Suśrutasaṁhitā Sūtrasthāna Adhyāya 01 – Vedotpatti

eSamhita: A Scholarly Digital Initiative of Ayurveda360

Table of Contents

Devanagari Version

काशिराजधन्वन्तरिणोपदिष्टा तच्छिष्यसुश्रुतेन विरचिता

सुश्रुतसंहिता

श्रीडल्हणाचार्यविरचितया निबन्धसङ्ग्रहाख्यव्याख्यया निदानस्थानस्य श्रीगयदासाचार्यविरचितया न्यायचन्द्रिकाख्यपञ्जिकाव्याख्यया च समुल्लसिता

सूत्रस्थानम् - १. वेदोत्पत्त्यध्यायः

Only Moolashloka

सहस्राक्षं [१] गणाधीशं स्वगुरुं च सरस्वतीम्|
जनकं जनयित्रीं च शास्त्रादौ प्रणमाम्यहम्||

समस्तजनपदतिलककल्पे श्रीभादानकदेशे नगरीवरमथुरासमीपे अङ्कोलानामकं वैद्यस्थानमस्ति| यत्र सौरवंशजा ब्राह्मणाः समस्तभूमिपतिमान्या अश्विनीकुमारसमानाः पार्वणचन्द्ररुचियशःप्रसाधितदिङ्मण्डला वैद्या अभूवन्| तदन्वये गोविन्दनामा चिकित्सकशिरोमणिरभूत्, ततस्तत्पुत्रो भिषक्शिरोमुकुटमणिर्जयपालः समजनि, तत्तनयश्च समस्तशास्त्रार्थतत्त्वज्ञो भरतपालः सञ्जातः, तत्पुत्रः स्वकुलनभस्तलचन्द्रमा [२] विवेकबृहस्पतिः श्रीसहपालदेवनृपतिवल्लभः श्रीडल्हणः समभूत्| तेन श्रीजेज्जटं टीकाकारं श्रीगयदासभास्करौ च पञ्जिकाकारौ श्रीमाधवब्रह्मदेवादीन् टीप्पनकारांश्चोपजीव्य, आयुर्वेदशास्त्रसुश्रुतव्याख्यानाय निबन्धसङ्ग्रहः क्रियते| यद्यपि सुश्रुतोपरि जेज्जटादिभिष्टीका रचिताः, तथाऽपि तासां कुशाग्रीयधियामभिगम्यत्वादल्पमेधसामनुग्रहाय सुश्रुतं व्याख्यातुकामस्य मम प्रयासः सफलः|

अथातो वेदोत्पत्तिमध्यायं [३] व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||

अथातो वेदोत्पत्तिमध्यायं व्याख्यास्याम इति| ननु, कतमत् सूत्रमिदं? चतुर्विधानि हि सूत्राणि भवन्ति; तद्यथा- प्रतिसंस्कर्तृसूत्रम्, एकीयसूत्रं, शिष्यसूत्रं, गुरुसूत्रं चेति| इह प्रतिसंस्कर्तृसूत्रं नास्त्येवेत्येके, अन्ये त्वस्तीति भाषन्ते, यथा च तदस्ति तथेहैव नैकट्येन कथयिष्यामः; एकीयसूत्रं यथा- ‘तत्र लोहितकपिलपाण्डुपीतनीलशुक्लेष्ववनिप्रदेशेषु मधुराम्ललवणकटुतिक्तकषायाणि यथासङ्ख्यमुदकानि भवन्तीत्येके भाषन्ते’(सू. अ. ४५)- इति; शिष्यसूत्रं यथा- ‘वायोः प्रकृतिभूतस्य व्यापन्नस्य च लक्षणम्| स्थानं कर्म च रोगांश्च वदस्व वदतांवर’ (नि. अ. १)- इति; गुरुसूत्रं यथा- ‘देहे विचरतस्तस्य लक्षणानि निबोध मे’ (नि. अ. १)- इति; एवं सूत्राणामनेकत्वात् कस्येदं सूत्रम्? उच्यते- गुरोरेवैतत् सूत्रं, शिष्येण ग्रन्थं चिकीर्षता लिखितम्| अन्ये तु शिष्यस्यैवेदं सूत्रमित्याहुः, स त्वात्मशिष्येषु धन्वन्तरिप्रशिष्येषु प्रतिज्ञां कृतवान्; तन्नेच्छति गयी| किमेतत् स्वकपोलकल्पितं सुश्रुतेनोक्तम्, अथवा यथैव गुरुणोदीरितमिति पृष्टः प्रतिसंस्कर्ता सुश्रुतमुखेनेदमाह- यथोवाच भगवान् धन्वन्तरिरिति| इदं प्रतिसंस्कर्तृसूत्रं, यत्र यत्र परोक्षे लिट्प्रयोगस्तत्र तत्रैव प्रतिसंस्कर्तृसूत्रं ज्ञातव्यमिति; प्रतिसंस्कर्ताऽपीह नागार्जुन एव| अथशब्दोऽनन्तरार्थ एव| अतो युष्मच्छल्यतन्त्रोपदेशकामितादनन्तरम्| वेदोत्पत्तिमिति अस्यादौ आयुःशब्दो लुप्तो ज्ञेयः; तेन, आयुर्वेदोत्पत्तिमिति| उत्पत्तिरत्राभिव्यक्तिः, न त्वभूतप्रादुर्भावः| अधीयन्तेऽस्मिन्नर्था इत्यध्यायः| व्याख्यास्याम इति विर्विशेषे, आङ् अभिव्याप्तौ, व्याख्यास्यामः प्रकथयिष्यामः| अन्ये तु, अथशब्दः शिष्यप्रश्नानन्तर्ये [४] , अतःशब्दो हेत्वर्थः, यत एते शिष्याः प्रजाहितार्थमायुर्वेदं गुरुं पप्रच्छुः, अतो हेतोरित्यर्थः; अपरे तु विर्विविधप्रकारे, आङ् आभिमुख्ये, शेषं समम्| एतेनातः शल्यतन्त्रोपदेशकामितादनन्तरम्, आयुर्वेदाभिव्यक्तिमधिकृत्य कृतो योऽध्यायस्तं विशेषाभिव्याप्त्या प्रकथयिष्यामः| द्वितीयव्याख्यानपक्षेऽपीत्थं योजनीयम्| यथोवाचेति यादृगुक्तवान्| भगवान् धन्वन्तरिरिति समस्तैश्वर्यमाहात्म्ययशःश्रीकामार्थप्रयत्नैर्युक्तो ‘भगवान्’ इत्युच्यते; अन्ये तु ज्ञानातिशयवान् पुरुषातिशयो भगवान्; अपरे तु, अष्टगुणैश्वर्यवानेवात्र भगवान्| अथात इत्यादिकं प्रतिज्ञासूत्रं यद्यप्यध्यायादौ लिखितं, तथऽपि ‘वत्स सुश्रुत’ (सू. अ. १, सू. अ. १४) इत्यनन्तरं द्रष्टव्यम्; अन्ये तु ‘अध्याप्याश्च भवन्तो वत्साः’ (सू. अ. १, सू. अ. ५) इत्यनन्तरं पठन्ति, तन्नेच्छति गयी| अत्र केचिद् ‘वेदोत्पत्तिं नामाध्यायं’ इति पठन्ति||१-२||

अथ खलु भगवन्तममरवरमृषिगणपरिवृतमाश्रमस्थं काशिराजं दिवोदासं धन्वन्तरिमौपधेनववैतरणौरभ्रपौष्कलावतकरवीर्य(र)गोपुररक्षितसुश्रुतप्रभृतय ऊचुः ||३||

अथ खल्वित्यादि| अथेति मङ्गलार्थः, तत्तु श्रोतृव्याख्यात्रोः क्रियाफलसिद्धिं कथयति| खलु वाक्यशोभार्थः, अन्ये तु निश्चयार्थः| अमरवरं देवश्रेष्ठं, पूर्वजन्मन्यमृतोद्धरणात्; अन्ये तु ब्रह्मणोऽवतारत्वात्| ऋषिगणपरिवृतं देवर्षिब्रह्मर्षिराजर्षिसमूहैर्वेष्टितं, तपोज्ञानबाहुल्यादुपादेयवाक्यत्वाच्च| आश्रमस्थं वानप्रस्थाश्रमस्थम्, एतेन राज्यचिन्तापरित्यागादनाकुलचित्तत्वं राजर्षित्वं च सूचितम्| काशिराजं वाराणसीजनपदनृपतिं, काशिराजस्य निर्वाणपदाभिलाषित्वात्तत्पुत्रत्वमापन्नमिति काशिराजम्| काशिराजानामनेकत्वाद्विशेषणमाह- दिवोदासम्|- दिवितिशब्देनात्र तत्स्थानदेवाः [५] कथ्यन्ते, तैः पूजाकाम्यया सम्प्रदीयते यस्मै स दिवोदासस्तम्; अन्ये तु दास(श)ति कर्माणि यत्नेन करोतीति दासः(शः), दिवः स्वर्गस्य दासो दिवोदास(श)स्तम्| सर्वजनप्रसिद्धं विशेषणमाह- धन्वन्तरिमिति|- धनुः शल्यशास्त्रं, तस्य अन्तं पारम् इयर्ति गच्छतीति धन्वन्तरिः [६] , तम्; अपरा व्युत्पत्तिर्विस्तरभयान्न लिखिता| औपधेनवादयः सुश्रुतान्ताः सप्त शिष्या ऊचुः उक्तवन्तः| प्रभृतिशब्देन भोजादयः| अन्ये तु ‘गोपुररक्षितौ’ इति नामद्वयं मन्यन्ते, इत्यौपधेनवादयोऽष्टौ; प्रभृतिग्रहणान्निमिकाङ्कायनगार्ग्यगालवाः; एवमेतान् द्वादश शिष्यानाहुः| ननु, प्रश्नकर्तृतया सुश्रुतस्य मुख्यत्वादादावस्य नामग्रहणमुचितं स्यात्, कथमौपधेनवादिनामान्यादावुक्तानि? सत्यं, देवर्षयस्ते राजर्षीणां पूज्या इति न दोषः||३||

भगवन्! शारीरमानसागन्तुभिर्व्याधिभिर्विविधवेदनाभिघातोपद्रुतान् [७] सनाथानप्यनाथवद्विचेष्टमानान् विक्रोशतश्च मानवानभिसमीक्ष्य मनसि नः पीडा भवति, तेषां सुखैषिणां रोगोपशमार्थमात्मनश्च प्राणयात्रार्थं प्रजाहितहेतोरायुर्वेदं श्रोतुमिच्छाम इहोपदिश्यमानम्, अत्रायत्तमैहिकमामुष्मिकं च श्रेयः; तद्भगवन्तमुपपन्नाः स्मः शिष्यत्वेनेति ||४||

ऋषयस्ते तं काशिराजं प्रति किमूचुरित्याह- भगवन्नित्यादि|- भगवन्निति सम्बोधने| तत्र शारीरा वातादिवैषम्यनिमित्ताः, मानसा रजस्तमःसम्भूताः कामादयः, आगन्तवो व्याघ्रादिकृताः शस्त्रादिकृताश्च| स्वाभाविकानामत्राग्रहणमस्मिञ्छास्त्रे तत्प्रतीकारस्याप्राधान्यसूचनार्थम्; अथवा ‘आत्मनश्च प्राणयात्रार्थं’ इत्यत्रैवावरोधाच्च, ऋषीणां हि शारीरमानसागन्तुव्याध्यसम्भवात् केवलं स्वाभाविकव्याधिनिषेधेनैव प्राणयात्राऽभिप्रेता| उपद्रुतान् उपसृष्टान्| सनाथानपि समित्रादिकानपि| अनाथवत् एकाकिजनवत्| विचेष्टमानान् विरुद्धां क्रियां कुर्वाणान्| एतेनायुर्वेदं विना मित्रादयोऽप्यनर्थका इति| विक्रोशतश्च विशेषादार्तस्वरै रुदतश्च| नः अस्माकम्| आत्मनश्च प्राणयात्रार्थं प्राणानामग्नीषोमादीनां यात्रार्थं व्यवहारार्थं स्वस्थवृत्तानुवर्तनार्थम्| अत्र केचित् ‘आत्मप्रजाहितहेतोः’ इति पठन्ति| उपदिश्यमानं सङ्क्षेपतः कथ्यमानम्| अत्रायत्तमिति अत्रायुर्वेदोपदेशे, आयत्तं अधीनम्| ऐहिकम् इहलोकभवम्, आमुष्मिकं परलोकभवं, श्रेयः कल्याणलाभः| अर्थकामौ मित्रादिलाभो यशश्च ऐहिकं श्रेयः; स्वर्गादि विशिष्टं जन्मान्तरज्ञानादयश्च आमुष्मिकं श्रेयः, अमरत्वं च| तदिति हेतौ, यस्मादायुर्वेदोपदेशाद्विविधं श्रेय आयत्तं, तस्मात्; उपपन्नाः स्मः समीपमागताः स्मः; शिष्यत्वेन छात्रभावेनेति||४||

तानुवाच भगवान्- स्वागतं वः; सर्व एवामीमांस्या अध्याप्याश्च भवन्तो वत्साः ||५||

तेषामौपधेनवादीनां समीपगतानां काशिराजेन किं कृतमित्याह- तानुवाच भगवानिति| स्वागतं शोभनमागतं, वः युष्माकम्| अमीमांस्याः अविचारणीयाः, प्रसिद्धजात्यादिवत्त्वात्| अध्याप्याश्च अध्यापनार्हाश्च| वत्सा इति पक्षपातातिशयत्वसूचकं सम्बोधनम्; अथवा वत्साः प्रथमवयसो गवां पुत्राः, वत्सा इव वत्साः; अनेन विशेषणेन प्रथमवयस्त्वं पुत्रसादृश्यं दमनीयत्वं च सूचयति||५||

इह खल्वायुर्वेदं नामोपाङ्गमथर्ववेदस्यानुत्पाद्यैव [८] प्रजाः श्लोकशतसहस्रमध्यायसहस्रं च कृतवान् स्वयम्भूः, ततोऽल्पायुष्ट्वमल्पमेधस्त्वं चालोक्य नराणां भूयोऽष्टधा प्रणीतवान् ||६||

इदानीमायुर्वेदस्य सामान्यं लक्षणं दर्शयन्नाह- इह खल्वित्यादि|- इह खल्विति वाक्यालङ्कारे, वक्ष्यमाणं वाक्यमलङ्करोति; अन्ये तु इह मयि सूत्रकारे, खलु एवार्थः; एतेन मय्येव आयुर्वेदोऽष्टाङ्गो नान्येषु सूत्रकारेषु, अन्येषामेकैकस्यैवाङ्गस्य प्रणेतृत्वात्| इहेति वाक्योपक्रमे, खलु सम्बोधने, इत्यपरे| उपाङ्गम् अङ्गमेवाल्पत्वादुपाङ्गं; तद्यथा- देहस्य बाहुजङ्घे शिर इत्यङ्गानि, करचरणनासिकादीन्युपाङ्गानि, एतेनोपाङ्गमित्युक्तम्; उपाङ्गमङ्गसमीपमित्येके| अनुत्पाद्यैव प्रजाः लोकसृष्टेः प्राक्, आयुर्वेदं प्रदर्श्य प्रजाः पश्चात् सृष्टवानित्यर्थः| कृतवान् संस्कृतवान्, न तु पूर्वमुत्पादितवान्; कुतः? नित्यत्वात्| स्वयम्भूः ब्रह्मा| ततोऽल्पायुष्ट्वमिति ततः प्राक्तनकरणादनन्तरमधर्मप्रवृत्तौ सत्याम्, अल्पायुष्ट्वम् अल्पजीवितत्वम्, अल्पमेधस्त्वं स्वल्पबुद्धित्वं, भूयः पुनः, अष्टधा अष्टभिः प्रकारैः||६||

तद्यथा- शल्यं, शालाक्यं, कायचिकित्सा, भूतविद्या, कौमारभृत्यम्, अगदतन्त्रं, रसायनतन्त्रं, वाजीकरणतन्त्रमिति ||७||

अथ के तेऽष्टौ प्रकाराः? इत्याह- तद्यथेत्यादि| शल्यमिति शल्याहरणप्रधानं तन्त्रं शल्यतन्त्रम्| शलाकायाः कर्म शालाक्यं, तत्प्रधानं तन्त्रमपि शालाक्यम्| कायोऽत्राग्निरुच्यते, तस्य चिकित्सा कायचिकित्सा; अथवा कायो देहः, तस्य चिकित्सा कायचिकित्सा| भूतानि देवासुरगन्धर्वयक्षरक्षःपितृनागपिशाचा अष्टौ, तानि वेत्त्यनयेति भूतविद्या; अथवा भूतावेशापाकरणार्था विद्या भूतविद्या| कुमाराः बालाः, तेषां भृतिर्धारणं पोषणं च, तस्या भृत्या इदं तन्त्रमिति कौमारभृत्यम्| अगदो विषप्रतीकारः, तदर्थं तन्त्रमगदतन्त्रम्; अन्ये विषगरवैरोधिकसम्प्रयोगो गदः, गदस्याभावः अगदः, अगदाय तन्त्रमगदतन्त्रमित्याचक्षते| रसानां रसरक्तादीनामयनमाप्यायनं रसायनं, तदर्थं तन्त्रं रसायनतन्त्रम्; अथवा रसानां रसवीर्यविपाकादीनामायुःप्रभृतिकारणानामयनं विशिष्टलाभोपायो रसायनं, तदर्थं तन्त्रं रसायनतन्त्रम्| वाजीकरणतन्त्रमिति येन स्त्रीषु विषये वाजीव नरः सामर्थ्यं प्राप्नोति तद् वाजीकरणं, येनात्यर्थं व्यज्यते स्त्रीषु तद् वाजीकरणम्; अन्ये तु वजनं वाजो वेगः प्रकरणाच्छुक्रस्य [९] , स विद्यते येषां ते वाजिनः, अवाजिनो वाजिनः क्रियन्तेऽनेनेति वाजीकरणम्; अन्ये तु वाजीशब्देन शुक्रमभिधीयते, तेन शुक्ररहितस्य वाजी शुक्रं क्रियतेऽनेनेति वाजीकरणं, तदर्थं तन्त्रं वाजीकरणतन्त्रम्| इतिशब्दोऽष्टाङ्गपरिसमाप्तौ||७||

अथास्य प्रत्यङ्गलक्षणसमासः [१०] |८|

अथेत्यादि|- अथेत्यानन्तर्ये, अस्य आयुर्वेदस्य, प्रत्यङ्गलक्षणसमासः एकमेकमङ्गं प्रति लक्षणसङ्क्षेपः|८|-

तत्र, शल्यं नाम विविधतृणकाष्ठपाषाणपांशुलोहलोष्टास्थिबालनखपूयास्रावदुष्टव्रणान्तर्गर्भशल्योद्धरणार्थं [११] , यन्त्रशस्त्रक्षाराग्निप्रणिधानव्रणविनिश्चयार्थं च (१) |८|

किं तदेकमेकमङ्गं प्रति लक्षणं सङ्क्षेपेणेत्याह- तत्रेत्यादि| तत्र तेष्वङ्गेषु| नामशब्दः प्रतिपादने, शल्यं प्रतिपाद्यते कथ्यत इत्यर्थः| विविधतृणादीनां पूयास्रावान्तानां दुष्टव्रणस्यान्तर्मध्यादुद्धरणार्थमुद्धरणप्रयोजनं, तथा गर्भशल्यस्यापि| उद्धरणार्थमित्यस्याग्रे ‘षष्ट्या विधानैः’ इति केचित् पठन्ति, व्याख्यानयन्ति च- अपतर्पणाद्यै रक्षाविधानान्तैर्द्विव्रणीयोक्तैरित्यर्थः| प्रणिधानार्थं निवेशनार्थम्| न केवलं काष्ठतृणादि शल्यं, किन्तु ‘‘अतिप्रवृद्धं मलदोषजं वा शरीरिणां स्थावरजङ्गमानाम्| यत्किञ्चिदाबाधकरं शरीरे तत् सर्वमेव प्रवदन्ति शल्यम्’’- इति||८(१)||

शालाक्यं नामोर्ध्वजत्रुगतानां श्रवणनयनवदनघ्राणादिसंश्रितानां व्याधीनामुपशमनार्थम् (२) |८|

शालाक्यमित्यादि| जत्रु ग्रीवामूलम्, अन्ये वक्षोंऽससन्धिमाहुः| वदनमत्र मुखकुहरमाहुः| घ्राणादिसंश्रितानामित्यत्र आदिशब्दाच्छिरःकपालादिसंश्रितानाम्||८(२)||

कायचिकित्सा नाम सर्वाङ्गसंश्रितानां व्याधीनां ज्वररक्तपित्तशोषोन्मादापस्मारकुष्ठमेहातिसारादीनामुपशमनार्थम् (३) |८|

कायचिकित्सेत्यादि| केचिज्ज्वरानन्तरमतिसारं पठन्ति; तन्न, पञ्जिकया दूषितत्वात्||८(३)||

भूतविद्या नाम देवासुरगन्धर्वयक्षरक्षःपितृपिशाचनागग्रहाद्युपसृष्टचेतसां शान्तिकर्मबलिहरणादिग्रहोपशमनार्थम् (४) |८|

भूतविद्येत्यादि| असुराः दैत्याः, गन्धर्वा देवगायकाः, यक्षाः धनदादयः, रक्षांसि रावणप्रभृतीनि, पितरः अग्निष्वात्तादयः, पिशाचाः पिशिताशनाः; एते ग्रहणाद् ग्रहाः प्रोच्यन्ते| शान्तिकर्मबलिहरणादिग्रहोपशमनार्थं शान्तिकर्मादिभिरष्टग्रहोपशमनप्रयोजनम्||८(४)||

कौमारभृत्यं नाम कुमारभरणधात्रीक्षीरदोषसंशोधनार्थं दुष्टस्तन्यग्रहसमुत्थानां च व्याधीनामुपशमनार्थम् (५) |८|

कौमारभृत्यमित्यादि| दुष्टस्तन्यग्रहसमुत्थानां चेति दुष्टस्तन्येन दुष्टग्रहेण च जातानामित्यर्थः; तत्र दुष्टस्तन्येन शारीराः, दुष्टग्रहेणागन्तवः||८(५)||

अगदतन्त्रं नाम सर्पकीटलूतामूषकादिदष्टविषव्यञ्जनार्थं [१२] विविधविषसंयोगोपशमनार्थं च (६) |८|

अगदतन्त्रमित्यादि| कीटा वृश्चिकादयः; लूता मर्कटः, कीटभेदो वा| विविधविषसंयोगोपशमनार्थमिति विविधानां नानाप्रकाराणां स्थावरजङ्गमानां विषाणां, संयोगः सङ्गमः, तदुपशमाय| अन्ये तु ‘विविधविषसंयोगविषोपहतोपशमार्थं च’ इति पठन्ति| संयोगविषं समानमधुघृतादि||८(६)||

रसायनतन्त्रं नाम वयःस्थापनमायुर्मेधाबलकरं रोगापहरणसमर्थं च (७) |८|

रसायनतन्त्रमित्यादि| वयःस्थापनं वर्षशतमायुःस्थापनम्| आयुष्करं शताधिकमपि करोति| अन्ये तु वयःस्थापनं जरापहरणं, तारुण्यं बहुकालं स्थापयतीत्यर्थः||८(७)||

वाजीकरणतन्त्रं नामाल्पदुष्टक्षीणविशुष्करेतसामाप्यायनप्रसादोपचयजनननिमित्तं [१३] प्रहर्षजननार्थं च (८) ||८||

वाजीकरणतन्त्रमित्यादि| अल्परेतसः प्रकृत्यैव स्तोकरेतसः, तेषामाप्यायननिमित्तं; दुष्टरेतसो वातादिदुष्टरेतसः, तेषां प्रसादनिमित्तं; क्षीणरेतसः कारणैः स्वमानादल्पीभूतरेतसः, तेषामुपचयनिमित्तं; विशुष्करेतसः स्वमानादत्यर्थं क्षीणरेतसः, तेषां जनननिमित्तम्| अथवाऽल्परेतसः पञ्चविंशतिमप्राप्ताः, क्षीणरेतसस्तु मध्यवयसः कारणादल्पीभूतरेतसः, शुष्करेतसो वृद्धाः| प्रहर्षजननार्थं चेति स्वस्थस्य शुक्रवृद्धिस्रुतिकरणार्थं चेत्यर्थः||८(८)||

एवमयमायुर्वेदोऽष्टाङ्ग उपदिश्यते; अत्र कस्मै किमुच्यतामिति ||९||

एवमयमिति|- एवमनेन प्रकारेण| अत्रेति एषु मध्ये| किमङ्गं कस्मै शिष्यायोपदिश्यतां व्याख्यायताम्| इतिशब्दः सामान्येन||९||

त ऊचुः- अस्माकं सर्वेषामेव शल्यज्ञानं मूलं कृत्वोपदिशतु भगवानिति ||१०||
स उवाचैवमस्त्विति ||११||

त ऊचुः ते शिष्या धन्वन्तरिं प्रति ऊचुः उक्तवन्तः| शल्यज्ञानं मूलं कृत्वा शल्यज्ञानमादौ कृत्वा| सः धन्वन्तरिः, उवाच उक्तवान्, एवमस्त्विति एवं भवत्विति| ‘स होवाच’ इति केचित् पठन्ति; तैः शिष्यैः सहेत्यर्थः||१०-११||

त ऊचुर्भूयोऽपि भगवन्तम्- अस्माकमेकमतीनां मतमभिसमीक्ष्य सुश्रुतो भगवन्तं प्रक्ष्यति, अस्मै चोपदिश्यमानं वयमप्युधारयिष्यामः ||१२||
स उवाचैवमस्त्विति ||१३||

प्रक्ष्यति पृच्छां करिष्यति||१२-१३||

वत्स सुश्रुत! इह खल्वायुर्वेदप्रयोजनं- व्याध्युपसृष्टानां व्याधिपरिमोक्षः, स्वस्थस्य रक्षणं [१४] च ||१४||

‘वत्स सुश्रुत’ इति सम्बोधने| अस्याग्रे ‘अथात’ इत्यादिका प्रतिज्ञा ज्ञातव्येति पूर्वमेवोक्तम्| इह खल्वित्यधिकारे, इह खलु आयुर्वेदोत्पत्त्यधिकारे इत्यर्थः| व्याधिशब्दोऽयं दुष्टेषु वातादिषु, तत्कार्येषु ज्वरादिषु क्लेशेषु, रागादिषु दुःखेषु संसारानुवृत्तिजनकेषु च, वर्तते; परिमोक्षो निवृत्तिः| ननु, व्याधिपरिमोक्षस्वस्थरक्षणाभ्यामन्यदपि प्रयोजनमस्ति, किं तत्? याप्यव्याधितरक्षा रसायनादायुरुत्कर्षश्च, तदिदं वक्तव्यम्; उच्यते- स्वस्थस्य रक्षणं चेति चकारोऽनुक्तसमुच्चयार्थः, तेन याप्यव्याधितरक्षणं रसायनादायुरुत्कर्षश्च; अथवा साध्यव्याधौ क्रियैकत्वाद् याप्यावरोधः, रसायनादायुरुत्कर्षस्तु स्वस्थरक्षयैव गृह्यते||१४||

‘आयुरस्मिन् विद्यते, अनेन वाऽऽयुर्विन्दन्ति’ इत्यायुर्वेदः ||१५||

आयुर्वेदस्य निरुक्तिं दर्शयन्नाह- आयुरस्मिन्नित्यादि| आयुः शरीरेन्द्रियसत्वात्मसंयोगः, तदस्मिन्नायुर्वेदे विद्यते अस्तीत्यायुर्वेदः; अथवा आयुर्विद्यते ज्ञायते अनेनेत्यायुर्वेदः; आयुर्विद्यते विचार्यते अनेन वेत्यायुर्वेदः; आयुरनेन विन्दति प्राप्नोतीति वाऽऽयुर्वेदः||१५||

तस्याङ्गवरमाद्यं प्रत्यक्षागमानुमानोपमानैरविरुद्धमुच्यमानमुपधारय [१५] ||१६||

तस्याङ्गवरमित्यादि|- अङ्गवरम् अङ्गश्रेष्ठम्| आद्यम् आदिभवम्| प्रत्यक्षागमानुमानोपमानैरविरुद्धमिति अनेन शल्येनाङ्गवरेण योऽर्थः प्रतिपाद्यते स खलु प्रत्यक्षादिभिरपि तथाऽवगम्यत इत्यर्थः| प्रत्यक्षमिति यत्किञ्चिदेवार्थस्य साक्षात्कारिज्ञानं तदेव प्रत्यक्षं, तथाहि- “मनोऽक्षगतमभ्रान्तं वस्तु प्रत्यक्षमुच्यते| इन्द्रियाणामसञ्ज्ञानं वस्तुतत्त्वे भ्रमः स्मृतः”- इति; प्रत्यक्षाविरुद्धं यथा- सूर्यावलोकनान्नासान्तः सूत्रवर्तिप्रवेशनाच्च क्षुतः प्रादुर्भावः| आगमो वेदः, आप्तानां शास्त्रं वा; तथाहि- “सिद्धं सिद्धैः प्रमाणैस्तु हितं चात्र परत्र च| आगमः शास्त्रमाप्तानामाप्तास्तत्त्वार्थवेदिनः”- इति; आगमाविरुद्धं यथा- पुराणादिष्वपि श्रूयते- “रुद्रेण यज्ञस्य शिरश्छिन्नमश्विभ्यां संहितम्” इति| आगमस्य प्रत्यक्षफलत्वाद् वरीयस्त्वं, तेनानुमानात् पूर्वं निर्दिष्टवान्| अनु पश्चादव्यभिचारिलिङ्गाल्लिङ्गी मीयते ज्ञायते येन तदनुमानं; तेनानुमानेनाविरुद्धं यथा- प्रनष्टे शल्ये चन्दनघृतोपदिग्धायां त्वचि विशोषणविलयनाभ्यामनुमीयते- अत्र शल्यमिति| प्रसिद्धसाधर्म्यात् सूक्ष्मव्यवहितविप्रकृष्टस्यार्थस्य साधनमुपमानं; तेनाविरुद्धं यथा- माषवन्मषकः, तिलमात्रस्तिलकालकः, विदारीकन्दवद् विदारीरोगः, शालूकवत् पनसिकेत्यादि| उच्यमानम् उपदिश्यमानम्| मया धन्वन्तरिणेत्यर्थः||१६||

एतद्ध्यङ्गं प्रथमं, प्रागभिघातव्रणसंरोहाद्यज्ञशिरःसन्धानाच्च |
श्रूयते हि यथा- “रुद्रेण यज्ञस्य शिरश्छिन्नमिति, ततो देवा अश्विनावभिगम्योचुः- भगवन्तौ नः श्रेष्ठतमौ युवां भविष्यथः, भवद्भ्यां यज्ञस्य शिरः सन्धातव्यमिति |
तावूचतुरेवमस्त्विति |
अथ तयोरर्थे देवा इन्द्रं यज्ञभागेन प्रासादयन् |
ताभ्यां यज्ञस्य शिरः संहितम्” इति ||१७||

शल्याङ्गस्याद्यत्वं प्रतिपादयन्नाह- एतद्धीत्यादि|- हिशब्दोऽवधारणे, एतेनैतदेवाङ्गं प्रथममाद्यं प्रधानं वा| कस्मात् प्रथमं? प्रागभिघातव्रणसंरोहात्|- शारीरव्याधीनां प्रागेव देवासुरसङ्ग्रामेऽभिघातव्रणोत्पत्तिः, तत्संरोहात्| द्वितीयहेतुमाह- यज्ञशिरःसन्धानाच्चेति| अत्रापि प्रागिति सम्बध्यते| अन्ये त्वत्र यज्ञशिरःसन्धानाच्चेति| अत्रापि प्रागिति सम्बध्यते| अन्ये त्वत्र ‘यज्ञप्रधानशिरःसन्धानाच्च’ इति पठन्ति| यतः प्राग्यज्ञस्य प्रधानभूतस्य शिरसः सन्धानं तस्मादिदमाद्यम्| अत्रैव पारम्पर्योपदेशमाह- श्रूयते हीत्यादि यावत्संहितमिति| अत्र केचित् ‘संहितं’ इत्यत्र ‘सन्धितं’ इति पठन्ति||१७||

अष्टास्वपि चायुर्वेदतन्त्रेष्वेतदेवाधिकमभिमतम्, आशुक्रियाकरणाद्यन्त्रशस्त्रक्षाराग्निप्रणिधानात् सर्वतन्त्रसामान्याच्च ||१८||

इदानीं वरत्वे प्रतिज्ञातं हेतुं प्रतिपादयन्नाह- अष्टास्वित्यादि| एतदेवाधिकमिति एतदेवाधिकं नान्यच्छालाक्यादि| कस्मात्? आशुक्रियाकरणात्| कुतोऽस्य पुनराशुक्रियाकरणत्वं? यन्त्रादिप्रणिधानात्, न हि यन्त्रादिषु प्रणिधाने मन्दा क्रिया कर्तुं युक्ता, मन्दकारित्वे ह्यातुरस्य व्यापत्तिः स्यात्| वरत्वे द्वितीयं हेतुमाह- सर्वतन्त्रसामान्याच्च; शालाक्यादितन्त्रतुल्यत्वाच्च| ‘अधिकक्रियाकरणात्’ इति केचित् पठन्ति| अधिकक्रियाकरणमप्यस्य यन्त्रादिप्रणिधानात् सर्वतन्त्रसामान्याच्च हेतुभ्याम्| अन्ये तु वरत्वे आशुक्रियाकरणादिति हेतुत्रयमाहुः; आशुक्रियाकरणात् शीघ्रं छेदादिक्रियाकरणादिति व्याख्यानयन्ति||१८||

तदिदं शाश्वतं पुण्यं स्वर्ग्यं यशस्यमायुष्यं वृत्तिकरं चेति ||१९||

अतः शिष्योत्साहनाय यथाभूतां प्रशंसामाह- तदिदमित्यादि|- तदिदं शल्यतन्त्रं; शाश्वतम् अविनाशि, अथवा शाश्वतशब्देन मोक्षोऽभिधीयते, तत्सम्पादनाच्छाश्वतं; पुण्यं पुण्यहेतुत्वात्; स्वर्गस्य निमित्तं स्वर्गाय हितं वा स्वर्ग्यं; यशसो निमित्तं यशसे हितं वा यशस्यम्; आयुषो निमित्तमायुषे हितं वा आयुष्यं; वृत्तिकरं चेति निर्वाहकरम्||१९||

ब्रह्मा प्रोवाच ततः प्रजापतिरधिजगे, तस्मादश्विनौ, अश्विभ्यामिन्द्रः, इन्द्रादहं, मया त्विह प्रदेयमर्थिभ्यः प्रजाहितहेतोः ||२०||

इदानीं क्रमागतिं प्रतिपादयन्नाह- ब्रह्मा प्रोवाचेत्यादि| प्रोवाच प्रथमं कथितवान्| तस्मात् प्रजापतिरधिजगे इति प्रजापतिर्दक्षः, अधिजगे अधीतवान्| मया त्विहेति स्वर्गे ब्रह्मणैवार्थिभ्यः प्रथमं दत्तं, मया धन्वन्तरिणा पुनरिह मर्त्यलोके प्रदेयं प्रथमं दातव्यमिति||२०||

भवति चात्र-
अहं हि धन्वन्तरिरादिदेवो जरारुजामृत्युहरोऽमराणाम् |
शल्याङ्गमङ्गैरपरैरुपेतं प्राप्तोऽस्मि गां भूय इहोपदेष्टुम् ||२१||

अथ काशिराजः शिष्यप्रतीत्यर्थं श्लोकमाह- भवति चात्रेत्यादि| आदिदेवः शङ्करः; अन्ये तु, आदिदेवा ब्रह्मादयः, कर्मदेवाः शतक्रतुप्रभृतयः, प्रजननदेवास्तु प्रयोजनजनिताः स्कन्दादयः, तेषामहमादिदेवः; आदिदेवत्वेऽपि काशिराजत्वमुपपन्नमवतारान्तरमापन्नत्वात्| जरारुजामृत्युहरोऽमराणामिति एतेनैतदुक्तं- देवानामपि पुरा जरादयस्तस्थुः, ते च मया आदिदेवेन हृताः| प्राप्तोऽस्मि गां भूय इहोपदेष्टुमिति पूर्वमहं देवकार्यार्थं स्वर्गं प्राप्तः, इदानीं गां पृथिवीं, भूयः पुनः, प्राप्तोऽस्मि आगतोऽस्मि; इह मर्त्यलोके, मनुष्यकार्यार्थमुपदेष्टुम्| अन्ये ‘शल्यं महच्छास्त्रवरं गृहीत्वा’ इति पठन्ति| स्वमाहात्म्यप्रकाशनमपि परार्थत्वाद्यथाभूतत्वाच्च न दोषाय||२१||

अस्मिञ्छास्त्रे पञ्चमहाभूतशरीरिसमवायः पुरुष [१६] इत्युच्यते |
तस्मिन् क्रिया, सोऽधिष्ठानं; कस्मात्? लोकस्य द्वैविध्यात [१७] ; लोको हि द्विविधः स्थावरो जङ्गमश्च; द्विविधात्मक एवाग्नेयः, सौम्यश्च, तद्भूयस्त्वात्; पञ्चात्मको वा; तत्र चतुर्विधो भूतग्रामः संस्वेदजजरायुजाण्डजोद्भिज्जसञ्ज्ञः [१८] ; तत्र पुरुषः प्रधानं, तस्योपकरणमन्यत्; तस्मात् पुरुषोऽधिष्ठानम् ||२२||

अस्मिञ्छास्त्रे पञ्चमहाभूतेत्यादि| पञ्चमहाभूतानि पृथिव्यादीनि, शरीरी आत्मा, समवायः संयोगः| अन्ये तु ‘तत्रास्मिञ्छास्त्रे’ इति पठन्ति; तत्रेत्यनेन शल्यतन्त्रमधिक्रियते, तस्मिन् शल्यशास्त्रे, अस्मिन्निति अस्मिन्नधिकारे; किं विशेषवति? उच्यते- क्रियाधिकारे व्याध्यधिष्ठानप्रस्तावे च| तस्मिन् क्रियेति तस्मिन्निति पूर्वनिर्दिष्टे पुरुषे, क्रिया शास्त्रोदितं कर्म, किं तत्? भेषजशस्त्रक्षाराग्निनिर्वर्त्यं स्वास्थ्यवृत्तिकरं च| कस्मात् तस्मिन्नेव क्रियेत्याह- सोऽधिष्ठानमिति|- यस्मात् सः पुरुषः, अधिष्ठानं आश्रयः; कस्य? व्याधेः स्वास्थ्यस्य च| अधिष्ठानत्वे हेतुमाह- कस्मादिति| लोकस्य जगतः, द्वैविध्याद् द्विप्रकारत्वात्| लोको हीत्यादि हि यस्मादर्थे| स्थावरो वृक्षादिः, जङ्गमो मनुष्यादिः| चिकित्सोपयोगिधर्मद्वयं प्रतिपादयितुमाह- द्विविधात्मक एवेत्यादि| अग्निभूताधिदैवतस्वभावमाग्नेयं, सोमभूताधिदैवतस्वभावं सौम्यम्| अन्ये द्विविधात्मको द्विविधहेतुक इति व्याख्यानयन्ति; तन्न, पञ्जिकया दूषितत्वात्| ननु, सर्वभूतानां सर्वत्र सान्निध्यमस्ति तत् कथं द्विविधात्मक इत्याह- तद्भूयस्त्वादिति| तद्बाहुल्यादित्यर्थः| प्रायेण हि सर्वं द्रव्यं शीतमुष्णं न तृतीयो राशिरस्ति, अतो द्वावेव अग्नीषोमौ भूयांसौ [१९] | अधुनाऽविशेषेण द्वितीयं पक्षमाह- पञ्चात्मको वेति|- वाशब्दः पक्षान्तरे; तेन स द्विविधोऽपि लोकः पञ्चात्मकः पञ्चस्वभाव इत्ययं वा पक्षः| इदानीं जङ्गमान् पृथक्कर्तुमाह- तत्रेत्यादि|- तत्र तयोः स्थावरजङ्गमयोर्मध्ये, चतुर्विधः चतुष्प्रकारः, भूतग्रामः प्राणिसमूहः| अथ के ते चत्वारः प्रकारा इत्याह- संस्वेदजेत्यादि|- भुवः शरीरस्य च संस्वेदादूष्मणो जाताः संस्वेदजाः; जरायोर्जाता जरायुजाः, जरायुर्गर्भाशयः; अण्डाज्जाताः अण्डजाः, अण्डं प्राण्याधारो वर्तुलं; भुवमुद्भिद्य जाता उद्भिज्जाः; सञ्ज्ञाशब्दः प्रत्येकं सम्बध्यते| चतुर्धा [२०] निपतितानामूष्माणं विना कस्यचित् सिद्धिर्नास्तीति संस्वेदजस्य प्राङ्निर्देशः; केचिदन्यथाक्रमं पठन्ति; तन्न, पञ्जिकया दूषितत्वात्| लोकद्वैविध्यादिति प्रागुद्दिष्टहेत्वर्थं स्फुटीकुर्वन्नाह- तत्र पुरुष इति|- तत्र तयोः स्थावरजङ्गमयोर्मध्ये पुरुषः प्राधान्येन गुणेन पृथक् क्रियते| यद्यप्यत्र पञ्चमहाभूतशरीरिसमवायः पुरुष इति सामान्येन पुरुषशब्देन पश्वादिरपि वाच्यः, तथाऽपि मनुष्यजातिरेवात्र पुरुषशब्देनोच्यते, तस्योपकार्यत्वात्; इतरस्य चाप्राधान्यम्, उपकरणत्वात्| अत एवाह- तस्योपकरणमन्यदिति|- तस्य मनुष्यजातेः पुरुषस्य, अन्यत् स्थावरसंस्वेदजादि, उपकरणम्| उपकरणत्वादप्रधानत्वमित्यत आह- तस्मात् पुरुषोऽधिष्ठानम्| तत्र पुरुषः प्रधानमित्यत्र ‘तेषु चतुर्षु संस्वेदजादिषु मध्ये’ इत्यन्ये व्याख्यानयन्ति||२२||

तद्दुःखसंयोगा व्याधय उच्यन्ते ||२३||

ननु, के ते व्याधयो येषां पुरुषोऽधिष्ठानमित्याह- तद्दुःखेत्यादि|- तच्छब्देनानन्तरनिर्दिष्टः पुरुषोऽधिक्रियते, दुःखं कायवाङ्मानसी पीडा| विविधं दुःखमादधतीति व्याधयः, तस्य पुरुषस्य दुःखाय संयोगो येषामागन्तुप्रभृतीनां ते व्याधयः; अथवा तस्य पुरुषस्य येषु सत्सु, यैर्वा करणभूतैः, येभ्यो वा दुःखं जायते, ते व्याधयः| एतौ वाक्यार्थौ न्याय्यौ| अन्ये तु तस्य पुरुषस्य दुःखानां वेदनानां ये संयोगास्ते व्याधयः; अपरे तु दुर्दुष्टानि खानि स्रोतांसि दुःखानि, तस्य पुरुषस्य दुःखानां दुष्टस्रोतसां निमित्तं संयोगो येषां ते तथोक्ताः| एतावन्याय्यौ, पञ्जिकया दूषितत्वात्||२३||

ते चतुर्विधाः- आगन्तवः, शारीराः, मानसाः, स्वाभाविकाश्चेति ||२४||

ते चतुर्विधा इत्यादि| पूर्वमुत्पन्नत्वादागन्तोः [२१] प्रागभिधानं; ततः शारीराः, शरीरस्य प्राधान्यात्; ततः शेषाविति| स्वभावेन भवन्तीति स्वाभाविकाः, स्वभावो ह्यत्र सहजो धर्मः| आगन्तुप्रभृतयः पूर्वं व्याख्याताः| स्वाभाविकाश्चेति चकारः स्वाभाविकस्य व्याधेरागन्तुप्रभृतिभिः [२२] सहातुल्यबलतां सूचयति| इतिशब्दश्चतुष्प्रकारसमाप्तौ||२४||

तेषामागन्तवोऽभिघातनिमित्ताः |२५|

इदानीमागन्तुप्रभृतीनेव विवरितुमाह- तेषामित्यादि| अभिघातनिमित्ता इति अभिघातः अभिहननं शरादिप्रहारः, स एव निमित्तं येषां ते तथोक्ताः||२५(१)||

शारीरास्त्वन्नपानमूला वातपित्तकफशोणितसन्निपातवैषम्यनिमित्ताः |२५|

अन्नपानमूला इति सामर्थ्याद्विषमान्नहेतवः, न ह्यन्नसाम्यं व्याधिहेतुः| तच्चान्नवैषम्यं [२३] स्वस्थवृत्तवैषम्यमुपलक्षयति, तेन कालवैषम्यं कायवाङ्मनोविहारवैषम्यमिन्द्रियार्थवैषम्यं च लक्षयति| ‘शारीराणां विकाराणामेष वर्गश्चतुर्विधः| प्रकोपे प्रशमे चैव हेतुरुक्तश्चिकित्सकैः’- इत्येषां ग्रहणमकृत्वा, अन्नग्रहणेनैतानुपलक्षयन्नेतल्लक्षयति- यथाऽन्नमेवैषां सम्भवे प्रधानहेतुस्तथा नान्ये| वातपित्तकफशोणितसन्निपातवैषम्यनिमित्ता इति वातादीनां सन्निपातान्तानां वैषम्यं विषमता तदेव निमित्तं येषां ते तथोक्ताः; ते पुनर्वातादीनां सञ्चयादिज्ञापका वातपूर्णकोष्ठतादयो व्याधयः| तच्च वैषम्यं क्षयेण वृद्ध्या वा| दोषप्रस्तावे दूष्यशोणितग्रहणे हेतुर्वक्तव्यः? उच्यते- एतद्धि शल्यतन्त्रं, शल्यतन्त्रे च व्रणः प्रधानभूतः, व्रणे च दूष्येषु मध्ये रक्तस्य प्राधान्यमिति शोणितोपादानम्; अन्ये तु दोषदूषितत्वाद्रक्तमपि व्याध्युत्पत्तिनिमित्तं भवति, वक्ष्यति चैवं- “दोषदूषितेष्वत्यर्थं धातुषु सञ्ज्ञा क्रियते- रसजोऽयं, शोणितजोऽयम्” (सू. अ. २४) इत्यादि; शोणितजोऽयमित्यादिव्यपदेशो घृतादिदग्धवत्| अन्यनिबन्धकारैर्बहूक्तं, तच्च शिष्यबुद्धिव्याकुलत्वहेतुत्वादस्माभिरुपेक्षितम्||२५(२)||

मानसास्तु क्रोधशोकभयहर्षविषादेर्ष्याभ्यसूयादैन्यमात्सर्यकामलोभप्रभृतय इच्छाद्वेषभेदैर्भवन्ति |२५|

मानसान् प्रतिपादयन्नाह- मानसास्त्वित्यादि| क्रोधः पराभिद्रोहलक्षणः, शोकः पुत्रादिवियोगे चित्तोद्वेगः, भयं परस्मात्त्रासः, हर्ष उत्सेकः, निर्निमित्तमन्यस्य दोषोत्पादनेनात्मनः प्रीतिजननं वा हर्षः, असिद्धिभयाद्विविधेषु कर्मसु सादोऽप्रवृत्तिः विषादः, ईर्ष्या परसम्पत्तावसहिष्णुता, छिद्रान्वेषितया परगुणेषु दोषारोपणमसूया, दैन्यं क्लिष्टचित्तता, मात्सर्यं परगुणेष्वमाध्यस्थ्यं क्रौर्यं वा, काम इन्द्रियार्थेष्वभिकाङ्क्षा, लोभः परस्वग्रहणाभिलाषः, आदिग्रहणान्मानमददम्भादयः| इच्छाद्वेषभेदैर्भवन्तीति इच्छा सातिशयोऽर्थाभिलाषः, सा च नानावस्त्ववलम्बिनी नानाकामतश्च भिन्ना भवति; तत्र हर्षशोकदैन्यकामलोभादय इच्छाभेदेन; द्वेषः अप्रीतिः,सोऽपि नानावस्त्ववलम्बी नानारूपो भवति, क्रोधभयविषादेर्ष्यासूयामात्सर्याणि द्वेषभेदेन| अन्ये तु ‘मानसाः क्रोधशोकभयदैन्येर्ष्यासूयामात्सर्यकामादयः’ इति पठन्ति||२५(३)||

स्वाभाविकास्तु क्षुत्पिपासाजरामृत्युनिद्राप्रकृ(भृ)तयः ||२५||

स्वाभाविकान् व्याख्यातुमाह- स्वाभाविकास्त्वित्यादि| क्षुद् भोक्तुमिच्छा, पिपासा पातुमिच्छा, जरा वार्धक्यं, मृत्युः [२४] शरीरेन्द्रियात्ममनसां वियोगः, निद्रा मेध्यानाडीमनःसंयोगाद्देहेन्द्रियाणां सुखभोगः; प्रकृतिग्रहणात् प्रकृतिभवा रोगा गृह्यन्ते, ते च कदाचित् स्वाभाविकाः कदाचिद्दोषजाः| तत्र, यदा प्रवृद्धपित्तस्य क्षीणश्लेष्मणो भस्मकानलेन बुभुक्षा भवति सा प्रतीकार्या दोषजत्वात्, पिपासाऽपि यदा दोषैः क्रियते तस्या अपि दोषतः प्रसाधनं कर्तव्यं, जराऽपि यदाऽकाले भवति सा प्रतिकार्या, मृत्युरप्यकालजः प्रतिकार्यः, निद्राऽपि दोषजा प्रतीकारादुपशमं याति; तत्र यदैते सर्वे दोषेभ्यो जायन्ते तदा शारीराः प्रतीकार्याश्च; यदा तु स्वभावतस्तदा निष्प्रतीकारा रसायनतोऽपि न प्रतीकार्याः| त एते स्वभावसम्भूतत्वात् स्वाभाविकाः कथ्यन्ते| यद्यपि क्षुत्पिपासाजरासु स्वभावसम्भूतास्वपि पित्तजत्वं निद्रायां श्लेष्मतमोभवत्वमस्ति; तथाऽप्यल्पदोषारब्धत्वाददोषजत्वमुच्यते, एकतण्डुलाहारिणामनशनव्यपदेशवत्| मृत्युस्तु महद्भिरपि स्वभावानुवर्तिभिर्दोषैरारब्धोऽपि न दोषजव्यपदेशं लभते; यथा राजानुवर्तिभिर्महद्भिरपि पुरुषैः सम्पादितं जयादिकं राजव्यपदेशं लभते- राज्ञा जितमिति, तद्वदत्रापि; आगन्तुमृत्योः सम्भवत्वाच्च नावश्यं दोषजव्यपदेशं लभते| अन्ये ‘निद्राप्रकृतय’ इत्यत्र ‘निद्राप्रभृतय’ इति पठन्ति; प्रभृतिग्रहणाद्रात्रिजागरणादय इति व्याख्यानयन्ति||२५(४)||

त एते मनःशरीराधिष्ठानाः ||२६||

व्याधीनामाश्रयमाह- त एते इत्यादि| त एते अनन्तरोक्ता व्याधयः| तत्र मनोऽधिष्ठानाः क्रोधादयः, शरीराधिष्ठाना ज्वरादयः, उभयाधिष्ठाना अपस्मारादयः| यद्यपि मानसा अपि शरीरं पीडयन्ति, शारीरा अपि मनः पीडयन्ति; तथाऽपि प्राङ्मानसा एव मनः पीडयन्ति पश्चाच्छरीरम्, एवं शारीरा अपि, इति न दोषः| आत्मनि तु व्याध्यधिष्ठानत्वं नास्ति, निर्विकारत्वात्||२६||

तेषां संशोधनसंशमनाहाराचाराः सम्यक्प्रयुक्ता निग्रहहेतवः ||२७||

व्याधीन् निर्दिश्य चिकित्सां निर्देष्टुमाह- तेषामित्यादि| तेषां व्याधीनाम्| सम्यक् शोधयतीति संशोधनं; तद्द्विविधं बहिराश्रयमभ्यन्तराश्रयं च| तत्र बहिराश्रयं शस्त्रक्षाराग्निप्रलेपादयः; अभ्यन्तराश्रयं चतुष्प्रकारं- वमनं, विरेचनम्, आस्थापनं, शोणितमोक्षणं च; अन्ये तु शोणितमोक्षणमित्यत्र शिरोविरेचनं मन्यन्ते| यत् किञ्चित् पीतलीढादिकमनिर्हृत्य दोषं शमयति तत् संशमनं; यदुक्तं- “न शोधयति यद्दोषान् समान्नोदीरयत्यपि| समीकरोति क्रुद्धांश्च तत् संशमनमुच्यते”- इति| तदपि द्विविधं बाह्यमाभ्यन्तरं च| तत्र बाह्यमालेपपरिषेकावगाहाभ्यङ्गशिरोबस्तिकवलग्रहगण्डूषादिकम्, आभ्यन्तरं तु पाचनलेखनबृंहणरसायनवाजीकरणविषप्रशमनादिकम्| आहारश्चतुर्विधः, पेयलेह्याद्यभक्ष्यभेदात्; स पुनस्त्रिविधः- दोषप्रशमनो, व्याधिप्रशमनः, स्वस्थवृत्तिकरश्चेति| दोषसंशमनत्वात् संशमनग्रहणेनैवाहारे लब्धे पृथक्करणं संशोधनादिष्वाहारस्य प्राधान्यसूचनार्थम्; अथवा स्वस्थे पुरुषे दोषव्याधिप्रशमाभावादाहारस्य पृथग्ग्रहणम्| आचारः कायवाङ्मानसं कर्म; तत्रोत्क्षेपणावक्षेपणादिकं कायिकं कर्म, पाठस्वाध्यायादि वाचिकं, ध्येयचिन्त्यसङ्कल्पादि मानसम्| सम्यक्प्रयुक्ता इति आयुरादीन् वीक्ष्य प्रयुक्ताः||२७||

प्राणिनां पुनर्मूलमाहारो बलवर्णौजसां च |
स षट्सु रसेष्वायत्तः; रसाः पुनर्द्रव्याश्रयाः; द्रव्याणि पुनरोषधयः |
तास्तु द्विविधाः- स्थावरा जङ्गमाश्च ||२८||

संशोधनादिष्वाहारस्य प्राधान्यं दर्शयितुमाह- प्राणिनामित्यादि| मूलमिति मूलमिव मूलं, सम्भवहेतुत्वात्; शुक्रशोणितं तावदाहारादेव जायते यद्गर्भजननसमर्थम्| न केवलं प्राणिनां मूलं बलवर्णोजसां च| एतेन प्राणिनामाहारादेवोत्पत्तिस्थिती निदर्शिते| बलं कर्मसाधनशक्तिर्व्यायामानुमेया, वर्णो गौरादिः, ओजः सोमात्मकं रसादिशुक्रान्तसर्वधातुधामभूतं हृदिस्थम्| अन्ये तु बलं शरीरोपचयोऽत्राभिप्रेत इति वदन्ति| एवं परमार्थतो बलौजसोर्भेदेऽपि दोषधातुमलक्षयवृद्धिविज्ञानीये चिकित्सैक्यार्थमभेद उक्तः| स षट्सु रसेष्वायत्त इति स आहारः, रसेषु मधुरादिषु, आयत्तः अधीनः| द्रव्याणि पुनरोषधय इति ओषधिशब्दोऽत्र सान्निध्याद् वक्ष्यमाणस्थावरजङ्गमराशिद्वय एव वर्तते, न पुनर्यावदोषधिमात्रे; अन्यथा हि पार्थिवेष्वप्योषधिशब्दो वर्तत इति पार्थिवानामुपादानं पृथङ्ग स्यात्| अन्ये तु पार्थिवेष्वपि ओषधिशब्दो वर्तत इत्याहुः| तास्त्वित्यादि ता इति ओषधयः| स्थावराणां बहुतरोपयोगात् प्रागुपादानम्||२८||

तासां स्थावराश्चतुर्विधाः- वनस्पतयो, वृक्षा, वीरुध, ओषधय इति |
तासु, अपुष्पाः [२५] फलवन्तो वनस्पतयः, पुष्पफलवन्तो वृक्षाः, प्रतानवत्यः स्तम्बिन्यश्च वीरुधः, फलपाकनिष्ठा ओषधय इति ||२९||

तासामिति द्विविधानामोषधीनां मध्ये| के ते चत्वारः प्रकारा इत्याह- वनस्पतय इत्यादि| तानेव विवरितुमाह- तास्विति; तासु मध्ये| अपुष्पा इति अविद्यमानपुष्पाः, फलवन्त इति फलं येषामस्ति ते वनस्पतय इति; के पुनरीदृशाः? प्लक्षोदुम्बरादयः| पुष्पफलवन्तो वृक्षा इति उभययुक्ता वृक्षाः; के ते? आम्रजम्बूप्रभृतयः| प्रतानवत्य इत्यादि प्रतानवत्यो विस्तारवत्यः वीरुधः, न केवलं प्रतानवत्यो वीरुधःस्तम्बिन्यश्च गुल्मिन्यश्च, गुल्मः पुनः वर्तुललतासन्ततिविटपः [२६] , ताश्च विदारीकोलवल्लीशालपर्णीपृश्निपर्णीप्रभृतयः| केचित् ‘स्तम्बिन्यश्च’ इत्यत्र ‘गुल्मिन्यश्च’ इति पठन्ति, तत्रापि स एवार्थः| फलपाकनिष्टा इति निष्ठा नाशः, फलपाकेन परिणत्या नाशो यासां तास्तथोक्ताः; ते पुनर्गोधूमादयः| अन्ये तु निष्ठाशब्दं प्रत्येकं सम्बध्नन्ति, फलनिष्ठाः पाकनिष्ठा इति; तत्र फलनिष्ठाः शालितिलकुलत्थादयः, पाकनिष्ठाः कवकादयः; कवकश्छत्रक उच्यते||२९||

जङ्गमा खल्वपि चतुर्विधाः- जरायुजाण्डजस्वेदजोद्भिज्जाः |
तत्र पशुमनुष्यव्यालादयो जरायुजाः, खगसर्पसरीसृपप्रभृतयोऽण्डजाः, कृमिकीटपिपीलिकाप्रभृतयः स्वेदजाः, इन्द्रगोपमण्डूकप्रभृतय उद्भिज्जाः ||३०||

जङ्गमाः खल्वपीत्यादि|- खलुशब्दः शिष्यसम्बोधने, हे सुश्रुत, जङ्गमा अपि चतुर्विधाः चतुष्प्रकाराः| तानाह- जरायुजेत्यादि| एतच्च पूर्वं व्याख्यातम्| जरायुजादिषु पूर्वोक्तसंस्वेदजादिक्रमत्यागो योनिसङ्करं बोधयति; तेन पक्षिषु बलाका जरायुजा अण्डजा चेति, सर्पजातिषु अहिपताका जरायुजा, संस्वेदजेष्वपि काश्चित् पिपीलिका अण्डजा उद्भिज्जाश्च| व्यालादय इति व्याला हिंस्रपशुव्याघ्रादयः, अन्ये तु पशुग्रहणादेव हिंस्रपशूनामपि ग्रहणमिति व्यालशब्देन सर्पविशेषमाहुः| तदुक्तं- ‘‘सर्पजातिषु अहिपताका जरायुजा”- इति| आदिग्रहणाद् बलाकाजतुकादयः| इहोपकरणप्रस्तावे पशूनां प्राधान्यमिति प्राङ्निर्देशः, प्राग्भूतग्रामप्रसङ्गेन पुरुषप्राधान्यख्यापनार्थम्, अत्र पुनर्जरायुजाण्डजेत्यादिपाठ ओषधित्वख्यापनायेति न पौनरुक्त्यम्| खगसर्पेत्यादि खगाः पक्षिणः, सर्पा मन्दगामिनोऽजगरप्रभृतयः, सरीसृपाः शीघ्रगामिनः कृष्णसर्पादयः, मीनमकरादयो वा; प्रभृतिग्रहणात् कूर्मनक्रादीनां ग्रहणं; केचित् प्रभृतिशब्दमपठित्वा लुप्तनिर्दिष्टेनादिशब्देन कूर्मादीन् गृह्णन्ति| कृमिकीटेत्यादि कृमयः कोष्ठपुरीषादिबाष्पसम्भवाः, कीटा वृश्चिकषङ्बिन्दुप्रभृतयः, पिपीलिकाश्चिटिकाः, प्रभृतिग्रहणादेवंविधा अन्येऽपि दृश्यन्ते| इन्द्रगोप इत्यादि इन्द्रगोपाः प्रावृट्कालजा अतिरक्तकृमयः ‘इन्द्रवधू’ इति लोके, प्रभृतिग्रहणादीदृशा अन्येऽपि||३०||

तत्र स्थावरेभ्यस्त्वक्पत्रपुष्पफलमूलकन्दनिर्यासस्वरसादयः प्रयोजनवन्तः; जङ्गमेभ्यश्चर्मनखरोमरुधिरादयः ||३१||

स्थावरजङ्गमयोर्निर्दिष्टयोश्चिकित्सोपयोगिनोऽवयवविशेषान् दर्शयितुमाह- तत्र स्थावरेभ्य इत्यादि| स्वरसादय इत्यादिग्रहणात्तैलक्षारभस्मकण्टकप्रभृतीनां ग्रहणम्| केचित् कन्दं सूत्रे न पठन्ति, आदिशब्दाच्च गृह्णन्ति| रोमरुधिरादय इत्यादिशब्दान्मांसवसाघृतास्थिखुरादयः||३१||

पार्थिवाः सुवर्णरजतमणिमुक्तामनःशिलामृत्कपालादयः [२७] ||३२||

रसाधिकारिकमौषधिवर्गं स्थावरजङ्गमं प्रतिपाद्य, परिशिष्टं प्रतिपादयितुमाह- पार्थिवा इत्यादि| पृथिव्या विकाराः पार्थिवाः, रजतं रौप्यं, मणिः स्फटिकादिः, मुक्ता मौक्तिकं, मृत् मृत्तिका, कपालं कर्परम्| सुवर्णस्येह पार्थिवत्वमेवाङ्गीक्रियते गुरुत्वकाठिन्यस्थैर्यादिहेतुभिः| सूत्रे आदिग्रहणाल्लोहमलसिकतासुधाहरिताललवणगैरिकरसाञ्जनप्रभृतीनां [२८] ग्रहणम्| यद्यपि स्थितिशीलत्वात्तथा लोकद्वित्वसमाख्यानेऽपृथगुक्तत्वाच्च स्थावरशब्देनैव पार्थिवा उच्यन्ते, तथाऽप्यत्र प्रकरणाद्येष्वाहारोपयोगित्वं फलमूलाद्यवयवेषु रसप्रधानतया तत्रैव चतुर्विधे वनस्पत्यादिगणे स्थावरशब्दो वर्तते न तु पार्थिवेष्वपि, तेषामाहारेषु प्रायेणानुपयोगात्; अन्यदपि समाधानान्तरमस्ति, तच्च विस्तरभयान्न लिखितम्||३२||

कालकृताःप्रवातनिवातातपच्छायाज्योत्स्नातमःशीतोष्णवर्षाहोरात्रपक्षमासर्त्वयनादयः संवत्सरविशेषाः [२९] ||३३||

कालकृता इत्यादि| आदिग्रहणान्निमेषकाष्ठाकलामुहूर्तादयः| अन्ये त्वेतद्गद्यमन्यथा पठन्ति व्याख्यानयन्ति च; तच्च वर्तमानप्रतिष्वप्रसिद्धमित्यस्माभिरुपेक्षितम्||३३||

त एते स्वभावत एव दोषाणां सञ्चयप्रकोपप्रशमप्रतीकारहेतवः प्रयोजनवन्तश्च ||३४||

एषां प्रयोजनं दर्शयितुमाह- त एत इत्यादि| स्वभावत एवेति स्वलक्षणत एव| दूषयन्ति कायवाक्चित्तानीति दोषा वातादयः; तदारब्धाश्च ज्वरादयः| सञ्चयः स्थानवृद्धिः; प्रकोपणं प्रकोपः, प्रकोपशब्देन प्रकोपप्रसरस्थानसंश्रयव्यक्तिभेदाः पञ्चोच्यन्ते; प्रकोपः स्थानादुन्मार्गगमनं; प्रसरः पञ्चदशप्रकारो व्रणप्रश्ने वक्ष्यते; ज्वरातीसारादीनां सामान्यलक्षणं व्यक्तिः, यथा- सन्तापलक्षणो ज्वरः, सरणलक्षणोऽतिसार इत्यादि; विशेषणं भेदः, यथा- अष्टौ ज्वरा इत्यादि; प्रशमनं प्रशमः स्वयमुपशमः; हेतुव्याधिविपरीतं कर्म प्रतीकारः; अन्ये तु प्रशमप्रतीकारयोरेकार्थतां मन्यमानाः प्रतीकारं न पठन्ति; तन्न, यस्माज्ज्वरादीनामप्यस्ति स्वभावोपशमः; तद्यथा- कफज्वरप्रतीकारो वसन्ते पूर्वाह्णे च, स्वभावेन प्रशमस्तु ग्रीष्मे मध्याह्ने चेत्यादि; तस्मात् प्रशमनप्रतीकारयोरर्थभेदोऽस्त्येव| प्रयोजनवन्तश्चेति चिकित्सोपकारिण इत्यर्थः| तद्यथा ‘लाजोत्पलोशीरकुचन्दनानि दत्त्वा प्रवाते निशि वासयेच्च’ (उ. त. अ. ४८); तथा ‘निवाते देशे निचितं कृत्वा’ (सू. अ. ११), तथा ‘मदनफलानामातपपरिशुष्काणां’- (सू. अ. ४३) इत्यादि प्रयोजनं ज्ञातव्यम्||३४||

भवन्ति चात्र श्लोकाः-
शारीराणां विकाराणामेष वर्गश्चतुर्विधः |
प्रकोपे [३०] प्रशमे चैव हेतुरुक्तश्चिकित्सकैः ||३५||

इदानीं गद्ये विस्तरेण प्रतिपादितमर्थं श्लोकैः प्रकटीकुर्वन्नाह- भवन्ति चात्र श्लोका इत्यादि| यद्यपि सुश्रुते भवन्ति चात्रेति विनाऽपि श्लोका भवन्ति, तथाऽप्यत्र मन्दमतीनां गद्यपद्यभेदकथनाय भवन्ति चात्र श्लोका इति कृतम्; अन्ये तु वेदादिधर्मसंवादार्थमिति वदन्ति| अथ के ते श्लोका इत्याह- शारीराणामित्यादि| न चात्र द्विरुक्तिः, पूर्वोक्तस्य गूढार्थस्याभिव्यक्तिकरत्वात् [३१] | शारीराणामिति शरीरसम्भवानाम्| विकाराणामिति विकृतयो विकाराः, तेन विकारा अत्र कुपिता दोषा व्याधयोऽपि गृह्यन्ते| एषः पूर्वोक्तः| वर्गश्चतुर्विधः चतुष्प्रकारः, आहाराचारपार्थिवकालकृतभेदात्; ‘स्थावरजङ्गमपार्थिवकालकृतभेदाच्चतुर्विधः’ इति जेज्जटः; पञ्जिकाकारस्त्विदं न मन्यते| अत्रापि प्रकोपशब्दः प्रकोपप्रसरस्थानसंश्रयव्यक्तिभेदेषु वर्तते| प्रशमशब्दोऽत्र रोगोपघातमात्रस्योपलक्षणं; तेन साध्यानां सिद्धः, याप्यानां यापनं, स्वस्थवृत्तं च गृह्यते||३५||

आगन्तवस्तु ये रोगास्ते द्विधा निपतन्ति हि |
मनस्यन्ये शरीरेऽन्ये तेषां तु द्विविधा क्रिया ||३६||
शरीरपतितानां तु शारीरवदुपक्रमः |
मानसानां तु शब्दादिरिष्टो वर्गः सुखावहः ||३७||

इदानीमागन्तूनामाश्रयभेदेन चिकित्सां वक्तुमाह- आगन्तवस्त्वित्यादि| मनस्यन्ये इति एके, शरीरेऽन्ये इत्यपरे| शरीरपतितानामागन्तूनां खड्गाद्यभिघातजानां शारीराणामिव, मानसानां मनःसम्भूतानां शब्दादिवर्गः शब्दस्पर्शरूपरसगन्धाः; इष्ट इत्यभिप्रेतश्चिकित्सात्वेन| सुखावह इति सुखकारी| अन्ये तु चशब्दमनुक्तसमुच्चयार्थमाचक्षते, तेन धैर्यस्मृतिप्रभृतयोऽपि मानसान् [३२] चिकित्सितुं निर्दिष्टाः||३६-३७||

एवमेतत् पुरुषो व्याधिरौषधं क्रियाकाल इति चतुष्टयं समासेन व्याख्यातम् |
तत्र पुरुषग्रहणात् तत्सम्भवद्रव्यसमूहो भूतादिरुक्तस्तदङ्गप्रत्यङ्गविकल्पाश्च त्वङ्मांसास्थिसिरास्नायुप्रभृतयः, व्याधिग्रहणाद्वातपित्तकफशोणितसन्निपातवैषम्यनिमित्ताः सर्व एव व्याधयो व्याख्याताः, औषधग्रहणाद्द्रव्यरसगुणवीर्यविपाकानामादेशः, क्रियाग्रहणात् स्नेहादीनि च्छेद्यादीनि च कर्माणि व्याख्यातानि, कालग्रहणात् सर्वक्रियाकालानामादेशः ||३८||

इदानीं व्याख्यातमर्थमुपसंहरन्नाह- एवमित्यादि| एवमिति अनेन प्रकारेण| एतदिति पूर्वनिर्दिष्टं, चतुष्टयमिति चतुरवयवं; यद्यप्यत्र पुरुषादयः पञ्च, तथाऽपि चतुष्टयं ज्ञेयं; तथाहि- ‘‘नान्यः कालः क्रियातोऽस्ति क्रिया नान्याऽथवौषधात्| प्राधान्यात् पुरुषस्यात्र(थ) ततो व्याधिचतुष्टयम्|| क्रियाविशिष्टः कालो वा कालो वा तच्चतुष्टयम्’’- इति; अतो न सङ्ख्यातिरेकः| तत्र येन यदुपगृहीतं तत्र तदुपदर्शयितुमाह- तत्रेत्यादि| तत्रेति तस्मिन् चतुष्टयमध्ये| तत्सम्भवद्रव्यसमूह इति तस्य पुरुषस्य सम्भव उत्पत्तिस्तदर्थो द्रव्यसमूहः स तथा| कः पुनरसावित्याह- भूतादिरिति|- भूतानि आदीनि प्रथमानि प्रधानानि वा यस्य स भूतादिरिति वाक्यार्थः; तेन शुक्रार्तवपञ्चमहाभूतानीह गृह्यन्ते| अन्ये त्वन्यथा व्याख्यानयन्ति- तस्य पुरुषस्य सम्भवद्रव्याणि शुक्रशोणितादीनि, तेषां समूहः संयोगविशेषः, कथम्भूतः सः? भूतादिः; भूतं महाभूतं पृथिव्यादिकम्, आदिर्मूलकारणं यस्य स तथा; अथवा तत्सम्भवद्रव्यसमूहः शुक्रशोणितादिसंयोगः स भूतानां प्राणिनामादिः मूलकारणं, तत्र व्यक्तीभावात्| भूतादिरित्यत्रैके भूतानामादिर्भूतादिः, अव्यक्तादारभ्य यावत् ‘स एष कर्मपुरुषश्चिकित्साधिकृतः’ (शा १) इति वदन्ति; तन्न, पञ्जिकया निरस्तत्वात्| तदङ्गप्रत्यङ्गविकल्पाश्चेति अङ्गानि मस्तकादीनि, प्रत्यङ्गानि चिबुकादीनि| त्वङ्मांससिरास्नायुप्रभृतय इति त्वचः सप्त, मांसं पेशीशतानि पञ्च, सिराशतानि सप्त, स्नायुशतानि नव; प्रभृतिग्रहणात् स्रोतोधमन्यादयः| सर्व एवेति सर्वग्रहणादागन्तुमानसस्वाभाविकानां ग्रहणम्| द्रव्यं स्थावरादि, रसा मधुरादयः, गुणा गुर्वादयः, वीर्याणि शीतोष्णादीनि, द्वौ विपाकौ गुरुलघू; औषधग्रहणं क्रियाविशेषणम्, अतो न सङ्ख्यातिरेकः| अयमर्थः पुरुषादिचतुष्टयप्रस्तावे व्याख्यातः| क्रियाग्रहणादिति क्रियाकालशब्दोपात्तादित्यर्थः [३३] | स्नेहादीनीत्यादिशब्दात् स्वेदनवमनविरेचनास्थापनानुवासनधूमनस्यकवलग्रहगण्डूषपाचनसंशमनादीनां ग्रहणं; छेद्यादीनीत्यादिशब्दाद्भेद्यलेख्यैष्याहार्यविस्राव्यसीव्यादीनां ग्रहणम्| कालग्रहणादिति स्नेहनस्वेदनवमनविरेचनादीनां कर्मणां तथा शस्त्रादिकर्मणां च वक्ष्यमाणसमयनिर्देशः| तत्र स्नेहस्य ‘प्रतप्तचामीकरपीतलोहिते सवितरि’ (चि. अ. ३१) इति वचनात् कालनिर्देशः, सर्वस्वेदानां जीर्णान्नकालः, वमनस्य पूर्वाह्णकालः, विरेचनस्य प्रातः, प्रातरिति दिनस्यादित्रयो मुहूर्ताः, आस्थापनं तु मध्याह्ने तृतीये प्रहरे, अनुवासनं सायाह्ने क्वचित्प्रदोषेऽपि, तथा भुक्तवन्तमातुरमुपवेश्येत्याद्यनुसर्तव्यम्||३८||

भवति चात्र-
बीजं चिकित्सितस्यैतत्समासेन प्रकीर्तितम् |
सविंशमध्यायशतमस्य व्याख्या भविष्यति ||३९||

अनेन चतुष्टयेन सकलमेव शास्त्रं व्याप्तमिति निदर्शयितुमाह- भवति चात्रेत्यादि| बीजमिव बीजं, यथैकं बीजं भूमौ निक्षिप्तं मूलकाण्डशाखापत्रैर्दूरतरविसारितमुपजायते, तथेदमपि चिकित्सितबीजं सूत्रनिदानशारीरचिकित्साकल्पस्थानाद्यैर्विस्तृतमारोग्यफलं भवतीति| समासेन सङ्क्षेपेण| सविंशमध्यायशतमिति विंशत्यधिकमध्यायशतमित्यर्थः| सविंशमिति सहशब्देन किं प्रयोजनम्? उच्यते, सहशब्देनात्रोत्तरतन्त्रेण [३४] सह विंशत्यधिकमिति उत्तरतन्त्रसहितत्वं प्रकाश्यते| ननु, अत्र पक्षे बीजकथनेनैवाद्याध्यायस्य गतत्वात् कथं विंशत्यधिकमध्यायशतं पूर्यते? नैवं, सर्वतन्त्रोपलक्षणत्वात्तस्येति नात्रोनत्वम्| अन्ये तु सशब्दमूनार्थमाचक्षते, यथा- सलवणं सतिक्तं सक्षारमिति| कथमत्रोनता? उच्यते, वेदोत्पत्तिमध्यायं विहाय विंशत्यधिकमध्यायशतं न पूर्यते, एकेनोनत्वात्; तस्मादूनविंशत्यधिकमध्यायशतमस्य व्याख्या भविष्यतीति| यद्येवं तर्हि उत्तरतन्त्रस्य कथं प्राप्तिः? उच्यते, अर्थवशात्| ननु, कः पुनरर्थो यद्वशात् प्राप्तिः? उच्यते [३५] – शेषा अर्था उत्तरे तन्त्रे प्रतिपादनीया इति| उत्तरतन्त्रप्राप्तावन्यो योऽर्थोऽस्ति स च न लिखितो ग्रन्थगौरवभयात्||३९||

तच्च सविंशमध्यायशतं पञ्चसु स्थानेषु |
तत्र सूत्रनिदानशारीरचिकित्सितकल्पेष्वर्थवशात् संविभज्योत्तरे तन्त्रे शेषानर्थान् वक्ष्यामः ||४०||

तच्च सविंशमित्यादि| तच्च सोत्तरतन्त्रं [३६] विंशत्यधिकमध्यायशतं पञ्चसु स्थानेषु| ननु कथमेतत्? उत्तरतन्त्रस्य पञ्चभ्यः स्थानेभ्यः पृथगुक्तत्वात्; नैवं, कुतः? पञ्चस्वेवेति नियमाभावात्| अत एवाग्रे वक्ष्यति- उत्तरे तन्त्रे शेषानर्थान् वक्ष्याम इति| शेषानर्थानिति शेषशब्देन रसभेदादयः स्वस्थवृत्तादयश्च ज्ञेयाः||४०||

भवति चात्र-
स्वयम्भुवा प्रोक्तमिदं सनातनं पठेद्धि यः काशिपतिप्रकाशितम् |
स पुण्यकर्मा भुवि पूजितो नृपैरसुक्षये शक्रसलोकतां व्रजेत् ||४१||

इदानीं वेदोत्पत्त्यध्याये निदर्शितस्य चिकित्साबीजोपदेशन्यायेन शास्त्रस्य पाठानुशंसामाह- स्वयम्भुवेत्यादि| स्वयम्भुवा ब्रह्मणा, प्रोक्तम् उपदिष्टम्, इदमिति शास्त्रं, सनातनं नित्यं, यः पठेत् अधीयीत; अन्ये तु पठधातुरत्र चतुर्ष्वर्थेषु, तथाहि- पाठे, अर्थज्ञाने, कर्मदर्शने, अभ्यासे च| हि स्फुटम्| काशिपतिप्रकाशितम् आदिदेवेन धन्वन्तरिणा प्रकाशितम्| भुवि पृथिव्याम्| पूजितो नृपैरिति नृपैः नरेन्द्रैः, एतेन ऐहिकं फलं दर्शयति| असुक्षये प्राणक्षये| शक्रसलोकताम् इन्द्रसमानलोकतां व्रजति, एतेन पारलौकिकं श्रेयो दर्शयति| अन्ये तु ‘शक्रसुलोकतां व्रजेत्’ इति पठन्ति; सुशब्दः पूजावचनः, तेन शक्रलोकपूज्यतां व्रजेत् प्राप्नुयादित्यर्थः| एतेन भुवि नरेन्द्रैः स्वर्गे च देवैः पूजितो भवेदित्यर्थः||४१||

इति सुश्रुतसंहितायां सूत्रस्थाने वेदोत्पत्तिर्नाम प्रथमोऽध्यायः ||१||

इति श्रीडल्ह(ह्ण)णविरचितायान्निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां सूत्रस्थाने वेदोत्पत्तिर्नाम प्रथमोऽध्यायः||१||

१. ‘सहस्रांशुं’ इति पा.|
२. ‘…चन्द्रविवेकबृहस्पतिश्रीसहपालदेवनृपतिवल्लभः’ इति पा.|
३. ‘वेदोत्पत्तिनामाध्यायं’ इति, ‘वेदोत्पत्तिं नामाध्यायं’ इति च पा.|
४. ‘…नन्तरार्धः’ इति पा.|
५. ‘दिवशब्देनात्र तत्स्थदेवाः’ इति|
६. ‘धनुः शस्त्रं तात्पर्याच्छल्यशास्त्रं वा, तस्यान्तमियर्तीति पृषोदरादित्वात् साधु’ इति हाराणचन्द्रः|
७. हाराणचन्द्रस्तु ‘शारीरमानसागन्तुस्वाभाविकैः’ इति पठति|
८. ‘नाम यदुपाङ्गं’ इति, ‘आयुर्वेदमष्टाङ्गमुपाङ्गमथर्ववेदस्य’ इति च पा.|
९. ‘प्रस्तावात्’ इति पा०|
१०. ‘अथास्य प्रत्यङ्गलक्षणं समासेनोपदेक्ष्यामः’ इति, ‘प्रेत्येकाङ्गलक्षणसमासः’ इति, ‘प्रत्येकमङ्गलक्षणसमासः’ इति च पा०|
११. ‘पूयास्रावगर्भशल्योद्धरणार्थ’ इति, ‘पूयास्रावान्तर्गर्भशल्योद्धरणार्थ’ इति च पा.|
१२. ‘… लूतावृश्चिक…’ इति पा०
१३. ‘विशुष्कं ग्रन्थीभूततया विशेषेण शुष्कमिव, क्षीणं व्याध्यादिभिः स्वमानाद्धीनं’ इति हाराणचन्द्रः|
१४. ‘स्वास्थ्यरक्षणं च’ इति पा. |
१५. ‘आगमप्रत्यक्षानुमानोपमानैः’ इति पा.|
१६. ‘… पुरुषशब्देन चेह सामान्येन प्राणिवाचिनाऽपि प्रकरणान्मनुष्यरूप एव पुरुष उच्यते| यतो ‘मानवानभिसमीक्ष्य’ इत्यादिना तथा ‘तस्योपकरणमन्यत्’ इत्यादिना नरजातिरेवात्र पुरुषोऽधिकृतः| सामान्यशब्दोऽपि प्रकरणाद्विशेषे वर्तत एव| … तस्मादेवम्भूत एवात्र पुरुष उच्यते, न पुनश्चेतनाधातुमात्ररूपः प्राणिमात्ररूपो वेत्याह- तस्मिन् क्रियते| … कुतः पुनस्तस्मिन्नेव क्रिया न पुनर्हस्त्यश्वादावपि प्राणिमात्रे इत्याशङ्कायां हेतुगर्भं विशेषणमाह- सोऽधिष्ठानमिति| स एव नरजातिः पुरुषो यस्मादिहायुर्वेदविधेयचिकित्सारूपायाः क्रियायास्तथा क्रियाफलस्यास्यारोग्यादेरधिष्ठानमाश्रयो न तु गजादिः, तस्मात्तस्मिन्नेव क्रिया| अथ कथं गजादयो वृक्षादयश्च नास्याधिष्ठानमित्याशङ्का, ततः प्रश्नः- कस्मादिति| तदत्र प्रधानत्वेन नर एवाधिकारीति दर्शयन्नाह- लोकस्य द्वैविध्यादित्यादि| लोकद्वैविध्येन नरव्यतिरिक्तस्य स्थावरजङ्गमस्य यस्मान्नरोपकरणत्वं, नरस्तूपकार्यः, तस्मान्नर एव प्रधानत्वादधिष्ठानमिति प्रकरणार्थः| प्रधाननरविवेचनार्थमुक्तद्वैविध्यं विभजते- स्थावरो जङ्गमश्चेति| … द्विविधताविवरणप्रस्तावाच्चिकित्सोपयुक्तं प्रकारान्तरेण द्वैविध्यमाह- द्विविधात्मक एवाग्नेयः सौम्यश्च| द्विविध आत्मा अग्नीषोमरूपः स्वभावो यस्य स तथा| पृथिव्यादिगुणोत्कर्षतया पञ्चात्मकत्वमपि भवतीत्याह- पञ्चात्मको वेति| … जङ्गमप्रभेदं वर्णयितुं जङ्गमप्रकारानाह- तत्रेत्यादि| एवं प्रपञ्चिते लोके तस्य प्रधानत्वमाह- तत्र पुरुषः प्रधानं तस्योपकरणमन्यदिति| अन्यत् पश्वादि वृक्षादि चेह शास्त्रे नरोपकरणतया प्रतिपादनीयं, … अपि च नर एव धर्मार्थकाममोक्षसाधकतया उपदेशानुष्ठानक्षमतया च विशेषेणोपकारविषयमधिकरोति| … सोऽधिष्ठानमिति प्रतिज्ञातमर्धमितरलोकोपकरणीयतया व्यवस्थापितं निगमनेन पुनर्दर्शयति- “तस्मात् पुरुषोऽधिष्ठानमिति” इति भानुमत्यां चक्रः| “अत्रायमाशयः- मनुष्याधिकारकमिदं शास्त्रं, मनुष्यलोके च चतुर्विध एव भूतग्रामः, तत्र च मनुष्यसञ्ज्ञकः पुरुषः प्रधानं, तदुपपन्नं तस्याधिष्ठानत्वं, द्विविधे तु लोके ‘बुद्धिमत्सु नराः श्रेष्ठाः’ (म. १/१६) इति मनूक्तेः मनुष्याणामेव प्राधान्यमिति तस्याधिष्ठानत्वेनोक्तिर्नासङ्गता” इति हाराणचन्द्रः|
१७. ‘तद्विधेयत्वात्’ इति गणनाथसेनसम्मतः पाठः|
१८. ‘स्वेदजाण्डजोद्भिज्जजरायुजसञ्ज्ञः’ इति पा.|
१९. ‘भूयांसौ अमुना विशेषेण|’ इति पा.|
२०. ‘चतुर्योनिनिपतितानां’ इति पा.|
२१. ‘अत्र प्रागागन्तुकरणं, प्रागेवाभिघातव्याधेरुत्पन्नत्वात्’ इति पा.
२२. ‘पूर्वैः’ इति पा.|
२३. ‘अन्नपानवैषम्यं तु’ इति पा.|
२४. ‘मृत्युशब्देन चेह मृत्युप्रत्यासन्ना मर्मभेदादयो गृह्यन्ते’ इति चक्रः|
२५. अपुष्पा इति पुष्पाणामतिसूक्ष्मतया पुष्पाधारकर्णिकया आच्छादितत्वाच्च अदृश्यपुष्पा इत्यर्थः|
२६. ‘वर्तुललतासन्ततिविशिष्टः’ इति पा.|
२७. अत्र पार्थिवेषु मुक्तायाः पाठोऽनार्षः प्रतिभाति, मुक्तायाः शुक्त्याख्यजलचरप्राणिजन्यत्वात्|
२८. रसाञ्जनशब्देनेह तदाख्यं धातुद्रव्यमभिप्रेतं, न तु दार्वीक्वाथोद्भवम्|
२९. ‘कालविशेषाः’ इति पा.|
३०. ‘चये कोपे शमे चैव’ इति पा.|
३१. ‘गद्योक्तो यः पुनः श्लोकैरर्थः समनुगीयते| तद्व्यक्तिव्यवसायार्थं द्विरुक्तं तन्न गर्ह्यते||’ च. नि. १|
३२. ‘मानसानां चिकित्सितत्वेन’ इति पा. |
३३. ‘औषधविशेषादित्यर्थः’ इति पा.|
३४. ‘सहशब्देनात्रोत्तरतन्त्रसहितत्वं प्रकाश्यते’ इति पा.|
३५. ‘प्राप्तिरित्याह’ इति पा.|
३६. ‘सोत्तरतन्त्रं’ इति केषुचित्पुस्तकेषु न पठ्यते|

Moolashloka with Dalhana & Gayadas Commentary​

Pathantara/Pathabheda

Diacritic Version

kāśirājadhanvantariṇōpadiṣṭā tacchiṣyasuśrutēna viracitā

Suśrutasaṁhitā

śrīḍalhaṇācāryaviracitayā nibandhasaṅgrahākhyavyākhyayā nidānasthānasya śrīgayadāsācāryaviracitayā nyāyacandrikākhyapañjikāvyākhyayā ca samullasitā

sūtrasthānam - 1. vēdōtpattyadhyāyaḥ

sahasrākṣaṁ [1] gaṇādhīśaṁ svaguruṁ ca sarasvatīm|
janakaṁ janayitrīṁ ca śāstrādau praṇamāmyaham||

samastajanapadatilakakalpē śrībhādānakadēśē nagarīvaramathurāsamīpē aṅkōlānāmakaṁ vaidyasthānamasti| yatra sauravaṁśajā brāhmaṇāḥ samastabhūmipatimānyā aśvinīkumārasamānāḥ pārvaṇacandraruciyaśaḥprasādhitadiṅmaṇḍalā vaidyā abhūvan| tadanvayē gōvindanāmā cikitsakaśirōmaṇirabhūt, tatastatputrō bhiṣakśirōmukuṭamaṇirjayapālaḥ samajani, tattanayaśca samastaśāstrārthatattvajñō bharatapālaḥ sañjātaḥ, tatputraḥ svakulanabhastalacandramā [2] vivēkabr̥haspatiḥ śrīsahapāladēvanr̥pativallabhaḥ śrīḍalhaṇaḥ samabhūt| tēna śrījējjaṭaṁ ṭīkākāraṁ śrīgayadāsabhāskarau ca pañjikākārau śrīmādhavabrahmadēvādīn ṭīppanakārāṁścōpajīvya, āyurvēdaśāstrasuśrutavyākhyānāya nibandhasaṅgrahaḥ kriyatē| yadyapi suśrutōpari jējjaṭādibhiṣṭīkā racitāḥ, tathā’pi tāsāṁ kuśāgrīyadhiyāmabhigamyatvādalpamēdhasāmanugrahāya suśrutaṁ vyākhyātukāmasya mama prayāsaḥ saphalaḥ|

athātō vēdōtpattimadhyāyaṁ [3] vyākhyāsyāmaḥ ||1||
yathōvāca bhagavān dhanvantariḥ ||2||

athātō vēdōtpattimadhyāyaṁ vyākhyāsyāma iti| nanu, katamat sūtramidaṁ? caturvidhāni hi sūtrāṇi bhavanti; tadyathā- pratisaṁskartr̥sūtram, ēkīyasūtraṁ, śiṣyasūtraṁ, gurusūtraṁ cēti| iha pratisaṁskartr̥sūtraṁ nāstyēvētyēkē, anyē tvastīti bhāṣantē, yathā ca tadasti tathēhaiva naikaṭyēna kathayiṣyāmaḥ; ēkīyasūtraṁ yathā- ‘tatra lōhitakapilapāṇḍupītanīlaśuklēṣvavanipradēśēṣu madhurāmlalavaṇakaṭutiktakaṣāyāṇi yathāsaṅkhyamudakāni bhavantītyēkē bhāṣantē’(sū. a. 45)- iti; śiṣyasūtraṁ yathā- ‘vāyōḥ prakr̥tibhūtasya vyāpannasya ca lakṣaṇam| sthānaṁ karma ca rōgāṁśca vadasva vadatāṁvara’ (ni. a. 1)- iti; gurusūtraṁ yathā- ‘dēhē vicaratastasya lakṣaṇāni nibōdha mē’ (ni. a. 1)- iti; ēvaṁ sūtrāṇāmanēkatvāt kasyēdaṁ sūtram? ucyatē- gurōrēvaitat sūtraṁ, śiṣyēṇa granthaṁ cikīrṣatā likhitam| anyē tu śiṣyasyaivēdaṁ sūtramityāhuḥ, sa tvātmaśiṣyēṣu dhanvantaripraśiṣyēṣu pratijñāṁ kr̥tavān; tannēcchati gayī| kimētat svakapōlakalpitaṁ suśrutēnōktam, athavā yathaiva guruṇōdīritamiti pr̥ṣṭaḥ pratisaṁskartā suśrutamukhēnēdamāha- yathōvāca bhagavān dhanvantaririti| idaṁ pratisaṁskartr̥sūtraṁ, yatra yatra parōkṣē liṭprayōgastatra tatraiva pratisaṁskartr̥sūtraṁ jñātavyamiti; pratisaṁskartā’pīha nāgārjuna ēva| athaśabdō’nantarārtha ēva| atō yuṣmacchalyatantrōpadēśakāmitādanantaram| vēdōtpattimiti asyādau āyuḥśabdō luptō jñēyaḥ; tēna, āyurvēdōtpattimiti| utpattiratrābhivyaktiḥ, na tvabhūtaprādurbhāvaḥ| adhīyantē’sminnarthā ityadhyāyaḥ| vyākhyāsyāma iti virviśēṣē, āṅ abhivyāptau, vyākhyāsyāmaḥ prakathayiṣyāmaḥ| anyē tu, athaśabdaḥ śiṣyapraśnānantaryē [4] , ataḥśabdō hētvarthaḥ, yata ētē śiṣyāḥ prajāhitārthamāyurvēdaṁ guruṁ papracchuḥ, atō hētōrityarthaḥ; aparē tu virvividhaprakārē, āṅ ābhimukhyē, śēṣaṁ samam| ētēnātaḥ śalyatantrōpadēśakāmitādanantaram, āyurvēdābhivyaktimadhikr̥tya kr̥tō yō’dhyāyastaṁ viśēṣābhivyāptyā prakathayiṣyāmaḥ| dvitīyavyākhyānapakṣē’pītthaṁ yōjanīyam| yathōvācēti yādr̥guktavān| bhagavān dhanvantaririti samastaiśvaryamāhātmyayaśaḥśrīkāmārthaprayatnairyuktō ‘bhagavān’ ityucyatē; anyē tu jñānātiśayavān puruṣātiśayō bhagavān; aparē tu, aṣṭaguṇaiśvaryavānēvātra bhagavān| athāta ityādikaṁ pratijñāsūtraṁ yadyapyadhyāyādau likhitaṁ, tatha’pi ‘vatsa suśruta’ (sū. a. 1, sū. a. 14) ityanantaraṁ draṣṭavyam; anyē tu ‘adhyāpyāśca bhavantō vatsāḥ’ (sū. a. 1, sū. a. 5) ityanantaraṁ paṭhanti, tannēcchati gayī| atra kēcid ‘vēdōtpattiṁ nāmādhyāyaṁ’ iti paṭhanti||1-2||

atha khalu bhagavantamamaravaramr̥ṣigaṇaparivr̥tamāśramasthaṁ kāśirājaṁ divōdāsaṁ dhanvantarimaupadhēnavavaitaraṇaurabhrapauṣkalāvatakaravīrya(ra)gōpurarakṣitasuśrutaprabhr̥taya ūcuḥ ||3||

atha khalvityādi| athēti maṅgalārthaḥ, tattu śrōtr̥vyākhyātrōḥ kriyāphalasiddhiṁ kathayati| khalu vākyaśōbhārthaḥ, anyē tu niścayārthaḥ| amaravaraṁ dēvaśrēṣṭhaṁ, pūrvajanmanyamr̥tōddharaṇāt; anyē tu brahmaṇō’vatāratvāt| r̥ṣigaṇaparivr̥taṁ dēvarṣibrahmarṣirājarṣisamūhairvēṣṭitaṁ, tapōjñānabāhulyādupādēyavākyatvācca| āśramasthaṁ vānaprasthāśramastham, ētēna rājyacintāparityāgādanākulacittatvaṁ rājarṣitvaṁ ca sūcitam| kāśirājaṁ vārāṇasījanapadanr̥patiṁ, kāśirājasya nirvāṇapadābhilāṣitvāttatputratvamāpannamiti kāśirājam| kāśirājānāmanēkatvādviśēṣaṇamāha- divōdāsam|- divitiśabdēnātra tatsthānadēvāḥ [5] kathyantē, taiḥ pūjākāmyayā sampradīyatē yasmai sa divōdāsastam; anyē tu dāsa(śa)ti karmāṇi yatnēna karōtīti dāsaḥ(śaḥ), divaḥ svargasya dāsō divōdāsa(śa)stam| sarvajanaprasiddhaṁ viśēṣaṇamāha- dhanvantarimiti|- dhanuḥ śalyaśāstraṁ, tasya antaṁ pāram iyarti gacchatīti dhanvantariḥ [6] , tam; aparā vyutpattirvistarabhayānna likhitā| aupadhēnavādayaḥ suśrutāntāḥ sapta śiṣyā ūcuḥ uktavantaḥ| prabhr̥tiśabdēna bhōjādayaḥ| anyē tu ‘gōpurarakṣitau’ iti nāmadvayaṁ manyantē, ityaupadhēnavādayō’ṣṭau; prabhr̥tigrahaṇānnimikāṅkāyanagārgyagālavāḥ; ēvamētān dvādaśa śiṣyānāhuḥ| nanu, praśnakartr̥tayā suśrutasya mukhyatvādādāvasya nāmagrahaṇamucitaṁ syāt, kathamaupadhēnavādināmānyādāvuktāni? satyaṁ, dēvarṣayastē rājarṣīṇāṁ pūjyā iti na dōṣaḥ||3||

bhagavan! śārīramānasāgantubhirvyādhibhirvividhavēdanābhighātōpadrutān [7] sanāthānapyanāthavadvicēṣṭamānān vikrōśataśca mānavānabhisamīkṣya manasi naḥ pīḍā bhavati, tēṣāṁ sukhaiṣiṇāṁ rōgōpaśamārthamātmanaśca prāṇayātrārthaṁ prajāhitahētōrāyurvēdaṁ śrōtumicchāma ihōpadiśyamānam, atrāyattamaihikamāmuṣmikaṁ ca śrēyaḥ; tadbhagavantamupapannāḥ smaḥ śiṣyatvēnēti ||4||

r̥ṣayastē taṁ kāśirājaṁ prati kimūcurityāha- bhagavannityādi|- bhagavanniti sambōdhanē| tatra śārīrā vātādivaiṣamyanimittāḥ, mānasā rajastamaḥsambhūtāḥ kāmādayaḥ, āgantavō vyāghrādikr̥tāḥ śastrādikr̥tāśca| svābhāvikānāmatrāgrahaṇamasmiñchāstrē tatpratīkārasyāprādhānyasūcanārtham; athavā ‘ātmanaśca prāṇayātrārthaṁ’ ityatraivāvarōdhācca, r̥ṣīṇāṁ hi śārīramānasāgantuvyādhyasambhavāt kēvalaṁ svābhāvikavyādhiniṣēdhēnaiva prāṇayātrā’bhiprētā| upadrutān upasr̥ṣṭān| sanāthānapi samitrādikānapi| anāthavat ēkākijanavat| vicēṣṭamānān viruddhāṁ kriyāṁ kurvāṇān| ētēnāyurvēdaṁ vinā mitrādayō’pyanarthakā iti| vikrōśataśca viśēṣādārtasvarai rudataśca| naḥ asmākam| ātmanaśca prāṇayātrārthaṁ prāṇānāmagnīṣōmādīnāṁ yātrārthaṁ vyavahārārthaṁ svasthavr̥ttānuvartanārtham| atra kēcit ‘ātmaprajāhitahētōḥ’ iti paṭhanti| upadiśyamānaṁ saṅkṣēpataḥ kathyamānam| atrāyattamiti atrāyurvēdōpadēśē, āyattaṁ adhīnam| aihikam ihalōkabhavam, āmuṣmikaṁ paralōkabhavaṁ, śrēyaḥ kalyāṇalābhaḥ| arthakāmau mitrādilābhō yaśaśca aihikaṁ śrēyaḥ; svargādi viśiṣṭaṁ janmāntarajñānādayaśca āmuṣmikaṁ śrēyaḥ, amaratvaṁ ca| taditi hētau, yasmādāyurvēdōpadēśādvividhaṁ śrēya āyattaṁ, tasmāt; upapannāḥ smaḥ samīpamāgatāḥ smaḥ; śiṣyatvēna chātrabhāvēnēti||4||

tānuvāca bhagavān- svāgataṁ vaḥ; sarva ēvāmīmāṁsyā adhyāpyāśca bhavantō vatsāḥ ||5||

tēṣāmaupadhēnavādīnāṁ samīpagatānāṁ kāśirājēna kiṁ kr̥tamityāha- tānuvāca bhagavāniti| svāgataṁ śōbhanamāgataṁ, vaḥ yuṣmākam| amīmāṁsyāḥ avicāraṇīyāḥ, prasiddhajātyādivattvāt| adhyāpyāśca adhyāpanārhāśca| vatsā iti pakṣapātātiśayatvasūcakaṁ sambōdhanam; athavā vatsāḥ prathamavayasō gavāṁ putrāḥ, vatsā iva vatsāḥ; anēna viśēṣaṇēna prathamavayastvaṁ putrasādr̥śyaṁ damanīyatvaṁ ca sūcayati||5||

iha khalvāyurvēdaṁ nāmōpāṅgamatharvavēdasyānutpādyaiva [8] prajāḥ ślōkaśatasahasramadhyāyasahasraṁ ca kr̥tavān svayambhūḥ, tatō’lpāyuṣṭvamalpamēdhastvaṁ cālōkya narāṇāṁ bhūyō’ṣṭadhā praṇītavān ||6||

idānīmāyurvēdasya sāmānyaṁ lakṣaṇaṁ darśayannāha- iha khalvityādi|- iha khalviti vākyālaṅkārē, vakṣyamāṇaṁ vākyamalaṅkarōti; anyē tu iha mayi sūtrakārē, khalu ēvārthaḥ; ētēna mayyēva āyurvēdō’ṣṭāṅgō nānyēṣu sūtrakārēṣu, anyēṣāmēkaikasyaivāṅgasya praṇētr̥tvāt| ihēti vākyōpakramē, khalu sambōdhanē, ityaparē| upāṅgam aṅgamēvālpatvādupāṅgaṁ; tadyathā- dēhasya bāhujaṅghē śira ityaṅgāni, karacaraṇanāsikādīnyupāṅgāni, ētēnōpāṅgamityuktam; upāṅgamaṅgasamīpamityēkē| anutpādyaiva prajāḥ lōkasr̥ṣṭēḥ prāk, āyurvēdaṁ pradarśya prajāḥ paścāt sr̥ṣṭavānityarthaḥ| kr̥tavān saṁskr̥tavān, na tu pūrvamutpāditavān; kutaḥ? nityatvāt| svayambhūḥ brahmā| tatō’lpāyuṣṭvamiti tataḥ prāktanakaraṇādanantaramadharmapravr̥ttau satyām, alpāyuṣṭvam alpajīvitatvam, alpamēdhastvaṁ svalpabuddhitvaṁ, bhūyaḥ punaḥ, aṣṭadhā aṣṭabhiḥ prakāraiḥ||6||

tadyathā- śalyaṁ, śālākyaṁ, kāyacikitsā, bhūtavidyā, kaumārabhr̥tyam, agadatantraṁ, rasāyanatantraṁ, vājīkaraṇatantramiti ||7||

atha kē tē’ṣṭau prakārāḥ? ityāha- tadyathētyādi| śalyamiti śalyāharaṇapradhānaṁ tantraṁ śalyatantram| śalākāyāḥ karma śālākyaṁ, tatpradhānaṁ tantramapi śālākyam| kāyō’trāgnirucyatē, tasya cikitsā kāyacikitsā; athavā kāyō dēhaḥ, tasya cikitsā kāyacikitsā| bhūtāni dēvāsuragandharvayakṣarakṣaḥpitr̥nāgapiśācā aṣṭau, tāni vēttyanayēti bhūtavidyā; athavā bhūtāvēśāpākaraṇārthā vidyā bhūtavidyā| kumārāḥ bālāḥ, tēṣāṁ bhr̥tirdhāraṇaṁ pōṣaṇaṁ ca, tasyā bhr̥tyā idaṁ tantramiti kaumārabhr̥tyam| agadō viṣapratīkāraḥ, tadarthaṁ tantramagadatantram; anyē viṣagaravairōdhikasamprayōgō gadaḥ, gadasyābhāvaḥ agadaḥ, agadāya tantramagadatantramityācakṣatē| rasānāṁ rasaraktādīnāmayanamāpyāyanaṁ rasāyanaṁ, tadarthaṁ tantraṁ rasāyanatantram; athavā rasānāṁ rasavīryavipākādīnāmāyuḥprabhr̥tikāraṇānāmayanaṁ viśiṣṭalābhōpāyō rasāyanaṁ, tadarthaṁ tantraṁ rasāyanatantram| vājīkaraṇatantramiti yēna strīṣu viṣayē vājīva naraḥ sāmarthyaṁ prāpnōti tad vājīkaraṇaṁ, yēnātyarthaṁ vyajyatē strīṣu tad vājīkaraṇam; anyē tu vajanaṁ vājō vēgaḥ prakaraṇācchukrasya [9] , sa vidyatē yēṣāṁ tē vājinaḥ, avājinō vājinaḥ kriyantē’nēnēti vājīkaraṇam; anyē tu vājīśabdēna śukramabhidhīyatē, tēna śukrarahitasya vājī śukraṁ kriyatē’nēnēti vājīkaraṇaṁ, tadarthaṁ tantraṁ vājīkaraṇatantram| itiśabdō’ṣṭāṅgaparisamāptau||7||

athāsya pratyaṅgalakṣaṇasamāsaḥ [10] |8|

athētyādi|- athētyānantaryē, asya āyurvēdasya, pratyaṅgalakṣaṇasamāsaḥ ēkamēkamaṅgaṁ prati lakṣaṇasaṅkṣēpaḥ|8|-

tatra, śalyaṁ nāma vividhatr̥ṇakāṣṭhapāṣāṇapāṁśulōhalōṣṭāsthibālanakhapūyāsrāvaduṣṭavraṇāntargarbhaśalyōddharaṇārthaṁ [11] , yantraśastrakṣārāgnipraṇidhānavraṇaviniścayārthaṁ ca (1) |8|

kiṁ tadēkamēkamaṅgaṁ prati lakṣaṇaṁ saṅkṣēpēṇētyāha- tatrētyādi| tatra tēṣvaṅgēṣu| nāmaśabdaḥ pratipādanē, śalyaṁ pratipādyatē kathyata ityarthaḥ| vividhatr̥ṇādīnāṁ pūyāsrāvāntānāṁ duṣṭavraṇasyāntarmadhyāduddharaṇārthamuddharaṇaprayōjanaṁ, tathā garbhaśalyasyāpi| uddharaṇārthamityasyāgrē ‘ṣaṣṭyā vidhānaiḥ’ iti kēcit paṭhanti, vyākhyānayanti ca- apatarpaṇādyai rakṣāvidhānāntairdvivraṇīyōktairityarthaḥ| praṇidhānārthaṁ nivēśanārtham| na kēvalaṁ kāṣṭhatr̥ṇādi śalyaṁ, kintu ‘‘atipravr̥ddhaṁ maladōṣajaṁ vā śarīriṇāṁ sthāvarajaṅgamānām| yatkiñcidābādhakaraṁ śarīrē tat sarvamēva pravadanti śalyam’’- iti||8(1)||

śālākyaṁ nāmōrdhvajatrugatānāṁ śravaṇanayanavadanaghrāṇādisaṁśritānāṁ vyādhīnāmupaśamanārtham (2) |8|

śālākyamityādi| jatru grīvāmūlam, anyē vakṣōṁ’sasandhimāhuḥ| vadanamatra mukhakuharamāhuḥ| ghrāṇādisaṁśritānāmityatra ādiśabdācchiraḥkapālādisaṁśritānām||8(2)||

kāyacikitsā nāma sarvāṅgasaṁśritānāṁ vyādhīnāṁ jvararaktapittaśōṣōnmādāpasmārakuṣṭhamēhātisārādīnāmupaśamanārtham (3) |8|

kāyacikitsētyādi| kēcijjvarānantaramatisāraṁ paṭhanti; tanna, pañjikayā dūṣitatvāt||8(3)||

bhūtavidyā nāma dēvāsuragandharvayakṣarakṣaḥpitr̥piśācanāgagrahādyupasr̥ṣṭacētasāṁ śāntikarmabaliharaṇādigrahōpaśamanārtham (4) |8|

bhūtavidyētyādi| asurāḥ daityāḥ, gandharvā dēvagāyakāḥ, yakṣāḥ dhanadādayaḥ, rakṣāṁsi rāvaṇaprabhr̥tīni, pitaraḥ agniṣvāttādayaḥ, piśācāḥ piśitāśanāḥ; ētē grahaṇād grahāḥ prōcyantē| śāntikarmabaliharaṇādigrahōpaśamanārthaṁ śāntikarmādibhiraṣṭagrahōpaśamanaprayōjanam||8(4)||

kaumārabhr̥tyaṁ nāma kumārabharaṇadhātrīkṣīradōṣasaṁśōdhanārthaṁ duṣṭastanyagrahasamutthānāṁ ca vyādhīnāmupaśamanārtham (5) |8|

kaumārabhr̥tyamityādi| duṣṭastanyagrahasamutthānāṁ cēti duṣṭastanyēna duṣṭagrahēṇa ca jātānāmityarthaḥ; tatra duṣṭastanyēna śārīrāḥ, duṣṭagrahēṇāgantavaḥ||8(5)||

agadatantraṁ nāma sarpakīṭalūtāmūṣakādidaṣṭaviṣavyañjanārthaṁ [12] vividhaviṣasaṁyōgōpaśamanārthaṁ ca (6) |8|

agadatantramityādi| kīṭā vr̥ścikādayaḥ; lūtā markaṭaḥ, kīṭabhēdō vā| vividhaviṣasaṁyōgōpaśamanārthamiti vividhānāṁ nānāprakārāṇāṁ sthāvarajaṅgamānāṁ viṣāṇāṁ, saṁyōgaḥ saṅgamaḥ, tadupaśamāya| anyē tu ‘vividhaviṣasaṁyōgaviṣōpahatōpaśamārthaṁ ca’ iti paṭhanti| saṁyōgaviṣaṁ samānamadhughr̥tādi||8(6)||

rasāyanatantraṁ nāma vayaḥsthāpanamāyurmēdhābalakaraṁ rōgāpaharaṇasamarthaṁ ca (7) |8|

rasāyanatantramityādi| vayaḥsthāpanaṁ varṣaśatamāyuḥsthāpanam| āyuṣkaraṁ śatādhikamapi karōti| anyē tu vayaḥsthāpanaṁ jarāpaharaṇaṁ, tāruṇyaṁ bahukālaṁ sthāpayatītyarthaḥ||8(7)||

vājīkaraṇatantraṁ nāmālpaduṣṭakṣīṇaviśuṣkarētasāmāpyāyanaprasādōpacayajanananimittaṁ [13] praharṣajananārthaṁ ca (8) ||8||

vājīkaraṇatantramityādi| alparētasaḥ prakr̥tyaiva stōkarētasaḥ, tēṣāmāpyāyananimittaṁ; duṣṭarētasō vātādiduṣṭarētasaḥ, tēṣāṁ prasādanimittaṁ; kṣīṇarētasaḥ kāraṇaiḥ svamānādalpībhūtarētasaḥ, tēṣāmupacayanimittaṁ; viśuṣkarētasaḥ svamānādatyarthaṁ kṣīṇarētasaḥ, tēṣāṁ janananimittam| athavā’lparētasaḥ pañcaviṁśatimaprāptāḥ, kṣīṇarētasastu madhyavayasaḥ kāraṇādalpībhūtarētasaḥ, śuṣkarētasō vr̥ddhāḥ| praharṣajananārthaṁ cēti svasthasya śukravr̥ddhisrutikaraṇārthaṁ cētyarthaḥ||8(8)||

ēvamayamāyurvēdō’ṣṭāṅga upadiśyatē; atra kasmai kimucyatāmiti ||9||

ēvamayamiti|- ēvamanēna prakārēṇa| atrēti ēṣu madhyē| kimaṅgaṁ kasmai śiṣyāyōpadiśyatāṁ vyākhyāyatām| itiśabdaḥ sāmānyēna||9||

ta ūcuḥ- asmākaṁ sarvēṣāmēva śalyajñānaṁ mūlaṁ kr̥tvōpadiśatu bhagavāniti ||10||
sa uvācaivamastviti ||11||

ta ūcuḥ tē śiṣyā dhanvantariṁ prati ūcuḥ uktavantaḥ| śalyajñānaṁ mūlaṁ kr̥tvā śalyajñānamādau kr̥tvā| saḥ dhanvantariḥ, uvāca uktavān, ēvamastviti ēvaṁ bhavatviti| ‘sa hōvāca’ iti kēcit paṭhanti; taiḥ śiṣyaiḥ sahētyarthaḥ||10-11||

ta ūcurbhūyō’pi bhagavantam- asmākamēkamatīnāṁ matamabhisamīkṣya suśrutō bhagavantaṁ prakṣyati, asmai cōpadiśyamānaṁ vayamapyudhārayiṣyāmaḥ ||12||
sa uvācaivamastviti ||13||

prakṣyati pr̥cchāṁ kariṣyati||12-13||

vatsa suśruta! iha khalvāyurvēdaprayōjanaṁ- vyādhyupasr̥ṣṭānāṁ vyādhiparimōkṣaḥ, svasthasya rakṣaṇaṁ [14] ca ||14||

‘vatsa suśruta’ iti sambōdhanē| asyāgrē ‘athāta’ ityādikā pratijñā jñātavyēti pūrvamēvōktam| iha khalvityadhikārē, iha khalu āyurvēdōtpattyadhikārē ityarthaḥ| vyādhiśabdō’yaṁ duṣṭēṣu vātādiṣu, tatkāryēṣu jvarādiṣu klēśēṣu, rāgādiṣu duḥkhēṣu saṁsārānuvr̥ttijanakēṣu ca, vartatē; parimōkṣō nivr̥ttiḥ| nanu, vyādhiparimōkṣasvastharakṣaṇābhyāmanyadapi prayōjanamasti, kiṁ tat? yāpyavyādhitarakṣā rasāyanādāyurutkarṣaśca, tadidaṁ vaktavyam; ucyatē- svasthasya rakṣaṇaṁ cēti cakārō’nuktasamuccayārthaḥ, tēna yāpyavyādhitarakṣaṇaṁ rasāyanādāyurutkarṣaśca; athavā sādhyavyādhau kriyaikatvād yāpyāvarōdhaḥ, rasāyanādāyurutkarṣastu svastharakṣayaiva gr̥hyatē||14||

‘āyurasmin vidyatē, anēna vā”yurvindanti’ ityāyurvēdaḥ ||15||

āyurvēdasya niruktiṁ darśayannāha- āyurasminnityādi| āyuḥ śarīrēndriyasatvātmasaṁyōgaḥ, tadasminnāyurvēdē vidyatē astītyāyurvēdaḥ; athavā āyurvidyatē jñāyatē anēnētyāyurvēdaḥ; āyurvidyatē vicāryatē anēna vētyāyurvēdaḥ; āyuranēna vindati prāpnōtīti vā”yurvēdaḥ||15||

tasyāṅgavaramādyaṁ pratyakṣāgamānumānōpamānairaviruddhamucyamānamupadhāraya [15] ||16||

tasyāṅgavaramityādi|- aṅgavaram aṅgaśrēṣṭham| ādyam ādibhavam| pratyakṣāgamānumānōpamānairaviruddhamiti anēna śalyēnāṅgavarēṇa yō’rthaḥ pratipādyatē sa khalu pratyakṣādibhirapi tathā’vagamyata ityarthaḥ| pratyakṣamiti yatkiñcidēvārthasya sākṣātkārijñānaṁ tadēva pratyakṣaṁ, tathāhi- “manō’kṣagatamabhrāntaṁ vastu pratyakṣamucyatē| indriyāṇāmasañjñānaṁ vastutattvē bhramaḥ smr̥taḥ”- iti; pratyakṣāviruddhaṁ yathā- sūryāvalōkanānnāsāntaḥ sūtravartipravēśanācca kṣutaḥ prādurbhāvaḥ| āgamō vēdaḥ, āptānāṁ śāstraṁ vā; tathāhi- “siddhaṁ siddhaiḥ pramāṇaistu hitaṁ cātra paratra ca| āgamaḥ śāstramāptānāmāptāstattvārthavēdinaḥ”- iti; āgamāviruddhaṁ yathā- purāṇādiṣvapi śrūyatē- “rudrēṇa yajñasya śiraśchinnamaśvibhyāṁ saṁhitam” iti| āgamasya pratyakṣaphalatvād varīyastvaṁ, tēnānumānāt pūrvaṁ nirdiṣṭavān| anu paścādavyabhicāriliṅgālliṅgī mīyatē jñāyatē yēna tadanumānaṁ; tēnānumānēnāviruddhaṁ yathā- pranaṣṭē śalyē candanaghr̥tōpadigdhāyāṁ tvaci viśōṣaṇavilayanābhyāmanumīyatē- atra śalyamiti| prasiddhasādharmyāt sūkṣmavyavahitaviprakr̥ṣṭasyārthasya sādhanamupamānaṁ; tēnāviruddhaṁ yathā- māṣavanmaṣakaḥ, tilamātrastilakālakaḥ, vidārīkandavad vidārīrōgaḥ, śālūkavat panasikētyādi| ucyamānam upadiśyamānam| mayā dhanvantariṇētyarthaḥ||16||

ētaddhyaṅgaṁ prathamaṁ, prāgabhighātavraṇasaṁrōhādyajñaśiraḥsandhānācca |
śrūyatē hi yathā- “rudrēṇa yajñasya śiraśchinnamiti, tatō dēvā aśvināvabhigamyōcuḥ- bhagavantau naḥ śrēṣṭhatamau yuvāṁ bhaviṣyathaḥ, bhavadbhyāṁ yajñasya śiraḥ sandhātavyamiti |
tāvūcaturēvamastviti |
atha tayōrarthē dēvā indraṁ yajñabhāgēna prāsādayan |
tābhyāṁ yajñasya śiraḥ saṁhitam” iti ||17||

śalyāṅgasyādyatvaṁ pratipādayannāha- ētaddhītyādi|- hiśabdō’vadhāraṇē, ētēnaitadēvāṅgaṁ prathamamādyaṁ pradhānaṁ vā| kasmāt prathamaṁ? prāgabhighātavraṇasaṁrōhāt|- śārīravyādhīnāṁ prāgēva dēvāsurasaṅgrāmē’bhighātavraṇōtpattiḥ, tatsaṁrōhāt| dvitīyahētumāha- yajñaśiraḥsandhānāccēti| atrāpi prāgiti sambadhyatē| anyē tvatra yajñaśiraḥsandhānāccēti| atrāpi prāgiti sambadhyatē| anyē tvatra ‘yajñapradhānaśiraḥsandhānācca’ iti paṭhanti| yataḥ prāgyajñasya pradhānabhūtasya śirasaḥ sandhānaṁ tasmādidamādyam| atraiva pāramparyōpadēśamāha- śrūyatē hītyādi yāvatsaṁhitamiti| atra kēcit ‘saṁhitaṁ’ ityatra ‘sandhitaṁ’ iti paṭhanti||17||

aṣṭāsvapi cāyurvēdatantrēṣvētadēvādhikamabhimatam, āśukriyākaraṇādyantraśastrakṣārāgnipraṇidhānāt sarvatantrasāmānyācca ||18||

idānīṁ varatvē pratijñātaṁ hētuṁ pratipādayannāha- aṣṭāsvityādi| ētadēvādhikamiti ētadēvādhikaṁ nānyacchālākyādi| kasmāt? āśukriyākaraṇāt| kutō’sya punarāśukriyākaraṇatvaṁ? yantrādipraṇidhānāt, na hi yantrādiṣu praṇidhānē mandā kriyā kartuṁ yuktā, mandakāritvē hyāturasya vyāpattiḥ syāt| varatvē dvitīyaṁ hētumāha- sarvatantrasāmānyācca; śālākyāditantratulyatvācca| ‘adhikakriyākaraṇāt’ iti kēcit paṭhanti| adhikakriyākaraṇamapyasya yantrādipraṇidhānāt sarvatantrasāmānyācca hētubhyām| anyē tu varatvē āśukriyākaraṇāditi hētutrayamāhuḥ; āśukriyākaraṇāt śīghraṁ chēdādikriyākaraṇāditi vyākhyānayanti||18||

tadidaṁ śāśvataṁ puṇyaṁ svargyaṁ yaśasyamāyuṣyaṁ vr̥ttikaraṁ cēti ||19||

ataḥ śiṣyōtsāhanāya yathābhūtāṁ praśaṁsāmāha- tadidamityādi|- tadidaṁ śalyatantraṁ; śāśvatam avināśi, athavā śāśvataśabdēna mōkṣō’bhidhīyatē, tatsampādanācchāśvataṁ; puṇyaṁ puṇyahētutvāt; svargasya nimittaṁ svargāya hitaṁ vā svargyaṁ; yaśasō nimittaṁ yaśasē hitaṁ vā yaśasyam; āyuṣō nimittamāyuṣē hitaṁ vā āyuṣyaṁ; vr̥ttikaraṁ cēti nirvāhakaram||19||

brahmā prōvāca tataḥ prajāpatiradhijagē, tasmādaśvinau, aśvibhyāmindraḥ, indrādahaṁ, mayā tviha pradēyamarthibhyaḥ prajāhitahētōḥ ||20||

idānīṁ kramāgatiṁ pratipādayannāha- brahmā prōvācētyādi| prōvāca prathamaṁ kathitavān| tasmāt prajāpatiradhijagē iti prajāpatirdakṣaḥ, adhijagē adhītavān| mayā tvihēti svargē brahmaṇaivārthibhyaḥ prathamaṁ dattaṁ, mayā dhanvantariṇā punariha martyalōkē pradēyaṁ prathamaṁ dātavyamiti||20||

bhavati cātra-
ahaṁ hi dhanvantarirādidēvō jarārujāmr̥tyuharō’marāṇām |
śalyāṅgamaṅgairaparairupētaṁ prāptō’smi gāṁ bhūya ihōpadēṣṭum ||21||

atha kāśirājaḥ śiṣyapratītyarthaṁ ślōkamāha- bhavati cātrētyādi| ādidēvaḥ śaṅkaraḥ; anyē tu, ādidēvā brahmādayaḥ, karmadēvāḥ śatakratuprabhr̥tayaḥ, prajananadēvāstu prayōjanajanitāḥ skandādayaḥ, tēṣāmahamādidēvaḥ; ādidēvatvē’pi kāśirājatvamupapannamavatārāntaramāpannatvāt| jarārujāmr̥tyuharō’marāṇāmiti ētēnaitaduktaṁ- dēvānāmapi purā jarādayastasthuḥ, tē ca mayā ādidēvēna hr̥tāḥ| prāptō’smi gāṁ bhūya ihōpadēṣṭumiti pūrvamahaṁ dēvakāryārthaṁ svargaṁ prāptaḥ, idānīṁ gāṁ pr̥thivīṁ, bhūyaḥ punaḥ, prāptō’smi āgatō’smi; iha martyalōkē, manuṣyakāryārthamupadēṣṭum| anyē ‘śalyaṁ mahacchāstravaraṁ gr̥hītvā’ iti paṭhanti| svamāhātmyaprakāśanamapi parārthatvādyathābhūtatvācca na dōṣāya||21||

asmiñchāstrē pañcamahābhūtaśarīrisamavāyaḥ puruṣa [16] ityucyatē |
tasmin kriyā, sō’dhiṣṭhānaṁ; kasmāt? lōkasya dvaividhyāta [17] ; lōkō hi dvividhaḥ sthāvarō jaṅgamaśca; dvividhātmaka ēvāgnēyaḥ, saumyaśca, tadbhūyastvāt; pañcātmakō vā; tatra caturvidhō bhūtagrāmaḥ saṁsvēdajajarāyujāṇḍajōdbhijjasañjñaḥ [18] ; tatra puruṣaḥ pradhānaṁ, tasyōpakaraṇamanyat; tasmāt puruṣō’dhiṣṭhānam ||22||

asmiñchāstrē pañcamahābhūtētyādi| pañcamahābhūtāni pr̥thivyādīni, śarīrī ātmā, samavāyaḥ saṁyōgaḥ| anyē tu ‘tatrāsmiñchāstrē’ iti paṭhanti; tatrētyanēna śalyatantramadhikriyatē, tasmin śalyaśāstrē, asminniti asminnadhikārē; kiṁ viśēṣavati? ucyatē- kriyādhikārē vyādhyadhiṣṭhānaprastāvē ca| tasmin kriyēti tasminniti pūrvanirdiṣṭē puruṣē, kriyā śāstrōditaṁ karma, kiṁ tat? bhēṣajaśastrakṣārāgninirvartyaṁ svāsthyavr̥ttikaraṁ ca| kasmāt tasminnēva kriyētyāha- sō’dhiṣṭhānamiti|- yasmāt saḥ puruṣaḥ, adhiṣṭhānaṁ āśrayaḥ; kasya? vyādhēḥ svāsthyasya ca| adhiṣṭhānatvē hētumāha- kasmāditi| lōkasya jagataḥ, dvaividhyād dviprakāratvāt| lōkō hītyādi hi yasmādarthē| sthāvarō vr̥kṣādiḥ, jaṅgamō manuṣyādiḥ| cikitsōpayōgidharmadvayaṁ pratipādayitumāha- dvividhātmaka ēvētyādi| agnibhūtādhidaivatasvabhāvamāgnēyaṁ, sōmabhūtādhidaivatasvabhāvaṁ saumyam| anyē dvividhātmakō dvividhahētuka iti vyākhyānayanti; tanna, pañjikayā dūṣitatvāt| nanu, sarvabhūtānāṁ sarvatra sānnidhyamasti tat kathaṁ dvividhātmaka ityāha- tadbhūyastvāditi| tadbāhulyādityarthaḥ| prāyēṇa hi sarvaṁ dravyaṁ śītamuṣṇaṁ na tr̥tīyō rāśirasti, atō dvāvēva agnīṣōmau bhūyāṁsau [19] | adhunā’viśēṣēṇa dvitīyaṁ pakṣamāha- pañcātmakō vēti|- vāśabdaḥ pakṣāntarē; tēna sa dvividhō’pi lōkaḥ pañcātmakaḥ pañcasvabhāva ityayaṁ vā pakṣaḥ| idānīṁ jaṅgamān pr̥thakkartumāha- tatrētyādi|- tatra tayōḥ sthāvarajaṅgamayōrmadhyē, caturvidhaḥ catuṣprakāraḥ, bhūtagrāmaḥ prāṇisamūhaḥ| atha kē tē catvāraḥ prakārā ityāha- saṁsvēdajētyādi|- bhuvaḥ śarīrasya ca saṁsvēdādūṣmaṇō jātāḥ saṁsvēdajāḥ; jarāyōrjātā jarāyujāḥ, jarāyurgarbhāśayaḥ; aṇḍājjātāḥ aṇḍajāḥ, aṇḍaṁ prāṇyādhārō vartulaṁ; bhuvamudbhidya jātā udbhijjāḥ; sañjñāśabdaḥ pratyēkaṁ sambadhyatē| caturdhā [20] nipatitānāmūṣmāṇaṁ vinā kasyacit siddhirnāstīti saṁsvēdajasya prāṅnirdēśaḥ; kēcidanyathākramaṁ paṭhanti; tanna, pañjikayā dūṣitatvāt| lōkadvaividhyāditi prāguddiṣṭahētvarthaṁ sphuṭīkurvannāha- tatra puruṣa iti|- tatra tayōḥ sthāvarajaṅgamayōrmadhyē puruṣaḥ prādhānyēna guṇēna pr̥thak kriyatē| yadyapyatra pañcamahābhūtaśarīrisamavāyaḥ puruṣa iti sāmānyēna puruṣaśabdēna paśvādirapi vācyaḥ, tathā’pi manuṣyajātirēvātra puruṣaśabdēnōcyatē, tasyōpakāryatvāt; itarasya cāprādhānyam, upakaraṇatvāt| ata ēvāha- tasyōpakaraṇamanyaditi|- tasya manuṣyajātēḥ puruṣasya, anyat sthāvarasaṁsvēdajādi, upakaraṇam| upakaraṇatvādapradhānatvamityata āha- tasmāt puruṣō’dhiṣṭhānam| tatra puruṣaḥ pradhānamityatra ‘tēṣu caturṣu saṁsvēdajādiṣu madhyē’ ityanyē vyākhyānayanti||22||

tadduḥkhasaṁyōgā vyādhaya ucyantē ||23||

nanu, kē tē vyādhayō yēṣāṁ puruṣō’dhiṣṭhānamityāha- tadduḥkhētyādi|- tacchabdēnānantaranirdiṣṭaḥ puruṣō’dhikriyatē, duḥkhaṁ kāyavāṅmānasī pīḍā| vividhaṁ duḥkhamādadhatīti vyādhayaḥ, tasya puruṣasya duḥkhāya saṁyōgō yēṣāmāgantuprabhr̥tīnāṁ tē vyādhayaḥ; athavā tasya puruṣasya yēṣu satsu, yairvā karaṇabhūtaiḥ, yēbhyō vā duḥkhaṁ jāyatē, tē vyādhayaḥ| ētau vākyārthau nyāyyau| anyē tu tasya puruṣasya duḥkhānāṁ vēdanānāṁ yē saṁyōgāstē vyādhayaḥ; aparē tu durduṣṭāni khāni srōtāṁsi duḥkhāni, tasya puruṣasya duḥkhānāṁ duṣṭasrōtasāṁ nimittaṁ saṁyōgō yēṣāṁ tē tathōktāḥ| ētāvanyāyyau, pañjikayā dūṣitatvāt||23||

tē caturvidhāḥ- āgantavaḥ, śārīrāḥ, mānasāḥ, svābhāvikāścēti ||24||

tē caturvidhā ityādi| pūrvamutpannatvādāgantōḥ [21] prāgabhidhānaṁ; tataḥ śārīrāḥ, śarīrasya prādhānyāt; tataḥ śēṣāviti| svabhāvēna bhavantīti svābhāvikāḥ, svabhāvō hyatra sahajō dharmaḥ| āgantuprabhr̥tayaḥ pūrvaṁ vyākhyātāḥ| svābhāvikāścēti cakāraḥ svābhāvikasya vyādhērāgantuprabhr̥tibhiḥ [22] sahātulyabalatāṁ sūcayati| itiśabdaścatuṣprakārasamāptau||24||

tēṣāmāgantavō’bhighātanimittāḥ |25|

idānīmāgantuprabhr̥tīnēva vivaritumāha- tēṣāmityādi| abhighātanimittā iti abhighātaḥ abhihananaṁ śarādiprahāraḥ, sa ēva nimittaṁ yēṣāṁ tē tathōktāḥ||25(1)||

śārīrāstvannapānamūlā vātapittakaphaśōṇitasannipātavaiṣamyanimittāḥ |25|

annapānamūlā iti sāmarthyādviṣamānnahētavaḥ, na hyannasāmyaṁ vyādhihētuḥ| taccānnavaiṣamyaṁ [23] svasthavr̥ttavaiṣamyamupalakṣayati, tēna kālavaiṣamyaṁ kāyavāṅmanōvihāravaiṣamyamindriyārthavaiṣamyaṁ ca lakṣayati| ‘śārīrāṇāṁ vikārāṇāmēṣa vargaścaturvidhaḥ| prakōpē praśamē caiva hēturuktaścikitsakaiḥ’- ityēṣāṁ grahaṇamakr̥tvā, annagrahaṇēnaitānupalakṣayannētallakṣayati- yathā’nnamēvaiṣāṁ sambhavē pradhānahētustathā nānyē| vātapittakaphaśōṇitasannipātavaiṣamyanimittā iti vātādīnāṁ sannipātāntānāṁ vaiṣamyaṁ viṣamatā tadēva nimittaṁ yēṣāṁ tē tathōktāḥ; tē punarvātādīnāṁ sañcayādijñāpakā vātapūrṇakōṣṭhatādayō vyādhayaḥ| tacca vaiṣamyaṁ kṣayēṇa vr̥ddhyā vā| dōṣaprastāvē dūṣyaśōṇitagrahaṇē hēturvaktavyaḥ? ucyatē- ētaddhi śalyatantraṁ, śalyatantrē ca vraṇaḥ pradhānabhūtaḥ, vraṇē ca dūṣyēṣu madhyē raktasya prādhānyamiti śōṇitōpādānam; anyē tu dōṣadūṣitatvādraktamapi vyādhyutpattinimittaṁ bhavati, vakṣyati caivaṁ- “dōṣadūṣitēṣvatyarthaṁ dhātuṣu sañjñā kriyatē- rasajō’yaṁ, śōṇitajō’yam” (sū. a. 24) ityādi; śōṇitajō’yamityādivyapadēśō ghr̥tādidagdhavat| anyanibandhakārairbahūktaṁ, tacca śiṣyabuddhivyākulatvahētutvādasmābhirupēkṣitam||25(2)||

mānasāstu krōdhaśōkabhayaharṣaviṣādērṣyābhyasūyādainyamātsaryakāmalōbhaprabhr̥taya icchādvēṣabhēdairbhavanti |25|

mānasān pratipādayannāha- mānasāstvityādi| krōdhaḥ parābhidrōhalakṣaṇaḥ, śōkaḥ putrādiviyōgē cittōdvēgaḥ, bhayaṁ parasmāttrāsaḥ, harṣa utsēkaḥ, nirnimittamanyasya dōṣōtpādanēnātmanaḥ prītijananaṁ vā harṣaḥ, asiddhibhayādvividhēṣu karmasu sādō’pravr̥ttiḥ viṣādaḥ, īrṣyā parasampattāvasahiṣṇutā, chidrānvēṣitayā paraguṇēṣu dōṣārōpaṇamasūyā, dainyaṁ kliṣṭacittatā, mātsaryaṁ paraguṇēṣvamādhyasthyaṁ krauryaṁ vā, kāma indriyārthēṣvabhikāṅkṣā, lōbhaḥ parasvagrahaṇābhilāṣaḥ, ādigrahaṇānmānamadadambhādayaḥ| icchādvēṣabhēdairbhavantīti icchā sātiśayō’rthābhilāṣaḥ, sā ca nānāvastvavalambinī nānākāmataśca bhinnā bhavati; tatra harṣaśōkadainyakāmalōbhādaya icchābhēdēna; dvēṣaḥ aprītiḥ,sō’pi nānāvastvavalambī nānārūpō bhavati, krōdhabhayaviṣādērṣyāsūyāmātsaryāṇi dvēṣabhēdēna| anyē tu ‘mānasāḥ krōdhaśōkabhayadainyērṣyāsūyāmātsaryakāmādayaḥ’ iti paṭhanti||25(3)||

svābhāvikāstu kṣutpipāsājarāmr̥tyunidrāprakr̥(bhr̥)tayaḥ ||25||

svābhāvikān vyākhyātumāha- svābhāvikāstvityādi| kṣud bhōktumicchā, pipāsā pātumicchā, jarā vārdhakyaṁ, mr̥tyuḥ [24] śarīrēndriyātmamanasāṁ viyōgaḥ, nidrā mēdhyānāḍīmanaḥsaṁyōgāddēhēndriyāṇāṁ sukhabhōgaḥ; prakr̥tigrahaṇāt prakr̥tibhavā rōgā gr̥hyantē, tē ca kadācit svābhāvikāḥ kadāciddōṣajāḥ| tatra, yadā pravr̥ddhapittasya kṣīṇaślēṣmaṇō bhasmakānalēna bubhukṣā bhavati sā pratīkāryā dōṣajatvāt, pipāsā’pi yadā dōṣaiḥ kriyatē tasyā api dōṣataḥ prasādhanaṁ kartavyaṁ, jarā’pi yadā’kālē bhavati sā pratikāryā, mr̥tyurapyakālajaḥ pratikāryaḥ, nidrā’pi dōṣajā pratīkārādupaśamaṁ yāti; tatra yadaitē sarvē dōṣēbhyō jāyantē tadā śārīrāḥ pratīkāryāśca; yadā tu svabhāvatastadā niṣpratīkārā rasāyanatō’pi na pratīkāryāḥ| ta ētē svabhāvasambhūtatvāt svābhāvikāḥ kathyantē| yadyapi kṣutpipāsājarāsu svabhāvasambhūtāsvapi pittajatvaṁ nidrāyāṁ ślēṣmatamōbhavatvamasti; tathā’pyalpadōṣārabdhatvādadōṣajatvamucyatē, ēkataṇḍulāhāriṇāmanaśanavyapadēśavat| mr̥tyustu mahadbhirapi svabhāvānuvartibhirdōṣairārabdhō’pi na dōṣajavyapadēśaṁ labhatē; yathā rājānuvartibhirmahadbhirapi puruṣaiḥ sampāditaṁ jayādikaṁ rājavyapadēśaṁ labhatē- rājñā jitamiti, tadvadatrāpi; āgantumr̥tyōḥ sambhavatvācca nāvaśyaṁ dōṣajavyapadēśaṁ labhatē| anyē ‘nidrāprakr̥taya’ ityatra ‘nidrāprabhr̥taya’ iti paṭhanti; prabhr̥tigrahaṇādrātrijāgaraṇādaya iti vyākhyānayanti||25(4)||

ta ētē manaḥśarīrādhiṣṭhānāḥ ||26||

vyādhīnāmāśrayamāha- ta ētē ityādi| ta ētē anantarōktā vyādhayaḥ| tatra manō’dhiṣṭhānāḥ krōdhādayaḥ, śarīrādhiṣṭhānā jvarādayaḥ, ubhayādhiṣṭhānā apasmārādayaḥ| yadyapi mānasā api śarīraṁ pīḍayanti, śārīrā api manaḥ pīḍayanti; tathā’pi prāṅmānasā ēva manaḥ pīḍayanti paścāccharīram, ēvaṁ śārīrā api, iti na dōṣaḥ| ātmani tu vyādhyadhiṣṭhānatvaṁ nāsti, nirvikāratvāt||26||

tēṣāṁ saṁśōdhanasaṁśamanāhārācārāḥ samyakprayuktā nigrahahētavaḥ ||27||

vyādhīn nirdiśya cikitsāṁ nirdēṣṭumāha- tēṣāmityādi| tēṣāṁ vyādhīnām| samyak śōdhayatīti saṁśōdhanaṁ; taddvividhaṁ bahirāśrayamabhyantarāśrayaṁ ca| tatra bahirāśrayaṁ śastrakṣārāgnipralēpādayaḥ; abhyantarāśrayaṁ catuṣprakāraṁ- vamanaṁ, virēcanam, āsthāpanaṁ, śōṇitamōkṣaṇaṁ ca; anyē tu śōṇitamōkṣaṇamityatra śirōvirēcanaṁ manyantē| yat kiñcit pītalīḍhādikamanirhr̥tya dōṣaṁ śamayati tat saṁśamanaṁ; yaduktaṁ- “na śōdhayati yaddōṣān samānnōdīrayatyapi| samīkarōti kruddhāṁśca tat saṁśamanamucyatē”- iti| tadapi dvividhaṁ bāhyamābhyantaraṁ ca| tatra bāhyamālēpapariṣēkāvagāhābhyaṅgaśirōbastikavalagrahagaṇḍūṣādikam, ābhyantaraṁ tu pācanalēkhanabr̥ṁhaṇarasāyanavājīkaraṇaviṣapraśamanādikam| āhāraścaturvidhaḥ, pēyalēhyādyabhakṣyabhēdāt; sa punastrividhaḥ- dōṣapraśamanō, vyādhipraśamanaḥ, svasthavr̥ttikaraścēti| dōṣasaṁśamanatvāt saṁśamanagrahaṇēnaivāhārē labdhē pr̥thakkaraṇaṁ saṁśōdhanādiṣvāhārasya prādhānyasūcanārtham; athavā svasthē puruṣē dōṣavyādhipraśamābhāvādāhārasya pr̥thaggrahaṇam| ācāraḥ kāyavāṅmānasaṁ karma; tatrōtkṣēpaṇāvakṣēpaṇādikaṁ kāyikaṁ karma, pāṭhasvādhyāyādi vācikaṁ, dhyēyacintyasaṅkalpādi mānasam| samyakprayuktā iti āyurādīn vīkṣya prayuktāḥ||27||

prāṇināṁ punarmūlamāhārō balavarṇaujasāṁ ca |
sa ṣaṭsu rasēṣvāyattaḥ; rasāḥ punardravyāśrayāḥ; dravyāṇi punarōṣadhayaḥ |
tāstu dvividhāḥ- sthāvarā jaṅgamāśca ||28||

saṁśōdhanādiṣvāhārasya prādhānyaṁ darśayitumāha- prāṇināmityādi| mūlamiti mūlamiva mūlaṁ, sambhavahētutvāt; śukraśōṇitaṁ tāvadāhārādēva jāyatē yadgarbhajananasamartham| na kēvalaṁ prāṇināṁ mūlaṁ balavarṇōjasāṁ ca| ētēna prāṇināmāhārādēvōtpattisthitī nidarśitē| balaṁ karmasādhanaśaktirvyāyāmānumēyā, varṇō gaurādiḥ, ōjaḥ sōmātmakaṁ rasādiśukrāntasarvadhātudhāmabhūtaṁ hr̥distham| anyē tu balaṁ śarīrōpacayō’trābhiprēta iti vadanti| ēvaṁ paramārthatō balaujasōrbhēdē’pi dōṣadhātumalakṣayavr̥ddhivijñānīyē cikitsaikyārthamabhēda uktaḥ| sa ṣaṭsu rasēṣvāyatta iti sa āhāraḥ, rasēṣu madhurādiṣu, āyattaḥ adhīnaḥ| dravyāṇi punarōṣadhaya iti ōṣadhiśabdō’tra sānnidhyād vakṣyamāṇasthāvarajaṅgamarāśidvaya ēva vartatē, na punaryāvadōṣadhimātrē; anyathā hi pārthivēṣvapyōṣadhiśabdō vartata iti pārthivānāmupādānaṁ pr̥thaṅga syāt| anyē tu pārthivēṣvapi ōṣadhiśabdō vartata ityāhuḥ| tāstvityādi tā iti ōṣadhayaḥ| sthāvarāṇāṁ bahutarōpayōgāt prāgupādānam||28||

tāsāṁ sthāvarāścaturvidhāḥ- vanaspatayō, vr̥kṣā, vīrudha, ōṣadhaya iti |
tāsu, apuṣpāḥ [25] phalavantō vanaspatayaḥ, puṣpaphalavantō vr̥kṣāḥ, pratānavatyaḥ stambinyaśca vīrudhaḥ, phalapākaniṣṭhā ōṣadhaya iti ||29||

tāsāmiti dvividhānāmōṣadhīnāṁ madhyē| kē tē catvāraḥ prakārā ityāha- vanaspataya ityādi| tānēva vivaritumāha- tāsviti; tāsu madhyē| apuṣpā iti avidyamānapuṣpāḥ, phalavanta iti phalaṁ yēṣāmasti tē vanaspataya iti; kē punarīdr̥śāḥ? plakṣōdumbarādayaḥ| puṣpaphalavantō vr̥kṣā iti ubhayayuktā vr̥kṣāḥ; kē tē? āmrajambūprabhr̥tayaḥ| pratānavatya ityādi pratānavatyō vistāravatyaḥ vīrudhaḥ, na kēvalaṁ pratānavatyō vīrudhaḥstambinyaśca gulminyaśca, gulmaḥ punaḥ vartulalatāsantativiṭapaḥ [26] , tāśca vidārīkōlavallīśālaparṇīpr̥śniparṇīprabhr̥tayaḥ| kēcit ‘stambinyaśca’ ityatra ‘gulminyaśca’ iti paṭhanti, tatrāpi sa ēvārthaḥ| phalapākaniṣṭā iti niṣṭhā nāśaḥ, phalapākēna pariṇatyā nāśō yāsāṁ tāstathōktāḥ; tē punargōdhūmādayaḥ| anyē tu niṣṭhāśabdaṁ pratyēkaṁ sambadhnanti, phalaniṣṭhāḥ pākaniṣṭhā iti; tatra phalaniṣṭhāḥ śālitilakulatthādayaḥ, pākaniṣṭhāḥ kavakādayaḥ; kavakaśchatraka ucyatē||29||

jaṅgamā khalvapi caturvidhāḥ- jarāyujāṇḍajasvēdajōdbhijjāḥ |
tatra paśumanuṣyavyālādayō jarāyujāḥ, khagasarpasarīsr̥paprabhr̥tayō’ṇḍajāḥ, kr̥mikīṭapipīlikāprabhr̥tayaḥ svēdajāḥ, indragōpamaṇḍūkaprabhr̥taya udbhijjāḥ ||30||

jaṅgamāḥ khalvapītyādi|- khaluśabdaḥ śiṣyasambōdhanē, hē suśruta, jaṅgamā api caturvidhāḥ catuṣprakārāḥ| tānāha- jarāyujētyādi| ētacca pūrvaṁ vyākhyātam| jarāyujādiṣu pūrvōktasaṁsvēdajādikramatyāgō yōnisaṅkaraṁ bōdhayati; tēna pakṣiṣu balākā jarāyujā aṇḍajā cēti, sarpajātiṣu ahipatākā jarāyujā, saṁsvēdajēṣvapi kāścit pipīlikā aṇḍajā udbhijjāśca| vyālādaya iti vyālā hiṁsrapaśuvyāghrādayaḥ, anyē tu paśugrahaṇādēva hiṁsrapaśūnāmapi grahaṇamiti vyālaśabdēna sarpaviśēṣamāhuḥ| taduktaṁ- ‘‘sarpajātiṣu ahipatākā jarāyujā”- iti| ādigrahaṇād balākājatukādayaḥ| ihōpakaraṇaprastāvē paśūnāṁ prādhānyamiti prāṅnirdēśaḥ, prāgbhūtagrāmaprasaṅgēna puruṣaprādhānyakhyāpanārtham, atra punarjarāyujāṇḍajētyādipāṭha ōṣadhitvakhyāpanāyēti na paunaruktyam| khagasarpētyādi khagāḥ pakṣiṇaḥ, sarpā mandagāminō’jagaraprabhr̥tayaḥ, sarīsr̥pāḥ śīghragāminaḥ kr̥ṣṇasarpādayaḥ, mīnamakarādayō vā; prabhr̥tigrahaṇāt kūrmanakrādīnāṁ grahaṇaṁ; kēcit prabhr̥tiśabdamapaṭhitvā luptanirdiṣṭēnādiśabdēna kūrmādīn gr̥hṇanti| kr̥mikīṭētyādi kr̥mayaḥ kōṣṭhapurīṣādibāṣpasambhavāḥ, kīṭā vr̥ścikaṣaṅbinduprabhr̥tayaḥ, pipīlikāściṭikāḥ, prabhr̥tigrahaṇādēvaṁvidhā anyē’pi dr̥śyantē| indragōpa ityādi indragōpāḥ prāvr̥ṭkālajā atiraktakr̥mayaḥ ‘indravadhū’ iti lōkē, prabhr̥tigrahaṇādīdr̥śā anyē’pi||30||

tatra sthāvarēbhyastvakpatrapuṣpaphalamūlakandaniryāsasvarasādayaḥ prayōjanavantaḥ; jaṅgamēbhyaścarmanakharōmarudhirādayaḥ ||31||

sthāvarajaṅgamayōrnirdiṣṭayōścikitsōpayōginō’vayavaviśēṣān darśayitumāha- tatra sthāvarēbhya ityādi| svarasādaya ityādigrahaṇāttailakṣārabhasmakaṇṭakaprabhr̥tīnāṁ grahaṇam| kēcit kandaṁ sūtrē na paṭhanti, ādiśabdācca gr̥hṇanti| rōmarudhirādaya ityādiśabdānmāṁsavasāghr̥tāsthikhurādayaḥ||31||

pārthivāḥ suvarṇarajatamaṇimuktāmanaḥśilāmr̥tkapālādayaḥ [27] ||32||

rasādhikārikamauṣadhivargaṁ sthāvarajaṅgamaṁ pratipādya, pariśiṣṭaṁ pratipādayitumāha- pārthivā ityādi| pr̥thivyā vikārāḥ pārthivāḥ, rajataṁ raupyaṁ, maṇiḥ sphaṭikādiḥ, muktā mauktikaṁ, mr̥t mr̥ttikā, kapālaṁ karparam| suvarṇasyēha pārthivatvamēvāṅgīkriyatē gurutvakāṭhinyasthairyādihētubhiḥ| sūtrē ādigrahaṇāllōhamalasikatāsudhāharitālalavaṇagairikarasāñjanaprabhr̥tīnāṁ [28] grahaṇam| yadyapi sthitiśīlatvāttathā lōkadvitvasamākhyānē’pr̥thaguktatvācca sthāvaraśabdēnaiva pārthivā ucyantē, tathā’pyatra prakaraṇādyēṣvāhārōpayōgitvaṁ phalamūlādyavayavēṣu rasapradhānatayā tatraiva caturvidhē vanaspatyādigaṇē sthāvaraśabdō vartatē na tu pārthivēṣvapi, tēṣāmāhārēṣu prāyēṇānupayōgāt; anyadapi samādhānāntaramasti, tacca vistarabhayānna likhitam||32||

kālakr̥tāḥpravātanivātātapacchāyājyōtsnātamaḥśītōṣṇavarṣāhōrātrapakṣamāsartvayanādayaḥ saṁvatsaraviśēṣāḥ [29] ||33||

kālakr̥tā ityādi| ādigrahaṇānnimēṣakāṣṭhākalāmuhūrtādayaḥ| anyē tvētadgadyamanyathā paṭhanti vyākhyānayanti ca; tacca vartamānapratiṣvaprasiddhamityasmābhirupēkṣitam||33||

ta ētē svabhāvata ēva dōṣāṇāṁ sañcayaprakōpapraśamapratīkārahētavaḥ prayōjanavantaśca ||34||

ēṣāṁ prayōjanaṁ darśayitumāha- ta ēta ityādi| svabhāvata ēvēti svalakṣaṇata ēva| dūṣayanti kāyavākcittānīti dōṣā vātādayaḥ; tadārabdhāśca jvarādayaḥ| sañcayaḥ sthānavr̥ddhiḥ; prakōpaṇaṁ prakōpaḥ, prakōpaśabdēna prakōpaprasarasthānasaṁśrayavyaktibhēdāḥ pañcōcyantē; prakōpaḥ sthānādunmārgagamanaṁ; prasaraḥ pañcadaśaprakārō vraṇapraśnē vakṣyatē; jvarātīsārādīnāṁ sāmānyalakṣaṇaṁ vyaktiḥ, yathā- santāpalakṣaṇō jvaraḥ, saraṇalakṣaṇō’tisāra ityādi; viśēṣaṇaṁ bhēdaḥ, yathā- aṣṭau jvarā ityādi; praśamanaṁ praśamaḥ svayamupaśamaḥ; hētuvyādhiviparītaṁ karma pratīkāraḥ; anyē tu praśamapratīkārayōrēkārthatāṁ manyamānāḥ pratīkāraṁ na paṭhanti; tanna, yasmājjvarādīnāmapyasti svabhāvōpaśamaḥ; tadyathā- kaphajvarapratīkārō vasantē pūrvāhṇē ca, svabhāvēna praśamastu grīṣmē madhyāhnē cētyādi; tasmāt praśamanapratīkārayōrarthabhēdō’styēva| prayōjanavantaścēti cikitsōpakāriṇa ityarthaḥ| tadyathā ‘lājōtpalōśīrakucandanāni dattvā pravātē niśi vāsayēcca’ (u. ta. a. 48); tathā ‘nivātē dēśē nicitaṁ kr̥tvā’ (sū. a. 11), tathā ‘madanaphalānāmātapapariśuṣkāṇāṁ’- (sū. a. 43) ityādi prayōjanaṁ jñātavyam||34||

bhavanti cātra ślōkāḥ-
śārīrāṇāṁ vikārāṇāmēṣa vargaścaturvidhaḥ |
prakōpē [30] praśamē caiva hēturuktaścikitsakaiḥ ||35||

idānīṁ gadyē vistarēṇa pratipāditamarthaṁ ślōkaiḥ prakaṭīkurvannāha- bhavanti cātra ślōkā ityādi| yadyapi suśrutē bhavanti cātrēti vinā’pi ślōkā bhavanti, tathā’pyatra mandamatīnāṁ gadyapadyabhēdakathanāya bhavanti cātra ślōkā iti kr̥tam; anyē tu vēdādidharmasaṁvādārthamiti vadanti| atha kē tē ślōkā ityāha- śārīrāṇāmityādi| na cātra dviruktiḥ, pūrvōktasya gūḍhārthasyābhivyaktikaratvāt [31] | śārīrāṇāmiti śarīrasambhavānām| vikārāṇāmiti vikr̥tayō vikārāḥ, tēna vikārā atra kupitā dōṣā vyādhayō’pi gr̥hyantē| ēṣaḥ pūrvōktaḥ| vargaścaturvidhaḥ catuṣprakāraḥ, āhārācārapārthivakālakr̥tabhēdāt; ‘sthāvarajaṅgamapārthivakālakr̥tabhēdāccaturvidhaḥ’ iti jējjaṭaḥ; pañjikākārastvidaṁ na manyatē| atrāpi prakōpaśabdaḥ prakōpaprasarasthānasaṁśrayavyaktibhēdēṣu vartatē| praśamaśabdō’tra rōgōpaghātamātrasyōpalakṣaṇaṁ; tēna sādhyānāṁ siddhaḥ, yāpyānāṁ yāpanaṁ, svasthavr̥ttaṁ ca gr̥hyatē||35||

āgantavastu yē rōgāstē dvidhā nipatanti hi |
manasyanyē śarīrē’nyē tēṣāṁ tu dvividhā kriyā ||36||
śarīrapatitānāṁ tu śārīravadupakramaḥ |
mānasānāṁ tu śabdādiriṣṭō vargaḥ sukhāvahaḥ ||37||

idānīmāgantūnāmāśrayabhēdēna cikitsāṁ vaktumāha- āgantavastvityādi| manasyanyē iti ēkē, śarīrē’nyē ityaparē| śarīrapatitānāmāgantūnāṁ khaḍgādyabhighātajānāṁ śārīrāṇāmiva, mānasānāṁ manaḥsambhūtānāṁ śabdādivargaḥ śabdasparśarūparasagandhāḥ; iṣṭa ityabhiprētaścikitsātvēna| sukhāvaha iti sukhakārī| anyē tu caśabdamanuktasamuccayārthamācakṣatē, tēna dhairyasmr̥tiprabhr̥tayō’pi mānasān [32] cikitsituṁ nirdiṣṭāḥ||36-37||

ēvamētat puruṣō vyādhirauṣadhaṁ kriyākāla iti catuṣṭayaṁ samāsēna vyākhyātam |
tatra puruṣagrahaṇāt tatsambhavadravyasamūhō bhūtādiruktastadaṅgapratyaṅgavikalpāśca tvaṅmāṁsāsthisirāsnāyuprabhr̥tayaḥ, vyādhigrahaṇādvātapittakaphaśōṇitasannipātavaiṣamyanimittāḥ sarva ēva vyādhayō vyākhyātāḥ, auṣadhagrahaṇāddravyarasaguṇavīryavipākānāmādēśaḥ, kriyāgrahaṇāt snēhādīni cchēdyādīni ca karmāṇi vyākhyātāni, kālagrahaṇāt sarvakriyākālānāmādēśaḥ ||38||

idānīṁ vyākhyātamarthamupasaṁharannāha- ēvamityādi| ēvamiti anēna prakārēṇa| ētaditi pūrvanirdiṣṭaṁ, catuṣṭayamiti caturavayavaṁ; yadyapyatra puruṣādayaḥ pañca, tathā’pi catuṣṭayaṁ jñēyaṁ; tathāhi- ‘‘nānyaḥ kālaḥ kriyātō’sti kriyā nānyā’thavauṣadhāt| prādhānyāt puruṣasyātra(tha) tatō vyādhicatuṣṭayam|| kriyāviśiṣṭaḥ kālō vā kālō vā taccatuṣṭayam’’- iti; atō na saṅkhyātirēkaḥ| tatra yēna yadupagr̥hītaṁ tatra tadupadarśayitumāha- tatrētyādi| tatrēti tasmin catuṣṭayamadhyē| tatsambhavadravyasamūha iti tasya puruṣasya sambhava utpattistadarthō dravyasamūhaḥ sa tathā| kaḥ punarasāvityāha- bhūtādiriti|- bhūtāni ādīni prathamāni pradhānāni vā yasya sa bhūtādiriti vākyārthaḥ; tēna śukrārtavapañcamahābhūtānīha gr̥hyantē| anyē tvanyathā vyākhyānayanti- tasya puruṣasya sambhavadravyāṇi śukraśōṇitādīni, tēṣāṁ samūhaḥ saṁyōgaviśēṣaḥ, kathambhūtaḥ saḥ? bhūtādiḥ; bhūtaṁ mahābhūtaṁ pr̥thivyādikam, ādirmūlakāraṇaṁ yasya sa tathā; athavā tatsambhavadravyasamūhaḥ śukraśōṇitādisaṁyōgaḥ sa bhūtānāṁ prāṇināmādiḥ mūlakāraṇaṁ, tatra vyaktībhāvāt| bhūtādirityatraikē bhūtānāmādirbhūtādiḥ, avyaktādārabhya yāvat ‘sa ēṣa karmapuruṣaścikitsādhikr̥taḥ’ (śā 1) iti vadanti; tanna, pañjikayā nirastatvāt| tadaṅgapratyaṅgavikalpāścēti aṅgāni mastakādīni, pratyaṅgāni cibukādīni| tvaṅmāṁsasirāsnāyuprabhr̥taya iti tvacaḥ sapta, māṁsaṁ pēśīśatāni pañca, sirāśatāni sapta, snāyuśatāni nava; prabhr̥tigrahaṇāt srōtōdhamanyādayaḥ| sarva ēvēti sarvagrahaṇādāgantumānasasvābhāvikānāṁ grahaṇam| dravyaṁ sthāvarādi, rasā madhurādayaḥ, guṇā gurvādayaḥ, vīryāṇi śītōṣṇādīni, dvau vipākau gurulaghū; auṣadhagrahaṇaṁ kriyāviśēṣaṇam, atō na saṅkhyātirēkaḥ| ayamarthaḥ puruṣādicatuṣṭayaprastāvē vyākhyātaḥ| kriyāgrahaṇāditi kriyākālaśabdōpāttādityarthaḥ [33] | snēhādīnītyādiśabdāt svēdanavamanavirēcanāsthāpanānuvāsanadhūmanasyakavalagrahagaṇḍūṣapācanasaṁśamanādīnāṁ grahaṇaṁ; chēdyādīnītyādiśabdādbhēdyalēkhyaiṣyāhāryavisrāvyasīvyādīnāṁ grahaṇam| kālagrahaṇāditi snēhanasvēdanavamanavirēcanādīnāṁ karmaṇāṁ tathā śastrādikarmaṇāṁ ca vakṣyamāṇasamayanirdēśaḥ| tatra snēhasya ‘prataptacāmīkarapītalōhitē savitari’ (ci. a. 31) iti vacanāt kālanirdēśaḥ, sarvasvēdānāṁ jīrṇānnakālaḥ, vamanasya pūrvāhṇakālaḥ, virēcanasya prātaḥ, prātariti dinasyāditrayō muhūrtāḥ, āsthāpanaṁ tu madhyāhnē tr̥tīyē praharē, anuvāsanaṁ sāyāhnē kvacitpradōṣē’pi, tathā bhuktavantamāturamupavēśyētyādyanusartavyam||38||

bhavati cātra-
bījaṁ cikitsitasyaitatsamāsēna prakīrtitam |
saviṁśamadhyāyaśatamasya vyākhyā bhaviṣyati ||39||

anēna catuṣṭayēna sakalamēva śāstraṁ vyāptamiti nidarśayitumāha- bhavati cātrētyādi| bījamiva bījaṁ, yathaikaṁ bījaṁ bhūmau nikṣiptaṁ mūlakāṇḍaśākhāpatrairdūrataravisāritamupajāyatē, tathēdamapi cikitsitabījaṁ sūtranidānaśārīracikitsākalpasthānādyairvistr̥tamārōgyaphalaṁ bhavatīti| samāsēna saṅkṣēpēṇa| saviṁśamadhyāyaśatamiti viṁśatyadhikamadhyāyaśatamityarthaḥ| saviṁśamiti sahaśabdēna kiṁ prayōjanam? ucyatē, sahaśabdēnātrōttaratantrēṇa [34] saha viṁśatyadhikamiti uttaratantrasahitatvaṁ prakāśyatē| nanu, atra pakṣē bījakathanēnaivādyādhyāyasya gatatvāt kathaṁ viṁśatyadhikamadhyāyaśataṁ pūryatē? naivaṁ, sarvatantrōpalakṣaṇatvāttasyēti nātrōnatvam| anyē tu saśabdamūnārthamācakṣatē, yathā- salavaṇaṁ satiktaṁ sakṣāramiti| kathamatrōnatā? ucyatē, vēdōtpattimadhyāyaṁ vihāya viṁśatyadhikamadhyāyaśataṁ na pūryatē, ēkēnōnatvāt; tasmādūnaviṁśatyadhikamadhyāyaśatamasya vyākhyā bhaviṣyatīti| yadyēvaṁ tarhi uttaratantrasya kathaṁ prāptiḥ? ucyatē, arthavaśāt| nanu, kaḥ punararthō yadvaśāt prāptiḥ? ucyatē [35] – śēṣā arthā uttarē tantrē pratipādanīyā iti| uttaratantraprāptāvanyō yō’rthō’sti sa ca na likhitō granthagauravabhayāt||39||

tacca saviṁśamadhyāyaśataṁ pañcasu sthānēṣu |
tatra sūtranidānaśārīracikitsitakalpēṣvarthavaśāt saṁvibhajyōttarē tantrē śēṣānarthān vakṣyāmaḥ ||40||

tacca saviṁśamityādi| tacca sōttaratantraṁ [36] viṁśatyadhikamadhyāyaśataṁ pañcasu sthānēṣu| nanu kathamētat? uttaratantrasya pañcabhyaḥ sthānēbhyaḥ pr̥thaguktatvāt; naivaṁ, kutaḥ? pañcasvēvēti niyamābhāvāt| ata ēvāgrē vakṣyati- uttarē tantrē śēṣānarthān vakṣyāma iti| śēṣānarthāniti śēṣaśabdēna rasabhēdādayaḥ svasthavr̥ttādayaśca jñēyāḥ||40||

bhavati cātra-
svayambhuvā prōktamidaṁ sanātanaṁ paṭhēddhi yaḥ kāśipatiprakāśitam |
sa puṇyakarmā bhuvi pūjitō nr̥pairasukṣayē śakrasalōkatāṁ vrajēt ||41||

idānīṁ vēdōtpattyadhyāyē nidarśitasya cikitsābījōpadēśanyāyēna śāstrasya pāṭhānuśaṁsāmāha- svayambhuvētyādi| svayambhuvā brahmaṇā, prōktam upadiṣṭam, idamiti śāstraṁ, sanātanaṁ nityaṁ, yaḥ paṭhēt adhīyīta; anyē tu paṭhadhāturatra caturṣvarthēṣu, tathāhi- pāṭhē, arthajñānē, karmadarśanē, abhyāsē ca| hi sphuṭam| kāśipatiprakāśitam ādidēvēna dhanvantariṇā prakāśitam| bhuvi pr̥thivyām| pūjitō nr̥pairiti nr̥paiḥ narēndraiḥ, ētēna aihikaṁ phalaṁ darśayati| asukṣayē prāṇakṣayē| śakrasalōkatām indrasamānalōkatāṁ vrajati, ētēna pāralaukikaṁ śrēyō darśayati| anyē tu ‘śakrasulōkatāṁ vrajēt’ iti paṭhanti; suśabdaḥ pūjāvacanaḥ, tēna śakralōkapūjyatāṁ vrajēt prāpnuyādityarthaḥ| ētēna bhuvi narēndraiḥ svargē ca dēvaiḥ pūjitō bhavēdityarthaḥ||41||

iti suśrutasaṁhitāyāṁ sūtrasthānē vēdōtpattirnāma prathamō’dhyāyaḥ ||1||

iti śrīḍalha(hṇa)ṇaviracitāyānnibandhasaṅgrahākhyāyāṁ suśrutavyākhyāyāṁ sūtrasthānē vēdōtpattirnāma prathamō’dhyāyaḥ||1||

1. ‘sahasrāṁśuṁ’ iti pā.|
2. ‘…candravivēkabr̥haspatiśrīsahapāladēvanr̥pativallabhaḥ’ iti pā.|
3. ‘vēdōtpattināmādhyāyaṁ’ iti, ‘vēdōtpattiṁ nāmādhyāyaṁ’ iti ca pā.|
4. ‘…nantarārdhaḥ’ iti pā.|
5. ‘divaśabdēnātra tatsthadēvāḥ’ iti|
6. ‘dhanuḥ śastraṁ tātparyācchalyaśāstraṁ vā, tasyāntamiyartīti pr̥ṣōdarāditvāt sādhu’ iti hārāṇacandraḥ|
7. hārāṇacandrastu ‘śārīramānasāgantusvābhāvikaiḥ’ iti paṭhati|
8. ‘nāma yadupāṅgaṁ’ iti, ‘āyurvēdamaṣṭāṅgamupāṅgamatharvavēdasya’ iti ca pā.|
9. ‘prastāvāt’ iti pā0|
10. ‘athāsya pratyaṅgalakṣaṇaṁ samāsēnōpadēkṣyāmaḥ’ iti, ‘prētyēkāṅgalakṣaṇasamāsaḥ’ iti, ‘pratyēkamaṅgalakṣaṇasamāsaḥ’ iti ca pā0|
11. ‘pūyāsrāvagarbhaśalyōddharaṇārtha’ iti, ‘pūyāsrāvāntargarbhaśalyōddharaṇārtha’ iti ca pā.|
12. ‘… lūtāvr̥ścika…’ iti pā0
13. ‘viśuṣkaṁ granthībhūtatayā viśēṣēṇa śuṣkamiva, kṣīṇaṁ vyādhyādibhiḥ svamānāddhīnaṁ’ iti hārāṇacandraḥ|
14. ‘svāsthyarakṣaṇaṁ ca’ iti pā. |
15. ‘āgamapratyakṣānumānōpamānaiḥ’ iti pā.|
16. ‘… puruṣaśabdēna cēha sāmānyēna prāṇivācinā’pi prakaraṇānmanuṣyarūpa ēva puruṣa ucyatē| yatō ‘mānavānabhisamīkṣya’ ityādinā tathā ‘tasyōpakaraṇamanyat’ ityādinā narajātirēvātra puruṣō’dhikr̥taḥ| sāmānyaśabdō’pi prakaraṇādviśēṣē vartata ēva| … tasmādēvambhūta ēvātra puruṣa ucyatē, na punaścētanādhātumātrarūpaḥ prāṇimātrarūpō vētyāha- tasmin kriyatē| … kutaḥ punastasminnēva kriyā na punarhastyaśvādāvapi prāṇimātrē ityāśaṅkāyāṁ hētugarbhaṁ viśēṣaṇamāha- sō’dhiṣṭhānamiti| sa ēva narajātiḥ puruṣō yasmādihāyurvēdavidhēyacikitsārūpāyāḥ kriyāyāstathā kriyāphalasyāsyārōgyādēradhiṣṭhānamāśrayō na tu gajādiḥ, tasmāttasminnēva kriyā| atha kathaṁ gajādayō vr̥kṣādayaśca nāsyādhiṣṭhānamityāśaṅkā, tataḥ praśnaḥ- kasmāditi| tadatra pradhānatvēna nara ēvādhikārīti darśayannāha- lōkasya dvaividhyādityādi| lōkadvaividhyēna naravyatiriktasya sthāvarajaṅgamasya yasmānnarōpakaraṇatvaṁ, narastūpakāryaḥ, tasmānnara ēva pradhānatvādadhiṣṭhānamiti prakaraṇārthaḥ| pradhānanaravivēcanārthamuktadvaividhyaṁ vibhajatē- sthāvarō jaṅgamaścēti| … dvividhatāvivaraṇaprastāvāccikitsōpayuktaṁ prakārāntarēṇa dvaividhyamāha- dvividhātmaka ēvāgnēyaḥ saumyaśca| dvividha ātmā agnīṣōmarūpaḥ svabhāvō yasya sa tathā| pr̥thivyādiguṇōtkarṣatayā pañcātmakatvamapi bhavatītyāha- pañcātmakō vēti| … jaṅgamaprabhēdaṁ varṇayituṁ jaṅgamaprakārānāha- tatrētyādi| ēvaṁ prapañcitē lōkē tasya pradhānatvamāha- tatra puruṣaḥ pradhānaṁ tasyōpakaraṇamanyaditi| anyat paśvādi vr̥kṣādi cēha śāstrē narōpakaraṇatayā pratipādanīyaṁ, … api ca nara ēva dharmārthakāmamōkṣasādhakatayā upadēśānuṣṭhānakṣamatayā ca viśēṣēṇōpakāraviṣayamadhikarōti| … sō’dhiṣṭhānamiti pratijñātamardhamitaralōkōpakaraṇīyatayā vyavasthāpitaṁ nigamanēna punardarśayati- “tasmāt puruṣō’dhiṣṭhānamiti” iti bhānumatyāṁ cakraḥ| “atrāyamāśayaḥ- manuṣyādhikārakamidaṁ śāstraṁ, manuṣyalōkē ca caturvidha ēva bhūtagrāmaḥ, tatra ca manuṣyasañjñakaḥ puruṣaḥ pradhānaṁ, tadupapannaṁ tasyādhiṣṭhānatvaṁ, dvividhē tu lōkē ‘buddhimatsu narāḥ śrēṣṭhāḥ’ (ma. 1/16) iti manūktēḥ manuṣyāṇāmēva prādhānyamiti tasyādhiṣṭhānatvēnōktirnāsaṅgatā” iti hārāṇacandraḥ|
17. ‘tadvidhēyatvāt’ iti gaṇanāthasēnasammataḥ pāṭhaḥ|
18. ‘svēdajāṇḍajōdbhijjajarāyujasañjñaḥ’ iti pā.|
19. ‘bhūyāṁsau amunā viśēṣēṇa|’ iti pā.|
20. ‘caturyōninipatitānāṁ’ iti pā.|
21. ‘atra prāgāgantukaraṇaṁ, prāgēvābhighātavyādhērutpannatvāt’ iti pā.
22. ‘pūrvaiḥ’ iti pā.|
23. ‘annapānavaiṣamyaṁ tu’ iti pā.|
24. ‘mr̥tyuśabdēna cēha mr̥tyupratyāsannā marmabhēdādayō gr̥hyantē’ iti cakraḥ|
25. apuṣpā iti puṣpāṇāmatisūkṣmatayā puṣpādhārakarṇikayā ācchāditatvācca adr̥śyapuṣpā ityarthaḥ|
26. ‘vartulalatāsantativiśiṣṭaḥ’ iti pā.|
27. atra pārthivēṣu muktāyāḥ pāṭhō’nārṣaḥ pratibhāti, muktāyāḥ śuktyākhyajalacaraprāṇijanyatvāt|
28. rasāñjanaśabdēnēha tadākhyaṁ dhātudravyamabhiprētaṁ, na tu dārvīkvāthōdbhavam|
29. ‘kālaviśēṣāḥ’ iti pā.|
30. ‘cayē kōpē śamē caiva’ iti pā.|
31. ‘gadyōktō yaḥ punaḥ ślōkairarthaḥ samanugīyatē| tadvyaktivyavasāyārthaṁ dviruktaṁ tanna garhyatē||’ ca. ni. 1|
32. ‘mānasānāṁ cikitsitatvēna’ iti pā. |
33. ‘auṣadhaviśēṣādityarthaḥ’ iti pā.|
34. ‘sahaśabdēnātrōttaratantrasahitatvaṁ prakāśyatē’ iti pā.|
35. ‘prāptirityāha’ iti pā.|
36. ‘sōttaratantraṁ’ iti kēṣucitpustakēṣu na paṭhyatē|

Scroll to Top