Table of Contents
Devanagari Version
काशिराजधन्वन्तरिणोपदिष्टा तच्छिष्यसुश्रुतेन विरचिता
सुश्रुतसंहिता
श्रीडल्हणाचार्यविरचितया निबन्धसङ्ग्रहाख्यव्याख्यया निदानस्थानस्य श्रीगयदासाचार्यविरचितया न्यायचन्द्रिकाख्यपञ्जिकाव्याख्यया च समुल्लसिता
उत्तरतन्त्रम् - ५५. उदावर्तप्रतिषेधाध्यायः
Only Moolashloka
अथात उदावर्तप्रतिषेधमध्यायं व्याख्यास्यामः ||१||
यथोवाच भगवान् धन्वन्तरिः ||२||
कृमिप्रतिषेधानन्तरं कृमिचिकित्सितस्य कटुतिक्तकषायादेरुदावर्तहेतुत्वादुदावर्तप्रतिषेधारम्भो युक्त इत्यत आह- अथात इत्यादि| उत् ऊर्ध्वं वातविण्मूत्रादीनां आवर्तो भ्रमणं यस्मिन् रोगे स उदावर्तः; अन्ये पुरीषं वायुना वर्तुलीकृतमुदावर्तं मन्यन्ते, लोकप्रसिद्धत्वात्||१-२||
अधश्चोर्ध्वं च भावानां प्रवृत्तानां स्वभावतः |
न वेगान् धारयेत् प्राज्ञो वातादीनां जिजीविषुः ||३||
वेगधारणस्यैकान्तेनोदावर्तहेतुत्वाद्वेगधारणनिषेधमाह- अधश्चोर्ध्व चेत्यादि| अधोभावा मूत्रादयः ऊर्ध्वभावा उद्गारादयः, तेषां भावानां वातादीनां वेगान् न धारयेत्| किम्भूतानां? स्वभावतः प्रवृत्तानां, प्रकृत्यैव स्वाशयच्युतानामित्यर्थः| एतेनैतेऽप्रवृत्ता बलान्नोदीरणीया इति सूचयति| जिजीविषुः जीवितुमिच्छुः पुरुषः| केचित् ‘प्राज्ञः’ इत्यत्र ‘प्राप्तान्’ इति पठन्ति| ते च व्याख्यानयन्ति- वेगग्रहणेनैव प्राप्तानिति प्राप्तं यस्मादप्राप्तो वेगो न भवति, अतः प्राप्तग्रहणमधिकं [१] , तेनाधिकेन प्राप्तग्रहणेन केषाञ्चित् प्राप्ता अपि वेगा धारणीया इत्यर्थाधिक्यमावेदयति; तथा च तन्त्रान्तरे- “इमांस्तु धारयेद्वेगान् हितैषी प्रेत्य चेह च| लोभेर्ष्याद्वेषमात्सर्यरागादीनां यतेन्द्रियः [२] ”- इति| तच्च व्याख्यानं न युक्तं, यस्माद्विशेषाभिधानादेव लोभादीनां वेगधारणं सिद्धं; तस्मात् प्राप्तान् उन्मुखीभूतानिति व्याख्यानं युक्तम्| अन्ये तु वातादीनां प्राप्तान् युक्तान् वेगान् न धारयेत्, न तु साहसादिवेगान् न धारयेदिति व्याख्यानयन्ति||३||
वातविण्मूत्रजृम्भाश्रुक्षवोद्गारवमीन्द्रियैः |
व्याहन्यमानैरुदितैरुदावर्तो निरुच्यते ||४||
उदावर्तस्य निरुक्तिद्वारा कारणान्याह- वातविण्मूत्रेत्यादि| अश्रु नेत्रोदकं, क्षवः छिक्का; इन्द्रियमत्र शुक्रमभिप्रेतं, ‘शुक्राश्मरी तत्स्रवणं भवेद्वा’ इत्यादिवक्ष्यमाणवचनात्; अभिधाने चेन्द्रियशब्दः शुक्रे दृष्टः; तथाच तद्वचः- “श्रोत्रवागादि सत्त्वं च शुक्रं चेन्द्रियमुच्यते”- इति| व्याहन्यमानैः अवरुध्यमानैः| उदितैरिति ऊर्ध्वगतैः||४||
क्षुत्तृष्णाश्वासनिद्राणामुदावर्तो विधारणात् |५|
अन्येषामपि विधारणादुदावर्तसम्भवमाह- क्षुत्तृष्णेत्यादि| वातविण्मूत्रादिकात् क्षुत्तृष्णादीनां भिन्नपाठो वातादीनां सन्निहितकारणत्वं तथा क्षुदादीनां विप्रकृष्टकारणत्वं सूचयति; अथवा अनेन भिन्नपाठेन वक्ष्यमाणं हेतुमाहाराश्रितं सूचयति| यथा- “वायुः कोष्ठानुगो रूक्षैः कषायकटुतिक्तकैः” इत्यादि| ये क्षुदादीनां भिन्नपाठं न पठन्ति; तन्मते ईदृशः पाठः,- ‘वातविण्मूत्रजृम्भाश्रुक्षवोद्गारवमीन्द्रियैः| क्षुत्तृष्णाश्वासनिद्राणां धृत्योदावर्तसम्भवः’ इति| धृत्या धारणेनेत्यर्थः| ननु, अधोवेगरोधादपानप्रकोपादुदावर्तसम्भवो युक्तः, अश्रुजृम्भादिवेगधारणात् कथं तस्योत्पत्तिः ? सत्यं, अश्रुजृम्भादिवेगरोधात् कोष्ठगतो वायुर्यदा भवति तदाऽपानप्रकोपादुदावर्तसम्भवः|५|-
तस्याभिधास्ये व्यासेन लक्षणं च चिकित्सितम् ||५||
तस्याभिधास्ये इत्यादि| तस्य उदावर्तस्य| अभिधास्ये कथयिष्यामि| व्यासेन विस्तरेण||५||
त्रयोदशविधश्चासौ भिन्न एतैस्तु कारणैः |६|
तस्य सङ्ख्यामाह- त्रयोदशविध इत्यादि| भिन्नो भेदं गतः| एतैः कारणैः पूर्वोक्तैर्वातविण्मूत्रादिभिः|६|-
अपथ्यभोजनाच्चापि वक्ष्यते च तथाऽपरः ||६||
वातादिवेगरोधात्त्रयोदशोदावर्तानभिधायेदानीं कारणभेदादपरमप्याह- अपथ्येत्यादि| अपरो वाताद्यवरोधजेभ्योऽन्यः||६||
आध्मानशूलौ हृदयोपरोधं शिरोरुजं श्वासमतीव हिक्काम् |
कासप्रतिश्यायगलग्रहांश्च बलासपित्तप्रसरं च घोरम् ||७||
कुर्यादपानोऽभिहतः स्वमार्गे हन्यात् पुरीषं मुखतः क्षिपेद्वा |८|
वातजोदावर्तलक्षणमाह- आध्मानशूलावित्यादि| हृदयोपरोधं हृदयावरणम्| बलासपित्तप्रसरं श्लेष्मपित्तप्रसरणम्| अभिहतः अवरुद्धः| स्वमार्गे गुदे| हन्यात् पुरीषं पुरीषक्षयं कुर्यात् क्षिपेद्वेत्यत्रापि पुरीषमिति सम्बन्धनीयम्| गलग्रहांश्चेति चकारात् क्रिम्यादीनां समानतन्त्रनिर्दिष्टानां ग्रहणम्| अपानावरोधेन प्राणादीनामपि प्रकोपात् शिरोरुक्कासादिसम्भवो युक्तः||७||
आटोपशूलौ परिकर्तनं च सङ्गः पुरीषस्य तथोर्ध्ववातः ||८||
पुरीषमास्यादपि वा निरेति पुरीषवेगेऽभिहते नरस्य |९|
पुरीषजोदावर्तलक्षणमाह- आटोपशूलावित्यादि| आटोप उदरापूरः| परिकर्तनं गुदमेढ्रबस्त्यादिषु कृन्तनमिव वेदना| ऊर्ध्ववातो बहूद्गारता| आस्यात् मुखात्| निरेति निर्गच्छति| परिकर्तनं चेति चकारात् पिण्डिकोद्वेष्टनादयः||८||-
मूत्रस्य वेगेऽभिहते नरस्तु कृच्छ्रेण मूत्रं कुरुतेऽल्पमल्पम् ||९||
मेढ्रे गुदे वङ्क्षणबस्तिमुष्कनाभिप्रदेशेष्वथवाऽपि [३] मूर्ध्नि |
आनद्धबस्तिश्च [४] भवन्ति तीव्राः शूलाश्च शूलैरिव भिन्नमूर्तेः ||१०||
मूत्रोदावर्तलक्षणमाह- मूत्रस्येत्यादि| वङ्क्षणम् उदरोरुसन्धिः| मुष्कौ अण्डौ| मूर्ध्नि उत्तमाङ्गे| आनद्धबस्तिः आध्मातमूत्राधारः| ‘आनद्धबस्तेः’ इति केचित् पठन्ति, ते च आनद्धबस्तेर्मूर्ध्नि शूला भवन्तीति योजयन्ति| तन्न, समानतन्त्रविरोधात्| भिन्नमूर्तेः भिन्नशरीरस्य [५] ||९-१०||
मन्यागलस्तम्भशिरोविकारा जृम्भोपघातात् पवनात्मकाः स्युः |
श्रोत्राननघ्राणविलोचनोत्था भवन्ति तीव्राश्च तथा विकाराः ||११||
जृम्भोदावर्तलक्षणमाह- मन्येत्यादि| स्तम्भशब्दो मन्यागलाभ्यां प्रत्येकं सम्बध्यते| गलस्तम्भो गलग्रहः| शिरोविकाराः सूर्यावर्तादयः| पवनात्मकाः कम्पसुप्त्यादयः, चकारात् अरुचिविभ्रमादयश्च||११||
आनन्दजं शोकसमुद्भवं वा नेत्रोदकं प्राप्तममुञ्चतो हि |
शिरोगुरुत्वं नयनामयाश्च भवन्ति तीव्राः सह पीनसेन ||१२||
अश्रुजोदावर्तलक्षणमाह- आनन्दजमित्यादि| नेत्रोदकम् अश्रु, प्राप्तं प्रवृत्त्युन्मुखम्| पीनसोऽत्र प्रतिश्यायः, समानतन्त्रदर्शनात्| चकारात् प्रतिश्यायादयः||१२||
भवन्ति गाढं क्षवथोर्विघाताच्छिरोक्षिनासाश्रवणेषु रोगाः |
कण्ठास्यपूर्णत्वमतीव तोदः कूजश्च वायोरुत वाऽप्रवृत्तिः ||१३||
छिक्काजोदावर्तलक्षणमाह- भवन्तीत्यादि| क्षवथोर्विघातात् छिक्कावरोधात्| कण्ठास्यपूर्णत्वमिति कण्ठमुखे वायुना पूर्णे इव भवतः| अतीव तोदः अतीव व्यथा, कण्ठमुखयोरेव| केचित् ‘कण्ठस्य’ इति पठन्ति, तन्मते कण्ठस्यैव पूर्णत्वं तोदश्च| कूजः अव्यक्तवचनम्| वायोरप्रवृत्तिः उच्छ्वासावरोधः| उत वा अथवेत्यर्थः| चकारात् मन्यास्तम्भादयः||१३||
उद्गारवेगेऽभिहते भवन्ति घोरा विकाराः पवनप्रसूताः |१४|
उद्गारजोदावर्तलक्षणमाह- उद्गारवेग इत्यादि| घोराः कष्टतराः| “घोराः” इत्यत्र “जन्तोः” इति केचित् पठन्ति| पवनप्रसूताः कम्पहिक्काहृद्विबन्धादयः|१४|-
छर्देर्विघातेन भवेच्च कुष्ठं येनैव दोषेण विदग्धमन्नम् ||१४||
छर्दिजोदावर्तलक्षणमाह- छर्देर्विघातेनेत्यादि| कुष्ठग्रहणमत्र शीतपित्तकोपाद्युपलक्षणार्थम्| येनैव दोषेण विदग्धमन्नमिति येनैव वाताद्यन्यतमेन दोषेण विदग्धं दुष्टमन्नं भवेत्तद्दोषाधिकमेव कुष्ठं स्यादित्यर्थः| चकारात् अरोचकादयः||१४||
मूत्राशये पायुनि [६] मुष्कयोश्च शोफो रुजो मूत्रविनिग्रहश्च |
शुक्राश्मरी तत्स्रवणं भवेद्वा ते ते विकारा विहते तु शुक्रे ||१५||
शुक्रजोदावर्तलक्षणमाह- मूत्राशय इत्यादि| मूत्राशये बस्तौ, पायुनि गुदे, शोफः श्वयथुः; रुजोऽपि मूत्राशयादिष्वेव भवन्ति| मूत्रविनिग्रहो मूत्राप्रवृत्तिः| तत्स्रवणं शुक्रस्रवणं, समानतन्त्रप्रत्ययात्| ते ते विकारा इति हृत्पीडाङ्गमर्दादयः शुक्रवेगविघातजाः समानतन्त्रोक्ताः||१५||
तन्द्राङ्गमर्दारुचिविभ्रमाः स्युः [७] क्षुधोऽभिघातात् कृशता च दृष्टेः |१६|
क्षुज्जोदावर्तलक्षणमाह- तन्द्रेत्यादि| तन्द्रा वैकारिकी निद्रा; अङ्गमर्दः अङ्गोद्वेष्टनमिव वेदना, स्फुटनिकेत्यन्ये; विभ्रमः अत्यर्थं चक्रारूढस्येव भ्रमणम्| कृशता च दृष्टेः दृङ्मान्द्यम् चकारात् दौर्बल्यादयस्तन्त्रान्तरोक्ता ग्राह्याः|१६|-
कण्ठास्यशोषः श्रवणावरोधस्तृष्णाभिघातद्धृदये व्यथा च ||१६||
तृष्णाजोदावर्तलक्षणमाह- कण्ठास्यशोष इत्यादि| श्रवणावरोधो बाधिर्यम्| चकारात् श्रमस्वेदादयः समानतन्त्रोक्ताः||१६||
श्रान्तस्य निःश्वासविनिग्रहेण हृद्रोगमोहावथवाऽपि गुल्मः |१७|
उच्छ्वासजोदावर्तलक्षणमाह- श्रान्तस्येत्यादि| श्रान्तस्य द्रुतगमनादिना [८] खिन्नस्य| श्रान्तस्येत्यनेनाश्रान्तस्य श्वासधारणादपि पीडा न भवतीति सूच्यते| मोहो वैचित्त्यम्|१७|-
जृम्भाऽङ्गमर्दोऽङ्गशिरोक्षिजाड्यं निद्राभिघातादथवाऽपि तन्द्रा ||१७||
निद्राजोदावर्तलक्षणमाह- जृम्भेत्यादि| जाड्यशब्दोऽङ्गादिभिः सम्बध्यते; जाड्यम् अपाटवं, गौरवमिति तात्पर्यार्थः||१७||
तृष्णार्दितं परिक्लिष्टं क्षीणं शूलैरभिद्रुतम् |
शकृद्वमन्तं मतिमानुदावर्तिनमुत्सृजेत् ||१८||
परित्याज्योदावर्तलक्षणमाह- तृष्णार्दितमित्यादि| परिक्लिष्टम् अत्यर्थमवसन्नं, क्रियारहितमिति यावत्; अन्ये समन्ततो भावेन क्लेशमुपगतं परिक्लिष्टं मन्यन्ते| अभिद्रुतं पीडितम्| उत्सृजेत् परित्यजेत्||१८||
सर्वेष्वेतेषु विधिवदुदावर्तेषु कृत्स्नशः |
वायोः क्रिया विधातव्याः स्वमार्गप्रतिपत्तये ||१९||
सामान्यतः पृथक्त्वेन क्रियां भूयो निबोध मे |२०|
सर्वदोदावर्तेषु वायोः सद्भावात् सामान्येन वातहरीं क्रियामाह- सर्वेष्वेतेष्वित्यादि| विधिवत् यथाविधि| कृत्स्नशः सामस्त्येन| क्रियाः स्नेहस्वेदादिकाः| स्वमार्गप्रतिपत्तये वायोरात्ममार्गप्रवर्तनाय| सामान्यतः सामान्येन| ‘सर्वेषु’ इत्यत्र ‘नवसु’ इति पठित्वा वातजोदावर्तादिषु नवसङ्ख्येषु वायोः क्रिया विधातव्येति व्याख्यानयन्ति; तन्न, बुभुक्षोद्भवादिष्वपि चतुर्षूदावर्तेषु वायोः सद्भावाद्वातहरी क्रिया क्रियत [९] इति| पृथक्त्वेन क्रियामित्यादि| पृथक्त्वेन प्रत्येकम्||१९||
आस्थापनं मारुतजे स्निग्धस्विन्ने विशिष्यते ||२०||
आस्थापनमित्यादि| आस्थापनं निरूहः, तच्चानुलोमिकवातहरद्रव्यकृतम्| स्निग्धस्विन्ने ‘आतुरे’ इति शेषः| विशिष्यते विशिष्टं भवति, विशेषेण क्रियत इति तात्पर्यार्थः||२०||
पुरीषजे तु कर्तव्यो विधिरानाहिको भवेत् |२१|
पुरीषज इत्यादि| आनाहिको विधिः फलवर्त्यादिको वातव्याध्युक्तो विसूच्यां वक्ष्यमाणो वा| तुशब्दात् अनुक्तमन्यदपि परीषानुलोमनं कर्तव्यम्|२१|-
सौवर्चलाढ्यां मदिरां मूत्रे त्वभिहते पिबेत् ||२१||
एलां वाऽप्यथ मद्येन क्षीरं वाऽपि पिबेन्नरं |
धात्रीफलानां स्वरसं सजलं वा पिबेत्त्र्यहम् ||२२||
रसमश्वपुरीषस्य गर्दभस्याथवा पिबेत् |
मांसोपदंशं मधु वा पिबेद्वा सीधु गौडिकम् ||२३||
भद्रदारु घनं मूर्वा हरिद्रा मधुकं तथा |
कोलप्रमाणानि पिबेदान्तरिक्षेण वारिणा ||२४||
दुःस्पर्शास्वरसं वाऽपि कषायं कुङ्कुमस्य च |
एर्वारुबीजं तोयेन पिबेद्वाऽलवणीकृतम् ||२५||
पञ्चमूलीशृतं क्षीरं द्राक्षारसमथापि वा |२६|
सौवर्चलाढ्यामित्यादि| सौवर्चलाढ्यां सौवर्चलोत्कटाम्| मदिरां मद्यम्| तुशब्दात् सर्पिषोऽवपीडनादिकं समानतन्त्रोक्तं ग्राह्यम्| किं मदिरामेव पिबेदथवाऽन्यदपीत्याह- एलामित्यादि| धात्रीफलानां स्वरसं सजलं वेति न केवलं दुग्धं पिबेदामलकरसं सोदकं पिबेदित्यर्थः| ‘गर्दभस्य’ इत्यत्रापि ‘पुरीषरसम्’ इति सम्बध्यते| मांसोपदंशं मांसभक्षणसहितं, मधु मद्यम्| तच्च द्राक्षोद्भवं, समानतन्त्रदर्शनात्| तथा च तद्वचः,- “द्राक्षोद्भवं चापि पिबेन्मद्यं मांसोपदंशकम्”- इति| गौडिकं सीधु गुडकृतं सस्यकम्; अत्रापि मांसोपदंशमिति सम्बध्यते| भद्रदार्वित्यादि| भद्रदारु देवदारु| घनं मुस्ता| मूर्वा चोरस्नायुः| मधुकं यष्टीमधु| कोलप्रमाणानि अर्धकर्षप्रमाणानि| दुःस्पर्शा दुरालभा| एर्वारुः ग्रीष्मकर्कटिका| अलवणीकृतम् ईषत्सैन्धवयुक्तम्| पञ्चमूली लघुपञ्चमूलं, समानतन्त्रसंवादात्; तथा चोक्तम्- “लघुना पञ्चमूलेन शृतं क्षीरं पिबेन्नरः”- इति||२१-२५||-
योगांश्च वितरेदत्र पूर्वोक्तानश्मरीभिदः ||२६||
मूत्रकृच्छ्रक्रमं चापि कुर्यान्निरवशेषतः |
भूयो वक्ष्यामि योगान् यान् मूत्राघातोपशान्तये ||२७||
इदानीं मूत्रजोदावर्ते अश्मरीमूत्रकृच्छ्रमूत्राघातचिकित्सितान्यतिदिशन्नाह- योगांश्च वितरेदित्यादि| वितरेत् दद्यात्| अत्र मूत्रजोदावर्ते| पूर्वोक्तान् ‘कुशः काशः शरः’ इत्यादिनाऽश्मरीचिकित्सितोक्तान्| भूयः अतिशयेन| ‘वक्ष्यामि यान् योगान्’ इत्यत्रापि ‘तान् कुर्यात्’ इति सम्बध्यते||२६-२७||
स्नैहैः स्वेदैरुदावर्तं जृम्भाजं समुपाचरेत् |२८|
जृम्भणजोदावर्तचिकित्सितमाह- स्नेहैरित्यादि| स्नेहैः स्वेदैरिति पदद्वयेऽपि बहुवचनाच्चतुर्भिः स्नेहैश्चतुर्भिश्च स्वेदैरित्यर्थः|२८|-
अश्रुमोक्षोऽश्रुजे कार्यः स्निग्धस्विन्नस्य देहिनः ||२८||
अश्रुजोदावर्तचिकित्सामाह- अश्रुमोक्ष इत्यादि| अश्रुमोक्षः अश्रुनिःसारणम्| अत्र लुप्तचकारनिर्देशात्तीक्ष्णभञ्जनादिकं वक्ष्यमाणमत्रापि सम्बन्धनीयम्||२८||
तीक्ष्णाञ्जनावपीडाभ्यां तीक्ष्णगन्धोपशिङ्घनैः |
वर्तिप्रयोगैरथवा क्षवसक्तिं प्रवर्तयेत् ||२९||
(तीक्ष्णौषधप्रधमनैरथवाऽऽदित्यरश्मिभिः||) |
क्षवजोदावर्तचिकित्सितमाह- तीक्ष्णाञ्जनावपीडाभ्यामित्यादि| तीक्ष्णशब्दोऽञ्जनावपीडाभ्यां सह सम्बध्यते| अवपीडो नस्यभेदः| तीक्ष्णगन्धोपशिङ्घनैः मरिचादिचूर्णावघ्राणैः| वर्तिप्रयोगा धूमवर्तिप्रयोगाः| अत्र लुप्तादिशब्दात् अर्करश्मिविलोकनादयो गृह्यन्ते| तथा च- “तीक्ष्णधूमाञ्जनाघ्राणनावनार्कविलोकनैः| प्रवर्तयेत् क्षुतिं सक्ताम्”- इत्यादि| क्षवसक्तिं छिक्काया अप्रवर्तनम्| केचित्तीक्ष्णाञ्जनावपीडाभ्यामिति पदमश्रुजोदावर्त एव मन्यन्ते न क्षवजे, अनौपयिकत्वात्तन्त्रान्तरविरोधाच्च||२९||-
उद्गारजे क्रमोपेतं स्नैहिकं धूममाचरेत् ||३०||
सुरां सौवर्चलवतीं बीजपूररसान्विताम् |३१|
उद्गारजे क्रमोपेतमित्यादि| क्रमोपेतं धूमनस्यकवलग्रहचिकित्सितोक्तक्रमसंयुक्तम्| किमुद्गारजे स्नैहिकं धूममेवाचरेदुतान्यदपीत्याह- सुरामित्यादि||३०||-
छर्द्याघातं यथादोषं सम्यक् स्नेहादिभिर्जयेत् ||३१||
सक्षारलवणोपेतमभ्यङ्गं चात्र दापयेत् |३२|
छर्द्याघातमित्यादि| छर्द्याघातं छर्द्याघातजमुदावर्तं, कारणेकार्योपचारात्| यथादोषं दोषस्यानतिक्रमेण| आदिशब्दात् वमनादयः| सक्षारलवणोपेतम् ईषद्यवक्षारसैन्धवसंयुक्तं; यद्यपि तन्त्रान्तरे तैलाभ्यङ्ग उक्तस्तथाऽप्यत्र वृद्धसम्प्रदायाद्धृताभ्यङ्गः कार्यः| चकारात् व्यायामोपवासादयो गृह्यन्ते| ‘वम्याघातं’ इति केचित् पठन्ति||३१||
बस्तिशुद्धिकरावापं चतुर्गुणजलं पयः ||३२||
आवारिनाशात् क्वथितं पीतवन्तं प्रकामतः |
रमयेयुः [१०] प्रिया नार्यः शुक्रोदावर्तिनं नरम् ||३३||
बस्तिशुद्धिकरावापमित्यादि| बस्तिशुद्धिकरावापं कूष्माण्डकतृणपञ्चमूलादिप्रक्षेपम्| प्रक्षेपद्रव्यप्रमाणं क्षीराष्टांशेन| पयः क्षीरम्| प्रकामतः स्वेच्छया नार्यः शुक्रोदावर्तिनं नरं रमयेयुः भजेयुः| यदत्र रमणे स्त्रीणां कर्त्रीत्वेनाभिधानं तत् शुक्रोदावर्तिनो हर्षाधिक्यसञ्जननार्थम्| प्रिया मनोनुकूलाः| लुप्तचकारात् ताम्रचूडादयस्तन्त्रान्तरोक्ता ग्राह्याः||३२-३३||
क्षुद्विघाते हितं स्निग्धमुष्णमल्पं च भोजनम् |३४|
क्षुद्विघाते हितमित्यादि| चकारात् लघ्वपि|३४|-
तृष्णाघाते पिबेन्मन्थं यवागूं वाऽपि शीतलाम् ||३४||
तृष्णाघाते पिबेन्मन्थमित्यादि| मन्थः सघृतशीतलजलप्लुताः सक्तवः| यवागूरत्र पेया| अपिशब्दात् शीतलजलावगाहपानादिकं ग्राह्यम्||३४||
भोज्यो रसेन विश्रान्तः श्रमश्वासातुरो नरः |३५|
भोज्यो रसेनेत्यादि| भोज्यो भोजयितव्यः रसेन मांसरसेन|३५|-
निद्राघाते पिबेत् क्षीरं स्वप्याच्चेष्टकथा [११] नरः ||३५||
निद्राघाते पिबेत् क्षीरमित्यादि| क्षीरं गोक्षीरं न माहिषं, प्रधानकल्पनाश्रयणात् समानतन्त्रदर्शनाच्च| तथा च तन्त्रान्तरम्,- “निद्राघाते पिबेत् क्षीरं गोस्तनादथवा नरः”- इति| इष्टकथा अनुकूलकथाः [१२] , ‘शृणुयात्’ इति शेषः| ‘इष्टकथारतः’ इति पाठान्तरम्| स्वप्यात् निद्रां गच्छेत्||३५||
आध्मानाद्येषु रोगेषु यथास्वं प्रयतेत हि |
यच्च यत्र भवेत्प्राप्तं तच्च तस्मिन् प्रयोजयेत् ||३६||
उदावर्तचिकित्सितमभिधायेदानीं तदुपद्रवचिकित्सितमाह- आध्मानाद्येषु रोगेष्वित्यादि| आध्मानाद्येषु वेगावरोधजातेषु| आदिशब्दात् शूलपरिकर्तिकापुरीषसङ्गादीनां ग्रहणम्| यथास्वं यस्याध्मानादेर्यदात्मीयमौषधं वातव्याध्यादिचिकित्सितोक्तं तेन प्रयतेत प्रयत्नं कुर्वीत| अन्यदप्युचितं चिकित्सितमाध्मानादिषु कार्यमित्याह- यच्चेत्यादि| यदौषधं यस्मिन् आध्मानादौ प्राप्तं युक्तम्||३६||
वायुः कोष्ठानुगो रूक्षैः कषायकटुतिक्तकैः |
भोजनैः कुपितः सद्य उदावर्तं करोति हि ||३७||
वातमूत्रपुरीषासृक्कफमेदोवहानि वै |
स्रोतांस्युदावर्तयति पुरीषं चातिवर्तयेत् ||३८||
ततो हृद्बस्तिशूलार्तो गौरवारुचिपीडितः |
वातमूत्रपुरीषाणि कृच्छ्रेण कुरुते नरः ||३९||
श्वासकासप्रतिश्यायदाहमोहवमिज्वरान् |
तृष्णाहिक्काशिरोरोगमनःश्रवणविभ्रमान् ||४०||
लभते च बहूनन्यान् विकारान् वातकोपजान् |४१|
‘अपथ्यभोजनाच्चापि वक्ष्यते च तथाऽपरः’ इति यदुक्तं तस्यावसरः- वायुरित्यादि| कोष्ठानुगो वायुरत्र अपानः, समानतन्त्रदर्शनात्| तस्य लक्षणमाह- वातेत्यादि| उदावर्तयति ऊर्ध्वामावर्तयति, अधोवहानि स्रोतांस्यूर्ध्ववहानि करोतीत्यर्थः| पुरीषं चातिवर्तयेदिति, उष्ट्रादिपुरीषवत् कठिनं कुर्यादित्यर्थः| ततः तस्माद्धेतोः| विभ्रमो व्यापद्विशेषः| अन्यान् आध्मानप्रत्याध्मानादीन्||३७-४०||-
तं तैललवणाभ्यक्तं स्निग्धं स्विन्नं निरूहयेत् ||४१||
दोषतो भिन्नवर्चस्कं भुक्तं चाप्यनुवासयेत् |४२|
तस्य चिकित्सितमाह- तं तैलेत्यादि| तम् उदावर्तिनम्| दोषत इत्यादि| भिन्नवर्चस्कं निरूहभिन्नपुरीषं पुरुषं दोषमपेक्ष्य भुक्तवन्तमनुवासयेदिति सम्बन्धः| केचिदत्रानुवासनं निरुहातियोगव्यापत्प्रशमनार्थं मन्यन्ते; तन्न, समानतन्त्रविरोधात्; तथा च,- “उदावर्ते त्वपथ्योत्थे सुनिरूढं ततो भिषक्| यथादोषं भुक्तवन्तमाशु चैवानुवासयेत्”- इति| केचित् ‘भिन्नवर्चस्कं’ इत्यत्र ‘भिन्नवर्चांसि’ इति पठित्वा अनुलोमनीयानि भुक्तवन्तमिति व्याख्यानयन्ति||४१||-
न चेच्छान्तिं व्रजत्येवमुदावर्तः सुदारुणः ||४२||
अथैनं बहुशः स्विन्नं युञ्ज्यात् स्नेहविरेचनैः |४३|
निरूहानुवासनाभ्यामप्यप्रशाम्यत्युदावर्ते चिकित्सितमाह- न चेच्छान्तिमित्यादि| एवं पूर्वोक्तविधिना| एनम् उदावर्तिनम्| स्विन्नं स्निग्धस्विन्नम्, आदिलोपात्| स्नेहविरेचनैरेरण्डतैलादिभिः||४२||-
पाययेत त्रिवृत्पीलुयवानीरम्लपाचनैः ||४३||
हिङ्गुकुष्ठवचास्वर्जिविडङ्गं वा द्विरुत्तरम् |
योगावेतावुदावर्तं शूलं चानिलजं [१३] हतः ||४४||
अपथ्यजोदावर्ते योगद्वयमाह- पाययेतेत्यादि| पीलुः उष्ट्रप्रियो गुडफलः, भादानके ‘पीलु’ इति प्रसिद्धः| अम्लपाचनैः अम्लं काञ्जिकं, पाचनानि चित्रकादीनि, तैः सह पाययेदित्यर्थः| त्रिवृदादिः एको योगः, हिङ्ग्वादिस्तु द्वितीयः| स्वर्जी स्वर्जिकाक्षारः| द्विरुत्तरमिति आद्याच्च द्रव्यादुत्तरोत्तरं द्रव्यं द्विगुणं ग्राह्यम्| द्विरुत्तरमिति पदं न पूर्वयोगे सम्बन्धनीयं, ‘द्विरुत्तरा हिङ्गुवचा सकुष्ठा’ इत्यादिना तन्त्रान्तरे दर्शितत्वात्| यवानीरित्यत्र यवागूमिति केचित् पठन्ति| अपरे ‘अम्लपाचनैः’ इत्यत्र ‘अम्लपानकैः’ इति पठित्वा अम्लद्रवैरिति व्याख्यानयन्ति||४३-४४||
देवदार्वग्निकौ कुष्ठं शुण्ठीं [१४] पथ्यां पलङ्कषाम् |
पौष्कराणि च मूलानि तोयस्यर्धाढके पचेत् ||४५||
पादावशिष्टं तत् पीतमुदावर्तमपोहति |४६|
देवदार्वग्निकावित्यादि| अग्निकः अजमोदा| पथ्या हरीतकी| पलङ्कषा गुग्गुलुः| अर्धाढकं द्वात्रिंशत्पलानि, पादावशिष्टम् अष्टपलप्रमितं, वृद्धवैद्यव्यवहारात्तन्त्रान्तरदर्शनाच्च| तथा च तन्त्रान्तरे उक्तम्,- “कुष्ठं पलङ्कषां पथ्यां शुण्ठीं दार्वग्निपुष्करम्| द्वात्रिंशता तोयपलैः पक्त्वा पादावशेषितम्| पाययेत्”- इत्यादि| यद्यपि ‘क्वाथस्याञ्जलिरिष्यते’ इति परिभाषा विद्यते, तथाऽपि मानानुक्तौ परिभाषाश्रयणं न पुनरुक्ते माने| केचिदर्धाढकं चतुःषष्टिपलानि मन्यन्ते, ते च षोडशपलोन्मितं क्वाथं पाययन्ति; अपरे क्वाथबाहुल्यात् क्रमशः क्वाथपानमिच्छन्ति न पुनरेकस्मिन्नेव दिवसे; तन्न, समानतन्त्रविरोधात्||४५||-
मूलकं शुष्कमार्द्रं च वर्षाभूः पञ्चमूलकम् ||४६||
आरेवतफलं चाप्सु पक्त्वा तेन घृतं पचेत् |
तत् पीयमानं शास्त्युग्रमुदावर्तमशेषतः [१५] ||४७||
उदावर्ते पानार्थं घृतमाह- मूलकमित्यादि| शुष्कमिति मूलार्द्रकयोर्विशेषणम्| वर्षाभूः पुनर्नवा| पञ्चमूलकं बिल्वादिपञ्चमूलम्| आरेवतफलं गिरिमालकफलम्| पक्त्वेति क्वाथपाकपरिभाषया| तेन क्वाथेन| शास्ति हन्तीत्यर्थः||४६-४७||
वचामतिविषां कुष्ठं यवक्षारं हरीतकीम् |
कृष्णां निर्दहनीं चापि पिबेदुष्णेन वारिणा ||४८||
वचामतिविषामित्यादि| निर्दहनी अग्निमन्थः, गणिकारिकेत्यन्ये||४८||
इक्ष्वाकुमूलं मदनं विशल्यातिविषे वचाम् |
कुष्ठं किण्वाग्निकौ चैव पिबेत्तुल्यानि पूर्ववत् ||४९||
मूत्रेण देवदार्वग्नित्रिफलाबृहतीः पिबेत् |५०|
इक्ष्वाकुमूलमित्यादि| इक्ष्वाकुः कटुतुम्बी| विशल्या काष्ठपाटला, इन्द्रवारुणीत्यन्ये| किण्वं सुराबीजं; अग्निकः अजमोदा| पूर्ववदिति उष्णोदकेनेत्यर्थः| मूत्रेण गोमूत्रेण| अग्निः चित्रकः||४९||
यवप्रस्थं फलैः सार्धं कण्टकार्या जलाढके ||५०||
पक्त्वाऽर्धप्रस्थशेषं तु पिबेद्धिङ्गुसमन्वितम् |५१|
यवप्रस्थमित्यादि| कण्टकारीफलयवयोः समुदितेन समभागेन प्रस्थं षोडशपलानि| जलाढकं तोयस्य चतुःषष्टिपलानि, वृद्धवैद्यव्यवहारादत्र तोयद्वैगुण्यपरिभाषा नाद्रियते| अर्धप्रस्थशेषम् अष्टौ पलानि| अत्र क्वाथस्याष्टौ पलानि बहुत्वात् कथं पातव्यानीति नाशङ्कनीयं, “ऋषयस्त्वेव जानन्ति द्र्व्यसंयोगजं [१६] फलम्”- इत्युक्तेः| ये तु पूर्वोक्तदेवदार्वादिपानवदत्रापि तोयस्य मानाधिक्यमिच्छन्ति, ते कण्टकारिफलान्यपि प्रस्थप्रमितानि गृह्णन्ति| केचित् ‘यवप्रस्थं पले द्वे च कण्टकार्या’ इति पठन्ति||५०||-
मदनालाबुबीजानि पिप्पलीं सनिदिग्धिकाम् ||५१||
सञ्चूर्ण्य प्रधमेन्नाड्या विशत्येतद्यथा गुदम् |५२|
मदनालाबुबीजानीत्यादि| मदनं मदनफलं, तस्य बीजानि वैतरणसंवादात्| तथा च तद्वचः,- “मदनालाबुनोर्बीजं कण्टकारीकणान्वितम्”- इत्यादि| निदिग्धिका कण्टकारी| एतानि सञ्चूर्ण्य नाड्या प्रधमेत् मुखादिवायुना कृत्वा गुदे प्रेरयेत्||५१||-
चूर्णं निकुम्भकम्पिल्लश्यामेक्ष्वाक्वग्निकोद्भवम् ||५२||
कृतवेधनमागध्योर्लवणानां च साधयेत् |
गवां मूत्रेण ता वर्तीः कारयेत्तु गुदानुगाः |
सद्यः शर्मकरावेतौ योगावमृतसम्मतौ ||५३||
चूर्णमित्यादि| निकुम्भो दन्तीवृक्षः, कम्पिल्लः रोचनिका, श्यामा अरुणमूला त्रिवृत्, इक्ष्वाकुः कटुतुम्बी, अग्निकः अजमोदा, कृतवेधनं कोशातकीभेदः, मागधी पिप्पली, लवणानि सैन्धवादीनि, गुदानुगा गुदप्रवेशयोग्यप्रमाणा| शर्मकरौ सुखकरौ| एतौ योगाविति मदनादिचूर्णप्रधमनयोगवर्तियोगौ| अमृतसम्मितौ अमृततुल्यौ, जीवनीयात्मकत्वात्| वर्तिकल्पनां कथयति- निकुम्भादीनां चूर्णं गोमूत्रेण पक्त्वा घने शीतीभूते च सति वर्तीः कारयेत्||५२-५३||
इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातेन्त्रे उदावर्तप्रतिषेधो नाम
(सप्तदशोऽध्यायः, आदितः) पञ्चपञ्चाशत्तमोऽध्यायः ||५५||
इति श्रीडल्ह(ह्ल)णविरचितायां निबन्धसङ्ग्रहाख्यायां सुश्रुतव्याख्यायामुत्तरतन्त्रे उदावर्तप्रतिषेधो नाम पञ्चपञ्चाशत्तमोऽध्यायः||५५||
१. `प्राप्तग्रहणमधिकं सत् केषाञ्चित्’ इति पा.|
२. `जितेन्द्रियः’ इति पा.|
३. वङ्क्षणमुष्कयोश्च’ इति पा.|
४. `आनद्धबस्तेः’ इति पा.|
५. `विद्धशरीरस्य’ इति पा.|
६. `वा गुदमुष्कयोश्च’ इति पा.|
७. `तन्द्राङ्गमर्दावरुचिः श्रमश्च’ इति पा.|
८. `धावनादिना’ इति पा.|
९. `विधातव्या’ इति पा.|
१०. रमयेरन्’ इति पा.|
११. `स्वप्याच्चेष्टकथारतः’ इति पा.|
१२. `अनुरक्तजनकथाः’ इति पा.|
१३. `चापि नियच्छतः’ इति पा.|
१४. `वचां’ इति पा.|
१५. `शमयेदुदावर्तमशेषतः’ इति पा.|
१६. `योगसंयोगजं’ इति पा.|
Moolashloka with Dalhana & Gayadas Commentary

Pathantara/Pathabheda

Diacritic Version
kāśirājadhanvantariṇōpadiṣṭā tacchiṣyasuśrutēna viracitā
Suśrutasaṁhitā
śrīḍalhaṇācāryaviracitayā nibandhasaṅgrahākhyavyākhyayā nidānasthānasya śrīgayadāsācāryaviracitayā nyāyacandrikākhyapañjikāvyākhyayā ca samullasitā
uttaratantram - 55. udāvartapratiṣēdhādhyāyaḥ
athāta udāvartapratiṣēdhamadhyāyaṁ vyākhyāsyāmaḥ ||1||
yathōvāca bhagavān dhanvantariḥ ||2||
kr̥mipratiṣēdhānantaraṁ kr̥micikitsitasya kaṭutiktakaṣāyādērudāvartahētutvādudāvartapratiṣēdhārambhō yukta ityata āha- athāta ityādi| ut ūrdhvaṁ vātaviṇmūtrādīnāṁ āvartō bhramaṇaṁ yasmin rōgē sa udāvartaḥ; anyē purīṣaṁ vāyunā vartulīkr̥tamudāvartaṁ manyantē, lōkaprasiddhatvāt||1-2||
adhaścōrdhvaṁ ca bhāvānāṁ pravr̥ttānāṁ svabhāvataḥ |
na vēgān dhārayēt prājñō vātādīnāṁ jijīviṣuḥ ||3||
vēgadhāraṇasyaikāntēnōdāvartahētutvādvēgadhāraṇaniṣēdhamāha- adhaścōrdhva cētyādi| adhōbhāvā mūtrādayaḥ ūrdhvabhāvā udgārādayaḥ, tēṣāṁ bhāvānāṁ vātādīnāṁ vēgān na dhārayēt| kimbhūtānāṁ? svabhāvataḥ pravr̥ttānāṁ, prakr̥tyaiva svāśayacyutānāmityarthaḥ| ētēnaitē’pravr̥ttā balānnōdīraṇīyā iti sūcayati| jijīviṣuḥ jīvitumicchuḥ puruṣaḥ| kēcit ‘prājñaḥ’ ityatra ‘prāptān’ iti paṭhanti| tē ca vyākhyānayanti- vēgagrahaṇēnaiva prāptāniti prāptaṁ yasmādaprāptō vēgō na bhavati, ataḥ prāptagrahaṇamadhikaṁ [1] , tēnādhikēna prāptagrahaṇēna kēṣāñcit prāptā api vēgā dhāraṇīyā ityarthādhikyamāvēdayati; tathā ca tantrāntarē- “imāṁstu dhārayēdvēgān hitaiṣī prētya cēha ca| lōbhērṣyādvēṣamātsaryarāgādīnāṁ yatēndriyaḥ [2] ”- iti| tacca vyākhyānaṁ na yuktaṁ, yasmādviśēṣābhidhānādēva lōbhādīnāṁ vēgadhāraṇaṁ siddhaṁ; tasmāt prāptān unmukhībhūtāniti vyākhyānaṁ yuktam| anyē tu vātādīnāṁ prāptān yuktān vēgān na dhārayēt, na tu sāhasādivēgān na dhārayēditi vyākhyānayanti||3||
vātaviṇmūtrajr̥mbhāśrukṣavōdgāravamīndriyaiḥ |
vyāhanyamānairuditairudāvartō nirucyatē ||4||
udāvartasya niruktidvārā kāraṇānyāha- vātaviṇmūtrētyādi| aśru nētrōdakaṁ, kṣavaḥ chikkā; indriyamatra śukramabhiprētaṁ, ‘śukrāśmarī tatsravaṇaṁ bhavēdvā’ ityādivakṣyamāṇavacanāt; abhidhānē cēndriyaśabdaḥ śukrē dr̥ṣṭaḥ; tathāca tadvacaḥ- “śrōtravāgādi sattvaṁ ca śukraṁ cēndriyamucyatē”- iti| vyāhanyamānaiḥ avarudhyamānaiḥ| uditairiti ūrdhvagataiḥ||4||
kṣuttr̥ṣṇāśvāsanidrāṇāmudāvartō vidhāraṇāt |5|
anyēṣāmapi vidhāraṇādudāvartasambhavamāha- kṣuttr̥ṣṇētyādi| vātaviṇmūtrādikāt kṣuttr̥ṣṇādīnāṁ bhinnapāṭhō vātādīnāṁ sannihitakāraṇatvaṁ tathā kṣudādīnāṁ viprakr̥ṣṭakāraṇatvaṁ sūcayati; athavā anēna bhinnapāṭhēna vakṣyamāṇaṁ hētumāhārāśritaṁ sūcayati| yathā- “vāyuḥ kōṣṭhānugō rūkṣaiḥ kaṣāyakaṭutiktakaiḥ” ityādi| yē kṣudādīnāṁ bhinnapāṭhaṁ na paṭhanti; tanmatē īdr̥śaḥ pāṭhaḥ,- ‘vātaviṇmūtrajr̥mbhāśrukṣavōdgāravamīndriyaiḥ| kṣuttr̥ṣṇāśvāsanidrāṇāṁ dhr̥tyōdāvartasambhavaḥ’ iti| dhr̥tyā dhāraṇēnētyarthaḥ| nanu, adhōvēgarōdhādapānaprakōpādudāvartasambhavō yuktaḥ, aśrujr̥mbhādivēgadhāraṇāt kathaṁ tasyōtpattiḥ ? satyaṁ, aśrujr̥mbhādivēgarōdhāt kōṣṭhagatō vāyuryadā bhavati tadā’pānaprakōpādudāvartasambhavaḥ|5|-
tasyābhidhāsyē vyāsēna lakṣaṇaṁ ca cikitsitam ||5||
tasyābhidhāsyē ityādi| tasya udāvartasya| abhidhāsyē kathayiṣyāmi| vyāsēna vistarēṇa||5||
trayōdaśavidhaścāsau bhinna ētaistu kāraṇaiḥ |6|
tasya saṅkhyāmāha- trayōdaśavidha ityādi| bhinnō bhēdaṁ gataḥ| ētaiḥ kāraṇaiḥ pūrvōktairvātaviṇmūtrādibhiḥ|6|-
apathyabhōjanāccāpi vakṣyatē ca tathā’paraḥ ||6||
vātādivēgarōdhāttrayōdaśōdāvartānabhidhāyēdānīṁ kāraṇabhēdādaparamapyāha- apathyētyādi| aparō vātādyavarōdhajēbhyō’nyaḥ||6||
ādhmānaśūlau hr̥dayōparōdhaṁ śirōrujaṁ śvāsamatīva hikkām |
kāsapratiśyāyagalagrahāṁśca balāsapittaprasaraṁ ca ghōram ||7||
kuryādapānō’bhihataḥ svamārgē hanyāt purīṣaṁ mukhataḥ kṣipēdvā |8|
vātajōdāvartalakṣaṇamāha- ādhmānaśūlāvityādi| hr̥dayōparōdhaṁ hr̥dayāvaraṇam| balāsapittaprasaraṁ ślēṣmapittaprasaraṇam| abhihataḥ avaruddhaḥ| svamārgē gudē| hanyāt purīṣaṁ purīṣakṣayaṁ kuryāt kṣipēdvētyatrāpi purīṣamiti sambandhanīyam| galagrahāṁścēti cakārāt krimyādīnāṁ samānatantranirdiṣṭānāṁ grahaṇam| apānāvarōdhēna prāṇādīnāmapi prakōpāt śirōrukkāsādisambhavō yuktaḥ||7||
āṭōpaśūlau parikartanaṁ ca saṅgaḥ purīṣasya tathōrdhvavātaḥ ||8||
purīṣamāsyādapi vā nirēti purīṣavēgē’bhihatē narasya |9|
purīṣajōdāvartalakṣaṇamāha- āṭōpaśūlāvityādi| āṭōpa udarāpūraḥ| parikartanaṁ gudamēḍhrabastyādiṣu kr̥ntanamiva vēdanā| ūrdhvavātō bahūdgāratā| āsyāt mukhāt| nirēti nirgacchati| parikartanaṁ cēti cakārāt piṇḍikōdvēṣṭanādayaḥ||8||-
mūtrasya vēgē’bhihatē narastu kr̥cchrēṇa mūtraṁ kurutē’lpamalpam ||9||
mēḍhrē gudē vaṅkṣaṇabastimuṣkanābhipradēśēṣvathavā’pi [3] mūrdhni |
ānaddhabastiśca [4] bhavanti tīvrāḥ śūlāśca śūlairiva bhinnamūrtēḥ ||10||
mūtrōdāvartalakṣaṇamāha- mūtrasyētyādi| vaṅkṣaṇam udarōrusandhiḥ| muṣkau aṇḍau| mūrdhni uttamāṅgē| ānaddhabastiḥ ādhmātamūtrādhāraḥ| ‘ānaddhabastēḥ’ iti kēcit paṭhanti, tē ca ānaddhabastērmūrdhni śūlā bhavantīti yōjayanti| tanna, samānatantravirōdhāt| bhinnamūrtēḥ bhinnaśarīrasya [5] ||9-10||
manyāgalastambhaśirōvikārā jr̥mbhōpaghātāt pavanātmakāḥ syuḥ |
śrōtrānanaghrāṇavilōcanōtthā bhavanti tīvrāśca tathā vikārāḥ ||11||
jr̥mbhōdāvartalakṣaṇamāha- manyētyādi| stambhaśabdō manyāgalābhyāṁ pratyēkaṁ sambadhyatē| galastambhō galagrahaḥ| śirōvikārāḥ sūryāvartādayaḥ| pavanātmakāḥ kampasuptyādayaḥ, cakārāt arucivibhramādayaśca||11||
ānandajaṁ śōkasamudbhavaṁ vā nētrōdakaṁ prāptamamuñcatō hi |
śirōgurutvaṁ nayanāmayāśca bhavanti tīvrāḥ saha pīnasēna ||12||
aśrujōdāvartalakṣaṇamāha- ānandajamityādi| nētrōdakam aśru, prāptaṁ pravr̥ttyunmukham| pīnasō’tra pratiśyāyaḥ, samānatantradarśanāt| cakārāt pratiśyāyādayaḥ||12||
bhavanti gāḍhaṁ kṣavathōrvighātācchirōkṣināsāśravaṇēṣu rōgāḥ |
kaṇṭhāsyapūrṇatvamatīva tōdaḥ kūjaśca vāyōruta vā’pravr̥ttiḥ ||13||
chikkājōdāvartalakṣaṇamāha- bhavantītyādi| kṣavathōrvighātāt chikkāvarōdhāt| kaṇṭhāsyapūrṇatvamiti kaṇṭhamukhē vāyunā pūrṇē iva bhavataḥ| atīva tōdaḥ atīva vyathā, kaṇṭhamukhayōrēva| kēcit ‘kaṇṭhasya’ iti paṭhanti, tanmatē kaṇṭhasyaiva pūrṇatvaṁ tōdaśca| kūjaḥ avyaktavacanam| vāyōrapravr̥ttiḥ ucchvāsāvarōdhaḥ| uta vā athavētyarthaḥ| cakārāt manyāstambhādayaḥ||13||
udgāravēgē’bhihatē bhavanti ghōrā vikārāḥ pavanaprasūtāḥ |14|
udgārajōdāvartalakṣaṇamāha- udgāravēga ityādi| ghōrāḥ kaṣṭatarāḥ| “ghōrāḥ” ityatra “jantōḥ” iti kēcit paṭhanti| pavanaprasūtāḥ kampahikkāhr̥dvibandhādayaḥ|14|-
chardērvighātēna bhavēcca kuṣṭhaṁ yēnaiva dōṣēṇa vidagdhamannam ||14||
chardijōdāvartalakṣaṇamāha- chardērvighātēnētyādi| kuṣṭhagrahaṇamatra śītapittakōpādyupalakṣaṇārtham| yēnaiva dōṣēṇa vidagdhamannamiti yēnaiva vātādyanyatamēna dōṣēṇa vidagdhaṁ duṣṭamannaṁ bhavēttaddōṣādhikamēva kuṣṭhaṁ syādityarthaḥ| cakārāt arōcakādayaḥ||14||
mūtrāśayē pāyuni [6] muṣkayōśca śōphō rujō mūtravinigrahaśca |
śukrāśmarī tatsravaṇaṁ bhavēdvā tē tē vikārā vihatē tu śukrē ||15||
śukrajōdāvartalakṣaṇamāha- mūtrāśaya ityādi| mūtrāśayē bastau, pāyuni gudē, śōphaḥ śvayathuḥ; rujō’pi mūtrāśayādiṣvēva bhavanti| mūtravinigrahō mūtrāpravr̥ttiḥ| tatsravaṇaṁ śukrasravaṇaṁ, samānatantrapratyayāt| tē tē vikārā iti hr̥tpīḍāṅgamardādayaḥ śukravēgavighātajāḥ samānatantrōktāḥ||15||
tandrāṅgamardārucivibhramāḥ syuḥ [7] kṣudhō’bhighātāt kr̥śatā ca dr̥ṣṭēḥ |16|
kṣujjōdāvartalakṣaṇamāha- tandrētyādi| tandrā vaikārikī nidrā; aṅgamardaḥ aṅgōdvēṣṭanamiva vēdanā, sphuṭanikētyanyē; vibhramaḥ atyarthaṁ cakrārūḍhasyēva bhramaṇam| kr̥śatā ca dr̥ṣṭēḥ dr̥ṅmāndyam cakārāt daurbalyādayastantrāntarōktā grāhyāḥ|16|-
kaṇṭhāsyaśōṣaḥ śravaṇāvarōdhastr̥ṣṇābhighātaddhr̥dayē vyathā ca ||16||
tr̥ṣṇājōdāvartalakṣaṇamāha- kaṇṭhāsyaśōṣa ityādi| śravaṇāvarōdhō bādhiryam| cakārāt śramasvēdādayaḥ samānatantrōktāḥ||16||
śrāntasya niḥśvāsavinigrahēṇa hr̥drōgamōhāvathavā’pi gulmaḥ |17|
ucchvāsajōdāvartalakṣaṇamāha- śrāntasyētyādi| śrāntasya drutagamanādinā [8] khinnasya| śrāntasyētyanēnāśrāntasya śvāsadhāraṇādapi pīḍā na bhavatīti sūcyatē| mōhō vaicittyam|17|-
jr̥mbhā’ṅgamardō’ṅgaśirōkṣijāḍyaṁ nidrābhighātādathavā’pi tandrā ||17||
nidrājōdāvartalakṣaṇamāha- jr̥mbhētyādi| jāḍyaśabdō’ṅgādibhiḥ sambadhyatē; jāḍyam apāṭavaṁ, gauravamiti tātparyārthaḥ||17||
tr̥ṣṇārditaṁ parikliṣṭaṁ kṣīṇaṁ śūlairabhidrutam |
śakr̥dvamantaṁ matimānudāvartinamutsr̥jēt ||18||
parityājyōdāvartalakṣaṇamāha- tr̥ṣṇārditamityādi| parikliṣṭam atyarthamavasannaṁ, kriyārahitamiti yāvat; anyē samantatō bhāvēna klēśamupagataṁ parikliṣṭaṁ manyantē| abhidrutaṁ pīḍitam| utsr̥jēt parityajēt||18||
sarvēṣvētēṣu vidhivadudāvartēṣu kr̥tsnaśaḥ |
vāyōḥ kriyā vidhātavyāḥ svamārgapratipattayē ||19||
sāmānyataḥ pr̥thaktvēna kriyāṁ bhūyō nibōdha mē |20|
sarvadōdāvartēṣu vāyōḥ sadbhāvāt sāmānyēna vātaharīṁ kriyāmāha- sarvēṣvētēṣvityādi| vidhivat yathāvidhi| kr̥tsnaśaḥ sāmastyēna| kriyāḥ snēhasvēdādikāḥ| svamārgapratipattayē vāyōrātmamārgapravartanāya| sāmānyataḥ sāmānyēna| ‘sarvēṣu’ ityatra ‘navasu’ iti paṭhitvā vātajōdāvartādiṣu navasaṅkhyēṣu vāyōḥ kriyā vidhātavyēti vyākhyānayanti; tanna, bubhukṣōdbhavādiṣvapi caturṣūdāvartēṣu vāyōḥ sadbhāvādvātaharī kriyā kriyata [9] iti| pr̥thaktvēna kriyāmityādi| pr̥thaktvēna pratyēkam||19||
āsthāpanaṁ mārutajē snigdhasvinnē viśiṣyatē ||20||
āsthāpanamityādi| āsthāpanaṁ nirūhaḥ, taccānulōmikavātaharadravyakr̥tam| snigdhasvinnē ‘āturē’ iti śēṣaḥ| viśiṣyatē viśiṣṭaṁ bhavati, viśēṣēṇa kriyata iti tātparyārthaḥ||20||
purīṣajē tu kartavyō vidhirānāhikō bhavēt |21|
purīṣaja ityādi| ānāhikō vidhiḥ phalavartyādikō vātavyādhyuktō visūcyāṁ vakṣyamāṇō vā| tuśabdāt anuktamanyadapi parīṣānulōmanaṁ kartavyam|21|-
sauvarcalāḍhyāṁ madirāṁ mūtrē tvabhihatē pibēt ||21||
ēlāṁ vā’pyatha madyēna kṣīraṁ vā’pi pibēnnaraṁ |
dhātrīphalānāṁ svarasaṁ sajalaṁ vā pibēttryaham ||22||
rasamaśvapurīṣasya gardabhasyāthavā pibēt |
māṁsōpadaṁśaṁ madhu vā pibēdvā sīdhu gauḍikam ||23||
bhadradāru ghanaṁ mūrvā haridrā madhukaṁ tathā |
kōlapramāṇāni pibēdāntarikṣēṇa vāriṇā ||24||
duḥsparśāsvarasaṁ vā’pi kaṣāyaṁ kuṅkumasya ca |
ērvārubījaṁ tōyēna pibēdvā’lavaṇīkr̥tam ||25||
pañcamūlīśr̥taṁ kṣīraṁ drākṣārasamathāpi vā |26|
sauvarcalāḍhyāmityādi| sauvarcalāḍhyāṁ sauvarcalōtkaṭām| madirāṁ madyam| tuśabdāt sarpiṣō’vapīḍanādikaṁ samānatantrōktaṁ grāhyam| kiṁ madirāmēva pibēdathavā’nyadapītyāha- ēlāmityādi| dhātrīphalānāṁ svarasaṁ sajalaṁ vēti na kēvalaṁ dugdhaṁ pibēdāmalakarasaṁ sōdakaṁ pibēdityarthaḥ| ‘gardabhasya’ ityatrāpi ‘purīṣarasam’ iti sambadhyatē| māṁsōpadaṁśaṁ māṁsabhakṣaṇasahitaṁ, madhu madyam| tacca drākṣōdbhavaṁ, samānatantradarśanāt| tathā ca tadvacaḥ,- “drākṣōdbhavaṁ cāpi pibēnmadyaṁ māṁsōpadaṁśakam”- iti| gauḍikaṁ sīdhu guḍakr̥taṁ sasyakam; atrāpi māṁsōpadaṁśamiti sambadhyatē| bhadradārvityādi| bhadradāru dēvadāru| ghanaṁ mustā| mūrvā cōrasnāyuḥ| madhukaṁ yaṣṭīmadhu| kōlapramāṇāni ardhakarṣapramāṇāni| duḥsparśā durālabhā| ērvāruḥ grīṣmakarkaṭikā| alavaṇīkr̥tam īṣatsaindhavayuktam| pañcamūlī laghupañcamūlaṁ, samānatantrasaṁvādāt; tathā cōktam- “laghunā pañcamūlēna śr̥taṁ kṣīraṁ pibēnnaraḥ”- iti||21-25||-
yōgāṁśca vitarēdatra pūrvōktānaśmarībhidaḥ ||26||
mūtrakr̥cchrakramaṁ cāpi kuryānniravaśēṣataḥ |
bhūyō vakṣyāmi yōgān yān mūtrāghātōpaśāntayē ||27||
idānīṁ mūtrajōdāvartē aśmarīmūtrakr̥cchramūtrāghātacikitsitānyatidiśannāha- yōgāṁśca vitarēdityādi| vitarēt dadyāt| atra mūtrajōdāvartē| pūrvōktān ‘kuśaḥ kāśaḥ śaraḥ’ ityādinā’śmarīcikitsitōktān| bhūyaḥ atiśayēna| ‘vakṣyāmi yān yōgān’ ityatrāpi ‘tān kuryāt’ iti sambadhyatē||26-27||
snaihaiḥ svēdairudāvartaṁ jr̥mbhājaṁ samupācarēt |28|
jr̥mbhaṇajōdāvartacikitsitamāha- snēhairityādi| snēhaiḥ svēdairiti padadvayē’pi bahuvacanāccaturbhiḥ snēhaiścaturbhiśca svēdairityarthaḥ|28|-
aśrumōkṣō’śrujē kāryaḥ snigdhasvinnasya dēhinaḥ ||28||
aśrujōdāvartacikitsāmāha- aśrumōkṣa ityādi| aśrumōkṣaḥ aśruniḥsāraṇam| atra luptacakāranirdēśāttīkṣṇabhañjanādikaṁ vakṣyamāṇamatrāpi sambandhanīyam||28||
tīkṣṇāñjanāvapīḍābhyāṁ tīkṣṇagandhōpaśiṅghanaiḥ |
vartiprayōgairathavā kṣavasaktiṁ pravartayēt ||29||
(tīkṣṇauṣadhapradhamanairathavā”dityaraśmibhiḥ||) |
kṣavajōdāvartacikitsitamāha- tīkṣṇāñjanāvapīḍābhyāmityādi| tīkṣṇaśabdō’ñjanāvapīḍābhyāṁ saha sambadhyatē| avapīḍō nasyabhēdaḥ| tīkṣṇagandhōpaśiṅghanaiḥ maricādicūrṇāvaghrāṇaiḥ| vartiprayōgā dhūmavartiprayōgāḥ| atra luptādiśabdāt arkaraśmivilōkanādayō gr̥hyantē| tathā ca- “tīkṣṇadhūmāñjanāghrāṇanāvanārkavilōkanaiḥ| pravartayēt kṣutiṁ saktām”- ityādi| kṣavasaktiṁ chikkāyā apravartanam| kēcittīkṣṇāñjanāvapīḍābhyāmiti padamaśrujōdāvarta ēva manyantē na kṣavajē, anaupayikatvāttantrāntaravirōdhācca||29||-
udgārajē kramōpētaṁ snaihikaṁ dhūmamācarēt ||30||
surāṁ sauvarcalavatīṁ bījapūrarasānvitām |31|
udgārajē kramōpētamityādi| kramōpētaṁ dhūmanasyakavalagrahacikitsitōktakramasaṁyuktam| kimudgārajē snaihikaṁ dhūmamēvācarēdutānyadapītyāha- surāmityādi||30||-
chardyāghātaṁ yathādōṣaṁ samyak snēhādibhirjayēt ||31||
sakṣāralavaṇōpētamabhyaṅgaṁ cātra dāpayēt |32|
chardyāghātamityādi| chardyāghātaṁ chardyāghātajamudāvartaṁ, kāraṇēkāryōpacārāt| yathādōṣaṁ dōṣasyānatikramēṇa| ādiśabdāt vamanādayaḥ| sakṣāralavaṇōpētam īṣadyavakṣārasaindhavasaṁyuktaṁ; yadyapi tantrāntarē tailābhyaṅga uktastathā’pyatra vr̥ddhasampradāyāddhr̥tābhyaṅgaḥ kāryaḥ| cakārāt vyāyāmōpavāsādayō gr̥hyantē| ‘vamyāghātaṁ’ iti kēcit paṭhanti||31||
bastiśuddhikarāvāpaṁ caturguṇajalaṁ payaḥ ||32||
āvārināśāt kvathitaṁ pītavantaṁ prakāmataḥ |
ramayēyuḥ [10] priyā nāryaḥ śukrōdāvartinaṁ naram ||33||
bastiśuddhikarāvāpamityādi| bastiśuddhikarāvāpaṁ kūṣmāṇḍakatr̥ṇapañcamūlādiprakṣēpam| prakṣēpadravyapramāṇaṁ kṣīrāṣṭāṁśēna| payaḥ kṣīram| prakāmataḥ svēcchayā nāryaḥ śukrōdāvartinaṁ naraṁ ramayēyuḥ bhajēyuḥ| yadatra ramaṇē strīṇāṁ kartrītvēnābhidhānaṁ tat śukrōdāvartinō harṣādhikyasañjananārtham| priyā manōnukūlāḥ| luptacakārāt tāmracūḍādayastantrāntarōktā grāhyāḥ||32-33||
kṣudvighātē hitaṁ snigdhamuṣṇamalpaṁ ca bhōjanam |34|
kṣudvighātē hitamityādi| cakārāt laghvapi|34|-
tr̥ṣṇāghātē pibēnmanthaṁ yavāgūṁ vā’pi śītalām ||34||
tr̥ṣṇāghātē pibēnmanthamityādi| manthaḥ saghr̥taśītalajalaplutāḥ saktavaḥ| yavāgūratra pēyā| apiśabdāt śītalajalāvagāhapānādikaṁ grāhyam||34||
bhōjyō rasēna viśrāntaḥ śramaśvāsāturō naraḥ |35|
bhōjyō rasēnētyādi| bhōjyō bhōjayitavyaḥ rasēna māṁsarasēna|35|-
nidrāghātē pibēt kṣīraṁ svapyāccēṣṭakathā [11] naraḥ ||35||
nidrāghātē pibēt kṣīramityādi| kṣīraṁ gōkṣīraṁ na māhiṣaṁ, pradhānakalpanāśrayaṇāt samānatantradarśanācca| tathā ca tantrāntaram,- “nidrāghātē pibēt kṣīraṁ gōstanādathavā naraḥ”- iti| iṣṭakathā anukūlakathāḥ [12] , ‘śr̥ṇuyāt’ iti śēṣaḥ| ‘iṣṭakathārataḥ’ iti pāṭhāntaram| svapyāt nidrāṁ gacchēt||35||
ādhmānādyēṣu rōgēṣu yathāsvaṁ prayatēta hi |
yacca yatra bhavētprāptaṁ tacca tasmin prayōjayēt ||36||
udāvartacikitsitamabhidhāyēdānīṁ tadupadravacikitsitamāha- ādhmānādyēṣu rōgēṣvityādi| ādhmānādyēṣu vēgāvarōdhajātēṣu| ādiśabdāt śūlaparikartikāpurīṣasaṅgādīnāṁ grahaṇam| yathāsvaṁ yasyādhmānādēryadātmīyamauṣadhaṁ vātavyādhyādicikitsitōktaṁ tēna prayatēta prayatnaṁ kurvīta| anyadapyucitaṁ cikitsitamādhmānādiṣu kāryamityāha- yaccētyādi| yadauṣadhaṁ yasmin ādhmānādau prāptaṁ yuktam||36||
vāyuḥ kōṣṭhānugō rūkṣaiḥ kaṣāyakaṭutiktakaiḥ |
bhōjanaiḥ kupitaḥ sadya udāvartaṁ karōti hi ||37||
vātamūtrapurīṣāsr̥kkaphamēdōvahāni vai |
srōtāṁsyudāvartayati purīṣaṁ cātivartayēt ||38||
tatō hr̥dbastiśūlārtō gauravārucipīḍitaḥ |
vātamūtrapurīṣāṇi kr̥cchrēṇa kurutē naraḥ ||39||
śvāsakāsapratiśyāyadāhamōhavamijvarān |
tr̥ṣṇāhikkāśirōrōgamanaḥśravaṇavibhramān ||40||
labhatē ca bahūnanyān vikārān vātakōpajān |41|
‘apathyabhōjanāccāpi vakṣyatē ca tathā’paraḥ’ iti yaduktaṁ tasyāvasaraḥ- vāyurityādi| kōṣṭhānugō vāyuratra apānaḥ, samānatantradarśanāt| tasya lakṣaṇamāha- vātētyādi| udāvartayati ūrdhvāmāvartayati, adhōvahāni srōtāṁsyūrdhvavahāni karōtītyarthaḥ| purīṣaṁ cātivartayēditi, uṣṭrādipurīṣavat kaṭhinaṁ kuryādityarthaḥ| tataḥ tasmāddhētōḥ| vibhramō vyāpadviśēṣaḥ| anyān ādhmānapratyādhmānādīn||37-40||-
taṁ tailalavaṇābhyaktaṁ snigdhaṁ svinnaṁ nirūhayēt ||41||
dōṣatō bhinnavarcaskaṁ bhuktaṁ cāpyanuvāsayēt |42|
tasya cikitsitamāha- taṁ tailētyādi| tam udāvartinam| dōṣata ityādi| bhinnavarcaskaṁ nirūhabhinnapurīṣaṁ puruṣaṁ dōṣamapēkṣya bhuktavantamanuvāsayēditi sambandhaḥ| kēcidatrānuvāsanaṁ niruhātiyōgavyāpatpraśamanārthaṁ manyantē; tanna, samānatantravirōdhāt; tathā ca,- “udāvartē tvapathyōtthē sunirūḍhaṁ tatō bhiṣak| yathādōṣaṁ bhuktavantamāśu caivānuvāsayēt”- iti| kēcit ‘bhinnavarcaskaṁ’ ityatra ‘bhinnavarcāṁsi’ iti paṭhitvā anulōmanīyāni bhuktavantamiti vyākhyānayanti||41||-
na cēcchāntiṁ vrajatyēvamudāvartaḥ sudāruṇaḥ ||42||
athainaṁ bahuśaḥ svinnaṁ yuñjyāt snēhavirēcanaiḥ |43|
nirūhānuvāsanābhyāmapyapraśāmyatyudāvartē cikitsitamāha- na cēcchāntimityādi| ēvaṁ pūrvōktavidhinā| ēnam udāvartinam| svinnaṁ snigdhasvinnam, ādilōpāt| snēhavirēcanairēraṇḍatailādibhiḥ||42||-
pāyayēta trivr̥tpīluyavānīramlapācanaiḥ ||43||
hiṅgukuṣṭhavacāsvarjiviḍaṅgaṁ vā dviruttaram |
yōgāvētāvudāvartaṁ śūlaṁ cānilajaṁ [13] hataḥ ||44||
apathyajōdāvartē yōgadvayamāha- pāyayētētyādi| pīluḥ uṣṭrapriyō guḍaphalaḥ, bhādānakē ‘pīlu’ iti prasiddhaḥ| amlapācanaiḥ amlaṁ kāñjikaṁ, pācanāni citrakādīni, taiḥ saha pāyayēdityarthaḥ| trivr̥dādiḥ ēkō yōgaḥ, hiṅgvādistu dvitīyaḥ| svarjī svarjikākṣāraḥ| dviruttaramiti ādyācca dravyāduttarōttaraṁ dravyaṁ dviguṇaṁ grāhyam| dviruttaramiti padaṁ na pūrvayōgē sambandhanīyaṁ, ‘dviruttarā hiṅguvacā sakuṣṭhā’ ityādinā tantrāntarē darśitatvāt| yavānīrityatra yavāgūmiti kēcit paṭhanti| aparē ‘amlapācanaiḥ’ ityatra ‘amlapānakaiḥ’ iti paṭhitvā amladravairiti vyākhyānayanti||43-44||
dēvadārvagnikau kuṣṭhaṁ śuṇṭhīṁ [14] pathyāṁ palaṅkaṣām |
pauṣkarāṇi ca mūlāni tōyasyardhāḍhakē pacēt ||45||
pādāvaśiṣṭaṁ tat pītamudāvartamapōhati |46|
dēvadārvagnikāvityādi| agnikaḥ ajamōdā| pathyā harītakī| palaṅkaṣā gugguluḥ| ardhāḍhakaṁ dvātriṁśatpalāni, pādāvaśiṣṭam aṣṭapalapramitaṁ, vr̥ddhavaidyavyavahārāttantrāntaradarśanācca| tathā ca tantrāntarē uktam,- “kuṣṭhaṁ palaṅkaṣāṁ pathyāṁ śuṇṭhīṁ dārvagnipuṣkaram| dvātriṁśatā tōyapalaiḥ paktvā pādāvaśēṣitam| pāyayēt”- ityādi| yadyapi ‘kvāthasyāñjaliriṣyatē’ iti paribhāṣā vidyatē, tathā’pi mānānuktau paribhāṣāśrayaṇaṁ na punaruktē mānē| kēcidardhāḍhakaṁ catuḥṣaṣṭipalāni manyantē, tē ca ṣōḍaśapalōnmitaṁ kvāthaṁ pāyayanti; aparē kvāthabāhulyāt kramaśaḥ kvāthapānamicchanti na punarēkasminnēva divasē; tanna, samānatantravirōdhāt||45||-
mūlakaṁ śuṣkamārdraṁ ca varṣābhūḥ pañcamūlakam ||46||
ārēvataphalaṁ cāpsu paktvā tēna ghr̥taṁ pacēt |
tat pīyamānaṁ śāstyugramudāvartamaśēṣataḥ [15] ||47||
udāvartē pānārthaṁ ghr̥tamāha- mūlakamityādi| śuṣkamiti mūlārdrakayōrviśēṣaṇam| varṣābhūḥ punarnavā| pañcamūlakaṁ bilvādipañcamūlam| ārēvataphalaṁ girimālakaphalam| paktvēti kvāthapākaparibhāṣayā| tēna kvāthēna| śāsti hantītyarthaḥ||46-47||
vacāmativiṣāṁ kuṣṭhaṁ yavakṣāraṁ harītakīm |
kr̥ṣṇāṁ nirdahanīṁ cāpi pibēduṣṇēna vāriṇā ||48||
vacāmativiṣāmityādi| nirdahanī agnimanthaḥ, gaṇikārikētyanyē||48||
ikṣvākumūlaṁ madanaṁ viśalyātiviṣē vacām |
kuṣṭhaṁ kiṇvāgnikau caiva pibēttulyāni pūrvavat ||49||
mūtrēṇa dēvadārvagnitriphalābr̥hatīḥ pibēt |50|
ikṣvākumūlamityādi| ikṣvākuḥ kaṭutumbī| viśalyā kāṣṭhapāṭalā, indravāruṇītyanyē| kiṇvaṁ surābījaṁ; agnikaḥ ajamōdā| pūrvavaditi uṣṇōdakēnētyarthaḥ| mūtrēṇa gōmūtrēṇa| agniḥ citrakaḥ||49||
yavaprasthaṁ phalaiḥ sārdhaṁ kaṇṭakāryā jalāḍhakē ||50||
paktvā’rdhaprasthaśēṣaṁ tu pibēddhiṅgusamanvitam |51|
yavaprasthamityādi| kaṇṭakārīphalayavayōḥ samuditēna samabhāgēna prasthaṁ ṣōḍaśapalāni| jalāḍhakaṁ tōyasya catuḥṣaṣṭipalāni, vr̥ddhavaidyavyavahārādatra tōyadvaiguṇyaparibhāṣā nādriyatē| ardhaprasthaśēṣam aṣṭau palāni| atra kvāthasyāṣṭau palāni bahutvāt kathaṁ pātavyānīti nāśaṅkanīyaṁ, “r̥ṣayastvēva jānanti drvyasaṁyōgajaṁ [16] phalam”- ityuktēḥ| yē tu pūrvōktadēvadārvādipānavadatrāpi tōyasya mānādhikyamicchanti, tē kaṇṭakāriphalānyapi prasthapramitāni gr̥hṇanti| kēcit ‘yavaprasthaṁ palē dvē ca kaṇṭakāryā’ iti paṭhanti||50||-
madanālābubījāni pippalīṁ sanidigdhikām ||51||
sañcūrṇya pradhamēnnāḍyā viśatyētadyathā gudam |52|
madanālābubījānītyādi| madanaṁ madanaphalaṁ, tasya bījāni vaitaraṇasaṁvādāt| tathā ca tadvacaḥ,- “madanālābunōrbījaṁ kaṇṭakārīkaṇānvitam”- ityādi| nidigdhikā kaṇṭakārī| ētāni sañcūrṇya nāḍyā pradhamēt mukhādivāyunā kr̥tvā gudē prērayēt||51||-
cūrṇaṁ nikumbhakampillaśyāmēkṣvākvagnikōdbhavam ||52||
kr̥tavēdhanamāgadhyōrlavaṇānāṁ ca sādhayēt |
gavāṁ mūtrēṇa tā vartīḥ kārayēttu gudānugāḥ |
sadyaḥ śarmakarāvētau yōgāvamr̥tasammatau ||53||
cūrṇamityādi| nikumbhō dantīvr̥kṣaḥ, kampillaḥ rōcanikā, śyāmā aruṇamūlā trivr̥t, ikṣvākuḥ kaṭutumbī, agnikaḥ ajamōdā, kr̥tavēdhanaṁ kōśātakībhēdaḥ, māgadhī pippalī, lavaṇāni saindhavādīni, gudānugā gudapravēśayōgyapramāṇā| śarmakarau sukhakarau| ētau yōgāviti madanādicūrṇapradhamanayōgavartiyōgau| amr̥tasammitau amr̥tatulyau, jīvanīyātmakatvāt| vartikalpanāṁ kathayati- nikumbhādīnāṁ cūrṇaṁ gōmūtrēṇa paktvā ghanē śītībhūtē ca sati vartīḥ kārayēt||52-53||
iti suśrutasaṁhitāyāmuttaratantrāntargatē kāyacikitsātēntrē udāvartapratiṣēdhō nāma
(saptadaśō’dhyāyaḥ, āditaḥ) pañcapañcāśattamō’dhyāyaḥ ||55||
iti śrīḍalha(hla)ṇaviracitāyāṁ nibandhasaṅgrahākhyāyāṁ suśrutavyākhyāyāmuttaratantrē udāvartapratiṣēdhō nāma pañcapañcāśattamō’dhyāyaḥ||55||
1. `prāptagrahaṇamadhikaṁ sat kēṣāñcit’ iti pā.|
2. `jitēndriyaḥ’ iti pā.|
3. vaṅkṣaṇamuṣkayōśca’ iti pā.|
4. `ānaddhabastēḥ’ iti pā.|
5. `viddhaśarīrasya’ iti pā.|
6. `vā gudamuṣkayōśca’ iti pā.|
7. `tandrāṅgamardāvaruciḥ śramaśca’ iti pā.|
8. `dhāvanādinā’ iti pā.|
9. `vidhātavyā’ iti pā.|
10. ramayēran’ iti pā.|
11. `svapyāccēṣṭakathārataḥ’ iti pā.|
12. `anuraktajanakathāḥ’ iti pā.|
13. `cāpi niyacchataḥ’ iti pā.|
14. `vacāṁ’ iti pā.|
15. `śamayēdudāvartamaśēṣataḥ’ iti pā.|
16. `yōgasaṁyōgajaṁ’ iti pā.|