Table of Contents
Devanagari Version
काशिराजधन्वन्तरिणोपदिष्टा तच्छिष्यसुश्रुतेन विरचिता
सुश्रुतसंहिता
श्रीडल्हणाचार्यविरचितया निबन्धसङ्ग्रहाख्यव्याख्यया निदानस्थानस्य श्रीगयदासाचार्यविरचितया न्यायचन्द्रिकाख्यपञ्जिकाव्याख्यया च समुल्लसिता
सूत्रस्थानम् - २२. व्रणास्रावविज्ञानीयाध्यायः
Only Moolashloka
अथातो व्रणास्रावविज्ञानीयमध्यायं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
आदिशब्दः प्रतिज्ञायां लुप्तनिर्दिष्टो द्रष्टव्यः| तेन व्रणास्रावादिविज्ञानीयमित्यर्थः| एतेन वेदनादयोऽपि सङ्गृहीता||१-२||
त्वङ्मांससिरास्नाय्वस्थिसन्धिकोष्ठमर्माणीत्यष्टौ व्रणवस्तूनि [१] |
अत्र सर्वव्रणसन्निवेशः [२] ||३||
त्वगित्यादि| व्रणवस्तूनि व्रणाधिष्ठानानि| अत्र एष्वित्यर्थः| व्रणसन्निवेशो व्रणावस्थानम्||३||
तत्र, आद्यैकवस्तुसन्निवेशी [३] त्वग्भेदी व्रणः सूपचरः, शेषाः स्वयमवदीर्यमाणा दुरुपचाराः ||४||
तेषां मध्ये एकस्मिन्नेव वस्तुनि व्रणस्य सुखोपचर्यत्वं दर्शयन्नाह- तत्रेत्यादि| आद्यैकवस्तुसन्निवेशीति त्वक्सन्निवेशीत्यर्थः| त्वग्भेदीति पुनर्नियमार्थम्; एतेन त्वगाश्रितमांसभेदी न सूपचरः| अन्ये तु ‘आद्यैकवस्तुसन्निवेशी त्वग्भेदी च’ इत्यनयोः पदयोर्मध्ये एकतरपदेनैव त्वग्वस्तु प्राप्यते किं पदद्वयेनेति यत् पदद्वयं तद्ग्रन्थाधिक्यादर्थाधिक्यं बोधयति, तेन विकृताकृतयोऽपि त्वग्भेदिनो व्रणाः सूपचरा इत्यधिकोऽर्थ उक्तो भवति’ इति मन्यन्ते| अपरवस्तुसन्निवेशिनः किंविशिष्टा इत्याह- शेषा इत्यादि| शेषा इति मांसाद्यधिष्ठानाः| स्वयमवदीर्यमाणा इति आलेपस्रावणादिभिर्विना स्वयमेव पक्वाः पश्चाद्भिन्ना इत्यर्थः||४||
तत्रायतश्चतुरस्रो वृत्तस्त्रिपुटक इति व्रणाकृतिसमासः, शेषास्तु विकृताकृतयो दुरुपक्रमा भवन्ति ||५||
यथा स्रावज्ञानं चिकित्साहेतुस्तथा व्रणाकृतिरपीति तां दर्शयन्नाह- तत्रायत इत्यादि| आयतो दीर्घः, चतुरस्रश्चतुष्कोणः, वृत्तो वर्तुलः, त्रिपुटकस्त्रिकोणः, इतिशब्द उपसंहारे दोषजव्रणाकृतीनां; समासः सङ्क्षेपः| शेषा इति उक्तेभ्योऽन्ये अर्धचन्द्रस्वस्तिकाद्या व्रणाकृतयो विकृता इत्यर्थः||५||
सर्व एव व्रणाः क्षिप्रं संरोहन्त्यात्मवतां सुभिषग्भिश्चोपक्रान्ताः; अनात्मवतामज्ञैश्चोपक्रान्ताः प्रदुष्यन्ति, प्रवृद्धत्वाद्दोषाणाम् ||६||
व्रणिनामात्मवतां भिषजां गुणसम्पदोऽपि चिकित्साहेतव इति दर्शयन्नाह- सर्व इत्यादि| आत्मवतां पथ्याहारविहारसेविनाम्| अनात्मवतामिति अहिताहारविहारसेविनाम्| अज्ञैश्चोपक्रान्ता इति चकारेणात्मवतां सुभिषग्भिरुपक्रान्तानामपि कुष्ठिप्रमेहिणां तथा कदाचिच्छुक्रप्रवृत्तिमात्रादेव व्रणदुष्टिरनुक्ता समुच्चीयते| कुतः पुनरनात्मवतामज्ञभिषगुपक्रान्तानां व्रणानां दुष्टिरित्याह- प्रवृद्धत्वाद्दोषाणामिति| अन्ये त्वेवं योजयन्ति- ‘न केवलमज्ञैरुपक्रान्ता एव प्रदुष्यन्ति, अपि तु प्रवृद्धत्वाच्च दोषाणाम्’ इति||६||
तत्रातिसंवृतोऽतिविवृतोऽतिकठिनोऽतिमृदुरुत्सन्नोऽवसन्नोऽतिशीतोऽत्युष्णः [४]
नगन्धात्यर्थदाहपाकरागवेदनावानिति पित्तेन, शेषाः कफेन; उन्मार्गी मुखात् मुखान्तरवान्, उत्सङ्गः कोटरः’ इति चक्रः; कृष्णरक्तपीतशुक्लादीनां वर्णानामन्यतमवर्णो भैरवः पूतिपूयमांससिरास्नायुप्रभृतिभिः पूर्णः पूतिपूयास्राव्युन्मार्ग्युत्सङ्ग्यमनोज्ञदर्शनगन्धोऽत्यर्थं वेदनावान् दाहपाकरागकण्डूशोफपिडकोपद्रुतोऽत्यर्थं दुष्टशोणितास्रावी दीर्घकालानुबन्धी चेति दुष्टव्रणलिङ्गानि |
तस्य दोषोच्छ्रायेण षट्त्वं विभज्य [५] यथास्वं प्रतीकारे प्रयतेत ||७||
प्रायेण दुष्टेष्वेव व्रणेषु स्रावा भवन्ति, अतस्तेषां दुष्टव्रणानां लक्षणमाह- तत्रातिसंवृत इत्यादि| अतिसंवृतः अतिसङ्कुचितो वातेन| अतिविवृतो व्यात्तमुखः पित्तशोणितेन| काठिन्यं वातेन| अतिमार्दवं कफेन; अन्ये पित्तशोणितेन मार्दवमिच्छन्ति| उत्सन्न उन्नतमांसः, अवसन्नो हीनमांसो निम्नाकारः, एतौ रक्तपित्तेन; अन्ये वातेनोत्सन्नावसन्नत्वमिच्छन्ति; ‘अत्रोत्सन्नत्वं कफेन’ इति केचित्| अतिशैत्यं कफवातात्| अत्यौष्ण्यं रक्तपित्तात्| कृष्णादयो वर्णा यथासम्भवं वातादिभिर्ज्ञेयाः| भैरवः अनवधारितलिङ्गः| पूतिपूयमांससिरास्नायुप्रभृतिभिः पूर्ण इति पूतिशब्दः प्रत्येकं पूयादिभिरभिसम्बध्यते| ‘पूतिमांससिरास्नायुप्रतिपूर्ण’ इत्येके पठन्ति; पूतिमांससिरास्नायुप्रतिपूर्णत्वं तस्रावित्वं च यथासम्भवं वेदितव्यम्| उन्मार्गी तिर्यग्गतिः| उत्सङ्गी ऊर्ध्वगतिः; अन्ये पूयोपेक्षावदारितमांसादिदेशत्वेनातिनिम्नत्वादुत्सङ्गतुल्यत्वादुत्सङ्गः, सोऽस्यास्तीति उत्सङ्गी उन्मार्गी; उत्सङ्गीति कफेन| अमनोज्ञदर्शनगन्ध इति अमनोज्ञदर्शनोऽमनोज्ञगन्धश्चेत्यर्थः अमनोज्ञदर्शनगन्धत्वं रक्तपित्तेन, अन्ये दोषत्रयेण मन्यन्ते| अत्यर्थं वेदनावानिति वातेन| दाहपाकरागकण्डूशोफेत्यादि, अत्र दाहादिभिः सहोपद्रुतशब्दः प्रत्येकं सम्बध्यते; अत्र दाहपाकरागोपद्रुतत्वं पित्तरक्तेन, कण्डूपद्रुतत्वं कफेन, शोफोपद्रुतत्वं वातेन, पिडकोपद्रुतत्वं दुष्टशोणितास्रावश्च रक्तपित्तेन, दीर्घकालानुबन्धित्वं दोषत्रयेण| दीर्घकालानुबन्धी चेति चकारेण रोप्यादयो दुष्टव्रणविशेषा [६] गृह्यन्ते| रोप्यलक्षणं तु “बहिःशुद्ध इवाभाति स व्रणो रोप्य उच्यते” ( च. चि. अ. २५)- इति चरकेणोक्तम्| व्रणदुष्टौ चिकित्सासूत्रं दर्शयन्नाह- तस्येत्यादि| तस्य व्रणस्य उच्छ्रायेण औत्कट्येन षट्त्वं वातपित्तकफरक्तसन्निपातागन्तुभेदतः| यथास्वं स्वस्य दोषस्यानतिक्रमेण| प्रतीकारे चिकित्सिते, प्रयतेत प्रयत्नं कुर्वीत| अन्ये त्वत्र ‘दोषोच्छ्रायमवेक्ष्य’ इति पठन्ति||७||
अत ऊर्ध्वं सर्वस्रावान् वक्ष्यामः- तत्र घृष्टासु छिन्नासु वा त्वक्षु स्फोटे भिन्ने विदारिते वा सलिलप्रकाशो भवत्यास्रावः किञ्चिद्विस्रः पीतावभासश्च; मांसगतः सर्पिःप्रकाशः सान्द्रः श्वेतः पिच्छिलश्च; सिरागतः सद्यश्छिन्नासु सिरासु रक्तातिप्रवृत्तिः पक्वासु च तोयनाडीभिरिव तोयागमनं पूयस्य, आस्रावश्चात्र तनुर्विच्छिन्नः पिच्छिलोऽवलम्बी श्यावोऽवश्यायप्रतिमश्च; स्नायुगतः स्निग्धो घनः सिङ्घाणकप्रतिमः सरक्तश्च; अस्थिगतोऽस्थन्यभिहते स्फुटिते भिन्ने दोषावदारिते वा दोषभक्षितत्वादस्थि निःसारं शुक्तिधौतमिवाभाति [७] , आस्रावश्चात्र मज्जमिश्रः सरुधिरः स्निग्धश्च; सन्धिगतः पीड्यमानो न प्रवर्तते, आकुञ्चनप्रसारणोन्नमनविनमनप्रधावनोत्कासनप्रवाहणैश्च स्रवति, आस्रावश्चात्र पिच्छिलोऽवलम्बी सरुधिरोन्मथितश्च [८] ; कोष्ठगतोऽसृङ्मूत्रपुरीषपूयोदकानि [९] स्रवति; मर्मगतस्त्वगादिष्ववरुद्धत्वान्नोच्यते |
तत्र त्वगादिगतानामास्रावाणां यथाक्रमं [१०] पारुष्यश्यावावश्यायदधिमस्तुक्षारोदकमांसधावनपुलाकोदकसन्निभत्वानि मारुताद्भवन्ति; पित्ताद्गोमेदकगोमूत्रभस्मशङ्खकषायोदकमाध्वीकतैलसन्निभत्वानि; पित्तवद्रक्तादतिविस्रत्वं च; कफान्नवनीतकासीसमज्जपिष्टतिलनालिकेरोदकवराहवसासन्निभत्वानि; सन्निपातान्नालिकेरोदकैर्वारुकरसकाञ्जिकप्रसादारुकोदकप्रियङ्गुफलयकृन्मुद्गयूषसवर्णत्वानीति ||८||
अत्र व्रणदुष्टिरसूत्रिताऽप्युक्ता, तां निर्दिश्य व्रणास्रावान्निर्दिशन्नाह- अत ऊर्ध्वमित्यादि| सर्वस्रावानिति सर्वव्रणवस्तूनां सर्वदोषाणामागन्तोश्च व्रणस्य स्रावानित्यर्थः| घृष्टासु छिन्नास्वित्यागन्तोः, त्वक्ष्विति सम्बन्धः; बहुवचनं तु सप्तत्वगपेक्षया| अत्र त्वग्ग्रहणाल्लक्षणया रसाधिष्ठानो व्रण उक्तः| स्फोटे इति त्वक्स्थिते व्रणे, भिन्ने स्वयं भिन्ने, विदारिते यत्नेन विदारिते इत्यर्थः; अत्र भिन्ने विदारिते इति शारीरव्रणस्य| सलिलप्रकाश इति उदकरसयोरच्छयोस्त्वचामधिष्ठानत्वात्| विस्र आमगन्धिः, पीतावभासः पाकारम्भकेण पित्तेनेत्यर्थः| मांसगत इति मांसगत आस्राव इत्यर्थः| सर्पिःप्रकाशस्त्रावत्वमागन्तोः| सान्द्रश्वेतपिच्छिलत्वं शारीरस्य| सिरागत इत्यादि सिराग्रहणेन रक्ताधिष्ठानो व्रण उक्तः; सद्यश्छिन्नास्वित्यागन्तोः; पक्वास्वित्यादि शारीरस्य| विच्छिन्न इति अल्पाल्पप्रवर्तनम्| अवलम्बी अवलम्बनशीलः| स्नायुगत इत्यादि स्नायुग्रहणेन मेदोऽधिष्ठानो व्रण उक्तः, अन्ये तु ‘मेदोमज्जानौ घृतवद्विलीयेते,अतो व्रणाधिष्ठानत्वं नैव तयोः’ इति वदन्ति| सिङ्घाणको रक्तमिश्रो घनीभूतः श्लेष्मा| अस्थिगत इत्यादि| अभिहते इति अभिघातजे व्रणे, भिन्ने विदारिते चेति शारीरे| अस्थि निःसारं कोऽर्थः? लघु; ‘भवति’ इत्यध्याहारः| शुक्तिधौतमिवाभाति शुक्तिरिव शोभते तथा धौतमिव शोभतेऽस्थीति सम्बध्यते| सन्धिगत इत्यादि| उन्नमनमिति बाहुजङ्घादीनामूर्ध्वं नयनम्| विनमनं गात्राणामधःप्रापणम्| प्रवाहणमिति कुन्थनम्| सरुधिरोन्मथितश्चेति रुधिरेणैवोन्मथितश्च| कोष्ठगत इत्यादि कोष्ठगत इति मलधातुसमुदायाधिष्ठानो व्रण उक्तः| उदकमत्र रसक्लेद एव गृह्यते पीतं वा| मर्मगत इत्यादि| अवरुद्ध इति सङ्गृहीत इत्यर्थः| दोषास्रावान्निर्दिशन्नाह-तत्र त्वगादिगतानामित्यादि| तत्र मर्मवर्जितेषु सप्तसु त्वगादिव्रणवस्तुषु वातपित्तकफसन्निपातानां सप्त सप्त स्रावा यथाक्रमेण द्रष्टव्या इत्येके; अन्ये तु त्वगादिषु वातादिलिङ्गानां मध्ये किञ्चित् क्वचिदिति वर्णयन्ति| पित्ताद्गोमेदेत्यादि|- गोमेदक इति मणिरापीतः| एर्वारुकरसः कर्कटिकारसः; काञ्जिकप्रसाद इति काञ्जिकस्योपर्यच्छः; आरुकमनेनैव नाम्ना प्रसिद्धम्||८||
श्लोकौ चात्र भवतः-
पक्वाशयादसाध्यस्तु पुलाकोदकसन्निभः |
क्षारोदकनिभः स्रावो वर्ज्यो रक्ताशयात्स्रवन् ||९||
आमाशयात् कलायाम्भोनिभश्च त्रिकसन्धिजः [११] |
स्रावानेतान् परीक्ष्यादौ ततः कर्माचरेद्भिषक् ||१०||
स्थानभेदात् स्रावस्यासाध्यत्वख्यापनाय श्लोकौ प्राह- पक्वाशयादित्यादि| पुलाकोदकं गवेधुकोदकं, गवेधुकस्तृणविशेषः, ‘जलगोधूम’ इति लोके; अन्ये तु पुलाकशब्देनाप्राप्तपाकं धान्यमाहुः| आमाशयादित्यादि| कलायोऽत्र त्रिपुटकः| त्रिकसन्धिज इति बाहुग्रीवास्थित्रयसङ्घातोऽत्र त्रिकं, तस्य सन्धौ जात इति||९-१०||
अत ऊर्ध्वं सर्वव्रणवेदना वक्ष्यामः- तोदनभेदनताडनच्छेदनायामनमन्थनविक्षेपणचुमुचुमायननिर्दहनावभञ्जनस्फोटन विदारणोत्पाटनकम्पनविविधशूलविश्लेषणविकिरणस्तम्भनपूरणस्वप्नाकुञ्जनाङ्कु शिकाः सम्भवन्ति, अनिमित्तविविधवेदनाप्रादुर्भावो वा मुहुर्मुहुर्यत्रागच्छन्ति वेदनाविशेषास्तं वातिकमिति विद्यात्; ओषचोषपरिदाहधूमायनानि यत्र गात्रमङ्गारावकीर्णमिव पच्यते यत्र चोष्माभिवृद्धिः क्षते क्षारावसिक्तवच्च वेदनाविशेषास्तं पैत्तिकमिति विद्यात्; पित्तवद्रक्तसमुत्थं जानीयात्; कण्डूर्गुरुत्वं सुप्तत्वमुपदेहोऽल्पवेदनत्वं स्तम्भः शैत्यं च यत्र तं श्लैष्मिकमिति विद्यात्; यत्र सर्वासां वेदनानामुत्पत्तिस्तं सान्निपातिकमिति विद्यात् ||११||
स्रावानन्तरं वातादिवेदना निर्दिशन्नाह- अत ऊर्ध्वमित्यादि| तोदनं सूचिभिरिव; भेदनं त्वग्विदारणमिव वेदनाविशेषः; ताडनं दण्डादिभिराहन्यत इवेत्यर्थः; छेदनं द्विधा क्रियत इव शस्त्रादिभिः; आयामनं सङ्कुचिताङ्गदेशस्य दीर्घीकरणमिव; मन्थनं मन्थनकादिभिर्व्रणान्तर्मथ्यत इव; विक्षेपणं प्रेर्यत इव; चुमुचुमायनं सर्षपराजिकाकल्कलिप्त इव; निर्दहनं निःशेषं वह्निना दह्यत इव; अवभञ्जनं सञ्चूर्ण्यत इव; स्फोटनं पाषाणादिभिरिव; विदारणं नखादिभिश्चीर्यत इव; उत्पाटनम् ऊर्ध्वमाकृष्यत इव; कम्पनं वेप्यत [१२] इव; विविधशूलविश्लेषणं नानाप्रकारार्तिशूलाहतगात्रस्येव वेदनाविशेषः; विकिरणं व्रणावयवा नानास्थानेषु विकीर्यन्त इवेति; स्तम्भनं स्तब्धता; पूरणं भरणं; स्वपनं प्रसुप्तिः; आकुञ्चनं कुटिलीकरणमिव; अङ्कुशिका खल्लीविशेषः, अन्ये ‘अङ्कुशनिपाताकर्षणमिवाङ्कुशिका’ इत्याचक्षते| ओषचोषपरिदाहेत्यादि|- ओष एकदेशिको दाहः; चोष आचूषणसमत्वादित्येके, पिपासेत्यन्ये; परि समन्ततो दाहः परिदाहः; धूमायनं धूमोद्वमनमिवाङ्गानाम्| कण्डुर्गुरुत्वमित्यादि|-सुप्तत्वं नखमक्षिकामशकादिदंशवेदनानभिज्ञत्वम्; उपदेहो लिप्तमिवेति||११||
अत ऊर्ध्वं व्रणवर्णान् वक्ष्यामः- भस्मकपोतास्थिवर्णः परुषोऽरुणः कृष्ण इति मारुतजस्यः नीलः पीतो हरितः श्यावः कृष्णो रक्तः पिङ्गलः कपिल इति रक्तपित्तसमुत्थयोः; श्वेतः स्निग्धः पाण्डुरिति श्लेष्मजस्य; सर्ववर्णोपेतः सान्निपातिक इति ||१२||
वेदनाः प्रतिपाद्य व्रणवर्णान्निर्दिशन्नाह- अत ऊर्ध्वमित्यादि| दोषदूष्यसंयोगराशेरन्यत्वान्मारुतजेऽपि व्रणे वर्णसद्भावः||१२||
भवति चात्र-
न केवलं व्रणेषूक्तो वेदनावर्णसङ्ग्रहः |
सर्वशोफविकारेषु व्रणवल्लक्षयेद्भिषक् ||१३||
सामान्यव्रणनिर्दिष्टान् दोषदुष्टिस्राववेदनावर्णान् शोफविशेषेष्वपि
विद्रध्यलजीग्रन्थ्यादिषु निर्दिशन्नाह- न केवलं व्रणेषूक्त इत्यादि| शोथविकारेष्विति शोथारब्धविकारेषु विद्रध्यादिष्विति||१३||
इति सुश्रुतसंहितायां सूत्रस्थाने व्रणास्रावविज्ञानीयो नाम द्वाविंशतितमोऽध्यायः ||२२||
इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायां सूत्रस्थाने द्वाविंशतितमोऽध्यायः||२२||
१. ‘व्रणवस्तूनि व्रणोपादानभूतानि द्रव्याणि’ इति हाराणचन्द्रः|
२. ‘यदपि रक्तमेदोमज्जादि व्रणेऽवदृश्यते, तदपि सिरास्नय्वाश्रयत्वेनैव व्रणे भवति, न तु तदधिकरक्ताद्याश्रयत्वेनेत्येके| अन्ये तु सिरया रूधिरं, स्नायुसंबन्धेन भेदः, अस्थ्ना च तात्स्थ्यान्मज्जा गृह्यते’ इति वदन्ति’ इति चक्रः|
३. ‘आद्यत्वेन त्वचि लब्धायामेकग्रहणं मांसादिगतव्रणानामपि पाककाले त्वग्विदरणेनाद्यत्वगाश्रयत्वस्य लब्धस्य निरासार्थम्| त्वचमेवैकां भेत्तुं शीलमस्येति त्वग्भेदी| एतच्च त्वगाद्याश्रयत्वं वैशैषिकदुष्ट्या ज्ञेयम्| तेन सर्वत्रैव ‘पचत्यतः शोणितमेष पाकः’ इत्येनेन रक्तपाकाभिधानं सर्वगामितया रक्तस्य युक्तम्’ इति चक्रः|
४. ‘अत्रातिसंवृतातिकठिनातिमात्रावसन्नात्यर्थवेदनावानिति वातेन, अतिविवृतात्युष्णरक्तपूतिमांससिरास्नायुप्रतिपूर्णपूतिपूयास्राव्यमनोज्ञदर्श
५. ‘तस्य दोषोच्छ्रायमवेक्ष्य’ इति ताडपत्रपुस्तके पाठः|
६. ‘श्वेतोऽवसन्नवर्त्माऽतिस्थूलवर्त्माऽतिपिञ्जरः| नीलः श्यावोऽतिपिडको रक्तः कृष्णोऽतिपूतिकः || रोप्यः कुम्भीमुखश्चेति प्रदुष्टाद्वादश स्मृताः’ इति चरकः (चि. अ. २५)|
७. ‘अस्थिगते शुक्तिधौतत्वं तथाऽस्थिसारस्त्रवणं च दोषकृतं, शेषस्तु स्त्रावः साधारणः| शुक्तिधौतमिति मयूरव्यंसकादिपाठात् पूर्वनिपातो व्यत्ययेन, धौतशुक्तिवदित्यर्थः’ इति चक्रः|
८. ‘सफेनपूयरुधिरोन्मिश्रश्च’ इति पा.|
९. कोष्ठगतस्तु यथाप्रत्यासत्ति पुरीषादि स्रवति| तत्र रक्तस्रुतिः कोष्ठाश्रयप्लीहाधिष्ठानतया, उदकस्रावस्तु पानीयस्य सरणात्मकस्य प्रभावात्’ इति चक्रः|
१०. ‘यथा क्रममिति यथासंख्यम्| अत्र मर्मवर्जितेषु त्वगादिषु सप्तसु यथाक्रमं वातपित्तकफशोणितसन्निपातानां सप्त सप्तास्रावा यथोक्ता भवन्ति| शोणिते तु यद्विस्रत्वमधिकमुक्तं तत् सर्वत्वगाद्याश्रयानुगामि| अन्ये तु यथासंख्यमत्र नेच्छन्ति| सन्निपातेनेह ये नारिकेलादिवर्णा उक्तास्ते विकृतिविषमसमवायकृता ज्ञेयाः| अन्यथा हि वातादिकृतवर्णमेलकेनैव सन्निपातवर्णोऽप्युक्तः स्यात्’ इति चक्रः|
११. ‘रक्ताशयात् यकृत्प्लीहारूपात्| कलायाम्भोनिभश्च स्रावस्त्रिकसन्धिजः कोष्ठमार्गेण सरन्नसाध्यः | यदुक्तं भोजे-“पुलाकोदकवर्णस्तु यदा कोष्ठात् प्रवर्तते| पक्वाशयात् स्त्रवत्येवं तं भिषक परिवजयेत्|| क्षारोदकनिभः स्त्रावो यदा कोष्ठात् प्रवर्तते| रक्ताशयात् स्त्रवत्येवं तं भिषक् परिवर्जयेत्|| त्रिकसन्धेस्तु विवरात् कलायोदकसन्निभः| कोष्ठं भित्त्वा विनिर्याति तं भिषक् परिवर्जयेत्’ इति चक्रः|
१२. ‘चाल्यत इव’ इति पा.|
Moolashloka with Dalhana & Gayadas Commentary

Pathantara/Pathabheda

Diacritic Version
kāśirājadhanvantariṇōpadiṣṭā tacchiṣyasuśrutēna viracitā
Suśrutasaṁhitā
śrīḍalhaṇācāryaviracitayā nibandhasaṅgrahākhyavyākhyayā nidānasthānasya śrīgayadāsācāryaviracitayā nyāyacandrikākhyapañjikāvyākhyayā ca samullasitā
sūtrasthānam - 22. vraṇāsrāvavijñānīyādhyāyaḥ
athātō vraṇāsrāvavijñānīyamadhyāyaṁ vyākhyāsyāmaḥ ||1||
yathōvāca bhagavān dhanvantariḥ ||2||
ādiśabdaḥ pratijñāyāṁ luptanirdiṣṭō draṣṭavyaḥ| tēna vraṇāsrāvādivijñānīyamityarthaḥ| ētēna vēdanādayō’pi saṅgr̥hītā||1-2||
tvaṅmāṁsasirāsnāyvasthisandhikōṣṭhamarmāṇītyaṣṭau vraṇavastūni [1] |
atra sarvavraṇasannivēśaḥ [2] ||3||
tvagityādi| vraṇavastūni vraṇādhiṣṭhānāni| atra ēṣvityarthaḥ| vraṇasannivēśō vraṇāvasthānam||3||
tatra, ādyaikavastusannivēśī [3] tvagbhēdī vraṇaḥ sūpacaraḥ, śēṣāḥ svayamavadīryamāṇā durupacārāḥ ||4||
tēṣāṁ madhyē ēkasminnēva vastuni vraṇasya sukhōpacaryatvaṁ darśayannāha- tatrētyādi| ādyaikavastusannivēśīti tvaksannivēśītyarthaḥ| tvagbhēdīti punarniyamārtham; ētēna tvagāśritamāṁsabhēdī na sūpacaraḥ| anyē tu ‘ādyaikavastusannivēśī tvagbhēdī ca’ ityanayōḥ padayōrmadhyē ēkatarapadēnaiva tvagvastu prāpyatē kiṁ padadvayēnēti yat padadvayaṁ tadgranthādhikyādarthādhikyaṁ bōdhayati, tēna vikr̥tākr̥tayō’pi tvagbhēdinō vraṇāḥ sūpacarā ityadhikō’rtha uktō bhavati’ iti manyantē| aparavastusannivēśinaḥ kiṁviśiṣṭā ityāha- śēṣā ityādi| śēṣā iti māṁsādyadhiṣṭhānāḥ| svayamavadīryamāṇā iti ālēpasrāvaṇādibhirvinā svayamēva pakvāḥ paścādbhinnā ityarthaḥ||4||
tatrāyataścaturasrō vr̥ttastripuṭaka iti vraṇākr̥tisamāsaḥ, śēṣāstu vikr̥tākr̥tayō durupakramā bhavanti ||5||
yathā srāvajñānaṁ cikitsāhētustathā vraṇākr̥tirapīti tāṁ darśayannāha- tatrāyata ityādi| āyatō dīrghaḥ, caturasraścatuṣkōṇaḥ, vr̥ttō vartulaḥ, tripuṭakastrikōṇaḥ, itiśabda upasaṁhārē dōṣajavraṇākr̥tīnāṁ; samāsaḥ saṅkṣēpaḥ| śēṣā iti uktēbhyō’nyē ardhacandrasvastikādyā vraṇākr̥tayō vikr̥tā ityarthaḥ||5||
sarva ēva vraṇāḥ kṣipraṁ saṁrōhantyātmavatāṁ subhiṣagbhiścōpakrāntāḥ; anātmavatāmajñaiścōpakrāntāḥ praduṣyanti, pravr̥ddhatvāddōṣāṇām ||6||
vraṇināmātmavatāṁ bhiṣajāṁ guṇasampadō’pi cikitsāhētava iti darśayannāha- sarva ityādi| ātmavatāṁ pathyāhāravihārasēvinām| anātmavatāmiti ahitāhāravihārasēvinām| ajñaiścōpakrāntā iti cakārēṇātmavatāṁ subhiṣagbhirupakrāntānāmapi kuṣṭhipramēhiṇāṁ tathā kadācicchukrapravr̥ttimātrādēva vraṇaduṣṭiranuktā samuccīyatē| kutaḥ punaranātmavatāmajñabhiṣagupakrāntānāṁ vraṇānāṁ duṣṭirityāha- pravr̥ddhatvāddōṣāṇāmiti| anyē tvēvaṁ yōjayanti- ‘na kēvalamajñairupakrāntā ēva praduṣyanti, api tu pravr̥ddhatvācca dōṣāṇām’ iti||6||
tatrātisaṁvr̥tō’tivivr̥tō’tikaṭhinō’timr̥durutsannō’vasannō’tiśītō’tyuṣṇaḥ [4]
nagandhātyarthadāhapākarāgavēdanāvāniti pittēna, śēṣāḥ kaphēna; unmārgī mukhāt mukhāntaravān, utsaṅgaḥ kōṭaraḥ’ iti cakraḥ; kr̥ṣṇaraktapītaśuklādīnāṁ varṇānāmanyatamavarṇō bhairavaḥ pūtipūyamāṁsasirāsnāyuprabhr̥tibhiḥ pūrṇaḥ pūtipūyāsrāvyunmārgyutsaṅgyamanōjñadarśanagandhō’tyarthaṁ vēdanāvān dāhapākarāgakaṇḍūśōphapiḍakōpadrutō’tyarthaṁ duṣṭaśōṇitāsrāvī dīrghakālānubandhī cēti duṣṭavraṇaliṅgāni |
tasya dōṣōcchrāyēṇa ṣaṭtvaṁ vibhajya [5] yathāsvaṁ pratīkārē prayatēta ||7||
prāyēṇa duṣṭēṣvēva vraṇēṣu srāvā bhavanti, atastēṣāṁ duṣṭavraṇānāṁ lakṣaṇamāha- tatrātisaṁvr̥ta ityādi| atisaṁvr̥taḥ atisaṅkucitō vātēna| ativivr̥tō vyāttamukhaḥ pittaśōṇitēna| kāṭhinyaṁ vātēna| atimārdavaṁ kaphēna; anyē pittaśōṇitēna mārdavamicchanti| utsanna unnatamāṁsaḥ, avasannō hīnamāṁsō nimnākāraḥ, ētau raktapittēna; anyē vātēnōtsannāvasannatvamicchanti; ‘atrōtsannatvaṁ kaphēna’ iti kēcit| atiśaityaṁ kaphavātāt| atyauṣṇyaṁ raktapittāt| kr̥ṣṇādayō varṇā yathāsambhavaṁ vātādibhirjñēyāḥ| bhairavaḥ anavadhāritaliṅgaḥ| pūtipūyamāṁsasirāsnāyuprabhr̥tibhiḥ pūrṇa iti pūtiśabdaḥ pratyēkaṁ pūyādibhirabhisambadhyatē| ‘pūtimāṁsasirāsnāyupratipūrṇa’ ityēkē paṭhanti; pūtimāṁsasirāsnāyupratipūrṇatvaṁ tasrāvitvaṁ ca yathāsambhavaṁ vēditavyam| unmārgī tiryaggatiḥ| utsaṅgī ūrdhvagatiḥ; anyē pūyōpēkṣāvadāritamāṁsādidēśatvēnātinimnatvādutsaṅgatulyatvādutsaṅgaḥ, sō’syāstīti utsaṅgī unmārgī; utsaṅgīti kaphēna| amanōjñadarśanagandha iti amanōjñadarśanō’manōjñagandhaścētyarthaḥ amanōjñadarśanagandhatvaṁ raktapittēna, anyē dōṣatrayēṇa manyantē| atyarthaṁ vēdanāvāniti vātēna| dāhapākarāgakaṇḍūśōphētyādi, atra dāhādibhiḥ sahōpadrutaśabdaḥ pratyēkaṁ sambadhyatē; atra dāhapākarāgōpadrutatvaṁ pittaraktēna, kaṇḍūpadrutatvaṁ kaphēna, śōphōpadrutatvaṁ vātēna, piḍakōpadrutatvaṁ duṣṭaśōṇitāsrāvaśca raktapittēna, dīrghakālānubandhitvaṁ dōṣatrayēṇa| dīrghakālānubandhī cēti cakārēṇa rōpyādayō duṣṭavraṇaviśēṣā [6] gr̥hyantē| rōpyalakṣaṇaṁ tu “bahiḥśuddha ivābhāti sa vraṇō rōpya ucyatē” ( ca. ci. a. 25)- iti carakēṇōktam| vraṇaduṣṭau cikitsāsūtraṁ darśayannāha- tasyētyādi| tasya vraṇasya ucchrāyēṇa autkaṭyēna ṣaṭtvaṁ vātapittakapharaktasannipātāgantubhēdataḥ| yathāsvaṁ svasya dōṣasyānatikramēṇa| pratīkārē cikitsitē, prayatēta prayatnaṁ kurvīta| anyē tvatra ‘dōṣōcchrāyamavēkṣya’ iti paṭhanti||7||
ata ūrdhvaṁ sarvasrāvān vakṣyāmaḥ- tatra ghr̥ṣṭāsu chinnāsu vā tvakṣu sphōṭē bhinnē vidāritē vā salilaprakāśō bhavatyāsrāvaḥ kiñcidvisraḥ pītāvabhāsaśca; māṁsagataḥ sarpiḥprakāśaḥ sāndraḥ śvētaḥ picchilaśca; sirāgataḥ sadyaśchinnāsu sirāsu raktātipravr̥ttiḥ pakvāsu ca tōyanāḍībhiriva tōyāgamanaṁ pūyasya, āsrāvaścātra tanurvicchinnaḥ picchilō’valambī śyāvō’vaśyāyapratimaśca; snāyugataḥ snigdhō ghanaḥ siṅghāṇakapratimaḥ saraktaśca; asthigatō’sthanyabhihatē sphuṭitē bhinnē dōṣāvadāritē vā dōṣabhakṣitatvādasthi niḥsāraṁ śuktidhautamivābhāti [7] , āsrāvaścātra majjamiśraḥ sarudhiraḥ snigdhaśca; sandhigataḥ pīḍyamānō na pravartatē, ākuñcanaprasāraṇōnnamanavinamanapradhāvanōtkāsanapravāhaṇaiśca sravati, āsrāvaścātra picchilō’valambī sarudhirōnmathitaśca [8] ; kōṣṭhagatō’sr̥ṅmūtrapurīṣapūyōdakāni [9] sravati; marmagatastvagādiṣvavaruddhatvānnōcyatē |
tatra tvagādigatānāmāsrāvāṇāṁ yathākramaṁ [10] pāruṣyaśyāvāvaśyāyadadhimastukṣārōdakamāṁsadhāvanapulākōdakasannibhatvāni mārutādbhavanti; pittādgōmēdakagōmūtrabhasmaśaṅkhakaṣāyōdakamādhvīkatailasannibhatvāni; pittavadraktādativisratvaṁ ca; kaphānnavanītakāsīsamajjapiṣṭatilanālikērōdakavarāhavasāsannibhatvāni; sannipātānnālikērōdakairvārukarasakāñjikaprasādārukōdakapriyaṅguphalayakr̥nmudgayūṣasavarṇatvānīti ||8||
atra vraṇaduṣṭirasūtritā’pyuktā, tāṁ nirdiśya vraṇāsrāvānnirdiśannāha- ata ūrdhvamityādi| sarvasrāvāniti sarvavraṇavastūnāṁ sarvadōṣāṇāmāgantōśca vraṇasya srāvānityarthaḥ| ghr̥ṣṭāsu chinnāsvityāgantōḥ, tvakṣviti sambandhaḥ; bahuvacanaṁ tu saptatvagapēkṣayā| atra tvaggrahaṇāllakṣaṇayā rasādhiṣṭhānō vraṇa uktaḥ| sphōṭē iti tvaksthitē vraṇē, bhinnē svayaṁ bhinnē, vidāritē yatnēna vidāritē ityarthaḥ; atra bhinnē vidāritē iti śārīravraṇasya| salilaprakāśa iti udakarasayōracchayōstvacāmadhiṣṭhānatvāt| visra āmagandhiḥ, pītāvabhāsaḥ pākārambhakēṇa pittēnētyarthaḥ| māṁsagata iti māṁsagata āsrāva ityarthaḥ| sarpiḥprakāśastrāvatvamāgantōḥ| sāndraśvētapicchilatvaṁ śārīrasya| sirāgata ityādi sirāgrahaṇēna raktādhiṣṭhānō vraṇa uktaḥ; sadyaśchinnāsvityāgantōḥ; pakvāsvityādi śārīrasya| vicchinna iti alpālpapravartanam| avalambī avalambanaśīlaḥ| snāyugata ityādi snāyugrahaṇēna mēdō’dhiṣṭhānō vraṇa uktaḥ, anyē tu ‘mēdōmajjānau ghr̥tavadvilīyētē,atō vraṇādhiṣṭhānatvaṁ naiva tayōḥ’ iti vadanti| siṅghāṇakō raktamiśrō ghanībhūtaḥ ślēṣmā| asthigata ityādi| abhihatē iti abhighātajē vraṇē, bhinnē vidāritē cēti śārīrē| asthi niḥsāraṁ kō’rthaḥ? laghu; ‘bhavati’ ityadhyāhāraḥ| śuktidhautamivābhāti śuktiriva śōbhatē tathā dhautamiva śōbhatē’sthīti sambadhyatē| sandhigata ityādi| unnamanamiti bāhujaṅghādīnāmūrdhvaṁ nayanam| vinamanaṁ gātrāṇāmadhaḥprāpaṇam| pravāhaṇamiti kunthanam| sarudhirōnmathitaścēti rudhirēṇaivōnmathitaśca| kōṣṭhagata ityādi kōṣṭhagata iti maladhātusamudāyādhiṣṭhānō vraṇa uktaḥ| udakamatra rasaklēda ēva gr̥hyatē pītaṁ vā| marmagata ityādi| avaruddha iti saṅgr̥hīta ityarthaḥ| dōṣāsrāvānnirdiśannāha-tatra tvagādigatānāmityādi| tatra marmavarjitēṣu saptasu tvagādivraṇavastuṣu vātapittakaphasannipātānāṁ sapta sapta srāvā yathākramēṇa draṣṭavyā ityēkē; anyē tu tvagādiṣu vātādiliṅgānāṁ madhyē kiñcit kvaciditi varṇayanti| pittādgōmēdētyādi|- gōmēdaka iti maṇirāpītaḥ| ērvārukarasaḥ karkaṭikārasaḥ; kāñjikaprasāda iti kāñjikasyōparyacchaḥ; ārukamanēnaiva nāmnā prasiddham||8||
ślōkau cātra bhavataḥ-
pakvāśayādasādhyastu pulākōdakasannibhaḥ |
kṣārōdakanibhaḥ srāvō varjyō raktāśayātsravan ||9||
āmāśayāt kalāyāmbhōnibhaśca trikasandhijaḥ [11] |
srāvānētān parīkṣyādau tataḥ karmācarēdbhiṣak ||10||
sthānabhēdāt srāvasyāsādhyatvakhyāpanāya ślōkau prāha- pakvāśayādityādi| pulākōdakaṁ gavēdhukōdakaṁ, gavēdhukastr̥ṇaviśēṣaḥ, ‘jalagōdhūma’ iti lōkē; anyē tu pulākaśabdēnāprāptapākaṁ dhānyamāhuḥ| āmāśayādityādi| kalāyō’tra tripuṭakaḥ| trikasandhija iti bāhugrīvāsthitrayasaṅghātō’tra trikaṁ, tasya sandhau jāta iti||9-10||
ata ūrdhvaṁ sarvavraṇavēdanā vakṣyāmaḥ- tōdanabhēdanatāḍanacchēdanāyāmanamanthanavikṣēpaṇacumucumāyananirdahanāvabhañjanasphōṭana vidāraṇōtpāṭanakampanavividhaśūlaviślēṣaṇavikiraṇastambhanapūraṇasvapnākuñjanāṅku śikāḥ sambhavanti, animittavividhavēdanāprādurbhāvō vā muhurmuhuryatrāgacchanti vēdanāviśēṣāstaṁ vātikamiti vidyāt; ōṣacōṣaparidāhadhūmāyanāni yatra gātramaṅgārāvakīrṇamiva pacyatē yatra cōṣmābhivr̥ddhiḥ kṣatē kṣārāvasiktavacca vēdanāviśēṣāstaṁ paittikamiti vidyāt; pittavadraktasamutthaṁ jānīyāt; kaṇḍūrgurutvaṁ suptatvamupadēhō’lpavēdanatvaṁ stambhaḥ śaityaṁ ca yatra taṁ ślaiṣmikamiti vidyāt; yatra sarvāsāṁ vēdanānāmutpattistaṁ sānnipātikamiti vidyāt ||11||
srāvānantaraṁ vātādivēdanā nirdiśannāha- ata ūrdhvamityādi| tōdanaṁ sūcibhiriva; bhēdanaṁ tvagvidāraṇamiva vēdanāviśēṣaḥ; tāḍanaṁ daṇḍādibhirāhanyata ivētyarthaḥ; chēdanaṁ dvidhā kriyata iva śastrādibhiḥ; āyāmanaṁ saṅkucitāṅgadēśasya dīrghīkaraṇamiva; manthanaṁ manthanakādibhirvraṇāntarmathyata iva; vikṣēpaṇaṁ prēryata iva; cumucumāyanaṁ sarṣaparājikākalkalipta iva; nirdahanaṁ niḥśēṣaṁ vahninā dahyata iva; avabhañjanaṁ sañcūrṇyata iva; sphōṭanaṁ pāṣāṇādibhiriva; vidāraṇaṁ nakhādibhiścīryata iva; utpāṭanam ūrdhvamākr̥ṣyata iva; kampanaṁ vēpyata [12] iva; vividhaśūlaviślēṣaṇaṁ nānāprakārārtiśūlāhatagātrasyēva vēdanāviśēṣaḥ; vikiraṇaṁ vraṇāvayavā nānāsthānēṣu vikīryanta ivēti; stambhanaṁ stabdhatā; pūraṇaṁ bharaṇaṁ; svapanaṁ prasuptiḥ; ākuñcanaṁ kuṭilīkaraṇamiva; aṅkuśikā khallīviśēṣaḥ, anyē ‘aṅkuśanipātākarṣaṇamivāṅkuśikā’ ityācakṣatē| ōṣacōṣaparidāhētyādi|- ōṣa ēkadēśikō dāhaḥ; cōṣa ācūṣaṇasamatvādityēkē, pipāsētyanyē; pari samantatō dāhaḥ paridāhaḥ; dhūmāyanaṁ dhūmōdvamanamivāṅgānām| kaṇḍurgurutvamityādi|-suptatvaṁ nakhamakṣikāmaśakādidaṁśavēdanānabhijñatvam; upadēhō liptamivēti||11||
ata ūrdhvaṁ vraṇavarṇān vakṣyāmaḥ- bhasmakapōtāsthivarṇaḥ paruṣō’ruṇaḥ kr̥ṣṇa iti mārutajasyaḥ nīlaḥ pītō haritaḥ śyāvaḥ kr̥ṣṇō raktaḥ piṅgalaḥ kapila iti raktapittasamutthayōḥ; śvētaḥ snigdhaḥ pāṇḍuriti ślēṣmajasya; sarvavarṇōpētaḥ sānnipātika iti ||12||
vēdanāḥ pratipādya vraṇavarṇānnirdiśannāha- ata ūrdhvamityādi| dōṣadūṣyasaṁyōgarāśēranyatvānmārutajē’pi vraṇē varṇasadbhāvaḥ||12||
bhavati cātra-
na kēvalaṁ vraṇēṣūktō vēdanāvarṇasaṅgrahaḥ |
sarvaśōphavikārēṣu vraṇavallakṣayēdbhiṣak ||13||
sāmānyavraṇanirdiṣṭān dōṣaduṣṭisrāvavēdanāvarṇān śōphaviśēṣēṣvapi
vidradhyalajīgranthyādiṣu nirdiśannāha- na kēvalaṁ vraṇēṣūkta ityādi| śōthavikārēṣviti śōthārabdhavikārēṣu vidradhyādiṣviti||13||
iti suśrutasaṁhitāyāṁ sūtrasthānē vraṇāsrāvavijñānīyō nāma dvāviṁśatitamō’dhyāyaḥ ||22||
iti śrīḍalha(hla)ṇaviracitāyāṁ nibandhasaṅgrahākhyāyāṁ suśrutavyākhyāyāṁ sūtrasthānē dvāviṁśatitamō’dhyāyaḥ||22||
1. ‘vraṇavastūni vraṇōpādānabhūtāni dravyāṇi’ iti hārāṇacandraḥ|
2. ‘yadapi raktamēdōmajjādi vraṇē’vadr̥śyatē, tadapi sirāsnayvāśrayatvēnaiva vraṇē bhavati, na tu tadadhikaraktādyāśrayatvēnētyēkē| anyē tu sirayā rūdhiraṁ, snāyusaṁbandhēna bhēdaḥ, asthnā ca tātsthyānmajjā gr̥hyatē’ iti vadanti’ iti cakraḥ|
3. ‘ādyatvēna tvaci labdhāyāmēkagrahaṇaṁ māṁsādigatavraṇānāmapi pākakālē tvagvidaraṇēnādyatvagāśrayatvasya labdhasya nirāsārtham| tvacamēvaikāṁ bhēttuṁ śīlamasyēti tvagbhēdī| ētacca tvagādyāśrayatvaṁ vaiśaiṣikaduṣṭyā jñēyam| tēna sarvatraiva ‘pacatyataḥ śōṇitamēṣa pākaḥ’ ityēnēna raktapākābhidhānaṁ sarvagāmitayā raktasya yuktam’ iti cakraḥ|
4. ‘atrātisaṁvr̥tātikaṭhinātimātrāvasannātyarthavēdanāvāniti vātēna, ativivr̥tātyuṣṇaraktapūtimāṁsasirāsnāyupratipūrṇapūtipūyāsrāvyamanōjñadarśa
5. ‘tasya dōṣōcchrāyamavēkṣya’ iti tāḍapatrapustakē pāṭhaḥ|
6. ‘śvētō’vasannavartmā’tisthūlavartmā’tipiñjaraḥ| nīlaḥ śyāvō’tipiḍakō raktaḥ kr̥ṣṇō’tipūtikaḥ || rōpyaḥ kumbhīmukhaścēti praduṣṭādvādaśa smr̥tāḥ’ iti carakaḥ (ci. a. 25)|
7. ‘asthigatē śuktidhautatvaṁ tathā’sthisārastravaṇaṁ ca dōṣakr̥taṁ, śēṣastu strāvaḥ sādhāraṇaḥ| śuktidhautamiti mayūravyaṁsakādipāṭhāt pūrvanipātō vyatyayēna, dhautaśuktivadityarthaḥ’ iti cakraḥ|
8. ‘saphēnapūyarudhirōnmiśraśca’ iti pā.|
9. kōṣṭhagatastu yathāpratyāsatti purīṣādi sravati| tatra raktasrutiḥ kōṣṭhāśrayaplīhādhiṣṭhānatayā, udakasrāvastu pānīyasya saraṇātmakasya prabhāvāt’ iti cakraḥ|
10. ‘yathā kramamiti yathāsaṁkhyam| atra marmavarjitēṣu tvagādiṣu saptasu yathākramaṁ vātapittakaphaśōṇitasannipātānāṁ sapta saptāsrāvā yathōktā bhavanti| śōṇitē tu yadvisratvamadhikamuktaṁ tat sarvatvagādyāśrayānugāmi| anyē tu yathāsaṁkhyamatra nēcchanti| sannipātēnēha yē nārikēlādivarṇā uktāstē vikr̥tiviṣamasamavāyakr̥tā jñēyāḥ| anyathā hi vātādikr̥tavarṇamēlakēnaiva sannipātavarṇō’pyuktaḥ syāt’ iti cakraḥ|
11. ‘raktāśayāt yakr̥tplīhārūpāt| kalāyāmbhōnibhaśca srāvastrikasandhijaḥ kōṣṭhamārgēṇa sarannasādhyaḥ | yaduktaṁ bhōjē-“pulākōdakavarṇastu yadā kōṣṭhāt pravartatē| pakvāśayāt stravatyēvaṁ taṁ bhiṣaka parivajayēt|| kṣārōdakanibhaḥ strāvō yadā kōṣṭhāt pravartatē| raktāśayāt stravatyēvaṁ taṁ bhiṣak parivarjayēt|| trikasandhēstu vivarāt kalāyōdakasannibhaḥ| kōṣṭhaṁ bhittvā viniryāti taṁ bhiṣak parivarjayēt’ iti cakraḥ|
12. ‘cālyata iva’ iti pā.|