Table of Contents
Devanagari Version
काशिराजधन्वन्तरिणोपदिष्टा तच्छिष्यसुश्रुतेन विरचिता
सुश्रुतसंहिता
श्रीडल्हणाचार्यविरचितया निबन्धसङ्ग्रहाख्यव्याख्यया निदानस्थानस्य श्रीगयदासाचार्यविरचितया न्यायचन्द्रिकाख्यपञ्जिकाव्याख्यया च समुल्लसिता
शारीरस्थानम् - ९. धमनीव्याकरणशारीरम्
Only Moolashloka
अथातो धमनीव्याकरणं शारीरं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
सिराव्यधविधिशारीरानन्तरं सिराधमनीस्रोतसां सदृशत्वाद्धमनीव्याकरणारम्भो युज्यत इत्याह- अथेत्यादि| ध्मानादनिलपूरणाद्धमन्यः, तासां व्याकरणं विवरणं यस्मिन् शारीर इति विग्रहः||१-२||
चतुर्विंशतिर्धमन्यो नाभिप्रभवा अभिहिताः |
तत्र केचिदाहुः- सिराधमनीस्रोतसामविभागः, सिराविकारा एव हि धमन्यः स्रोतांसि चेति |
तत्तु न सम्यक्, अन्या एव हि धमन्यः स्रोतांसि च सिराभ्यः; कस्मात्? व्यञ्जनान्यत्वान्, मूलसन्नियमात्, कर्मवैशेष्यात्, आगमाच्च; केवलं तु परस्परसन्निकर्षात् सदृशागमकर्मत्वात् सौक्ष्म्याच्च विभक्तकर्मणामप्यविभाग इव कर्मसु भवति ||३||
तास्वतीतावेक्षणं निर्दिशन्नाह- चतुर्विंशतिरित्यादि| अभिहिता उक्ताः, ‘शोणितवर्णनीये’ (सू.१४) इति शेषः तत्र धमनीसिरास्रोतःस्वेकीयमतं स्वमतेन हेतुमता निराकर्तुमाह- तत्रेत्यादि| अविभागोऽपृथक्त्वं, सरणात् सिराः, ता एव ध्मानाद्धमन्यः, स्रवणात् स्रोतांसीति [१] | अपृथक्त्वे स्वयमेव हेतुमाह- सिराविकारा इत्यादि| सिराविकारा इति सिराणामेवाकारान्तरेण परिणामाः, पिष्टविकारक्षीरविकारवत्| पुनरपि तैरुक्तं- “आकाशीयावकाशानां देहे नामानि देहिनाम्| सिराः स्रोतांसि मार्गाः खं धमन्यो नाड्य आशयाः”- इत्यादि| परमतोच्छेदमाह- तत्तु न सम्यगित्यादि| व्यञ्जनान्यत्वात् लक्षणान्यत्वात्; तत्र सिराणां वातादिवहानामरुणनीलशुक्ललोहितवर्णत्वं लक्षणं, शब्दादिवहधमनीनां तु वर्णानुक्तेः स्वधातुसमवर्णत्वम्, एवं स्रोतसामपि| तदुक्तं चरके- “स्वधातुमसवर्णानि वृत्तस्थूलान्यणूनि च| स्रोतांसि दीर्घाण्याकृत्या” (च.वि.५) इत्यादिकम्| मूलसन्नियमो द्वितीयो भेदो यथा- “तासां मूलसिराश्चत्वारिंशत्” इत्यारभ्य यावत् “एवमेतानि सप्तसिराशतानि” (शा.७); धमनीनां तु “चतुर्विंशतिर्धमन्यः”; स्रोतसां पुनर्द्वाविंशतिः स्रोतांसि| कर्मवैशेष्यं विशिष्टकर्मकरत्वं, तच्च तृतीयभेदकारणं; तद्यथा- “कर्मणामप्रतीघातं” (शा.७) इत्यादिनोक्तं सिराणां कर्मवैशेष्यं, शब्दरूपरसगन्धवहत्वादिकं धमनीनां, प्राणान्नवारिरसशोणितमांसमेदोवाहित्वं स्रोतसाम्| आगमोऽत्रायुर्वेदः, स चतुर्थो भेदहेतुः; तद्यथा- “सिरा धमन्यो योगवहानि स्रोतांसि” (शा.५) इति, तथा “मर्मसिरास्नायुधमनीः परिहरन्” (सू.५) इत्यादिषु सिरादीनां यदि विभक्तत्वं नाभविष्यत्तदा [२] पृथग्विवरणं नाकरिष्यदिति| इदानीमेतेषां सिराधमनीस्रोतसां परस्परभिन्नानामपि कर्मस्वविभाग इव भवतीति दर्शयन्नाह- केवलमित्यादि| सन्निकर्षो नैकट्यम्| अतिसन्निकर्षादिहेतुचतुष्टयेन कर्मस्वपृथक्त्वमिव भवति| कथं? यथाऽतिसन्निकर्षयुक्तीकृतानां तृणानां प्रत्येकं भिन्नज्वलनक्रियाणामभिन्नमिव ज्वलनं प्रतीयते| सदृशागमत्वादिति आप्तानां वचनमागमः, तस्य सदृशत्वात्| तथा हि- “आकाशीयावकाशानां देहे नामानि देहिनाम्| सिराः स्रोतांसि मार्गाः खं धमन्य” इत्याप्तोपदिष्टेन सिरादिसादृश्येन न निर्धार्य ज्ञायते सिरादिषु कस्येदं तोयादिवहनं कर्म| सदृशकर्मत्वाच्च यथा- सह गायतां गायकानां भिन्नगीतक्रियाणामप्यभिन्नगीतक्रियात्वप्रतीतिः [३] | सौक्ष्म्याद्यथा- घटस्थितमृत्परमाणूनां प्रत्येकमुदकाहरणं कुर्वतामेकक्रियाकारित्वप्रतीतिः||३||
तासां तु खलु नाभिप्रभवाणां धमनीनामूर्ध्वगा दश, दश चाधोगामिन्यः, चतस्रस्तिर्यग्गाः ||४||
तासामित्यादि||४||
ऊर्ध्वगाः शब्दस्पर्शरूपरसगन्धप्रश्वासोच्छ्वासजृम्भितक्षुद्धसितकथितरुदितादीन् विशेषानभिवहन्त्यः शरीरं धारयन्ति |
तास्तु हृदयमभिप्रपन्नास्त्रिधा जायन्ते, तास्त्रिंशत् |
तासां तु वातपित्तकफशोणितरसान् द्वे द्वे वहतस्ता दश, शब्दरूपरसगन्धानष्टाभिर्गृह्णीते, द्वाभ्यां भाषते, द्वाभ्यां घोषं करोति, द्वाभ्यां स्वपिति, द्वाभ्यां प्रतिबुध्यते, द्वे चाश्रुवाहिन्यौ, द्वे स्तन्यं स्त्रिया वहतः स्तनसंश्रिते, ते एव शुक्रं नरस्य स्तनाभ्यामभिवहतः, तास्त्वेतास्त्रिंशत् सविभागा व्याख्याताः |
एताभिरूर्ध्वं नाभेरुदरपार्श्वपृष्ठोरःस्कन्धग्रीवाबाहवो धार्यन्ते याप्यन्ते च ||५||
भवति चात्र-
ऊर्ध्वङ्गमास्तु कुर्वन्ति कर्माण्येतानि सर्वशः |६|
प्रश्वासोऽन्तःप्रविशद्वायुः, उच्छ्वास ऊर्ध्वमुत्तिष्ठद्वायुः, जृम्भितक्षुद्धसितकथितानि घोषभाषयोर्विशेषाः, रुदितमश्रुवाहिन्योः कर्म, आदिशब्दाद्रूपादिवाहिनीसम्बन्धिनां प्रेक्षितादिकर्मविशेषाणामवरोधः| तास्त्वित्यादि| शब्दादींश्चतुरः प्रत्येकं द्वाभ्यां द्वाभ्यामित्यष्टाभी रजःप्रवर्तितात्मप्रयत्नप्रबोधमनोऽनुगताभिर्धमनीभिर्गृह्णीते| मनसश्चाणुत्वादेकत्वाच्च तासां युगपत्प्रवृत्तिर्नास्तीति तासां या धमनी मनसाऽनुयुज्यते तयैव रूपादिष्वन्यतममात्मा गृह्णीते, न पुनर्युगपदेव रूपादिकं सर्वं सर्वाभिरिति [४] | स्पर्शग्रहणं पुनरत्रैवाध्याये तिर्यग्गाणां कर्म वक्ष्यति| भाषत इति ताल्वादिस्थानव्यापारनिष्पादिताकारादिवर्णव्यक्तियुक्तं शब्दं करोति, घोषश्च तद्विपरीतोऽव्यक्तः शब्दः| द्वाभ्यां स्वपिति तमोविषयाभ्यां, सत्त्वविषयाभ्यां तु बुध्यते| एताभिरूर्ध्वं नाभेरुदरादयो धार्यन्ते, अङ्गादिभिः सहैताभिरुदरादीनां बन्धनेन दृढीकृतत्वात्; वातादिवहनेन चैताभिरेव याप्यन्ते||५||-
अधोगमास्तु वक्ष्यामि कर्म चासां यथायथम् [५] ||६||
अधोगमास्तु वातमूत्रपुरीषशुक्रार्तवादीन्यधो वहन्ति |
तास्तु पित्ताशयमभिप्रपन्नास्तत्रस्थमेवान्नपानरसं विपक्वमौष्ण्याद्विवेचयन्त्योऽभिवहन्त्यः शरीरं तर्पयन्ति, अर्पयन्ति चोर्ध्वगानां तिर्यग्गाणां [६] च, रसस्थानं चाभिपूरयन्ति, मूत्रपुरीषस्वेदांश्च विवेचयन्ति; आमपक्वाशयान्तरे च त्रिधा [७] जायन्ते, तास्त्रिंशत्; तासां तु वातपित्तकफशोणितरसान् द्वे द्वे वहतस्ता दश, द्वे अन्नवाहिन्यावन्त्राश्रिते, तोयवहे द्वे, मूत्रबस्तिमभिप्रपन्ने मूत्रवहे द्वे, शुक्रवहे द्वे शुक्रप्रादुर्भावाय, द्वे विसर्गाय, ते [८] एव रक्तमभिवहतो विसृजतश्च नारीणामार्तवसञ्ज्ञं, द्वे वर्चोनिरसन्यौ स्थूलान्त्रप्रतिबद्धे, अष्टावन्यास्तिर्यग्गामिनीनां धमनीनां स्वेदमर्पयन्ति; तास्त्वेतास्त्रिंशत् सविभागा व्याख्याताः |
एताभिरधोनाभेः पक्वाशयकटीमूत्रपुरीषगुदबस्तिमेढ्रसक्थीनि धार्यन्ते याप्यन्ते च ||७||
भवति चात्र-
अधोगमास्तु कुर्वन्ति कर्माण्येतानि सर्वशः |८|
वाताद्यभिवहनमासां सामान्यं कर्म| आर्तवादीनीत्यादिशब्दादन्नतोयादीनां स्वीकारः| स्थानान्तरगतानां तासामेव कर्माह- तास्त्वित्यादि| अभिप्रपन्ना अभिमुखं प्राप्ताः| विपक्वमौष्ण्यादिति ‘अग्नेः’ इति शेषः| विवेचयन्त्य इति यथा यथा विपक्वमशनरसं तथा तथा पृथक् कुर्वन्त्य इत्यर्थः| अभिवहन्त्य इति अभितः सर्वतो वहन्त्यः| तर्पयन्ति प्रीणयन्ति| कथं पुनः सकलमेव शरीरं तास्तर्पयन्तीत्याशङ्क्याह- अर्पयन्तीत्यादि| कथमर्पयन्तीत्यत्र युक्तिमाह- रसस्थानं चाभिपूरयन्तीति| अयमभिप्रायः- आमपक्वाशये अधोनाभिरेवैवमन्नरसो वर्तुलीकृतो यथा रसस्थानस्य पूरणं ततश्चोर्ध्वगाभिस्तिर्यग्गाभिश्च तत्र तत्रोपनीयत इति सकलशरीरतर्पणमधोगतानामेव कर्म; रसस्थानं च हृदयं, तत्पूरणं च तन्निष्पादितरसपरम्परया न पुनः साक्षादेव, अधोगमत्वेनासामूर्ध्वगमनाभावाद्धृदयगमनमेव नास्तीति| तत्र मूत्रपुरीषस्वेदांश्च विवेचयन्ति पृथक् कुर्वन्ति, पक्वान्नरसादिति सम्बन्धः| पित्ताशये कर्म तासां निर्दिश्यामपक्वाशयान्तरे निर्दिशन्नाह- आमपक्वाशयान्तर इत्यादि| पचनं पक्वं भावे क्तः, तस्याशयः पक्वाशयः, एतेनामस्य पच्यमानस्य यदन्तरं तत्रेत्यर्थः| द्वे अन्नवाहिन्यावन्त्राश्रिते नहि पित्ताशये रसमूत्रपुरीषभावेन विविच्यमानस्याहारस्यान्नभावोऽस्ति [९] , नापि तोयस्य तोयभावना; तेन तोयमत्र भविष्यतो मूत्रस्य कारणभूतं पक्वाहारविवेकजं द्रवमयमुदकमिवोदकं [१०] , तदपि द्वे एव वहतः; तदेवोदकं बस्तिविवरप्राप्तं मूत्रमित्युच्यते, तद्वहे द्वे मूत्रबस्तिसम्बद्धे| एवमन्नमत्र भविष्यतः किट्टस्य कारणभूतं पक्वाहारविवेकजं घनमन्नमिवान्नं, तदपि द्वे एव वहतः; तदेवोण्डु(न्दु)कप्राप्तं पुरीषमित्युच्यते||६-७||-
तिर्यग्गाः सम्प्रवक्ष्यामि कर्म चासां यथायथम् ||८||
तिर्यग्गाणां तु चतसृणां धमनीनामेकैका शतधा सहस्रधा चोत्तरोत्तरं विभज्यन्ते, तास्त्वसङ्ख्येयाः, ताभिरिदं शरीरं गवाक्षितं विबद्धमाततं च, तासां मुखानि रोमकूपप्रतिबद्धानि, यैः स्वेदमभिवहन्ति रसं चाभितर्पयन्त्यन्तर्बहिश्च [११] , तैरेव चाभ्यङ्गपरिषेकावगाहालेपनवीर्याण्यन्तःशरीरमभिप्रतिपद्यन्ते त्वचि विपक्वानि, तैरेव च स्पर्शं सुखमसुखं वा गृह्णीते, तास्त्वेताश्चतस्रो धमन्यः सर्वाङ्गगताः सविभागा व्याख्याताः ||९||
विभज्यन्ते स्वयमेव विभक्ता भवन्ति| गवाक्षितं जालकैरिव व्याप्तम्| रसं चेत्यादि| रसं रसधातुम्| अन्तः अभ्यन्तरे| यैर्मुखैः सम्यक्परिणताहाररसवाहिभिः [१२] | सन्तर्पयन्ति सर्वतस्तर्पयन्ति| बहिश्च सन्तर्पयन्ति ‘त्वचम्’ इति शेषः| तैरेव चाभ्यङ्गादीनां वीर्याणि त्वचि भ्राजकेनाग्निना विपक्वानि शरीरान्तः प्रविशन्ति| तैरेव मनोनुगतैः सुखासुखरूपं स्पर्शं कर्मात्मा गृह्णीते| ताः सर्वाङ्गगताः स्पर्शग्रहणायाधिकृतत्वात्, तद्गतं मनोऽपि सर्वाङ्गस्रोतोगतमेव| तेनोर्ध्वगानां चानियत [१३] एव देशो भवति||८-९||
यथा स्वभावतः खानि मृणालेषु बिसेषु च |
धमनीनां तथा खानि रसो यैरुपचीयते ||१०||
यथेत्यादि| खानि स्रोतांसि| रसो यैरुपचीयत इति रसः प्रधानभूतः, तेनान्यदभ्यङ्गपरिषेकादिवीर्यम्||१०||
पञ्चाभिभूतास्त्वथ पञ्चकृत्वः पञ्चेन्द्रियं पञ्चसु भावयन्ति |
पञ्चेन्द्रियं पञ्चसु भावयित्वा पञ्चत्वमायान्ति विनाशकाले ||११||
इदानीं शब्दादिग्राहिणीनां सर्गस्थितिप्रलयेषु प्रकृतिभूतानामप्रकृतिभूतानां च क्रियोपदेशमाह- पञ्चाभिभूता इत्यादि| अस्यार्थः- भावयन्ति योजयन्ति, काः? पञ्चाभिभूताः पञ्चभ्यो भूतेभ्योऽभि समन्ताद्भूताः, शब्दस्पर्शरूपरसगन्धैर्वा पञ्चभिरभिभूता व्याप्ताः, आकाशपवनदहनतोयभूमिभिर्वा पञ्चभिरभिभूता व्याप्ता धमन्यः; कं? पञ्चेन्द्रियं कर्मपुरुषं; केषु? पञ्चसु श्रोत्रादिष्विन्द्रियाधिष्ठानेषु; कथं? पञ्चकृत्वः पञ्चवारान्, भावयन्ति योजयन्ति; अथ आयान्ति आगच्छन्ति; काः? धमन्यः; किं पञ्चत्वं; किं कृत्वा? भावयित्वा संयोज्य; किं तत्? पञ्चेन्द्रियम् इन्द्रियपञ्चकं सूक्ष्मरूपं; केषु? पञ्चस्वाकाशादिषु महाभूतेषु; एतेनैतदुक्तं भवति- आकाशादिपञ्चभूतसमुत्पन्ना धमन्यः कर्मपुरुषमिन्द्रियाधिष्ठानेषु पञ्चवारान् भावयन्ति, ततश्चेन्द्रियपञ्चकमाकाशादिषु भूतेषु संयोज्य विनाशकाले धमन्यो विनाशं यान्ति| अन्ये तु ‘पञ्चादिभूतान्यथ पञ्चकृत्वा’ इति पठन्ति, व्याख्यानयन्ति च- आदिभूतान्याकाशादीनि पञ्चमहाभूतानि, पञ्चेन्द्रियं कर्मपुरुषं, पञ्चसु चक्षुरादिष्विन्द्रियाधिष्ठानेषु योजयन्ति; ततश्च पञ्चेन्द्रियं कर्मपुरुषं पञ्चसु चक्षुरादिष्विन्द्रियाधिष्ठानेषु, भावयित्वा संयोज्य, तानि पञ्च आदिभूतानि, विनाशकाले पञ्चत्वमायान्ति| अपरे तु ‘पञ्चाभिभूतास्त्वथ पञ्चधा वा’ इति पठन्ति, व्याख्यानयन्ति च- भावयन्ति योजयन्ति, काः? पञ्चाभिभूता धमन्यः; आयान्ति किं? पञ्चत्वं विनाशं; क्व? विनाशकाले; किं कृत्वा? भावयित्वा संयोज्य; किं तत्? पञ्चेन्द्रियं बुद्धीन्द्रियपञ्चकं कर्मेन्द्रियपञ्चकं च; केषु? पञ्चसु शब्दादिषु वचनादिषु चात्मीयेष्वर्थेषु [१४] ; कथं? पञ्चधा पञ्चभिः प्रकारैः, तदनन्ता एव धमन्यः; किं? पञ्चत्वं विनाशं; क्व? विनाशकाले; किं कृत्वा? भावयित्वा संयोज्य; कं पञ्चेन्द्रियं बुद्धीन्द्रियपञ्चकं कर्मेन्द्रियपञ्चकं च; क्व? शब्दादिषु स्वकीयेष्वर्थेषु| अथवा पञ्चानामाकाशपवनदहनतोयभूमीनां पृथगाभिमुख्येन भूताः सत्तारूपेण व्यवस्थिता धमन्यः, पञ्चेन्द्रियं कर्मपुरुषं, यथास्वं पञ्चसु चक्षुरादिष्विन्द्रियाधिष्ठानेषु, भावयन्ति योजयन्ति| गयी त्वन्यथाऽऽपातनिकां विधाय व्याख्याति; यथा- अत्र रूपादिग्राहिणीनां धमनीनां पञ्चत्वात् पञ्चभिर्धमनीभिः पञ्चानामपि रूपादीनां युगपद्ग्रहणेन भवितव्यमित्याशङ्क्याह- पञ्चाभिभूता इत्यादि| अस्यायमर्थः- पञ्चसु रूपादिषु, पञ्चेन्द्रियं चक्षुरादिकं, पञ्च धमन्यो भावयन्ति वेदयन्ति; स्वयं तावत् पञ्चेन्द्रियाणि रूपादिकं विदन्ति, तानि च पञ्च धमन्यस्तेषु वेदयन्ति| कथं? पञ्चकृत्वः पञ्चवारान्| न चैकवारमेव पञ्चापि धमन्यः पञ्चापीन्द्रियाणि पञ्चस्वपि रूपादिषु वेदयन्ति, तत् कुतः पुनरिति हेतुगर्भं विशेषणमाह- अभिभूता अभिमुखं प्राप्ताः| केन? ‘मनसा’ इति शेषः| कस्मात्? कर्तृमनःपुरःसरेन्द्रियार्थग्रहणात्; मन्ता हि शरीरे एक एव, मनोऽप्येकमेव, तेन मनसा यैव शब्दादिवहासु धमनीष्वभिप्रपन्ना सैव स्वधर्मं ग्राहयति मन्तारं नान्येति; यतो मनःपुरःसरैवेन्द्रियप्रवृत्तिः| इदानीं स्वस्थस्यैव रूपादिग्राहिणीत्वमासां न पुनरतिदोषाभिपन्नस्य मरणेऽपीत्याह- पञ्चत्वमित्यादि| विशिष्टनाशकाले पञ्चत्वं यान्ति; धमन्यः पाञ्चभौतिका विनाशकाले पृथक्पृथग्भूतभावेनावस्थानात् पञ्चतां गता उच्यन्ते| पञ्चेन्द्रियं पञ्चसु भावयित्वेति पुनरप्यनुवादस्तेषां नियतस्वविषयग्राहित्वदर्शनार्थः| ग्रन्थान्तरे “रसवहनं [१५] कुर्वन्ति धमन्यः सततं तथा| शब्दादिग्रहणोच्छ्वासनिःश्वासवचनानि च|| भावयन्ति पृथक् पश्चात् प्रत्ययाः खलु पञ्चसु| तत्सङ्ख्याकरणं यान्ति नाशकाले तु पञ्चताम्|| शरीरं हि गते तस्मिञ् शून्यागारमचेतनम्| पञ्चतत्त्वावशेषत्वात् पञ्चतां गतमुच्यते”- इति||११||
अत ऊर्ध्वं स्रोतसां मूलविद्धलक्षणमुपदेक्ष्यामः |
तानि तु प्राणान्नोदकरसरक्तमांसमेदोमूत्रपुरीषशुक्रार्तववहानि, येष्वधिकारः; एकेषां बहूनि; एतेषां विशेषा बहवः |
तत्र प्राणवहे द्वे, तयोर्मूलं हृदयं रसवाहिन्यश्च [१६] धमन्यः, तत्र विद्धस्याक्रोशनविनमनमोहनभ्रमणवेपनानि मरणं वा भवति; अन्नवहे द्वे, तयोर्मूलमामाशयोऽन्नवाहिन्यश्च धमन्यः, तत्र विद्धस्याध्मानं शूलोऽन्नद्वेषश्छर्दिः पिपासाऽऽन्ध्यं [१७] मरणं च; उदकवहे द्वे, तयोर्मूलं तालु क्लोम च, तत्र विद्धस्य पिपासा [१८] सद्योमरणं च; रसवहे द्वे, तयोर्मूलं हृदयं रसवाहिन्यश्च धमन्यः, तत्र विद्धस्य शोषःप्राणवहविद्धवच्च मरणं तल्लिङ्गानि च; रक्तवहे द्वे, तयोर्मूलं यकृत्प्लीहानौ रक्तवाहिन्यश्च धमन्यः [१९] , तत्र विद्धस्य श्यावाङ्गता ज्वरो दाहः पाण्डुता शोणितागमनं [२०] रक्तनेत्रता च; मांसवहे द्वे, तयोर्मूलं स्नायुत्वचं रक्तवहाश्च [२१] धमन्यः, तत्र विद्धस्य श्वयथुर्मांसशोषः सिराग्रन्थयो मरणं च; मेदोवहे द्वे, तयोर्मूलं कटी वृक्कौ च, तत्र विद्धस्य स्वेदागमनं स्निग्धाङ्गता तालुशोषः स्थूलशोफता पिपासा च; मूत्रवहे द्वे, तयोर्मूलं बस्तिर्मेढ्रं च, तत्र विद्धस्यानद्धबस्तिता मूत्रनिरोधः स्तब्धमेढ्रता च; पुरीषवहे द्वे, तयोर्मूलं पक्वाशयो गुदं च, तत्र विद्धस्यानाहो दुर्गन्धता ग्रथितान्त्रता च; शुक्रवहे द्वे, तयोर्मूलं स्तनौ वृषणौ च, तत्र विद्धस्य क्लीबता चिरात् प्रसेको रक्तशुक्रता च [२२] ; आर्तवहे द्वे, तयोर्मूलं गर्भाशय आर्तववाहिन्यश्च धमन्यः, तत्र विद्धाया वन्ध्यात्वं मैथुनासहिष्णुत्वमार्तवनाशश्च; सेवनीच्छेदाद्रुजाप्रादुर्भावः; बस्तिगुदविद्धलक्षणं प्रागुक्तमिति |
स्रोतोविद्धं तु प्रत्याख्यायोपचरेत्, उद्धृतशल्यं तु क्षतविधानेनोपचरेत् ||१२||
अत ऊर्ध्वमित्यादि| मूलस्य स्थूलत्वेन तद्विद्धलक्षणस्यैव साध्यासाध्यपरिच्छेदकत्वात्तद्विद्धलक्षणव्याख्यानमेव प्रतिज्ञातम्| स्वरूपं तु “स्वधातुसमवर्णानि वृत्तस्थूलान्यणूनि च| स्रोतांसि दीर्घाण्याकृत्या प्रतानसदृशानि च” (च.वि.५) इति तन्त्रान्तराज्ज्ञेयम्| तान्येव विवृण्वन्नाह- तानि त्वित्यादि| प्राणादीनामार्तवान्तानामेकादशानां प्रत्येकं [२३] वहने द्वे द्वे स्रोतसी| अस्थिमज्जस्वेदवाहिषु स्रोतःसु सत्स्वप्यनधिकारः; कथं? तत्रास्थिवहानां सकलानामेव मेदो मूलं, मज्जवहानां च तेषां सकलान्येवास्थीनि सकलशरीरगतानि, न च सकलशरीरगतविद्धलक्षणं साध्यादिज्ञाननिश्चायकम्, एवं स्वेदवहानामपि केवलं मेदो मूलमिति [२४] पूर्वेणैव समानम्, अतः शल्यतन्त्रे तेषां [२५] मूलविद्धलक्षणानधिकारः| अमुमेवार्थं चेतसि कृत्वाऽऽह- येष्वधिकार इति| ‘शल्यतन्त्रे’ इति शेषः, कायचिकित्सायां तु स्रोतोदुष्टिलक्षणं वाच्यं, तेन सकलाङ्गगतानामपि स्रोतसां कायचिकित्सायामधिकारः| शल्यतन्त्राधिकारिषु नियतदेशस्थितेषु विद्धेषु वेदनाविशेषस्य साध्यादिज्ञाननिश्चायकत्वमिति कायचिकित्साधिकारिणां स्रोतसां कृत्स्नशरीरगतत्वेन सूक्ष्माणामाश्रितस्य वेदनाविशेषस्यातिसूक्ष्मत्वान्न साध्यादिज्ञाननिश्चायकत्वमिति तेषामनधिकारः| परमतमाह- एकेषां बहूनीति|- एकेषामाचार्याणां मते बहूनि स्रोतांसि, ‘तान्यत्रानधिकृतानि’ इति शेषः| एतेषां विशेषा बहव इति एतेषां पूर्वोक्तानां प्राणादिवहानां स्वतन्त्रे द्वाविंशतिसङ्ख्योपेतानां स्रोतसां, विशेषा भेदाः| तत्र प्राणवहे इत्यादि| आक्रोशनमार्तस्वरै रोदनं, विनमनं विशेषेण नमनम्| त्वक्शब्देन रसोऽत्र, तात्स्थ्यात्| शुक्रवहस्रोतःसन्निहितसेवनीच्छेदनलक्षणमश्मरीचिकित्सिते बस्तिप्रसङ्गेनोक्तमत्रासूत्रितमपि| मूत्रपुरीषस्रोतोमूलबस्तिगुदविद्धलक्षणमतिदेशेन सुखप्रतिपत्तये निर्दिशन्नाह- बस्तीत्यादि| बस्तिविद्धलक्षणं ‘तत्र विद्धस्यानद्धबस्तिता’ इत्यादि; गुदविद्धलक्षणं च ‘तत्र विद्धस्यानाह’ इत्यादि| इदानीं चिकित्सासूत्रं निर्दिशन्नाह- स्रोतोविद्धमित्यादि| उपचरेदिति ‘शल्योद्धरणप्रकारेण’ इति शेषः| उद्धृतशल्यमिति अत्रापि प्रत्याख्यायेति योजनीयम्||१२||
भवति चात्र-
मूलात् खादन्तरं देहे प्रसृतं त्वभिवाहि यत् |
स्त्रोतस्तदिति विज्ञेयं सिराधमनिवर्जितम् ||१३||
मूलादित्यादि|- मूलात् खादिति हृदयादिच्छिद्रात्, प्रसृतम् [२६] अभिवहनशीलं, यदन्तरम् अवकाशः, तत् स्रोतो विज्ञेयम्||१३||
इति सुश्रुतसंहितायां शारीरस्थाने धमनीव्याकरणशारीरं नाम नवमोऽध्यायः ||९||
इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां
शारीरस्थाने नवमोऽध्यायः||९||
१. ‘ध्मानाद्धमन्यः स्रवणात् स्रोतांसि सरणात् सिराः’ (च.सू.३०)|
२. ‘नावदिष्यत्’ इति पा.|
३. ‘अभिन्नगीततया प्रतीतिः’ इति पा.|
४. ‘सर्वाभिर्धमनीभिर्गृह्णीते’ इति पा.|
५. ‘यथातथम्’ इति पा.|
६. ‘चोर्ध्वगतानां तिर्यग्गतानां’ इति पा.|
७. ‘त्रिविधा’ इति पा.|
८. ‘ता एव रक्तमभिवहन्ति’ इति पा.|
९. रसभावोऽस्ति’ इति पा.|
१०. द्रवमच्छमुदकमिवोदकं,’ इति पा.|
११. ‘चापि सन्तपर्यन्ति’ इति पा.|
१२. ‘सम्यक्परिणताहाररसवाहिभिस्त्रिभिः’ इति पा.|
१३. ‘च नियतः’ इति पा.|
१४. स्वकीयेष्वर्थेषु’ इति पा.|
१५. ‘रसवहं न’ इति पा.|
१६. ‘प्राणवाहिन्यश्च’ इति पा.|
१७. ‘मूर्छा’ इति ता.|
१८. ‘पिपासाऽसाध्या श्यावाङ्गता’ इति पा.|
१९. ‘रक्तवाहिन्यश्च धमन्यः’ इति ता. पुस्तके न पठ्यते|
२०. ‘शोणितातिगमनं’ इति पा.|
२१. ‘रक्तवाहिन्यश्च’ इति पा.|
२२. ‘वाऽप्रसेकश्च’ इति पा.|
२३. ‘प्रत्येकवच(ह)ने’ इति पा.|
२४. स्वेदो मूलमिति’ इति पा.|
२५. नैषां मूलविद्धलक्षणाधिकारः इति पा.|
२६. ‘यत् अन्तरं छिद्रं, प्रसृतमभिवहनशीलं तत्’ इति पा.|
Moolashloka with Dalhana & Gayadas Commentary

Pathantara/Pathabheda

Diacritic Version
kāśirājadhanvantariṇōpadiṣṭā tacchiṣyasuśrutēna viracitā
Suśrutasaṁhitā
śrīḍalhaṇācāryaviracitayā nibandhasaṅgrahākhyavyākhyayā nidānasthānasya śrīgayadāsācāryaviracitayā nyāyacandrikākhyapañjikāvyākhyayā ca samullasitā
śārīrasthānam - 9. dhamanīvyākaraṇaśārīram
athātō dhamanīvyākaraṇaṁ śārīraṁ vyākhyāsyāmaḥ ||1||
yathōvāca bhagavān dhanvantariḥ ||2||
sirāvyadhavidhiśārīrānantaraṁ sirādhamanīsrōtasāṁ sadr̥śatvāddhamanīvyākaraṇārambhō yujyata ityāha- athētyādi| dhmānādanilapūraṇāddhamanyaḥ, tāsāṁ vyākaraṇaṁ vivaraṇaṁ yasmin śārīra iti vigrahaḥ||1-2||
caturviṁśatirdhamanyō nābhiprabhavā abhihitāḥ |
tatra kēcidāhuḥ- sirādhamanīsrōtasāmavibhāgaḥ, sirāvikārā ēva hi dhamanyaḥ srōtāṁsi cēti |
tattu na samyak, anyā ēva hi dhamanyaḥ srōtāṁsi ca sirābhyaḥ; kasmāt? vyañjanānyatvān, mūlasanniyamāt, karmavaiśēṣyāt, āgamācca; kēvalaṁ tu parasparasannikarṣāt sadr̥śāgamakarmatvāt saukṣmyācca vibhaktakarmaṇāmapyavibhāga iva karmasu bhavati ||3||
tāsvatītāvēkṣaṇaṁ nirdiśannāha- caturviṁśatirityādi| abhihitā uktāḥ, ‘śōṇitavarṇanīyē’ (sū.14) iti śēṣaḥ tatra dhamanīsirāsrōtaḥsvēkīyamataṁ svamatēna hētumatā nirākartumāha- tatrētyādi| avibhāgō’pr̥thaktvaṁ, saraṇāt sirāḥ, tā ēva dhmānāddhamanyaḥ, sravaṇāt srōtāṁsīti [1] | apr̥thaktvē svayamēva hētumāha- sirāvikārā ityādi| sirāvikārā iti sirāṇāmēvākārāntarēṇa pariṇāmāḥ, piṣṭavikārakṣīravikāravat| punarapi tairuktaṁ- “ākāśīyāvakāśānāṁ dēhē nāmāni dēhinām| sirāḥ srōtāṁsi mārgāḥ khaṁ dhamanyō nāḍya āśayāḥ”- ityādi| paramatōcchēdamāha- tattu na samyagityādi| vyañjanānyatvāt lakṣaṇānyatvāt; tatra sirāṇāṁ vātādivahānāmaruṇanīlaśuklalōhitavarṇatvaṁ lakṣaṇaṁ, śabdādivahadhamanīnāṁ tu varṇānuktēḥ svadhātusamavarṇatvam, ēvaṁ srōtasāmapi| taduktaṁ carakē- “svadhātumasavarṇāni vr̥ttasthūlānyaṇūni ca| srōtāṁsi dīrghāṇyākr̥tyā” (ca.vi.5) ityādikam| mūlasanniyamō dvitīyō bhēdō yathā- “tāsāṁ mūlasirāścatvāriṁśat” ityārabhya yāvat “ēvamētāni saptasirāśatāni” (śā.7); dhamanīnāṁ tu “caturviṁśatirdhamanyaḥ”; srōtasāṁ punardvāviṁśatiḥ srōtāṁsi| karmavaiśēṣyaṁ viśiṣṭakarmakaratvaṁ, tacca tr̥tīyabhēdakāraṇaṁ; tadyathā- “karmaṇāmapratīghātaṁ” (śā.7) ityādinōktaṁ sirāṇāṁ karmavaiśēṣyaṁ, śabdarūparasagandhavahatvādikaṁ dhamanīnāṁ, prāṇānnavārirasaśōṇitamāṁsamēdōvāhitvaṁ srōtasām| āgamō’trāyurvēdaḥ, sa caturthō bhēdahētuḥ; tadyathā- “sirā dhamanyō yōgavahāni srōtāṁsi” (śā.5) iti, tathā “marmasirāsnāyudhamanīḥ pariharan” (sū.5) ityādiṣu sirādīnāṁ yadi vibhaktatvaṁ nābhaviṣyattadā [2] pr̥thagvivaraṇaṁ nākariṣyaditi| idānīmētēṣāṁ sirādhamanīsrōtasāṁ parasparabhinnānāmapi karmasvavibhāga iva bhavatīti darśayannāha- kēvalamityādi| sannikarṣō naikaṭyam| atisannikarṣādihētucatuṣṭayēna karmasvapr̥thaktvamiva bhavati| kathaṁ? yathā’tisannikarṣayuktīkr̥tānāṁ tr̥ṇānāṁ pratyēkaṁ bhinnajvalanakriyāṇāmabhinnamiva jvalanaṁ pratīyatē| sadr̥śāgamatvāditi āptānāṁ vacanamāgamaḥ, tasya sadr̥śatvāt| tathā hi- “ākāśīyāvakāśānāṁ dēhē nāmāni dēhinām| sirāḥ srōtāṁsi mārgāḥ khaṁ dhamanya” ityāptōpadiṣṭēna sirādisādr̥śyēna na nirdhārya jñāyatē sirādiṣu kasyēdaṁ tōyādivahanaṁ karma| sadr̥śakarmatvācca yathā- saha gāyatāṁ gāyakānāṁ bhinnagītakriyāṇāmapyabhinnagītakriyātvapratītiḥ [3] | saukṣmyādyathā- ghaṭasthitamr̥tparamāṇūnāṁ pratyēkamudakāharaṇaṁ kurvatāmēkakriyākāritvapratītiḥ||3||
tāsāṁ tu khalu nābhiprabhavāṇāṁ dhamanīnāmūrdhvagā daśa, daśa cādhōgāminyaḥ, catasrastiryaggāḥ ||4||
tāsāmityādi||4||
ūrdhvagāḥ śabdasparśarūparasagandhapraśvāsōcchvāsajr̥mbhitakṣuddhasitakathitaruditādīn viśēṣānabhivahantyaḥ śarīraṁ dhārayanti |
tāstu hr̥dayamabhiprapannāstridhā jāyantē, tāstriṁśat |
tāsāṁ tu vātapittakaphaśōṇitarasān dvē dvē vahatastā daśa, śabdarūparasagandhānaṣṭābhirgr̥hṇītē, dvābhyāṁ bhāṣatē, dvābhyāṁ ghōṣaṁ karōti, dvābhyāṁ svapiti, dvābhyāṁ pratibudhyatē, dvē cāśruvāhinyau, dvē stanyaṁ striyā vahataḥ stanasaṁśritē, tē ēva śukraṁ narasya stanābhyāmabhivahataḥ, tāstvētāstriṁśat savibhāgā vyākhyātāḥ |
ētābhirūrdhvaṁ nābhērudarapārśvapr̥ṣṭhōraḥskandhagrīvābāhavō dhāryantē yāpyantē ca ||5||
bhavati cātra-
ūrdhvaṅgamāstu kurvanti karmāṇyētāni sarvaśaḥ |6|
praśvāsō’ntaḥpraviśadvāyuḥ, ucchvāsa ūrdhvamuttiṣṭhadvāyuḥ, jr̥mbhitakṣuddhasitakathitāni ghōṣabhāṣayōrviśēṣāḥ, ruditamaśruvāhinyōḥ karma, ādiśabdādrūpādivāhinīsambandhināṁ prēkṣitādikarmaviśēṣāṇāmavarōdhaḥ| tāstvityādi| śabdādīṁścaturaḥ pratyēkaṁ dvābhyāṁ dvābhyāmityaṣṭābhī rajaḥpravartitātmaprayatnaprabōdhamanō’nugatābhirdhamanībhirgr̥hṇītē| manasaścāṇutvādēkatvācca tāsāṁ yugapatpravr̥ttirnāstīti tāsāṁ yā dhamanī manasā’nuyujyatē tayaiva rūpādiṣvanyatamamātmā gr̥hṇītē, na punaryugapadēva rūpādikaṁ sarvaṁ sarvābhiriti [4] | sparśagrahaṇaṁ punaratraivādhyāyē tiryaggāṇāṁ karma vakṣyati| bhāṣata iti tālvādisthānavyāpāraniṣpāditākārādivarṇavyaktiyuktaṁ śabdaṁ karōti, ghōṣaśca tadviparītō’vyaktaḥ śabdaḥ| dvābhyāṁ svapiti tamōviṣayābhyāṁ, sattvaviṣayābhyāṁ tu budhyatē| ētābhirūrdhvaṁ nābhērudarādayō dhāryantē, aṅgādibhiḥ sahaitābhirudarādīnāṁ bandhanēna dr̥ḍhīkr̥tatvāt; vātādivahanēna caitābhirēva yāpyantē||5||-
adhōgamāstu vakṣyāmi karma cāsāṁ yathāyatham [5] ||6||
adhōgamāstu vātamūtrapurīṣaśukrārtavādīnyadhō vahanti |
tāstu pittāśayamabhiprapannāstatrasthamēvānnapānarasaṁ vipakvamauṣṇyādvivēcayantyō’bhivahantyaḥ śarīraṁ tarpayanti, arpayanti cōrdhvagānāṁ tiryaggāṇāṁ [6] ca, rasasthānaṁ cābhipūrayanti, mūtrapurīṣasvēdāṁśca vivēcayanti; āmapakvāśayāntarē ca tridhā [7] jāyantē, tāstriṁśat; tāsāṁ tu vātapittakaphaśōṇitarasān dvē dvē vahatastā daśa, dvē annavāhinyāvantrāśritē, tōyavahē dvē, mūtrabastimabhiprapannē mūtravahē dvē, śukravahē dvē śukraprādurbhāvāya, dvē visargāya, tē [8] ēva raktamabhivahatō visr̥jataśca nārīṇāmārtavasañjñaṁ, dvē varcōnirasanyau sthūlāntrapratibaddhē, aṣṭāvanyāstiryaggāminīnāṁ dhamanīnāṁ svēdamarpayanti; tāstvētāstriṁśat savibhāgā vyākhyātāḥ |
ētābhiradhōnābhēḥ pakvāśayakaṭīmūtrapurīṣagudabastimēḍhrasakthīni dhāryantē yāpyantē ca ||7||
bhavati cātra-
adhōgamāstu kurvanti karmāṇyētāni sarvaśaḥ |8|
vātādyabhivahanamāsāṁ sāmānyaṁ karma| ārtavādīnītyādiśabdādannatōyādīnāṁ svīkāraḥ| sthānāntaragatānāṁ tāsāmēva karmāha- tāstvityādi| abhiprapannā abhimukhaṁ prāptāḥ| vipakvamauṣṇyāditi ‘agnēḥ’ iti śēṣaḥ| vivēcayantya iti yathā yathā vipakvamaśanarasaṁ tathā tathā pr̥thak kurvantya ityarthaḥ| abhivahantya iti abhitaḥ sarvatō vahantyaḥ| tarpayanti prīṇayanti| kathaṁ punaḥ sakalamēva śarīraṁ tāstarpayantītyāśaṅkyāha- arpayantītyādi| kathamarpayantītyatra yuktimāha- rasasthānaṁ cābhipūrayantīti| ayamabhiprāyaḥ- āmapakvāśayē adhōnābhirēvaivamannarasō vartulīkr̥tō yathā rasasthānasya pūraṇaṁ tataścōrdhvagābhistiryaggābhiśca tatra tatrōpanīyata iti sakalaśarīratarpaṇamadhōgatānāmēva karma; rasasthānaṁ ca hr̥dayaṁ, tatpūraṇaṁ ca tanniṣpāditarasaparamparayā na punaḥ sākṣādēva, adhōgamatvēnāsāmūrdhvagamanābhāvāddhr̥dayagamanamēva nāstīti| tatra mūtrapurīṣasvēdāṁśca vivēcayanti pr̥thak kurvanti, pakvānnarasāditi sambandhaḥ| pittāśayē karma tāsāṁ nirdiśyāmapakvāśayāntarē nirdiśannāha- āmapakvāśayāntara ityādi| pacanaṁ pakvaṁ bhāvē ktaḥ, tasyāśayaḥ pakvāśayaḥ, ētēnāmasya pacyamānasya yadantaraṁ tatrētyarthaḥ| dvē annavāhinyāvantrāśritē nahi pittāśayē rasamūtrapurīṣabhāvēna vivicyamānasyāhārasyānnabhāvō’sti [9] , nāpi tōyasya tōyabhāvanā; tēna tōyamatra bhaviṣyatō mūtrasya kāraṇabhūtaṁ pakvāhāravivēkajaṁ dravamayamudakamivōdakaṁ [10] , tadapi dvē ēva vahataḥ; tadēvōdakaṁ bastivivaraprāptaṁ mūtramityucyatē, tadvahē dvē mūtrabastisambaddhē| ēvamannamatra bhaviṣyataḥ kiṭṭasya kāraṇabhūtaṁ pakvāhāravivēkajaṁ ghanamannamivānnaṁ, tadapi dvē ēva vahataḥ; tadēvōṇḍu(ndu)kaprāptaṁ purīṣamityucyatē||6-7||-
tiryaggāḥ sampravakṣyāmi karma cāsāṁ yathāyatham ||8||
tiryaggāṇāṁ tu catasr̥ṇāṁ dhamanīnāmēkaikā śatadhā sahasradhā cōttarōttaraṁ vibhajyantē, tāstvasaṅkhyēyāḥ, tābhiridaṁ śarīraṁ gavākṣitaṁ vibaddhamātataṁ ca, tāsāṁ mukhāni rōmakūpapratibaddhāni, yaiḥ svēdamabhivahanti rasaṁ cābhitarpayantyantarbahiśca [11] , tairēva cābhyaṅgapariṣēkāvagāhālēpanavīryāṇyantaḥśarīramabhipratipadyantē tvaci vipakvāni, tairēva ca sparśaṁ sukhamasukhaṁ vā gr̥hṇītē, tāstvētāścatasrō dhamanyaḥ sarvāṅgagatāḥ savibhāgā vyākhyātāḥ ||9||
vibhajyantē svayamēva vibhaktā bhavanti| gavākṣitaṁ jālakairiva vyāptam| rasaṁ cētyādi| rasaṁ rasadhātum| antaḥ abhyantarē| yairmukhaiḥ samyakpariṇatāhārarasavāhibhiḥ [12] | santarpayanti sarvatastarpayanti| bahiśca santarpayanti ‘tvacam’ iti śēṣaḥ| tairēva cābhyaṅgādīnāṁ vīryāṇi tvaci bhrājakēnāgninā vipakvāni śarīrāntaḥ praviśanti| tairēva manōnugataiḥ sukhāsukharūpaṁ sparśaṁ karmātmā gr̥hṇītē| tāḥ sarvāṅgagatāḥ sparśagrahaṇāyādhikr̥tatvāt, tadgataṁ manō’pi sarvāṅgasrōtōgatamēva| tēnōrdhvagānāṁ cāniyata [13] ēva dēśō bhavati||8-9||
yathā svabhāvataḥ khāni mr̥ṇālēṣu bisēṣu ca |
dhamanīnāṁ tathā khāni rasō yairupacīyatē ||10||
yathētyādi| khāni srōtāṁsi| rasō yairupacīyata iti rasaḥ pradhānabhūtaḥ, tēnānyadabhyaṅgapariṣēkādivīryam||10||
pañcābhibhūtāstvatha pañcakr̥tvaḥ pañcēndriyaṁ pañcasu bhāvayanti |
pañcēndriyaṁ pañcasu bhāvayitvā pañcatvamāyānti vināśakālē ||11||
idānīṁ śabdādigrāhiṇīnāṁ sargasthitipralayēṣu prakr̥tibhūtānāmaprakr̥tibhūtānāṁ ca kriyōpadēśamāha- pañcābhibhūtā ityādi| asyārthaḥ- bhāvayanti yōjayanti, kāḥ? pañcābhibhūtāḥ pañcabhyō bhūtēbhyō’bhi samantādbhūtāḥ, śabdasparśarūparasagandhairvā pañcabhirabhibhūtā vyāptāḥ, ākāśapavanadahanatōyabhūmibhirvā pañcabhirabhibhūtā vyāptā dhamanyaḥ; kaṁ? pañcēndriyaṁ karmapuruṣaṁ; kēṣu? pañcasu śrōtrādiṣvindriyādhiṣṭhānēṣu; kathaṁ? pañcakr̥tvaḥ pañcavārān, bhāvayanti yōjayanti; atha āyānti āgacchanti; kāḥ? dhamanyaḥ; kiṁ pañcatvaṁ; kiṁ kr̥tvā? bhāvayitvā saṁyōjya; kiṁ tat? pañcēndriyam indriyapañcakaṁ sūkṣmarūpaṁ; kēṣu? pañcasvākāśādiṣu mahābhūtēṣu; ētēnaitaduktaṁ bhavati- ākāśādipañcabhūtasamutpannā dhamanyaḥ karmapuruṣamindriyādhiṣṭhānēṣu pañcavārān bhāvayanti, tataścēndriyapañcakamākāśādiṣu bhūtēṣu saṁyōjya vināśakālē dhamanyō vināśaṁ yānti| anyē tu ‘pañcādibhūtānyatha pañcakr̥tvā’ iti paṭhanti, vyākhyānayanti ca- ādibhūtānyākāśādīni pañcamahābhūtāni, pañcēndriyaṁ karmapuruṣaṁ, pañcasu cakṣurādiṣvindriyādhiṣṭhānēṣu yōjayanti; tataśca pañcēndriyaṁ karmapuruṣaṁ pañcasu cakṣurādiṣvindriyādhiṣṭhānēṣu, bhāvayitvā saṁyōjya, tāni pañca ādibhūtāni, vināśakālē pañcatvamāyānti| aparē tu ‘pañcābhibhūtāstvatha pañcadhā vā’ iti paṭhanti, vyākhyānayanti ca- bhāvayanti yōjayanti, kāḥ? pañcābhibhūtā dhamanyaḥ; āyānti kiṁ? pañcatvaṁ vināśaṁ; kva? vināśakālē; kiṁ kr̥tvā? bhāvayitvā saṁyōjya; kiṁ tat? pañcēndriyaṁ buddhīndriyapañcakaṁ karmēndriyapañcakaṁ ca; kēṣu? pañcasu śabdādiṣu vacanādiṣu cātmīyēṣvarthēṣu [14] ; kathaṁ? pañcadhā pañcabhiḥ prakāraiḥ, tadanantā ēva dhamanyaḥ; kiṁ? pañcatvaṁ vināśaṁ; kva? vināśakālē; kiṁ kr̥tvā? bhāvayitvā saṁyōjya; kaṁ pañcēndriyaṁ buddhīndriyapañcakaṁ karmēndriyapañcakaṁ ca; kva? śabdādiṣu svakīyēṣvarthēṣu| athavā pañcānāmākāśapavanadahanatōyabhūmīnāṁ pr̥thagābhimukhyēna bhūtāḥ sattārūpēṇa vyavasthitā dhamanyaḥ, pañcēndriyaṁ karmapuruṣaṁ, yathāsvaṁ pañcasu cakṣurādiṣvindriyādhiṣṭhānēṣu, bhāvayanti yōjayanti| gayī tvanyathā”pātanikāṁ vidhāya vyākhyāti; yathā- atra rūpādigrāhiṇīnāṁ dhamanīnāṁ pañcatvāt pañcabhirdhamanībhiḥ pañcānāmapi rūpādīnāṁ yugapadgrahaṇēna bhavitavyamityāśaṅkyāha- pañcābhibhūtā ityādi| asyāyamarthaḥ- pañcasu rūpādiṣu, pañcēndriyaṁ cakṣurādikaṁ, pañca dhamanyō bhāvayanti vēdayanti; svayaṁ tāvat pañcēndriyāṇi rūpādikaṁ vidanti, tāni ca pañca dhamanyastēṣu vēdayanti| kathaṁ? pañcakr̥tvaḥ pañcavārān| na caikavāramēva pañcāpi dhamanyaḥ pañcāpīndriyāṇi pañcasvapi rūpādiṣu vēdayanti, tat kutaḥ punariti hētugarbhaṁ viśēṣaṇamāha- abhibhūtā abhimukhaṁ prāptāḥ| kēna? ‘manasā’ iti śēṣaḥ| kasmāt? kartr̥manaḥpuraḥsarēndriyārthagrahaṇāt; mantā hi śarīrē ēka ēva, manō’pyēkamēva, tēna manasā yaiva śabdādivahāsu dhamanīṣvabhiprapannā saiva svadharmaṁ grāhayati mantāraṁ nānyēti; yatō manaḥpuraḥsaraivēndriyapravr̥ttiḥ| idānīṁ svasthasyaiva rūpādigrāhiṇītvamāsāṁ na punaratidōṣābhipannasya maraṇē’pītyāha- pañcatvamityādi| viśiṣṭanāśakālē pañcatvaṁ yānti; dhamanyaḥ pāñcabhautikā vināśakālē pr̥thakpr̥thagbhūtabhāvēnāvasthānāt pañcatāṁ gatā ucyantē| pañcēndriyaṁ pañcasu bhāvayitvēti punarapyanuvādastēṣāṁ niyatasvaviṣayagrāhitvadarśanārthaḥ| granthāntarē “rasavahanaṁ [15] kurvanti dhamanyaḥ satataṁ tathā| śabdādigrahaṇōcchvāsaniḥśvāsavacanāni ca|| bhāvayanti pr̥thak paścāt pratyayāḥ khalu pañcasu| tatsaṅkhyākaraṇaṁ yānti nāśakālē tu pañcatām|| śarīraṁ hi gatē tasmiñ śūnyāgāramacētanam| pañcatattvāvaśēṣatvāt pañcatāṁ gatamucyatē”- iti||11||
ata ūrdhvaṁ srōtasāṁ mūlaviddhalakṣaṇamupadēkṣyāmaḥ |
tāni tu prāṇānnōdakarasaraktamāṁsamēdōmūtrapurīṣaśukrārtavavahāni, yēṣvadhikāraḥ; ēkēṣāṁ bahūni; ētēṣāṁ viśēṣā bahavaḥ |
tatra prāṇavahē dvē, tayōrmūlaṁ hr̥dayaṁ rasavāhinyaśca [16] dhamanyaḥ, tatra viddhasyākrōśanavinamanamōhanabhramaṇavēpanāni maraṇaṁ vā bhavati; annavahē dvē, tayōrmūlamāmāśayō’nnavāhinyaśca dhamanyaḥ, tatra viddhasyādhmānaṁ śūlō’nnadvēṣaśchardiḥ pipāsā”ndhyaṁ [17] maraṇaṁ ca; udakavahē dvē, tayōrmūlaṁ tālu klōma ca, tatra viddhasya pipāsā [18] sadyōmaraṇaṁ ca; rasavahē dvē, tayōrmūlaṁ hr̥dayaṁ rasavāhinyaśca dhamanyaḥ, tatra viddhasya śōṣaḥprāṇavahaviddhavacca maraṇaṁ talliṅgāni ca; raktavahē dvē, tayōrmūlaṁ yakr̥tplīhānau raktavāhinyaśca dhamanyaḥ [19] , tatra viddhasya śyāvāṅgatā jvarō dāhaḥ pāṇḍutā śōṇitāgamanaṁ [20] raktanētratā ca; māṁsavahē dvē, tayōrmūlaṁ snāyutvacaṁ raktavahāśca [21] dhamanyaḥ, tatra viddhasya śvayathurmāṁsaśōṣaḥ sirāgranthayō maraṇaṁ ca; mēdōvahē dvē, tayōrmūlaṁ kaṭī vr̥kkau ca, tatra viddhasya svēdāgamanaṁ snigdhāṅgatā tāluśōṣaḥ sthūlaśōphatā pipāsā ca; mūtravahē dvē, tayōrmūlaṁ bastirmēḍhraṁ ca, tatra viddhasyānaddhabastitā mūtranirōdhaḥ stabdhamēḍhratā ca; purīṣavahē dvē, tayōrmūlaṁ pakvāśayō gudaṁ ca, tatra viddhasyānāhō durgandhatā grathitāntratā ca; śukravahē dvē, tayōrmūlaṁ stanau vr̥ṣaṇau ca, tatra viddhasya klībatā cirāt prasēkō raktaśukratā ca [22] ; ārtavahē dvē, tayōrmūlaṁ garbhāśaya ārtavavāhinyaśca dhamanyaḥ, tatra viddhāyā vandhyātvaṁ maithunāsahiṣṇutvamārtavanāśaśca; sēvanīcchēdādrujāprādurbhāvaḥ; bastigudaviddhalakṣaṇaṁ prāguktamiti |
srōtōviddhaṁ tu pratyākhyāyōpacarēt, uddhr̥taśalyaṁ tu kṣatavidhānēnōpacarēt ||12||
ata ūrdhvamityādi| mūlasya sthūlatvēna tadviddhalakṣaṇasyaiva sādhyāsādhyaparicchēdakatvāttadviddhalakṣaṇavyākhyānamēva pratijñātam| svarūpaṁ tu “svadhātusamavarṇāni vr̥ttasthūlānyaṇūni ca| srōtāṁsi dīrghāṇyākr̥tyā pratānasadr̥śāni ca” (ca.vi.5) iti tantrāntarājjñēyam| tānyēva vivr̥ṇvannāha- tāni tvityādi| prāṇādīnāmārtavāntānāmēkādaśānāṁ pratyēkaṁ [23] vahanē dvē dvē srōtasī| asthimajjasvēdavāhiṣu srōtaḥsu satsvapyanadhikāraḥ; kathaṁ? tatrāsthivahānāṁ sakalānāmēva mēdō mūlaṁ, majjavahānāṁ ca tēṣāṁ sakalānyēvāsthīni sakalaśarīragatāni, na ca sakalaśarīragataviddhalakṣaṇaṁ sādhyādijñānaniścāyakam, ēvaṁ svēdavahānāmapi kēvalaṁ mēdō mūlamiti [24] pūrvēṇaiva samānam, ataḥ śalyatantrē tēṣāṁ [25] mūlaviddhalakṣaṇānadhikāraḥ| amumēvārthaṁ cētasi kr̥tvā”ha- yēṣvadhikāra iti| ‘śalyatantrē’ iti śēṣaḥ, kāyacikitsāyāṁ tu srōtōduṣṭilakṣaṇaṁ vācyaṁ, tēna sakalāṅgagatānāmapi srōtasāṁ kāyacikitsāyāmadhikāraḥ| śalyatantrādhikāriṣu niyatadēśasthitēṣu viddhēṣu vēdanāviśēṣasya sādhyādijñānaniścāyakatvamiti kāyacikitsādhikāriṇāṁ srōtasāṁ kr̥tsnaśarīragatatvēna sūkṣmāṇāmāśritasya vēdanāviśēṣasyātisūkṣmatvānna sādhyādijñānaniścāyakatvamiti tēṣāmanadhikāraḥ| paramatamāha- ēkēṣāṁ bahūnīti|- ēkēṣāmācāryāṇāṁ matē bahūni srōtāṁsi, ‘tānyatrānadhikr̥tāni’ iti śēṣaḥ| ētēṣāṁ viśēṣā bahava iti ētēṣāṁ pūrvōktānāṁ prāṇādivahānāṁ svatantrē dvāviṁśatisaṅkhyōpētānāṁ srōtasāṁ, viśēṣā bhēdāḥ| tatra prāṇavahē ityādi| ākrōśanamārtasvarai rōdanaṁ, vinamanaṁ viśēṣēṇa namanam| tvakśabdēna rasō’tra, tātsthyāt| śukravahasrōtaḥsannihitasēvanīcchēdanalakṣaṇamaśmarīcikitsitē bastiprasaṅgēnōktamatrāsūtritamapi| mūtrapurīṣasrōtōmūlabastigudaviddhalakṣaṇamatidēśēna sukhapratipattayē nirdiśannāha- bastītyādi| bastividdhalakṣaṇaṁ ‘tatra viddhasyānaddhabastitā’ ityādi; gudaviddhalakṣaṇaṁ ca ‘tatra viddhasyānāha’ ityādi| idānīṁ cikitsāsūtraṁ nirdiśannāha- srōtōviddhamityādi| upacarēditi ‘śalyōddharaṇaprakārēṇa’ iti śēṣaḥ| uddhr̥taśalyamiti atrāpi pratyākhyāyēti yōjanīyam||12||
bhavati cātra-
mūlāt khādantaraṁ dēhē prasr̥taṁ tvabhivāhi yat |
strōtastaditi vijñēyaṁ sirādhamanivarjitam ||13||
mūlādityādi|- mūlāt khāditi hr̥dayādicchidrāt, prasr̥tam [26] abhivahanaśīlaṁ, yadantaram avakāśaḥ, tat srōtō vijñēyam||13||
iti suśrutasaṁhitāyāṁ śārīrasthānē dhamanīvyākaraṇaśārīraṁ nāma navamō’dhyāyaḥ ||9||
iti śrīḍalha(hla)ṇaviracitāyāṁ nibandhasaṅgrahākhyāyāṁ suśrutavyākhyāyāṁ
śārīrasthānē navamō’dhyāyaḥ||9||
1. ‘dhmānāddhamanyaḥ sravaṇāt srōtāṁsi saraṇāt sirāḥ’ (ca.sū.30)|
2. ‘nāvadiṣyat’ iti pā.|
3. ‘abhinnagītatayā pratītiḥ’ iti pā.|
4. ‘sarvābhirdhamanībhirgr̥hṇītē’ iti pā.|
5. ‘yathātatham’ iti pā.|
6. ‘cōrdhvagatānāṁ tiryaggatānāṁ’ iti pā.|
7. ‘trividhā’ iti pā.|
8. ‘tā ēva raktamabhivahanti’ iti pā.|
9. rasabhāvō’sti’ iti pā.|
10. dravamacchamudakamivōdakaṁ,’ iti pā.|
11. ‘cāpi santaparyanti’ iti pā.|
12. ‘samyakpariṇatāhārarasavāhibhistribhiḥ’ iti pā.|
13. ‘ca niyataḥ’ iti pā.|
14. svakīyēṣvarthēṣu’ iti pā.|
15. ‘rasavahaṁ na’ iti pā.|
16. ‘prāṇavāhinyaśca’ iti pā.|
17. ‘mūrchā’ iti tā.|
18. ‘pipāsā’sādhyā śyāvāṅgatā’ iti pā.|
19. ‘raktavāhinyaśca dhamanyaḥ’ iti tā. pustakē na paṭhyatē|
20. ‘śōṇitātigamanaṁ’ iti pā.|
21. ‘raktavāhinyaśca’ iti pā.|
22. ‘vā’prasēkaśca’ iti pā.|
23. ‘pratyēkavaca(ha)nē’ iti pā.|
24. svēdō mūlamiti’ iti pā.|
25. naiṣāṁ mūlaviddhalakṣaṇādhikāraḥ iti pā.|
26. ‘yat antaraṁ chidraṁ, prasr̥tamabhivahanaśīlaṁ tat’ iti pā.|