वासाभ्यां’ इति हस्तलिखितपुस्तके न पठ्यते|
३८. ‘द्वयङ्गुलमुभयतः’ इति हस्तलिखितपुस्तके न पठ्यते|
३९. ‘स्तनचूचुकयोर्मध्ये स्तनरोहितौ’ इति पा.|
४०. ‘द्व्यङ्गुले’ इति पा.|
४१. द्व्यङ्गुले उभयतः’ इति पा.|
४२. ‘अनुव्याख्यास्यामः’ इति पा.|
४३. ‘हीनदेहश्च’ इति पा.|
४४. ‘स्वापः शोषो वा’ इति पा.|
४५. ‘निम्नौ कुकुन्दरौ’ इति पा.|
४६. ‘पक्वाशयपिधायकौ’ इति पाठश्चेत् साधु|
४७. ‘पार्श्वकानां’ इति पा.|
४८. ‘क्रमवृद्धत्वं’ इति पा.|
४९. ‘नाम व्यत्ययेन’ इति पा.|
५०. ‘चतस्रश्चतस्रः’ इति पा.|
५१. भ्रुवोरन्तोपरि’ इति पा.|
५२. ‘शृङ्गाटकसञ्ज्ञश्चतुर्धा, तत्रापि’ इति पा.|
५३. ‘सद्य एव’ इति पा.|
५४. ‘सद्यो मरणं’ इति पा.|
५५. ‘…विवरद्वारसम्बद्धे’ इति पा.|
५६. ‘सिरामुखाणामाकुञ्चनात् खलु नृणामसृगल्पमेति| छिन्नेषु पाणिचरणेषु भवन्त्यतस्तु नालेषु वृत्तमथितेषु यथोत्पलेषु’ इति ता.|
५७. ‘…रशेषं’ इति पा.|
५८. ‘मर्मपतिता’ इति पा.|
५९. ‘असंवित्तिः’ इति ता.|

Moolashloka with Dalhana & Gayadas Commentary

Pathantara/Pathabheda

Diacritic Version

kāśirājadhanvantariṇōpadiṣṭā tacchiṣyasuśrutēna viracitā

Suśrutasaṁhitā

śrīḍalhaṇācāryaviracitayā nibandhasaṅgrahākhyavyākhyayā nidānasthānasya śrīgayadāsācāryaviracitayā nyāyacandrikākhyapañjikāvyākhyayā ca samullasitā

śārīrasthānam - 6. pratyēkamarmanirdēśaśārīram

athātaḥ pratyēkamarmanirdēśaṁ śārīraṁ vyākhyāsyāmaḥ ||1||
yathōvāca bhagavān dhanvantariḥ ||2||

śarīrasaṅkhyāvyākaraṇē hi māṁsasirādivyākaraṇamabhihitaṁ, marmāṇi ca māṁsasirādisaṁśritāni, atastadanantaraṁ marmaṇāṁ nirdēśō yujyata ityāha- athāta ityādi| pratyēkaśabdādagrē māṁsādiśabdō luptō draṣṭavyaḥ, tēna pratyēkaṁ māṁsādimarmaṇāṁ nirdēśō vivaraṇaṁ yasmin taṁ tathā||1-2||

saptōttaraṁ marmaśatam |
tāni marmāṇi pañcātmakāni bhavanti; tadyathā- māṁsamarmāṇi, sirāmarmāṇi, snāyumarmāṇi, asthimarmāṇi, sandhimarmāṇi cēti |
na khalu māṁsasirāsnāyvasthisandhivyatirēkēṇānyāni marmāṇi bhavanti, yasmānnōpalabhyantē ||3||

tēṣāṁ saṅkhyāmāha- saptōttaramityādi| pañcātmakāni pañcaprakārāṇi| tānyēva pañcaprakārāṇyāha- tadyathētyādi| nanu, kathaṁ māṁsādīni pañcaiva marmāṇi nādhikānīti darśayannāha- na khalvityādi| nanu, srōtaḥprabhr̥tīnāmapi māraṇātmakatvānmarmatvamastyēva, tat kathaṁ māṁsādivyatirēkēṇānyāni marmāṇi nōpalabhyanta ityuktam? ucyatē- mārayantīti marmāṇyucyantē, srōtasi ca kṣatē’pi nāvaśyatayā maraṇaṁ; yatō vakṣyati- “srōtōviddhaṁ tu pratyākhyāyōpacarēt” (śā.9) iti| yadyēvaṁ tarhi rukkaravaikalyakaraṇāmamāraṇātmakatvānmarmatvaṁ na syāditi cēt? tanna, rukkaravaikalyakarēṣvapyagnīṣōmādiprāṇānāṁ madhyē kasyacit prāṇasya hānēḥ; athavā srōtaḥprabhr̥tīni māṁsādīnyavyatiricya vartantē, yatō māṁsādiṣvēva srōtaḥprabhr̥tīni santi, tasmānmāṁsādīni pañcaiva marmāṇīti||3||

tatraikādaśa māṁsamarmāṇi, ēkacatvāriṁśat sirāmarmāṇi, saptaviṁśatiḥ snāyumarmāṇi, aṣṭāvasthimarmāṇi, viṁśatiḥ sandhimarmāṇi cēti |
tadētat saptōttaraṁ marmaśatam ||4||

idānīṁ māṁsādibhēdēna marmasaṅkhyāṁ nirdiśannāha- tatrētyādi| ēkādaśēti catvāri talahr̥dayāni, tāvantyēvēndrabastīni, gudamēkaṁ, dvē stanarōhitē, ēvamēkādaśa māṁsamarmāṇi| ēkacatvāriṁśaditi catasrō dhamanyaḥ, aṣṭau mātr̥kāḥ, catvāri śr̥ṅgāṭakāni, dvē apāṅgē, ēkā sthapanī, dvē phaṇē [1] , dvē stanamūlē, dvāvapastambhau [2] , dvāvapalāpau, ēkaṁ hr̥dayaṁ, ēkā nābhiḥ, dvau pārśvasandhī, dvē br̥hatyau, catvāri lōhitākṣāṇi, catasra urvyaḥ, ēvamēkacatvāriṁśat sirāmarmāṇi| saptaviṁśatiriti catasra āṇyaḥ [3] , dvau viṭapau, dvau kakṣadharau, catvāraḥ kūrcāḥ, catvāri kūrcaśirāṁsi, ēkō bastiḥ, catvāri kṣiprāṇi, dvāvaṁsau, dvē vidhurē, dvāvutkṣēpau, ēvaṁ saptaviṁśatiḥ snāyumarmāṇi| aṣṭāviti dvē kaṭīkataruṇē, dvau nitambau, dvē aṁsaphalakē, dvau śaṅkhau, ēvamaṣṭāvasthimarmāṇi| viṁśatiriti dvē jānunī, dvau kūrparau, pañca sīmantāḥ, ēkō’dhipatiḥ, dvau gulphau, dvau maṇibandhau, dvē kukundarē, dvāvāvartau, dvē kr̥kāṭikē, ēvaṁ viṁśatiḥ sandhimarmāṇi| punaḥ saptōttaraṁ marmaśatamiti vacanamupasaṁhārē prayuktamatō na paunaruktyam||4||

tēṣāmēkādaśaikasmin sakthni bhavanti, ētēnētarasakthi bāhū ca vyākhyātau, udarōrasōrdvādaśa, caturdaśa pr̥ṣṭhē, grīvāṁ pratyūrdhvaṁ saptatriṁśat ||5||

māṁsādimarmaṇāṁ saptōttaraśatasaṅkhyākānāṁ pradēśaviśēṣajñāpanārthaṁ saṅkhyayā vibhajya śākhādyāśrayaṁ nirdiśannāha- tēṣāmityādi||5||

tatra sakthimarmāṇi kṣipratalahr̥dayakūrcakūrcaśirōgulphēndrabastijānvāṇyurvilōhitākṣāṇi viṭapaṁ cēti, ētēnētaratsakthi vyākhyātam |
udarōrasōstu gudabastinābhihr̥dayastanamūlastanarōhitāpalāpānyapastambhau [4] [5] cēti |
pr̥ṣṭhamarmāṇi tu kaṭīkataruṇakukundaranitambapārśvasandhibr̥hatyaṁsaphalakānyaṁsau cēti |
bāhumarmāṇi tu śipratalahr̥dayakūrcakūrcaśirōmaṇibandhēndrabastikūrparāṇyurvīlōhitākṣāṇi kakṣadharaṁ cēti; ētēnētarō bāhurvyākhyātaḥ |
jatruṇa ūrdhvaṁ catasrō dhamanyō’ṣṭau mātr̥kā dvē kr̥kāṭikē dvē vidhurē dvē phaṇē [6] dvāvapāṅgau dvāvāvartau dvāvutkṣēpau dvau śaṅkhāvēkā sthapanī pañca sīmantāścatvāri śr̥ṅgāṭakānyēkō’dhipatiriti ||6||

śākhādiṣu saṅkhyayā vibhaktānāṁ marmaṇāṁ nāmānyāha- tatrētyādi| atra kṣiprādyēkaikaṁ gaṇayitavyam, ēvamēkādaśa| kṣiprādīnāṁ lakṣaṇamācāryaḥ svayamēvāgrē kariṣyati, atō’trēmāni na vyākhyātāni| udarētyādi gudādihr̥dayāntamēkaikaṁ gaṇayitavyaṁ, stanamūlādīni dvē dvē, ēvaṁ dvādaśa| pr̥ṣṭhētyādi kaṭīkataruṇādīni dvē dvē, ēvaṁ caturdaśa| bāhvityādi atrāpi kṣiprādikamēkaikaṁ gaṇayitavyam||6||

tatra talahr̥dayēndrabastigudastanarōhitāni māṁsamarmāṇi, nīladhamanīmātr̥kāśr̥ṅgāṭakāpāṅgasthapanīphaṇastanamūlāpalāpāpastambhahr̥dayanābhipārśvasandhibr̥hatīlōhitākṣōrvyaḥ sirāmarmāṇi, āṇī(ṇi)viṭapakakṣadharakūrcakūrcaśirōbastikṣiprāṁsavidhurōtkṣēpāḥ [7] snāyumarmāṇi, kaṭīkataruṇanitambāṁsaphalakaśaṅkhāstvasthimarmāṇi, jānukūrparasīmantādhipatigulphamaṇibandhakukundarāvartakr̥kāṭikāścēti sandhimarmāṇi ||7||

tatraikādaśa māṁsamarmāṇītyādivākyaiḥ prāguddiṣṭānāṁ māṁsādimarmaṇāṁ nāmānyāha- tatrētyādi| ētēṣāṁ māṁsādimarmaṇāṁ saṅkhyā prāgatraivādhyāyē vyākhyātā, tēnātra na vyākhyāyatē||7||

tānyētāni pañcavikalpāni [8] bhavanti; tadyathā- sadyaḥprāṇaharāṇi, kālāntaraprāṇaharāṇi, viśalyaghnāni, vaikalyakarāṇi, rujākarāṇi cēti |
tatra sadyaḥprāṇaharāṇyēkōnaviṁśatiḥ, kālāntaraprāṇaharāṇi trayastriṁśat, trīṇi viśalyaghnāni, catuścatvāriṁśadvaikalyakarāṇi, aṣṭau rujākarāṇīti ||8||
bhavanti cātra-
śr̥ṅgāṭakānyadhipatiḥ śaṅkhau kaṇṭhasirā gudam |
hr̥dayaṁ bastinābhyau(bhī) ca ghnanti sadyō [9] hatāni tu ||9||
vakṣōmarmāṇi sīmantatalakṣiprēndrabastayaḥ |
kaṭīkataruṇē sandhī pārśvajau [10] br̥hatī ca yā ||10||
nitambāviti caitāni kālāntaraharāṇi tu |
utkṣēpau sthapanī caiva viśalyaghnāni nirdiśēt ||11||
lōhitākṣāṇi jānūrvīkūrcaviṭapakūrparāḥ |
kukundarē kakṣadharē vidhurē sakr̥kāṭikē ||12||
aṁsāṁsaphalakāpāṅgā nīlē manyē phaṇau tathā |
vaikalyakaraṇānyāhurāvartau dvau tathaiva ca ||13||
gulphau dvau maṇibandhau dvau dvē dvē kūrcaśirāṁsi ca |
rujākarāṇi jānīyādaṣṭāvētāni buddhimān |
kṣiprāṇi viddhamātrāṇi ghnanti kālāntarēṇa ca ||14||

tānyēva sukhapāṭhārthaṁ ślōkairdarśayannāha,- bhavantītyādi| catvāri śr̥ṅgāṭakāni, ēkō’dhipatiḥ; śaṅkhau dvau, kaṇṭhasirā aṣṭau mātr̥kāḥ, gudaṁ hr̥dayaṁ bastirnābhī cētyēkaikam, ēvamēkōnaviṁśatiḥ sadyōghnāni| vakṣōmarmāṇīti stanamūlē dvē, stanarōhitē dvē, apalāpau dvau, apastambhau [11] dvau, ēvamaṣṭau vakṣōmarmāṇi; sīmantāḥ pañca, talāni catvāri, kṣiprāṇi catvāri, indrabastayaścatvāraḥ, dvē kaṭīkataruṇē, dvau pārśvasandhī, dvē br̥hatyau, dvau nitambau, ēvaṁ trayastriṁśat kālāntaraprāṇaharāṇi| utkṣēpāviti utkṣēpau dvau, ēkā sthapanī, ēvaṁ trīṇi viśalyaghnāni| lōhitētyādi catvāri lōhitākṣanāmadhēyāni, āṇayaścatasraḥ, jānunī dvē, catasra urvyaḥ, catvāraḥ kūrcāḥ, viṭapādīnāmāvartāntānāṁ trayōdaśānāṁ pratyēkaṁ dvau dvau, iti catuścatvāriṁśadvaikalyakaraṇāni| gulphāvityādi dvau gulphau, dvau maṇibandhau; dvē dvē kūrcaśirāṁsi cēti dvē kūrcaśirasī hastayōḥ, dvē kūrcaśirasī pādayōḥ, ēvaṁ catvāri kūrcaśirāṁsi, ityaṣṭau rujākarāṇi| bhēdēna yat pañcaprakāratvamuktaṁ tadyadyapi vakṣyamāṇēna ‘marmāṇi śalyaviṣayārdhamudāharanti’ ityādiślōkapratipāditēna prāṇaharavaikalyakarēti dvitvēna bādhyatē, tathā’pi na dōṣō bhiṣajāmādarakhyāpanārthatvāddvitvasyēti||8-14||

marmāṇi māṁsasirāsnāyvasthisandhisannipātāḥ; tēṣu svabhāvata ēva viśēṣēṇa prāṇāstiṣṭhanti; tasmānmarmasvabhihatāstāṁstān bhāvānāpadyantē ||15||

idānīṁ prāṇaharādikaṁ karma marmaṇāṁ sayuktikaṁ darśayannāha- marmāṇītyādi| sannipātaḥ saṁślēṣō’tyantamiśrībhāva iti yāvat| sarvēṣāṁ sarvatra marmaṇi saṁślēṣē’pi māṁsamarma sirāmarmādivyavahāra ādhikyamāśritya, pārthivādivyavahāravat| svabhāvata iti hētvantaranirapēkṣatayā| prāṇā agnyādayaḥ| tāṁstāniti ‘indriyārthēṣvasamprāptirmanōbuddhiviparyaya’ ityādikānatraivōktān| anyē tu “bhramaḥ pralāpaḥ patanaṁ pramōha” (sū.25) ityādikān sūtrasthānōktānāhuḥ||15||

tatra sadyaḥprāṇaharāṇyāgnēyāni, agniguṇēṣvāśu kṣīṇēṣu kṣapayanti; kālāntaraprāṇaharāṇi saumyāgnēyāni, agniguṇēṣvāśu kṣīṇēṣu kramēṇa ca sōmaguṇēṣu kālāntarēṇa kṣapayanti; viśalyaprāṇaharāṇi vāyavyāni, śalyamukhāvaruddhō yāvadantarvāyustiṣṭhati tāvajjīvati, uddhr̥tamātrē tu śalyē marmasthānāśritō vāyurniṣkrāmati, tasmāt saśalyō jīvatyuddhr̥taśalyō mriyatē (pākātpatitaśalyō [12] vā jīvati); vaikalyakarāṇi saumyāni, sōmō hi sthiratvācchaityācca prāṇāvalambanaṁ karōti; rujākarāṇyagnivāyuguṇabhūyiṣṭhāni, viśēṣataśca [13] tau rujākarau; pāñcabhautikīṁ ca rujāmāhurēkē ||16||

kasmāt punaratra samānē’pi prāṇōpaghātē sadyaḥprāṇaharakālāntaraprāṇaharādiviśēṣa ityāha- tatrētyādi| āgnēyānīti yadyapi “sōmamārutatējāṁsi rajaḥsattvatamāṁsi ca| marmasu prāyaśaḥ puṁsāṁ bhūtātmā cāvatiṣṭhatē” ityuktaṁ, tathā’pyāgnēyēṣu marmasvadhikaṁ tējaḥ, saumyēṣu sōma ityādi jñēyam| agniguṇēṣvāśukṣīṇēṣviti agnērāśukāritvādityarthaḥ| tāviti agnivāyū viśēṣēṇa rujākarau; sāmānyēna punaḥ sōmō’pi, kaphavraṇē vēdanāsambhavāt| rujāyāmēva dvitīyamēkīyamataṁ darśayannāha- pāñcabhautikīmityādi||16||

kēcidāhurmāṁsādīnāṁ pañcānāmapi samastānāṁ vivr̥ddhānāṁ [14] samavāyāt sadyaḥprāṇaharāṇi, ēkahīnānāmalpānāṁ vā [15] kālāntaraprāṇaharāṇi, dvihīnānāṁ viśalyaprāṇaharāṇi [16] , trihīnānāṁ vaikalyakarāṇi, ēkasminnēva rujākarāṇīti |
naivaṁ, yatō’sthimarmasvapyabhihatēṣu [17] śōṇitāgamanaṁ bhavati ||17||

sadyaḥprāṇaharādiviśēṣasya dvitīyadarśanē vyavasthāṁ darśayannāha- kēcidityādi| yadyapi gudabastinābhihr̥dayēṣu sadyaḥprāṇaharamarmasvasthīni na vyaktāni tathā’pyavyaktānāmasthnāṁ śaktirūpēṇāvasthānāt pañcānāṁ samavāya utpadyata ēva [18] | ēkahīnānāmityatra hīnaśabdō’tyantābhāvē vartatē, na tu nyūnatvē| ēkahīnāni punaḥ stanamūlāpalāpāpastambhasrīmantakaṭīkataruṇapārśvasandhibr̥hatīnitambāni māṁsahīnāni, stanarōhitatalahr̥dayakṣiprēndrabastayō’sthihīnāḥ; dvihīnāni punarutkṣēpau māṁsasandhihīnau; trihīnāni punarlōhitākṣāṇi snāyusandhyasthihīnāni, sthapanī māṁsasirāsnāyuhīnā, jānunī māṁsasirāsnāyuhīnē, urvyō’sthimāṁsasnāyuhīnāḥ, viṭapē māṁsasirāsthihīnē, kūrparau māṁsasirāsnāyuhīnau, kukundarē māṁsasnāyusirāhīnē [19] , kakṣadharē sirāsthisandhihīnē, vidhurē māṁsasirāsandhihīnē, kr̥kāṭikē māṁsasirāsnāyuhīnē, aṁsau māṁsasirāsandhihīnau, aṁsaphalakē māṁsasnāyusandhihīnē, nīlē manyē phaṇē ca māṁsasandhyasthihīnē, āvartau māṁsasirāsnāyuhīnau, apāṅgau māṁsasnāyusandhihīnau| ēkasminniti māṁsādisandhyantādēkasminnavaśiṣṭē [20] rujākarāṇi bhavanti, gulphamaṇibandhāstathā kūrcaśirāṁsi māṁsasirāsnāyvasthihīnāni| naivamiti svadarśanē sarvamarmaṇāṁ māṁsasirāsnāyvasthisandhisannipātatvādēva dvitryādihīnamasamyagityarthaḥ| kutaḥ svadarśanē sarvāṇi sarvatra santītyāha- yata ityādi| yataścāsthividdhēṣvapi [21] śōṇitadarśanaṁ bhavatyataḥ pratyakṣāt pramāṇāt sarvāṇi māṁsādīni sarvatra marmaṇi bhavantīti jñātavyam||17||

caturvidhā yāstu sirāḥ śarīrē prāyēṇa tā marmasu sanniviṣṭāḥ |
snāyvasthimāṁsāni tathaiva sandhīn santarpya dēhaṁ pratiyāpayanti [22] ||18||

ētadēva darśayannāha- caturityādi| caturvidhā iti vātapittaślēṣmaraktavahāḥ| marmasvityādi| ētēna sirāṇāṁ snāyvasthimāṁsasandhigatatvaṁ bōdhitam, ata ēvāsthividdhē’pi śōṇitāgamanamityarthaḥ||18||

tataḥ kṣatē marmaṇi tāḥ pravr̥ddhaḥ samantatō vāyurabhistr̥ṇōti |
vivardhamānastu sa mātariśvā rujaḥ sutīvrāḥ pratanōti kāyē ||19||
rujābhibhūtaṁ tu tataḥ [23] śarīraṁ pralīyatē naśyati cāsya sañjñā |
atō hi śalyaṁ vinihartumicchanmarmāṇi yatnēna parīkṣya karṣēt ||20||

idānīṁ yathaikadēśajē’pi prahārē marmaviddhasya kramēṇa sakalaśarīrē vātādidōṣavyāptyā rujāvēgēna cētanādhātōrviyōgastathā darśayannāha- tata ityādi| tāḥ sirāḥ, pravr̥ddhō vāyuḥ, samantataḥ sarvataḥ, abhistr̥ṇōti sañchādayati| śarīraṁ pralīyatē pralayaṁ gacchati śarīrayantraṁ vighaṭṭayatītyarthaḥ| tasmin pāñcabhautikē śarīrē pralīnē sañjñāṣaṣṭhaścētanādhāturapi naśyati| ‘tāḥ pravr̥ddha’ ityatra ‘tāsu vr̥ddha’ iti kēcit paṭhanti vyākhyānayanti ca- tāsu sirāsu vr̥ddhō vāyuḥ samantataḥ sakalaṁ śarīramabhistr̥ṇōti sañchādayatītyarthaḥ||19-20||

ētēna śēṣaṁ vyākhyātam ||21||

ētēnēti rugādirūpēṇa vāyōrlakṣaṇēna, śēṣamiti dāhādi srōtōnirōdhādi ca pittaślēṣmaṇōrlakṣaṇaṁ vyākhyātamēvētyarthaḥ||21||

tatra sadyaḥprāṇaharamantē viddhaṁ kālāntarēṇa mārayati, kālāntaraprāṇaharamantē viddhaṁ vaikalyamāpādayati, viśalyaghnaṁ vaikalyakaraṁ ca bhavati, vaikalyakaraṁ kālāntarēṇa klēśayati [24] rujāṁ ca karōti, rujākaramatīvravēdanaṁ bhavati ||22||

tēṣāṁ sadyaḥprāṇaharādīnāṁ svakarma yanniyataṁ tatkāraṇavikalpād [25] vyabhicārayannāha- tatrētyādi| antē viddhaṁ samīpē viddhaṁ, madhyē viddhaṁ tu sadya ēvētyarthaḥ; ētēna pūrvaṁ pūrvaṁ marma kāraṇavaikalyāt parasya parasya kāryaṁ karōti, ēvaṁ paraṁ paramapi marmātividdhādikāraṇavaśāt pūrvasya pūrvasya karma karōti| ata ēva tēṣvityādinā kṣiprāṇi kadācidāśu mārayantītyagrē vakṣyati||22||

tatra sadyaḥprāṇaharāṇi saptarātrābhyantarānmārayanti, kālāntaraprāṇaharāṇi pakṣānmāsādvā, tēṣvapi tu kṣiprāṇi kadācidāśu mārayanti, viśalyaprāṇaharāṇi vaikalyakarāṇi ca kadācidatyabhihatāni mārayanti ||23||

idānīṁ sadyaḥprāṇaharādimarmaṇāṁ māraṇē kālāvadhiṁ darśayannāha- tatra sadya ityādi| yadyapi sadyaḥśabdastatkṣaṇavācī tathā’pi sadyaḥprāṇaharāṇītyatra sadyaḥśabdaḥ saptāhābhyantaraparō jñātavyaḥ, saptarātrānmārayantītyuktatvāt| tēṣvapīti kālāntaraprāṇaharēṣvapītyarthaḥ| kadācidāśu mārayanti ‘atihatāni’ iti śēṣaḥ, anatihatāni tu kālāntarēṇaiva mārayanti; ētaccōpalakṣaṇaṁ, tēna rujākarāṇyēvaṁ vaikalyaṁ janayanti; ēvaṁ vaikalyādiṣvapi svaniyatakarmavyabhicāraḥ||23||

ata ūrdhvaṁ sakthimarmāṇi [26] vyākhyāsyāmaḥ- tatra pādasyāṅguṣṭhāṅgulyōrmadhyē kṣipraṁ [27] nāma marma, tatra viddhasyākṣēpakēṇa maraṇaṁ; madhyamāṅgulīmanupūrvēṇa madhyē pādatalasya talahr̥dayaṁ nāma [28] , tatra rujābhirmaraṇaṁ; kṣiprasyōpariṣṭādubhayataḥ kūrcō nāma, tatra pādasya bhramaṇavēpanē bhavataḥ; gulphasandhēradha ubhayataḥ kūrcaśiraḥ, tatra rujāśōphau; pādajaṅghayōḥ [29] sandhānē gulphaḥ, tatra rujaḥ stabdhapādatā khañjatā vā; pārṣṇiṁ prati jaṅghāmadhyē indrabastiḥ, tatra śōṇitakṣayēṇa maraṇaṁ; jaṅghōrvōḥ sandhānē jānu, tatra khañjatā; jānuna [30] ūrdhvamubhayatastryaṅgulamāṇī [31] , tatra śōphābhivr̥ddhiḥ stabdhasakthitā ca; ūrumadhyē urvī, tatra śōṇitakṣayāt sakthiśōṣaḥ; urvyā ūrdhvamadhō vaṅkṣaṇasandhērūrumūlē [32] lōhitākṣaṁ, tatra lōhitakṣayēṇa maraṇaṁ pakṣāghātō vā; vaṅkṣaṇavr̥ṣaṇayōrantarē viṭapaṁ, tatra ṣāṇḍhyamalpaśukratā vā bhavati; ēvamētānyēkādaśa sakthimarmāṇi vyākhyātāni |
ētēnētarasakthi bāhū ca vyākhyātau |
viśēṣatastu yāni sakthni gulphajānuviṭapāni, tāni bāhau maṇibandhakūrparakakṣadharāṇi [33] ; yathā vaṅkṣaṇavr̥ṣaṇayōrantarē viṭapamēvaṁ [34] vakṣaḥkakṣayōrmadhyē kakṣadharaṁ, tasmin viddhē ta ēvōpadravāḥ; viśēṣatastu maṇibandhē kuṇṭhatā, kūrparākhyē kuṇiḥ, kakṣadharē pakṣāghātaḥ |
ēvamētāni catuścatvāriṁśacchākhāsu marmāṇi vyākhyātāni ||24||

ata ūrdhvamityādi| tatra pādāṅguṣṭhētyādi snāyumarmēdamardhāṅgulaṁ kālāntaraprāṇaharaṁ ca| madhyamāṅgulīmityādi madhyamāṅgulimanulakṣīkr̥tya kramēṇa pādatalasya madhyē talahr̥dayaṁ, māṁsamarmēdamardhāṅgulaṁ kālāntaraprāṇaharaṁ ca| upariṣṭādityatra ‘dvyaṅgulē’ iti śēṣaḥ, ubhayata iti ūrdhvamadhaśca, tatra kūrcē, ‘viddhē’ iti śēṣaḥ; snāyumarmēdaṁ caturaṅgulaṁ vaikalyakaraṁ ca| gulphētyādi idamapi snāyumarma ēkāṅgulaṁ vaikalyakaraṁ ca| pādētyādi| sandhimarmēdaṁ dvyaṅgulapramāṇaṁ vaikalyakaraṁ ca| pārṣṇimityādi| māṁsamarmēdamardhāṅgulaṁ pārṣṇiṁ prati trayōdaśāṅgulē sthitaṁ kālāntaraprāṇaharaṁ ca; bhōjastu dvyaṅgulapramāṇamāha, bhōjadarśanādgayadāsō’pi marmamānasūtrē “dvyaṅgulamindrabastimarma” iti paṭhitvā vyākhyāyati| jaṅghētyādi sandhimarmēdaṁ tryaṅgulapramāṇaṁ vaikalyakaraṁ ca| jānuna ityādi jānuna ūrdhvaṁ tryaṅgulē ubhayata ūrdhvamadhaśca, snāyumarmēdamardhāṅgulaṁ vaikalyakaraṁ ca, gayī tu tryaṅgulamānamētadāha- ūrumadhyē ityādi| sirāmarmēdamēkāṅgulaṁ vaikalyakaraṁ ca| vaṅkṣaṇētyādi snāyumarmēdamēkāṅgulaṁ vaikalyakaraṁ ca| ēvamityādi| ētēnaikādaśamarmanirdēśēna| viśēṣata ityādi| maṇibandhaḥ pāṇimūlaṁ, karpūraḥ kaphōṇiḥ ‘kuhuṇī’ iti lōkē| tasminnityādi| tasminniti maṇibandhādau| ta ēvēti gulphādivadhajātāḥ| viśēṣatastvityādi| kuṇṭhatā karasyākarmaṇyatvam| kuṇiḥ saṅkucitabāhumadhyaḥ| ētēnētarō bāhurvyākhyātaḥ| upasaṁhāramāha- ēvamityādi||24||

ata ūrdhvamudarōrasōrmarmāṇyanuvyākhyāsyāmaḥ [35] – tatra vātavarcōnirasanaṁ sthūlāntrapratibaddhaṁ gudaṁ nāma marma, tatra sadyōmaraṇaṁ; alpamāṁsaśōṇitō’bhyantarataḥ kaṭyāṁ mūtrāśayō bastiḥ, tatrāpi sadyōmaraṇamaśmarīvraṇādr̥tē, tatrāpyubhayatō bhinnē na jīvati, ēkatō bhinnē mūtrasrāvī vraṇō bhavati, sa tu yatnēnōpakrāntō rōhati; pakvāmāśayayōrmadhyē sirāprabhavā nābhiḥ, tatrāpi sadyō maraṇaṁ; stanayōrmadhyamadhiṣṭhāyōrasyāmāśayadvāraṁ sattvarajastamasāmadhiṣṭhānaṁ hr̥dayaṁ, tatrāpi sadya ēva maraṇaṁ; stanayōradhastād [36] dvyaṅgulamubhayataḥ stanamūlē, tatra kaphapūrṇakōṣṭhatayā (kāsaśvāsābhyāṁ [37] ) mriyatē; stanacūcukayōrūrdhvaṁ dvyaṅgulamubhayataḥ [38] stanarōhitau [39] , tatra lōhitapūrṇakōṣṭhatayā kāsaśvāsābhyāṁ ca mriyatē; aṁsakūṭayōradhastāt pārśvōparibhāgayōrapalāpau nāma, tatra raktēna pūyabhāvaṁ gatēna maraṇaṁ; ubhayatrōrasō nāḍyau vātavahē apastambhau nāma, tatra vātapūrṇakōṣṭhatayā kāsaśvāsābhyāṁ ca maraṇam; ēvamētānyudarōrasōrdvādaśa marmāṇi vyākhyātāni ||25||

ata ityādi| nirasanaṁ prērakaṁ, māṁsamarmēdaṁ caturaṅgulaṁ sadyōghāti ca| alpētyādi kaṭyāmityupalakṣaṇaṁ, tēna nābhipr̥ṣṭhamuṣkagudavaṅkṣaṇaśēphāṁsi gr̥hyantē; taduktaṁ- “nābhipr̥ṣṭhakaṭīmuṣkagudavaṅkṣaṇaśēphasām| ēkadvārastanutvakkō madhyē bastiradhōmukhaḥ” (ni.3) iti| sadyōmaraṇamaśmarīvraṇādr̥tē bhavatīti sambandhaḥ| tatrāpīti aśmarīnimittē ityarthaḥ| ubhayatō bhinnē ‘bastau’ iti śēṣaḥ| snāyumarmēdaṁ caturaṅgulaṁ sadyōghāti ca| pakvētyādi sirāmarmēdaṁ caturaṅgulaṁ ca| stanayōrityādi sirāmarmēdaṁ kamalamukulākāramadhōmukhaṁ caturaṅgulaṁ ca| stanayōradhastādityādi ubhayataḥ stanayōradhastād dvyaṅgulapradēśē stanamūlē marmaṇī, ubhayatōgrahaṇāt pr̥thak pr̥thak stanasyādhaḥ stanamūlaṁ marmēti gamyatē, anyathā stanayōradhastādityuktē militayōrēva stanayōradhastāditīdr̥śē’rthē stanayugamadhyasyādhastāt stanamūlākhyaṁ marmadvayamityaniṣṭaṁ syāt, imē sirāmarmaṇī dvyaṅgulē kālāntaraprāṇaharē ca| stanacūcukayōrityādi stanayōścūcukē stanacūcukē; pūrvavākyāt ‘dvyaṅgulē’ ityanuvartatē, tēna stanacūcukayōrūrdhvaṁ dvyaṅgulē stanarōhitē dvē marmaṇī; taduktaṁ- “stanacūcukayōrūrdhvaṁ dvyaṅgulāt [40] stanarōhitē| ardhāṅgulamitē māṁsamarmaṇī parikīrtitē|| raktapūritakōṣṭhasya kālānmaraṇakāriṇī” iti; vr̥ddhavāgbhaṭēna “stanacūcukayōrūrdhvaṁ dvyaṅgulamubhayataḥ [41] stanarōhitē” (a.saṁ.śā.7) ityuktaṁ; māṁsamarmaṇī sadyōghātinī| aṁsētyādi sirāmarmaṇī ardhāṅgulē kālāntaraprāṇaharē ca| ubhayatrōrasa iti urasō dvayōḥ pārśvayōrityarthaḥ, sirāmarmaṇī ardhāṅgulapramāṇē kālāntaraprāṇaharē ca||25||

ata ūrdhvaṁ pr̥ṣṭhamarmāṇi vyākhyāsyāmaḥ [42] – tatra pr̥ṣṭhavaṁśamubhayataḥ pratiśrōṇikāṇḍamasthinī kaṭīkataruṇē, tatra śōṇitakṣayāt pāṇḍurvivarṇō hīnarūpaśca [43] mriyatē; pārśvayōrjaghanabahirbhāgē pr̥ṣṭhavaṁśamubhayatō kukundarē, tatra sparśājñānamadhaḥkāyē cēṣṭōpaghātaśca; śrōṇīkāṇḍayōruparyāśayācchādanau pārśvāntarapratibaddhau nitambau, tatrādhaḥkāyaśōṣō daurbalyācca maraṇaṁ; adhaḥpārśvāntarapratibaddhau jaghanapārśvamadhyayōstiryagūrdhvaṁ ca jaghanāt pārśvasandhī, tatra lōhitapūrṇakōṣṭhatayā mriyatē; stanamūlādr̥jūbhayataḥ pr̥ṣṭhavaṁśasya br̥hatī, tatra śōṇitātipravr̥ttinimittairupadravairmriyatē; pr̥ṣṭhōpari pr̥ṣṭhavaṁśamubhayatastrikasambaddhē aṁsaphalakē, tatra bāhvōḥ svāpaśōṣau [44] ; bāhumūrdhagrīvāmadhyēṁ’sapīṭhaskandhabandhanāvaṁsau, tatra stabdhabāhutā; ēvamētāni caturdaśa pr̥ṣṭhamarmāṇi vyākhyātāni ||26||

ata ūrdhvamityādi| tatra pr̥ṣṭhētyādi| pratiśrōṇikāṇḍamityatra ‘pratiśrōṇikarṇau’ iti kēcit paṭhanti, tatra śrōṇikarṇau lakṣīkr̥tya trikasannidhānē śrōṇyāmupari; asthimarmaṇī ardhāṅgulē kālāntaraprāṇaharē ca| pārśvētyādi| pārśvayōrvāmadakṣiṇasañjñakayōḥ, jaghanabahirbhāga iti kaṭyāḥ paścādbhāgē, gayī tu ‘pārśvajaghanabhāgē’ iti paṭhitvā pārśvayōrjaghanabhāgē’dhōbhāgē nitambē nimnē [45] kukundarē iti vyākhyāti, sandhimarmaṇī ardhāṅgulē īṣannimnākārē vaikalyakarē ca| śrōṇītyādi| pūrvōktayōḥ śrōṇikāṇḍayōrupari, āśayācchādanau āmāśayapidhāyakau [46] , pārśvāntarapratibaddhau pārśvamadhyē pratibaddhau nitambau; asthimarmaṇī ardhāṅgulē kālāntaraprāṇaharē ca| adha ityādi adhaḥpārśvāntarapratibaddhāviti adhōbhāgē yat pārśvayōrantaraṁ madhyaṁ tatra pratibaddhau, jaghanapārśvamadhyayōriti paścādbhāgapārśvabhāgayōryau madhyau vāmadakṣiṇau tayōḥ; kathaṁ sthitāvityāha- tiryagūrdhvaṁ cēti, uparyupari parśukānāṁ [47] kramavr̥ddhēḥ sandhērapi tiryagūrdhvatvaṁ [48] ; jaghanāditi lyapi luptē pañcamīyaṁ, tēna jaghanapaścādbhāgamāśritya sthitau pārśvasandhī, sirāmarmaṇi ardhāṅgulē kālāntaramr̥tyupradē ca| stanamūlādityādi sirāmarmaṇī ardhāṅgulē kālāntaraprāṇaharē ca| pr̥ṣṭhōparītyādi pr̥ṣṭhavaṁśasyāyatatvāt pradēśaniyamārthaṁ pr̥ṣṭhōparītyuktaṁ, trikasambaddhē iti grīvāyā aṁsadvayasya ca yaḥ saṁyōgaḥ sa trikaḥ, tatra sambaddhē aṁsaphalakē; asthimarmaṇī ardhāṅgulē vaikalyakāriṇī ca| bāhvityādi| bāhumūrdhā bāhuśiraḥ, grīvā tu kandharā, tayōrmadhyē aṁsaphalakabhujaśikharayōrbandhanau aṁsau, snāyumarmaṇī ardhāṅgulē vaikalyakāriṇī ca||26||

ata ūrdhvamūrdhvajatrugatāni vyākhyāsyāmaḥ- tatra kaṇṭhanāḍīmubhayataścatasrō dhamanyō dvē nīlē dvē ca manyē vyatyāsēna [49] , tatra mūkatā svaravaikr̥tamarasagrāhitā ca; grīvāyāmubhayataścatasraḥ [50] sirā mātr̥kāḥ, tatra sadyōmaraṇaṁ; śirōgrīvayōḥ sandhānē kr̥kāṭikē, tatra calamūrdhatā; karṇapr̥ṣṭhatō’dhaḥsaṁśritē vidhurē, tatra bādhiryaṁ; ghrāṇamārgamubhayataḥ srōtōmārgapratibaddhē abhyantarataḥ phaṇē, tatra gandhājñānaṁ; bhrūpucchāntayōradhō’kṣṇōrbāhyatō’pāṅgau, tatrāndhyaṁ dr̥ṣṭayupaghātō vā; bhruvōrupari nimnayōrāvartau nāma, tatrāpyāndhyaṁ dr̥ṣṭayupaghātō vā; bhruvōrantayōrupari [51] karṇalalāṭayōrmadhyē śaṅkhau, tatra sadyōmaraṇaṁ; śaṅkhayōrupari kēśānta utkṣēpau, tatra saśalyō jīvēt pākāt patitaśalyō vā nōddhr̥taśalyaḥ; bhruvōrmadhyē sthapanī, tatrōtkṣēpavat; pañca sandhayaḥ śirasi vibhaktāḥ sīmantā nāma, tatrōnmādabhayacittanāśairmaraṇaṁ; ghrāṇaśrōtrākṣijihvāsantarpaṇīnāṁ sirāṇāṁ madhyē sirāsannipātaḥ śr̥ṅgāṭakāni [52] , tāni catvāri marmāṇi, tatrāpi sadyōmaraṇaṁ [53] ; mastakābhyantarōpariṣṭhāt sirāsandhisannipātō rōmāvartō’dhipatiḥ, tatrāpi sadya ēva [54] |
ēvamētāni saptatriṁśadūrdhvajatrugatāni marmāṇi vyākhyātāni ||27||

ata ūrdhvamityādi| vyatyāsēna vaiparītyēna, ēkā nīlā ēkā manyā caikasmin pārśvē, anyā nīlā anyā manyā cāparasmin pārśvē; sirāmarmaṇī caturaṅgulē vaikalyakāriṇī ca| grīvāyāmityādi ubhayataścatasra iti ēkasmin ēkasmin pārśvē catasraścatasra ityarthaḥ; sirāmarmāṇi caturaṅgulapramāṇāni mātr̥kāḥ| śira ityādi sandhimarmaṇī ardhāṅgulē vaikalyakāriṇī ca| karṇētyādi snāyumarmaṇī kiñcinnimnākārē vaikalyakāriṇī ca| ghrāṇētyādi ghrāṇamārgasya dvayōḥ pārśvayōrabhyantaravivarasambaddhē [55] phaṇē, sirāmarmaṇī ardhāṅgulē vaikalyakāriṇī ca| bhrūpucchētyādi sirāmarmaṇī ardhāṅgulē vaikalyakāriṇī ca| bhruvōruparītyādi bhruvōrupari nimnayōriti pradēśakathanaṁ, sandhimarmaṇī ardhāṅgulē vaikalyakāriṇī ca| bhruvōrityādi asthimarmaṇī ardhāṅgulē| śaṅkhayōrityādi kēśāntē kēśaparyantē, snāyumarmaṇī ardhāṅgulē viśalyaprāṇaharē ca| bhruvōrmadhyē ityādi tatrōtkṣēpavaditi saśalyaḥ svayaṁ patitaśalyō vā jīvatyuddhr̥taśalyō mriyata ityarthaḥ, sirāmarma ardhāṅgulaṁ viśalyaghnaṁ ca| pañcētyādi pañca sandhayō yē śirasi vibhaktāḥ śarīrasaṅkhyāvyākaraṇē tē sīmantā ityarthaḥ, imāni sandhimarmāṇī caturaṅgulapramāṇāni kālāntaraprāṇaharāṇi ca| ghrāṇaśrōtrētyādi ghrāṇādīndriyacatuṣkatarpaṇīnāṁ sirāṇāṁ sirāmukhānāṁ sannipātaḥ saṁyōgasthānaṁ śr̥ṅgāṭakāni, tāni catvāri ghrāṇāditarpaṇasirāṇāṁ caturbhēdāt; imāni sirāmarmāṇi caturaṅgulapramāṇāni| mastakētyādi mastakābhyantarōpariṣṭhāditi mastakasyābhyantarōrdhvamityarthaḥ, sirāsandhyōḥ sannipātō rōmāvartaḥ, bahirasya lakṣaṇamupariṣṭhādrōmāvartaḥ; ētat sandhimarma ardhāṅgulapramāṇaṁ ca||27||

bhavanti cātra ślōkāḥ-
urvyaḥ śirāṁsi viṭapē ca sakakṣapārśvē
ēkaikamaṅgulamitaṁ stanapūrvamūlam |
viddhyaṅguladvayamitaṁ maṇibandhagulphaṁ
trīṇyēva jānu saparaṁ saha kūrparābhyām ||28||
hr̥dbastikūrcagudanābhi vadanti mūrdhni
catvāri pañca ca galē daśa yāni ca dvē |
tāni svapāṇitalakuñcitasammitāni
śēṣāṇyavēhi parivistaratō’ṅgulārdham ||29||

idānīṁ sarvēṣāmēva marmaṇāṁ sūtrēṇa mānamāha- bhavanti cātrētyādinā| śirāṁsi kūrcaśirāṁsi| kakṣapārśvē kakṣadharē ityarthaḥ| ēkaikamaṅgulamitamiti ēkaikaṁ yathā bhavati tathōrvyādayō marmaviśēṣā aṅgulamitā jñēyāḥ| stanapūrvamūlamityādi maṇibandhagulphaṁ stanamūlaṁ cāṅguladvayamitaṁ viddhi jānīhīti sambandhaḥ| trīṇyēva jānu saparamiti saparaṁ dvitīyajānusahitaṁ jānu trīṇi tryaṅgulāni viddhītyarthaḥ| mūrdhni catvāri pañca cēti yāni mūrdhni catvāri marmāṇi śr̥ṅgāṭakasañjñakāni, tathā tatraiva pañca sīmantasañjñakāni, galē daśa yāni ca dvē iti galē kaṇṭhē yāni daśa dvē ca kathitāni tatrāṣṭau mātr̥kāḥ dvē nīlē dvē ca manyē, ētāni marmāṇi svapāṇitalakuñcitasammitāni caturaṅgulapramāṇānītyarthaḥ| śēṣāṇi ṣaṭpañcāśanmarmāṇi| avēhi jānīhi| anyē tu, imāni ṣaṭpañcāśanmarmāṇi talapramāṇānyāhuḥ| gayī tu, anyādr̥śaṁ sūtraṁ paṭhitvā stanamūlē dvē gulphē ca, indrabastayaścatvārō, dvau maṇibandhāviti daśa marmāṇi dvyaṅgulāni bhōjadarśanādvyākhyāti, tathā jānu saparamityatra saha parēṇa parapradēśāvasthitēnāṇimarmaṇā vartatē yat tat saparaṁ; tēna jānuni dvē, āṇayaścatasraḥ, kūrparē dvē, ityaṣṭau tryaṅgulāni vyākhyāti| śēṣaṁ samam||28-29||

ētatpramāṇamabhivīkṣya vadanti tajjñāḥ śastrēṇa karmakaraṇaṁ parihr̥tya kāryam |
pārśvābhighātitamapīha nihanti marma tasmāddhi marmasadanaṁ parivarjanīyam ||30||

mānakathanaprayōjanamāha- ētadityādinā| marmasadanamiti marmasthānam||30||

chinnēṣu pāṇicaraṇēṣu sirā [56] narāṇāṁ saṅkōcamīyurasr̥galpamatō nirēti |
prāpyāmitavyasanamugramatō manuṣyāḥ sañcchinnaśākhataruvannidhanaṁ na yānti ||31||
kṣiprēṣu tatra satalēṣu hatēṣu raktaṁ gacchatyatīva pavanaśca rujaṁ karōti |
ēvaṁ vināśamupayānti hi tatra viddhā vr̥kṣā ivāyudhanipātanikr̥ttamūlāḥ ||32||
tasmāttayōrabhihatasya tu pāṇipādaṁ chēttavyamāśu maṇibandhanagulphadēśē |33|

karacaraṇacchēdē jīvanti tadavayavabhūtamarmacchēdē tu na jīvantīti viśēṣaṁ darśayannāha- chinnēṣvityādi| saṅkōcamīyuḥ saṅkōcaṁ jagmuratō’lpaṁ rudhiraṁ pravartatē| kṣiprēṣvityādi tatra pāṇyōścaraṇayōrvā| gayī tu, vr̥kṣā ivāyudhanipātētyādisthānē ‘kiñjalkapatramathanādiva paṅkajāni’ iti paṭhati||31-32||-

marmāṇi śalyaviṣayārdhamudāharanti yasmācca marmasu hatā na bhavanti sadyaḥ ||33||
jīvanti tatra yadi vaidyaguṇēna kēcittē prāpnuvanti vikalatvamasaṁśayaṁ hi |34|

marmamānakathanaprayōjanaṁ pūrvataravākyē pratipādya marmasthānaviṣayaṁ nirdiśannāha- marmāṇītyādi| śalyasya manaḥśarīrābādhakarasya viṣayaḥ śalyaviṣayaḥ; sa ca śastrādipraṇidhānānmaraṇāmaraṇakārakatvēna dvividhaḥ; tatra maraṇakārakaḥ śalyaviṣayō marmākhyaḥ śarīradēśaḥ, yasmāttatra hatāḥ sadya ēva na bhavanti saptāhābhyantara ēva mriyanta ityarthaḥ, tasmānmaraṇakārakatvēna marmāṇi śalyaviṣayārdhamudāharanti, ‘pūrvācāryāḥ’ iti śēṣaḥ| nanu, kēcinmarmahatā api jīvantō dr̥śyantē tat kathaṁ maraṇakārakatvēna marmāṇi śalyaviṣayārdhamityāśaṅkyāha- jīvantītyādi||33||-

sambhinnajarjaritakōṣṭhaśiraḥkapālā jīvanti śastranihataiśca śarīradēśaiḥ ||34||
chinnaiśca sakthibhujapādakarairaśēṣairyēṣāṁ [57] na marmasu [58] kr̥tā vividhāḥ prahārāḥ |35|

prasaṅgatō’paraṁ śalyaviṣayārdhaṁ pratipādayitukāmō’marmahatāstu vividhairapi chēdabhēdādibhirna mriyanta iti darśayannāha- sambhinnētyādi||34||

sōmamārutatējāṁsi rajaḥsattvatamāṁsi ca |
marmasu prāyaśaḥ puṁsāṁ bhūtātmā cāvatiṣṭhatē ||35||
marmasvabhihatāstasmānna jīvanti śarīriṇaḥ |36|

idānīṁ marmaṇāṁ śarīramanōdōṣanivāsabhūtānāṁ śarīramanōdōṣairēva marmaviddhakupitairmanaḥ śarīraṁ ca naśyati, tayōrādhārabhūtayōrnāśādādhēyabhūtō bhūtātmā’pi naśyatīti darśayitumāha- sōmētyādi||35||-

indriyārthēṣvasamprāptirmanōbuddhiviparyayaḥ [59] ||36||
rujaśca vividhāstīvrā bhavantyāśuharē hatē |
hatē kālāntaraghnē tu dhruvaṁ dhātukṣayō nr̥ṇām ||37||
tatō dhātukṣayājjanturvēdanābhiśca naśyati |
hatē vaikalyajananē kēvalaṁ vaidyanaipuṇāt ||38||
śarīraṁ kriyayā yuktaṁ vikalatvamavāpnuyāt |
viśalyaghnē tu vijñēyaṁ pūrvōktaṁ yacca kāraṇam ||39||
rujākarāṇi marmāṇi kṣatāni vividhā rujaḥ |
kurvantyantē ca vaikalyaṁ kuvaidyavaśagō yadi ||40||

sadyaḥprāṇaharādimarmapañcakasya lakṣaṇaṁ nirdiśannāha- indriyārthēṣvityādi| āśuharē sadyaḥprāṇaharē| pūrvōktamiti ‘śalyamukhāvaruddhō yāvadantarvāyustiṣṭhati tāvajjīvati’ ityādyuktamēva kāraṇaṁ jñēyaṁ lakṣaṇatvēnētyarthaḥ||36-40||

chēdabhēdābhighātēbhyō dahanāddāraṇādapi |
upaghātaṁ vijānīyānmarmaṇāṁ tulyalakṣaṇam ||41||

idānīṁ marmaghātatulyaṁ marmasamīpasyāpi dēśasya ghātaṁ mahānarthakaraṁ darśayannāha- chēdētyādi| upaghātaṁ samīpaghātam||41||

marmābhighātastu na kaścidasti yō’lpātyayō vā’pi niratyayō vā |
prāyēṇa marmasvabhitāḍitāstu vaikalyamr̥cchantyathavā mriyantē ||42||

marmābhighātē vaidyasya yatnaparatāṁ darśayannāha- marmābhighāta ityādi| alpātyaya iti alpavyāpat| niratyaya iti nirgatavyāpat| gayī tvētadvākyaṁ na paṭhati||42||

marmāṇyadhiṣṭhāya hi yē vikārā mūrcchanti kāyē vividhā narāṇām |
prāyēṇa tē kr̥cchratamā bhavanti narasya yatnairapi sādhyamānāḥ ||43||

śarīradōṣēṇāpi marmaṇāṁ marmasamīpadēśasyāpi niyataṁ mahānarthaṁ darśayannāha- marmāṇyadhiṣṭhāyētyādi| mūrcchanti samucchrāyaṁ gacchanti| yasmādēvaṁvidhō marmābhighātastasmādvaidyēna yatnaḥ kārya iti sūcitam||43||

iti suśrutasaṁhitāyāṁ śārīrasthānē pratyēkamarmanirdēśaśārīraṁ nāma ṣaṣṭhō’dhyāyaḥ ||6||

iti śrīḍalha(hla)ṇaviracitāyāṁ nibandhasaṅgrahākhyāyāṁ suśrutavyākhyāyāṁ
śārīrasthānē ṣaṣṭhō’dhyāyaḥ||6||

1. ‘dvau phaṇau’ iti pā.|
2. ‘dvāvapastambau’ iti pā.|
3. ‘āṇayaḥ’ iti pā.|
4. ‘…stanarōhitāpastambhāvapalāpau cēti’ iti pā.|
5. ‘… nyapastambau’ iti pā.|
6. ‘dvau phaṇau’ iti pā.|
7. ‘imē sirāmarmaṇī, ‘grīvāyāṁ ṣōḍaśāvyadhyāḥ’ ityatra ḍalhaṇēnaiva vidhurayōḥ ṣōḍaśasaṅkhyāyāmēva parigaṇanaṁ kr̥taṁ, snāyumarmasu gaṇanaṁ tu pratisaṁskartr̥dōṣadūṣitaṁ pratibhāti’ (rasayōgasāgara, upōddhāta, pr̥.156)|
8. ‘pañcavidhāni’ iti tā.|
9. ‘sadyōharāṇi’ iti pā.|
10. ‘pārśvagau’ iti, ‘pārśvayōḥ’ iti ca pā.|
11. ‘apastambau’ iti pā.|
12. ayaṁ pāṭhō hastalikhitapustakēṣu nōpalabhyatē|
13. ‘viśēṣēṇa’ iti pā.|
14. ‘samavr̥ddhānāṁ’ iti pā.|
15. ‘ca’ iti pā.|
16. ‘viśalyaghnāni’ iti pā.|
17. ‘yataścaivamatō’ iti pā.|
18. ‘utpadyata ēvaṁ sthāpanā’ iti pā.|
19. ‘māṁsasandhisirāhīnē’ iti pā.|
20. ‘māṁsādisaṅghātāt’ iti pā.|
21. ‘yataścaiva…’ iti pā.|
22. ‘pratipālayanti’ iti pā.|
23. ‘punaḥ’ iti pā.|
24. ‘viśalyaprāṇaharamantē viddhaṁ klēśayati kālāntarēṇa ca rujāṁ karōti’ iti pā.|
25. ‘kāraṇavaikalyāt’ iti pā.|
26. ‘pratyēkaśō marmasthānāni’ iti pā.|
27. ‘kṣipramiti marma’ iti pā.|
28. atra ‘nāma’ iti hastalikhitapustakē nōpalabhyatē, ēvamagrē’pi|
29. ‘jaṅghāpādayōḥ’ iti pā.|
30. ‘jānusandhērubhayatastrayaṅgulē’ iti pā.|
31. ‘āṇiḥ’ iti pā.|
32. ‘ūrumadhyē lōhitākhyaṁ’ iti pā.|
33. asyāgrē ‘yathā pādajaṅghayōrmadhyē gulphō nāma marma, ēvaṁ hastatalaprakōṣṭhayōḥ sandhau maṇibandhō nāma marma| yathā jaṅghōrvōḥ sandhānē jānurnāma marma, ēvaṁ hastabāhvōḥ sandhānē kūrparō nāma’ ityadhikaḥ pāṭha upalabhyatē tā. pustakē|
34. ‘viṭapa ēvaṁ’ iti pā.|
35. marmasthānānyanuvyākhyāsyāmaḥ’ iti pā.|
36. stanamūlalakṣaṇē ‘stanayōrūrdhvaṁ, iti, stanarōhitalakṣaṇē ca ‘stanacūcukayōradhastāt’ iti ca rasayōgasāgarasyōpōddhātē (pr̥.158) saṁśōdhitaḥ pāṭhaḥ| viśēṣavivaraṇaṁ tu tatraiva draṣṭavyam|
37. ‘kāsaśvāsābhyāṁ’ iti hastalikhitapustakē na paṭhyatē|
38. ‘dvayaṅgulamubhayataḥ’ iti hastalikhitapustakē na paṭhyatē|
39. ‘stanacūcukayōrmadhyē stanarōhitau’ iti pā.|
40. ‘dvyaṅgulē’ iti pā.|
41. dvyaṅgulē ubhayataḥ’ iti pā.|
42. ‘anuvyākhyāsyāmaḥ’ iti pā.|
43. ‘hīnadēhaśca’ iti pā.|
44. ‘svāpaḥ śōṣō vā’ iti pā.|
45. ‘nimnau kukundarau’ iti pā.|
46. ‘pakvāśayapidhāyakau’ iti pāṭhaścēt sādhu|
47. ‘pārśvakānāṁ’ iti pā.|
48. ‘kramavr̥ddhatvaṁ’ iti pā.|
49. ‘nāma vyatyayēna’ iti pā.|
50. ‘catasraścatasraḥ’ iti pā.|
51. bhruvōrantōpari’ iti pā.|
52. ‘śr̥ṅgāṭakasañjñaścaturdhā, tatrāpi’ iti pā.|
53. ‘sadya ēva’ iti pā.|
54. ‘sadyō maraṇaṁ’ iti pā.|
55. ‘…vivaradvārasambaddhē’ iti pā.|
56. ‘sirāmukhāṇāmākuñcanāt khalu nr̥ṇāmasr̥galpamēti| chinnēṣu pāṇicaraṇēṣu bhavantyatastu nālēṣu vr̥ttamathitēṣu yathōtpalēṣu’ iti tā.|
57. ‘…raśēṣaṁ’ iti pā.|
58. ‘marmapatitā’ iti pā.|
59. ‘asaṁvittiḥ’ iti tā.|

Scroll to Top